Library·Śāstradīpikā (Jaimini's Mīmāṃsāsūtra 1,1.1-23)·1

Śāstradīpikā (Jaimini's Mīmāṃsāsūtra 1,1.1-23) 1

शास्त्रदीपिका । प्रथमाध्याये प्रथमस्तर्कपादः । लक्ष्मीकौस्तुभवक्षसं मुररिपुं शङ्खासिकौमोदकीहस्तं पद्मपलाशताम्रनयनं पीताम्बर शार्ङ्गिणम् । मेधश्याममुदारपीवरचतुर्बाहुं प्रधानात्परं श्रीवत्साङ्कमनाथनाथममृतं वन्दे मुकुन्दं मुदा ॥१ ॥ न्यायाभासतमश्छन्नशास्त्रतत्त्वार्थदर्शिकाम् । कुमारिलमतेनाहं करिष्ये शास्त्रदीपिकाम् ॥२ ॥ अथातो धर्मजिज्ञासा

śāstradīpikā / prathamādhyāye prathamastarkapādaḥ / lakṣmīkaustubhavakṣasaṃ muraripuṃ śaṅkhāsikaumodakīhastaṃ padmapalāśatāmranayanaṃ pītāmbara śārṅgiṇam / medhaśyāmamudārapīvaracaturbāhuṃ pradhānātparaṃ śrīvatsāṅkamanāthanāthamamṛtaṃ vande mukundaṃ mudā //1 // nyāyābhāsatamaśchannaśāstratattvārthadarśikām / kumārilamatenāhaṃ kariṣye śāstradīpikām //2 // athāto dharmajijñāsā

Sanskrit only: no published translation is held for this verse.

यथैव ह्यध्ययनस्याचार्यकसिद्धिप्रयोजनतामनाहृत्य वेदमधीत्य स्नायाद्ऽ इति स्मृतिं बाधित्वान्तरङ्गत्वादर्थज्ञानार्थतैवाश्रीयते, तथोपनयनस्याप्यध्ययनार्थता वेदितव्या । व्याकरणादपि पाणिनीयादध्ययनाङ्गतैवोपनयनस्यानगम्यते । अध्ययनाङ्गता हि स्मरन्नाचार्यकरणे नयतेरात्मनेपदं विधत्ते, अध्यापनाङ्गत्वे हि कर्त्रभिप्रायत्वात्क्रियाफलस्य त्रित्वादेवात्मनेपदं सिध्येत् । ऽउपनीय तु यः शिष्यम्ऽ इति क्त्वाप्रत्ययो हि कथञ्चित् ऽदर्शपूर्णमासाभ्यामिष्ट्वेतिवदसत्यप्यङ्गाङ्गिभावे ऽवकल्प्यते पुनर्विधानं चात्मनेपदस्यात्यन्तानर्थकम्, तस्मादध्ययनाङ्गमुपनयनं स्यात्* ॥॥ न स्यात् । तज्जन्यः संस्कारो हि माणवकसमवायी । सत्यम्, माणवकसमवेतो ऽपि न तदर्थः, कर्त्रर्थत्वं च फलस्य कर्त्रभिप्रायत्वं नतु तत्समवायः, अन्यथाहि ऽअग्नीनादधीतेत्यात्मनेपदं न स्यात् आधानफलस्याहवनीयत्वादेरग्निसमवेतत्वेन कर्तृसमवायाभावात् । इयं च स्मृतिः ऽउपनीय तु यः शिष्यम्ऽ इति, अतो बलीयसी द्वितीया श्रुतिः, तस्मान्नाध्यापनाङ्गमुपनयनमिति न तद्द्वारेणाध्यापनस्य प्रयुक्तिः ॥ प्राभाकरमतखण्डनम् । यच्च ऽउपनीतस्य व्यापारापेक्षायामुपनयनं प्रक्रम्य विहितमध्ययनं तद्व्यापारत्वेनाध्यवसीयतऽ इति, तदप्यबुद्धिपूर्वकम् एवं हि वदताध्यापनाङ्गमध्ययनमित्युपपादितं भवति । यदाह्यध्यापनार्थत्वेनोपनीतस्य माणवकस्य तदुपयोगिव्यापारापेक्षायामध्ययनविधिरध्ययनं तदुपयोगिव्यापारतया विधत्ते त्रैवर्णिकैरुपनीतैरध्यापनौपयिकव्यापारापेक्षैरध्ययनव्यापारः कर्तव्य इति तदापि स्पष्टमेवाध्ययनमर्थज्ञानार्थतया विधत्ते नाध्यापनौपयिकतया, तदाह्यध्ययनस्य तदौपयिकत्वं केन प्रमाणेन गम्यते, नह्यत्र प्रत्यक्षादीनि क्रमन्ते । संनिधानादिति चेत्, न संनिधानं नाम स्वयं प्रमाणं शब्दस्य त्वर्थं प्रतिपादयतः संनिध्यपेक्षायोग्यत्वानीतिकर्मतव्यता नेत्रस्येवोन्मीलनम् । शब्दश्चेदध्यापनौपयिकतया विदध्यात् नार्थज्ञानार्थता सिध्येत् । अतो नोपनयनसंनिधौ ऽस्वाध्यायो ऽध्येतव्यऽ इति विहितस्याध्ययनस्योपनयनद्वाराध्यापनविधिना प्रयुक्तिसंभवः* ॥॥ यदि परमध्यापनस्याध्ययनमन्तरेणासंभवात्तदर्थाध्ययनमाक्षिप्यते, तथासत्यविहितेन लौकिकेनाध्ययनेन तत्संभवान्न विहितस्याध्ययनस्य नियोगतस्तत्प्रयुक्तिः । नच प्रयुक्तिलाघवादपि विहितोपजीवनम् । तदुपजीवने ऽपि प्रयुक्त्यनवलोपात् । विहितमप्यध्ययनमध्यापनविधिनैव त्वन्मते प्रयुज्यते न स्वविधिना । तस्माल्लौकिकमेवाध्ययनमुपनीतानामध्यापनविधिराक्षिपेत् । विधिविहितमध्ययनं परप्रयुक्त्यभावादधिकारं प्रकल्पयेत्* ॥॥ किञ्च यद्युपनयनमध्यापनाङ्गं ततो ऽध्ययनविधिरर्थज्ञानार्थः सन्नाध्यापनार्थतयोपनीतैस्त्रैवर्णिकैः संबध्येत, ये ऽध्यापनार्थतयोपनीतस्त्रैवर्णिकास्तदुपयोगिव्यापारमपेक्षन्ते ते ऽर्थज्ञानार्थमधीयीरन्-इत्यसंबद्धमेव स्यात् । ततश्चोपनीतैरसंबध्यमानो ऽध्ययनविधिश्चतुर्णामपि वर्णानां स्यादिति शूद्राधिकारप्रसङ्गः । तस्मादुपनीतानां प्रयोजनापेक्षिणामध्ययनकरणिकार्थज्ञानभावना विधीयत इत्यध्ययनाङ्गमेवोपनयनं, स्वविधिप्रयुक्तं चाध्ययनम् । प्रपञ्चेनायं पक्षोन्यायरत्नमालायामेव निरस्त इत्यपरम्यते । तस्मात्पूर्वोक्त एव विचारः किमदृष्टार्थमध्ययनमुताक्षरग्रहणादिपरम्परयार्थज्ञानार्थमिति ॥ अध्ययनविध्युपसंहारः । अथवा नात्र किञ्चिद्विचार्येत, नावमिकन्यायेनैवाध्ययनस्याक्षरसंस्कारादिपरम्परयार्थज्ञानार्थत्वसिद्धेः । नवमे हि- साम्नामृगक्षराभिव्यक्तिद्वारेण स्तुत्युपयोगित्वदर्शनात्तादर्थ्यमेव नादृष्टार्थत्वमिति वक्ष्यते । तेनैव न्यायेनाध्ययनस्यार्थज्ञानार्थत्वसिद्धेरध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति सिद्धमेवैतत्प्रयोजनविवक्षया सूत्रकारेणोच्यते । यदाहुः- "धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम्" इति । नन्वत्र कश्चिद्वेदवाक्यार्थो विचार्यते । तदप्याहुः--"नचात्र चोदनाव्याख्या गौरवं तत्र चोदितम्" इति तत्सिद्धमध्ययनानन्तरं धर्मजिज्ञासा कर्तव्येति । सा चतुर्विधा- धर्मस्वरूप प्रमाण साधन फलैः ॥ नन्वध्ययनविधिना वेदवाक्यार्थविचारमात्राक्षेपाद्धर्मस्वरूपप्रमाणजिज्ञासयोः कः प्रसङ्गः । उच्यते- उपोद्धातत्वात्प्रसङ्गः । यदि हि वेदवाक्यार्थो धर्मः स्याद्वेदश्च प्रमाणं ततो ऽसौ विचारः कर्तव्यो भवति । इतरथा काकदन्तपरीक्षावत्स्यात्, तदध्ययनविधिरेव प्रमाणादिविचारमाक्षिपति । धर्मग्रहणं चोपलक्षणार्थम्- अधर्मस्यापि हानाय जिज्ञास्यत्वात् । अकारप्रश्लेषणे वा सूत्रमधर्मजिज्ञासायामपि व्याख्येयमिति निरवद्यम् ॥ चोदनालक्षणो ऽर्थो धर्मः

