क्अ इइइ,४३२।८-२३ रो व्,४५३-४५४ सः अपदादौ अनव्ययस्य । सः अपदादौ अनव्ययस्य इति वक्तव्यम् । इह मा भूत् । प्रातःकल्पम् पुनःकल्पम् । रोः काम्ये नियमार्थम् । रोः काम्ये इति वक्तव्यम् । किम् प्रयोजनम् । नियमार्थम् । रोः एव काम्ये न अन्यस्य । पयस्काम्यति । क्व मा भूत् । गीःकाम्यति पूःकाम्यति । उपध्मानीयस्य च सत्वम् वक्तव्यम् । किम् प्रयोजनम् । अयम् उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत् रूपम् यथा स्यात् । यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनम् प्राप्नोति । दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति । यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति । असिद्धे भः उद्जेः । इदम् अस्ति स्तोःश्चुनाश्चुः । ततः वक्ष्यामि । भः उद्जेः । उद्जेः च श्चुना सन्निपाते भः भवति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । निपातनात् एतत् सिद्धम् । किम् निपातनम् । भुजन्युब्जौपाण्युपतापयोः इति । इह अपि प्राप्नोति । अभ्युद्गः समुद्गः । अकुत्वविषये निपातनम् । अथ वा न एतत् उब्जेः रूपम् । किम् तर्हि गमेः द्व्युपसर्गात् डः विधीयते । अभ्युद्गतः अभ्युद्गः । समुद्गतः समुद्गः ।
KA III,432.8-23 Ro V,453-454 saḥ apadādau anavyayasya . saḥ apadādau anavyayasya iti vaktavyam . iha mā bhūt . prātaḥkalpam punaḥkalpam . roḥ kāmye niyamārtham . roḥ kāmye iti vaktavyam . kim prayojanam . niyamārtham . roḥ eva kāmye na anyasya . payaskāmyati . kva mā bhūt . gīḥkāmyati pūḥkāmyati . upadhmānīyasya ca satvam vaktavyam . kim prayojanam . ayam ubjiḥ upadhmānīyopadhaḥ paṭhyate tasya satve kṛte jaśbhāve ca abhyudgaḥ samudgaḥ iti etat rūpam yathā syāt . yadi upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyasya dvirvacanam prāpnoti . dakāropadhe punaḥ sati nandrāḥsaṃyogādayaḥ iti pratiṣedhaḥ siddhaḥ bhavati . yadi dakāropadhaḥ paṭhyate kā rūpasiddhiḥ : ubjitā ubjitum iti . asiddhe bhaḥ udjeḥ . idam asti stoḥścunāścuḥ . tataḥ vakṣyāmi . bhaḥ udjeḥ . udjeḥ ca ścunā sannipāte bhaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . nipātanāt etat siddham . kim nipātanam . bhujanyubjaupāṇyupatāpayoḥ iti . iha api prāpnoti . abhyudgaḥ samudgaḥ . akutvaviṣaye nipātanam . atha vā na etat ubjeḥ rūpam . kim tarhi gameḥ dvyupasargāt ḍaḥ vidhīyate . abhyudgataḥ abhyudgaḥ . samudgataḥ samudgaḥ .
Devanagari rendered by HREEM from the edition's roman (IAST) text; the IAST is the edition's own.
Sanskrit only: no published translation is held for this verse.