Library·Sucaritamisra: Mimamsaslokavarttikakasika·10

Sucaritamisra: Mimamsaslokavarttikakasika 10

वैशेषिकादिवद् इत्य् एतद् विवृणोति -- यथेति। यथैव वैशेषिकादीनां परैर् बौद्धैर् एव जात्यादाव् एते दोषा उक्ताः, तथैवैषां बौद्धादीनाम् अपि भिन्नयोः पूर्वोत्तरज्ञानयोर् अभिन्नस्य ज्ञानसामान्यस्य सङ्गतौ सम्बन्धे एते दोषा इति

vaiśeṣikādivad ity etad vivṛṇoti -- yatheti. yathaiva vaiśeṣikādīnāṃ parair bauddhair eva jātyādāv ete doṣā uktāḥ, tathaivaiṣāṃ bauddhādīnām api bhinnayoḥ pūrvottarajñānayor abhinnasya jñānasāmānyasya saṅgatau sambandhe ete doṣā iti

Sanskrit only: no published translation is held for this verse.

यदि तु ताभ्याम् अव्यतिरिक्तं सामान्याम् इष्यते, ततो यो ऽसौ भिन्नाभ्याम् अभिन्नत्वात् प्राग् भेद आपादितः स एवापद्यत इत्य् आह -- ताभ्याम् इति। अपि च किम् आत्मकं तत् सामान्यम् इत्य् अपि चिन्तनीयम् एव। तत्रास्मदभिमतसामान्याश्रयणे तावदुक्तः प्रसङ्गः। सादृश्यरूपम् अपोहरूपं च सामान्यं परस्तान् निराकरिष्यत इत्य् आह -- सादृश्येति

yadi tu tābhyām avyatiriktaṃ sāmānyām iṣyate, tato yo 'sau bhinnābhyām abhinnatvāt prāg bheda āpāditaḥ sa evāpadyata ity āha -- tābhyām iti. api ca kim ātmakaṃ tat sāmānyam ity api cintanīyam eva. tatrāsmadabhimatasāmānyāśrayaṇe tāvaduktaḥ prasaṅgaḥ. sādṛśyarūpam apoharūpaṃ ca sāmānyaṃ parastān nirākariṣyata ity āha -- sādṛśyeti

Sanskrit only: no published translation is held for this verse.

अपि चात्रापोहरूपसामान्याभ्युपगमे ऽधिको दोष इत्य् आह -- वस्त्वन्तरस्येति। एतद् एव विवृणोति -- नेति। अज्ञाननिवृत्त्या ज्ञानं ग्रहीतव्यम्। न च ज्ञानमात्रवादिनो ऽज्ञानं नाम किञ्चिदपोह्यम् अस्तीति

api cātrāpoharūpasāmānyābhyupagame 'dhiko doṣa ity āha -- vastvantarasyeti. etad eva vivṛṇoti -- neti. ajñānanivṛttyā jñānaṃ grahītavyam. na ca jñānamātravādino 'jñānaṃ nāma kiñcidapohyam astīti

Sanskrit only: no published translation is held for this verse.

२,१५२ न चात्यन्तासत एवापिहो घटते इत्य् आह -- अपोह इति। अयम् अभिप्रायः -- यदि ज्ञानाभावमात्रम् अज्ञानं तत् तर्ह्य् अवस्तुरूपं कथम् अपोहक्रियाकर्म भविष्यतीति। अपोह्यत्वाभ्युपगमे वा अभावस्यापि वस्त्वन्त(?रा।रता)पत्तिर् इत्य् आह -- वस्त्वन्तरम् इति। कारणम् आह -- अपोह्यत्वाच् च वस्तुतेति। चशब्दो हेताव् इति

2,152 na cātyantāsata evāpiho ghaṭate ity āha -- apoha iti. ayam abhiprāyaḥ -- yadi jñānābhāvamātram ajñānaṃ tat tarhy avasturūpaṃ katham apohakriyākarma bhaviṣyatīti. apohyatvābhyupagame vā abhāvasyāpi vastvanta(?rā/ratā)pattir ity āha -- vastvantaram iti. kāraṇam āha -- apohyatvāc ca vastuteti. caśabdo hetāv iti

Sanskrit only: no published translation is held for this verse.

अतो ऽवश्यं ज्ञानाभावस्यानपोह्यत्वाद् अज्ञाननिवृत्तौ ज्ञाने इष्यमाणे ज्ञानाद् अन्यदज्ञानम् अर्थ एव ते प्रसज्यत इत्य् आह -- तेनेति। अत्र किञ्चिदाशङ्क्ते -- कल्पितम् इति। ज्ञेयादिशब्देषु हि बौद्धैर् उक्तम् -- अज्ञेयं कल्पितं कृत्वा ज्ञेयशब्दः प्रवर्तते । इति। तद् इहापि समानम्। अज्ञानकल्पनया तदपोहेन ज्ञानशब्दो वर्तिष्यते। तेन नापोह्याभावो न च वस्त्वन्तरतापत्तिर् इति। एतद् अपि दूषयति -- नेति। यद् एव हि क्वचिद् दृष्टं तद् एवान्यत्र कल्प्यते। अत्यन्तासतस् तु ज्ञानाद् अन्यस्याबुद्धिविषयस्य कल्पना केति

ato 'vaśyaṃ jñānābhāvasyānapohyatvād ajñānanivṛttau jñāne iṣyamāṇe jñānād anyadajñānam artha eva te prasajyata ity āha -- teneti. atra kiñcidāśaṅkte -- kalpitam iti. jñeyādiśabdeṣu hi bauddhair uktam -- ajñeyaṃ kalpitaṃ kṛtvā jñeyaśabdaḥ pravartate | iti. tad ihāpi samānam. ajñānakalpanayā tadapohena jñānaśabdo vartiṣyate. tena nāpohyābhāvo na ca vastvantaratāpattir iti. etad api dūṣayati -- neti. yad eva hi kvacid dṛṣṭaṃ tad evānyatra kalpyate. atyantāsatas tu jñānād anyasyābuddhiviṣayasya kalpanā keti

Sanskrit only: no published translation is held for this verse.

तद् एवं कल्पनीयान्तराभावाद् अज्ञानाकारा बुद्धिर् एवाज्ञानतया कल्पनीयापन्नेत्य् आह -- बुद्धिर् इति। तत्र चायं दोष इत्य् आह -- ततश् चेति

tad evaṃ kalpanīyāntarābhāvād ajñānākārā buddhir evājñānatayā kalpanīyāpannety āha -- buddhir iti. tatra cāyaṃ doṣa ity āha -- tataś ceti

Sanskrit only: no published translation is held for this verse.

किम् अतो यद्य् एवम् अत आह -- न चेति। न ज्ञानान्तरापोहेन ज्ञानम् एव ग्रहीतुं शक्यत इति। अत्रैव दृष्टान्तम् आह -- वृक्ष इति। न हि वृक्षार्थो वृक्षापोहेन प्रत्येतुं शक्यत इति

kim ato yady evam ata āha -- na ceti. na jñānāntarāpohena jñānam eva grahītuṃ śakyata iti. atraiva dṛṣṭāntam āha -- vṛkṣa iti. na hi vṛkṣārtho vṛkṣāpohena pratyetuṃ śakyata iti

Sanskrit only: no published translation is held for this verse.

२,१५३ अपि च यासाव् अज्ञाननिर्भासा बुद्धिर् अज्ञानतया कल्पिता, तस्या ज्ञानत्वं न भवेत्। न हि यद्रूपं यदपोहेन प्रतीयते तत्रैव तद् भवति। वृक्षत्वस्यावृक्षेष्व् अपोह्येषु घटादिष्व् अभावाद् इत्य् आह -- अपोह्य इति

2,153 api ca yāsāv ajñānanirbhāsā buddhir ajñānatayā kalpitā, tasyā jñānatvaṃ na bhavet. na hi yadrūpaṃ yadapohena pratīyate tatraiva tad bhavati. vṛkṣatvasyāvṛkṣeṣv apohyeṣu ghaṭādiṣv abhāvād ity āha -- apohya iti

Sanskrit only: no published translation is held for this verse.

एवञ् च तस्याज्ञानत्वाभिमतस्य ज्ञानत्वाभावाद् अर्थत्वम् एवापन्नम्। अतो ऽज्ञानवाचोयुक्त्यार्थ एवाभिमत इत्य् अभिन्नार्थत्वम् इत्य् आह -- ततश् चेति। किञ् चैवम् अपि चायम् अज्ञानापोहवादी वक्तव्यः किम् आलम्बनो ऽयम् अज्ञानप्रत्यय इति। न तावद् बाह्यालम्बनं किञ्चिद् भवद्भिर् ज्ञानम् इष्यते। न चास्य स्वांशालम्बनत्वं ज्ञानान्तरालम्बनत्वं वा सम्भवतीत्य् अनन्तरम् एव वक्ष्यतीत्य् अभिप्रायेणाह -- अज्ञानेति। तन् न तावद् ज्ञानमात्रवादिनाम् अज्ञानं नाम किञ्चिद् अस्ति यद् अस्यालम्बनं स्याद् इत्य् आह -- नेति। अत्र चोदयति -- नन्व् इति। अस्यार्थः -- वस्त्वात्मकं हि ज्ञानातिरिक्तम् अस्माभिर् निषिद्धम्। अभावात्मकं त्व् अज्ञानं किम् अज्ञानप्रत्ययेन नावलम्ब्यत इति

evañ ca tasyājñānatvābhimatasya jñānatvābhāvād arthatvam evāpannam. ato 'jñānavācoyuktyārtha evābhimata ity abhinnārthatvam ity āha -- tataś ceti. kiñ caivam api cāyam ajñānāpohavādī vaktavyaḥ kim ālambano 'yam ajñānapratyaya iti. na tāvad bāhyālambanaṃ kiñcid bhavadbhir jñānam iṣyate. na cāsya svāṃśālambanatvaṃ jñānāntarālambanatvaṃ vā sambhavatīty anantaram eva vakṣyatīty abhiprāyeṇāha -- ajñāneti. tan na tāvad jñānamātravādinām ajñānaṃ nāma kiñcid asti yad asyālambanaṃ syād ity āha -- neti. atra codayati -- nanv iti. asyārthaḥ -- vastvātmakaṃ hi jñānātiriktam asmābhir niṣiddham. abhāvātmakaṃ tv ajñānaṃ kim ajñānapratyayena nāvalambyata iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- भाव इति। अयम् अभिप्रायः -- येन तावदाबालम् आस्थविरं च प्रसिद्धा महीमहीधरोदधिप्रभृतयो ग्राह्या अपलपिताः, तस्य किम् इति सूक्ष्मन्यायवेदनीयो भावो ग्राह्यो भविष्यति तन्मते च सर्वोपाख्यानविरहलक्षण इति। अपि च यद् भावधियां स्वांशपर्यवसाने कारणम् उक्तं, तदभावबुद्धेर् अप्य् अविशिष्टम्। अतः कथम् असौ बाह्याभावालम्बनं स्याद् इत्य् आह -- स्वांशेति

pariharati -- bhāva iti. ayam abhiprāyaḥ -- yena tāvadābālam āsthaviraṃ ca prasiddhā mahīmahīdharodadhiprabhṛtayo grāhyā apalapitāḥ, tasya kim iti sūkṣmanyāyavedanīyo bhāvo grāhyo bhaviṣyati tanmate ca sarvopākhyānavirahalakṣaṇa iti. api ca yad bhāvadhiyāṃ svāṃśaparyavasāne kāraṇam uktaṃ, tadabhāvabuddher apy aviśiṣṭam. ataḥ katham asau bāhyābhāvālambanaṃ syād ity āha -- svāṃśeti

Sanskrit only: no published translation is held for this verse.