yathaiva hyadhyayanasyācāryakasiddhiprayojanatāmanāhṛtya vedamadhītya snāyād' iti smṛtiṃ bādhitvāntaraṅgatvādarthajñānārthataivāśrīyate, tathopanayanasyāpyadhyayanārthatā veditavyā / vyākaraṇādapi pāṇinīyādadhyayanāṅgataivopanayanasyānagamyate / adhyayanāṅgatā hi smarannācāryakaraṇe nayaterātmanepadaṃ vidhatte, adhyāpanāṅgatve hi kartrabhiprāyatvātkriyāphalasya tritvādevātmanepadaṃ sidhyet / 'upanīya tu yaḥ śiṣyam' iti ktvāpratyayo hi kathañcit 'darśapūrṇamāsābhyāmiṣṭvetivadasatyapyaṅgāṅgibhāve 'vakalpyate punarvidhānaṃ cātmanepadasyātyantānarthakam, tasmādadhyayanāṅgamupanayanaṃ syāt* //// na syāt / tajjanyaḥ saṃskāro hi māṇavakasamavāyī / satyam, māṇavakasamaveto 'pi na tadarthaḥ, kartrarthatvaṃ ca phalasya kartrabhiprāyatvaṃ natu tatsamavāyaḥ, anyathāhi 'agnīnādadhītetyātmanepadaṃ na syāt ādhānaphalasyāhavanīyatvāderagnisamavetatvena kartṛsamavāyābhāvāt / iyaṃ ca smṛtiḥ 'upanīya tu yaḥ śiṣyam' iti, ato balīyasī dvitīyā śrutiḥ, tasmānnādhyāpanāṅgamupanayanamiti na taddvāreṇādhyāpanasya prayuktiḥ // prābhākaramatakhaṇḍanam / yacca 'upanītasya vyāpārāpekṣāyāmupanayanaṃ prakramya vihitamadhyayanaṃ tadvyāpāratvenādhyavasīyata' iti, tadapyabuddhipūrvakam evaṃ hi vadatādhyāpanāṅgamadhyayanamityupapāditaṃ bhavati / yadāhyadhyāpanārthatvenopanītasya māṇavakasya tadupayogivyāpārāpekṣāyāmadhyayanavidhiradhyayanaṃ tadupayogivyāpāratayā vidhatte traivarṇikairupanītairadhyāpanaupayikavyāpārāpekṣairadhyayanavyāpāraḥ kartavya iti tadāpi spaṣṭamevādhyayanamarthajñānārthatayā vidhatte nādhyāpanaupayikatayā, tadāhyadhyayanasya tadaupayikatvaṃ kena pramāṇena gamyate, nahyatra pratyakṣādīni kramante / saṃnidhānāditi cet, na saṃnidhānaṃ nāma svayaṃ pramāṇaṃ śabdasya tvarthaṃ pratipādayataḥ saṃnidhyapekṣāyogyatvānītikarmatavyatā netrasyevonmīlanam / śabdaścedadhyāpanaupayikatayā vidadhyāt nārthajñānārthatā sidhyet / ato nopanayanasaṃnidhau 'svādhyāyo 'dhyetavya' iti vihitasyādhyayanasyopanayanadvārādhyāpanavidhinā prayuktisaṃbhavaḥ* //// yadi paramadhyāpanasyādhyayanamantareṇāsaṃbhavāttadarthādhyayanamākṣipyate, tathāsatyavihitena laukikenādhyayanena tatsaṃbhavānna vihitasyādhyayanasya niyogatastatprayuktiḥ / naca prayuktilāghavādapi vihitopajīvanam / tadupajīvane 'pi prayuktyanavalopāt / vihitamapyadhyayanamadhyāpanavidhinaiva tvanmate prayujyate na svavidhinā / tasmāllaukikamevādhyayanamupanītānāmadhyāpanavidhirākṣipet / vidhivihitamadhyayanaṃ paraprayuktyabhāvādadhikāraṃ prakalpayet* //// kiñca yadyupanayanamadhyāpanāṅgaṃ tato 'dhyayanavidhirarthajñānārthaḥ sannādhyāpanārthatayopanītaistraivarṇikaiḥ saṃbadhyeta, ye 'dhyāpanārthatayopanītastraivarṇikāstadupayogivyāpāramapekṣante te 'rthajñānārthamadhīyīran-ityasaṃbaddhameva syāt / tataścopanītairasaṃbadhyamāno 'dhyayanavidhiścaturṇāmapi varṇānāṃ syāditi śūdrādhikāraprasaṅgaḥ / tasmādupanītānāṃ prayojanāpekṣiṇāmadhyayanakaraṇikārthajñānabhāvanā vidhīyata ityadhyayanāṅgamevopanayanaṃ, svavidhiprayuktaṃ cādhyayanam / prapañcenāyaṃ pakṣonyāyaratnamālāyāmeva nirasta ityaparamyate / tasmātpūrvokta eva vicāraḥ kimadṛṣṭārthamadhyayanamutākṣaragrahaṇādiparamparayārthajñānārthamiti // adhyayanavidhyupasaṃhāraḥ / athavā nātra kiñcidvicāryeta, nāvamikanyāyenaivādhyayanasyākṣarasaṃskārādiparamparayārthajñānārthatvasiddheḥ / navame hi- sāmnāmṛgakṣarābhivyaktidvāreṇa stutyupayogitvadarśanāttādarthyameva nādṛṣṭārthatvamiti vakṣyate / tenaiva nyāyenādhyayanasyārthajñānārthatvasiddheradhyayanānantaraṃ dharmajijñāsā kartavyeti siddhamevaitatprayojanavivakṣayā sūtrakāreṇocyate / yadāhuḥ- "dharmākhyaṃ viṣayaṃ vaktuṃ mīmāṃsāyāḥ prayojanam" iti / nanvatra kaścidvedavākyārtho vicāryate / tadapyāhuḥ--"nacātra codanāvyākhyā gauravaṃ tatra coditam" iti tatsiddhamadhyayanānantaraṃ dharmajijñāsā kartavyeti / sā caturvidhā- dharmasvarūpa pramāṇa sādhana phalaiḥ // nanvadhyayanavidhinā vedavākyārthavicāramātrākṣepāddharmasvarūpapramāṇajijñāsayoḥ kaḥ prasaṅgaḥ / ucyate- upoddhātatvātprasaṅgaḥ / yadi hi vedavākyārtho dharmaḥ syādvedaśca pramāṇaṃ tato 'sau vicāraḥ kartavyo bhavati / itarathā kākadantaparīkṣāvatsyāt, tadadhyayanavidhireva pramāṇādivicāramākṣipati / dharmagrahaṇaṃ copalakṣaṇārtham- adharmasyāpi hānāya jijñāsyatvāt / akārapraśleṣaṇe vā sūtramadharmajijñāsāyāmapi vyākhyeyamiti niravadyam // codanālakṣaṇo 'rtho dharmaḥ

