Library·Sucaritamisra: Mimamsaslokavarttikakasika·33

Sucaritamisra: Mimamsaslokavarttikakasika 33

३,२२० अत्रानन्तरम् औत्पत्तिकस् तु शब्दस्यार्थेन सम्बन्धस् तस्य ज्ञानम् इति भाष्यकारेण सम्बन्धनित्यताद्वारेणाक्षेपपरिहारो ऽवतारितः, सो ऽयुक्तः, परोक्ताक्षेपहेत्वनन्तरं हि तस्यैव विरुद्धासिध्यादिदोषोद्भावनम् उचितम्। यत् तु तम् अदूषयित्वैवान्यद् उच्यते तदसङ्गतम् एवात आह -- स्वपक्ष इति। अयम् अभिप्रायः -- यावद् धि सम्बन्धौत्पत्तिकत्वेनानपेक्षालक्षणं चोदनायाः स्वतःप्रामाण्यं न प्रतिपाद्यते तावद् दूषिते ऽपि साधने न चोदनालक्षणो धर्म इति प्रतिज्ञा सिध्यति। भूयांश् चानेन क्रमेणार्थो वक्तुम् अभिप्रेतः शब्दार्थसम्बन्धनिरूपणादिः। अन्यथा क्रियमाणं तदाकाशपतितम् इवापद्येत। तच् चैतत् शब्दस्वरूपनिरूपणावसरे वक्ष्यते। न चेदम् आक्षेपेण न सङ्गच्छते, द्वेधापि प्रत्यवस्थानदर्शनात्। यथोक्तम् -- द्वेधापि प्रत्यवस्थानं परहेत्ववबाधनात् । आत्मीयसाधनोक्त्या वा तत्रात्मीयम् इहोच्यते इति । न चात्र परसाधनदूषणण् न करिष्यते तत्र हेतोर् असिद्धत्वम् इति चित्रापरिहारे वक्ष्यते। अनेन तु क्रमेण तत् कर्तव्यम् इति तावद् इत्य् उक्तम् इति। तच् च स्वपक्षसाधनं तार्किकाणां चित्तम् अनुरञ्जयितुं प्रयोगद्वारेणाह -- अमृषेति। वैदिकवचो धर्मी, स्वार्थे सत्यम् इति साध्यो धर्मः, स्वार्थे वक्त्रनपेक्षत्वात्, यत् स्वार्थे वक्तारं नापेक्षते तत् सत्यम्, यथा पदात् पदार्थगता बुद्धिः। पदं हि स्वभावाद् एव स्वार्थेन सम्बद्धं तत्प्रतिपादनाय वक्तारं नापेक्षत इति सम्बन्धपरिहारे वक्ष्यते। स्वार्थ इति तन्त्रेणोभयविशेषणतया योजनीयम्। यदि ह्य् अमृषा वैदिकं वचनम् इत्य् एतावद् उच्यते पूर्वपक्षार्थसम्यक्त्वापाताद् अनिष्टार्थताप्रसाधनप्रसङ्गः। न हि स्वर्गकामो यागं कुर्याद् इत्याद्यर्थे स्वर्गकामो यजेतेति वाक्यं सम्यग् इष्यते, षष्ठाद्यसिद्धान्तविरोधात्। यागेन स्वर्गं कुर्याद् इति हि तत्र स्थास्यति। वक्त्रनपेक्षत्वाद् इति चाविशिष्टो हेतुर् उपात्तो ऽसिद्ध एव स्यात्। अस्ति हि वैदिकवाक्यानाम् अपि स्वरूपाभिव्यक्तये ३,२२१ वक्त्रपेक्षा, स्वार्थे तु प्रत्याययितव्ये न वक्तारम् अपेक्षन्ते, अपौरुषेयत्वात्। शब्दार्थसम्बन्धनित्यत्वाच् च। पौरुषेयं प्रमाणान्तरप्रमितगोचरम् आप्तवचनम् अपि वक्तुः प्रमाणम् अपेक्षते। यथोक्तम्, आप्तोक्तिषु नरापेक्षेति

3,220 atrānantaram autpattikas tu śabdasyārthena sambandhas tasya jñānam iti bhāṣyakāreṇa sambandhanityatādvāreṇākṣepaparihāro 'vatāritaḥ, so 'yuktaḥ, paroktākṣepahetvanantaraṃ hi tasyaiva viruddhāsidhyādidoṣodbhāvanam ucitam. yat tu tam adūṣayitvaivānyad ucyate tadasaṅgatam evāta āha -- svapakṣa iti. ayam abhiprāyaḥ -- yāvad dhi sambandhautpattikatvenānapekṣālakṣaṇaṃ codanāyāḥ svataḥprāmāṇyaṃ na pratipādyate tāvad dūṣite 'pi sādhane na codanālakṣaṇo dharma iti pratijñā sidhyati. bhūyāṃś cānena krameṇārtho vaktum abhipretaḥ śabdārthasambandhanirūpaṇādiḥ. anyathā kriyamāṇaṃ tadākāśapatitam ivāpadyeta. tac caitat śabdasvarūpanirūpaṇāvasare vakṣyate. na cedam ākṣepeṇa na saṅgacchate, dvedhāpi pratyavasthānadarśanāt. yathoktam -- dvedhāpi pratyavasthānaṃ parahetvavabādhanāt | ātmīyasādhanoktyā vā tatrātmīyam ihocyate iti | na cātra parasādhanadūṣaṇaṇ na kariṣyate tatra hetor asiddhatvam iti citrāparihāre vakṣyate. anena tu krameṇa tat kartavyam iti tāvad ity uktam iti. tac ca svapakṣasādhanaṃ tārkikāṇāṃ cittam anurañjayituṃ prayogadvāreṇāha -- amṛṣeti. vaidikavaco dharmī, svārthe satyam iti sādhyo dharmaḥ, svārthe vaktranapekṣatvāt, yat svārthe vaktāraṃ nāpekṣate tat satyam, yathā padāt padārthagatā buddhiḥ. padaṃ hi svabhāvād eva svārthena sambaddhaṃ tatpratipādanāya vaktāraṃ nāpekṣata iti sambandhaparihāre vakṣyate. svārtha iti tantreṇobhayaviśeṣaṇatayā yojanīyam. yadi hy amṛṣā vaidikaṃ vacanam ity etāvad ucyate pūrvapakṣārthasamyaktvāpātād aniṣṭārthatāprasādhanaprasaṅgaḥ. na hi svargakāmo yāgaṃ kuryād ityādyarthe svargakāmo yajeteti vākyaṃ samyag iṣyate, ṣaṣṭhādyasiddhāntavirodhāt. yāgena svargaṃ kuryād iti hi tatra sthāsyati. vaktranapekṣatvād iti cāviśiṣṭo hetur upātto 'siddha eva syāt. asti hi vaidikavākyānām api svarūpābhivyaktaye 3,221 vaktrapekṣā, svārthe tu pratyāyayitavye na vaktāram apekṣante, apauruṣeyatvāt. śabdārthasambandhanityatvāc ca. pauruṣeyaṃ pramāṇāntarapramitagocaram āptavacanam api vaktuḥ pramāṇam apekṣate. yathoktam, āptoktiṣu narāpekṣeti

Sanskrit only: no published translation is held for this verse.

प्रयोगान्तरम् आह -- तत्कृत इत्य् एवान्तेन। वैदिकवाक्यकृतः प्रत्ययस् सम्यग् इति साध्यम्, नित्यवाक्योद्भवत्वात्, यथा तद्वाक्यस्वरूपविषया बुद्धिः। सापि हि वाक्याद् उद्भवति, निर्विषयबुध्यनुत्पत्तेः। वेदवाक्यनित्यता च वेदाधिकरणे स्थापयिष्यत इति। अत्रैव साध्ये पूर्वोक्ताः -- नान्यत्वात् इति भाष्यव्याख्यानावसर उक्ताः -- दोषवर्जितैः कारणैः जन्यमानत्वात्, अनाप्ताप्रणीतोक्तिजन्यत्वात्, देशादिभेदे ऽपि बाधवर्जनात् इति हेतवो दर्शयितव्या इत्य् आह -- अत्रेति