२,१५४ तदवश्यं पारिशेष्याद् अज्ञानप्रत्ययस्यापि ज्ञानान्तरं वा स्वांशो वा ग्राह्यो ऽभ्युपगन्तव्य इत्य् आह -- तेनेति। अस्तु तद् एव ग्राह्यं, को दोषो ऽत आह -- स्वरूपेति। ज्ञानान्तरं स्वात्मा वा ज्ञानस्य ज्ञानस्वभावत्वान् नाज्ञानप्रत्ययेन विषयीकर्तुं शक्यते। स्वरूपविपरीतस्याग्राह्यत्वाद् यदाकारो हि प्रत्ययस् तदाकारम् एव ग्राह्यम् अवस्थापयति। अज्ञानाकारश् च प्रत्ययः कथं ज्ञानम् आलम्बनीकर्तुं शक्नोति। स्वरूपविपरीतं न ग्राह्यम् इति

2,154 tadavaśyaṃ pāriśeṣyād ajñānapratyayasyāpi jñānāntaraṃ vā svāṃśo vā grāhyo 'bhyupagantavya ity āha -- teneti. astu tad eva grāhyaṃ, ko doṣo 'ta āha -- svarūpeti. jñānāntaraṃ svātmā vā jñānasya jñānasvabhāvatvān nājñānapratyayena viṣayīkartuṃ śakyate. svarūpaviparītasyāgrāhyatvād yadākāro hi pratyayas tadākāram eva grāhyam avasthāpayati. ajñānākāraś ca pratyayaḥ kathaṃ jñānam ālambanīkartuṃ śaknoti. svarūpaviparītaṃ na grāhyam iti

Sanskrit only: no published translation is held for this verse.

एतद् एव दर्शयति -- यथेति। अतः सिद्धं न ज्ञानमात्रत्वे ऽपोह्यम् अस्तीत्य् आह -- तेनेति। एवं चासत्य् अपोह्ये ऽपोहस्वरूपस्याप्य् अभावान् न तेनात्मनापि ग्राह्यग्राहकयोर् ज्ञानयोर् ज्ञानात्मना समानत्वम् इत्य् आह -- ग्राह्यग्राहकयोर् इति। एवञ् चोभयोः साधारणरूपाभावाद् ग्राह्यग्राहकयोर् अन्यतरत्र ग्राह्ये ग्राहके वा ज्ञानत्वम् अभ्युपगन्तुं युक्तम् इत्य् आह -- तस्माद् इति

etad eva darśayati -- yatheti. ataḥ siddhaṃ na jñānamātratve 'pohyam astīty āha -- teneti. evaṃ cāsaty apohye 'pohasvarūpasyāpy abhāvān na tenātmanāpi grāhyagrāhakayor jñānayor jñānātmanā samānatvam ity āha -- grāhyagrāhakayor iti. evañ cobhayoḥ sādhāraṇarūpābhāvād grāhyagrāhakayor anyataratra grāhye grāhake vā jñānatvam abhyupagantuṃ yuktam ity āha -- tasmād iti

Sanskrit only: no published translation is held for this verse.

तथापि को निश्चयः ग्राहकं ज्ञानं न तु ग्राह्यम् इत्य् अत आह -- अत्रेति। उभयसिद्धं हि ग्राहकस्य ज्ञानत्वं ग्राह्यस्य त्व् अस्माकम् असिद्धम् इति। एवं तावद् ज्ञानं ग्राहकम् अर्थो ग्राह्य इति साधितम्। अथ वा किं नो ऽनेन व्यसनेन। तत्त्वभेदो हि नो द्वैतानुगुणतया साध्यः। स तावत् सिद्धः। सिद्धे च तस्मिन् यथारुचि व्यपदेशो ऽस्तु नामेत्य् आह -- वस्त्व् इति

tathāpi ko niścayaḥ grāhakaṃ jñānaṃ na tu grāhyam ity ata āha -- atreti. ubhayasiddhaṃ hi grāhakasya jñānatvaṃ grāhyasya tv asmākam asiddham iti. evaṃ tāvad jñānaṃ grāhakam artho grāhya iti sādhitam. atha vā kiṃ no 'nena vyasanena. tattvabhedo hi no dvaitānuguṇatayā sādhyaḥ. sa tāvat siddhaḥ. siddhe ca tasmin yathāruci vyapadeśo 'stu nāmety āha -- vastv iti

Sanskrit only: no published translation is held for this verse.

यथारुचि व्यपदेशम् एव दर्शयति -- ज्ञानम् इति। उभयं वा ज्ञानशब्दे वाच्यम् अस्तु अर्थो ज्ञानं च। अर्थ एव वा ज्ञानशब्दवाच्यः न ज्ञानम् २,१५५ इत्य् अर्थः। ग्राहक एव वार्थशब्दवाच्यो ऽभिधीयताम्। नैवम् अपि काचित् पक्षक्षतिः। सिद्धत्वाद् द्वैतस्येत्य् अभिप्रायेणाह -- ग्राहक इति। भाष्यकारेण त्व् अतीतबुद्धेर् ग्राह्यत्वनिराकरणार्थं क्षणिकत्वं कारणम् उक्तं येनैवम् आह -- अर्थविषया हि प्रत्यक्षबुद्धिः, न बुद्धिविषया। क्षणिका हि सा, न बुद्ध्यन्तरकालम् अवस्थास्यते इति। तद् उपन्यस्यति -- बुद्ध्योर् इति। अतीता हि पूर्वा बुद्धिर् नासाव् उत्तरया ग्रहीतुं शक्यते। तत्काले ऽसत्या वर्तमानवद् ग्रहीतुम् अशक्यत्वाद् ग्राह्यस्य चेदं नीलम् इति वर्तमानवद्भासाद् इति। अतः क्षणिकत्वात् कारणाद् बुद्धेः ग्रहीतुम् अशक्यत्वात् अस्मन्मताश्रयणेनार्थात्मकतैव बुद्धेर् उपेयेत्य् आह -- अर्थ इति। यदि तूच्यते मा भूद् अतीताया बुद्धेर् ग्राह्यत्वं, सहभाविनोस् तु ज्ञानयोर् ग्राह्यग्राहकत्वं न नोपपन्नम् इति। तदयुक्तं सहभावानुपपत्तेः। कथं हि समनन्तरप्रत्ययाधीनात्मलाभम् उत्तरं तेन सहोत्पद्यत इति सम्भावयामः। सहत्वे ऽपेक्षानुपपत्तेः। अस्तु वा जन्मयौगपद्यं ज्ञानयोः। एवम् अपि न मानमेयता सम्भवति। हेतुत्वम् एव हि ग्राह्यत्वम् उक्तम्। न चासति पौर्वापर्ये तत् सम्भवति, सहजन्मनोर् अन्योन्यनिरपेक्षत्वात्। तद् इदम् आह -- अन्योन्येति। कथं निरपेक्षम् अत आह -- क्रियेति। यदि हि ज्ञानयोः कश्चित् क्रियाकारकसम्बन्धो भवेत्, एवम् अपेक्षा भवेत्। न चासौ सहोत्पत्तौ सम्भवति। स्वाकारार्पणेन हेतुत्वं निराकृतम् एवेति। ननु तवाप्य् अर्थज्ञानयोः कार्यकारणभावे क्रियाकारकसम्बन्धः कः, अत आह -- अर्थेति। येन व्यापारेण बुद्धेः प्रमाणत्वं सा मितिः कश् चासौ। यद् एतद् बुद्धिजन्मेति प्रत्यक्ष उक्तम्। तद् अस्यां मितौ यार्थविज्ञानयोः सङ्गतिः। सानयोः कार्यकारणभावः। सा हि बुद्ध्यर्थाभ्यां सहिताभ्यां भाव्यते। यावद् धि नार्थो धीविषयः, तत्कर्म भवति। बुद्धिश् च जन्मनि कर्त्री। न तावन् निर्विषया २,१५६ अकर्तृका चोत्पत्तिः सम्भवति। तद् अनेन क्रियाकारकसम्बन्धेनास्ति ज्ञानार्थयोः कार्यकारणभावः। तद् एतदर्थस्य बुद्धेर् उत्पत्तौ कर्मकारकत्वम् एतद् एवास्य ज्ञानकारणत्वम्। अत्रेति। मीमांसकसिद्धान्त इत्य् अर्थः। न चैष प्रकारो बौद्धमते सम्भवति, युगपज्जन्मनोर् जानयोर् जन्मन एवाभावाद् ज्ञानातिरिक्तस्य यौगपद्ये चान्यतरोक्ताव् अन्यतरस्य कारणत्वासम्भवाद् इत्य् अभिप्रायेणाह -- नेति। अपि च, इदं कार्यम् अयं हेतुर् इत्य् अपि नियमो यौगपद्ये दुरधिगमः अनपेक्षत्वाविशेषात्। न खलु सव्येतरविषाणयोर् युगपज्जन्मनोः शक्यम् अवगन्तुम् इदं कार्यम् इदं कारणम् इत्य् अगृह्यमाणे विशेषे, तद् एतद् आह -- नियम इति। नन्व् अगृह्यमाणे विशेषे उभयस्योभयं कारणं भविष्यतीत्य् अत आह -- द्वयम् इति। यदि पूर्वम् उत्तराधीनात्मलाभम्, उत्तरं च पूर्वाधीनं, ततो दुरुत्तरम् इतरेतराश्रयम् इति

