Library·Dandin: Dasakumaracarita·2

Dandin: Dasakumaracarita 2

सा चैनं चन्द्रलेखाच्छविः काचिदप्सरा भूत्वा प्रदक्षिणीकृत्य प्राञ्जलिर्ंव्यजिज्ञपत्--"देव, दीयतामनुग्रहार्द्रं चित्तम् । अहमस्मि सोमरश्मिसंभवा सुरतमञ्जरी नाम सुरसुन्दरी । तस्या मे नभसि नलिनलुब्ध मुग्धकलहंसानुबद्धवक्त्रायास्तन्निवारणक्षोभविच्छिन्नविगलिता हारयष्टिर्यदृच्छया जातु हैमवते मन्दोदके मग्नोन्मग्नस्य महर्षेर्मार्कण्डेयस्य मस्तके मणिकिरणद्विगुणितपलितमपतत् । पातितश्च कोपितेन को ऽपि तेन मयि शापः--"पापे, भजस्व लोहजातिमजातचैतन्या सतीऽ इति । स पुनः प्रसाद्यमानस्त्वत्पादपद्मद्वयस्य मासद्वयमात्रं संदानतामेत्य निस्तरणीयामिमामापदमपरिक्षीणशक्तित्वं चेन्द्रियाणामकल्पयत् । अनल्पेन च पाप्मना रजतशृङ्खलीभूतां मामैक्ष्वाकस्य राज्ञो वेगवतः पौत्रः, पुत्रो मानसवेगस्य, वीरशेखरो नाम विद्याधरः शङ्करगिरौ समध्यगमत् । आत्मसात्कृता च तेनाहमासम् । अथासौ पितृप्रयुक्तवैरे प्रवर्तमाने विद्याधरचक्रवर्तिनि वत्सराजवंशवर्धने नरवाहनदत्ते विरसाशयस्तदपकारक्षमो ऽयमिति तपस्यता दर्पसारेण सह समसृज्यत । प्रतिश्रुतं च तेन तस्मै स्वसुरवन्तिसुन्दर्याः प्रदानम् । अन्यदा तु वियति व्यवदायमानचन्द्रिके मनोरथप्रियतमामवन्तिसुन्दरीं दिदृक्षुरवशेन्द्रियस्तदिन्द्रमन्दिरद्युति कुमारीपुरमुपासरत् । अन्तरितश्च तिरस्करिण्या विद्यया । स च तां तदा त्वदङ्कापाश्रयां सुरतखेदसुप्तगात्रीं त्रिभुवनसर्गयात्रासंहारसंबद्धाभिः कथाभिरमृतस्यन्दिनीभिः प्रत्यानीयमानरागपूरां न्यरूपयत् । स तु प्रकुपितो ऽपि त्वदनुभावप्रतिबद्धनिप्रहान्तराध्यवसायः समालिङ्ग्येतरेतरमत्यन्तसुखसुप्तयोर्युवयोर्दैवदत्तोत्साहः पाण्डुलोहशृङ्खलात्मना मया पादपद्मयोर्युगलं तव निगडयित्वा सरोषरभसमपासरत् । अवसितश्च ममाद्य शापः । तच्च मासद्वयं तव पारतन्त्र्यम् । प्रसीदेदानीम् । किं तव करणीयम्ऽ इति प्रणिपतन्ती "वार्तयानया मत्प्राणसमां समाश्वासयऽ इति व्यादिश्य विससर्ज । तस्मिन्नेव क्षणान्तरे "हतो हतश्चण्डवर्मा सिंहवर्मदुहितुरम्बालिकायाः पाणिस्पर्शरागप्रसारिते बाहुदण्ड एव बलवदलम्ब्य सरभसमाकृष्य केनापि दुष्करकर्मणा तस्करेण नखप्रहारेण राजमन्दिरोद्देशं च शवशतमयमापादयन्नचकितगतिरसौ विहरतिऽ इति वाचः समभवन् । श्रुत्वा चैतत्तमेव मत्तहस्तिनमुदस्ताधोरणो राजपुत्रो ऽधिरुह्य रंहसोत्तमेन राजभवनमभ्यवर्तत । स्तम्बेरमरयावधूतपदातिदत्तर्त्मा च प्रविश्य वेश्याभ्यन्तरमदभ्राभ्रनिर्घोषगम्भीरेण स्वरेणाभ्यधात्--"कः स महापुरुषो यैनैतन्मानुषमात्रदुष्करं महत्कर्मानुष्ठितम् । आगच्छतु । मया सहेमं मत्तहस्तिनमारोहतु । अभयं मदुपकण्ठवर्तिनो देवदानवैरपि विगृह्णानस्यऽ इति । निशम्यैवं स पुमानुपोढहर्षो निर्गत्य कृता ञ्जलिराक्रम्य संज्ञासंकुचितं कुञ्जरगात्रमसक्तमध्यरुक्षत् । आरोहन्तमेवैनं निर्वर्ण्यहर्षोत्फुल्लदृष्टिः "अये, प्रियसखो ऽयमपहारवर्मैवऽ इति पश्चान्निषीदतो ऽस्य बाहुदण्डयुगलमुभयभुजमूलप्रवेशितमग्रे ऽवलम्ब्य स्वमङ्गमालिङ्गयामास । स्वयं च पृष्ठतो वलिताभ्यां भुजाभ्यां पर्यवेष्टयत् । तत्क्षणोपसंहृतालिङ्गनव्यतिकरश्चापहारवर्मा चापचक्रकणपकर्पणप्रासपट्टिशमुसलतोमरादिप्रहरणजातमुपयुञ्जानान् बलावलिप्तान्प्रतिबलवीरान्बहुप्रकारायोधिनः परिक्षिपतः क्षितौ विचिक्षेप । क्षणेन चाद्राक्षीत्तदपिसैन्यमन्येन समन्ततो ऽभिमुखमभिधावता बलनिकायेन परिक्षिप्तम् । अनन्तरं च कश्चित्कर्मिकारगौरः कुरुविन्दसवर्णकुन्तलः कमलकोमलपाणिपादः कर्णचुम्बिदुग्धधवलस्निग्धनीललोचनः कटितटनिविष्टरत्ननखः पट्टनिवसनः कृशाकृशोदरोरःस्थलः कृतहस्ततया रिपुकुलमिषुवर्षेणाभिवर्षन्पादाङ्गुष्ठनिष्ठरावघृष्टकर्णमूलेन प्रजविना गजेन संनिकृष्य पूर्वोपदेशप्रत्ययात् "अयमेव स देवो राजवाहनःऽ ति प्राञ्जलिः प्रणम्यापहारवर्मणि निविष्टदृष्टिराचष्टत्वदादिष्टेन मार्गेण संनिपातितमेतदङ्गराजसहाय्यदानायोपस्थितं राजकम् । अरिबलं च विहितविध्वस्तं स्त्रीबालहार्यशस्त्रं वर्तते । किमन्यत्कृत्यम्ऽ इति । हृष्टस्तु व्याजहारापहारंवर्मा--"देव, दृष्टिदानेनानुगृह्यतामयमाज्ञाकारः । सो ऽयमेव ह्यमुना रूपणे धनमित्राख्यया चान्तरितो मन्तव्यः स एवायं निर्गमप्यबन्धनादङ्गराजमपवर्जितं च कोशवाहनमेकीकृत्यास्मद्गृह्येणामुना सह राजन्यकेनैकान्ते सुखोपविष्टमिह देवमुपतिष्ठतु यदि न दोषःऽ इति । देवो ऽपि "यथा ते रोचतेऽ इति तमाभाष्य गत्वा च तन्निर्दिष्टेन मार्गेण नगराद्वहिरतिमहतो रोहिणद्रुमस्य कस्यचित्क्षौमावदातसैकते गङ्गातरङ्गपवनपातशीतले तले द्विरदादवततर । प्रथमसमवतीर्णेनापहारवर्मणा च स्वहस्तसत्वरसमीकृते मातङ्ग इव भागीरथीपुलिनमणअडले सुखं निषसाद । तथा निषण्मं च तमुपहारवर्मार्थपालप्रमतिमित्र्रगुप्तमन्त्रगुप्तविश्रुतैर्मैथिलेन च प्रहारवर्मणा, काशीभर्त्रा च कामपालेन चम्पेश्वरेण सिंहवर्मणा सहोपागतय धनमित्रः प्रणिपपात । देवो ऽपि हर्षाविद्धमभ्युत्थितः "कथं समस्त एष मित्रगणः समागतः को नामायमभ्युदयःऽ इति कृतयथोचितोपचारान्निर्भरतरं परिरेभे । काशपितिमैथिलाङ्गराजांश्चसुहृन्निवेदितान्पितृवदपश्यत् । तैश्च हर्षकम्पितपलितं सरभसोपगूढः परमभिननन्द । ततः प्रवृत्तासु प्रीतिसंकथासु प्रियवयम्यगणानुयुक्तः स्वस्य च सोमदत्तपुष्पोद्भेवयाश्चरितमनुवरण्य सुहृदामपि वृत्तान्तं क्रमेण श्रोतुं कृतप्रस्तावस्तांश्च तदुक्तावन्वयुङ्क्त । तेषु प्रथमं प्राह स्म किलापहारवर्मा--

sā cainaṃ candralekhācchaviḥ kācidapsarā bhūtvā pradakṣiṇīkṛtya prāñjalirṃvyajijñapat--"deva, dīyatāmanugrahārdraṃ cittam / ahamasmi somaraśmisaṃbhavā suratamañjarī nāma surasundarī / tasyā me nabhasi nalinalubdha mugdhakalahaṃsānubaddhavaktrāyāstannivāraṇakṣobhavicchinnavigalitā hārayaṣṭiryadṛcchayā jātu haimavate mandodake magnonmagnasya maharṣermārkaṇḍeyasya mastake maṇikiraṇadviguṇitapalitamapatat / pātitaśca kopitena ko 'pi tena mayi śāpaḥ--"pāpe, bhajasva lohajātimajātacaitanyā satī' iti / sa punaḥ prasādyamānastvatpādapadmadvayasya māsadvayamātraṃ saṃdānatāmetya nistaraṇīyāmimāmāpadamaparikṣīṇaśaktitvaṃ cendriyāṇāmakalpayat / analpena ca pāpmanā rajataśṛṅkhalībhūtāṃ māmaikṣvākasya rājño vegavataḥ pautraḥ, putro mānasavegasya, vīraśekharo nāma vidyādharaḥ śaṅkaragirau samadhyagamat / ātmasātkṛtā ca tenāhamāsam / athāsau pitṛprayuktavaire pravartamāne vidyādharacakravartini vatsarājavaṃśavardhane naravāhanadatte virasāśayastadapakārakṣamo 'yamiti tapasyatā darpasāreṇa saha samasṛjyata / pratiśrutaṃ ca tena tasmai svasuravantisundaryāḥ pradānam / anyadā tu viyati vyavadāyamānacandrike manorathapriyatamāmavantisundarīṃ didṛkṣuravaśendriyastadindramandiradyuti kumārīpuramupāsarat / antaritaśca tiraskariṇyā vidyayā / sa ca tāṃ tadā tvadaṅkāpāśrayāṃ suratakhedasuptagātrīṃ tribhuvanasargayātrāsaṃhārasaṃbaddhābhiḥ kathābhiramṛtasyandinībhiḥ pratyānīyamānarāgapūrāṃ nyarūpayat / sa tu prakupito 'pi tvadanubhāvapratibaddhaniprahāntarādhyavasāyaḥ samāliṅgyetaretaramatyantasukhasuptayoryuvayordaivadattotsāhaḥ pāṇḍulohaśṛṅkhalātmanā mayā pādapadmayoryugalaṃ tava nigaḍayitvā saroṣarabhasamapāsarat / avasitaśca mamādya śāpaḥ / tacca māsadvayaṃ tava pāratantryam / prasīdedānīm / kiṃ tava karaṇīyam' iti praṇipatantī "vārtayānayā matprāṇasamāṃ samāśvāsaya' iti vyādiśya visasarja / tasminneva kṣaṇāntare "hato hataścaṇḍavarmā siṃhavarmaduhiturambālikāyāḥ pāṇisparśarāgaprasārite bāhudaṇḍa eva balavadalambya sarabhasamākṛṣya kenāpi duṣkarakarmaṇā taskareṇa nakhaprahāreṇa rājamandiroddeśaṃ ca śavaśatamayamāpādayannacakitagatirasau viharati' iti vācaḥ samabhavan / śrutvā caitattameva mattahastinamudastādhoraṇo rājaputro 'dhiruhya raṃhasottamena rājabhavanamabhyavartata / stamberamarayāvadhūtapadātidattartmā ca praviśya veśyābhyantaramadabhrābhranirghoṣagambhīreṇa svareṇābhyadhāt--"kaḥ sa mahāpuruṣo yainaitanmānuṣamātraduṣkaraṃ mahatkarmānuṣṭhitam / āgacchatu / mayā sahemaṃ mattahastinamārohatu / abhayaṃ madupakaṇṭhavartino devadānavairapi vigṛhṇānasya' iti / niśamyaivaṃ sa pumānupoḍhaharṣo nirgatya kṛtā ñjalirākramya saṃjñāsaṃkucitaṃ kuñjaragātramasaktamadhyarukṣat / ārohantamevainaṃ nirvarṇyaharṣotphulladṛṣṭiḥ "aye, priyasakho 'yamapahāravarmaiva' iti paścānniṣīdato 'sya bāhudaṇḍayugalamubhayabhujamūlapraveśitamagre 'valambya svamaṅgamāliṅgayāmāsa / svayaṃ ca pṛṣṭhato valitābhyāṃ bhujābhyāṃ paryaveṣṭayat / tatkṣaṇopasaṃhṛtāliṅganavyatikaraścāpahāravarmā cāpacakrakaṇapakarpaṇaprāsapaṭṭiśamusalatomarādipraharaṇajātamupayuñjānān balāvaliptānpratibalavīrānbahuprakārāyodhinaḥ parikṣipataḥ kṣitau vicikṣepa / kṣaṇena cādrākṣīttadapisainyamanyena samantato 'bhimukhamabhidhāvatā balanikāyena parikṣiptam / anantaraṃ ca kaścitkarmikāragauraḥ kuruvindasavarṇakuntalaḥ kamalakomalapāṇipādaḥ karṇacumbidugdhadhavalasnigdhanīlalocanaḥ kaṭitaṭaniviṣṭaratnanakhaḥ paṭṭanivasanaḥ kṛśākṛśodaroraḥsthalaḥ kṛtahastatayā ripukulamiṣuvarṣeṇābhivarṣanpādāṅguṣṭhaniṣṭharāvaghṛṣṭakarṇamūlena prajavinā gajena saṃnikṛṣya pūrvopadeśapratyayāt "ayameva sa devo rājavāhanaḥ' ti prāñjaliḥ praṇamyāpahāravarmaṇi niviṣṭadṛṣṭirācaṣṭatvadādiṣṭena mārgeṇa saṃnipātitametadaṅgarājasahāyyadānāyopasthitaṃ rājakam / aribalaṃ ca vihitavidhvastaṃ strībālahāryaśastraṃ vartate / kimanyatkṛtyam' iti / hṛṣṭastu vyājahārāpahāraṃvarmā--"deva, dṛṣṭidānenānugṛhyatāmayamājñākāraḥ / so 'yameva hyamunā rūpaṇe dhanamitrākhyayā cāntarito mantavyaḥ sa evāyaṃ nirgamapyabandhanādaṅgarājamapavarjitaṃ ca kośavāhanamekīkṛtyāsmadgṛhyeṇāmunā saha rājanyakenaikānte sukhopaviṣṭamiha devamupatiṣṭhatu yadi na doṣaḥ' iti / devo 'pi "yathā te rocate' iti tamābhāṣya gatvā ca tannirdiṣṭena mārgeṇa nagarādvahiratimahato rohiṇadrumasya kasyacitkṣaumāvadātasaikate gaṅgātaraṅgapavanapātaśītale tale dviradādavatatara / prathamasamavatīrṇenāpahāravarmaṇā ca svahastasatvarasamīkṛte mātaṅga iva bhāgīrathīpulinamaṇaaḍale sukhaṃ niṣasāda / tathā niṣaṇmaṃ ca tamupahāravarmārthapālapramatimitrraguptamantraguptaviśrutairmaithilena ca prahāravarmaṇā, kāśībhartrā ca kāmapālena campeśvareṇa siṃhavarmaṇā sahopāgataya dhanamitraḥ praṇipapāta / devo 'pi harṣāviddhamabhyutthitaḥ "kathaṃ samasta eṣa mitragaṇaḥ samāgataḥ ko nāmāyamabhyudayaḥ' iti kṛtayathocitopacārānnirbharataraṃ parirebhe / kāśapitimaithilāṅgarājāṃścasuhṛnniveditānpitṛvadapaśyat / taiśca harṣakampitapalitaṃ sarabhasopagūḍhaḥ paramabhinananda / tataḥ pravṛttāsu prītisaṃkathāsu priyavayamyagaṇānuyuktaḥ svasya ca somadattapuṣpodbhevayāścaritamanuvaraṇya suhṛdāmapi vṛttāntaṃ krameṇa śrotuṃ kṛtaprastāvastāṃśca taduktāvanvayuṅkta / teṣu prathamaṃ prāha sma kilāpahāravarmā--

