क्अ इइइ,४१५।११-४१६।६ रो व्,४१४-४१६ वाक्याधिकारः किमर्थः । वाक्याधिकारः पदनिवृत्त्यर्थः । वाक्याधिकारः क्रियते पदनिवृत्त्यर्थः । पदाधिकारः निवर्त्यते । न हि काकः वाश्यते इति अधिकाराः निवर्तन्ते । दोषः खलु अपि स्यात् यदि वाक्याधिकारः पदाधिकारम् निवर्तयेत् । इष्यन्ते एव उत्तरत्र पदकार्याणि तानि न सिध्यन्ति । नश्छव्यप्रशान् इति । पदनिवृत्त्यर्थम् इति न एवम् विज्ञायते पदस्य निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति । किम् तर्हि। पदे निवृत्त्यर्थम् पदनिवृत्त्यर्थम् इति । वाक्ये यावन्ति पदानि तेषाम् सर्वेषाम् टेः प्लुतः प्राप्नोति । इष्यते च वाक्यपदयोः अन्त्यस्य स्यात् इति तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थः वाक्याधिकारः । अथ टिग्रहणम् किमर्थम् । टिग्रहणम् अलः अन्त्यनियमे व्यञ्जनान्तार्थम् । टिग्रहणम् क्रियते अलः अन्त्यनियमे व्यञ्जनान्तस्य अपि यथा स्यात् । अग्निचि३त् सोमसु३त् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । सर्वादेशप्रसङ्गः तु । सर्वादेशः तु टेः प्लुतः प्राप्नोति । किम् कारणम् । अचः इति वचनात् अन्त्यस्य न अन्त्यस्य इति वचनात् अचः न उच्यते च प्लुतः सः सर्वादेशः प्राप्नोति । उक्तम् वा । किम् उक्तम् । ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति ।
KA III,415.11-416.6 Ro V,414-416 vākyādhikāraḥ kimarthaḥ . vākyādhikāraḥ padanivṛttyarthaḥ . vākyādhikāraḥ kriyate padanivṛttyarthaḥ . padādhikāraḥ nivartyate . na hi kākaḥ vāśyate iti adhikārāḥ nivartante . doṣaḥ khalu api syāt yadi vākyādhikāraḥ padādhikāram nivartayet . iṣyante eva uttaratra padakāryāṇi tāni na sidhyanti . naśchavyapraśān iti . padanivṛttyartham iti na evam vijñāyate padasya nivṛttyartham padanivṛttyartham iti . kim tarhi. pade nivṛttyartham padanivṛttyartham iti . vākye yāvanti padāni teṣām sarveṣām ṭeḥ plutaḥ prāpnoti . iṣyate ca vākyapadayoḥ antyasya syāt iti tat ca antareṇa yatnam na sidhyati iti evamarthaḥ vākyādhikāraḥ . atha ṭigrahaṇam kimartham . ṭigrahaṇam alaḥ antyaniyame vyañjanāntārtham . ṭigrahaṇam kriyate alaḥ antyaniyame vyañjanāntasya api yathā syāt . agnici3t somasu3t . asti prayojanam etat . kim tarhi iti . sarvādeśaprasaṅgaḥ tu . sarvādeśaḥ tu ṭeḥ plutaḥ prāpnoti . kim kāraṇam . acaḥ iti vacanāt antyasya na antyasya iti vacanāt acaḥ na ucyate ca plutaḥ saḥ sarvādeśaḥ prāpnoti . uktam vā . kim uktam . hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.