Sanskrit only: no published translation is held for this verse.

नह्यविशेषणापि प्रतिषेधे वैरूप्यम् । यदि हि क्रत्वर्थत्वपुरुषार्थत्वरूपं विशेषेणोद्दिश्य प्रतिषेधः क्रियेत ततः स्यादपि वैरूप्यं प्रतिषेध्योपस्थापितक्रतुपुरुषगोचरत्वात्प्रतिषेधस्य । यदातु हिंसामात्रमुद्दिश्य प्रतिषेधः क्रियते तदास्य किं वैरूप्यम् । तद्यथा या भोजनार्थं मांसोत्पादने हिंसा, या च वैरिनिर्यातनार्थतया साक्षात्पुरुषार्था तस्यामुभय्यामविशेषेण प्रतिषिध्यमानायामपि नास्ति वैरूप्यमेवमिहापि । इतरथा तत्रापि भोजनाङ्गता पुरुषार्थता च प्रतिषेधस्य स्यादिति वैरूप्यं स्यात् । तस्माद्यैव काचिद्येन केनापि प्रकारेण प्रसक्ता हिंसा सा सर्वा सामान्येन प्रतिषिध्यते । पुरुषार्थश्च प्रतिषेधो ऽनारभ्याधीतत्वात् । तस्मादग्नीषोमीयहिंसाप्यसति विधेयत्वे प्रतिषेधगोचरः स्यात् । विधेयत्वे तु विधेर्विशेषविषयत्वात्सामान्यविषयो निषेधस्तद्विरोधाद्धिसान्तराण्यवलम्बते ॥ हिंसायां सांख्यमतं तत्खण्डनं च । ननु सत्यपि विधेयत्वे विधेः क्रत्वर्थात्प्रतिषेधस्य च पुरुषार्थत्वाद्विषयभेदेनाविरोधान्न बाधः । नहीदं विरुद्धं क्रतोर्हिंसया भवितव्यं पुरुषस्य तु तद्वर्जनेनेति । सत्यम् । अङ्गविधिमात्रालोचनायां नास्ति विरोधः । ज्योतिष्टोमविधिस्तु साङ्गं प्रधानं पुरुषस्य विदधत्पुरुषार्थाहिंसानिषेधमग्नीषोमीयहिंसायामवतरन्तं निरुणद्धिः । नह्यग्नीषोमीयहिंसां वर्जयता ज्योतिष्टोमः शक्यते ऽनुष्ठातुम् । तस्मादस्ति विरोध इति सामान्यस्य बाधः । विधौ त्वप्रवर्तके सत्यग्नीषोमीयहिंसापि प्रतिषिध्येत* ॥॥ किमर्थं च श्येनस्य विधेयत्वं निराक्रियते, प्रतिषेधसिद्ध्यर्थमिति चेत्, कः प्रतिषेधः न हिंस्यात्सर्वभूतानि इति । नायं निषेधः श्येने प्रवर्तते हिंसाविषयत्वात् । श्येनफलं च हिंसा न श्येनः । तथा चोक्तम्, यो हिंसितुमिच्छेत्तस्यायमभ्युपाय इति हि तेषामुपदेश इति* ॥॥ कश्चित्वाह श्येनस्य कर्तव्यत्वे सति बलात्तत्फलमपि हिंसा कर्तव्या भवतीति न निषेद्धुं शक्यते । अतः फलकर्तव्यतानिरासार्थं श्येनकर्तव्यता बलान्निरस्यत इति । तदिदमसंबद्धम् । यथैव हि श्येनापूर्वस्य कर्तव्यतायां सत्यामपि तत्साध्यफलस्य कर्तव्यता न प्रसज्यते तथा यागस्य कर्तव्यत्वे सत्यपि रागप्राप्तस्य फलस्य नास्ति कर्तव्यतापत्तिः । तस्मादनर्थकं श्येनकर्तव्यतानिराकरणम् । तस्माद्धिसैवात्र प्रत्युदाहरणम्* ॥॥ इदञ्चापरमेकदेशिनः प्रष्टव्याः अर्थशब्देन किमुच्यते इति । यदि श्रेयःसाधनं, नित्यानां धर्मत्वं न स्यात् । अथ यन्निषिद्धफलं न भवति तदर्थशब्देनोच्यते, तथासति नञर्थविषयस्यापूर्वस्य धर्मत्वप्रसङ्गः, चोदनालक्षणत्वान्निषिद्धफलत्वाभाच्च । भवत्वितिचेत् । न । लोकविरोधात् । यो हि हिंसायामुद्युक्तः प्रतिषेधवशान्निवर्तते न तं धार्मिक इत्याचक्षते किन्त्वधर्मान्निवृत्त इत्येतावत् । तदाहुः लोकसिद्धस्य लक्षणं परीक्षकैर्वक्तव्यं न वृद्ध्यादिवत्परिभाषणमित्यास्तां तावत् । इति चोदनासूत्रम् ॥ धर्मप्रमाणपरीक्षाधिकरणम् ॥३ ॥ तस्य निमित्तपरीष्टिः