Sanskrit only: no published translation is held for this verse.

ततो ऽहमेवाहन्येय । तदियमत्र प्रतिपत्तिःऽ इति । नागदन्तलग्ननिर्यासकल्कवर्णितं फलकमादाय मणिसमुद्गकाद्वर्णवर्तिकामुद्धृत्य तां तथाशयानां तस्याश्च मामावद्धञ्जालिं चरणलग्नमालिखमार्यां चैताम्- "त्वामयमाबद्धाञ्जलि दासजनस्तमिममर्थमर्थयते । स्वपिहि मया सह सुरतव्यतिकरखिन्नेव मा मैवम्ऽ ॥ हेमकरण्डकाच्चवासताम्बूलवीटिकां कपूरस्फुटिकां पारिजातकं चोपयुज्यालक्तकपाटलेन तद्रसेन सुधाभितौ चक्रवाकमिथुनं निरष्ठीवम् । अङ्गुलीयकविनिमयं च कृत्वा कथङ्कथमपि निरगाम् । सुरङ्गया च प्रत्येत्य बन्धागारं तत्र बद्धस्य नागरिकवरस्य सिंहघोषनाम्नस्तेष्वेव दिनेषु मित्रत्वेनोपचरितस्य "एवं मया हतस्तपस्वी कान्तकः, तत्त्वया प्रतिभिद्य रहस्यं लब्धव्यो मोक्षःऽ इत्युपदिश्य सह शृगालिकया निरक्रामिषम् । नृपतिपथे च समागत्य रक्षिकपुरुषैरगृह्ये । अचिन्तयं च-"अलमस्मि जवेनापसर्तुमनामृष्ट एवैभिः । एषा पुनर्वराकी गृह्येत । तदिदमत्र प्राप्तरूपम्ऽ इति तानेव चपलमभिपत्य स्वपृष्ठसमर्पितकूर्परः पराङ्मुखः स्थित्वा "भद्राः, यद्यहमस्मि तस्करः बध्नीत माम् । युष्माकमयमधिकारः, न पुनरस्या वर्षियस्याःऽ इत्यवादिषम् । सा तु तावतैवोन्नीतमदभिप्राया तान्सप्रणाममभ्येत्य "भद्रमुखाः, ममैष पुत्रो वायुग्रस्तश्चिरं चिकित्सितः । पूर्वेद्यः प्रसन्नकल्पः प्रकृतिश्थ एव जातः । जातास्थया मया बन्धनान्निष्क्रमय्य स्नापितो ऽनुलेपितश्चपरिधाप्यनिष्प्रवाणियुगलमभ्यवहार्य परमान्नमौशीरे ऽद्यकामचारः कृतो ऽभूत् । अथ निशीथे भूय एव वायुनिघ्नः "निहत्य कान्तकं नृपतिदुहित्रा रमेयऽ इति रंहसा परेण राजपथमभ्यपतत् । निरूप्य चाहं पुत्रमेवङ्गतमस्यां वेलायामनुधावामि । तत्प्रसीदत । बद्ध्वैनं मह्यमर्पयतऽ इति यावदसौक्रन्दति तावदहं "स्थविरे, केन देवो मातरिश्वा बद्धपूर्वः । किमेते काकाःशौङ्गेयस्य मे निग्रहीतारः । शान्तं पापम्ऽ इत्यभ्यधावम् । असावप्यमीभिः "त्वमेवोन्मत्ता यानुन्मत्त इत्युन्मत्तं मुक्तदवती । कस्तमिदानीं बध्नातिऽ इति निन्दिता कदर्थिता रुदत्येवमामन्वधावत् । गत्वा च रागमञ्जरीगृहं चिरविरहखेदविह्वलामिमां बहुविधं समाश्वास्य तं निशाशेषमनयम् । प्रत्यूषे पुनरुदारकेण च समगच्छे । अथ भगवन्तं मरीचिं वेशकृच्छुदुत्थाय पुनः प्रतितप्ततपःप्रभावप्रत्यापन्नादिव्यचक्षुषमुपसंगम्य तेनास्म्येवंभूतत्वद्दर्शनमवगमितः । सिंहघोषश्च कान्तकापचारं निर्भिद्य ततपदे प्रसन्नेन राज्ञा प्रतिष्ठापितः तेनैव चारकसुरङ्गापथेन कन्यापुरप्रवेशं भूयो ऽपि मे समपादयत् । समगंसि चाहं शृगालिकामुखनिःसृतवार्तानुरक्तया राजदुहित्रा । तष्वेवे दिवसेषु चण्डवर्मा सिंहवर्मावधूतदुहितृप्रार्थनः कुपितो ऽभियुज्य पुरमवारुणत् । अमर्षणश्चाङ्गराजो यावदरिः पारग्रामिकं विधिमाचिकीर्षति तावत्स्वयमेव प्राकारं निर्भिद्य प्रत्यासन्नानपि सहायानप्रतीक्षमाणो निर्गत्याभ्यधिकबलेन विद्विषा महति संपराये भिन्नवर्मा सिंहवर्मा बलादगृह्यत । अम्बालिका च बलवदभिगृह्य चण्डवर्मणा हठात्परिणेतुमात्मभवनमनीयत् । कौतुकं च स किल क्षपावसाने विवाह इत्यबध्नात् । अहं च धनमित्रगृहे तद्विवाहायैव पिनद्धमङ्गलप्रतिसरस्तमेवमवोचम्-"सखे, समापतितमेवाङ्गराजाभिसरं राजमण्डलम् । सुगूढमेव संभूय पौरवृद्धैस्तदुपावर्तय । उपावृत्तश्च कृत्तशिरसमेव शुत्रुं द्रक्ष्यसिऽ इति । "तथाऽ इति तेनाभ्युपगते गतायुषो ऽमुष्य भवनमुत्सवाकुलमुपसमाधीयमानपरिणयोपकरणमिस्ततः प्रवेशनिर्गमप्रवृत्तलोकसंबाधमलक्ष्यशस्त्रिकः सह प्रविश्य मङ्गलपाठकैरम्बलिकापाणिपल्लवमग्नौ साक्षिण्याथर्वणेन विधिनार्प्यमाणमादित्समानस्यायामिनं बाहुदुण्डमाकृष्य च्छुरिकयोरसि प्राहर्षम् । स्फुरतश्च कतिपयानन्यानपि यमविषयमगमयम् । हतविध्वस्तदं च तद्गृहमन् विचरन्वेपमानमधुरगात्रीं विशाललोचनामभिनिशाम्य तदालिङ्गनसुखमनुबुभूषुस्तामादाय गर्भगृहमविक्षम् । अस्मिन्नेव क्षणे तवास्मि नवाम्बुवाहस्तनितगम्भीरेण स्वरेणानुगृहीतःऽ इति । श्रुत्वा च स्मित्वा च देवो ऽपि रजवाहनः "कथमसि कार्कस्येन कर्णीसुतमप्यतिक्रान्तःऽ इत्यभिधाय पुनरवेक्ष्योपहारवर्माणम् आचक्ष्व, तवेदानीमवसरःऽ इत्यभाषत । सो ऽपि सस्मितं प्रणस्यारभताभिधातुम्

tato 'hamevāhanyeya / tadiyamatra pratipattiḥ' iti / nāgadantalagnaniryāsakalkavarṇitaṃ phalakamādāya maṇisamudgakādvarṇavartikāmuddhṛtya tāṃ tathāśayānāṃ tasyāśca māmāvaddhañjāliṃ caraṇalagnamālikhamāryāṃ caitām- "tvāmayamābaddhāñjali dāsajanastamimamarthamarthayate / svapihi mayā saha suratavyatikarakhinneva mā maivam' // hemakaraṇḍakāccavāsatāmbūlavīṭikāṃ kapūrasphuṭikāṃ pārijātakaṃ copayujyālaktakapāṭalena tadrasena sudhābhitau cakravākamithunaṃ niraṣṭhīvam / aṅgulīyakavinimayaṃ ca kṛtvā kathaṅkathamapi niragām / suraṅgayā ca pratyetya bandhāgāraṃ tatra baddhasya nāgarikavarasya siṃhaghoṣanāmnasteṣveva dineṣu mitratvenopacaritasya "evaṃ mayā hatastapasvī kāntakaḥ, tattvayā pratibhidya rahasyaṃ labdhavyo mokṣaḥ' ityupadiśya saha śṛgālikayā nirakrāmiṣam / nṛpatipathe ca samāgatya rakṣikapuruṣairagṛhye / acintayaṃ ca-"alamasmi javenāpasartumanāmṛṣṭa evaibhiḥ / eṣā punarvarākī gṛhyeta / tadidamatra prāptarūpam' iti tāneva capalamabhipatya svapṛṣṭhasamarpitakūrparaḥ parāṅmukhaḥ sthitvā "bhadrāḥ, yadyahamasmi taskaraḥ badhnīta mām / yuṣmākamayamadhikāraḥ, na punarasyā varṣiyasyāḥ' ityavādiṣam / sā tu tāvataivonnītamadabhiprāyā tānsapraṇāmamabhyetya "bhadramukhāḥ, mamaiṣa putro vāyugrastaściraṃ cikitsitaḥ / pūrvedyaḥ prasannakalpaḥ prakṛtiśtha eva jātaḥ / jātāsthayā mayā bandhanānniṣkramayya snāpito 'nulepitaścaparidhāpyaniṣpravāṇiyugalamabhyavahārya paramānnamauśīre 'dyakāmacāraḥ kṛto 'bhūt / atha niśīthe bhūya eva vāyunighnaḥ "nihatya kāntakaṃ nṛpatiduhitrā rameya' iti raṃhasā pareṇa rājapathamabhyapatat / nirūpya cāhaṃ putramevaṅgatamasyāṃ velāyāmanudhāvāmi / tatprasīdata / baddhvainaṃ mahyamarpayata' iti yāvadasaukrandati tāvadahaṃ "sthavire, kena devo mātariśvā baddhapūrvaḥ / kimete kākāḥśauṅgeyasya me nigrahītāraḥ / śāntaṃ pāpam' ityabhyadhāvam / asāvapyamībhiḥ "tvamevonmattā yānunmatta ityunmattaṃ muktadavatī / kastamidānīṃ badhnāti' iti ninditā kadarthitā rudatyevamāmanvadhāvat / gatvā ca rāgamañjarīgṛhaṃ ciravirahakhedavihvalāmimāṃ bahuvidhaṃ samāśvāsya taṃ niśāśeṣamanayam / pratyūṣe punarudārakeṇa ca samagacche / atha bhagavantaṃ marīciṃ veśakṛcchudutthāya punaḥ pratitaptatapaḥprabhāvapratyāpannādivyacakṣuṣamupasaṃgamya tenāsmyevaṃbhūtatvaddarśanamavagamitaḥ / siṃhaghoṣaśca kāntakāpacāraṃ nirbhidya tatapade prasannena rājñā pratiṣṭhāpitaḥ tenaiva cārakasuraṅgāpathena kanyāpurapraveśaṃ bhūyo 'pi me samapādayat / samagaṃsi cāhaṃ śṛgālikāmukhaniḥsṛtavārtānuraktayā rājaduhitrā / taṣveve divaseṣu caṇḍavarmā siṃhavarmāvadhūtaduhitṛprārthanaḥ kupito 'bhiyujya puramavāruṇat / amarṣaṇaścāṅgarājo yāvadariḥ pāragrāmikaṃ vidhimācikīrṣati tāvatsvayameva prākāraṃ nirbhidya pratyāsannānapi sahāyānapratīkṣamāṇo nirgatyābhyadhikabalena vidviṣā mahati saṃparāye bhinnavarmā siṃhavarmā balādagṛhyata / ambālikā ca balavadabhigṛhya caṇḍavarmaṇā haṭhātpariṇetumātmabhavanamanīyat / kautukaṃ ca sa kila kṣapāvasāne vivāha ityabadhnāt / ahaṃ ca dhanamitragṛhe tadvivāhāyaiva pinaddhamaṅgalapratisarastamevamavocam-"sakhe, samāpatitamevāṅgarājābhisaraṃ rājamaṇḍalam / sugūḍhameva saṃbhūya pauravṛddhaistadupāvartaya / upāvṛttaśca kṛttaśirasameva śutruṃ drakṣyasi' iti / "tathā' iti tenābhyupagate gatāyuṣo 'muṣya bhavanamutsavākulamupasamādhīyamānapariṇayopakaraṇamistataḥ praveśanirgamapravṛttalokasaṃbādhamalakṣyaśastrikaḥ saha praviśya maṅgalapāṭhakairambalikāpāṇipallavamagnau sākṣiṇyātharvaṇena vidhinārpyamāṇamāditsamānasyāyāminaṃ bāhuduṇḍamākṛṣya cchurikayorasi prāharṣam / sphurataśca katipayānanyānapi yamaviṣayamagamayam / hatavidhvastadaṃ ca tadgṛhaman vicaranvepamānamadhuragātrīṃ viśālalocanāmabhiniśāmya tadāliṅganasukhamanububhūṣustāmādāya garbhagṛhamavikṣam / asminneva kṣaṇe tavāsmi navāmbuvāhastanitagambhīreṇa svareṇānugṛhītaḥ' iti / śrutvā ca smitvā ca devo 'pi rajavāhanaḥ "kathamasi kārkasyena karṇīsutamapyatikrāntaḥ' ityabhidhāya punaravekṣyopahāravarmāṇam ācakṣva, tavedānīmavasaraḥ' ityabhāṣata / so 'pi sasmitaṃ praṇasyārabhatābhidhātum

Sanskrit only: no published translation is held for this verse.