yathāruci vyapadeśam eva darśayati -- jñānam iti. ubhayaṃ vā jñānaśabde vācyam astu artho jñānaṃ ca. artha eva vā jñānaśabdavācyaḥ na jñānam 2,155 ity arthaḥ. grāhaka eva vārthaśabdavācyo 'bhidhīyatām. naivam api kācit pakṣakṣatiḥ. siddhatvād dvaitasyety abhiprāyeṇāha -- grāhaka iti. bhāṣyakāreṇa tv atītabuddher grāhyatvanirākaraṇārthaṃ kṣaṇikatvaṃ kāraṇam uktaṃ yenaivam āha -- arthaviṣayā hi pratyakṣabuddhiḥ, na buddhiviṣayā. kṣaṇikā hi sā, na buddhyantarakālam avasthāsyate iti. tad upanyasyati -- buddhyor iti. atītā hi pūrvā buddhir nāsāv uttarayā grahītuṃ śakyate. tatkāle 'satyā vartamānavad grahītum aśakyatvād grāhyasya cedaṃ nīlam iti vartamānavadbhāsād iti. ataḥ kṣaṇikatvāt kāraṇād buddheḥ grahītum aśakyatvāt asmanmatāśrayaṇenārthātmakataiva buddher upeyety āha -- artha iti. yadi tūcyate mā bhūd atītāyā buddher grāhyatvaṃ, sahabhāvinos tu jñānayor grāhyagrāhakatvaṃ na nopapannam iti. tadayuktaṃ sahabhāvānupapatteḥ. kathaṃ hi samanantarapratyayādhīnātmalābham uttaraṃ tena sahotpadyata iti sambhāvayāmaḥ. sahatve 'pekṣānupapatteḥ. astu vā janmayaugapadyaṃ jñānayoḥ. evam api na mānameyatā sambhavati. hetutvam eva hi grāhyatvam uktam. na cāsati paurvāparye tat sambhavati, sahajanmanor anyonyanirapekṣatvāt. tad idam āha -- anyonyeti. kathaṃ nirapekṣam ata āha -- kriyeti. yadi hi jñānayoḥ kaścit kriyākārakasambandho bhavet, evam apekṣā bhavet. na cāsau sahotpattau sambhavati. svākārārpaṇena hetutvaṃ nirākṛtam eveti. nanu tavāpy arthajñānayoḥ kāryakāraṇabhāve kriyākārakasambandhaḥ kaḥ, ata āha -- artheti. yena vyāpāreṇa buddheḥ pramāṇatvaṃ sā mitiḥ kaś cāsau. yad etad buddhijanmeti pratyakṣa uktam. tad asyāṃ mitau yārthavijñānayoḥ saṅgatiḥ. sānayoḥ kāryakāraṇabhāvaḥ. sā hi buddhyarthābhyāṃ sahitābhyāṃ bhāvyate. yāvad dhi nārtho dhīviṣayaḥ, tatkarma bhavati. buddhiś ca janmani kartrī. na tāvan nirviṣayā 2,156 akartṛkā cotpattiḥ sambhavati. tad anena kriyākārakasambandhenāsti jñānārthayoḥ kāryakāraṇabhāvaḥ. tad etadarthasya buddher utpattau karmakārakatvam etad evāsya jñānakāraṇatvam. atreti. mīmāṃsakasiddhānta ity arthaḥ. na caiṣa prakāro bauddhamate sambhavati, yugapajjanmanor jānayor janmana evābhāvād jñānātiriktasya yaugapadye cānyataroktāv anyatarasya kāraṇatvāsambhavād ity abhiprāyeṇāha -- neti. api ca, idaṃ kāryam ayaṃ hetur ity api niyamo yaugapadye duradhigamaḥ anapekṣatvāviśeṣāt. na khalu savyetaraviṣāṇayor yugapajjanmanoḥ śakyam avagantum idaṃ kāryam idaṃ kāraṇam ity agṛhyamāṇe viśeṣe, tad etad āha -- niyama iti. nanv agṛhyamāṇe viśeṣe ubhayasyobhayaṃ kāraṇaṃ bhaviṣyatīty ata āha -- dvayam iti. yadi pūrvam uttarādhīnātmalābham, uttaraṃ ca pūrvādhīnaṃ, tato duruttaram itaretarāśrayam iti

Sanskrit only: no published translation is held for this verse.

नन्व् अत्रापि तद्भावभावितैव कार्यकारणभावे चिह्नम्। अस्ति च युगपज्जन्मनोर् अपि विज्ञानयोस् तद्भावभावः, पूर्वज्ञानसम्भवक्षण एवोत्तरस्य भावात्। अतः कुतो यौगपद्ये न हेतुहेतुमत्ता, अत आह -- तद्भावेति। सत्यम्। तद्भावभाविता कार्यकारणत्वे लक्षणं न पुनः पौर्वापर्यरहिता। तन्नियमसहितम् एव तु तद्भावभावहेतुकं कार्यकारणभावे लक्षणम् आहुः। न च यौगपद्ये पौर्वापर्यं, नतरां नियम इत्य् अकार्यकारणतेति

nanv atrāpi tadbhāvabhāvitaiva kāryakāraṇabhāve cihnam. asti ca yugapajjanmanor api vijñānayos tadbhāvabhāvaḥ, pūrvajñānasambhavakṣaṇa evottarasya bhāvāt. ataḥ kuto yaugapadye na hetuhetumattā, ata āha -- tadbhāveti. satyam. tadbhāvabhāvitā kāryakāraṇatve lakṣaṇaṃ na punaḥ paurvāparyarahitā. tanniyamasahitam eva tu tadbhāvabhāvahetukaṃ kāryakāraṇabhāve lakṣaṇam āhuḥ. na ca yaugapadye paurvāparyaṃ, natarāṃ niyama ity akāryakāraṇateti

Sanskrit only: no published translation is held for this verse.

परस्परसहितम् उभयं कार्यकारणलक्षणं न त्व् अनपेक्षितम् इत्य् अत्रैव निदर्शनम् उपन्यस्यति -- गवाश्वस्येति। न खलु कदाचिद् अश्वात् पूर्वं गवि जाते २,१५७ पश्चाज्जायमानो ऽश्वः पौर्वापर्यात् तत्कारणको भवति। तथैकसन्तानक्षणभाविनः सन्तत्यन्तरजस्य क्षणस्य न तद्भावमात्रात् तत्कार्यत्वम् असति पौर्वापर्ये। एवं घटेन सहोत्पद्यमानेषु रूपादिषु नान्योन्यं कार्यकारणभाव इष्यते। न ह्य् अवयविद्रव्यस्य रूपे ऽवयवी कारणम्, अश्वादिरूपाणाम् एव प्राक् सतां क्रमेण तत्र कारणत्वात्। एतौ च स्वमतपरमतभेदेन व्याख्येयौ दृष्टान्तौ। आवयोर् एव तद्भावभावितामात्रं न कार्यकारणत्वे लक्षणम् इत्य् उक्तं भवतीति। तस्माद् यो यस्मिन् नियमेन पूर्वम् अवस्थिते जायते, स तत्कारणको नान्य इत्य् आह -- तस्माद् इति

parasparasahitam ubhayaṃ kāryakāraṇalakṣaṇaṃ na tv anapekṣitam ity atraiva nidarśanam upanyasyati -- gavāśvasyeti. na khalu kadācid aśvāt pūrvaṃ gavi jāte 2,157 paścājjāyamāno 'śvaḥ paurvāparyāt tatkāraṇako bhavati. tathaikasantānakṣaṇabhāvinaḥ santatyantarajasya kṣaṇasya na tadbhāvamātrāt tatkāryatvam asati paurvāparye. evaṃ ghaṭena sahotpadyamāneṣu rūpādiṣu nānyonyaṃ kāryakāraṇabhāva iṣyate. na hy avayavidravyasya rūpe 'vayavī kāraṇam, aśvādirūpāṇām eva prāk satāṃ krameṇa tatra kāraṇatvāt. etau ca svamataparamatabhedena vyākhyeyau dṛṣṭāntau. āvayor eva tadbhāvabhāvitāmātraṃ na kāryakāraṇatve lakṣaṇam ity uktaṃ bhavatīti. tasmād yo yasmin niyamena pūrvam avasthite jāyate, sa tatkāraṇako nānya ity āha -- tasmād iti

Sanskrit only: no published translation is held for this verse.

यत् पुनर् अत्र परैर् यौगपद्ये ऽपि कार्यकारणभावो दृश्यत इति प्रदीपप्रभादिसिद्धवन्निदर्शनम् उक्तं, तन् न। न सिद्धं, तत्रापि सूक्ष्मस्य कालभेदस्य विद्यमानत्वात्। प्रदीपकार्या हि प्रभा नासौ प्रदीपेन सहैव निष्पद्यते। एकदा प्रदीपे जाते ऽनन्तरम् एव निष्पद्यते प्रभा। तस्माद् न क्वचिद् अपि यौगपद्ये कार्यकारणभाव इत्य् आह -- हेत्व् इति। यद्य् अस्ति कालभेदः कस्मान् न लक्ष्यते, अत आह -- दुर्लक्ष इति। यथा निरन्तरम् उपर्युपरिभावेन स्थिते पद्मपत्रशते भिद्यमाने कालभेदो दुर्लक्षः, एवं प्रदीपप्रभयोर् अपि। यथा च तत्र ना(न)न्तरिता सीची भिन्नत्तीति तत्र कालभेदे प्रमाणम्, एवं नानिष्पन्ने प्रदीपे तत्तेजो विसरतीति समानम् उभयत्रापि प्रमाणं कालभेदे। तुलान्तनमनोन्नम् अनयोस् तु न परस्परं कार्यकारणभावो द्वयोर् अप्य् एकहेतुत्वात्। तोलयिता हि तत्र सहभुवोर् द्वयोर् अपि कारणम्। कक्ष्यासूत्रसन्निवेशविशेषो वा। सूत्रं हि तत्र मध्ये भवत् समं तौ धारयति। एकतरत्र भवद् विषमं प्रवर्तयति। न च पुनरुन्नामहेतुर् नामः न च नामहेतुर् उन्नाम इति न क्वचित् सहजन्मनोः कार्यकारणभाव इति

yat punar atra parair yaugapadye 'pi kāryakāraṇabhāvo dṛśyata iti pradīpaprabhādisiddhavannidarśanam uktaṃ, tan na. na siddhaṃ, tatrāpi sūkṣmasya kālabhedasya vidyamānatvāt. pradīpakāryā hi prabhā nāsau pradīpena sahaiva niṣpadyate. ekadā pradīpe jāte 'nantaram eva niṣpadyate prabhā. tasmād na kvacid api yaugapadye kāryakāraṇabhāva ity āha -- hetv iti. yady asti kālabhedaḥ kasmān na lakṣyate, ata āha -- durlakṣa iti. yathā nirantaram uparyuparibhāvena sthite padmapatraśate bhidyamāne kālabhedo durlakṣaḥ, evaṃ pradīpaprabhayor api. yathā ca tatra nā(na)ntaritā sīcī bhinnattīti tatra kālabhede pramāṇam, evaṃ nāniṣpanne pradīpe tattejo visaratīti samānam ubhayatrāpi pramāṇaṃ kālabhede. tulāntanamanonnam anayos tu na parasparaṃ kāryakāraṇabhāvo dvayor apy ekahetutvāt. tolayitā hi tatra sahabhuvor dvayor api kāraṇam. kakṣyāsūtrasanniveśaviśeṣo vā. sūtraṃ hi tatra madhye bhavat samaṃ tau dhārayati. ekataratra bhavad viṣamaṃ pravartayati. na ca punarunnāmahetur nāmaḥ na ca nāmahetur unnāma iti na kvacit sahajanmanoḥ kāryakāraṇabhāva iti

Sanskrit only: no published translation is held for this verse.

२,१५८ यथा च पूर्वोत्तरज्ञानयोर् यौगपद्येन कार्यकारणभावः एवं ज्ञानभागयोर् अपि ग्राह्यग्राहकात्मनोः कार्यकारणभावो निराकार्यः। न चाकारणभूतस्य ग्राह्यता सम्भवतीति यौगपद्ये प्रसङ्गेन भागाव् उपसङ्क्रम्य दर्शयति -- भागयोर् इति। मानमेयत्वनिराक्रियेत्य् अर्थः। यदि तूच्यते मा भूद् यौगपद्ये पूर्वम् आलम्बनम् उत्तरस्य, क्रमेणैव तु भविष्यति। कथम् असतो ऽतीतस्यालम्बनत्वम् इति चेद्, न। शक्त्यर्पणद्वारेणोपपत्तेः। पूर्वं हि ज्ञानम् उत्तरस्मिन् वासनापरनामानं शक्तिम् अर्पयति। ततस् तद्रूपं तज्जायमानं तदालम्बनम् इत्य् आख्यायते, अत आह -- न चेति

2,158 yathā ca pūrvottarajñānayor yaugapadyena kāryakāraṇabhāvaḥ evaṃ jñānabhāgayor api grāhyagrāhakātmanoḥ kāryakāraṇabhāvo nirākāryaḥ. na cākāraṇabhūtasya grāhyatā sambhavatīti yaugapadye prasaṅgena bhāgāv upasaṅkramya darśayati -- bhāgayor iti. mānameyatvanirākriyety arthaḥ. yadi tūcyate mā bhūd yaugapadye pūrvam ālambanam uttarasya, krameṇaiva tu bhaviṣyati. katham asato 'tītasyālambanatvam iti ced, na. śaktyarpaṇadvāreṇopapatteḥ. pūrvaṃ hi jñānam uttarasmin vāsanāparanāmānaṃ śaktim arpayati. tatas tadrūpaṃ tajjāyamānaṃ tadālambanam ity ākhyāyate, ata āha -- na ceti

Sanskrit only: no published translation is held for this verse.