nahyaviśeṣaṇāpi pratiṣedhe vairūpyam / yadi hi kratvarthatvapuruṣārthatvarūpaṃ viśeṣeṇoddiśya pratiṣedhaḥ kriyeta tataḥ syādapi vairūpyaṃ pratiṣedhyopasthāpitakratupuruṣagocaratvātpratiṣedhasya / yadātu hiṃsāmātramuddiśya pratiṣedhaḥ kriyate tadāsya kiṃ vairūpyam / tadyathā yā bhojanārthaṃ māṃsotpādane hiṃsā, yā ca vairiniryātanārthatayā sākṣātpuruṣārthā tasyāmubhayyāmaviśeṣeṇa pratiṣidhyamānāyāmapi nāsti vairūpyamevamihāpi / itarathā tatrāpi bhojanāṅgatā puruṣārthatā ca pratiṣedhasya syāditi vairūpyaṃ syāt / tasmādyaiva kācidyena kenāpi prakāreṇa prasaktā hiṃsā sā sarvā sāmānyena pratiṣidhyate / puruṣārthaśca pratiṣedho 'nārabhyādhītatvāt / tasmādagnīṣomīyahiṃsāpyasati vidheyatve pratiṣedhagocaraḥ syāt / vidheyatve tu vidherviśeṣaviṣayatvātsāmānyaviṣayo niṣedhastadvirodhāddhisāntarāṇyavalambate // hiṃsāyāṃ sāṃkhyamataṃ tatkhaṇḍanaṃ ca / nanu satyapi vidheyatve vidheḥ kratvarthātpratiṣedhasya ca puruṣārthatvādviṣayabhedenāvirodhānna bādhaḥ / nahīdaṃ viruddhaṃ kratorhiṃsayā bhavitavyaṃ puruṣasya tu tadvarjaneneti / satyam / aṅgavidhimātrālocanāyāṃ nāsti virodhaḥ / jyotiṣṭomavidhistu sāṅgaṃ pradhānaṃ puruṣasya vidadhatpuruṣārthāhiṃsāniṣedhamagnīṣomīyahiṃsāyāmavatarantaṃ niruṇaddhiḥ / nahyagnīṣomīyahiṃsāṃ varjayatā jyotiṣṭomaḥ śakyate 'nuṣṭhātum / tasmādasti virodha iti sāmānyasya bādhaḥ / vidhau tvapravartake satyagnīṣomīyahiṃsāpi pratiṣidhyeta* //// kimarthaṃ ca śyenasya vidheyatvaṃ nirākriyate, pratiṣedhasiddhyarthamiti cet, kaḥ pratiṣedhaḥ na hiṃsyātsarvabhūtāni iti / nāyaṃ niṣedhaḥ śyene pravartate hiṃsāviṣayatvāt / śyenaphalaṃ ca hiṃsā na śyenaḥ / tathā coktam, yo hiṃsitumicchettasyāyamabhyupāya iti hi teṣāmupadeśa iti* //// kaścitvāha śyenasya kartavyatve sati balāttatphalamapi hiṃsā kartavyā bhavatīti na niṣeddhuṃ śakyate / ataḥ phalakartavyatānirāsārthaṃ śyenakartavyatā balānnirasyata iti / tadidamasaṃbaddham / yathaiva hi śyenāpūrvasya kartavyatāyāṃ satyāmapi tatsādhyaphalasya kartavyatā na prasajyate tathā yāgasya kartavyatve satyapi rāgaprāptasya phalasya nāsti kartavyatāpattiḥ / tasmādanarthakaṃ śyenakartavyatānirākaraṇam / tasmāddhisaivātra pratyudāharaṇam* //// idañcāparamekadeśinaḥ praṣṭavyāḥ arthaśabdena kimucyate iti / yadi śreyaḥsādhanaṃ, nityānāṃ dharmatvaṃ na syāt / atha yanniṣiddhaphalaṃ na bhavati tadarthaśabdenocyate, tathāsati nañarthaviṣayasyāpūrvasya dharmatvaprasaṅgaḥ, codanālakṣaṇatvānniṣiddhaphalatvābhācca / bhavatviticet / na / lokavirodhāt / yo hi hiṃsāyāmudyuktaḥ pratiṣedhavaśānnivartate na taṃ dhārmika ityācakṣate kintvadharmānnivṛtta ityetāvat / tadāhuḥ lokasiddhasya lakṣaṇaṃ parīkṣakairvaktavyaṃ na vṛddhyādivatparibhāṣaṇamityāstāṃ tāvat / iti codanāsūtram // dharmapramāṇaparīkṣādhikaraṇam //3 // tasya nimittaparīṣṭiḥ

Sanskrit only: no published translation is held for this verse.

अनेन सूत्रेण चोदनाख्यस्य निमित्तस्य परीक्षणमस्मिन्पादे वक्ष्यमाणम् अथातः शेषलक्षणम्ऽ, अथ विशेषलक्षणम्ऽ इतिवत्सुखग्रहणार्थमनुकीर्त्यते* ॥॥ चोदनैवेत्यर्थस्य साधनाय प्रत्यक्षादीनामनिमित्तत्त्वमुच्यते धर्मे प्रत्यक्षाद्यगम्यत्वाधिकरणम् ॥४ ॥ सत्संप्रयोगे पुरुषस्येन्द्रियाणां बुद्धिजन्म तत्प्रत्यक्षमनिमित्तं विद्यमानोपलम्भनत्वात्

anena sūtreṇa codanākhyasya nimittasya parīkṣaṇamasminpāde vakṣyamāṇam athātaḥ śeṣalakṣaṇam', atha viśeṣalakṣaṇam' itivatsukhagrahaṇārthamanukīrtyate* //// codanaivetyarthasya sādhanāya pratyakṣādīnāmanimittattvamucyate dharme pratyakṣādyagamyatvādhikaraṇam //4 // satsaṃprayoge puruṣasyendriyāṇāṃ buddhijanma tatpratyakṣamanimittaṃ vidyamānopalambhanatvāt

Sanskrit only: no published translation is held for this verse.

