पुनश्च बोधिसत्त्वस्यैतदभवत् - कथं च नाम चूडा च प्रव्रज्या चेति । स खड्गेन चूडां छित्त्वा अन्तरिक्षे क्षिपति स्म । सा च त्रायत्रिंशता देवैः परिगृहीताभूत् पूजार्थम् । अद्यापि च त्रायत्रिंशत्सु देवेषु चूडामहो वर्तते । तत्रापि चैत्यं स्थापितमभूत् । अद्यापि च तच्चूडाप्रतिग्रहणमिति ज्ञायते ॥ पुनरपि बोधिसत्त्वस्यैतदभूत् - कथं हि नाम प्रव्रज्या च काशिकानि वस्त्राणि । सचेद्वनवासानुरूपाणि काषायाणि वस्त्राणि लभेयम्, शोभनं स्यात् । अथ शुद्धवासकायिकानां देवानामेतदभूत् - काषायैर्बोधिसत्त्वस्य कार्यमिति । तत्रैको देवपुत्रो दिव्यं रूपमन्तर्धाप्य लुब्धकरूपेण काषायवस्त्रप्रावृतो बोधिसत्त्वस्य पुरतो ऽस्थात् । अथ बोधिसत्त्वस्तमेतदवोचत् - सचेन्मे त्वं मार्षा काषायाणि वस्त्राणि दद्याः, इमानि ते ऽहं काशिकानि वस्त्राणि दद्याम् । सो ऽवोचत् - एतानि वस्त्राणि तव शोभन्ते । इमानि मम । बोधिसत्त्व आह - अहं त्वां याचामि । ततस्तेन लुब्धकरूपिणा देवपुत्रेण बोधिसत्त्वाय काषायाणि वस्त्राणि दत्तान्यभूवन् । काशिकानि गृह्णीते स्म । अथ स देवपुत्रो गौरवजातस्तानि वस्त्राणि उभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत् तेषां पूजार्थम् । तच्छन्दकेन दृष्टमभूत् । तत्रापि चैत्यं स्थापितम् । अद्यापि तच्चैत्यं काषायग्रहणमित्येवं ज्ञायते ॥ यदा च बोधिसत्त्वेन चूडां छित्त्वा काषायाणि वस्त्राणि प्रावृतानि, तस्मिन् समये देवपुत्रशतसहस्रा हृष्टास्तुष्टा उदग्रा आत्तमनसः परमप्रमुदिताः प्रीतिसौमनस्यजाता हीहीकारकिलिकिलाप्रक्ष्वेडितानिर्नादनिर्घोषशब्दमकार्षुः । सिद्धार्थो भो मार्षाः कुमारः प्रव्रजितः । सो ऽयमनुत्तरां सम्यक्संबोधिमभिसंबुध्य धर्मचक्रं प्रवर्तयिष्यति । असंख्येयाञ्जातिधर्माणः सत्त्वान् जात्या परिमोचयिष्यति । यावज्जराव्याधिमरणशोकपरिदेवदुःखदौर्मनस्योपायासेभ्यः परिमोच्य संसारसागरात् पारमुत्तार्यानुत्तरे क्षेमे ऽभये ऽशोके निरूपद्रवे शिवे विरजसे ऽमृते धर्मधातौ प्रतिष्ठापयिष्यतीति । स च शब्दः शब्दपरंपरया यावदकनिष्ठभवनमभ्युद्गतो ऽभूत् ॥ ततो ऽन्तःपुरिकाभिः कुमारमपश्यन्तीभिः ग्रीष्मिकवार्षिकहैमन्तिकेषु प्रासादेष्वासनेषु च गृहेषु परिमागमाणा यदा न पश्यन्ति स्म, तदा एकीभूताभिः कुररीभिरिवोत्क्रृष्टमभूत् । तत्र काश्चित्स्त्रियः परमशोकार्ता हा तातेहि क्रन्दन्ति स्म । काश्चिद्भ्रातः काश्चिद्भर्त इति क्रन्दन्ति स्म । काश्चिद्धा नाथेति क्रन्दन्ति स्म । काश्चिद्धा स्वामिन्निति । काश्चिन्नानाप्रियवचनप्रलापैः, काश्चिन्नानाकायपरिसर्पिकया रुदन्ति स्म । काश्चिच्छीर्षोपकर्षिकया, काश्चिदन्योन्यमुखावलोकितया रुदन्ति स्म । काश्चिच्चक्षुःपरिवर्तिकया, काश्चित्स्ववदनानि