किम् इति न भ(?वः।वेत्।) अत आह -- ग्राह्यम् इति। शक्त्यर्पणेन हि पूर्वस्य ग्राह्यत्वे ग्राह्यम् अतीतं भवेत्। अतीतम् एव हि तद्वासनावशाद् उत्तरेणालम्ब्यते स्मृत्य् एव पूर्वज्ञानम् इति। भवत्व् अतीतं ग्राह्यं को दोषः अत आह -- ताद्रूप्यम् इति। ताद्रूप्यम् अतीतरूपत्वं वर्तमानावभासिनो ग्राह्यस्य संविद्विरुद्धम् अप्रमाणकं भवेत्। कथं ह्य् अतीतम् अबधितया बुद्ध्या वर्तमानतया गृह्येत। तथावागृह्यमाणम् अतीतं भवेद् इति। कथं ताद्रूप्यम् अप्रमाणकम् अत आह -- अतीतेति। अयम् अभिप्रायः -- पूर्वज्ञानाहितवासनावशेन जायमानम् उत्तरं स्मृतिरूपम् एव भवेत्। स्मृत्या च स इत्य् अतीतत्वानुविद्ध एव स्वगोचरो ऽनुभूयते। न चेह तथानुभूयते, प्रत्युत्पन्नवद् इदम् इति संवेदनात्। अतः कथम् असंवेद्यम् एव ताद्रूप्यं प्रमाणवद् भविष्यति। एतच् च ज्ञानातिरिक्तवासनाभ्युपगमेनोक्तम्। न तु ज्ञानमात्रवादिनां तदतिरिक्ता वासना च काचिद् अस्ति। न चोपपद्यते, अनाधारवा(सना)नुपपत्तेः। न चातीतम् असद् वासनाधारः सम्भवति। न चोत्तरम् अनागतम्, असत्त्वाद् एव। न च परस्य जन्मकालं यावत् पूर्वम् अवतिष्ठते येन तस्मिन् वासनाम् आधाय नश्यतीति शक्यते ऽवगन्तुम्। क्षणिकत्वात्। न च सन्तानिभ्यो ऽतिरिक्तः सन्तानो नाम कश्चिद् अस्ति यो वासनाधारो भवेत्। न चानाधारैव शक्तिर् आत्मानं लभेत। २,१५९ भणितश् चायं वासनाभङ्गो निरालम्बनानुमाननिराकरणावसर इत्य् अलम् अनेनेति। अत्र चोदयति -- स्वप्ने न स्याद् इति। यद् उक्तं भवतातीतत्वानुविद्धस्मृत्यानुभूयत इति। तन् न। स्वप्ने प्रत्युत्पन्ननिर्भासात्। न च न स्मृतिः स्वप्न इति साम्प्रतं प्रत्युत्पन्नकारणान्तराग्रहणात्। न हि तत्रेन्द्रियलिङ्गादि ज्ञानकारणं किञ्चिद् उपलभ्यते। न चाकारणिका ज्ञानोत्पत्तिः सम्भवति। अतो ऽवश्यं स्मृतिर् एव सेति वक्तव्यम्। स्मृतिर् अपि च वर्तमानवन्निर्भासत इति तद्वद् इहापि भविष्यतीति। परिहरति -- विपर्ययाद् इति। सत्यम्। अतीतत्वेन स्वप्ने बोधो न भवति। किन् तु विपर्ययाद् असौ तथावभासः। (?विपर्ययज्ञानं हि) तद्विपर्ययश् चान्याकारवस्तुगोचरो ऽन्याकारो युक्त एवेति नानेन प्रमाणज्ञानानां तुल्यत्वम् अवगन्तुं शक्यत इति। कीदृशः पुनः स्वप्ने विपर्ययः। तद् दर्शयति -- तत्रेति

kim iti na bha(?vaḥ/vet.) ata āha -- grāhyam iti. śaktyarpaṇena hi pūrvasya grāhyatve grāhyam atītaṃ bhavet. atītam eva hi tadvāsanāvaśād uttareṇālambyate smṛty eva pūrvajñānam iti. bhavatv atītaṃ grāhyaṃ ko doṣaḥ ata āha -- tādrūpyam iti. tādrūpyam atītarūpatvaṃ vartamānāvabhāsino grāhyasya saṃvidviruddham apramāṇakaṃ bhavet. kathaṃ hy atītam abadhitayā buddhyā vartamānatayā gṛhyeta. tathāvāgṛhyamāṇam atītaṃ bhaved iti. kathaṃ tādrūpyam apramāṇakam ata āha -- atīteti. ayam abhiprāyaḥ -- pūrvajñānāhitavāsanāvaśena jāyamānam uttaraṃ smṛtirūpam eva bhavet. smṛtyā ca sa ity atītatvānuviddha eva svagocaro 'nubhūyate. na ceha tathānubhūyate, pratyutpannavad idam iti saṃvedanāt. ataḥ katham asaṃvedyam eva tādrūpyaṃ pramāṇavad bhaviṣyati. etac ca jñānātiriktavāsanābhyupagamenoktam. na tu jñānamātravādināṃ tadatiriktā vāsanā ca kācid asti. na copapadyate, anādhāravā(sanā)nupapatteḥ. na cātītam asad vāsanādhāraḥ sambhavati. na cottaram anāgatam, asattvād eva. na ca parasya janmakālaṃ yāvat pūrvam avatiṣṭhate yena tasmin vāsanām ādhāya naśyatīti śakyate 'vagantum. kṣaṇikatvāt. na ca santānibhyo 'tiriktaḥ santāno nāma kaścid asti yo vāsanādhāro bhavet. na cānādhāraiva śaktir ātmānaṃ labheta. 2,159 bhaṇitaś cāyaṃ vāsanābhaṅgo nirālambanānumānanirākaraṇāvasara ity alam aneneti. atra codayati -- svapne na syād iti. yad uktaṃ bhavatātītatvānuviddhasmṛtyānubhūyata iti. tan na. svapne pratyutpannanirbhāsāt. na ca na smṛtiḥ svapna iti sāmprataṃ pratyutpannakāraṇāntarāgrahaṇāt. na hi tatrendriyaliṅgādi jñānakāraṇaṃ kiñcid upalabhyate. na cākāraṇikā jñānotpattiḥ sambhavati. ato 'vaśyaṃ smṛtir eva seti vaktavyam. smṛtir api ca vartamānavannirbhāsata iti tadvad ihāpi bhaviṣyatīti. pariharati -- viparyayād iti. satyam. atītatvena svapne bodho na bhavati. kin tu viparyayād asau tathāvabhāsaḥ. (?viparyayajñānaṃ hi) tadviparyayaś cānyākāravastugocaro 'nyākāro yukta eveti nānena pramāṇajñānānāṃ tulyatvam avagantuṃ śakyata iti. kīdṛśaḥ punaḥ svapne viparyayaḥ. tad darśayati -- tatreti

Sanskrit only: no published translation is held for this verse.

कथं पुनर् इदम् अवगम्यते विपर्ययो ऽसाव् इति। अत आह -- बाधेति। बाधकं हि तत्र ज्ञानम् उत्पद्यते नैतद् एवम् इति। तज्जानीमो ऽवर्तमानम् एव तत्र वर्तमानतया भासत इति। एतावच् च विपर्ययस्य तत्त्वं यद् अन्यादृशस्यान्यथाप्रकाशनम् इति सूक्तं विपर्ययाद् इति। न चायम् एवम्प्रकारो विपर्ययो जाग्रज्ज्ञानेषु शक्यवचनः। सुपरिनिश्चिता हि तत्र जाग्रद्धियः इत्य् उक्तम् इत्य् अभिप्रायेणाह -- नेति। एवम् उपपादितम् अतीतविषया न प्रत्यक्षबुद्धय इति। इदानीं प्रयोगेण दर्शयति -- तस्माद् इति। अतीतो न प्रत्यक्षविषयः, अतीतत्वात्। जन्मान्तरानुवृत्तवद् इति। न च योगिप्रत्यक्षेणानैकान्तिकत्वं, तन्निराकरणाद् इति। तस्मिन्नेव साध्ये हेतुदृष्टान्तान्तरम् आह -- तद्रूपेति। अतीतो ऽर्थो न प्रत्यक्षबुद्धिविषयः, तद्रूपत्वेनाज्ञानात्। यन् न स्वरूपेण संवेद्यते तन् न प्रत्यक्षधीविषयः यथा भाव्यर्थ इति

kathaṃ punar idam avagamyate viparyayo 'sāv iti. ata āha -- bādheti. bādhakaṃ hi tatra jñānam utpadyate naitad evam iti. tajjānīmo 'vartamānam eva tatra vartamānatayā bhāsata iti. etāvac ca viparyayasya tattvaṃ yad anyādṛśasyānyathāprakāśanam iti sūktaṃ viparyayād iti. na cāyam evamprakāro viparyayo jāgrajjñāneṣu śakyavacanaḥ. supariniścitā hi tatra jāgraddhiyaḥ ity uktam ity abhiprāyeṇāha -- neti. evam upapāditam atītaviṣayā na pratyakṣabuddhaya iti. idānīṃ prayogeṇa darśayati -- tasmād iti. atīto na pratyakṣaviṣayaḥ, atītatvāt. janmāntarānuvṛttavad iti. na ca yogipratyakṣeṇānaikāntikatvaṃ, tannirākaraṇād iti. tasminneva sādhye hetudṛṣṭāntāntaram āha -- tadrūpeti. atīto 'rtho na pratyakṣabuddhiviṣayaḥ, tadrūpatvenājñānāt. yan na svarūpeṇa saṃvedyate tan na pratyakṣadhīviṣayaḥ yathā bhāvyartha iti

Sanskrit only: no published translation is held for this verse.

२,१६० अस्तु वातीतस्य ग्राह्यत्वं, तथापि सौत्रान्तिकान् पराजित्य तद् वक्तुं युक्तं यज्ज्ञानम् एवातीतं ज्ञानेनालम्ब्यते न त्व् अर्थ इति। ते हि सदृशापरापरोत्पत्तिरूपेण सन्तन्यमानेषु भावेष्व् अतीतक्षणालम्बनम् एव ज्ञानम् आस्थिताः। वरं तद् एव युक्तम् आश्रयितुम्। तथा हि -- न तावदत्यन्तम् अलौकिकी ग्राह्यग्राहकसिद्धिर् उक्ता भवतीत्य् अभिप्रायेणाह -- अतीतेति। किञ् च, एतद् अप्य् अतीतगोचरत्वे ज्ञानस्य विकल्पनीयं यत्तच्छक्त्यर्पणद्वारेण ग्राह्यतया कल्पितम् अतीतं ज्ञानं, तत् किं ग्राह्यैकस्वभावम् आहोस्विद् ग्राहकैकस्वभावम् उभयस्वभावं वेति। सर्वथा नोपपद्यत इत्य् अभिप्रायेणाह -- अतीतम् इति। तत्र ग्राह्यैकस्वभावत्वे तावदर्थ एव शब्दान्तरेणाभ्युपगतो भवतीत्य् अभिप्रायेणाह -- ग्राह्येति। ग्राह्यैकस्वभावं हि ज्ञानं जडात्मकम् अर्थ एव शब्दान्तरेणोपपादितो भवतीति

2,160 astu vātītasya grāhyatvaṃ, tathāpi sautrāntikān parājitya tad vaktuṃ yuktaṃ yajjñānam evātītaṃ jñānenālambyate na tv artha iti. te hi sadṛśāparāparotpattirūpeṇa santanyamāneṣu bhāveṣv atītakṣaṇālambanam eva jñānam āsthitāḥ. varaṃ tad eva yuktam āśrayitum. tathā hi -- na tāvadatyantam alaukikī grāhyagrāhakasiddhir uktā bhavatīty abhiprāyeṇāha -- atīteti. kiñ ca, etad apy atītagocaratve jñānasya vikalpanīyaṃ yattacchaktyarpaṇadvāreṇa grāhyatayā kalpitam atītaṃ jñānaṃ, tat kiṃ grāhyaikasvabhāvam āhosvid grāhakaikasvabhāvam ubhayasvabhāvaṃ veti. sarvathā nopapadyata ity abhiprāyeṇāha -- atītam iti. tatra grāhyaikasvabhāvatve tāvadartha eva śabdāntareṇābhyupagato bhavatīty abhiprāyeṇāha -- grāhyeti. grāhyaikasvabhāvaṃ hi jñānaṃ jaḍātmakam artha eva śabdāntareṇopapādito bhavatīti

Sanskrit only: no published translation is held for this verse.