अकूजचच सा तं जनं कृतान्तदृतीवाह्वयन्ती । प्रावर्तिषि चाहमगुरुचन्दनप्रमुखानि होतुम् । आयासीच्च राजा यथोक्तं देशम् । शङ्कापन्नमिव किञ्चित्सविस्मयं विचार्य तिष्ठन्तमब्रवम्--"ब्रूहि सत्यं भूयो ऽपि मे भगवन्तं चित्रभानुमेव साक्षीकृत्य । न चेदनेन रूपेण मत्सपत्नीरभिरमयिष्यसि, ततस्त्वयीदं रूपं संक्रामयेयम्ऽ इति । स तदैव "देव्यैवेयम्, नोपधिःऽ इति स्फुटोपजातसंप्रत्ययः प्रावर्तत शपथाय । स्मित्वा पुनर्मयोक्तम्--"किं वा शपथेन । कैव हि मानुपी मां परिभविष्यति । यद्यप्सरोभिः संगच्छसे, संगच्छस्व कामम् । कथय कानि ते रहस्यानि । तत्कथनान्ते हि त्वत्स्वरूपभ्रंशःऽ इति । सो ऽब्रवीत्--"अस्ति बद्धो मत्पितुः कनीयान्भ्राता प्रहारवर्मा । तं विषान्नेन व्यापाद्याजीर्णदोषं ख्यापयेयमिति मन्त्रिभिः सहा ध्यवसितम् । अनुजाय विशालवर्मणे दण्डचक्रं पुण्ड्रदेशाभिक्रमणाय दित्सितम् । पौरवृद्धश्च पाञ्चालिकः परित्रातश्च सार्थवाहः स्वनतिनाम्नो यवनाद्वज्रमेकं वसुंधरामूल्यं लधीयसार्धेण लभ्यमिति ममैकान्ते ऽमन्त्रयेताम् । गृहपतिश्च ममान्तरङ्गभूतो जनपदमहत्तरः शतहलिरलीकवादशीलमवलेपवन्तं दुष्टग्रामण्यमनन्तसीरं जनपदकोपेन घातयेयमिति दण्डधरानुद्धारकर्मणि मत्प्रयोगान्नियोक्तुमभ्युपागमत् । इत्थमिदमचिरप्रस्तुतं रहस्यम्ऽ । इत्याकर्ण्य-तम् "इयत्तवायुः । उपपद्यस्व स्वकर्मोचितां गतिम्ऽ इति च्छुरिकया द्विधाकृत्य कृत्तमात्रं तस्मिन्नेव प्रवृत्तस्फीतसर्पिषि हिरण्यरेतस्यजूहवम् । अभूच्चासौ भस्मसात् । अथ स्त्रीस्वभावादीषद्विह्वलां हृदयवल्लभां समाश्वास्य हस्तकिसलये ऽवलम्ब्य गत्वा तद्गृहमनुज्ञयास्याः सर्वाण्यन्तःपुराण्याहूय सद्य एव सेवां दत्तवान् । सविस्मितविलासिनीसार्थमध्ये कञ्चिद्विहृत्य कालं विसृष्टावरोधमण्डलस्तामेव संहतोरूमूरूपपीडं भुजोपपीडं चोपगुह्य तल्पे ऽभिरमयन्नल्पामिव तां निशामत्यनैषम् । अलभे च तन्मुखात्तद्राजकुलस्य शीलम् । उषसि स्नात्वा कृतमङ्गलो मन्त्रिभिः सह समगच्छे । तांश्चाब्रवम्--"आर्याः, रूपेणैव सह परिवृत्तौ मम स्वभावः । य एव विषान्नेन हन्तु चिन्तितः पता मे स मुक्त्वा स्वमेतद्राज्यं भूय एव ग्राहयितव्यः । पितृवदमुष्मिन्वयं शुश्रूषयैव वर्तामहे । न ह्यस्ति पितृवधात्परं पातकम्ऽ इति । भ्रातरं च विशालवर्माणमाहूयोक्तवान्--"वत्स, न सुभिक्षाः सांप्रतं पुण्ड्राः ते दुःखमोहोपहतास्त्यक्तात्मानो राष्ट्रं नो न समृद्धमभिद्रवेयुः । अतो मुष्टिवधः सस्यवधो वा यदोत्पद्यते तदाभियास्यसि, नाद्य यात्रा युक्ताऽ इति । नगरवृद्धावप्यवलापिषम्--"अल्पीयसा मूल्येन महार्हं वस्तु मास्तु मे लभ्यं धर्मरक्षायै, तदनुगुणेनैव मूल्येनादः क्रीयताम्ऽ इति । शतहलिं च राष्ट्रमुख्यमाहूयाख्यातवान्--"यो ऽसावनन्तसीरः प्रहारवर्मणः पक्ष इति निनाशयिषितः, सो ऽपि पितरि मे प्रकृतिस्थि किमिति नाश्येत, तत्त्वयापि तस्मिन्संरम्भो न कार्यःऽ इति । त इमे सर्वमाभिज्ञानिकमुपलभ्य "स एवायम्ऽ इति निश्चिन्वाना विस्मयमानाश्च मां महादेवीं च प्रशंसन्तो मन्त्रबलानि चोद्धोपयन्तो बन्धनात्पितरौ निष्क्रामय्य स्वं राज्यं प्रत्यपादयन् । अहं च तया मे धात्र्या सर्वमिदं ममाचेष्टितं रहसि पित्रोरवगमय्य प्रहर्षकाष्ठाधिरूढयोस्तयोः पादमूलमभजे । अभज्ये च यौवराज्यलक्ष्म्या तदनुज्ञातया । प्रसाधितात्मा देवपादविरहृदुःखदुर्भगान्भोगान्निर्विशन्भूयो ऽस्य पितृसखस्य सिंहवर्मणो लेख्याच्चण्डवर्मणश्चम्पाभियोगमवगम्य "शत्रुवधो मित्ररक्षा चोभयमपि करणीयमेवऽ इत्यलघुना लघुसमुत्थानेन सैन्यचक्रेणाभ्यसरम् । अभवं च भूमित्स्वत्पादलक्ष्मीसाक्षात्क्रियामहोत्सवानन्दराशेःऽ इति । श्रुत्वैतद्देवो राजवाहनः सन्मितमवादीत्--"पश्यत पारतल्पिकमुपधियुक्तमपि गुरुजनून्धव्यसनमुक्तिहेतुतया दुष्टामित्रप्रमापणाभ्युपायतया राज्योपलब्धिमूलतया च पुष्कलावर्थधर्मावप्यरीरधत् । किं हि बुद्धिमत्प्रयुक्तं नाभ्युपैति शोभाम्ऽ इति । अर्थपालमुखे निधाय स्निग्धदीर्घां दृष्टिम् "आचष्टां भवानात्मीयचरितम्ऽ इत्यादिदेश । सो ऽपि बद्धाञ्जलिरभिदधे

akūjacaca sā taṃ janaṃ kṛtāntadṛtīvāhvayantī / prāvartiṣi cāhamagurucandanapramukhāni hotum / āyāsīcca rājā yathoktaṃ deśam / śaṅkāpannamiva kiñcitsavismayaṃ vicārya tiṣṭhantamabravam--"brūhi satyaṃ bhūyo 'pi me bhagavantaṃ citrabhānumeva sākṣīkṛtya / na cedanena rūpeṇa matsapatnīrabhiramayiṣyasi, tatastvayīdaṃ rūpaṃ saṃkrāmayeyam' iti / sa tadaiva "devyaiveyam, nopadhiḥ' iti sphuṭopajātasaṃpratyayaḥ prāvartata śapathāya / smitvā punarmayoktam--"kiṃ vā śapathena / kaiva hi mānupī māṃ paribhaviṣyati / yadyapsarobhiḥ saṃgacchase, saṃgacchasva kāmam / kathaya kāni te rahasyāni / tatkathanānte hi tvatsvarūpabhraṃśaḥ' iti / so 'bravīt--"asti baddho matpituḥ kanīyānbhrātā prahāravarmā / taṃ viṣānnena vyāpādyājīrṇadoṣaṃ khyāpayeyamiti mantribhiḥ sahā dhyavasitam / anujāya viśālavarmaṇe daṇḍacakraṃ puṇḍradeśābhikramaṇāya ditsitam / pauravṛddhaśca pāñcālikaḥ paritrātaśca sārthavāhaḥ svanatināmno yavanādvajramekaṃ vasuṃdharāmūlyaṃ ladhīyasārdheṇa labhyamiti mamaikānte 'mantrayetām / gṛhapatiśca mamāntaraṅgabhūto janapadamahattaraḥ śatahaliralīkavādaśīlamavalepavantaṃ duṣṭagrāmaṇyamanantasīraṃ janapadakopena ghātayeyamiti daṇḍadharānuddhārakarmaṇi matprayogānniyoktumabhyupāgamat / itthamidamaciraprastutaṃ rahasyam' / ityākarṇya-tam "iyattavāyuḥ / upapadyasva svakarmocitāṃ gatim' iti cchurikayā dvidhākṛtya kṛttamātraṃ tasminneva pravṛttasphītasarpiṣi hiraṇyaretasyajūhavam / abhūccāsau bhasmasāt / atha strīsvabhāvādīṣadvihvalāṃ hṛdayavallabhāṃ samāśvāsya hastakisalaye 'valambya gatvā tadgṛhamanujñayāsyāḥ sarvāṇyantaḥpurāṇyāhūya sadya eva sevāṃ dattavān / savismitavilāsinīsārthamadhye kañcidvihṛtya kālaṃ visṛṣṭāvarodhamaṇḍalastāmeva saṃhatorūmūrūpapīḍaṃ bhujopapīḍaṃ copaguhya talpe 'bhiramayannalpāmiva tāṃ niśāmatyanaiṣam / alabhe ca tanmukhāttadrājakulasya śīlam / uṣasi snātvā kṛtamaṅgalo mantribhiḥ saha samagacche / tāṃścābravam--"āryāḥ, rūpeṇaiva saha parivṛttau mama svabhāvaḥ / ya eva viṣānnena hantu cintitaḥ patā me sa muktvā svametadrājyaṃ bhūya eva grāhayitavyaḥ / pitṛvadamuṣminvayaṃ śuśrūṣayaiva vartāmahe / na hyasti pitṛvadhātparaṃ pātakam' iti / bhrātaraṃ ca viśālavarmāṇamāhūyoktavān--"vatsa, na subhikṣāḥ sāṃprataṃ puṇḍrāḥ te duḥkhamohopahatāstyaktātmāno rāṣṭraṃ no na samṛddhamabhidraveyuḥ / ato muṣṭivadhaḥ sasyavadho vā yadotpadyate tadābhiyāsyasi, nādya yātrā yuktā' iti / nagaravṛddhāvapyavalāpiṣam--"alpīyasā mūlyena mahārhaṃ vastu māstu me labhyaṃ dharmarakṣāyai, tadanuguṇenaiva mūlyenādaḥ krīyatām' iti / śatahaliṃ ca rāṣṭramukhyamāhūyākhyātavān--"yo 'sāvanantasīraḥ prahāravarmaṇaḥ pakṣa iti nināśayiṣitaḥ, so 'pi pitari me prakṛtisthi kimiti nāśyeta, tattvayāpi tasminsaṃrambho na kāryaḥ' iti / ta ime sarvamābhijñānikamupalabhya "sa evāyam' iti niścinvānā vismayamānāśca māṃ mahādevīṃ ca praśaṃsanto mantrabalāni coddhopayanto bandhanātpitarau niṣkrāmayya svaṃ rājyaṃ pratyapādayan / ahaṃ ca tayā me dhātryā sarvamidaṃ mamāceṣṭitaṃ rahasi pitroravagamayya praharṣakāṣṭhādhirūḍhayostayoḥ pādamūlamabhaje / abhajye ca yauvarājyalakṣmyā tadanujñātayā / prasādhitātmā devapādavirahṛduḥkhadurbhagānbhogānnirviśanbhūyo 'sya pitṛsakhasya siṃhavarmaṇo lekhyāccaṇḍavarmaṇaścampābhiyogamavagamya "śatruvadho mitrarakṣā cobhayamapi karaṇīyameva' ityalaghunā laghusamutthānena sainyacakreṇābhyasaram / abhavaṃ ca bhūmitsvatpādalakṣmīsākṣātkriyāmahotsavānandarāśeḥ' iti / śrutvaitaddevo rājavāhanaḥ sanmitamavādīt--"paśyata pāratalpikamupadhiyuktamapi gurujanūndhavyasanamuktihetutayā duṣṭāmitrapramāpaṇābhyupāyatayā rājyopalabdhimūlatayā ca puṣkalāvarthadharmāvapyarīradhat / kiṃ hi buddhimatprayuktaṃ nābhyupaiti śobhām' iti / arthapālamukhe nidhāya snigdhadīrghāṃ dṛṣṭim "ācaṣṭāṃ bhavānātmīyacaritam' ityādideśa / so 'pi baddhāñjalirabhidadhe

Sanskrit only: no published translation is held for this verse.