prayogāntaram āha -- tatkṛta ity evāntena. vaidikavākyakṛtaḥ pratyayas samyag iti sādhyam, nityavākyodbhavatvāt, yathā tadvākyasvarūpaviṣayā buddhiḥ. sāpi hi vākyād udbhavati, nirviṣayabudhyanutpatteḥ. vedavākyanityatā ca vedādhikaraṇe sthāpayiṣyata iti. atraiva sādhye pūrvoktāḥ -- nānyatvāt iti bhāṣyavyākhyānāvasara uktāḥ -- doṣavarjitaiḥ kāraṇaiḥ janyamānatvāt, anāptāpraṇītoktijanyatvāt, deśādibhede 'pi bādhavarjanāt iti hetavo darśayitavyā ity āha -- atreti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यम् -- स्याद् एतत्, नैव शब्दस्यार्थेन सम्बन्धः, कुतो ऽस्य पौरुषेयता अपौरुषेयता वा इति। तस्याभिप्रायम् आह -- नित्यान् इत्य् अब्रवीदन्तेन। अस्यार्थः -- शब्दार्थसम्बन्धानां नित्यत्वम् आश्रित्यानपेक्षत्वाद् इति सूत्रकारेण यो हेतुः स्वतः प्रामाण्यसिध्यर्थम् उक्तः, तेन चोदनानाम् अप्रामाण्ये निराकृते ऽधुना सम्बन्धोद्भवत्वाभावेन परो बौद्धादिर् मिथ्यात्वम् उक्तवान्। एवं च तदा वार्तिककारेण वृत्तिकारमतेनात्रैव स्वतः प्रामाण्यं व्युत्पाद्यम् इति दर्शितम्। तथा च सूत्रकारेण चोच्यत इति पुनरुक्तिपरिहारे परतः प्रामाण्योक्तैर् एवाक्षेपहेतुभिः पूर्वपक्षो ऽभिहितः। इहापि च भाष्यकारेण ब्रूत इत्य् उच्यते -- अवबोधयति बुध्यमानस्य निमित्तं भवति, इत्यादि चोदनासूत्रोक्तम् एव स्वतः प्रामाण्यकारणम् उक्तम् इति

atra bhāṣyam -- syād etat, naiva śabdasyārthena sambandhaḥ, kuto 'sya pauruṣeyatā apauruṣeyatā vā iti. tasyābhiprāyam āha -- nityān ity abravīdantena. asyārthaḥ -- śabdārthasambandhānāṃ nityatvam āśrityānapekṣatvād iti sūtrakāreṇa yo hetuḥ svataḥ prāmāṇyasidhyartham uktaḥ, tena codanānām aprāmāṇye nirākṛte 'dhunā sambandhodbhavatvābhāvena paro bauddhādir mithyātvam uktavān. evaṃ ca tadā vārtikakāreṇa vṛttikāramatenātraiva svataḥ prāmāṇyaṃ vyutpādyam iti darśitam. tathā ca sūtrakāreṇa cocyata iti punaruktiparihāre parataḥ prāmāṇyoktair evākṣepahetubhiḥ pūrvapakṣo 'bhihitaḥ. ihāpi ca bhāṣyakāreṇa brūta ity ucyate -- avabodhayati budhyamānasya nimittaṃ bhavati, ityādi codanāsūtroktam eva svataḥ prāmāṇyakāraṇam uktam iti

Sanskrit only: no published translation is held for this verse.

३,२२२ एतद् एव विवृणोति -- सम्बन्ध इति वक्ष्यते ऽन्तेन। चोदनामिध्यार्थनिरासार्थं हि सम्बन्धसद्भावो नित्यता च हेतुर् उक्तः। तच् च द्वयम् अपि परैर् नेष्यते। तत्र सम्बन्धाभावस् तावद् अनेनैव भाष्येणोक्तः। कृतकत्वं तु यदि प्रथमम् अश्रुतो न प्रत्याययति, कृतकस् तर्हि इत्य् अनेन वक्ष्यते। तद् अत्र सम्बन्धाभावेनानपेक्षत्वाद् इति हेतोर् असिद्धिर् उक्ता। न चासति सम्बन्धे परोक्तार्थप्रतीतिर् उत्पद्यत इति दर्शितम्। प्रतिबन्धबले ह्य् अर्थान्तरदर्शिनो ऽप्य् अर्थान्तरे ज्ञानम् उत्पद्यते। अनादृतप्रतिबन्धस् तु यत् किञ्चिद् विद्वान् स सर्वं जानीयाद् इत्य् अतिप्रसज्यत इति ॥ ४ -- ५ ॥ अत्र भाष्यकारेण कार्यकारणभावादयस् सम्बन्धाश् शब्दस्यानुपपन्ना इत्य् उक्त्वा संश्लेषसम्बन्धभाव एव दर्शितः, तद् एतद्वार्तिककारो दर्शयति -- असम्भवेनेति। निमित्तनैमित्तिकाश्रयाश्रयिभावादयस् सम्बन्धाश् शब्दार्थयोर् अत्यन्तासम्भाविता एव, कार्यकारणभावस् तु बौद्धगन्धिवैयाकरणैर् अभ्युपगत एव। ते ऽप्य् आहुः -- अर्थाश् शब्दाश् च दृश्यन्ते प्रत्यक्षा यद्य् अपि स्फुटम् । अभिधानाभिधेयौ तु ज्ञानाकारौ तथापि नः ॥ इति। एवं हि मन्यन्ते -- न तावद् वर्णाश् शब्दः, प्रत्येकम् अवाचकत्वात्। अयुगपद्वर्तिनां चावयविसमुदायारम्भानुपपत्तेः। अत एव गोशब्दत्वादिजात्यसम्भवात् भूतादिविशेषाणां च प्रतिप्रयोगम् अन्यत्वेनावाचकत्वाद् वर्णबुद्धिस्मृतिसंस्काराणां चाक्षरवत् प्रत्याख्यानात् पूर्ववर्णजनितसंस्कारसहितान्त्यवर्णस्यापि वर्णत्वेनापूर्ववर्णवदवाचकत्वात् पूर्वपूर्वनिखिलवर्णपदोपसहारक्रमेण चरमस्य कस्यचित् स्फोटात्मनो ऽनवग्रहाद् युगपदवस्थितानेकवर्णाकारज्ञानात्मैव शब्दः। अर्थो ऽपि जातिव्यक्त्यवयवावयविगुणगुणिव्यतिरेकाव्यतिरेकादिविकल्पदूरीकृतनिरूपणो न बाह्यस् सम्भवतीति ज्ञानात्मकशब्दवेदनानन्तरोत्पद्यमानबाह्यजात्यादिनिर्भासप्रत्ययमात्रात्मैव। ३,२२३ स चायम् एवम्भूतो ऽर्थश् शब्देन जन्यत एवेति कार्यकारणभावम् एव शब्दार्थयोस् सम्बन्धम् आतिष्ठन्ते। तच् चेदम् अतिदूरम् अपभ्रष्टम्, एवं च सत्य् अविदितस्वरूपशक्तीनाम् अप्य् अर्थसंविदुपजायेत। दृष्टा हि खलु मृत्सलिलप्रच्छन्ना अपि व्रीहयो ऽङ्कुरादिकार्यम् आरभमाणा अविदितस्वरूपशक्तयो ऽपीति सूक्तम् -- असम्भवेन शेषाणाम् इति। कथं तु संश्लेषः परिशिष्यत इति, प्रतीतेर् अभ्युपगमाच् च। गौर् अयम् इति हि सामानाधिकरण्येन शब्दोपश्लिष्टम् अर्थम् अवयन्तो लौकिका दृश्यन्ते। अभ्युपगतश् च कैश्चिच् छब्दार्थयोस् संश्लेष एव सम्बन्धः। प्रपञ्चितश् चासाव् अध्यासवाद इति। लौकिकाश् च प्रायेण संश्लेषम् एव संबन्धं मन्यन्ते इति स एव सम्बन्धः प्रसक्तो निराकार्य इत्य् आह -- तस्मिन्न् इति प्राहान्तेन। निषेधम् एव प्रयोगेण दर्शयति -- न शब्द इति। संश्लेषो हि यस्य येन भवति स तद्देश एव दृश्यते रञ्जुर् इव घटे, तदनन्तरदेशे वा प्रदेशिनीव मध्यमायाः। न च शब्दार्थयोर् अन्यतरदेशे वान्यतरो दृश्यते। अतो हिमवद्विन्ध्ययोर् इव नानयोस् सम्बन्ध इति ॥ ६ -- ७ ॥ अर्थो वा पक्षीकार्य इत्य् आह -- एवम् इति। द्वयं वा परस्परम् असम्बद्धम् इतरेतरदेशे तदनन्तरदेशे वादृष्टेः साध्यम् इत्य् आह -- द्वयम् इति। अत्र भाष्यकारेण स्याच् चेदर्थेन सम्बन्धः क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, इत्य् उक्तम्। तस्याभिप्रायम् आह -- क्षुरेत्य् उक्तमन्तेन। अस्यार्थः -- अत्र भाष्यकारेण शब्दार्थयोस् सम्बन्धसिद्ध्यर्थं तद्देशानन्तरादृष्टेर् इति हेतुर् अन्तर्णीतः, तं च गौर् अयम् इति सामानाधिकरण्यप्रतीतिभ्रमाद् यो नामासिद्धं मन्यते, स एवं प्रतिबोध्यते -- यदि शब्दार्थयोर् ३,२२४ उपश्लेषलक्षणस् सम्बन्धो भवेत्, अर्थो ऽपि शब्ददेश एव स्यात्, मुखं च तस्य देश इति क्षुरमोदकशब्दोच्चारणे मुखस्य पाटनपूरणे स्याताम्, न च ते स्तः, तस्मान् मोदकाद्यर्थक्रियानुपलम्भाच् छब्ददेशे तद्देशानन्तरादृष्टेर् इति सिद्धो हेतुः। सामानाधिकरण्यबुद्धिस् तु शब्दार्थयोर् नास्त्य् एव। न हि नीलिम्नेवानुरक्तम् उत्पलं शब्दानुरक्तम् अर्थम् उपलभामहे। गादिसास्नादिमद्रूपा हि तयोर् बुद्धिर् उदेति। अत्र सिद्धान्तभाष्यं यो ऽत्र व्यपदेश्यस् सम्बन्धः तद् एतन् (तम् एकं) न व्यपदिशति भवान् इत्यादि। तस्याभिप्रायम् आह -- अथेति हीनतान्तेन। अत्रायम् अभिप्रायः -- प्रत्याय्यप्रत्यायकशक्तिरूपो हि नश् शब्दार्थयोस् सम्बन्धो ऽभिप्रेतः, तद् यदि संश्लेषलक्षणसम्बन्धाभावस् साध्यते, तदा सिद्धसाध्यतादोषः। सम्बन्धाभावमात्रे तु यौनादिसम्बन्धैर् अनैकान्तिकत्वम्। हिमवद्विन्ध्ययोर् अपि चैकभूम्यादिसम्बन्धात् साध्यहीनो दृष्टान्त इति ॥ ८ -- १० ॥ यदि तु वाच्यवाचकसम्बन्धम् एवाभिप्रेत्य न शब्दो ऽर्थेन सङ्गत इति साध्यते ततो लौकिकविरोध इत्य् आह -- वाच्येति। दूषणान्तरम् आह -- विरोध इति। अत्र कारणम् आह -- न हीति परान्तेन। अयम् अभिप्रायः -- चतुर्विधो हि पुरुषः, प्रतिपन्नो ऽप्रतिपन्नस् सन्दिग्धो विपर्यस्तश् चेति। तत्र प्रतिपन्नः प्रतिपादयिता, इतरे सापेक्षाः प्रतिपाद्याः, तत्प्रतिपादनार्था च प्रतिज्ञा, तद् य एव तेषाम् अन्यतमः परः प्रतिपादयितुम् अभिप्रेतो भवति स एव वाच्यवाचकसम्बन्धवर्जितैः प्रतिज्ञार्थगोचरैः पदैः प्रतिपादयितुम् अशक्यः, अतः प्रतिज्ञां प्रयुञ्जानैर् आश्रितश् शब्दार्थयोर् वाच्यवाचकलक्षणसम्बन्ध इति तन्निराकरणे स्ववाग्विरोध इति। स चायम् अभिधया स्ववाग्विरोधः। पञ्चधा हि तद्विरोधः। उच्चारणाभिधाधर्मधर्म्युभयोक्तिभिर् इति