अपि च शक्त्यर्पणे नोत्तरग्राह्यतेष्यते। न च ग्राह्यमात्रात्मनो ऽसंचेतितस्य शक्त्यर्पणं सम्भवति। अननुभूयमानस्य स्मृतिबीजाधानानुपपत्तेर् इत्य् अभिप्रायेणाह -- स्वेति। शक्त्यर्पणाभावम् एव प्रयोगेण दर्शयति -- यथेति। नोत्पद्यविनष्टाद् दृष्टासंविदिताच् छक्त्यर्पणं, दृढत्वेनाज्ञानाद् एव पटुतरम् अननुभवाद् इति यावत्। पठन्ति हि वस्तुधर्मो ह्य् एषः यदनुभवः पटीयान् स्मृतिबीजमाधत्ते इति। यदनेवंविधं न तेन शक्त्यर्पणं, यथानागताद् अननुभूतपूर्वात् तथाविधाद् एव तु सन्तानान्तरजाद् इति। उक्तो ग्राह्यमात्रे प्रसङ्गः। २,१६१ ग्राहकैकस्वभाव इदानीं दर्शयति -- केवलेति। यत् खलु ग्राहकैकस्वभावं तत् खलु कथम् उत्तरस्य ग्राह्यं भविष्यति। तथा सति स्वभावनाशाद् अभावापत्तेर् इत्य् अभिप्रायः

api ca śaktyarpaṇe nottaragrāhyateṣyate. na ca grāhyamātrātmano 'saṃcetitasya śaktyarpaṇaṃ sambhavati. ananubhūyamānasya smṛtibījādhānānupapatter ity abhiprāyeṇāha -- sveti. śaktyarpaṇābhāvam eva prayogeṇa darśayati -- yatheti. notpadyavinaṣṭād dṛṣṭāsaṃviditāc chaktyarpaṇaṃ, dṛḍhatvenājñānād eva paṭutaram ananubhavād iti yāvat. paṭhanti hi vastudharmo hy eṣaḥ yadanubhavaḥ paṭīyān smṛtibījamādhatte iti. yadanevaṃvidhaṃ na tena śaktyarpaṇaṃ, yathānāgatād ananubhūtapūrvāt tathāvidhād eva tu santānāntarajād iti. ukto grāhyamātre prasaṅgaḥ. 2,161 grāhakaikasvabhāva idānīṃ darśayati -- kevaleti. yat khalu grāhakaikasvabhāvaṃ tat khalu katham uttarasya grāhyaṃ bhaviṣyati. tathā sati svabhāvanāśād abhāvāpatter ity abhiprāyaḥ

Sanskrit only: no published translation is held for this verse.

किञ् चेदं ग्राहकैकस्वभावत्वं दुरधिगमम् इत्य् आह -- किम् इति। ग्राह्यापेक्षं हि ग्राहकत्वं तदेकस्वभावस्य। न तावत् स्वात्मा ग्राह्यो न ज्ञानान्तरं, तस्याप्य् एवम् एव ग्राहकैकस्वभावत्वाद् इति। उभयाकारतायां दूषणम् आह -- द्व्याकारता निरस्तैवेति। नैतद् अस्तीत्यादिना निषिद्ध इत्य् अर्थः। अपि च, द्व्याकारत्वे पूर्वज्ञानं तदैव स्वकाल एव संवेदेत। तत्रास्य स्वसंवित्तये बोधकान्तरज्ञानापेक्षा न युक्तेत्य् आह -- संवेद्येतेति

kiñ cedaṃ grāhakaikasvabhāvatvaṃ duradhigamam ity āha -- kim iti. grāhyāpekṣaṃ hi grāhakatvaṃ tadekasvabhāvasya. na tāvat svātmā grāhyo na jñānāntaraṃ, tasyāpy evam eva grāhakaikasvabhāvatvād iti. ubhayākāratāyāṃ dūṣaṇam āha -- dvyākāratā nirastaiveti. naitad astītyādinā niṣiddha ity arthaḥ. api ca, dvyākāratve pūrvajñānaṃ tadaiva svakāla eva saṃvedeta. tatrāsya svasaṃvittaye bodhakāntarajñānāpekṣā na yuktety āha -- saṃvedyeteti

Sanskrit only: no published translation is held for this verse.

अपि च यदि पूर्वज्ञानं द्व्याकारम्, एवं सति परस्यापि तद्भुवस् तथात्वाद् आत्मांश एव प्रमा पर्यवसितेति किम् अतीतविषयतयेत्य् आह -- द्व्याकारेति। ग्राह्यैकस्वभावत्वे च पूर्वस्यायम् अपरो दोष इत्य् आह -- पूर्वेति। तदतद्रूपिणो भावास् तदतद्रूपहेतुजाः । इति स्थितिः

api ca yadi pūrvajñānaṃ dvyākāram, evaṃ sati parasyāpi tadbhuvas tathātvād ātmāṃśa eva pramā paryavasiteti kim atītaviṣayatayety āha -- dvyākāreti. grāhyaikasvabhāvatve ca pūrvasyāyam aparo doṣa ity āha -- pūrveti. tadatadrūpiṇo bhāvās tadatadrūpahetujāḥ | iti sthitiḥ

Sanskrit only: no published translation is held for this verse.

अथ कथं पूर्वस्य ग्राह्यमात्ररूपत्वे तज्जन्मनश् चोत्तरस्य ग्राहकत्वं भविष्यतीति। यदि तु पूर्वं ग्राहकाकारमात्रम् एवं सति नोत्तरस्य विषयो भवेत्, सारूप्यनिबन्धनत्वाद् विषयविषयिभावस्य। पूर्वोत्तरयोश् च पूर्वं ग्राहकाकारमात्रम् उत्तरं तु द्व्याकारम् इति वैरूप्यम् इति न पूर्वविषयतोत्तरस्य (?न) २,१६२ सिध्येत्। तद् एतद् आह -- ग्राहकेति। पूर्वं च केवलग्राहकत्वे ग्रहणकतया विषयभावो निराकृतः। इह तु वैरूप्याद् इति विशेष इति। यच्छक्त्यर्पणद्वारेण पूर्वस्यालम्बनत्वम् उक्तं, तत् तावत् प्रत्युक्तम् एव। तत्रैव स्मृत्वा पुनर् अपि किञ्चिद् वदति -- न चेति। केनचिद् व्यापारेण कश्चित् कञ्चिद् अर्पयति। न च विज्ञानस्य शक्त्यर्पणं प्रति कश्चिद् व्यापारो दृश्यते। क्षणिकत्वाद् व्यापारकालं यावदनवस्थानाद्, व्यापारान्तरानभ्युपगमाच् चेति

atha kathaṃ pūrvasya grāhyamātrarūpatve tajjanmanaś cottarasya grāhakatvaṃ bhaviṣyatīti. yadi tu pūrvaṃ grāhakākāramātram evaṃ sati nottarasya viṣayo bhavet, sārūpyanibandhanatvād viṣayaviṣayibhāvasya. pūrvottarayoś ca pūrvaṃ grāhakākāramātram uttaraṃ tu dvyākāram iti vairūpyam iti na pūrvaviṣayatottarasya (?na) 2,162 sidhyet. tad etad āha -- grāhaketi. pūrvaṃ ca kevalagrāhakatve grahaṇakatayā viṣayabhāvo nirākṛtaḥ. iha tu vairūpyād iti viśeṣa iti. yacchaktyarpaṇadvāreṇa pūrvasyālambanatvam uktaṃ, tat tāvat pratyuktam eva. tatraiva smṛtvā punar api kiñcid vadati -- na ceti. kenacid vyāpāreṇa kaścit kañcid arpayati. na ca vijñānasya śaktyarpaṇaṃ prati kaścid vyāpāro dṛśyate. kṣaṇikatvād vyāpārakālaṃ yāvadanavasthānād, vyāpārāntarānabhyupagamāc ceti

Sanskrit only: no published translation is held for this verse.

किञ् चायं शक्त्यर्पणस्याभावो बौद्धपक्षे निरालम्बनवाद एव प्रपञ्चेन साधित इत्य् आह -- शक्त्यर्पणस्येति। इदानीं यत् तत् पूर्वम् उक्तं न पूर्वोत्तरज्ञानयोर् हेतुसाध्यत्वम् इति, यच् च वास्यवासकभावनिराकरणम्, उभयत्र प्रयोगम् आह -- सन्तानेति। क्वचिद् एकस्यां सन्ततौ विमतिपदास्पदीभूतायां न ज्ञानयोर् हेतुहेतुमत्ता, ज्ञानत्वात्, सन्तानान्तरज्ञानवत्। सन्तानान्तरज्ञानानि न सन्तानान्तरहेतुमन्ति, तेषां तत्रानारम्भकत्वात्। एवम् एव वास्यवासकभावनिराकरणे ऽपि प्रयोगो दर्शयितव्यः। इह च ज्ञानान्य् एव धर्मीणि समानायां सन्तताव् अहेतुभूतानीति साध्यो धर्मः। ज्ञानत्वाद् इति हेतुः। सन्तानान्तरज्ञानवद् इति दृष्टान्त इति

kiñ cāyaṃ śaktyarpaṇasyābhāvo bauddhapakṣe nirālambanavāda eva prapañcena sādhita ity āha -- śaktyarpaṇasyeti. idānīṃ yat tat pūrvam uktaṃ na pūrvottarajñānayor hetusādhyatvam iti, yac ca vāsyavāsakabhāvanirākaraṇam, ubhayatra prayogam āha -- santāneti. kvacid ekasyāṃ santatau vimatipadāspadībhūtāyāṃ na jñānayor hetuhetumattā, jñānatvāt, santānāntarajñānavat. santānāntarajñānāni na santānāntarahetumanti, teṣāṃ tatrānārambhakatvāt. evam eva vāsyavāsakabhāvanirākaraṇe 'pi prayogo darśayitavyaḥ. iha ca jñānāny eva dharmīṇi samānāyāṃ santatāv ahetubhūtānīti sādhyo dharmaḥ. jñānatvād iti hetuḥ. santānāntarajñānavad iti dṛṣṭānta iti

Sanskrit only: no published translation is held for this verse.