अव्यथिष्ट च दृष्टैव स मां नारीजनः । तत्र काचिदिन्दुकलेव स्वलावण्येन रसातलान्धकारांनह्नुवाना विग्रहिणीव देवी विश्वंभराःहरगृहिणीवासुरविजयायावतीर्णा, पातालमागता गृहिणीव भगवतः कुसुमधन्वनः गतलक्ष्मीरिवानेकदुर्नृपदर्शनपरिहाराय महीविवरं प्रविष्टा, निष्टप्तकनकपुत्रिकेवावदातकान्तिः कन्यका, चन्दनलतेव मलयमारुतेन, मद्दर्शनेनोद्रकम्पत्र । तथा भूते च तस्मिन्नङ्गनासमाजे, कुसुमितेव काशयष्टिः, पाण्डुशिरसिज्ञा न्यविगकाचिच्चरणयोर्मे निपत्य त्रासदीनमब्रूत-"दीयतामभयदानमस्मा अनन्यशरणाय स्त्रीजनाय । किमसि देवकुमारो दनुजयुद्धतृष्णया रसातलंविविक्षुः । आज्ञापयको ऽसि । कस्य हेतोरागतो ऽसिऽ इति । सातु मया प्रत्यवादि--"सुदत्यः, मास्म भवत्यो भैषुः । अहमस्मि द्विजातिवृषात्कामपालाद्देव्यां कान्तिमत्यामुत्पन्नोर्ऽथ पालो नाम । सत्यर्थे निजगृहान्नृपगृहं सुरङ्गयोपसरसन्निहान्तरे वो दृष्टवान् । कथयत क स्थ यूयम् । कथमिह निवसथऽ इति । सोदञ्जलिरुदीरितवती-"भर्तृदारक, भाग्यवत्यो वयम्, यास्त्वामेभिरेव चक्षुर्भिरनघमद्राक्ष्म । श्रूयताम् । यस्तवमातामहश्चणअडसिहः, तेनास्यां देव्यां लीलावतयां चण्डघोषः कान्तिमतीत्यपत्यद्वयमुदपादि । चण्डघोपस्तु युवराजो ऽत्यासङ्गादङ्गनासु राजयक्ष्मणा सुरक्षयमगादन्तर्वर्त्न्यां देव्यामाचारवत्याम् । अमुया चेयं मणिकर्णिका नाम कन्या प्रसृता । अथ प्रसववेदनया मुक्तजीविताचारवती पत्युरन्तिकमगमत् । अथ देवश्चण्डसिहो मामाहूयोपह्वरे समाज्ञापयत्-"ऋद्धिमति, कन्यकेयं कल्याणलक्षणा । तामिमां मालवेन्द्रनन्दनाय दर्षसाराय विधिवद्वर्धयित्वा दित्सामि । बिभेमि च कान्तिमतीबृत्तान्तादारभ्य कन्यकानां प्रकाशावस्थापनात् । अत इयमरातिवयसनाय कारिते महति भूमिगृहे कृत्रिमशैलगर्भोत्कीर्णनानामणअडपप्रेक्षागृहे प्रचुरपरिबर्हया भवत्या संवर्ध्यताम् । अस्त्यतिर भोग्यवस्तु वर्पशतेनाप्यक्षय्यम्ऽ इति । स तथोक्त्वा निजवासगृहस्य द्व्यङ्गुलभित्तावर्धपादं किष्कुविष्कम्भमुद्धृत्य तेनैव द्वारेण त्थानाभिदमस्मानवीविशत् । इह च नो वसन्तीनां द्वादशसमाः समत्ययुः । इयं च वत्सा तरुणीबूता । न चाद्यापि स्मरति राजा । काममियं पितामहेन दर्पसाराय संकगल्पिता । त्वदम्बया कान्तिमत्या चेयं गर्भस्थैव द्यृतजिता स्वमात्रातवैव जायात्वेन समकल्प्यत । "तदत्र प्राप्तरूपं चिन्त्यतां कुमारेणैवऽ इति । तां पुनरवोचम्-"अद्यैव राजगृहे किमपि कार्यं साधयित्वा प्रतिनिवृत्तो युष्मासु यथार्हं प्रतिपत्स्येऽ इति । तेनैव दीपदर्शितबिलपथेन गत्वा स्थितेर्ऽधरात्रे तदर्धपादं प्रत्युद्धृत्य वासगृहं प्रविष्टो विस्रब्धसुप्तं सिहघोषं जीवग्राहमग्रहीषम् । आकृष्य च तमहिमिवाहिशत्रुः स्फुरन्तममुनैव भित्तिरन्ध्रपथेन स्त्रैणसंनिधिमनैषम् । आनीय च स्वभवनमायसनिगडसंदितचरणयुगलमवनामितमलिनवनमश्रुबहुलरक्तचक्षुषमेकान्ते जनयित्रोरदर्शयम् । अकथयं च बिलकथाम् । अथ पितरौ प्रहृष्टतरौ तं निकृष्टाशयं निशम्य बन्धने नियम्य तस्या दारिकाया यथार्हेण कर्मणा मां पाणिमग्राहयेताम् । अनाथकं च तद्राज्यमस्मदायत्तमेव जातम् । प्रकृतिकोपभयात्तु मन्मात्रा मुमुक्षितो ऽपि न मुक्त एव सिंहघोषः । तथास्थिताश्च वयमङ्गराजः सिंहवर्मा देवपादानां भक्तिमान्कृतकर्मा चेत्यमित्राभियुक्तमेनमभ्यसराम । अभूवं च भवत्पादपङ्कजरजो ऽनुग्राह्याः स चेदानीं भवच्चरणप्रणामप्रायश्चित्तमनुतिष्ठतु सर्वदुश्चरितक्षालनमनार्यः सिंहघोषःऽ इत्यर्थपालः प्राञ्जलिः प्रणनाम । देवो ऽपि राजवाहनः "बहु पराक्रान्तम् । बहूपयुक्ता च बुद्धिः, मुक्तबन्धस्ते श्वशुरः पश्यतु माम्ऽ इत्यभिधाय भूयः प्रमतिमेव पश्यन्प्रीतिस्मेरः "प्रस्तूयतां तावदात्मीयं चरितम्ऽ इत्याज्ञापयत्

avyathiṣṭa ca dṛṣṭaiva sa māṃ nārījanaḥ / tatra kācidindukaleva svalāvaṇyena rasātalāndhakārāṃnahnuvānā vigrahiṇīva devī viśvaṃbharāḥharagṛhiṇīvāsuravijayāyāvatīrṇā, pātālamāgatā gṛhiṇīva bhagavataḥ kusumadhanvanaḥ gatalakṣmīrivānekadurnṛpadarśanaparihārāya mahīvivaraṃ praviṣṭā, niṣṭaptakanakaputrikevāvadātakāntiḥ kanyakā, candanalateva malayamārutena, maddarśanenodrakampatra / tathā bhūte ca tasminnaṅganāsamāje, kusumiteva kāśayaṣṭiḥ, pāṇḍuśirasijñā nyavigakāciccaraṇayorme nipatya trāsadīnamabrūta-"dīyatāmabhayadānamasmā ananyaśaraṇāya strījanāya / kimasi devakumāro danujayuddhatṛṣṇayā rasātalaṃvivikṣuḥ / ājñāpayako 'si / kasya hetorāgato 'si' iti / sātu mayā pratyavādi--"sudatyaḥ, māsma bhavatyo bhaiṣuḥ / ahamasmi dvijātivṛṣātkāmapālāddevyāṃ kāntimatyāmutpannor'tha pālo nāma / satyarthe nijagṛhānnṛpagṛhaṃ suraṅgayopasarasannihāntare vo dṛṣṭavān / kathayata ka stha yūyam / kathamiha nivasatha' iti / sodañjalirudīritavatī-"bhartṛdāraka, bhāgyavatyo vayam, yāstvāmebhireva cakṣurbhiranaghamadrākṣma / śrūyatām / yastavamātāmahaścaṇaaḍasihaḥ, tenāsyāṃ devyāṃ līlāvatayāṃ caṇḍaghoṣaḥ kāntimatītyapatyadvayamudapādi / caṇḍaghopastu yuvarājo 'tyāsaṅgādaṅganāsu rājayakṣmaṇā surakṣayamagādantarvartnyāṃ devyāmācāravatyām / amuyā ceyaṃ maṇikarṇikā nāma kanyā prasṛtā / atha prasavavedanayā muktajīvitācāravatī patyurantikamagamat / atha devaścaṇḍasiho māmāhūyopahvare samājñāpayat-"ṛddhimati, kanyakeyaṃ kalyāṇalakṣaṇā / tāmimāṃ mālavendranandanāya darṣasārāya vidhivadvardhayitvā ditsāmi / bibhemi ca kāntimatībṛttāntādārabhya kanyakānāṃ prakāśāvasthāpanāt / ata iyamarātivayasanāya kārite mahati bhūmigṛhe kṛtrimaśailagarbhotkīrṇanānāmaṇaaḍapaprekṣāgṛhe pracuraparibarhayā bhavatyā saṃvardhyatām / astyatira bhogyavastu varpaśatenāpyakṣayyam' iti / sa tathoktvā nijavāsagṛhasya dvyaṅgulabhittāvardhapādaṃ kiṣkuviṣkambhamuddhṛtya tenaiva dvāreṇa tthānābhidamasmānavīviśat / iha ca no vasantīnāṃ dvādaśasamāḥ samatyayuḥ / iyaṃ ca vatsā taruṇībūtā / na cādyāpi smarati rājā / kāmamiyaṃ pitāmahena darpasārāya saṃkagalpitā / tvadambayā kāntimatyā ceyaṃ garbhasthaiva dyṛtajitā svamātrātavaiva jāyātvena samakalpyata / "tadatra prāptarūpaṃ cintyatāṃ kumāreṇaiva' iti / tāṃ punaravocam-"adyaiva rājagṛhe kimapi kāryaṃ sādhayitvā pratinivṛtto yuṣmāsu yathārhaṃ pratipatsye' iti / tenaiva dīpadarśitabilapathena gatvā sthiter'dharātre tadardhapādaṃ pratyuddhṛtya vāsagṛhaṃ praviṣṭo visrabdhasuptaṃ sihaghoṣaṃ jīvagrāhamagrahīṣam / ākṛṣya ca tamahimivāhiśatruḥ sphurantamamunaiva bhittirandhrapathena straiṇasaṃnidhimanaiṣam / ānīya ca svabhavanamāyasanigaḍasaṃditacaraṇayugalamavanāmitamalinavanamaśrubahularaktacakṣuṣamekānte janayitroradarśayam / akathayaṃ ca bilakathām / atha pitarau prahṛṣṭatarau taṃ nikṛṣṭāśayaṃ niśamya bandhane niyamya tasyā dārikāyā yathārheṇa karmaṇā māṃ pāṇimagrāhayetām / anāthakaṃ ca tadrājyamasmadāyattameva jātam / prakṛtikopabhayāttu manmātrā mumukṣito 'pi na mukta eva siṃhaghoṣaḥ / tathāsthitāśca vayamaṅgarājaḥ siṃhavarmā devapādānāṃ bhaktimānkṛtakarmā cetyamitrābhiyuktamenamabhyasarāma / abhūvaṃ ca bhavatpādapaṅkajarajo 'nugrāhyāḥ sa cedānīṃ bhavaccaraṇapraṇāmaprāyaścittamanutiṣṭhatu sarvaduścaritakṣālanamanāryaḥ siṃhaghoṣaḥ' ityarthapālaḥ prāñjaliḥ praṇanāma / devo 'pi rājavāhanaḥ "bahu parākrāntam / bahūpayuktā ca buddhiḥ, muktabandhaste śvaśuraḥ paśyatu mām' ityabhidhāya bhūyaḥ pramatimeva paśyanprītismeraḥ "prastūyatāṃ tāvadātmīyaṃ caritam' ityājñāpayat

Sanskrit only: no published translation is held for this verse.

प्रत्यवादिषमेनम्-"स्थान एवाहमार्येणास्मि पृष्टः । श्रूयताम् । अस्ति हि श्रावस्तीनाम नगरी । तस्याः पतिरपर इव धर्मपुत्रो धर्मवर्धनो नाम राजा । तस्य दुहिता, प्रत्यादेश इव श्रियः, प्राणा इव कुसुमधन्वनः सौकुमार्याविडम्बितनवमालिका, नवमालिका नाम कन्यका । सा मया समापत्तिदृष्टा कामनाराचपङ्क्तिमिव कटाक्षमालां मम मर्मणि व्यकिरत् । तच्छल्योद्धरणाक्षमश्च धन्वन्तरिसदृशस्त्वदृते नेतरो ऽस्ति वैद्य इति प्रत्यागतो ऽस्मि । तत्प्रसीद कञ्चिदुपायमाचरितुम् । अयमहं परिवर्तितस्त्रीवेषस्ते कन्या नाम भवेयम् । अनुगतश्च मया त्वमुपगम्य धर्मासनगतं धर्मवर्धनं वक्ष्यसि--"ममेयमेकैव दुहिता । जातमात्रायां त्वस्यां जनन्यस्याः संस्थिता । माता च पिता च भूत्वाहमेव व्यवर्धयम् । एतदर्थमेव विद्यामयं शुल्कमर्जितुं गतो ऽबूदवन्तिनगरीमज्जयिनीमस्मद्वैवाह्यकुलजः को ऽपि विप्रदारकः । तस्मै चेयमनुमता दातुमितरस्मै न योग्या । तरुणीभूता चेयम् । स च विलम्बितः । तेन तमानीय पाणिमस्या ग्राहयित्वा तस्मिन् न्यस्तभारः संन्यसिष्ये । दुरभिरक्षतया तु दुहितॄणां मुक्तशैशवानाम्, विशेषतश्चामातृकाणाम्, इह देवं मातृपितृस्थानीयं प्रजानामापन्नशरणमागतो ऽस्मि । यदि वृद्धं ब्राह्मणमधीतिनमगतिमतिथिं च मामनुग्राह्यपक्षे गणयत्यादिराजचरितधुयो देवः, सैषा भवद्भुजतरुच्छायामखण्डितचारित्रा तावदध्यास्तां यावदस्याः पाणिग्राहकमानयेयम्ऽ इति । स एवमुक्तो नियतमभिमनायमानः स्वदुहितृसंनिधौ मां वासयिष्यति । गतस्तु भवानागामिनि मासि फाल्गुने फल्गुनीषूत्तरासु राजान्तःपुरजनस्य तीर्थयात्रोत्सवो भविष्यति । तीर्थस्थानात्प्राच्यां दिशिगोरुतान्तरमतिक्रम्य, वानीरवलयमध्यवर्तिनि कार्त्तिकेयगृहे करतलगतेन शुक्लाम्बरयुगलेन स्थास्यसि । स खल्वहमनभिशङ्क एवैतावन्तं कालं सहाभिविहृत्य राजकन्यया भूयस्तस्मिन्नुत्सवे गङ्गाम्भसि विहरन्विहारव्याकुले कन्यकासमाजेमग्नोपसृतस्त्वदभ्याश एवोन्मङ्क्ष्यामि । पिनस्त्वदुपहृते वाससी परिधायापनीतदारिकावेषो जामाता नाम भूत्वा त्वामेवानुगच्छेयम् । नृपात्मजा तु मामितस्ततो ऽन्विष्यानासादयन्ती "तया विना न भोक्ष्येऽ इति रुदन्त्येवावरोधने स्थास्यति । तन्मूले च महति कोलाहले, क्रन्दत्सु परिजनेषु, रुदत्सु सखीजनेषु, शोचत्सु पौरजनेषु, किङ्कर्तव्यतामूढे सामात्ये पार्थिवे, त्वमास्थानीमेत्य मां स्थापयित्वा वक्ष्यसि-"देव, स एष मे जामाता तवार्हति श्रीभुजाराधनम् । अधीति चतुर्ष्वाम्नायेषु, गृहीती षट्स्वङ्गेषु, आन्वीक्षिकीविचक्षणः, चतुःषष्टिकलागमप्रयोगचतुरः, विशेषेण गजरथतुरङ्गतन्त्रवित्, इष्वसनास्त्रकर्मणि गदायुद्धे च निरूपमः, पुराणेतिहासकुशलः, कर्ता काव्यनाटकाख्यायिकानाम्, वेत्ता सोपनिषदोर्ऽथशास्त्रस्य, निर्मत्सरो गुणेषु, विश्रम्भी सुहृत्सु, शक्लः, संविभागशीलः, श्रुतधरः, गतस्मयश्च । नास्य दोषमणीयांसमप्युपलभे । न च गुणेष्वविद्यमानम् । तन्मादृशस्य ब्राह्मणमात्रस्य न लभ्य एव सम्बन्धी । दुहितरमस्मै समर्प्य बार्धकोचितमन्त्यमाश्रमं संक्रमेयम्, यदि देवः साधु मन्यतेऽ इति । स इदमाकर्ण्य वैवर्ण्याक्रान्तवक्रः परमुपेतो वैलक्ष्यमारप्स्यते ऽनुनेतुमनित्यतादिसंकीर्तनेनैत्रभवन्तं मन्त्रिभिः सह । त्वं तु तेषामदत्तश्रोत्रो मुक्तकण्ठं रुदित्वा चिरस्य बाप्पाकुण्ठकण्ठः काष्ठान्याहृत्याग्निं संधुक्ष्य राजमन्दिरद्वारे चिताधिरोहणायोपक्रमिष्यसे । स तावदेव त्वत्पादयोर्निपत्य सामात्यो नरपतिरनूनैर्थैस्त्वामुपच्छन्द्य दुहितरं मह्यं दत्त्वा मद्योग्यतासमाराधितः समस्तमेव राज्यभारं मयि समर्पयिष्यति । सो ऽयमभ्युपायो ऽनुष्ठेयो यदि तुभ्यं रोचतेऽ इति । सो ऽपि पटुर्विटानामग्रणीरसकृदभ्यस्तकपटप्रपञ्चः पाञ्चालशर्मा यथोक्तमभ्यधिकं च निपुणमुपक्रान्तवान् । आसीच्च मम समीहितानामहीनकालसिद्धिः । अन्वभवं च मधुकर इव नवमालिकामार्द्रसुमनसम् । अस्य राज्ञः सिंहवर्मणः साहाय्यदानं सुहृत्संकेतभूमिगमनमित्युभयमपेक्ष्य सर्वबलसंदोहेन चम्पामिमामुपगतो दैवाद्देवदर्शनसुखमनुभवामिऽ इति । श्रुत्वैततप्रमतिचरितं स्मितमुकुलितमुखनलिनः विलासप्रायमूर्जितम्, मृदुप्रायं चेष्टितम्, इष्ट एष मार्गः प्रज्ञावताम् । "अथेदानीमत्रभवान्प्रविशतुऽ इति मित्रगुप्तमैक्षत क्षितीशपुत्रः