तथाहि डित्थो ऽयमिति तावद्गौरयमितिवद्भावात्मना डित्थात्मना वस्तु विकल्प्यते, नदण्डीतिवत्तत्संबन्धितया मत्वर्थानुपादानात् । तत्र न डित्थशब्देन जातिवदर्थस्यात्मा अत्यन्तभिन्नत्वात् यतस्तेनैवार्थो ऽनुरज्येत । तदेतदेवं विज्ञेयम् डित्थशब्देन तद्वाच्यं पूर्वावगतं डित्थमुपस्थाप्य तदात्मना पुरःस्थितोर्ऽथो विकल्प्यते डित्थो ऽयमिति । किमुक्तं भवति, यो ऽसावस्माकं डित्थः सो ऽयं पुरःस्थितो नान्य इति । सेयं व्यक्तिप्रत्यभिज्ञैव पञ्चमीकल्पना । साच शब्दविदां नामरूषितैव भवतीति नाम विकल्पेनेति व्यवह्रियते । एतेन यदाहुः डित्थो ऽयमित्यशब्दाकारस्यार्थस्य शब्दाकारेण विकल्पनादप्रमाणं सविकल्पम्, इति तदपि निरस्तम् । नह्यत्र शब्दाकारेणार्थः प्रतीयते किन्तु पूर्वावगतार्थस्मरणमात्रे शब्दस्य व्यापारः, तेन च स्मृतेनार्थेन तादात्म्येन पुरःस्थितार्थविकल्पनात् । आहच यदा तु यादृशः पिण्डः पूर्वं शब्दात्प्रतीयते । तादृशस्मरणे हेतुः शब्दस्तत्र यथार्थतेति । तस्मान्नामविकल्पे ऽपि जात्यादिवन्नास्त्यतद्रूपारोपः । किं पुनर्जात्यादिभिर्विकल्प्यते, द्रव्यं, किं पुनरिदं द्रव्यं नाम, पृथिव्युदकतेजोवायुप्रभृति ॥ द्रव्याभावे बौद्धमतेन पूर्वपक्षः । ननु रूपादिव्यतिरिक्तं द्रव्यं नाम न किञ्चिदुपलभामहे । न च तस्योपलम्भकमस्ति, चक्षुरादीनां पञ्चानां रूपादिष्वेवोपक्षीणत्वात् । गन्धरूपरसस्पर्शसंघातः पृथिवी । रसरूपस्पर्शसंघात आपः । रूपस्पर्शसंघातस्तेजः । शब्दस्पर्शसंघातो वायुः । एव रूपादिसंघातभेदावेव पृथिव्यादिविभागो न द्रव्यं नाम किञ्चिदिति सौगताः । तदयुक्तम् आगमापायिषु रूपादिषु यदनुयायिप्रत्यभिज्ञा जायते तद्द्रव्यम् । दर्शनस्पर्शनाभ्यां चास्य ग्रहणम् । प्रत्यभिज्ञा च यथा बदरफलं श्यामावस्थायां रक्तावस्थायां च यथा वा घटपिण्डकपालावस्थासु मृद्द्रव्यम् । अस्ति हि तत्र पिण्डावस्थाभेदे श्यामरक्तरूपभेदे ऽपि द्रव्यप्रत्यभिज्ञा मृदियं पिण्डावस्थामपहाय घचावस्था संजाता श्यामिमानं च त्यक्त्वा पक्वा सत्यरुणिमानं गृहीतवती । अनन्तरं घटावस्थामपहाय कपालिका जातेति । एवं तन्तुपटाद्यवस्थास्वपि द्रष्टव्यम् । तर्कमतेनावयवेष्ववयव्युत्पत्तिः । ननु तन्तुपटादिषु द्रव्यान्तरोत्पत्तिरेवाभिमता, अन्यथा ह्यवयव्यपलापः स्यात् । नावयविनमपह्नुमहे, द्रव्यान्तरोत्पत्तिं तु नेच्छामः प्रतिपत्त्यभावात् । तन्तव एव हि संयोगविशेषादेकद्रव्यतामापद्यन्ते, अवयवी च भवन्ति तादृशाश्च पटजातिं स्थौल्यं च बिभ्रत एकपटस्थूलबुद्ध्या गृह्यन्त इति लौकिकी प्रतिपत्तिः । अतो न द्रव्यस्य कदाचिदागमो ऽपायो वा, घटपटगवाश्वशुक्लरक्ताद्यवस्थानामेवागमापायौ* ॥॥ आहच आविर्भावतिरोभावधर्मकेष्वनुयायि यत् ॥ तद्धर्मि यत्र च ज्ञानं प्राग्धर्मग्रहणाद्भवेदिति । तथा यादृशमस्माभिरभिहितं द्रव्यं तादृशस्यैव हि सर्वस्य गुण एव भिद्यते न स्वरूपमिति । तत्सिद्धं द्रव्यम् । तच्च जात्यादिभिः पञ्चधा सविकल्पेन विभज्यते । अतः सविकल्पकमपि प्रत्यक्षं, तत्पूर्वकं चानुमानादीति सिद्धं तेषामप्यनिमित्तत्वमिति प्रत्यक्षसूत्रम् । धर्मे वेदप्रामाण्याधिकरणम् ॥५ ॥ औत्पत्तिकस्तु शब्दस्यार्थेन संबन्धः, तस्य ज्ञानमुपदेशो ऽन्यतिरेकश्चार्थे ऽनुपलब्धे तत्प्रमामाणं बादरायणस्यानपेक्षत्वात्