3,222 etad eva vivṛṇoti -- sambandha iti vakṣyate 'ntena. codanāmidhyārthanirāsārthaṃ hi sambandhasadbhāvo nityatā ca hetur uktaḥ. tac ca dvayam api parair neṣyate. tatra sambandhābhāvas tāvad anenaiva bhāṣyeṇoktaḥ. kṛtakatvaṃ tu yadi prathamam aśruto na pratyāyayati, kṛtakas tarhi ity anena vakṣyate. tad atra sambandhābhāvenānapekṣatvād iti hetor asiddhir uktā. na cāsati sambandhe paroktārthapratītir utpadyata iti darśitam. pratibandhabale hy arthāntaradarśino 'py arthāntare jñānam utpadyate. anādṛtapratibandhas tu yat kiñcid vidvān sa sarvaṃ jānīyād ity atiprasajyata iti || 4 -- 5 || atra bhāṣyakāreṇa kāryakāraṇabhāvādayas sambandhāś śabdasyānupapannā ity uktvā saṃśleṣasambandhabhāva eva darśitaḥ, tad etadvārtikakāro darśayati -- asambhaveneti. nimittanaimittikāśrayāśrayibhāvādayas sambandhāś śabdārthayor atyantāsambhāvitā eva, kāryakāraṇabhāvas tu bauddhagandhivaiyākaraṇair abhyupagata eva. te 'py āhuḥ -- arthāś śabdāś ca dṛśyante pratyakṣā yady api sphuṭam | abhidhānābhidheyau tu jñānākārau tathāpi naḥ || iti. evaṃ hi manyante -- na tāvad varṇāś śabdaḥ, pratyekam avācakatvāt. ayugapadvartināṃ cāvayavisamudāyārambhānupapatteḥ. ata eva gośabdatvādijātyasambhavāt bhūtādiviśeṣāṇāṃ ca pratiprayogam anyatvenāvācakatvād varṇabuddhismṛtisaṃskārāṇāṃ cākṣaravat pratyākhyānāt pūrvavarṇajanitasaṃskārasahitāntyavarṇasyāpi varṇatvenāpūrvavarṇavadavācakatvāt pūrvapūrvanikhilavarṇapadopasahārakrameṇa caramasya kasyacit sphoṭātmano 'navagrahād yugapadavasthitānekavarṇākārajñānātmaiva śabdaḥ. artho 'pi jātivyaktyavayavāvayaviguṇaguṇivyatirekāvyatirekādivikalpadūrīkṛtanirūpaṇo na bāhyas sambhavatīti jñānātmakaśabdavedanānantarotpadyamānabāhyajātyādinirbhāsapratyayamātrātmaiva. 3,223 sa cāyam evambhūto 'rthaś śabdena janyata eveti kāryakāraṇabhāvam eva śabdārthayos sambandham ātiṣṭhante. tac cedam atidūram apabhraṣṭam, evaṃ ca saty aviditasvarūpaśaktīnām apy arthasaṃvidupajāyeta. dṛṣṭā hi khalu mṛtsalilapracchannā api vrīhayo 'ṅkurādikāryam ārabhamāṇā aviditasvarūpaśaktayo 'pīti sūktam -- asambhavena śeṣāṇām iti. kathaṃ tu saṃśleṣaḥ pariśiṣyata iti, pratīter abhyupagamāc ca. gaur ayam iti hi sāmānādhikaraṇyena śabdopaśliṣṭam artham avayanto laukikā dṛśyante. abhyupagataś ca kaiścic chabdārthayos saṃśleṣa eva sambandhaḥ. prapañcitaś cāsāv adhyāsavāda iti. laukikāś ca prāyeṇa saṃśleṣam eva saṃbandhaṃ manyante iti sa eva sambandhaḥ prasakto nirākārya ity āha -- tasminn iti prāhāntena. niṣedham eva prayogeṇa darśayati -- na śabda iti. saṃśleṣo hi yasya yena bhavati sa taddeśa eva dṛśyate rañjur iva ghaṭe, tadanantaradeśe vā pradeśinīva madhyamāyāḥ. na ca śabdārthayor anyataradeśe vānyataro dṛśyate. ato himavadvindhyayor iva nānayos sambandha iti || 6 -- 7 || artho vā pakṣīkārya ity āha -- evam iti. dvayaṃ vā parasparam asambaddham itaretaradeśe tadanantaradeśe vādṛṣṭeḥ sādhyam ity āha -- dvayam iti. atra bhāṣyakāreṇa syāc cedarthena sambandhaḥ kṣuramodakaśabdoccāraṇe mukhasya pāṭanapūraṇe syātām, ity uktam. tasyābhiprāyam āha -- kṣurety uktamantena. asyārthaḥ -- atra bhāṣyakāreṇa śabdārthayos sambandhasiddhyarthaṃ taddeśānantarādṛṣṭer iti hetur antarṇītaḥ, taṃ ca gaur ayam iti sāmānādhikaraṇyapratītibhramād yo nāmāsiddhaṃ manyate, sa evaṃ pratibodhyate -- yadi śabdārthayor 3,224 upaśleṣalakṣaṇas sambandho bhavet, artho 'pi śabdadeśa eva syāt, mukhaṃ ca tasya deśa iti kṣuramodakaśabdoccāraṇe mukhasya pāṭanapūraṇe syātām, na ca te staḥ, tasmān modakādyarthakriyānupalambhāc chabdadeśe taddeśānantarādṛṣṭer iti siddho hetuḥ. sāmānādhikaraṇyabuddhis tu śabdārthayor nāsty eva. na hi nīlimnevānuraktam utpalaṃ śabdānuraktam artham upalabhāmahe. gādisāsnādimadrūpā hi tayor buddhir udeti. atra siddhāntabhāṣyaṃ yo 'tra vyapadeśyas sambandhaḥ tad etan (tam ekaṃ) na vyapadiśati bhavān ityādi. tasyābhiprāyam āha -- atheti hīnatāntena. atrāyam abhiprāyaḥ -- pratyāyyapratyāyakaśaktirūpo hi naś śabdārthayos sambandho 'bhipretaḥ, tad yadi saṃśleṣalakṣaṇasambandhābhāvas sādhyate, tadā siddhasādhyatādoṣaḥ. sambandhābhāvamātre tu yaunādisambandhair anaikāntikatvam. himavadvindhyayor api caikabhūmyādisambandhāt sādhyahīno dṛṣṭānta iti || 8 -- 10 || yadi tu vācyavācakasambandham evābhipretya na śabdo 'rthena saṅgata iti sādhyate tato laukikavirodha ity āha -- vācyeti. dūṣaṇāntaram āha -- virodha iti. atra kāraṇam āha -- na hīti parāntena. ayam abhiprāyaḥ -- caturvidho hi puruṣaḥ, pratipanno 'pratipannas sandigdho viparyastaś ceti. tatra pratipannaḥ pratipādayitā, itare sāpekṣāḥ pratipādyāḥ, tatpratipādanārthā ca pratijñā, tad ya eva teṣām anyatamaḥ paraḥ pratipādayitum abhipreto bhavati sa eva vācyavācakasambandhavarjitaiḥ pratijñārthagocaraiḥ padaiḥ pratipādayitum aśakyaḥ, ataḥ pratijñāṃ prayuñjānair āśritaś śabdārthayor vācyavācakalakṣaṇasambandha iti tannirākaraṇe svavāgvirodha iti. sa cāyam abhidhayā svavāgvirodhaḥ. pañcadhā hi tadvirodhaḥ. uccāraṇābhidhādharmadharmyubhayoktibhir iti