pratyavādiṣamenam-"sthāna evāhamāryeṇāsmi pṛṣṭaḥ / śrūyatām / asti hi śrāvastīnāma nagarī / tasyāḥ patirapara iva dharmaputro dharmavardhano nāma rājā / tasya duhitā, pratyādeśa iva śriyaḥ, prāṇā iva kusumadhanvanaḥ saukumāryāviḍambitanavamālikā, navamālikā nāma kanyakā / sā mayā samāpattidṛṣṭā kāmanārācapaṅktimiva kaṭākṣamālāṃ mama marmaṇi vyakirat / tacchalyoddharaṇākṣamaśca dhanvantarisadṛśastvadṛte netaro 'sti vaidya iti pratyāgato 'smi / tatprasīda kañcidupāyamācaritum / ayamahaṃ parivartitastrīveṣaste kanyā nāma bhaveyam / anugataśca mayā tvamupagamya dharmāsanagataṃ dharmavardhanaṃ vakṣyasi--"mameyamekaiva duhitā / jātamātrāyāṃ tvasyāṃ jananyasyāḥ saṃsthitā / mātā ca pitā ca bhūtvāhameva vyavardhayam / etadarthameva vidyāmayaṃ śulkamarjituṃ gato 'būdavantinagarīmajjayinīmasmadvaivāhyakulajaḥ ko 'pi vipradārakaḥ / tasmai ceyamanumatā dātumitarasmai na yogyā / taruṇībhūtā ceyam / sa ca vilambitaḥ / tena tamānīya pāṇimasyā grāhayitvā tasmin nyastabhāraḥ saṃnyasiṣye / durabhirakṣatayā tu duhitṝṇāṃ muktaśaiśavānām, viśeṣataścāmātṛkāṇām, iha devaṃ mātṛpitṛsthānīyaṃ prajānāmāpannaśaraṇamāgato 'smi / yadi vṛddhaṃ brāhmaṇamadhītinamagatimatithiṃ ca māmanugrāhyapakṣe gaṇayatyādirājacaritadhuyo devaḥ, saiṣā bhavadbhujatarucchāyāmakhaṇḍitacāritrā tāvadadhyāstāṃ yāvadasyāḥ pāṇigrāhakamānayeyam' iti / sa evamukto niyatamabhimanāyamānaḥ svaduhitṛsaṃnidhau māṃ vāsayiṣyati / gatastu bhavānāgāmini māsi phālgune phalgunīṣūttarāsu rājāntaḥpurajanasya tīrthayātrotsavo bhaviṣyati / tīrthasthānātprācyāṃ diśigorutāntaramatikramya, vānīravalayamadhyavartini kārttikeyagṛhe karatalagatena śuklāmbarayugalena sthāsyasi / sa khalvahamanabhiśaṅka evaitāvantaṃ kālaṃ sahābhivihṛtya rājakanyayā bhūyastasminnutsave gaṅgāmbhasi viharanvihāravyākule kanyakāsamājemagnopasṛtastvadabhyāśa evonmaṅkṣyāmi / pinastvadupahṛte vāsasī paridhāyāpanītadārikāveṣo jāmātā nāma bhūtvā tvāmevānugaccheyam / nṛpātmajā tu māmitastato 'nviṣyānāsādayantī "tayā vinā na bhokṣye' iti rudantyevāvarodhane sthāsyati / tanmūle ca mahati kolāhale, krandatsu parijaneṣu, rudatsu sakhījaneṣu, śocatsu paurajaneṣu, kiṅkartavyatāmūḍhe sāmātye pārthive, tvamāsthānīmetya māṃ sthāpayitvā vakṣyasi-"deva, sa eṣa me jāmātā tavārhati śrībhujārādhanam / adhīti caturṣvāmnāyeṣu, gṛhītī ṣaṭsvaṅgeṣu, ānvīkṣikīvicakṣaṇaḥ, catuḥṣaṣṭikalāgamaprayogacaturaḥ, viśeṣeṇa gajarathaturaṅgatantravit, iṣvasanāstrakarmaṇi gadāyuddhe ca nirūpamaḥ, purāṇetihāsakuśalaḥ, kartā kāvyanāṭakākhyāyikānām, vettā sopaniṣador'thaśāstrasya, nirmatsaro guṇeṣu, viśrambhī suhṛtsu, śaklaḥ, saṃvibhāgaśīlaḥ, śrutadharaḥ, gatasmayaśca / nāsya doṣamaṇīyāṃsamapyupalabhe / na ca guṇeṣvavidyamānam / tanmādṛśasya brāhmaṇamātrasya na labhya eva sambandhī / duhitaramasmai samarpya bārdhakocitamantyamāśramaṃ saṃkrameyam, yadi devaḥ sādhu manyate' iti / sa idamākarṇya vaivarṇyākrāntavakraḥ paramupeto vailakṣyamārapsyate 'nunetumanityatādisaṃkīrtanenaitrabhavantaṃ mantribhiḥ saha / tvaṃ tu teṣāmadattaśrotro muktakaṇṭhaṃ ruditvā cirasya bāppākuṇṭhakaṇṭhaḥ kāṣṭhānyāhṛtyāgniṃ saṃdhukṣya rājamandiradvāre citādhirohaṇāyopakramiṣyase / sa tāvadeva tvatpādayornipatya sāmātyo narapatiranūnairthaistvāmupacchandya duhitaraṃ mahyaṃ dattvā madyogyatāsamārādhitaḥ samastameva rājyabhāraṃ mayi samarpayiṣyati / so 'yamabhyupāyo 'nuṣṭheyo yadi tubhyaṃ rocate' iti / so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇamupakrāntavān / āsīcca mama samīhitānāmahīnakālasiddhiḥ / anvabhavaṃ ca madhukara iva navamālikāmārdrasumanasam / asya rājñaḥ siṃhavarmaṇaḥ sāhāyyadānaṃ suhṛtsaṃketabhūmigamanamityubhayamapekṣya sarvabalasaṃdohena campāmimāmupagato daivāddevadarśanasukhamanubhavāmi' iti / śrutvaitatapramaticaritaṃ smitamukulitamukhanalinaḥ vilāsaprāyamūrjitam, mṛduprāyaṃ ceṣṭitam, iṣṭa eṣa mārgaḥ prajñāvatām / "athedānīmatrabhavānpraviśatu' iti mitraguptamaikṣata kṣitīśaputraḥ

Sanskrit only: no published translation is held for this verse.

स चानुयुक्तो धूर्तः सविनयमावेदयत्--"विदितमेव खलु वः, यथाहं युष्मदाज्ञया पितृवनमभिरक्ष्य तदुपजीवी प्रतिवसामि । लुब्धाश्च कदाचिन्मद्दर्शनभीरवो निशि दहेयुरपि शवानीति निशास्वपिश्मशानमधिशये । अपरेद्युर्दग्धादग्धं मृतकं चितायाः प्रसभमाकर्षन्ती श्यामाकारां नारीमपश्यम् । अर्थलोभात्तु निगृह्य साध्वसं सा गृहीता शस्त्रिकयोरुमूले यदृच्छया किञ्चिदुल्लिखितम् । एव च नूपुरश्चरणादाक्षिप्तः । तावत्येव द्रुतगतिः सा पलायिष्ट । सो ऽयमस्यागमः । परं भवन्तः प्रमाणम्ऽ इति । विमर्शेन च तस्याः शाकिनीत्वमैकमत्येन पौराणामभिमतमासीत् । भर्त्रा च परित्यक्ता तस्मिन्नेव श्मशाने बहु विलप्य पाशेनोद्बध्य कर्तुकामा तेन धूर्तेन नक्तमगृह्यत । अनुनीता च सुन्दरि, त्वदाकारोन्मादितेन मया त्वदावर्जने बहूनुपायान्भिक्षुकीमुखेनोपन्यस्य तेष्वसिद्धेषु पुनरयमुपायो यावज्जीवमसाधारणीकृत्य रन्तुमाचरितः । तत्प्रसीदानन्यशरणायास्मै दासजनायऽ इति मुहुर्मुहुश्चरणयोर्निपत्य, प्रयुज्य सान्त्वशतानि, तामगत्यन्तरामात्मवश्यामकरोत् । तदिदमुक्तम्-"दुष्करसाधनं प्रज्ञाऽ इति । इदमाकर्ण्य ब्रह्मराक्षसो मामपूपुजत् । अस्मन्नेव क्षणे नातिप्रौढपुंनागमुकुलस्थूलानि मुक्ताफलानि सह सलिलबिन्दुभिरम्बरतलादपतन् । अहं तु "किं न्विदम्ऽ इत्युच्चक्षुरालोकयन्कमपि राक्षसं काञ्चिदङ्गनां विचेष्टमानगात्रीमाकर्षन्तमपश्यम् । कथमपहरत्यकामामपि स्त्रियमनाचारो नैरृतः इति गगनगमनमन्दशक्तिरशस्त्रश्चातप्ये । स तु मत्संबन्धी ब्रह्माराक्षसः "तिष्ठ तिष्ठ पाप, क्वापहरसिऽ इति भर्त्सयन्नुत्थाय राक्षसेन समसृज्यत । तां तु रोषादनपेक्षापविद्धाममरवृक्षमञ्जरीमिवान्तरिक्षादापतन्तीमुन्मुखप्रसारितोभयकरः कराभ्यामग्रहषिम् । उपगृह्य च वेषमानां संमीलिताक्षीं मदङ्गस्पर्शसुखोनोद्भिन्नरोमाञ्चां तादृशीमेव तामनवतरयन्नतिष्ठम् । तावत्तावुभावपि शैलशृङ्गभङ्गैः पादपैश्च रभसोन्मूलितैर्मुष्टिपादप्रहारैश्च परस्परमक्षपयेताम् । पुनरहमतिमृदुनि पुलिनवति कुसुमलवलाञ्छिते सरस्तीरे ऽवरोप्य सस्पृहं निर्वर्णयंस्तां मत्प्राणैकवल्लभां राजकन्यां कन्दुकावतीमलक्षयम् । सा हि मया समाश्वास्यमाना तिर्यङ्मामभिनिरूप्य जातप्रत्यभिज्ञा सकरुमरोदीत् । अवादीच्च-"नाथ, त्वद्दर्शनादुषोढरागा तस्मिन्कन्दुकोत्सवे पुनःसख्या चन्द्रसेनाय त्वत्कथाभिरेव समाश्वासितास्मि । त्वं किल समुद्रमध्ये मज्जितः पापेन मद्भात्रा भीमधन्वनाऽ इति श्रुत्वा सखीजनं परिजनं च वञ्चयित्वा जीवितं जिहासुरेकाकिनी क्रीडावनमुपागमम् । तत्र च मामचकमत कामरूप एष राक्षसाधम । सो ऽयं मया भीतयावधूतप्रार्थनः स्फुरन्तीं मां निगृह्याभ्यधावत् । अत्रैवमवसितो ऽभूत् । "अहं च दैवात्तवैव जीवितेशस्य हस्ते पतिता । भद्रं तवऽ इति । श्रुत्वा च तया सहावरुह्य, नावमध्यारोहम् । मुक्ता च नौः प्रतिवातप्रेरिता तामेव दामलिप्तां प्रत्युपातिष्ठत् । अवरूढाश्च वयमश्रमेण "तनयस्य च तनयायाश्च नाशादनन्यापत्यस्तुङ्गधन्वा सुह्यपतिर्निष्कलः स्वयं सकलत्र एव निष्कलङ्कगङ्गारोधस्यनशनेनोपरन्तु प्रतिष्ठते । सह तेन मर्तुमिच्छत्यनन्यनाथो ऽनुरक्तः पौरवृद्धलोकःऽ इत्यश्रुमुखीनां प्रजानामाक्रन्दमशृणुम् । अथाहमस्मै राज्ञे यथावृत्तमाख्याय तदपत्यद्वयं प्रत्यर्पितवान् । प्रीतेन तेन जामाता कृतो ऽस्मि दामालिप्तेश्वरेण । तत्पुत्रो मदनुजीवा जातः । मदाज्ञप्तेन चामुना प्राणवदुज्झिता चन्द्रसेना कोशदासमभजत् । ततश्च सिंहवर्मसाहाय्यार्थमत्रागत्यं भर्तुरतव दर्शनोत्सवसुखमनुभवामिऽ इति । श्रुत्वा "चित्रेयं दैवगतिः । अवसरेषु पुष्कलः पुरुषकार-ऽ इत्यभिधाय भूयः स्मिताभिषिक्तदन्तच्छदो मन्त्रगुप्ते हर्षोत्फुल्लं चक्षुः पातयामास देवो राजवाहनः स किल करकमलेन किञ्चित्संवृताननो ललितवल्लभारभसदत्तदन्तक्षतव्यसनविह्वलधरमणिर्निरोष्ठ्यवर्णमात्मचरितमाचचक्षे