tathāhi ḍittho 'yamiti tāvadgaurayamitivadbhāvātmanā ḍitthātmanā vastu vikalpyate, nadaṇḍītivattatsaṃbandhitayā matvarthānupādānāt / tatra na ḍitthaśabdena jātivadarthasyātmā atyantabhinnatvāt yatastenaivārtho 'nurajyeta / tadetadevaṃ vijñeyam ḍitthaśabdena tadvācyaṃ pūrvāvagataṃ ḍitthamupasthāpya tadātmanā puraḥsthitor'tho vikalpyate ḍittho 'yamiti / kimuktaṃ bhavati, yo 'sāvasmākaṃ ḍitthaḥ so 'yaṃ puraḥsthito nānya iti / seyaṃ vyaktipratyabhijñaiva pañcamīkalpanā / sāca śabdavidāṃ nāmarūṣitaiva bhavatīti nāma vikalpeneti vyavahriyate / etena yadāhuḥ ḍittho 'yamityaśabdākārasyārthasya śabdākāreṇa vikalpanādapramāṇaṃ savikalpam, iti tadapi nirastam / nahyatra śabdākāreṇārthaḥ pratīyate kintu pūrvāvagatārthasmaraṇamātre śabdasya vyāpāraḥ, tena ca smṛtenārthena tādātmyena puraḥsthitārthavikalpanāt / āhaca yadā tu yādṛśaḥ piṇḍaḥ pūrvaṃ śabdātpratīyate / tādṛśasmaraṇe hetuḥ śabdastatra yathārthateti / tasmānnāmavikalpe 'pi jātyādivannāstyatadrūpāropaḥ / kiṃ punarjātyādibhirvikalpyate, dravyaṃ, kiṃ punaridaṃ dravyaṃ nāma, pṛthivyudakatejovāyuprabhṛti // dravyābhāve bauddhamatena pūrvapakṣaḥ / nanu rūpādivyatiriktaṃ dravyaṃ nāma na kiñcidupalabhāmahe / na ca tasyopalambhakamasti, cakṣurādīnāṃ pañcānāṃ rūpādiṣvevopakṣīṇatvāt / gandharūparasasparśasaṃghātaḥ pṛthivī / rasarūpasparśasaṃghāta āpaḥ / rūpasparśasaṃghātastejaḥ / śabdasparśasaṃghāto vāyuḥ / eva rūpādisaṃghātabhedāveva pṛthivyādivibhāgo na dravyaṃ nāma kiñciditi saugatāḥ / tadayuktam āgamāpāyiṣu rūpādiṣu yadanuyāyipratyabhijñā jāyate taddravyam / darśanasparśanābhyāṃ cāsya grahaṇam / pratyabhijñā ca yathā badaraphalaṃ śyāmāvasthāyāṃ raktāvasthāyāṃ ca yathā vā ghaṭapiṇḍakapālāvasthāsu mṛddravyam / asti hi tatra piṇḍāvasthābhede śyāmaraktarūpabhede 'pi dravyapratyabhijñā mṛdiyaṃ piṇḍāvasthāmapahāya ghacāvasthā saṃjātā śyāmimānaṃ ca tyaktvā pakvā satyaruṇimānaṃ gṛhītavatī / anantaraṃ ghaṭāvasthāmapahāya kapālikā jāteti / evaṃ tantupaṭādyavasthāsvapi draṣṭavyam / tarkamatenāvayaveṣvavayavyutpattiḥ / nanu tantupaṭādiṣu dravyāntarotpattirevābhimatā, anyathā hyavayavyapalāpaḥ syāt / nāvayavinamapahnumahe, dravyāntarotpattiṃ tu necchāmaḥ pratipattyabhāvāt / tantava eva hi saṃyogaviśeṣādekadravyatāmāpadyante, avayavī ca bhavanti tādṛśāśca paṭajātiṃ sthaulyaṃ ca bibhrata ekapaṭasthūlabuddhyā gṛhyanta iti laukikī pratipattiḥ / ato na dravyasya kadācidāgamo 'pāyo vā, ghaṭapaṭagavāśvaśuklaraktādyavasthānāmevāgamāpāyau* //// āhaca āvirbhāvatirobhāvadharmakeṣvanuyāyi yat // taddharmi yatra ca jñānaṃ prāgdharmagrahaṇādbhavediti / tathā yādṛśamasmābhirabhihitaṃ dravyaṃ tādṛśasyaiva hi sarvasya guṇa eva bhidyate na svarūpamiti / tatsiddhaṃ dravyam / tacca jātyādibhiḥ pañcadhā savikalpena vibhajyate / ataḥ savikalpakamapi pratyakṣaṃ, tatpūrvakaṃ cānumānādīti siddhaṃ teṣāmapyanimittatvamiti pratyakṣasūtram / dharme vedaprāmāṇyādhikaraṇam //5 // autpattikastu śabdasyārthena saṃbandhaḥ, tasya jñānamupadeśo 'nyatirekaścārthe 'nupalabdhe tatpramāmāṇaṃ bādarāyaṇasyānapekṣatvāt

Sanskrit only: no published translation is held for this verse.