Sanskrit only: no published translation is held for this verse.

३,२२५ वाच्यवाचकसम्बन्धस्वरूपम् इदानीम् अभिद्योतयति -- अभिधानेति। अस्यार्थः -- एकस्याम् अभिधानक्रियायां शब्दः करणं कर्ता वा, विवक्षातः कारकप्रवृत्तेः। अर्थस् तु कर्मैव। अतो (?यद्।अ)नयोः कर्मकरणत्वं (कर्म)कर्तृत्वं वा। निरूपितः -- सम्बन्ध इति वक्ष्यमाणेन सम्बन्ध इति। यद् वा -- एकस्यां गवाद्यर्थप्रतिपत्तौ साध्यमानायाम् एकेन वक्त्रोपादीयमानावरुणैकहायनीवद्विवक्षितसाहित्यौ शब्दार्थौ यन्नियम्येते सो ऽनयोः सम्बन्ध इत्य् आह -- प्रतिपत्ताव् इति। उपादानाद् इत्य् उपादीयमानतया विशेषणविवक्षां दर्शयति। उपादेयस्य हि विशेषणं विवक्षितं भवति पशोर् इवैकत्वं - पशुना यजेतेति। उद्देश्यविशेषणं त्व् अविवक्षितं भवति, यथा ग्रहविशेषणम् एकत्वम्, उद्देश्या हि ग्रहाः, तेषु सम्मार्जनविधानात्। इह चार्थप्रतिपत्ताव् एकस्याम् उपादेयौ शब्दार्थौ, पशुर् इव यागे। अतो विवक्षितम् अनयोः साहित्यं विशेषणम् इत्य् अरुणैकहायन्योर् इवानयोर् नियमः सम्बन्ध इति। (?न त्व् ए।न् वे)वम् अरुणैकहायन्योः श्रूयमाणयोः साहित्यविवक्षा युक्ता। समुदाये हि तत्र वाक्यं समाप्यते। (शब्दार्थौ तु) नैव प्रतीतिक्रिया(यां विशेष)णतया श्रुतौ, कथम् अनयोः साहित्यविवक्षा। न श्रूयमाणता विशेषणविवक्षाहेतुः। अपि तु अर्थसंव्यवहारो ऽपि हि। पाकादौ यदौदनादिस्थाल्यादि ॥। (क्रिया)व्यवहारदर्शनात् अनभिहितम् अप्य् अर्थं जानाति तदा स्थाल्यादीनां विवक्षितं साहित्यं मन्यते, तथा मन्वानः स्वयम् अपि पक्तुकामस् तत् सर्वम् आहरति। एवम् इहापि बालः प्रयोज्यवृद्धस्य विशिष्टार्थव्यवहारदर्शनेन तद्विषयां बुद्धिम् अनुमाय शब्दानन्तरभावितया शब्दकारणतां तावदवधारयति। वक्तुश् चास्यां प्रयोज्यवृद्धप्रतिपत्तौ दर्शनपारार्थ्यात् प्रधानभूताया(म् उपा)दीयमानयोः शब्दार्थयोः साहित्यं विवक्षितम् इति। एवं च विदित्वा स्वयम् अपि परार्थप्रयोगे सहितौ शब्दार्थौ हृदयम् आवेशिताव् उपादाय शब्दं चोच्चार्य परप्रतिपत्तिं भावयतीति सूक्तं साहित्यविवक्षा वर्णसाहित्यविवक्षावद् इति ॥ १२ -- १३ ॥ ३,२२६ नन्व् एवं वदता शब्दार्थयोः क्रियासम्बन्ध एव दर्शितः, न परस्परसम्बन्धः। तथा हि -- यत् तावद् उक्तम् अभिधानक्रियायां हि इति, अनेनाभिधानक्रियासम्बन्ध एव कर्मकरणादिरूपेणोभयोर् उपवर्णितः, न परस्परसम्बन्धः। प्रतिपत्ताव् उपादानाद् इत्य् अपि प्रतिपाद्यप्रतिपादकतया प्रतिपत्तिक्रियासम्बन्धमात्र एव दर्शितः, न परस्परम्, गुणप्रधानभावम् अन्तरेण सम्बन्धायोगात्। वक्ष्यति हि -- गुणानां च परार्थत्वाद् असम्बन्धः समत्वात् इति। स्याद् एतत्। क्रियाकारकसम्बन्धपूर्वकत्वात् सर्वसम्बन्धानां क्रियाकारकसम्बन्ध एव दर्शित इति। अस्तु तावत्, तदुत्तरकालभावी तु को ऽनयोः सम्बन्ध इति वाच्यम् एव। तद् एतत् सर्वम् अनुभाष्य परिहरति -- तत्रेति तयोरन्तेन। अस्यार्थः -- यद्य् अपि कारकाणां प्रधानार्थत्वान् न परस्परसम्बन्धः, तथापि प्रतिपत्त्यभिधानयोर् या काचित् क्रिया गृह्यते, तस्यां च क्रियाकारकसम्बन्धोत्तरकालभावी परस्परोपकार्योपकारकलक्षणः शब्दार्थयोर् अस्ति सम्बन्धः ॥ तत् पुनर् इदं पूर्वापरविरुद्धं प्रदेशान्तरविरुद्धं च। तथा हि -- अत्र तावद् एकस्यां क्रियायाम् उपकार्योपकारकत्वं शब्दार्थयोः सम्बन्ध इत्य् उक्तम्, प्रतिपत्ताव् उपादानात् इति क्रियानुमानाङ्गत्वम् एव परस्परनियमात्मको दर्शितः सम्बन्धः। अभिधानक्रियायां हि इति च कर्मत्वकरणत्वे सम्बन्ध इत्य् उक्तम्। प्रदेशान्तरे शक्तिर् एव सम्बन्ध इति वक्ष्यति। क्वचिच् च शब्दशक्तिनियमम् एव सम्बन्धम् आह -- वाच्यवाचकशक्त्योश् च नियमः फललक्षणः । इति ब्रुवानः। अन्यत्राप्य् उक्तम् -- ३,२२७ एकाभिधानिमित्तत्वं कर्मकर्तृत्वयोश् च यत् । यो वा करणकर्मत्वनियमो ऽभिधयैकया ॥ स नो ऽर्थशब्दसम्बन्धः इति। अतो विवेचनीयम् इदम् -- को ऽत्र सम्बन्धः शब्दार्थयोर् वार्त्तिककारस्याभिमत इति। अत्रोच्यते -- यथैकेन क्रयकर्मणा परिगृहीतयोर् द्रव्यगुणयोर् इतरेतराकांक्षापरिपूरणेन परस्परोपकार्योपकारकलक्षणः सम्बन्धः। न ह्य् अनाश्रितः क्रयक्रियाम् अभिनिर्वर्तयति। न द्रव्यं गुणविशेषानवच्छिन्नम् उत्सहते क्रयक्रियां निर्वर्तयितुम्। न च गुणेन स्वमहिम्ना आश्रयभूतद्रव्यमात्रम् उपादीयमानम् अपि क्रये गृह्यते, (स्वकीयगो) द्रव्यावरोधात्। द्रव्ये(गुणमात्रा)वच्छेदात् तद् गुणमात्रम् उपादीयमानम् अपि क्रयक्रिया न प्रतीच्छति स्वकीयारुणिम् अगुणावरोधात्। सो ऽयम् अर्थो नियमः सम्पद्यते। तद् एवम् इहाप्य् एकार्थप्रतिपत्त्यभिधानक्रियासिद्ध्यर्थम् उपादीयमानयोर् विवक्षितसाहित्ययोः शब्दार्थयोः क्रियाकारकसम्बन्धोत्तरकालभावी यो यम् उपकार्योपकारकभावः, स एव सम्बन्धः। कः पुनर् अनयोः परस्परोपकारः। श्रूयताम् -- अर्थो हि न प्रतिपादकम् अन्तरेण प्रतिपाद्यो भवति, शब्दो न प्रतिपाद्यम् अन्तरेण प्रतिपादकः। अतः प्रतिपाद्यप्रतिपादकतयावतिष्ठमानाव् अन्योन्यस्योपकार्योपकारकौ भवतः। तच् चेदं रूपम् अनयोर् नियतम् इत्य् अत्यन्तसन्निकर्षमात्रेण नियमे सम्बन्धाभिधानम्, न तु नियम एव सम्बन्धः। शक्तिसम्बन्धवादो ऽपि चात एव। वाच्यवाचकशक्त्योर् एव हि सत्योर् उपकार्योपकारकभावो भवति। न तु शक्तिर् एव सम्बन्धः। तद् अत्र प्रत्यासत्तेर् अभेदोपचारेण शक्तिः सम्बन्धः, नियमः सम्बन्धः, कर्तृत्वं करणत्वं वा सम्बन्ध इत्य् एवमादयः समुल्लापाः। वस्तुतस् तूपकार्योपकारकत्वम् एव सम्बन्धः ॥ कथं पुनस् तद्रूपम् अनयोर् नियतम् इत्य् उच्यते। न ह्य् अनुच्चरिते शब्दे परस्परोपकार्योपकारकभावः शब्दार्थयोर् अस्ति। न च तदानीं तौ न स्तः, नित्यत्वात्। तस्माद् असद् एतत्। तन् न। शक्त्यात्मना विद्यमानत्वात् ३,२२८ अनुच्चरिते ऽपि हि शब्दे ऽस्ति प्रतिपादकशक्तिः, अर्थे च प्रतिपाद्यशक्तिः, अत एव सम्बन्धो नित्य इत्य् उच्यते। नन्व् एवम् अपि करहस्तादिभिर् अनेकैः शब्दैर् एकत्रार्थे प्रतिपाद्ये अनेकार्थवचने चैकस्मिन् गवादिशब्दे कथम् अव्यभिचारः शक्यते ऽवगन्तुम्। अतः प्रकरणादीनाम् अपि पदार्थावधारणापोयत्वाद् वृद्धव्यवहारे हि बालेन केवलपदाप्रयोगादावापोद्धारभेदेनैतद् अवधारितम् -- यदा यदर्थविवक्षया शब्दः प्रयुज्यते स तस्यार्थ इति। विवक्षा चार्थप्रकरणादिवशोन्नेया। गामानय दोग्धुम् इत्य् उक्ते अर्थाद् एतद् अवगम्यते सास्नादिमत्यस्य विवक्षेति। योत्स्यामीत्य् उक्ते अर्थादि(?मु)षौ प्रतीतिर् उदेति। तद् एवम् अर्थप्रकरणादिभेदभिन्नम् अन्ययान्यया च शक्त्योपहितम् अन्यद् अन्यच् च पदम् अन्यस्यान्यस्य वाचकम् इति न पदव्यभिचारः। अर्थो ऽपि चोद्भूततत्पदाभिधानयोग्यावस्थाभेदभिन्नो हस्तादिर् अन्योन्यश् च करादिपदानां वाच्य इति न पदं व्यभिचरति। अपि चैकस्यां क्रियायाम् अयं नियम इत्य् उक्तः। न चैकस्यां प्रतिपत्ताव् अभिधाने वोपादीयमानयोः शब्दार्थयोर् अन्योन्यव्यभिचारो ऽस्ति। तद् इदम् उक्तं हि नियम्येते यद् एकस्याम् इति ॥ १४ -- १५ ॥ नन्व् एवम् एकक्रियानिमित्तको नियमः शब्दार्थयोः सम्बन्ध इत्य् उच्यमाने ऽनुमानाङ्गम् अविनाभाव एवाश्रितो भवेत्, अतस् तद्बलेन धूमादिवाग्निज्ञानं शब्दाद् अर्थज्ञानम् उपजायमानम् अनुमानं स्याद् अत आह -- न चापीति। इदं च शाब्दे प्रसाधितम् इत्य् आह -- साधितम् इति। ननु यद्य् अविनाभावो नोपयुज्यते, कस् तर्ह्य् उपयुज्यते। उक्तं भाष्यकारेण -- संज्ञासंज्ञिसम्बन्धः इति। ननु चायम् अपि सम्बन्धो ऽनुपयोग्य् एव। तद् एतद् आशङ्कते -- संज्ञेति। तदङ्गं गमकत्वाङ्गम् इत्य् अर्थः