वस्त्रैरुच्छाद्य रुदन्ति स्म । काश्चिदूरू पाणिभिः प्रस्फोटयन्त्यः, काश्चिद्धृदयः, पाणिभिस्ताडयन्त्यः, काश्चिद्बाहून् पाणिभिः प्रस्फोटयन्त्यः, काश्चिच्छिरांसि, काश्चिच्छिरः पांशुभिरवकिरन्त्यो रुदन्ति स्म । काश्चिद्विक्षिप्तकेश्यः, काश्चित्केशं विलुञ्चन्त्यः, काश्चिदूर्ध्वबाहवः उच्चैरुत्क्रोशन्ति स्म । काश्चिन्मृग्य इव दिग्धविद्धाः सहसा प्रधावन्त्यो (वैद्य १६५) रुदन्ति स्म । काश्चिन्मारुतकम्पिता इव कदल्यः प्रविकम्प्यमाना रुदन्ति स्म । काश्चिद्धरणीतले विनिपतिताः किंचित्प्राणाः, काश्चिज्जालोत्क्षिप्तमत्स्या इव पृथिव्यां परिवर्त्यमाना रुदन्ति स्म । काश्चिन्मूलछिन्ना इव वृक्षाः सहसा धरणीतले निपत्य रुदन्ति स्म ॥ तं च शब्दं राजा श्रुत्वा शाक्यानामन्त्रयते स्म - किमेतदुच्चैरन्तःपुरे शब्दः श्रूयते? शाक्या विज्ञाय कथयन्ति स्म - कुमारः किल महाराज अन्तःपुरे न दृश्यते । राजा आह - क्षिप्रं नगरद्वाराणि पिथयत । कुमारमभ्यन्तरे मृगयामः । ते सान्तर्बहिर्मृगयन्ते स्म । सान्तर्बहिर्मृगयमाना न पश्यन्ति स्म ॥ महाप्रजापत्यपि गौतमी परिदेवमाना महीतले परिवर्तते स्म । राजानं शुद्धोदनमेवमाह क्षिप्रं मां महाराज पुत्रेण समङ्गिनीं कुरुष्वेति ॥ ततो राजा चतुर्दिशमश्वदूतान् प्रेषयति स्म । गच्छत, यावत्कुमारं न पश्यथ, तावन्मा निवर्तयथ ॥ नैमित्तिकैर्वैपञ्चिकैश्च व्याकृतमभूत् - मङ्गलद्वारेण बोधिसत्त्वो ऽभिनिष्क्रमिष्यतीति । ते मङ्गलद्वारेण गच्छन्तः पश्यन्ति स्म अन्तरापथि पुष्पवर्षं प्रपतितम् । तेषामेतदभूत् - अनेन पथा कुमारो ऽभिनिर्गत इति ॥ ते स्वल्पमन्तरं गत्वा तं देवपुत्रं पश्यन्ति स्म बोधिसत्त्वस्य काशिकवस्त्राणि शिरसि कृत्वा आगच्छन्तम् । तेषामेतदभूत् - इमानि खलु कुमारस्य काशिकवस्त्राणि । मा खल्वनेनैषां वस्त्राणामर्थे कुमारो जीविताद्व्यपरोपितः स्यात् । गृह्णीतैनमिति । भूयः पश्यन्ति स्म । तस्य पृष्ठतश्च्छन्दकं कण्ठकमाभरणानि चादायागच्छन्तम् । ततस्ते परस्परमूचुः - मा तावद्भोः साहसं मा कार्ष्ट । एष छन्दको ऽभ्यागच्छति कण्ठकमादाय, यावदेनं प्रक्ष्यामः ॥ ते छन्दकं परिपृच्छन्ति स्म - हे छन्दक, मा खल्वनेनैव पुरुषेण काशिकानां वस्त्राणामर्थाय कुमारो जीविताद्व्यपरोपितः स्यात् । छन्दक आह - न ह्येतत् । अपि तु अनेन कुमाराय काषायाणि वस्त्राणि दत्तानि । कुमारेण चास्यैतानि काशिकानि वस्त्राणि दत्तानि । अथ स देवपुत्रस्तानि वस्त्राण्युभाभ्यां पाणिभ्यां शिरसि कृत्वा तत एव देवलोकमगमत् तेषां पूजार्थम् ॥ एवं च ते भूयश्छन्दकं परिपृच्छन्ति स्म - तत्किं मन्यसे छन्दक गच्छामो वयम्? शक्यः कुमारः प्रतिनिवर्तयितुम्? स आह - मा खलु । अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः । एवं च तेनोक्तम् - न तावदहं पुनरपि कपिलवस्तुमहानगरं प्रवेक्ष्यामि, यावन्मे नानुत्तरां सम्यक्संबोधिमभिसंबुध्येति । यथा च कुमारेणोक्तं तथैव तद्भविष्यति । तत्कस्मात्? अनिवर्त्यः कुमारो दृढवीर्यपराक्रमः ॥ ततश्छन्दकः कण्ठकमाभरणानि चादायान्तःपुरं प्राविक्षत् । ततस्तान्याभरणानि चिरेण कालेन भद्रिकस्य शाक्यकुमारस्य महानाम्नो ऽनिरुद्धस्य चाबध्यन्त स्म । तानि महानारायणसंघटनकायार्थमन्ये (वैद्य १६६) नारायणसंहनना न शक्नुवन्ति स्म धारयितुम् । यदा न कश्चित्तानि धारयितुं शक्नोति स्म, तदा महाप्रजापत्या गौतम्या चिन्तितमभूत् - यावदहमिमान्याभरणानि पश्यामि, तावन्मम हृदये शोको भविष्यति । यन्न्वहमिमान्याभरणानि पुष्करिण्यां प्रक्षिपेयमिति । ततो महाप्रजापती गौतमी तान्याभरणानि पुष्करिण्यां प्रक्षिपति स्म । अद्यापि सा आभरणपुष्करिणीत्येवं संज्ञायते ॥ तत्रेदमुच्यते - निष्क्रान्तु शूरो यद विदु बोधिसत्त्वो नगरं विबुद्धं कपिलपुरं समग्रम् । मन्यन्ति सर्वे शयनगतो कुमारो अन्योन्य हृष्टाः प्रमुदित आलभन्ते
punaśca bodhisattvasyaitadabhavat - kathaṃ ca nāma cūḍā ca pravrajyā ceti / sa khaḍgena cūḍāṃ chittvā antarikṣe kṣipati sma / sā ca trāyatriṃśatā devaiḥ parigṛhītābhūt pūjārtham / adyāpi ca trāyatriṃśatsu deveṣu cūḍāmaho vartate / tatrāpi caityaṃ sthāpitamabhūt / adyāpi ca taccūḍāpratigrahaṇamiti jñāyate // punarapi bodhisattvasyaitadabhūt - kathaṃ hi nāma pravrajyā ca kāśikāni vastrāṇi / sacedvanavāsānurūpāṇi kāṣāyāṇi vastrāṇi labheyam, śobhanaṃ syāt / atha śuddhavāsakāyikānāṃ devānāmetadabhūt - kāṣāyairbodhisattvasya kāryamiti / tatraiko devaputro divyaṃ rūpamantardhāpya lubdhakarūpeṇa kāṣāyavastraprāvṛto bodhisattvasya purato 'sthāt / atha bodhisattvastametadavocat - sacenme tvaṃ mārṣā kāṣāyāṇi vastrāṇi dadyāḥ, imāni te 'haṃ kāśikāni vastrāṇi dadyām / so 'vocat - etāni vastrāṇi tava śobhante / imāni mama / bodhisattva āha - ahaṃ tvāṃ yācāmi / tatastena lubdhakarūpiṇā devaputreṇa bodhisattvāya kāṣāyāṇi vastrāṇi dattānyabhūvan / kāśikāni gṛhṇīte sma / atha sa devaputro gauravajātastāni vastrāṇi ubhābhyāṃ pāṇibhyāṃ śirasi kṛtvā tata eva devalokamagamat teṣāṃ pūjārtham / tacchandakena dṛṣṭamabhūt / tatrāpi caityaṃ sthāpitam / adyāpi taccaityaṃ kāṣāyagrahaṇamityevaṃ jñāyate // yadā ca bodhisattvena cūḍāṃ chittvā kāṣāyāṇi vastrāṇi prāvṛtāni, tasmin samaye devaputraśatasahasrā hṛṣṭāstuṣṭā udagrā āttamanasaḥ paramapramuditāḥ prītisaumanasyajātā