विज्ञानाश्रुतयस्तु शक्तावेव विज्ञानोपचारं कुर्वन्ति प्ररोचनार्थतयेत्युपपन्नम् । एवमानन्दश्रुतयो ऽपि पुरुषार्थत्वसामान्यात्सुखत्वोपचारेण प्ररोचनार्थतया प्रवृत्ताः । युक्तं चैतत् वचनयोर्विरोधे ऽन्यतो निर्णयः इति । विरोधश्चात्रानन्दप्रियाभाववचनयोः । न चाभाववचनं वैषयिकाभिप्रायम्, इतरत्तु स्वाभाविकाभिप्रायमिति शक्यं वक्तुम् । उभयत्रापि सामान्योपादानादत्यन्तसमानविषयत्वात् । अतः प्रमाणान्तरवशादानन्दवचनं दुःखाभावपरम्, इतरत्तु यथाश्रुतमिति न्याय्यम् । तस्मात्सुखदुःखादिसमस्तवैशेषिकात्मगुणोच्छेदो मोक्षः । सुखदुःखोच्छेदश्च धर्माधर्मयोरुच्छेदात्, धर्माधर्मयोरुच्छेदश्चोत्पन्नानां धर्माधर्माणामुपभोगेन नित्यनैमित्तिककर्मानुष्ठानेनात्मज्ञानेन च विरोधात्, उत्पाद्यानां च काम्यानुष्ठाननिमित्तानां धर्माणां तदनुष्ठानेनानुत्पादात्, विहिताकरणप्रतिषिद्धानुष्ठाननिमित्तानां चाधर्माणां विहितानुष्ठानेन प्रतिषिद्धाकरणेन च परिहारात्, असति शरीरारम्भे पूर्वशरीरनिपाते चाशरीरो ऽवस्थितो मुक्तो भवति ॥ आत्मज्ञानस्य क्रतुमोक्षोभयोपयोगित्वम् । नन्वात्मज्ञानं क्रत्वर्थम् । सत्यम् । पुरुषार्थमपि च तत् संयोगभेदात् । यत्तावत् अविनाशी वा अरे ऽयमात्मा इत्यादिना शरीराद्व्यतिरिक्तनित्यात्मस्वरूपसद्भावज्ञानं तत्पारलौकिकफलकर्मानुष्ठानौपयिकत्वात्कर्मज्ञानवदेव सामर्थ्यतः क्रतुसंयोगात्क्रत्वर्थम् । यथाहि ज्योतिष्टोमोदिवाक्याध्ययनं दृष्टेनैवानुष्ठानौपयिकत्वं ज्ञानं जनयतीति तदर्थतयाध्ययनविधिना विधीयते तथा अविनाशी वा अरेयमात्मा इत्यादिवाक्यानामप्यध्ययनविधिरेव कर्मानुष्ठानोपयोग्यात्मज्ञानार्थतां विधत्ते । तद्यदि प्रमाणान्तरेणात्मनः शरीरादिविवेको नैकान्ततः सिद्ध्यति ततो दृढविवेकप्रतिपादकानामुपनिषद्वाक्यानां विस्पष्टमेव फलम् । यथोक्तम् इत्याह नास्तिक्यनिराकरिष्णुरात्मास्तितां भाष्यकृदत्र युक्त्या ॥ दृढत्वमेतद्विषयः प्रबोधः प्रयाति वेदान्तनिषेवणेन इति । अथ त्वन्यतो ऽपि सिद्ध्यति, ततो यथैवान्यथापि क्रतुज्ञानसंभवे ऽध्ययनोपात्तवेदवाक्यावगतकर्मरूपाणामेव पुंसां कर्मस्वधिकारः तथैवाध्यायनोपात्तोपनिषद्वाक्यावगतात्मतत्त्वानामेवाधिकार इत्यध्ययनविधिबलादेव कल्प्यते* ॥॥ यत्त्वात्मसद्भावप्रतिपादनोपक्रमे विधिसरूपं वाक्यम् आत्मा वा अरे द्रष्टव्यः इत्यादि तद्वक्ष्यमाणस्यार्थस्यातिगहनत्वान्महोपयोगत्वाच्च कथं हि नामालस्यं हित्वा श्रद्धाविशेषेण वक्ष्यमाणमर्थं प्रतिपद्येतेत्यातावन्मात्रार्थम् । तस्मादेतज्ज्ञानं दृष्टोपयोगित्वात्क्रत्वर्थम्* ॥॥ यानि पुनरितिकर्तव्यताविशेषयुक्तान्युपासनात्मकानि विधीयन्ते तेषां क्रतौ दृष्टोपयोगाभावाददृष्टफलत्वम् । अदृष्टं च फलं वाक्यशेषाद्द्विविधं अभ्युदयरूपं निःश्रेयसरूपं च, सर्वन्कामानाप्नोति सो ऽश्नुते सर्वान्कामान् इत्याद्यभ्युदयफलम् । न स पुनरावर्तते इत्यादि निःश्रेयसफलमिति विवेकः ॥ आत्मनित्यत्वेनाधिकरणोपसंहारः ॥ यत्तु विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञास्ति इत्यनेन ब्राह्मणेन भूतचैतन्यमुक्तमित्याशङ्क्यते तत्स्वयमेव ब्राह्मणेनात्रेव मा भगवन्मोहान्तं प्रापितवान्पूर्वमजरामृत्वमभिधायाधुना विनाशीत्यभिधानादिति पूर्वपक्षं चोद्याख्यमुक्त्वा सिद्धान्तपरिहार उक्तः । अविनाशी वा अरे ऽयमात्मानुच्छित्तिधर्मा इत्युक्त्वा कथं तर्हि विनाशवचनमित्याशङ्क्य मात्रासंसर्गत्वस्य भवतीत्युक्तम् । मात्राशब्देन भूतेन्द्रियाणि धर्माधर्मौ च विकारशब्दवाच्या उच्यन्ते* ॥॥ एतदुक्तं भवति विज्ञानघनशब्देन ज्ञानशक्तिस्वभावस्यात्मनो ऽभिधानम्, स ह्येतेभ्यो भूतेभ्यः समुत्थाय मुक्तो भूत्वा तान्येवानुविनश्यति भूतविनाशात्सो ऽपि विनष्ट इव भवतीति, भूतस्थो ह्यसौ स्वयं प्रत्यक्षेण विनश्यतीत्युच्यते, तदनेन प्रकारेण मात्राणामेव विनाश इत्युच्यते नात्मन इत्यविरोधःष । तदुक्तम् अविनाशी स्वरूपेण पुरुषो या तु नाशिता ॥ मात्राणां साधिकाराणां भूतादीनामसंज्ञिता इति । किमिदं भूतादीनामसंज्ञितेति । यदि तावत् न प्रेत्य संज्ञास्तीत्यस्य व्याख्यानं, तदयुक्तम् । न हि न प्रेत्य संज्ञास्तीत्यनेन भूतादीनामसंज्ञित्वमुच्यते । किन्तर्ह्यात्मन एव मुक्तस्य संज्ञाभावो ऽनेनोच्यते, तस्यैवोपायाभावेन तत्केन कं पश्येदित्यादिना विज्ञानारमरे केन विजानीयादित्यन्तेन विज्ञानाभावोपपादनात् । सत्यम् । नेदमस्य व्याख्यानं, प्रकरणार्थोपसंहारस्त्वयं यत एवं पूर्वोक्तेन न्यायेन भूतचैतन्यं न संभवति ब्राह्मणेनापि तथैवोक्तम्, तस्माद्भूतेन्द्रियाणामसंज्ञित्वमचैतन्यम्, अन्यस्तु नित्यश्चेतनः तस्य स्वर्गगमनसंभववान्न स्वर्गं लोकं यातीत्यस्य प्रत्यक्षविरोधः ॥ शब्दानित्यताधिकरणम् ॥६ ॥ कर्मैके तत्र दर्शनात्