3,225 vācyavācakasambandhasvarūpam idānīm abhidyotayati -- abhidhāneti. asyārthaḥ -- ekasyām abhidhānakriyāyāṃ śabdaḥ karaṇaṃ kartā vā, vivakṣātaḥ kārakapravṛtteḥ. arthas tu karmaiva. ato (?yad/a)nayoḥ karmakaraṇatvaṃ (karma)kartṛtvaṃ vā. nirūpitaḥ -- sambandha iti vakṣyamāṇena sambandha iti. yad vā -- ekasyāṃ gavādyarthapratipattau sādhyamānāyām ekena vaktropādīyamānāvaruṇaikahāyanīvadvivakṣitasāhityau śabdārthau yanniyamyete so 'nayoḥ sambandha ity āha -- pratipattāv iti. upādānād ity upādīyamānatayā viśeṣaṇavivakṣāṃ darśayati. upādeyasya hi viśeṣaṇaṃ vivakṣitaṃ bhavati paśor ivaikatvaṃ - paśunā yajeteti. uddeśyaviśeṣaṇaṃ tv avivakṣitaṃ bhavati, yathā grahaviśeṣaṇam ekatvam, uddeśyā hi grahāḥ, teṣu sammārjanavidhānāt. iha cārthapratipattāv ekasyām upādeyau śabdārthau, paśur iva yāge. ato vivakṣitam anayoḥ sāhityaṃ viśeṣaṇam ity aruṇaikahāyanyor ivānayor niyamaḥ sambandha iti. (?na tv e/n ve)vam aruṇaikahāyanyoḥ śrūyamāṇayoḥ sāhityavivakṣā yuktā. samudāye hi tatra vākyaṃ samāpyate. (śabdārthau tu) naiva pratītikriyā(yāṃ viśeṣa)ṇatayā śrutau, katham anayoḥ sāhityavivakṣā. na śrūyamāṇatā viśeṣaṇavivakṣāhetuḥ. api tu arthasaṃvyavahāro 'pi hi. pākādau yadaudanādisthālyādi ... (kriyā)vyavahāradarśanāt anabhihitam apy arthaṃ jānāti tadā sthālyādīnāṃ vivakṣitaṃ sāhityaṃ manyate, tathā manvānaḥ svayam api paktukāmas tat sarvam āharati. evam ihāpi bālaḥ prayojyavṛddhasya viśiṣṭārthavyavahāradarśanena tadviṣayāṃ buddhim anumāya śabdānantarabhāvitayā śabdakāraṇatāṃ tāvadavadhārayati. vaktuś cāsyāṃ prayojyavṛddhapratipattau darśanapārārthyāt pradhānabhūtāyā(m upā)dīyamānayoḥ śabdārthayoḥ sāhityaṃ vivakṣitam iti. evaṃ ca viditvā svayam api parārthaprayoge sahitau śabdārthau hṛdayam āveśitāv upādāya śabdaṃ coccārya parapratipattiṃ bhāvayatīti sūktaṃ sāhityavivakṣā varṇasāhityavivakṣāvad iti || 12 -- 13 || 3,226 nanv evaṃ vadatā śabdārthayoḥ kriyāsambandha eva darśitaḥ, na parasparasambandhaḥ. tathā hi -- yat tāvad uktam abhidhānakriyāyāṃ hi iti, anenābhidhānakriyāsambandha eva karmakaraṇādirūpeṇobhayor upavarṇitaḥ, na parasparasambandhaḥ. pratipattāv upādānād ity api pratipādyapratipādakatayā pratipattikriyāsambandhamātra eva darśitaḥ, na parasparam, guṇapradhānabhāvam antareṇa sambandhāyogāt. vakṣyati hi -- guṇānāṃ ca parārthatvād asambandhaḥ samatvāt iti. syād etat. kriyākārakasambandhapūrvakatvāt sarvasambandhānāṃ kriyākārakasambandha eva darśita iti. astu tāvat, taduttarakālabhāvī tu ko 'nayoḥ sambandha iti vācyam eva. tad etat sarvam anubhāṣya pariharati -- tatreti tayorantena. asyārthaḥ -- yady api kārakāṇāṃ pradhānārthatvān na parasparasambandhaḥ, tathāpi pratipattyabhidhānayor yā kācit kriyā gṛhyate, tasyāṃ ca kriyākārakasambandhottarakālabhāvī parasparopakāryopakārakalakṣaṇaḥ śabdārthayor asti sambandhaḥ || tat punar idaṃ pūrvāparaviruddhaṃ pradeśāntaraviruddhaṃ ca. tathā hi -- atra tāvad ekasyāṃ kriyāyām upakāryopakārakatvaṃ śabdārthayoḥ sambandha ity uktam, pratipattāv upādānāt iti kriyānumānāṅgatvam eva parasparaniyamātmako darśitaḥ sambandhaḥ. abhidhānakriyāyāṃ hi iti ca karmatvakaraṇatve sambandha ity uktam. pradeśāntare śaktir eva sambandha iti vakṣyati. kvacic ca śabdaśaktiniyamam eva sambandham āha -- vācyavācakaśaktyoś ca niyamaḥ phalalakṣaṇaḥ | iti bruvānaḥ. anyatrāpy uktam -- 3,227 ekābhidhānimittatvaṃ karmakartṛtvayoś ca yat | yo vā karaṇakarmatvaniyamo 'bhidhayaikayā || sa no 'rthaśabdasambandhaḥ iti. ato vivecanīyam idam -- ko 'tra sambandhaḥ śabdārthayor vārttikakārasyābhimata iti. atrocyate -- yathaikena krayakarmaṇā parigṛhītayor dravyaguṇayor itaretarākāṃkṣāparipūraṇena parasparopakāryopakārakalakṣaṇaḥ sambandhaḥ. na hy anāśritaḥ krayakriyām abhinirvartayati. na dravyaṃ guṇaviśeṣānavacchinnam utsahate krayakriyāṃ nirvartayitum. na ca guṇena svamahimnā āśrayabhūtadravyamātram upādīyamānam api kraye gṛhyate, (svakīyago) dravyāvarodhāt. dravye(guṇamātrā)vacchedāt tad guṇamātram upādīyamānam api krayakriyā na pratīcchati svakīyāruṇim aguṇāvarodhāt. so 'yam artho niyamaḥ sampadyate. tad evam ihāpy ekārthapratipattyabhidhānakriyāsiddhyartham upādīyamānayor vivakṣitasāhityayoḥ śabdārthayoḥ kriyākārakasambandhottarakālabhāvī yo yam upakāryopakārakabhāvaḥ, sa eva sambandhaḥ. kaḥ punar anayoḥ parasparopakāraḥ. śrūyatām -- artho hi na pratipādakam antareṇa pratipādyo bhavati, śabdo na pratipādyam antareṇa pratipādakaḥ. ataḥ pratipādyapratipādakatayāvatiṣṭhamānāv anyonyasyopakāryopakārakau bhavataḥ. tac cedaṃ rūpam anayor niyatam ity atyantasannikarṣamātreṇa niyame sambandhābhidhānam, na tu niyama eva sambandhaḥ. śaktisambandhavādo 'pi cāta eva. vācyavācakaśaktyor eva hi satyor upakāryopakārakabhāvo bhavati. na tu śaktir eva sambandhaḥ. tad atra pratyāsatter abhedopacāreṇa śaktiḥ sambandhaḥ, niyamaḥ sambandhaḥ, kartṛtvaṃ karaṇatvaṃ vā sambandha ity evamādayaḥ samullāpāḥ. vastutas tūpakāryopakārakatvam eva sambandhaḥ || kathaṃ punas tadrūpam anayor niyatam ity ucyate. na hy anuccarite śabde parasparopakāryopakārakabhāvaḥ śabdārthayor asti. na ca tadānīṃ tau na staḥ, nityatvāt. tasmād asad etat. tan na. śaktyātmanā vidyamānatvāt 3,228 anuccarite 'pi hi śabde 'sti pratipādakaśaktiḥ, arthe ca pratipādyaśaktiḥ, ata eva sambandho nitya ity ucyate. nanv evam api karahastādibhir anekaiḥ śabdair ekatrārthe pratipādye anekārthavacane caikasmin gavādiśabde katham avyabhicāraḥ śakyate 'vagantum. ataḥ prakaraṇādīnām api padārthāvadhāraṇāpoyatvād vṛddhavyavahāre hi bālena kevalapadāprayogādāvāpoddhārabhedenaitad avadhāritam -- yadā yadarthavivakṣayā śabdaḥ prayujyate sa tasyārtha iti. vivakṣā cārthaprakaraṇādivaśonneyā. gāmānaya dogdhum ity ukte arthād etad avagamyate sāsnādimatyasya vivakṣeti. yotsyāmīty ukte arthādi(?mu)ṣau pratītir udeti. tad evam arthaprakaraṇādibhedabhinnam anyayānyayā ca śaktyopahitam anyad anyac ca padam anyasyānyasya vācakam iti na padavyabhicāraḥ. artho 'pi codbhūtatatpadābhidhānayogyāvasthābhedabhinno hastādir anyonyaś ca karādipadānāṃ vācya iti na padaṃ vyabhicarati. api caikasyāṃ kriyāyām ayaṃ niyama ity uktaḥ. na caikasyāṃ pratipattāv abhidhāne vopādīyamānayoḥ śabdārthayor anyonyavyabhicāro 'sti. tad idam uktaṃ hi niyamyete yad ekasyām iti || 14 -- 15 || nanv evam ekakriyānimittako niyamaḥ śabdārthayoḥ sambandha ity ucyamāne 'numānāṅgam avinābhāva evāśrito bhavet, atas tadbalena dhūmādivāgnijñānaṃ śabdād arthajñānam upajāyamānam anumānaṃ syād ata āha -- na cāpīti. idaṃ ca śābde prasādhitam ity āha -- sādhitam iti. nanu yady avinābhāvo nopayujyate, kas tarhy upayujyate. uktaṃ bhāṣyakāreṇa -- saṃjñāsaṃjñisambandhaḥ iti. nanu cāyam api sambandho 'nupayogy eva. tad etad āśaṅkate -- saṃjñeti. tadaṅgaṃ gamakatvāṅgam ity arthaḥ

