क्अ इइइ,४१६।७-१५ रो व्,४१६-४१७ अशूद्रे इति किमर्थम् । कुशली असि तुषजक । अत्यल्पम् इदम् उच्यते : असूद्रे इति । अशूद्रस्त्र्यसूयकेषु । अशूद्रस्त्र्यसूयकेषु इति वक्तव्यम् । तत्र शूद्रे उदाहृतम् । स्त्रियाम् : गार्गी अहम् , भोः आयुष्मती भव गार्गि । असूयके : स्थाली अहम् , भोः आयुष्मान् एधि स्थालि३न् । न एषा मम सञ्ज्ञा स्थाली इति । किम् तर्हि दण्डिन्यायः मम विवक्षितः । सः वक्तव्यः । स्थाली अहम् भोः आयुष्मान् एधि स्थालिन् । न मम दण्डिन्यायः विवक्षितः । किम् तर्हि सञ्ज्ञा मम एषा । असूयकः त्वम् असि जाल्म न त्वम् प्रत्यभिवादम् अर्हसि भिद्यस्व वृषल स्थालिन् ।
KA III,416.7-15 Ro V,416-417 aśūdre iti kimartham . kuśalī asi tuṣajaka . atyalpam idam ucyate : asūdre iti . aśūdrastryasūyakeṣu . aśūdrastryasūyakeṣu iti vaktavyam . tatra śūdre udāhṛtam . striyām : gārgī aham , bhoḥ āyuṣmatī bhava gārgi . asūyake : sthālī aham , bhoḥ āyuṣmān edhi sthāli3n . na eṣā mama sañjñā sthālī iti . kim tarhi daṇḍinyāyaḥ mama vivakṣitaḥ . saḥ vaktavyaḥ . sthālī aham bhoḥ āyuṣmān edhi sthālin . na mama daṇḍinyāyaḥ vivakṣitaḥ . kim tarhi sañjñā mama eṣā . asūyakaḥ tvam asi jālma na tvam pratyabhivādam arhasi bhidyasva vṛṣala sthālin .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.