vijñānāśrutayastu śaktāveva vijñānopacāraṃ kurvanti prarocanārthatayetyupapannam / evamānandaśrutayo 'pi puruṣārthatvasāmānyātsukhatvopacāreṇa prarocanārthatayā pravṛttāḥ / yuktaṃ caitat vacanayorvirodhe 'nyato nirṇayaḥ iti / virodhaścātrānandapriyābhāvavacanayoḥ / na cābhāvavacanaṃ vaiṣayikābhiprāyam, itarattu svābhāvikābhiprāyamiti śakyaṃ vaktum / ubhayatrāpi sāmānyopādānādatyantasamānaviṣayatvāt / ataḥ pramāṇāntaravaśādānandavacanaṃ duḥkhābhāvaparam, itarattu yathāśrutamiti nyāyyam / tasmātsukhaduḥkhādisamastavaiśeṣikātmaguṇocchedo mokṣaḥ / sukhaduḥkhocchedaśca dharmādharmayorucchedāt, dharmādharmayorucchedaścotpannānāṃ dharmādharmāṇāmupabhogena nityanaimittikakarmānuṣṭhānenātmajñānena ca virodhāt, utpādyānāṃ ca kāmyānuṣṭhānanimittānāṃ dharmāṇāṃ tadanuṣṭhānenānutpādāt, vihitākaraṇapratiṣiddhānuṣṭhānanimittānāṃ cādharmāṇāṃ vihitānuṣṭhānena pratiṣiddhākaraṇena ca parihārāt, asati śarīrārambhe pūrvaśarīranipāte cāśarīro 'vasthito mukto bhavati // ātmajñānasya kratumokṣobhayopayogitvam / nanvātmajñānaṃ kratvartham / satyam / puruṣārthamapi ca tat saṃyogabhedāt / yattāvat avināśī vā are 'yamātmā ityādinā śarīrādvyatiriktanityātmasvarūpasadbhāvajñānaṃ tatpāralaukikaphalakarmānuṣṭhānaupayikatvātkarmajñānavadeva sāmarthyataḥ kratusaṃyogātkratvartham / yathāhi jyotiṣṭomodivākyādhyayanaṃ dṛṣṭenaivānuṣṭhānaupayikatvaṃ jñānaṃ janayatīti tadarthatayādhyayanavidhinā vidhīyate tathā avināśī vā areyamātmā ityādivākyānāmapyadhyayanavidhireva karmānuṣṭhānopayogyātmajñānārthatāṃ vidhatte / tadyadi pramāṇāntareṇātmanaḥ śarīrādiviveko naikāntataḥ siddhyati tato dṛḍhavivekapratipādakānāmupaniṣadvākyānāṃ vispaṣṭameva phalam / yathoktam ityāha nāstikyanirākariṣṇurātmāstitāṃ bhāṣyakṛdatra yuktyā // dṛḍhatvametadviṣayaḥ prabodhaḥ prayāti vedāntaniṣevaṇena iti / atha tvanyato 'pi siddhyati, tato yathaivānyathāpi kratujñānasaṃbhave 'dhyayanopāttavedavākyāvagatakarmarūpāṇāmeva puṃsāṃ karmasvadhikāraḥ tathaivādhyāyanopāttopaniṣadvākyāvagatātmatattvānāmevādhikāra ityadhyayanavidhibalādeva kalpyate* //// yattvātmasadbhāvapratipādanopakrame vidhisarūpaṃ vākyam ātmā vā are draṣṭavyaḥ ityādi tadvakṣyamāṇasyārthasyātigahanatvānmahopayogatvācca kathaṃ hi nāmālasyaṃ hitvā śraddhāviśeṣeṇa vakṣyamāṇamarthaṃ pratipadyetetyātāvanmātrārtham / tasmādetajjñānaṃ dṛṣṭopayogitvātkratvartham* //// yāni punaritikartavyatāviśeṣayuktānyupāsanātmakāni vidhīyante teṣāṃ kratau dṛṣṭopayogābhāvādadṛṣṭaphalatvam / adṛṣṭaṃ ca phalaṃ vākyaśeṣāddvividhaṃ abhyudayarūpaṃ niḥśreyasarūpaṃ ca, sarvankāmānāpnoti so 'śnute sarvānkāmān ityādyabhyudayaphalam / na sa punarāvartate ityādi niḥśreyasaphalamiti vivekaḥ // ātmanityatvenādhikaraṇopasaṃhāraḥ // yattu vijñānaghana evaitebhyo bhūtebhyaḥ samutthāya tānyevānuvinaśyati na pretya saṃjñāsti ityanena brāhmaṇena bhūtacaitanyamuktamityāśaṅkyate tatsvayameva brāhmaṇenātreva mā bhagavanmohāntaṃ prāpitavānpūrvamajarāmṛtvamabhidhāyādhunā vināśītyabhidhānāditi pūrvapakṣaṃ codyākhyamuktvā siddhāntaparihāra uktaḥ / avināśī vā are 'yamātmānucchittidharmā ityuktvā kathaṃ tarhi vināśavacanamityāśaṅkya mātrāsaṃsargatvasya bhavatītyuktam / mātrāśabdena bhūtendriyāṇi dharmādharmau ca vikāraśabdavācyā ucyante* //// etaduktaṃ bhavati vijñānaghanaśabdena jñānaśaktisvabhāvasyātmano 'bhidhānam, sa hyetebhyo bhūtebhyaḥ samutthāya mukto bhūtvā tānyevānuvinaśyati bhūtavināśātso 'pi vinaṣṭa iva bhavatīti, bhūtastho hyasau svayaṃ pratyakṣeṇa vinaśyatītyucyate, tadanena prakāreṇa mātrāṇāmeva vināśa ityucyate nātmana ityavirodhaḥṣa / taduktam avināśī svarūpeṇa puruṣo yā tu nāśitā // mātrāṇāṃ sādhikārāṇāṃ bhūtādīnāmasaṃjñitā iti / kimidaṃ bhūtādīnāmasaṃjñiteti / yadi tāvat na pretya saṃjñāstītyasya vyākhyānaṃ, tadayuktam / na hi na pretya saṃjñāstītyanena bhūtādīnāmasaṃjñitvamucyate / kintarhyātmana eva muktasya saṃjñābhāvo 'nenocyate, tasyaivopāyābhāvena tatkena kaṃ paśyedityādinā vijñānāramare kena vijānīyādityantena vijñānābhāvopapādanāt / satyam / nedamasya vyākhyānaṃ, prakaraṇārthopasaṃhārastvayaṃ yata evaṃ pūrvoktena nyāyena bhūtacaitanyaṃ na saṃbhavati brāhmaṇenāpi tathaivoktam, tasmādbhūtendriyāṇāmasaṃjñitvamacaitanyam, anyastu nityaścetanaḥ tasya svargagamanasaṃbhavavānna svargaṃ lokaṃ yātītyasya pratyakṣavirodhaḥ // śabdānityatādhikaraṇam //6 // karmaike tatra darśanāt

Sanskrit only: no published translation is held for this verse.

अस्थानात्

asthānāt

Sanskrit only: no published translation is held for this verse.

करोति शब्दात्

karoti śabdāt

Sanskrit only: no published translation is held for this verse.

सत्त्वान्तरे च यौगपद्यात्

sattvāntare ca yaugapadyāt

Sanskrit only: no published translation is held for this verse.

प्रकृतिविकृत्योश्च

prakṛtivikṛtyośca

Sanskrit only: no published translation is held for this verse.

वृद्धिश्च कर्तृभूम्नास्य

vṛddhiśca kartṛbhūmnāsya

Sanskrit only: no published translation is held for this verse.

समं तु तत्र दर्शनम् सतः परमदर्शनं विषयानागमात्

samaṃ tu tatra darśanam sataḥ paramadarśanaṃ viṣayānāgamāt

Sanskrit only: no published translation is held for this verse.

प्रयोगस्य परम्

prayogasya param

Sanskrit only: no published translation is held for this verse.

आदित्यवद्यौगपद्यम्

ādityavadyaugapadyam

Sanskrit only: no published translation is held for this verse.

वर्णान्तरमविकारः

varṇāntaramavikāraḥ

Sanskrit only: no published translation is held for this verse.

नादवृद्धिपरा

nādavṛddhiparā

Sanskrit only: no published translation is held for this verse.

नित्यस्तु स्याद्दर्शनस्य परार्थत्वात्

nityastu syāddarśanasya parārthatvāt

Sanskrit only: no published translation is held for this verse.

सर्वत्र यौगपद्यात्

sarvatra yaugapadyāt

Sanskrit only: no published translation is held for this verse.

संख्याभावात्

saṃkhyābhāvāt

Sanskrit only: no published translation is held for this verse.

अनपेक्षत्वात्

anapekṣatvāt

Sanskrit only: no published translation is held for this verse.

प्रख्याभावाच्च योगस्य

prakhyābhāvācca yogasya

Sanskrit only: no published translation is held for this verse.

लिङ्गदर्शनाच्च लिङ्गदर्शनाच्च

liṅgadarśanācca liṅgadarśanācca

Sanskrit only: no published translation is held for this verse.