Sanskrit only: no published translation is held for this verse.

कथम् अनङ्गम् अत आह -- गमयन्तीति। व्यवहारदर्शनेन ३,२२९ गमयन्ती एषा संज्ञा कल्प्यत इति। किम् अतो यद्य् एवम् अत आह -- न चैषेति। एतद् उक्तं भवति। गमकत्वम् एव संज्ञात्वं न तत्सम्बन्धान्तरम् अन्तरेणेति

katham anaṅgam ata āha -- gamayantīti. vyavahāradarśanena 3,229 gamayantī eṣā saṃjñā kalpyata iti. kim ato yady evam ata āha -- na caiṣeti. etad uktaṃ bhavati. gamakatvam eva saṃjñātvaṃ na tatsambandhāntaram antareṇeti

Sanskrit only: no published translation is held for this verse.

यतश् चैवम् अतो धूमादेर् इव गमकत्वं सम्बन्धान्तरपूर्वकम् एव पश्चादापतितम् इत्य् आह -- तस्माद् इति। तत्तुल्यत्वे दोषम् आह -- सानङ्गम् इति। यथैवाविनाभाव एव धूमादौ प्रतीत्यङ्गं न तदुत्तरकालभावि गमकत्वम्, एवं तत्रापि स्याद् इति। धूमादिवैषम्येणेदानीं परिहारम् आह -- नेयम् इति

yataś caivam ato dhūmāder iva gamakatvaṃ sambandhāntarapūrvakam eva paścādāpatitam ity āha -- tasmād iti. tattulyatve doṣam āha -- sānaṅgam iti. yathaivāvinābhāva eva dhūmādau pratītyaṅgaṃ na taduttarakālabhāvi gamakatvam, evaṃ tatrāpi syād iti. dhūmādivaiṣamyeṇedānīṃ parihāram āha -- neyam iti

Sanskrit only: no published translation is held for this verse.