ग्राह्यग्राहकयोर् उपपादितं भेदं प्रयोगेणेदानीं दर्शयति -- तस्माद् इति। यत एव न कथञ्चिद् ज्ञानस्य स्वगोचरत्वं, तस्मात्। यद् रूपस्य ग्राहकं तत् तु अतो ग्राह्याद् भिन्नं, तत्संवित्ताव् असंवित्तेः। यन् न तत्संवित्तौ संवेद्यते तत् ततो भिन्नं, रसादिग्राहकवत्। तत्संवित्ताव् असंवित्तिश् च प्राग् एव साधितेति नासिद्ध्याशङ्का। रसादिग्राहकं यथेति चास्य भिन्नम् इति वक्ष्यमाणेन सम्बन्ध इति

grāhyagrāhakayor upapāditaṃ bhedaṃ prayogeṇedānīṃ darśayati -- tasmād iti. yata eva na kathañcid jñānasya svagocaratvaṃ, tasmāt. yad rūpasya grāhakaṃ tat tu ato grāhyād bhinnaṃ, tatsaṃvittāv asaṃvitteḥ. yan na tatsaṃvittau saṃvedyate tat tato bhinnaṃ, rasādigrāhakavat. tatsaṃvittāv asaṃvittiś ca prāg eva sādhiteti nāsiddhyāśaṅkā. rasādigrāhakaṃ yatheti cāsya bhinnam iti vakṣyamāṇena sambandha iti

Sanskrit only: no published translation is held for this verse.

२,१६३ एवम् एव ग्राह्यं पक्षीकृत्य ग्राहकाद् भेदो दर्शयितव्य इत्य् आह -- ग्राह्यम् इति। अत्रापि रसादिग्राहकम् एव दृष्टान्तः। यथा हि तद्रूपग्राहकानुभवे ऽननुभूयमानं ततो भिद्यते, एवं तद्ग्राह्यम् अपि रूपं, तद् अपि स्वग्राहकपरामर्शे न परामृश्यत एव। तद् अपि न स्मरामीत्य् अत्र दर्शितम् इति। एवम् ऐकैकश्येन ग्राह्यग्राहकयोर् भेदं प्रसाध्येदानीम् उभयोर् अपि समाहृत्य दर्शयति -- द्वयम् इति। ग्राह्यग्राहकद्वयं परस्परभिन्नम्। इतरेतरपरामर्श इतरेतरापरामर्शाद् रसादिवत्। यथा रूपरसादयो ऽन्योन्यपरामर्शे ऽपरामृश्यमानाः परस्परेण भिद्यन्ते, एवम् एतद् अपि द्वयम् इति

2,163 evam eva grāhyaṃ pakṣīkṛtya grāhakād bhedo darśayitavya ity āha -- grāhyam iti. atrāpi rasādigrāhakam eva dṛṣṭāntaḥ. yathā hi tadrūpagrāhakānubhave 'nanubhūyamānaṃ tato bhidyate, evaṃ tadgrāhyam api rūpaṃ, tad api svagrāhakaparāmarśe na parāmṛśyata eva. tad api na smarāmīty atra darśitam iti. evam aikaikaśyena grāhyagrāhakayor bhedaṃ prasādhyedānīm ubhayor api samāhṛtya darśayati -- dvayam iti. grāhyagrāhakadvayaṃ parasparabhinnam. itaretaraparāmarśa itaretarāparāmarśād rasādivat. yathā rūparasādayo 'nyonyaparāmarśe 'parāmṛśyamānāḥ paraspareṇa bhidyante, evam etad api dvayam iti

Sanskrit only: no published translation is held for this verse.

प्रकारान्तरेणेदाणीं ग्राह्यग्राहकयोर् भेदं दर्शयति -- एकेति। ग्राह्यं ग्राहकाद् भिन्नं तेन सहैकरूप्येणाज्ञानात्। यद् येन सहैकरूप्येण न ज्ञायते तत् ततो भिद्यते यथा सन्तानान्तरबुद्धिः। न चासिद्धो हेतुः, नीलादिरूपत्वाद् ग्राह्यस्यानाकारस्य च ग्राहकस्य संवेदनात्। एवम् एव ग्राहकं पक्षीकृत्य हेतुर् दर्शयितव्य इति। प्रयोगान्तरम् आह -- ज्ञानम् इति। ज्ञानं धर्मि, न स्वांशं गृह्णातीति साध्यं, ज्ञानोत्पत्तेर् इति हेतुः। तद् धि समनन्तरप्रत्ययाद् उत्पद्यत इति बौद्धा मन्यन्ते। यद् ज्ञानाद् उत्पद्यते न तत् (?पा।स्वां)शं गृह्णाति। यथा ज्ञानस्य स्वशक्तिः। स्वशक्तिर् इति ज्ञानज(?न्याद्।न्यां) वासनाम् अपदिशतीति

prakārāntareṇedāṇīṃ grāhyagrāhakayor bhedaṃ darśayati -- eketi. grāhyaṃ grāhakād bhinnaṃ tena sahaikarūpyeṇājñānāt. yad yena sahaikarūpyeṇa na jñāyate tat tato bhidyate yathā santānāntarabuddhiḥ. na cāsiddho hetuḥ, nīlādirūpatvād grāhyasyānākārasya ca grāhakasya saṃvedanāt. evam eva grāhakaṃ pakṣīkṛtya hetur darśayitavya iti. prayogāntaram āha -- jñānam iti. jñānaṃ dharmi, na svāṃśaṃ gṛhṇātīti sādhyaṃ, jñānotpatter iti hetuḥ. tad dhi samanantarapratyayād utpadyata iti bauddhā manyante. yad jñānād utpadyate na tat (?pā/svāṃ)śaṃ gṛhṇāti. yathā jñānasya svaśaktiḥ. svaśaktir iti jñānaja(?nyād/nyāṃ) vāsanām apadiśatīti

Sanskrit only: no published translation is held for this verse.

एवम् एव ग्राह्यत्वप्रतिषेधप्रयोगो दर्शयितव्य इत्य् आह -- ग्राह्येति। ज्ञानं स्वांशेन न गृह्यत इति दर्शयितव्यम्। ताव् एव हेतुदृष्टान्ताव् इति। न च साध्यविकलो दृष्टान्तः। द्वयहीनवासनाभ्युपगमात्। बौद्धानां हि स्वांशं न गृह्णाति। न च तेन गृह्यते। एतच् च चिरन्तनबौद्धाभिप्रायेण ज्ञानातिरिक्तवासनापक्षे २,१६४ स्थित्वोक्तम् इति द्रष्टव्यम्। न तूपादानापरनाम्नो विशिष्टात् समनन्तरज्ञानाद् अन्यां काञ्चिद् वासनामर्वाचीना मन्यन्ते। तन्निरासो ऽपि चास्माभिर् उक्त एवेति। अन्यथा ग्राह्यग्राहकयोर् भेदं दर्शयति -- चैत्रेति। चैत्रज्ञानं धर्मि। तच् चैत्रोद्भूतो यो ज्ञानांशो ग्राह्यस् तस्य बोधकं न भवतीति साध्यम्। ज्ञानत्वात्। यद् यद् ज्ञानं न तत् तद्बोधनं यथा देहान्तरोद्भवम् इति। ग्राह्यग्राहकशक्तिनिराकरणं चैतेनैव प्रकारेण दर्शयितव्यम् इत्य् आह -- एतयैवेति। एषा चात्र दिक्। न ज्ञानं द्विशक्तिकं, ज्ञानोत्पत्तेः, स्वशक्तिवत्। तथा न ज्ञानं द्विशक्तिकं, ज्ञानत्वाद् अन्यतरांशवत्। अन्यतरांशो हि ज्ञानम् एव। न चासौ द्विशक्तिकः, द्वैविध्याभ्युपगमात्। इतरथा चातुर्विध्यप्रसङ्ग इति

evam eva grāhyatvapratiṣedhaprayogo darśayitavya ity āha -- grāhyeti. jñānaṃ svāṃśena na gṛhyata iti darśayitavyam. tāv eva hetudṛṣṭāntāv iti. na ca sādhyavikalo dṛṣṭāntaḥ. dvayahīnavāsanābhyupagamāt. bauddhānāṃ hi svāṃśaṃ na gṛhṇāti. na ca tena gṛhyate. etac ca cirantanabauddhābhiprāyeṇa jñānātiriktavāsanāpakṣe 2,164 sthitvoktam iti draṣṭavyam. na tūpādānāparanāmno viśiṣṭāt samanantarajñānād anyāṃ kāñcid vāsanāmarvācīnā manyante. tannirāso 'pi cāsmābhir ukta eveti. anyathā grāhyagrāhakayor bhedaṃ darśayati -- caitreti. caitrajñānaṃ dharmi. tac caitrodbhūto yo jñānāṃśo grāhyas tasya bodhakaṃ na bhavatīti sādhyam. jñānatvāt. yad yad jñānaṃ na tat tadbodhanaṃ yathā dehāntarodbhavam iti. grāhyagrāhakaśaktinirākaraṇaṃ caitenaiva prakāreṇa darśayitavyam ity āha -- etayaiveti. eṣā cātra dik. na jñānaṃ dviśaktikaṃ, jñānotpatteḥ, svaśaktivat. tathā na jñānaṃ dviśaktikaṃ, jñānatvād anyatarāṃśavat. anyatarāṃśo hi jñānam eva. na cāsau dviśaktikaḥ, dvaividhyābhyupagamāt. itarathā cāturvidhyaprasaṅga iti

Sanskrit only: no published translation is held for this verse.

ननु शक्यम् अनेनैव प्रकारेण (?ना।आ)त्मनो ऽपि वस्तुत्वाद् घटवद् द्विशक्तिकत्वं वारयितुम् अत आह -- प्रमाणेति। दर्शितं ह्य् अस्मत्प्रयोगसम्भिन्नबोधबोध्यत्वाद् आत्मनो द्विरूपत्वम्। न तदनुमानेन वारयितुं शक्यते, प्रत्यक्षबाधकप्रसङ्गाद् इति भावः। ज्ञाने तु नात्मवद् द्विशक्तिकत्वं शक्यते कल्पयितुं, प्रमाणान्तराभावाद् इति। एतद् अप्य् उक्तम् इत्य् आह -- न त्व् अत्रेति। यत एवम् एकस्य द्विरूपत्वम् अनुपपन्नम्, अतो ऽवश्यम् एव ज्ञानाद् भिन्नं नीलादि ग्राह्यम् एष्टव्यम्, एवञ् च प्रमाणबलाद् आपद्यमानो वस्तुभेदो न कल्पनागौरवम् आपादयतीति

nanu śakyam anenaiva prakāreṇa (?nā/ā)tmano 'pi vastutvād ghaṭavad dviśaktikatvaṃ vārayitum ata āha -- pramāṇeti. darśitaṃ hy asmatprayogasambhinnabodhabodhyatvād ātmano dvirūpatvam. na tadanumānena vārayituṃ śakyate, pratyakṣabādhakaprasaṅgād iti bhāvaḥ. jñāne tu nātmavad dviśaktikatvaṃ śakyate kalpayituṃ, pramāṇāntarābhāvād iti. etad apy uktam ity āha -- na tv atreti. yata evam ekasya dvirūpatvam anupapannam, ato 'vaśyam eva jñānād bhinnaṃ nīlādi grāhyam eṣṭavyam, evañ ca pramāṇabalād āpadyamāno vastubhedo na kalpanāgauravam āpādayatīti

Sanskrit only: no published translation is held for this verse.