sa cānuyukto dhūrtaḥ savinayamāvedayat--"viditameva khalu vaḥ, yathāhaṃ yuṣmadājñayā pitṛvanamabhirakṣya tadupajīvī prativasāmi / lubdhāśca kadācinmaddarśanabhīravo niśi daheyurapi śavānīti niśāsvapiśmaśānamadhiśaye / aparedyurdagdhādagdhaṃ mṛtakaṃ citāyāḥ prasabhamākarṣantī śyāmākārāṃ nārīmapaśyam / arthalobhāttu nigṛhya sādhvasaṃ sā gṛhītā śastrikayorumūle yadṛcchayā kiñcidullikhitam / eva ca nūpuraścaraṇādākṣiptaḥ / tāvatyeva drutagatiḥ sā palāyiṣṭa / so 'yamasyāgamaḥ / paraṃ bhavantaḥ pramāṇam' iti / vimarśena ca tasyāḥ śākinītvamaikamatyena paurāṇāmabhimatamāsīt / bhartrā ca parityaktā tasminneva śmaśāne bahu vilapya pāśenodbadhya kartukāmā tena dhūrtena naktamagṛhyata / anunītā ca sundari, tvadākāronmāditena mayā tvadāvarjane bahūnupāyānbhikṣukīmukhenopanyasya teṣvasiddheṣu punarayamupāyo yāvajjīvamasādhāraṇīkṛtya rantumācaritaḥ / tatprasīdānanyaśaraṇāyāsmai dāsajanāya' iti muhurmuhuścaraṇayornipatya, prayujya sāntvaśatāni, tāmagatyantarāmātmavaśyāmakarot / tadidamuktam-"duṣkarasādhanaṃ prajñā' iti / idamākarṇya brahmarākṣaso māmapūpujat / asmanneva kṣaṇe nātiprauḍhapuṃnāgamukulasthūlāni muktāphalāni saha salilabindubhirambaratalādapatan / ahaṃ tu "kiṃ nvidam' ityuccakṣurālokayankamapi rākṣasaṃ kāñcidaṅganāṃ viceṣṭamānagātrīmākarṣantamapaśyam / kathamapaharatyakāmāmapi striyamanācāro nairṛtaḥ iti gaganagamanamandaśaktiraśastraścātapye / sa tu matsaṃbandhī brahmārākṣasaḥ "tiṣṭha tiṣṭha pāpa, kvāpaharasi' iti bhartsayannutthāya rākṣasena samasṛjyata / tāṃ tu roṣādanapekṣāpaviddhāmamaravṛkṣamañjarīmivāntarikṣādāpatantīmunmukhaprasāritobhayakaraḥ karābhyāmagrahaṣim / upagṛhya ca veṣamānāṃ saṃmīlitākṣīṃ madaṅgasparśasukhonodbhinnaromāñcāṃ tādṛśīmeva tāmanavatarayannatiṣṭham / tāvattāvubhāvapi śailaśṛṅgabhaṅgaiḥ pādapaiśca rabhasonmūlitairmuṣṭipādaprahāraiśca parasparamakṣapayetām / punarahamatimṛduni pulinavati kusumalavalāñchite sarastīre 'varopya saspṛhaṃ nirvarṇayaṃstāṃ matprāṇaikavallabhāṃ rājakanyāṃ kandukāvatīmalakṣayam / sā hi mayā samāśvāsyamānā tiryaṅmāmabhinirūpya jātapratyabhijñā sakarumarodīt / avādīcca-"nātha, tvaddarśanāduṣoḍharāgā tasminkandukotsave punaḥsakhyā candrasenāya tvatkathābhireva samāśvāsitāsmi / tvaṃ kila samudramadhye majjitaḥ pāpena madbhātrā bhīmadhanvanā' iti śrutvā sakhījanaṃ parijanaṃ ca vañcayitvā jīvitaṃ jihāsurekākinī krīḍāvanamupāgamam / tatra ca māmacakamata kāmarūpa eṣa rākṣasādhama / so 'yaṃ mayā bhītayāvadhūtaprārthanaḥ sphurantīṃ māṃ nigṛhyābhyadhāvat / atraivamavasito 'bhūt / "ahaṃ ca daivāttavaiva jīviteśasya haste patitā / bhadraṃ tava' iti / śrutvā ca tayā sahāvaruhya, nāvamadhyāroham / muktā ca nauḥ prativātapreritā tāmeva dāmaliptāṃ pratyupātiṣṭhat / avarūḍhāśca vayamaśrameṇa "tanayasya ca tanayāyāśca nāśādananyāpatyastuṅgadhanvā suhyapatirniṣkalaḥ svayaṃ sakalatra eva niṣkalaṅkagaṅgārodhasyanaśanenoparantu pratiṣṭhate / saha tena martumicchatyananyanātho 'nuraktaḥ pauravṛddhalokaḥ' ityaśrumukhīnāṃ prajānāmākrandamaśṛṇum / athāhamasmai rājñe yathāvṛttamākhyāya tadapatyadvayaṃ pratyarpitavān / prītena tena jāmātā kṛto 'smi dāmālipteśvareṇa / tatputro madanujīvā jātaḥ / madājñaptena cāmunā prāṇavadujjhitā candrasenā kośadāsamabhajat / tataśca siṃhavarmasāhāyyārthamatrāgatyaṃ bharturatava darśanotsavasukhamanubhavāmi' iti / śrutvā "citreyaṃ daivagatiḥ / avasareṣu puṣkalaḥ puruṣakāra-' ityabhidhāya bhūyaḥ smitābhiṣiktadantacchado mantragupte harṣotphullaṃ cakṣuḥ pātayāmāsa devo rājavāhanaḥ sa kila karakamalena kiñcitsaṃvṛtānano lalitavallabhārabhasadattadantakṣatavyasanavihvaladharamaṇirniroṣṭhyavarṇamātmacaritamācacakṣe

Sanskrit only: no published translation is held for this verse.

श्रेयांसि च सकलान्यनलसानां हस्ते नित्यसांनिध्यानि । यतस्ते साधीयसा सच्चरितेनानाकलितकलङ्केनार्चितेनात्यादररचितेनाकृष्टचेतसा जनेनानेन सरस्तथा संस्कृतम्, यथेह ते ऽद्य सिद्धिः स्यात् । तदेतस्यां निसि गलादर्दायां गाहनीयम् । गाहनानन्तरं च सलिलतले सततगतीनन्तःसंचारिणः संनिगृह्य यथाशक्ति शय्याकार्या । ततश्च तटस्खलितजलस्थगितजलजखण्ढचलितदण्डकण्टकाग्रदलितदेहराजहंसत्रासजर्जररसितसंदत्तकर्णस्य जनस्य क्षणादाकर्णनीयं जनिष्यते जलसंघातस्य किञ्चिदारटितम् । शान्ते च तत्र सलिलरटिते क्लिन्नगात्रः किञ्चिदारक्तदृष्टिर्येनाकारेण निर्यास्यति निचाय्य तं निखिलजननेत्रानन्दकारिणं न यक्षः शक्ष्यत्यग्रतः स्थितये । स्थिरतरनिहितस्नेहशृङ्खलानिगडितं च कन्यकाहृदयं क्षणेनैकेनासहनीयदर्शनान्तरायं स्यात् । अस्याश्च धराङ्गनाया नात्यादृतनिराकृतारिचक्रं चक्रं करतलगतं चिन्तनीयं न तत्र संशयः । तच्चेदिच्छस्यनेकशास्त्रज्ञानधीरधिषणैरधिकृतैरितरैश्च हितैषिगणैराकलय्य जालिकशतं चानाय्य, अन्तरङ्गनरशतैर्यथेष्टदृष्टान्तरालं सरः क्रियेत, रक्षा च तीरात्र्रिंशद्दण्डान्तराले सैनिकजनेन सादरं रचनीया । कस्तत्र तज्जानाति यच्छिद्रेणारयश्चिकीर्षन्तिऽ इति । तत्त्वस्य हृदयहारि जातम्, तदधिकृतैश्च तत्र कृत्ये रन्ध्रदर्शनासहेरिच्छां च राज्ञा कन्यकातिरागजनितां नितान्तनिश्चलां निश्चित्यार्थ एष न निषिद्धः । तथास्थितश्च तदासादनदृढतराशयश्च स आख्यायत-"राजन्, अत्र ते जनान्ते चिरं स्थितम्, न चैकत्र चिरस्थानं नः शस्तम् । कृतकृत्यश्चेह न द्रष्टासि । यस्य ते राष्ट्रे ग्रासाद्यासादितं तस्य ते किञ्चिदनाचर्य कार्यं गतिरार्यगर्ह्याऽ इति । तत्रैतच्चिरस्थानस्य कारणम् । तच्चाद्य सिद्धम् । गच्छ गृहान् । यथार्हजलेन हृद्यगन्धेन स्नातः सितस्रगङ्गरागः शक्तिसदृशेन दानेनाराधितधरणितलतैतिलगणस्तिलस्नेहसिक्तयष्ट्यग्रग्रथितवर्तिकाग्निशिखासहस्रग्रस्तनैशान्धकारराशिरागत्यार्थसिद्धये यतेथाःऽ इति । स किल कृतज्ञतां दर्शयन्-"असिद्धिरेषा सिद्धिः, यदसंनिधिरिहार्याणाम् । कष्टा चेयं निःसङ्गता, या निरागसं दासजनं त्याजयति । न च निषेधनीया गरीयसां गिरःऽ इति स्नानाय गृहानयासीत् । अहं च निर्गत्य निर्जने निशीथे सरस्तीररन्ध्रनिलीनः सन्नीषच्छिद्रदत्तकर्णः स्थितः । स्थिते चार्धरात्रे कृतयथादिष्टक्रियः स्थानस्थानरचितरक्षः स राजा जालिकजनानानीय निराकृतान्तःशल्यं शङ्काहीनः सरःसलिलं सलीलगतिरगाहत । गतं च कीर्णकेशं संहतकर्णनासं सरसस्तलं हास्तिनं नक्रलीलया नीरातिनिलीनतया तं तथा शयानं कन्धरायां कन्यता व्यग्रहीषम् । खरतरकालदण्डघट्टनातिचण्डैश्च करचरणघातैर्निर्दयदत्तनिग्रहः क्षणेनैकेनाजहात्स चेष्टाम् । ततश्चा कृष्य तच्छरीरं छिद्रे निधाय नीरान्निरयासिषम् । सङ्गतानां च सैनिकानां तदत्यचित्रीयताकारान्तरग्रहणम् । गजस्कन्धगतः सितच्छत्रादिसकलराजचिह्नराजितश्चण्डतरदण्डिदण्डताडनत्रस्तजनदत्तान्तरालया राजवीथ्या यातस्तां निशां रसनयननिरस्तनिद्रारतिरनैषम् । नीते च जनाक्षिलक्ष्यतां लाक्षारसदिग्धधिग्गजशिरःसदृक्षे शक्रदिगङ्गनारत्नादर्शेर्ऽकचक्रे कृतकरणीयः किरणजालकरालरत्नराजिराजितराजार्हासनाध्यासी यथासदृशाचारदर्शिनः शङ्कायन्त्रिताङ्गान्संनिधिनिषादिनः सहायानगाहिषम्-"दृश्यतां शक्तिरार्षी, यत्तस्य यतेरजेयरयेन्द्रियाणां संस्कारेण नीरजसा नीरजसांनिध्यशालिनि सहर्षालिनि सरसि सरसिजदलसंनिकाशच्छायस्याधिकतरदर्शनयिन्याकारान्तरस्य सिद्धिरासीत् । अद्य सकलनास्तिकानां जायेत लज्जानतं शिरः । तदिदानीं चन्द्रशेखरनरकशासनसरसिजासनादीनां त्रिदशेशानां स्थानान्यादररचितनृत्यगीताराधनानि क्रियन्ताम् । ह्नियन्तां च गृहादितः क्लेशनिरसनसहान्यर्थिसार्थैर्धनानिऽ इति । आश्चर्यरसीतिरेकहृष्टदृष्टयस्ते जय जगदीश, जयेन सातिशयं दश दिशः स्थगयन्निजेन यशसादिराजयशांसिऽ इत्यसकृदाशास्यारचयन्यथादिष्टाः क्रियाः । स चाहं दयितायाः सखीं हृदयस्थानीयां शशाङ्कसेनां कन्यकां कदाचित्कार्यान्तरागतां रहस्याचक्षि-"कच्चिदयं जनः कदाचिदासीद्दृष्टःऽ इति । अथ सा हर्षकाष्ठां गतेन हृदयेनेषदालक्ष्य दशनदीधितिलतां लीलालसं लासयन्ती, ललिताञ्चितकरशाखान्तरितदन्तच्छदकिसलया, हर्षजलक्लेदजर्जरनिरञ्जनेक्षणा, रचिताञ्जलिः "नितरां जाने यदि न स्यादैन्द्रजालिकस्य जालं किञ्चिदेतादृशम् । कथं चैतत् । कथय, इति स्नेहनिर्यन्त्रणं शनैरगादीत् । अहं चास्यै कार्त्स्न्येनाख्याय, तदाननसंक्रान्तेन संदेशेन संजनय्यसहचर्या निरतिशयं हृदयाह्लादम्, ततश्चैतया दयितया निरर्गलीकृतातिसत्कृतकलिङ्गनाथन्यायदत्तया संगत्यान्ध्रकलिङ्गराजराज्यशासी तस्यास्यारिणा लिलङ्खयिषितस्याङ्गराजस्य साहाय्यकायालघीयसा साधनेनागत्यात्र ते सखिजनसंगतस्य यादृच्छिकदर्शनानन्दराशिलङ्घितचेता जातःऽ इति । तस्य तत्कौशलं स्मितज्योत्स्नाभिषिक्तदन्तच्छदः सह सुहृद्भिरभिनन्द्य "चित्रमिदं महामुनेर्वृत्तम् । अत्रैव खलु फलितमतिकष्टं तपः तिष्ठतु तावन्नर्म । हर्षप्रकर्षस्पृशोः प्रज्ञासत्त्वयोर्दृष्टमिह स्वरूपम्ऽ इत्यभिधाय, पुनः "अवतरतु भवान्ऽ इति बहुश्रुते विश्रुते विकचराजीवसदृशं दृशं चिक्षेप देवो राजवाहनः

śreyāṃsi ca sakalānyanalasānāṃ haste nityasāṃnidhyāni / yataste sādhīyasā saccaritenānākalitakalaṅkenārcitenātyādararacitenākṛṣṭacetasā janenānena sarastathā saṃskṛtam, yatheha te 'dya siddhiḥ syāt / tadetasyāṃ nisi galādardāyāṃ gāhanīyam / gāhanānantaraṃ ca salilatale satatagatīnantaḥsaṃcāriṇaḥ saṃnigṛhya yathāśakti śayyākāryā / tataśca taṭaskhalitajalasthagitajalajakhaṇḍhacalitadaṇḍakaṇṭakāgradalitadeharājahaṃsatrāsajarjararasitasaṃdattakarṇasya janasya kṣaṇādākarṇanīyaṃ janiṣyate jalasaṃghātasya kiñcidāraṭitam / śānte ca tatra salilaraṭite klinnagātraḥ kiñcidāraktadṛṣṭiryenākāreṇa niryāsyati nicāyya taṃ nikhilajananetrānandakāriṇaṃ na yakṣaḥ śakṣyatyagrataḥ sthitaye / sthirataranihitasnehaśṛṅkhalānigaḍitaṃ ca kanyakāhṛdayaṃ kṣaṇenaikenāsahanīyadarśanāntarāyaṃ syāt / asyāśca dharāṅganāyā nātyādṛtanirākṛtāricakraṃ cakraṃ karatalagataṃ cintanīyaṃ na tatra saṃśayaḥ / taccedicchasyanekaśāstrajñānadhīradhiṣaṇairadhikṛtairitaraiśca hitaiṣigaṇairākalayya jālikaśataṃ cānāyya, antaraṅganaraśatairyatheṣṭadṛṣṭāntarālaṃ saraḥ kriyeta, rakṣā ca tīrātrriṃśaddaṇḍāntarāle sainikajanena sādaraṃ racanīyā / kastatra tajjānāti yacchidreṇārayaścikīrṣanti' iti / tattvasya hṛdayahāri jātam, tadadhikṛtaiśca tatra kṛtye randhradarśanāsahericchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ / tathāsthitaśca tadāsādanadṛḍhatarāśayaśca sa ākhyāyata-"rājan, atra te janānte ciraṃ sthitam, na caikatra cirasthānaṃ naḥ śastam / kṛtakṛtyaśceha na draṣṭāsi / yasya te rāṣṭre grāsādyāsāditaṃ tasya te kiñcidanācarya kāryaṃ gatirāryagarhyā' iti / tatraitaccirasthānasya kāraṇam / taccādya siddham / gaccha gṛhān / yathārhajalena hṛdyagandhena snātaḥ sitasragaṅgarāgaḥ śaktisadṛśena dānenārādhitadharaṇitalataitilagaṇastilasnehasiktayaṣṭyagragrathitavartikāgniśikhāsahasragrastanaiśāndhakārarāśirāgatyārthasiddhaye yatethāḥ' iti / sa kila kṛtajñatāṃ darśayan-"asiddhireṣā siddhiḥ, yadasaṃnidhirihāryāṇām / kaṣṭā ceyaṃ niḥsaṅgatā, yā nirāgasaṃ dāsajanaṃ tyājayati / na ca niṣedhanīyā garīyasāṃ giraḥ' iti snānāya gṛhānayāsīt / ahaṃ ca nirgatya nirjane niśīthe sarastīrarandhranilīnaḥ sannīṣacchidradattakarṇaḥ sthitaḥ / sthite cārdharātre kṛtayathādiṣṭakriyaḥ sthānasthānaracitarakṣaḥ sa rājā jālikajanānānīya nirākṛtāntaḥśalyaṃ śaṅkāhīnaḥ saraḥsalilaṃ salīlagatiragāhata / gataṃ ca kīrṇakeśaṃ saṃhatakarṇanāsaṃ sarasastalaṃ hāstinaṃ nakralīlayā nīrātinilīnatayā taṃ tathā śayānaṃ kandharāyāṃ kanyatā vyagrahīṣam / kharatarakāladaṇḍaghaṭṭanāticaṇḍaiśca karacaraṇaghātairnirdayadattanigrahaḥ kṣaṇenaikenājahātsa ceṣṭām / tataścā kṛṣya taccharīraṃ chidre nidhāya nīrānnirayāsiṣam / saṅgatānāṃ ca sainikānāṃ tadatyacitrīyatākārāntaragrahaṇam / gajaskandhagataḥ sitacchatrādisakalarājacihnarājitaścaṇḍataradaṇḍidaṇḍatāḍanatrastajanadattāntarālayā rājavīthyā yātastāṃ niśāṃ rasanayananirastanidrāratiranaiṣam / nīte ca janākṣilakṣyatāṃ lākṣārasadigdhadhiggajaśiraḥsadṛkṣe śakradigaṅganāratnādarśer'kacakre kṛtakaraṇīyaḥ kiraṇajālakarālaratnarājirājitarājārhāsanādhyāsī yathāsadṛśācāradarśinaḥ śaṅkāyantritāṅgānsaṃnidhiniṣādinaḥ sahāyānagāhiṣam-"dṛśyatāṃ śaktirārṣī, yattasya yaterajeyarayendriyāṇāṃ saṃskāreṇa nīrajasā nīrajasāṃnidhyaśālini saharṣālini sarasi sarasijadalasaṃnikāśacchāyasyādhikataradarśanayinyākārāntarasya siddhirāsīt / adya sakalanāstikānāṃ jāyeta lajjānataṃ śiraḥ / tadidānīṃ candraśekharanarakaśāsanasarasijāsanādīnāṃ tridaśeśānāṃ sthānānyādararacitanṛtyagītārādhanāni kriyantām / hniyantāṃ ca gṛhāditaḥ kleśanirasanasahānyarthisārthairdhanāni' iti / āścaryarasītirekahṛṣṭadṛṣṭayaste jaya jagadīśa, jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi' ityasakṛdāśāsyāracayanyathādiṣṭāḥ kriyāḥ / sa cāhaṃ dayitāyāḥ sakhīṃ hṛdayasthānīyāṃ śaśāṅkasenāṃ kanyakāṃ kadācitkāryāntarāgatāṃ rahasyācakṣi-"kaccidayaṃ janaḥ kadācidāsīddṛṣṭaḥ' iti / atha sā harṣakāṣṭhāṃ gatena hṛdayeneṣadālakṣya daśanadīdhitilatāṃ līlālasaṃ lāsayantī, lalitāñcitakaraśākhāntaritadantacchadakisalayā, harṣajalakledajarjaranirañjanekṣaṇā, racitāñjaliḥ "nitarāṃ jāne yadi na syādaindrajālikasya jālaṃ kiñcidetādṛśam / kathaṃ caitat / kathaya, iti snehaniryantraṇaṃ śanairagādīt / ahaṃ cāsyai kārtsnyenākhyāya, tadānanasaṃkrāntena saṃdeśena saṃjanayyasahacaryā niratiśayaṃ hṛdayāhlādam, tataścaitayā dayitayā nirargalīkṛtātisatkṛtakaliṅganāthanyāyadattayā saṃgatyāndhrakaliṅgarājarājyaśāsī tasyāsyāriṇā lilaṅkhayiṣitasyāṅgarājasya sāhāyyakāyālaghīyasā sādhanenāgatyātra te sakhijanasaṃgatasya yādṛcchikadarśanānandarāśilaṅghitacetā jātaḥ' iti / tasya tatkauśalaṃ smitajyotsnābhiṣiktadantacchadaḥ saha suhṛdbhirabhinandya "citramidaṃ mahāmunervṛttam / atraiva khalu phalitamatikaṣṭaṃ tapaḥ tiṣṭhatu tāvannarma / harṣaprakarṣaspṛśoḥ prajñāsattvayordṛṣṭamiha svarūpam' ityabhidhāya, punaḥ "avataratu bhavān' iti bahuśrute viśrute vikacarājīvasadṛśaṃ dṛśaṃ cikṣepa devo rājavāhanaḥ

Sanskrit only: no published translation is held for this verse.

अत इयं मद्भार्या त्वद्भगिनी मञ्जुवादिनी कियन्त्यहानि युष्मदन्तिकमेव तिष्ठतु । अहं च यावदिष्टजनोपलम्भं कियन्तमप्यनेहसं भुवं विभ्रम्यं तमासाद्य पुनरत्र समेष्यामिऽ इत्याकर्ण्य मात्रानुमतेन राज्ञाहमगादि-"यदेतदस्माकमेतदराज्योपलम्भलक्षणस्यैतावतोभ्युदयस्यासाधारणो हेतुर्भवानेव । भवन्तं विना क्षणमप्यस्माभिरियं राज्यधूर्न निर्वाह्या । अतः किमेवं वक्ति भवान्ऽ इत्याकर्ण्य मया प्रत्यवादि-"युष्माभिरयं चिन्तालवो ऽपि न चित्ते चिन्तनीयः । युष्मद्गृहे यः सचिवरत्नमार्यकेतुरस्ति सर् इदृग्विधानामनेकेषां राज्यानां धुरमुद्वोढुं शक्तः । ततस्तं तत्र नियुज्याहं गमिष्यामिऽ इत्यादिवचनसंदोहैः प्रलोभितो ऽपि सजननीको नृपो ऽनेकैराग्रहैर्मां कियन्तमपि कालं प्रयाणोपक्रमात् न्यवर्तयत् । उत्कलाधिपतेः प्रचण्डवर्मणो राज्यं मह्यं प्रादान् । अहं च तद्राज्यमात्मसात्कृत्वा राजानमामन्त्र्य यावत्त्वदन्वेषणाय प्रयाणोपक्रमं करोमि तावदेवाङ्गनाथेन सिंहवर्मणा स्वसाहाय्यायाकारितो ऽत्र समागतः पूर्वपुण्यपरिपाकात्स्वामिना समगंसिऽ इति ॥ इति श्रदण्डिनः कृतौ दशकुमारचरिते विश्रुतचरितं नामाष्टम उच्छ्वासः ॥ ८। ॥ अथ कथोपसंहारः । ततस्ते तत्र संगता अपहारवर्मोपहारवर्मार्थपालप्रमतिमित्रगुप्तमन्त्रगुप्तविश्रुताः कुमाराः पाटलिपुरे यौवराज्यमुपभुञ्जानं समाकारणे पूर्वकृतसंकेतं वामलोचनया भार्यया सह कुमारं सोमदत्तं सेवकैरानाय्य सराजवाहनाः संभूयावस्थिता मिथः सप्रमोदसंवलिताः कथा यावद्विदधति तावत्पुष्पपुराद्राज्ञो राजहंसस्याज्ञापत्रमादाय समागता राजपुरुषाः प्रणम्य राजवाहनं व्यजिज्ञपन्-"स्वामिन्, एतज्जनकस्य राजहंसस्याज्ञापत्र गृह्यताम्ऽ इत्याकर्ण्य समुत्थाय भूयोभूयः सादरं प्रणम्य सदसि तदाज्ञापत्रमग्रहीत् । शिरसि चाधाय तत उत्तार्योत्कील्य राजा राजवाहनः सर्वेषां शृण्वतामेवावाचयत्-"स्वस्ति श्रीः पुष्पपुरराजधान्याः श्रीराजहंसभूपतिश्चम्पानगरीमधिवसतो राजवाहनप्रमुखान् कुमारानाशास्याज्ञापत्रं प्रेषयति । यथा यूयमितो मामामन्त्र्य प्रणम्य प्रस्थिताः पथि कस्मिंश्चिद्वनोद्देश उपशिवालयं स्कन्धावारमवस्थाप्य स्थिताः । तत्र राजवाहनं शिवपूजार्थंनिशि शिवालये स्थितं प्रातरनुपलभ्यावशिष्टाः सर्वे ऽपि कुमाराः "सहैव राजवाहनेन राजहंसं प्रणंस्यामो न चेत्प्राणांस्त्यक्ष्यामःऽ इति प्रतिज्ञाय सैन्यं परावर्त्य राजवाहनमन्वेष्टं पृथक्प्रस्थिताः । एतं भवद्वृत्तान्तं ततप्रत्यावृत्तानां सैनिकानां मुखादाकर्ण्यासह्यदुःखोदन्वति मग्नमनसावुभावहं युष्मज्जननी च "वामदेवाश्रमं गत्वैतद्वृत्तान्तं तद्विदितं विधाय प्राणपरित्यायं कुर्वःऽ इति निश्चित्य तदाश्रममुपगतौ तं मुनिं प्रणम्य यावत्स्थितौ तावदेव तेन त्रिकालवेदिना मुनिना विदितमेवास्मन्मनीषितम् । निश्चयमवबुध्य प्रावाचि-"राजन्, प्रथममेवैतत्सर्वं युष्मन्मनीषितं विज्ञानबलादज्ञायि । यदत त्वत्कुमारा राजवाहननिमित्ते कियन्तमनेहसमापदमासाद्य भाग्योदयादसाधारणेन विक्रमेण विहितदिग्विजयाः प्रभूतानि राज्यान्युपलभ्य षोढशाब्दान्ते विजयिनं राजवाहनं पुरस्कृत्य प्रत्येत्य तव वसुमत्याश्च पादानभिवाद्य भवदाज्ञाविधायिनो भविष्यन्ति । अतस्तन्निमित्तं किमपि साहसं न विधेयम्ऽ इति । तदाकर्ण्य तत्प्रत्ययाद्धैर्यमवलम्ब्याद्यप्रभृत्यहं देवी च प्राणमधारयाव । इदानीमासन्नवर्तिन्यवधौ वामदेवाश्रमे गत्वा विज्ञप्तिः कृता-"स्वामिन्, त्वदुक्तावधिः पूर्णप्रायो भवति तत्प्रवृत्तिस्त्वयाद्यापि विज्ञायतेऽ इति । श्रुत्वा मुनिरवदत्-"राजन्, राजवाहनप्रमुखाः सर्वे ऽपि कुमारा अनेकान्दुर्जयाञ्शत्रून्विजित्य दिग्विजयं विधाय भूवलयं वशीकृत्य चम्पायामेकत्र स्थिताः । तवाज्ञापत्रमादाय तदानयनाय प्रेष्यन्तां शीघ्रमेव सेवकाःऽ इति मुनिवचनमाकर्ण्य भवदाकारणायाज्ञापत्रं प्रेषितमस्ति । अतःपरं चेत्क्षणमपि यूयं विलम्बं विधास्यथ ततो मां वसुमतीं च मातरं कथावशेषावेव श्रोष्यथेति ज्ञात्वा पानीयमपि पथि भूत्वा पेयम्ऽ इति । एवं पितुराज्ञापत्रं मूर्ध्नि विधृत्य गच्छेमेति निश्चयं चक्रुः । अथ वशीकृतराज्यरक्षापर्याप्रानि सैन्यानि समर्थतरान्पुरुषानाप्तान्स्थाने स्थाने नियुज्य कियता सैन्यैन मार्गरक्षां विधाय पूर्ववरिणं मालवेशं मानसार पराजत्य तदपि राज्यं वशीकृत्य पुष्पपुरे राज्ञो राजहंसस्य देव्या वसुमत्याश्च पादान्नमस्यामः । एवं निश्चित्य स्वस्वभार्यासंयुताः परिमितेन सैन्यन मालवेशं प्रति प्रस्थिताः । प्राप्य चोज्जयिनीं तदैव सहायभूतैस्तैः कुमारैः परिमितेन राजवाहनेनातिबलवानपि मालवेशो मानसारः क्षणेन पराजिग्ये निहतश्च । ततस्तद्दहितरमवन्तिसुन्दरीं समादाय चण्जवर्मणा तन्मन्त्रिणा पूर्वं कारागृहे रक्षितं पुष्पोद्भवं कुमारं सकुटुम्बं तत उन्मोचितं सह नीत्वा मालवेन्द्रराज्यं वशीकृत्य तद्रक्षणाय कांश्चित्सैन्यसाहितान्मान्त्रिणो नित्युज्यावशिष्टपरिमितसैन्यसहितास्ते कुमाराः पुष्पपुरं समेत्य राजवाहनं पुरस्कृत्य तस्य राजहंसस्य मातुर्वसुमत्याश्च चरणानभिवन्दितवन्तः । तौ च पुत्रसमागमं प्राप्य परमानन्दमधिगतौ । ततो राज्ञो वसुमत्याश्च देव्याः । समक्षं वामदेवो राजवाहनप्रमुखानां दशानामपि कुमाराणामभिलाषं विज्ञाय तानाज्ञापयत्--भवन्तः सर्वे ऽप्येकवारं गत्वा स्वानि स्वानि राज्यानि न्यायेन परिपालयन्तु । पुनर्यदेच्छा भवति तदा पित्रोश्चरणाभिवन्दनायागन्तव्यम्ऽ इति । ततस्ते सर्वे ऽपि कुमारास्तन्मुनिवचनं शिरम्याधाया तं प्रणम्य पितरौ च, गत्वा दिग्विजयं विधाय प्रत्यागमनान्तं स्वस्ववृत्तं पृथक्पृथड्मुनिसमक्षं न्यवेदयन् । पितरौ च कुमाराणां निजपराक्रमावबोधकान्यतिदुर्घटानि चरितान्याकर्ण्य परमानन्दमाप्नुताम् । ततो राजा मुनिं सविनयं व्यजिज्ञपत्--"भगवत्, तव प्रसादादग्माभिर्मनुजमनोरथाधिकमवाङ्मनरसगोचरं सुखमधिगतम् । अतःपरं मम स्वाभिचरणसंनिधौ वानप्रस्थाश्रममौ त्यात्मसाधनमेव विधातुमुचितम् । अतः पुष्पपुरराझ्ये मानसारराज्ये चराजबाहनमभिषिच्यावशिष्टानिराज्यानि नवभ्यः कुमारेभ्यो यथोचितं सम्प्रदाय ते कुमारा राजवाहनाज्ञाबिधायिनस्तदेकमत्या वर्तमानाश्चतुरुदधिमेखलां वसुंधरां समुद्धृत्य कण्टकानुपभुञ्जन्ति तथा विधेयं स्वामिना इति । तेषां तत्पितुर्वानग्रस्थाश्रमप्रहणोपक्रमनिषेधे भूयांसमाग्रहं विलोक्य मुनिस्तानबदत्-"भोः कुमारकाः, अयं युष्मज्जनक एतद्वयःसमुचिते पथि वर्मानः कायक्लेशं विनव मदाश्रमस्थो वानप्रश्थाश्रमाश्रयणं सर्वथा भवद्धर्नि निवारणीयः । अत्र स्थितस्त्वयं भङ्गवद्भक्तिमुपलप्स्यते । भवन्तश्च पितृसंनिधौ न सुखमवाप्स्थन्तिऽ इति महर्षेराज्ञामधिगम्य ते पितुर्वानप्रस्थाश्रमाधिगमप्रतिषेधाग्रहमत्यजन् । राजवाहनं पुष्पपुरे ऽवस्थाप्य तदनुज्ञया सर्वे ऽपि परिजनाः स्वानि स्वानि राज्यानि प्रतिपाल्य स्वेच्छया पित्रो समीप गतागतमकुर्वन् । एवमवस्थितास्ते राजवाहनप्रमुखाः सर्वे ऽपि कुमारा राजवाहनाज्ञया सर्वमपि वसुधावलयं न्यायेन परिपालयन्तः परस्परमैकमत्येन वर्तमानाः पुरन्दरप्रभृतिभिरप्यतिदुर्लभानि राज्यसुखान्यन्वभूवन्