वैषम्यम् एव दर्शयति -- निरूपित इति। तत्र हि धूमादौ महानसादिदेशे ऽग्न्यविनाभावनिरूपणोत्तरकालं तत्कृतैवासौ गमकतेति। अपि च धूमे प्रथमं गमकत्वं नावगम्यत इत्य् आह -- गमकत्वेनेति

vaiṣamyam eva darśayati -- nirūpita iti. tatra hi dhūmādau mahānasādideśe 'gnyavinābhāvanirūpaṇottarakālaṃ tatkṛtaivāsau gamakateti. api ca dhūme prathamaṃ gamakatvaṃ nāvagamyata ity āha -- gamakatveneti

Sanskrit only: no published translation is held for this verse.

शब्दे तु विपरीतम् इत्य् आह -- इहेति सार्धेन

śabde tu viparītam ity āha -- iheti sārdhena

Sanskrit only: no published translation is held for this verse.

गमकत्वेनैव शब्दे प्रथमं व्युत्पत्तिर् इत्य् उक्तं तद् विवृणोति -- कथयन्तीति त्रयेण। अयम् अर्थः -- त्रेधा हि शब्दे व्युत्पत्तिः, वृद्दोपदेशात् तद्व्यवहारात् पदान्तरसमभिव्याहाराद् वा। सर्वत्र चात्र गमकतैवादाव् अवगम्यते। तथा हि -- वृद्धोपदेशे तावद् अयम् अस्य वाच्यः अयम् अस्य वाचक ३,२३० इति गम्यगमकभाव एवावगम्यते। यत्रापि क्वचिदुच्चरिताद् वाक्यात् प्रयोज्यवृद्धस्यार्थविषयां क्रियां दृष्ट्वा चेष्टानुमानेन गवाद्यर्थबोद्धृत्वम् उपकल्प्यते तत्रापि यस्माद् अतश् शब्दाद् अनेनायम् अर्थो वगतः, तस्माद् अयम् अस्यार्थ इति गमकतैव शब्दस्यादाव् अवगम्यते। प्रसिद्धपदान्तरसमभिव्याहारे ऽपि इह सहकारतरौ मधुरं पिको रौतीत्येवमादौ विदितसहकाराद्यर्थो ऽविदितपिकाद्यर्थश् च यो ऽयं सहकारतरौ रौति तस्य पिकशब्दो गमक इति गमकत्वम् एवावगच्छतीति सिद्धं सर्वत्र गमकत्वं न व्युत्पत्तिर् इति ॥ २१ -- २३ ॥ नन्व् आकृतिः शब्दार्थ इति वस् सिद्धान्तः। न च तद्वाच्यत्वम् अन्वयव्यतिरेकाव् अन्तरेण शक्यते ऽवगन्तुम्। अतस् तत्प्रधानैव शब्दप्रतीतिर् आपद्येत। अत आह -- इत्थम् इति। अयम् अर्थः -- अन्वयव्यतिरेकयोर् अत्र निष्कृष्टार्थनियममात्रे व्यापारः, वाचकता तु नानाजात्यादिसङ्कीर्णार्थविषया सिद्धैवेति

gamakatvenaiva śabde prathamaṃ vyutpattir ity uktaṃ tad vivṛṇoti -- kathayantīti trayeṇa. ayam arthaḥ -- tredhā hi śabde vyutpattiḥ, vṛddopadeśāt tadvyavahārāt padāntarasamabhivyāhārād vā. sarvatra cātra gamakataivādāv avagamyate. tathā hi -- vṛddhopadeśe tāvad ayam asya vācyaḥ ayam asya vācaka 3,230 iti gamyagamakabhāva evāvagamyate. yatrāpi kvaciduccaritād vākyāt prayojyavṛddhasyārthaviṣayāṃ kriyāṃ dṛṣṭvā ceṣṭānumānena gavādyarthaboddhṛtvam upakalpyate tatrāpi yasmād ataś śabdād anenāyam artho vagataḥ, tasmād ayam asyārtha iti gamakataiva śabdasyādāv avagamyate. prasiddhapadāntarasamabhivyāhāre 'pi iha sahakāratarau madhuraṃ piko rautītyevamādau viditasahakārādyartho 'viditapikādyarthaś ca yo 'yaṃ sahakāratarau rauti tasya pikaśabdo gamaka iti gamakatvam evāvagacchatīti siddhaṃ sarvatra gamakatvaṃ na vyutpattir iti || 21 -- 23 || nanv ākṛtiḥ śabdārtha iti vas siddhāntaḥ. na ca tadvācyatvam anvayavyatirekāv antareṇa śakyate 'vagantum. atas tatpradhānaiva śabdapratītir āpadyeta. ata āha -- ittham iti. ayam arthaḥ -- anvayavyatirekayor atra niṣkṛṣṭārthaniyamamātre vyāpāraḥ, vācakatā tu nānājātyādisaṅkīrṇārthaviṣayā siddhaiveti

Sanskrit only: no published translation is held for this verse.

नन्व् आगोपालं शब्दार्थव्यवहारो दृश्यते। न च ते ऽन्वयव्यतिरेकाभ्याम् अर्थनिष्कर्षं कुर्वन्ति। न च तान् प्रत्यवाचकाश् शब्दा इति युक्तं वक्तुम्। तुल्यवत् प्रतीतेः। पिकाद्यर्थनिर्णयस्य च म्लेच्छादिनिबन्धनस्य ३,२३१ वक्ष्यमाणत्वाद् अत आह -- बहुजातीति सार्धेन। अयम् अभिप्रायः -- लौकिका हि हानोपादानादिव्यवहारमात्रार्थिनः, न च तेषां व्यवहारः शब्दोच्चारणक्षणोपजातसङ्कीर्णार्थबोधसाध्य एवेति, श्रौतलाक्षणिकादिविवेकं प्रत्यनादृता इति ॥ २५ -- २६ ॥ तेन तर्हि किम् अर्थं विविञ्चते अत आह -- बलाबलादीति। शास्त्रस्था ह्य् अनिरूपितशक्तयो न शास्त्रार्थम् अनुष्ठातुं शक्नुवन्तीति तेषां हानोपादानोपयोगी शब्दशक्तिविवेक इति ते विविञ्चत इति

nanv āgopālaṃ śabdārthavyavahāro dṛśyate. na ca te 'nvayavyatirekābhyām arthaniṣkarṣaṃ kurvanti. na ca tān pratyavācakāś śabdā iti yuktaṃ vaktum. tulyavat pratīteḥ. pikādyarthanirṇayasya ca mlecchādinibandhanasya 3,231 vakṣyamāṇatvād ata āha -- bahujātīti sārdhena. ayam abhiprāyaḥ -- laukikā hi hānopādānādivyavahāramātrārthinaḥ, na ca teṣāṃ vyavahāraḥ śabdoccāraṇakṣaṇopajātasaṅkīrṇārthabodhasādhya eveti, śrautalākṣaṇikādivivekaṃ pratyanādṛtā iti || 25 -- 26 || tena tarhi kim arthaṃ viviñcate ata āha -- balābalādīti. śāstrasthā hy anirūpitaśaktayo na śāstrārtham anuṣṭhātuṃ śaknuvantīti teṣāṃ hānopādānopayogī śabdaśaktiviveka iti te viviñcata iti

Sanskrit only: no published translation is held for this verse.