यद् उक्तम् अनेककल्पनाया एककल्पना ज्यायसीति, तत् परिहृतं, न खलु प्रत्यक्षसिद्धो ऽर्थः कल्पनीयः। न च तद्बलभाविनी ज्ञानकल्पना शक्यते वारयितुम्। प्रमाणवन्ति सुबहून्य् अप्य् अदृष्टानि कल्पनीयान्य् एव। अत एवोभय २,१६५ सिद्धत्वाद् ज्ञानस्याकारकल्पना न्याय्येति यद् उक्तं तद् अपि प्रत्याख्यातम्। यदि हि वयम् आकारं दृष्ट्वा कस्यायम् इति तदाश्रयम् अन्विच्छेम तदोभयसिद्धत्वाद् ज्ञानाकारो ऽयम् इत्य् उच्येतापि। प्रतिष्ठिताश्रयम् एव तु प्रत्यक्षसामर्थ्याद् आकारम् अवगच्छन्तो नास्याश्रयान्तरमीहामहे। न चैवास्माकम् असिद्धे ऽर्थाकारे ज्ञानम् अपि सिद्धं येनोभयसिद्धं भवेत्। न हि तन्निराकारम् अनुभूयते। प्रत्यक्षेणार्थ एव हि ज्ञातस् तस्य प्रमाणं भविष्यति। स चेद् अनिष्टो नास्य कल्पनायां प्रमाणम् अस्तीति कथम् उभयसिद्धत्वं, तद् एतद् आह -- तस्माद् इति। आदिशब्देन शक्तिमात्रस्य भेद इति यद् उक्तं तदुपादत्त इति। उक्तदोषपरिहारप्रपञ्चम् अतः परमारभमाणः यत् तावद् उक्तम् उपायत्वाद् ज्ञानम् एव प्रथमम् अवगन्तव्यम् उपायाधीनसिद्धित्वाद् उपेयानाम्, न च तदाकारम् अन्तरेण प्रतीयत इति ज्ञानाकार एवायम् इति, तत् तावत् परिहरति -- उपायेति। सत्यम् अर्थसिद्धाव् उपायो ज्ञानं, न त्व् अवश्यम् उपायग्रहणाधीनम् उपेयावधारणम्। न हि चक्षू रूपपरिच्छेदोपाय इति ततः पूर्वम् अनुभूयते। यत् तूपायत्वात् प्रथमम् अवगन्तव्यम् इति, तत् तैर् एव चक्षुरादिभिर् अनैकान्तिकम् इति नोपायस्य सतो ज्ञानस्य पूर्वानुभवं साधयितुम् अलम् इति

yad uktam anekakalpanāyā ekakalpanā jyāyasīti, tat parihṛtaṃ, na khalu pratyakṣasiddho 'rthaḥ kalpanīyaḥ. na ca tadbalabhāvinī jñānakalpanā śakyate vārayitum. pramāṇavanti subahūny apy adṛṣṭāni kalpanīyāny eva. ata evobhaya 2,165 siddhatvād jñānasyākārakalpanā nyāyyeti yad uktaṃ tad api pratyākhyātam. yadi hi vayam ākāraṃ dṛṣṭvā kasyāyam iti tadāśrayam anvicchema tadobhayasiddhatvād jñānākāro 'yam ity ucyetāpi. pratiṣṭhitāśrayam eva tu pratyakṣasāmarthyād ākāram avagacchanto nāsyāśrayāntaramīhāmahe. na caivāsmākam asiddhe 'rthākāre jñānam api siddhaṃ yenobhayasiddhaṃ bhavet. na hi tannirākāram anubhūyate. pratyakṣeṇārtha eva hi jñātas tasya pramāṇaṃ bhaviṣyati. sa ced aniṣṭo nāsya kalpanāyāṃ pramāṇam astīti katham ubhayasiddhatvaṃ, tad etad āha -- tasmād iti. ādiśabdena śaktimātrasya bheda iti yad uktaṃ tadupādatta iti. uktadoṣaparihāraprapañcam ataḥ paramārabhamāṇaḥ yat tāvad uktam upāyatvād jñānam eva prathamam avagantavyam upāyādhīnasiddhitvād upeyānām, na ca tadākāram antareṇa pratīyata iti jñānākāra evāyam iti, tat tāvat pariharati -- upāyeti. satyam arthasiddhāv upāyo jñānaṃ, na tv avaśyam upāyagrahaṇādhīnam upeyāvadhāraṇam. na hi cakṣū rūpaparicchedopāya iti tataḥ pūrvam anubhūyate. yat tūpāyatvāt prathamam avagantavyam iti, tat tair eva cakṣurādibhir anaikāntikam iti nopāyasya sato jñānasya pūrvānubhavaṃ sādhayitum alam iti

Sanskrit only: no published translation is held for this verse.

यत् पुनर् उक्तम् -- उत्पन्नस्य सतो ऽप्रतिबद्धस्य ज्ञानस्य नाग्रहणकारणम् अस्ति अतो ग्रहीतव्यम् इति, तद् अनुभाष्य परिहरति -- यद् अपीति। अयम् अभिप्रायः -- सत्यं ज्ञानम् उत्पन्नम् अप्रतिबद्धं केनचित्। न त्व् एतावतैव ग्रहीतव्यं भवति, ग्राहकाभावेनाग्रहणोपपत्तेः। न तावद् इदम् आत्मनात्मानं ग्रहीतुं शक्यम् इत्य् उक्तम्। अन्यच् च, ज्ञानं तदा नोत्पन्नम् एव अर्थापत्तिर् हि सा। सा च पश्चाद् एव भविष्यतीत्य् अतः सतो ऽपि ज्ञानस्य ग्रहणकारणाभावाद् अग्रहणं युक्तम् एवेत्य् आह -- तेनेति

yat punar uktam -- utpannasya sato 'pratibaddhasya jñānasya nāgrahaṇakāraṇam asti ato grahītavyam iti, tad anubhāṣya pariharati -- yad apīti. ayam abhiprāyaḥ -- satyaṃ jñānam utpannam apratibaddhaṃ kenacit. na tv etāvataiva grahītavyaṃ bhavati, grāhakābhāvenāgrahaṇopapatteḥ. na tāvad idam ātmanātmānaṃ grahītuṃ śakyam ity uktam. anyac ca, jñānaṃ tadā notpannam eva arthāpattir hi sā. sā ca paścād eva bhaviṣyatīty ataḥ sato 'pi jñānasya grahaṇakāraṇābhāvād agrahaṇaṃ yuktam evety āha -- teneti

Sanskrit only: no published translation is held for this verse.

२,१६६ यदि स्वकाले नावगतं, कथं तर्हि पश्चाद् अवगम्यते। अत आह -- नान्यथेति। अस्ति हि खलु पश्चाद् ज्ञानावधारणे प्रमाणम् अर्थापत्तिः। ज्ञातार्थान्यथानुपपत्तिप्रभवा सा प्रागज्ञाते ऽर्थे न जायते, पश्चादुपजायत इति युक्तम् एव प्रमाणसद्भावाद् उत्तरकालम् एव ग्रहणम्। परिचोदनापरिहारश् चोक्त एवेति नेह प्रतन्यत इति

2,166 yadi svakāle nāvagataṃ, kathaṃ tarhi paścād avagamyate. ata āha -- nānyatheti. asti hi khalu paścād jñānāvadhāraṇe pramāṇam arthāpattiḥ. jñātārthānyathānupapattiprabhavā sā prāgajñāte 'rthe na jāyate, paścādupajāyata iti yuktam eva pramāṇasadbhāvād uttarakālam eva grahaṇam. paricodanāparihāraś cokta eveti neha pratanyata iti

Sanskrit only: no published translation is held for this verse.

नन्व् अस्तु तावत् परस्तात् प्रमाणसद्भावः, पूर्वम् अपि त्व् अप्रतिबन्धस्य कस्माद् अग्रहणम् अत आह -- न चेति। न ह्य् अप्रतिबन्धम् इत्य् एव वस्तूपलभ्यते। अप्रतिबन्धस्याप्य् अनुपलम्भनात्। कारणसामग्रीविशेषसमवधानसम्पादितं हि भावानां ग्रहणम्। तदप्रतिबन्धानाम् अपि तदभावे न भवति। किम् अनुपपन्नम् इति

nanv astu tāvat parastāt pramāṇasadbhāvaḥ, pūrvam api tv apratibandhasya kasmād agrahaṇam ata āha -- na ceti. na hy apratibandham ity eva vastūpalabhyate. apratibandhasyāpy anupalambhanāt. kāraṇasāmagrīviśeṣasamavadhānasampāditaṃ hi bhāvānāṃ grahaṇam. tadapratibandhānām api tadabhāve na bhavati. kim anupapannam iti

Sanskrit only: no published translation is held for this verse.

का पुनर्ज्ञानग्रहणे सामग्री। यदि ज्ञानं, किम् अ(?न्य।स्य) ज्ञानान्तरेण। नन्व् इदम् एव स्वभावतो ज्ञानं प्रकाशात्मकम्, अप्रकाशात्मनां तु भावान्तराणाम् अप्रतिबद्धानाम् अप्य् अस्तु प्रकाशान्तरापेक्षा। अत एवोक्तं न चाप्रकाशरूपत्वम् इति। अतो नोत्पन्नस्य ज्ञानस्याग्रहणे कारणम् उपलभामहे -- अत आह -- व्यापृतम् इति। सत्यम् प्रकाशकं ज्ञानं, तथापि नात्मानं प्रकाशयति अर्थसंवित्तौ व्यापृतत्वात्। न हि बहिर्विषयप्रकाशने व्यापृतः प्रदीपः आत्मानम् अपि प्रकाशयति। तत्प्रकाशने चक्षुषो ऽपेक्षणात्। अतो युक्तम् एव प्रकाशात्मनो ऽपि स्वबोधायान्यापेक्षणम् इति

kā punarjñānagrahaṇe sāmagrī. yadi jñānaṃ, kim a(?nya/sya) jñānāntareṇa. nanv idam eva svabhāvato jñānaṃ prakāśātmakam, aprakāśātmanāṃ tu bhāvāntarāṇām apratibaddhānām apy astu prakāśāntarāpekṣā. ata evoktaṃ na cāprakāśarūpatvam iti. ato notpannasya jñānasyāgrahaṇe kāraṇam upalabhāmahe -- ata āha -- vyāpṛtam iti. satyam prakāśakaṃ jñānaṃ, tathāpi nātmānaṃ prakāśayati arthasaṃvittau vyāpṛtatvāt. na hi bahirviṣayaprakāśane vyāpṛtaḥ pradīpaḥ ātmānam api prakāśayati. tatprakāśane cakṣuṣo 'pekṣaṇāt. ato yuktam eva prakāśātmano 'pi svabodhāyānyāpekṣaṇam iti

Sanskrit only: no published translation is held for this verse.

अथ वा प्रकाशकं ज्ञानम् इत्य् एव कुतः, अर्थापरोक्षीभावो हि तस्य तथात्वे प्रमाणम्। ततश् चार्थानुभवस्वभावम् एव तत् सिध्यतीति न स्वात्मानम् अपि प्रकाशयतीत्य् आह - ईदृशम् इति। एवम् अपि स्वात्मानं प्रकाशयेद् २,१६७ यद्य् अर्थवद् ज्ञानात्मापि ज्ञानजन्मन्य् अनुभूयते, न त्व् असाव् अनुभूयते इत्य् उक्तम् एवेत्य् अभिप्रायेणाह -- न चेति। न च यद् एकस्य प्रकाशकं तेन सर्वस्यैव प्रकाशकेन भवितव्यम्। न हि चक्षुरादीनीन्द्रियाणि प्रकाशकान्य् अपि विषयतः सङ्कीर्यन्ते, व्यवस्थाया उक्तत्वात्। एवम् इहापि बाह्यस्य प्रकाशकं ज्ञानं, नात्मन इति न नोपपन्नम् इत्य् आह -- सतीति सार्धेन। प्रकाशकपदोपचारस् तु कथञ्चित् प्रकाशे कर्तृभावम् आश्रित्य वक्तव्यः। अन्यथा हि प्रकाशानन्त्यं भवेद् इत्य् उक्तम् एवेति

atha vā prakāśakaṃ jñānam ity eva kutaḥ, arthāparokṣībhāvo hi tasya tathātve pramāṇam. tataś cārthānubhavasvabhāvam eva tat sidhyatīti na svātmānam api prakāśayatīty āha - īdṛśam iti. evam api svātmānaṃ prakāśayed 2,167 yady arthavad jñānātmāpi jñānajanmany anubhūyate, na tv asāv anubhūyate ity uktam evety abhiprāyeṇāha -- na ceti. na ca yad ekasya prakāśakaṃ tena sarvasyaiva prakāśakena bhavitavyam. na hi cakṣurādīnīndriyāṇi prakāśakāny api viṣayataḥ saṅkīryante, vyavasthāyā uktatvāt. evam ihāpi bāhyasya prakāśakaṃ jñānaṃ, nātmana iti na nopapannam ity āha -- satīti sārdhena. prakāśakapadopacāras tu kathañcit prakāśe kartṛbhāvam āśritya vaktavyaḥ. anyathā hi prakāśānantyaṃ bhaved ity uktam eveti

Sanskrit only: no published translation is held for this verse.

यत् तूक्तं - तस्य तस्यापि चान्येन संवित्तावस्थितिर् भवेत् । इति, तद् दूषयितुम् अनुभाषते -- अन्येनेति सार्थेन। एवं हि परैर् उक्तं - यदि किल ज्ञानान्तरेण ज्ञानं जायते, ततस् तस्य तस्य ज्ञानस्य स्मरणात् पूर्वानुभवकल्पनायाम् अनवस्था भवेत्। एकेन तु ज्ञानेन विषयाकारे स्वाकारे च प्रवेदिते सर्वम् एव ग्राह्यग्राहकाकारस्मरणं तत्रैव स्यात्। तथा चानवस्था परिहृता भवति। तस्मान् न ज्ञानान्तरेण वेद्यं ज्ञानम् इति

yat tūktaṃ - tasya tasyāpi cānyena saṃvittāvasthitir bhavet | iti, tad dūṣayitum anubhāṣate -- anyeneti sārthena. evaṃ hi parair uktaṃ - yadi kila jñānāntareṇa jñānaṃ jāyate, tatas tasya tasya jñānasya smaraṇāt pūrvānubhavakalpanāyām anavasthā bhavet. ekena tu jñānena viṣayākāre svākāre ca pravedite sarvam eva grāhyagrāhakākārasmaraṇaṃ tatraiva syāt. tathā cānavasthā parihṛtā bhavati. tasmān na jñānāntareṇa vedyaṃ jñānam iti

Sanskrit only: no published translation is held for this verse.

एवम् अनुभाषिते दूषणम् आह -- तत्रापीति। यद् एतद् उच्यते तत्र तत्र स्मरणदर्शनेन सर्वत्रानुभवकल्पनायाम् अनवस्थेति, तद् अयुक्तम्। स्मृत्यसिद्धेः। गृहीतविषया हि स्मृतिर् भवतीति नागृहीतं ज्ञानं स्मर्तुं शक्यम्। गृहीतस्मरणे तु यावद्ग्रहणम् एव स्मरणव्यवस्थानान्नानवस्थेति वक्ष्यते। भवति हि २,१६८ कदाचिद् एतद् द्वित्राणि ज्ञानान्य् अनुभूतपूर्वाणि स्मर्यन्त इति। विज्ञानसन्तानस्मरणं त्व् अलौकिकम् एवेति

evam anubhāṣite dūṣaṇam āha -- tatrāpīti. yad etad ucyate tatra tatra smaraṇadarśanena sarvatrānubhavakalpanāyām anavastheti, tad ayuktam. smṛtyasiddheḥ. gṛhītaviṣayā hi smṛtir bhavatīti nāgṛhītaṃ jñānaṃ smartuṃ śakyam. gṛhītasmaraṇe tu yāvadgrahaṇam eva smaraṇavyavasthānānnānavastheti vakṣyate. bhavati hi 2,168 kadācid etad dvitrāṇi jñānāny anubhūtapūrvāṇi smaryanta iti. vijñānasantānasmaraṇaṃ tv alaukikam eveti

Sanskrit only: no published translation is held for this verse.

यदि त्व् अर्थज्ञाततान्यथानुपपत्त्या ज्ञानम् अवगम्य पुनस् तज्ज्ञाततावशेन तद्विषयं ज्ञानान्तरं कल्पयति, पुनश् चानेनैव क्रमेण यावच्छ्रमं ज्ञानानि ज्ञातानि। ततो यावज्ज्ञातस्मरणाद् नानवस्थेत्य् आह -- घटादाव् इति सार्धेन। यत् तु प्रागनवगतानाम् एव ज्ञानानां स्मरणम् उच्यते, तद् वन्ध्यासुतादिस्मरणतुल्यम् अशक्यम् एव वक्तुम् इत्य् आह -- तदेति

yadi tv arthajñātatānyathānupapattyā jñānam avagamya punas tajjñātatāvaśena tadviṣayaṃ jñānāntaraṃ kalpayati, punaś cānenaiva krameṇa yāvacchramaṃ jñānāni jñātāni. tato yāvajjñātasmaraṇād nānavasthety āha -- ghaṭādāv iti sārdhena. yat tu prāganavagatānām eva jñānānāṃ smaraṇam ucyate, tad vandhyāsutādismaraṇatulyam aśakyam eva vaktum ity āha -- tadeti

Sanskrit only: no published translation is held for this verse.

यत् तु भिक्षुणा सिद्धवत् तत्रापि स्मृतिर् इत्य् उक्तं, तद् भ्रान्तभाषितम् एव। अस्ति च भ्रान्तौ निबन्धनम्। अर्थो हि तत्र स्मर्यते। तत्स्मरणान्यथानुपपत्त्या च तस्य प्राग् ज्ञातत्वम् एव कल्प्यते। ततो ऽपि प्राचीनज्ञानकल्पना। तद् इह संसर्गमोहितधियां ज्ञाने ऽपि स्मृतिविभ्रमः। न त्वाद्यज्ञानस्मरणम् अप्य् आशङ्क्यम्। प्राग् एव सन्तानस्मरणं, तद् एतद् आह -- स्मृतिभ्रान्तिर् इति। अर्थस्मृतेः खल्व् इयं तज्ज्ञानादिप्रमाणता विलसति, यद् एतज्ज्ञाने ऽपि स्मृतिभ्रमो भवति। अर्थस्मृत्या हि ज्ञाने प्रमीयमाणे स्मृतिविषयार्थसन्निकर्षाद् ज्ञाने ऽपि स्मरणम् इति भ्राम्यति। आदिशब्देन चात्र ज्ञानज्ञानम् उपादीयत इति

yat tu bhikṣuṇā siddhavat tatrāpi smṛtir ity uktaṃ, tad bhrāntabhāṣitam eva. asti ca bhrāntau nibandhanam. artho hi tatra smaryate. tatsmaraṇānyathānupapattyā ca tasya prāg jñātatvam eva kalpyate. tato 'pi prācīnajñānakalpanā. tad iha saṃsargamohitadhiyāṃ jñāne 'pi smṛtivibhramaḥ. na tvādyajñānasmaraṇam apy āśaṅkyam. prāg eva santānasmaraṇaṃ, tad etad āha -- smṛtibhrāntir iti. arthasmṛteḥ khalv iyaṃ tajjñānādipramāṇatā vilasati, yad etajjñāne 'pi smṛtibhramo bhavati. arthasmṛtyā hi jñāne pramīyamāṇe smṛtiviṣayārthasannikarṣād jñāne 'pi smaraṇam iti bhrāmyati. ādiśabdena cātra jñānajñānam upādīyata iti

Sanskrit only: no published translation is held for this verse.

स्मृत्यापि ज्ञानप्रमायां यावच्छ्रमं तद्ग्रहणाद् विषयान्तरसञ्चारोपपत्तिर् इत्य् अभिप्रायेणाह -- यावद् इति। अयम् अभिप्रायः -- न तावन्ति ज्ञानानि जायन्ते यदि तु ज्ञातुम् इष्यन्ते यावच्छ्रमं तद्बुद्धिर् भविष्यति यावन्ति ज्ञानानि बुध्यमानो न श्राम्यति। स्मृत्यनुसारेणापि तावद् भोत्स्यते २,१६९ इत्य् अभिप्रायं विवृणोति -- तत्प्रबन्ध इति। यावच्छ्रमं तावद् बुद्धयो ज्ञायन्ते, ततो महत्य् अपि बुद्धिप्रबन्धे ज्ञाते श्रमाद् वा विषयान्तराभिलाषेण वान्यसम्पर्काद् बुद्धिज्ञानाद् विच्छेदो भवति। यथा विषयेष्व् एव रमणीयेषु गीतादिष्व् अनुभूयमानेषु विषयान्तराभिलाषात् पूर्वविषयविच्छेदो भवतीत्य् अनुपपन्नं विषयान्तरसञ्चारो न स्याद् इति

smṛtyāpi jñānapramāyāṃ yāvacchramaṃ tadgrahaṇād viṣayāntarasañcāropapattir ity abhiprāyeṇāha -- yāvad iti. ayam abhiprāyaḥ -- na tāvanti jñānāni jāyante yadi tu jñātum iṣyante yāvacchramaṃ tadbuddhir bhaviṣyati yāvanti jñānāni budhyamāno na śrāmyati. smṛtyanusāreṇāpi tāvad bhotsyate 2,169 ity abhiprāyaṃ vivṛṇoti -- tatprabandha iti. yāvacchramaṃ tāvad buddhayo jñāyante, tato mahaty api buddhiprabandhe jñāte śramād vā viṣayāntarābhilāṣeṇa vānyasamparkād buddhijñānād vicchedo bhavati. yathā viṣayeṣv eva ramaṇīyeṣu gītādiṣv anubhūyamāneṣu viṣayāntarābhilāṣāt pūrvaviṣayavicchedo bhavatīty anupapannaṃ viṣayāntarasañcāro na syād iti

Sanskrit only: no published translation is held for this verse.

किञ् च यद् एतद् उक्तं तत्रापि च स्मृतिर् इति, तत् किं प्रथमज्ञानाभिप्रायेण, उत तत्र तत्रेति वीप्साम् अभिप्रेत्य। पूर्वस्मिन् कल्पे नानवस्था। एको हि प्रथमः प्रत्ययः। अतः का तद्ग्रहणे ऽनवस्था, तद् एतद् आह -- तत्रेति

kiñ ca yad etad uktaṃ tatrāpi ca smṛtir iti, tat kiṃ prathamajñānābhiprāyeṇa, uta tatra tatreti vīpsām abhipretya. pūrvasmin kalpe nānavasthā. eko hi prathamaḥ pratyayaḥ. ataḥ kā tadgrahaṇe 'navasthā, tad etad āha -- tatreti

Sanskrit only: no published translation is held for this verse.