hīhīkārakilikilāprakṣveḍitānirnādanirghoṣaśabdamakārṣuḥ / siddhārtho bho mārṣāḥ kumāraḥ pravrajitaḥ / so 'yamanuttarāṃ samyaksaṃbodhimabhisaṃbudhya dharmacakraṃ pravartayiṣyati / asaṃkhyeyāñjātidharmāṇaḥ sattvān jātyā parimocayiṣyati / yāvajjarāvyādhimaraṇaśokaparidevaduḥkhadaurmanasyopāyāsebhyaḥ parimocya saṃsārasāgarāt pāramuttāryānuttare kṣeme 'bhaye 'śoke nirūpadrave śive virajase 'mṛte dharmadhātau pratiṣṭhāpayiṣyatīti / sa ca śabdaḥ śabdaparaṃparayā yāvadakaniṣṭhabhavanamabhyudgato 'bhūt // tato 'ntaḥpurikābhiḥ kumāramapaśyantībhiḥ grīṣmikavārṣikahaimantikeṣu prāsādeṣvāsaneṣu ca gṛheṣu parimāgamāṇā yadā na paśyanti sma, tadā ekībhūtābhiḥ kurarībhirivotkrṛṣṭamabhūt / tatra kāścitstriyaḥ paramaśokārtā hā tātehi krandanti sma / kāścidbhrātaḥ kāścidbharta iti krandanti sma / kāściddhā nātheti krandanti sma / kāściddhā svāminniti / kāścinnānāpriyavacanapralāpaiḥ, kāścinnānākāyaparisarpikayā rudanti sma / kāścicchīrṣopakarṣikayā, kāścidanyonyamukhāvalokitayā rudanti sma / kāściccakṣuḥparivartikayā, kāścitsvavadanāni vastrairucchādya rudanti sma / kāścidūrū pāṇibhiḥ prasphoṭayantyaḥ, kāściddhṛdayaḥ, pāṇibhistāḍayantyaḥ, kāścidbāhūn pāṇibhiḥ prasphoṭayantyaḥ, kāścicchirāṃsi, kāścicchiraḥ pāṃśubhiravakirantyo rudanti sma / kāścidvikṣiptakeśyaḥ, kāścitkeśaṃ viluñcantyaḥ, kāścidūrdhvabāhavaḥ uccairutkrośanti sma / kāścinmṛgya iva digdhaviddhāḥ sahasā pradhāvantyo (Vaidya 165) rudanti sma / kāścinmārutakampitā iva kadalyaḥ pravikampyamānā rudanti sma / kāściddharaṇītale vinipatitāḥ kiṃcitprāṇāḥ, kāścijjālotkṣiptamatsyā iva pṛthivyāṃ parivartyamānā rudanti sma / kāścinmūlachinnā iva vṛkṣāḥ sahasā dharaṇītale nipatya rudanti sma // taṃ ca śabdaṃ rājā śrutvā śākyānāmantrayate sma - kimetaduccairantaḥpure śabdaḥ śrūyate? śākyā vijñāya kathayanti sma - kumāraḥ kila mahārāja antaḥpure na dṛśyate / rājā āha - kṣipraṃ nagaradvārāṇi pithayata / kumāramabhyantare mṛgayāmaḥ / te sāntarbahirmṛgayante sma / sāntarbahirmṛgayamānā na paśyanti sma // mahāprajāpatyapi gautamī paridevamānā mahītale parivartate sma / rājānaṃ śuddhodanamevamāha kṣipraṃ māṃ mahārāja putreṇa samaṅginīṃ kuruṣveti // tato rājā caturdiśamaśvadūtān preṣayati sma / gacchata, yāvatkumāraṃ na paśyatha, tāvanmā nivartayatha // naimittikairvaipañcikaiśca vyākṛtamabhūt - maṅgaladvāreṇa bodhisattvo 'bhiniṣkramiṣyatīti / te maṅgaladvāreṇa gacchantaḥ paśyanti sma antarāpathi puṣpavarṣaṃ prapatitam / teṣāmetadabhūt - anena pathā kumāro 'bhinirgata iti // te svalpamantaraṃ gatvā taṃ devaputraṃ paśyanti sma bodhisattvasya kāśikavastrāṇi śirasi kṛtvā āgacchantam / teṣāmetadabhūt - imāni khalu kumārasya kāśikavastrāṇi / mā khalvanenaiṣāṃ vastrāṇāmarthe kumāro jīvitādvyaparopitaḥ syāt / gṛhṇītainamiti / bhūyaḥ paśyanti sma / tasya pṛṣṭhataścchandakaṃ kaṇṭhakamābharaṇāni cādāyāgacchantam / tataste parasparamūcuḥ - mā tāvadbhoḥ sāhasaṃ mā kārṣṭa / eṣa chandako 'bhyāgacchati kaṇṭhakamādāya, yāvadenaṃ prakṣyāmaḥ // te chandakaṃ paripṛcchanti sma - he chandaka, mā khalvanenaiva puruṣeṇa kāśikānāṃ vastrāṇāmarthāya kumāro jīvitādvyaparopitaḥ syāt / chandaka āha - na hyetat / api tu anena kumārāya kāṣāyāṇi vastrāṇi dattāni / kumāreṇa cāsyaitāni kāśikāni vastrāṇi dattāni / atha sa devaputrastāni vastrāṇyubhābhyāṃ pāṇibhyāṃ śirasi kṛtvā tata eva devalokamagamat teṣāṃ pūjārtham // evaṃ ca te bhūyaśchandakaṃ paripṛcchanti sma - tatkiṃ manyase chandaka gacchāmo vayam? śakyaḥ kumāraḥ pratinivartayitum? sa āha - mā khalu / anivartyaḥ kumāro dṛḍhavīryaparākramaḥ / evaṃ ca tenoktam - na tāvadahaṃ punarapi kapilavastumahānagaraṃ pravekṣyāmi, yāvanme nānuttarāṃ samyaksaṃbodhimabhisaṃbudhyeti / yathā ca kumāreṇoktaṃ tathaiva tadbhaviṣyati / tatkasmāt? anivartyaḥ kumāro dṛḍhavīryaparākramaḥ // tataśchandakaḥ kaṇṭhakamābharaṇāni cādāyāntaḥpuraṃ prāvikṣat / tatastānyābharaṇāni cireṇa kālena bhadrikasya śākyakumārasya mahānāmno 'niruddhasya cābadhyanta sma / tāni mahānārāyaṇasaṃghaṭanakāyārthamanye (Vaidya 166) nārāyaṇasaṃhananā na śaknuvanti sma dhārayitum / yadā na kaścittāni dhārayituṃ śaknoti sma, tadā mahāprajāpatyā gautamyā cintitamabhūt - yāvadahamimānyābharaṇāni paśyāmi, tāvanmama hṛdaye śoko bhaviṣyati / yannvahamimānyābharaṇāni puṣkariṇyāṃ prakṣipeyamiti / tato mahāprajāpatī gautamī tānyābharaṇāni puṣkariṇyāṃ prakṣipati sma / adyāpi sā ābharaṇapuṣkariṇītyevaṃ saṃjñāyate // tatredamucyate - niṣkrāntu śūro yada vidu bodhisattvo nagaraṃ vibuddhaṃ kapilapuraṃ samagram / manyanti sarve śayanagato kumāro anyonya hṛṣṭāḥ pramudita ālabhante
Sanskrit only: no published translation is held for this verse.