एतद् एव प्रपञ्चयति कक्ष्यान्तरितेति द्वयेन। अस्यार्थः -- द्विविधं सामान्यं परम् अपरं च। परं सत्ताख्यम्, अपराणि द्रव्यत्वादीनि। तानि सामान्यान्य् अपि सन्ति। व्यावृत्तिबुद्धेर् अपि हेतुत्वात् विशेषसज्ञाम् अपि लभन्त इति, तानि सामान्यविशेषशब्देनापदिशन्ति, तत्र च सामान्यविशेषाः सामान्यशब्दस्य स्वार्थेन कक्ष्ययान्तरिता भवन्ति। यथा सच्छब्दस्य सत्तामाचक्षाणस्य तदन्तरिता द्रव्यत्वादयः सामान्यविशेषाः, तेषु चासौ लक्षणाबलेन प्रवर्तमानो दुर्बलो जायते। स्वार्थे तु श्रुत्या वर्तते इति स तत्र बलवान्। का पुनर् इयं लक्षणा नाम -- अभिधेयाविनाभावेन प्रतीतिः। यथोक्तम् -- अभिधेयाविनाभावप्रतीतिर् लक्षणेष्यते । इति। क्रिया कियद्वाभिधेयाविनाभावेन लक्ष्यते कियत् स्वमहिम्ना शब्देनोच्यत इति शास्त्रस्थानाम् अनुष्ठानविशेषार्थं विवेको युक्तः। सा?एच?लक्षणा प्रायेण नित्यसम्बन्धाद् भवतीति नित्यसम्बन्धाद् इत्य् उक्तम्। सम्बन्धमात्रम् एव तु लक्षणाया बीजम्। आह -- कः पुनरनुष्ठाने श्रौतलाक्षणिकविवेकस्योपयोगः। श्रूयताम् -- लोके तावद् ३,२३२ ब्राह्मणेभ्यो दधि दीयतां तक्रं कौण्डिन्यायेति ब्राह्मणसामान्यस्था ब्राह्मणश्रुतिर् लक्षणया तद्विशेषं कौण्डिन्यम् अवतरन्ती दुर्बला भवति इत्य् अव्यवहितविशेषस्थया कौण्डिन्यश्रुत्या बाध्यते। वेदे ऽप्य् एवम् एव। यजुस्सामान्यस्था उपांशु यजुषा इति श्रुतिस् तद्विशेषस्थया उच्चैर्निगदेन इति श्रुत्या बाध्यत इत्येवमादि दर्शयितव्यम् इति। सामान्यशब्देनात्र विशेषान् विशिंषन् न सामान्यातिरिक्ताः केचन विशेषा विद्यन्त इति दर्शयति। अस्ति हि केषाञ्चिद् दर्शनं - नित्या द्रव्यवृत्तयो ऽन्त्या विशेषाः। ते च व्यावृत्तिबुद्धेर् एव हेतुत्वाद् विशेषा एवेति। परमाणुकारणकं हि काणादा द्व्यणुकादिक्रमेण जगतो निर्माणम् आतिष्ठन्ते। न चाणुत्वेन परस्परम् अनतिशयानैर् अणुभिर् असङ्कीर्णाकारजगदुत्पादयितुं शक्यते। अतः सन्ति केचनाणुसमवायिनो वेशेषा नाम ये तान् इतरेतरतो व्यावर्तयन्तीति सङ्गिरन्ते। ते च निर्धूतनिखिलकालुष्यैर् अपरोक्षम् ईक्षन्त एवेति। तान् प्रत्युच्यते। न तावदक्षाधीनेषु भावेष्व् अवान्तरसामान्यातिरिक्तान् विशेषानीक्षामहे। द्रव्यत्वेन हि पृथिव्यादयो गुणकर्मभ्यो विशिष्यन्ते (?द्रव्य।पृथिवी)त्वेन पृथिवी अबादिभ्यो द्रव्यान्तरेभ्यः, वृक्षत्वेन वृक्षाः पार्थिवान्तरेभ्यः, शिंशपात्वेन शिंशपा वृक्षान्तरेभ्य इत्य् एवम् अणून् यावद् इयं विशेषकथा वर्तयितव्या। किम् अत्र विशेषान्तरेण। अणुषु त्व् एकजातीयेष्व् अपि कार्यविभागाद् रूपम् एव विभक्तम् अनुमास्यामहे। नो खल्व् अविभक्ताकारं पूर्ववस्तु विभक्ताकारकार्यघटनायोत्सहत इति। पृथक्त्वाख्यो वा गुणस् तेषाम् अन्योन्यस्य विशेषकत्वाद् विशेषो भविष्यति। स एवानपेक्षितविशेषान्तरो न सिध्यतीति चेति। विशेषा वा कथम् अनपेक्षितविशेषान्तराः सेत्स्यन्ति। अपेक्षणे वा तदानन्त्यम्, अतो मन्द एवायं विशेषान्तराभ्युपगमः। योगिनस् तु तान् पश्यन्तीति श्रद्धधाना बुध्यन्ते वयम् अश्रद्धधानाः स्मः, ये युक्तिं प्रार्थयामह इति सूक्तं सामान्यविशेषेष्व् इति ॥ २७ -- २८ ॥ ३,२३३ अन्वयव्यतिरेकाभ्यां वाक्यज्ञास् तु विविञ्चते इत्य् उक्तम्। ताव् अन्वयव्यतिरेकौ दर्शयति -- तत्रेति द्वयेन। तत्र सामान्ये गवादौ गोशब्दस्य बहुलं प्रयोगात् तद्विशेषेषु च शाबलेयादिषु असत्स्व् अपि बाहुलेयादिषु प्रयो(?गा।ग)दर्शनात् परसामान्ये च सत्तादौ सत्य् अपि भावान्तरे ऽप्रयोगात् सास्नादिभिस् सहैकावयविरूपार्थसम्बन्धिगोत्वमात्रस्य गोशब्दो वाचकम् इत्य् अन्वयव्यतिरेकाभ्यां ज्ञानं जन्यते। सास्नाद्येकार्थसम्बन्धीति चाविनाभाविना चिह्नेन गोत्वम् उपलक्षयतीति। अतस् सिद्धं गम्यगमकभाव एव शब्दार्थयोस् सम्बन्धः प्रथमम् अवगम्यते न पुनरविनाभाव इति ॥ २९ -- ३० ॥ उपसंहरति -- तस्माद् इति। ननु -- संज्ञासंज्ञिसम्बन्धो भाष्यकारेणोक्तः, न च गमकं संज्ञेति लौकिका मन्यन्ते, न ह्य् अग्नेर् धूमः संज्ञेत्य् उच्यते, अत आह -- अभिधायकतेति। अयम् अभिप्रायः -- अस्यार्थस्यायं गमक इति ज्ञाते नाव्याप्रियमाणस्यावगतौ कारणत्वम् उपपद्यत इति तद्व्यापारो ऽवसीयते, शब्दव्यापारश् चाभिधेत्य् उच्यते। अतो ऽत्राभिधानक्रियासम्बन्धाद् गमकत्वस्यैव विशेषो ऽभिधायकता शब्दे ज्ञायते। अभिधायकतैव संज्ञात्वम् इत्य् उपपन्नस् संज्ञासंज्ञिसम्बन्ध इति। अविनाभाविता तु सम्बन्धनियमः, न सम्बन्ध इत्य् आह -- सम्बन्धेति। इदं च निष्कृष्टे ऽर्थे नियम्यते इत्य् अत्रोक्तम् अस्माभिः। तस्माद् इति पदानुषङ्गेणोपसंहृतम् इति ३,२३४ वेदितव्यम्। अन्वयव्यतिरेकाविनाभावशब्दौ पर्यायाव् इति नार्थभेदश् शङ्कितव्य इति ॥ ३१ -- ३२ ॥ यदि प्रत्यायकः इति भाष्यकारेण प्रयोगो ऽन्तर्णीतः, तम् आह -- सम्बन्धेति। देवदत्तादयो हि यदृच्छाशब्दा यत्रैव सङ्केत्यन्ते तम् एव प्रतिपादयन्ति। न चैषां क्वचिद् अपि स्वाभाविकी शक्तिः। तद् अयं प्रयोगार्थः -- गवादिशब्दो धर्मी, नाभिधाशक्त इति साध्यम्, उपायान्तरापेक्षत्वाद् इति हेतुः। यदुपायान्तरापेक्षं तन् न स्वरूपतश् शक्तम्, देवदत्तादिपदम् इव सङ्केतग्रहणापेक्षम् इति

etad eva prapañcayati kakṣyāntariteti dvayena. asyārthaḥ -- dvividhaṃ sāmānyaṃ param aparaṃ ca. paraṃ sattākhyam, aparāṇi dravyatvādīni. tāni sāmānyāny api santi. vyāvṛttibuddher api hetutvāt viśeṣasajñām api labhanta iti, tāni sāmānyaviśeṣaśabdenāpadiśanti, tatra ca sāmānyaviśeṣāḥ sāmānyaśabdasya svārthena kakṣyayāntaritā bhavanti. yathā sacchabdasya sattāmācakṣāṇasya tadantaritā dravyatvādayaḥ sāmānyaviśeṣāḥ, teṣu cāsau lakṣaṇābalena pravartamāno durbalo jāyate. svārthe tu śrutyā vartate iti sa tatra balavān. kā punar iyaṃ lakṣaṇā nāma -- abhidheyāvinābhāvena pratītiḥ. yathoktam -- abhidheyāvinābhāvapratītir lakṣaṇeṣyate | iti. kriyā kiyadvābhidheyāvinābhāvena lakṣyate kiyat svamahimnā śabdenocyata iti śāstrasthānām anuṣṭhānaviśeṣārthaṃ viveko yuktaḥ. sā?eca?lakṣaṇā prāyeṇa nityasambandhād bhavatīti nityasambandhād ity uktam. sambandhamātram eva tu lakṣaṇāyā bījam. āha -- kaḥ punaranuṣṭhāne śrautalākṣaṇikavivekasyopayogaḥ. śrūyatām -- loke tāvad 3,232 brāhmaṇebhyo dadhi dīyatāṃ takraṃ kauṇḍinyāyeti brāhmaṇasāmānyasthā brāhmaṇaśrutir lakṣaṇayā tadviśeṣaṃ kauