क्अ इइइ,३६५।२२-३६६।११ रो व्,३००-३०२ किम् पुनः इदम् वीप्सायाम् सर्वम् अभिधीयते आहोस्वित् एकम् । कः च अत्र विशेषः । वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः । वीप्सायाम् सर्वाभिधाने वचनम् न सिध्यति । ग्रामः ग्रामः । जनपदः जनपदः । बहवः ते अर्थाः तत्र बहुषुबहुवचनम् इति बहुवचनम् प्राप्नोति । अस्तु तर्हि एकम् । एकाभिधाने असर्वद्रव्यगतिः । एकाभिधाने सर्वद्रव्यगतिः न सिध्यति । अस्तु तर्हि सर्वम् । ननु च उक्तम् वीप्सायाम् सर्वाभिधाने वचनाप्रसिद्धिः इति । न वा पदार्थत्वात् । न वा एषः दोषः । किम् कारणम् । पदार्थत्वात् । पदस्य अर्थः वीप्सा । सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् । यत् तर्हि प्रातिपदिकम् : दृषत् दृषत् समित् समित् इति । एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् । अपर आह । न वा पदार्थत्वात् । न वा एषः दोषः । किम् कारणम् । पदार्थत्वात् । पदस्य अर्थः वीप्सा सुबन्तम् च पदम् ङ्याप्प्रातिपदिकात् च एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते न च एतत् प्रातिपदिकम् । यत् तर्हि प्रातिपदिकम् । दृषत् दृषत् समित् समित् इति । एतत् अपि प्रत्ययलक्षणेन सुबन्तम् न प्रातिपदिकम् ।
KA III,365.22-366.11 Ro V,300-302 kim punaḥ idam vīpsāyām sarvam abhidhīyate āhosvit ekam . kaḥ ca atra viśeṣaḥ . vīpsāyām sarvābhidhāne vacanāprasiddhiḥ . vīpsāyām sarvābhidhāne vacanam na sidhyati . grāmaḥ grāmaḥ . janapadaḥ janapadaḥ . bahavaḥ te arthāḥ tatra bahuṣubahuvacanam iti bahuvacanam prāpnoti . astu tarhi ekam . ekābhidhāne asarvadravyagatiḥ . ekābhidhāne sarvadravyagatiḥ na sidhyati . astu tarhi sarvam . nanu ca uktam vīpsāyām sarvābhidhāne vacanāprasiddhiḥ iti . na vā padārthatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . padārthatvāt . padasya arthaḥ vīpsā . subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . yat tarhi prātipadikam : dṛṣat dṛṣat samit samit iti . etat api pratyayalakṣaṇena subantam na prātipadikam . apara āha . na vā padārthatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . padārthatvāt . padasya arthaḥ vīpsā subantam ca padam ṅyāpprātipadikāt ca ekatvādiṣu artheṣu svādayaḥ vidhīyante na ca etat prātipadikam . yat tarhi prātipadikam . dṛṣat dṛṣat samit samit iti . etat api pratyayalakṣaṇena subantam na prātipadikam .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.