ata iyaṃ madbhāryā tvadbhaginī mañjuvādinī kiyantyahāni yuṣmadantikameva tiṣṭhatu / ahaṃ ca yāvadiṣṭajanopalambhaṃ kiyantamapyanehasaṃ bhuvaṃ vibhramyaṃ tamāsādya punaratra sameṣyāmi' ityākarṇya mātrānumatena rājñāhamagādi-"yadetadasmākametadarājyopalambhalakṣaṇasyaitāvatobhyudayasyāsādhāraṇo heturbhavāneva / bhavantaṃ vinā kṣaṇamapyasmābhiriyaṃ rājyadhūrna nirvāhyā / ataḥ kimevaṃ vakti bhavān' ityākarṇya mayā pratyavādi-"yuṣmābhirayaṃ cintālavo 'pi na citte cintanīyaḥ / yuṣmadgṛhe yaḥ sacivaratnamāryaketurasti sar idṛgvidhānāmanekeṣāṃ rājyānāṃ dhuramudvoḍhuṃ śaktaḥ / tatastaṃ tatra niyujyāhaṃ gamiṣyāmi' ityādivacanasaṃdohaiḥ pralobhito 'pi sajananīko nṛpo 'nekairāgrahairmāṃ kiyantamapi kālaṃ prayāṇopakramāt nyavartayat / utkalādhipateḥ pracaṇḍavarmaṇo rājyaṃ mahyaṃ prādān / ahaṃ ca tadrājyamātmasātkṛtvā rājānamāmantrya yāvattvadanveṣaṇāya prayāṇopakramaṃ karomi tāvadevāṅganāthena siṃhavarmaṇā svasāhāyyāyākārito 'tra samāgataḥ pūrvapuṇyaparipākātsvāminā samagaṃsi' iti // iti śradaṇḍinaḥ kṛtau daśakumāracarite viśrutacaritaṃ nāmāṣṭama ucchvāsaḥ // 8. // atha kathopasaṃhāraḥ / tataste tatra saṃgatā apahāravarmopahāravarmārthapālapramatimitraguptamantraguptaviśrutāḥ kumārāḥ pāṭalipure yauvarājyamupabhuñjānaṃ samākāraṇe pūrvakṛtasaṃketaṃ vāmalocanayā bhāryayā saha kumāraṃ somadattaṃ sevakairānāyya sarājavāhanāḥ saṃbhūyāvasthitā mithaḥ sapramodasaṃvalitāḥ kathā yāvadvidadhati tāvatpuṣpapurādrājño rājahaṃsasyājñāpatramādāya samāgatā rājapuruṣāḥ praṇamya rājavāhanaṃ vyajijñapan-"svāmin, etajjanakasya rājahaṃsasyājñāpatra gṛhyatām' ityākarṇya samutthāya bhūyobhūyaḥ sādaraṃ praṇamya sadasi tadājñāpatramagrahīt / śirasi cādhāya tata uttāryotkīlya rājā rājavāhanaḥ sarveṣāṃ śṛṇvatāmevāvācayat-"svasti śrīḥ puṣpapurarājadhānyāḥ śrīrājahaṃsabhūpatiścampānagarīmadhivasato rājavāhanapramukhān kumārānāśāsyājñāpatraṃ preṣayati / yathā yūyamito māmāmantrya praṇamya prasthitāḥ pathi kasmiṃścidvanoddeśa upaśivālayaṃ skandhāvāramavasthāpya sthitāḥ / tatra rājavāhanaṃ śivapūjārthaṃniśi śivālaye sthitaṃ prātaranupalabhyāvaśiṣṭāḥ sarve 'pi kumārāḥ "sahaiva rājavāhanena rājahaṃsaṃ praṇaṃsyāmo na cetprāṇāṃstyakṣyāmaḥ' iti pratijñāya sainyaṃ parāvartya rājavāhanamanveṣṭaṃ pṛthakprasthitāḥ / etaṃ bhavadvṛttāntaṃ tatapratyāvṛttānāṃ sainikānāṃ mukhādākarṇyāsahyaduḥkhodanvati magnamanasāvubhāvahaṃ yuṣmajjananī ca "vāmadevāśramaṃ gatvaitadvṛttāntaṃ tadviditaṃ vidhāya prāṇaparityāyaṃ kurvaḥ' iti niścitya tadāśramamupagatau taṃ muniṃ praṇamya yāvatsthitau tāvadeva tena trikālavedinā muninā viditamevāsmanmanīṣitam / niścayamavabudhya prāvāci-"rājan, prathamamevaitatsarvaṃ yuṣmanmanīṣitaṃ vijñānabalādajñāyi / yadata tvatkumārā rājavāhananimitte kiyantamanehasamāpadamāsādya bhāgyodayādasādhāraṇena vikrameṇa vihitadigvijayāḥ prabhūtāni rājyānyupalabhya ṣoḍhaśābdānte vijayinaṃ rājavāhanaṃ puraskṛtya pratyetya tava vasumatyāśca pādānabhivādya bhavadājñāvidhāyino bhaviṣyanti / atastannimittaṃ kimapi sāhasaṃ na vidheyam' iti / tadākarṇya tatpratyayāddhairyamavalambyādyaprabhṛtyahaṃ devī ca prāṇamadhārayāva / idānīmāsannavartinyavadhau vāmadevāśrame gatvā vijñaptiḥ kṛtā-"svāmin, tvaduktāvadhiḥ pūrṇaprāyo bhavati tatpravṛttistvayādyāpi vijñāyate' iti / śrutvā muniravadat-"rājan, rājavāhanapramukhāḥ sarve 'pi kumārā anekāndurjayāñśatrūnvijitya digvijayaṃ vidhāya bhūvalayaṃ vaśīkṛtya campāyāmekatra sthitāḥ / tavājñāpatramādāya tadānayanāya preṣyantāṃ śīghrameva sevakāḥ' iti munivacanamākarṇya bhavadākāraṇāyājñāpatraṃ preṣitamasti / ataḥparaṃ cetkṣaṇamapi yūyaṃ vilambaṃ vidhāsyatha tato māṃ vasumatīṃ ca mātaraṃ kathāvaśeṣāveva śroṣyatheti jñātvā pānīyamapi pathi bhūtvā peyam' iti / evaṃ piturājñāpatraṃ mūrdhni vidhṛtya gacchemeti niścayaṃ cakruḥ / atha vaśīkṛtarājyarakṣāparyāprāni sainyāni samarthatarānpuruṣānāptānsthāne sthāne niyujya kiyatā sainyaina mārgarakṣāṃ vidhāya pūrvavariṇaṃ mālaveśaṃ mānasāra parājatya tadapi rājyaṃ vaśīkṛtya puṣpapure rājño rājahaṃsasya devyā vasumatyāśca pādānnamasyāmaḥ / evaṃ niścitya svasvabhāryāsaṃyutāḥ parimitena sainyana mālaveśaṃ prati prasthitāḥ / prāpya cojjayinīṃ tadaiva sahāyabhūtaistaiḥ kumāraiḥ parimitena rājavāhanenātibalavānapi mālaveśo mānasāraḥ kṣaṇena parājigye nihataśca / tatastaddahitaramavantisundarīṃ samādāya caṇjavarmaṇā tanmantriṇā pūrvaṃ kārāgṛhe rakṣitaṃ puṣpodbhavaṃ kumāraṃ sakuṭumbaṃ tata unmocitaṃ saha nītvā mālavendrarājyaṃ vaśīkṛtya tadrakṣaṇāya kāṃścitsainyasāhitānmāntriṇo nityujyāvaśiṣṭaparimitasainyasahitāste kumārāḥ puṣpapuraṃ sametya rājavāhanaṃ puraskṛtya tasya rājahaṃsasya māturvasumatyāśca caraṇānabhivanditavantaḥ / tau ca putrasamāgamaṃ prāpya paramānandamadhigatau / tato rājño vasumatyāśca devyāḥ / samakṣaṃ vāmadevo rājavāhanapramukhānāṃ daśānāmapi kumārāṇāmabhilāṣaṃ vijñāya tānājñāpayat--bhavantaḥ sarve 'pyekavāraṃ gatvā svāni svāni rājyāni nyāyena paripālayantu / punaryadecchā bhavati tadā pitroścaraṇābhivandanāyāgantavyam' iti / tataste sarve 'pi kumārāstanmunivacanaṃ śiramyādhāyā taṃ praṇamya pitarau ca, gatvā digvijayaṃ vidhāya pratyāgamanāntaṃ svasvavṛttaṃ pṛthakpṛthaḍmunisamakṣaṃ nyavedayan / pitarau ca kumārāṇāṃ nijaparākramāvabodhakānyatidurghaṭāni caritānyākarṇya paramānandamāpnutām / tato rājā muniṃ savinayaṃ vyajijñapat--"bhagavat, tava prasādādagmābhirmanujamanorathādhikamavāṅmanarasagocaraṃ sukhamadhigatam / ataḥparaṃ mama svābhicaraṇasaṃnidhau vānaprasthāśramamau tyātmasādhanameva vidhātumucitam / ataḥ puṣpapurarājhye mānasārarājye carājabāhanamabhiṣicyāvaśiṣṭānirājyāni navabhyaḥ kumārebhyo yathocitaṃ sampradāya te kumārā rājavāhanājñābidhāyinastadekamatyā vartamānāścaturudadhimekhalāṃ vasuṃdharāṃ samuddhṛtya kaṇṭakānupabhuñjanti tathā vidheyaṃ svāminā iti / teṣāṃ tatpiturvānagrasthāśramaprahaṇopakramaniṣedhe bhūyāṃsamāgrahaṃ vilokya munistānabadat-"bhoḥ kumārakāḥ, ayaṃ yuṣmajjanaka etadvayaḥsamucite pathi varmānaḥ kāyakleśaṃ vinava madāśramastho vānapraśthāśramāśrayaṇaṃ sarvathā bhavaddharni nivāraṇīyaḥ / atra sthitastvayaṃ bhaṅgavadbhaktimupalapsyate / bhavantaśca pitṛsaṃnidhau na sukhamavāpsthanti' iti maharṣerājñāmadhigamya te piturvānaprasthāśramādhigamapratiṣedhāgrahamatyajan / rājavāhanaṃ puṣpapure 'vasthāpya tadanujñayā sarve 'pi parijanāḥ svāni svāni rājyāni pratipālya svecchayā pitro samīpa gatāgatamakurvan / evamavasthitāste rājavāhanapramukhāḥ sarve 'pi kumārā rājavāhanājñayā sarvamapi vasudhāvalayaṃ nyāyena paripālayantaḥ parasparamaikamatyena vartamānāḥ purandaraprabhṛtibhirapyatidurlabhāni rājyasukhānyanvabhūvan

Sanskrit only: no published translation is held for this verse.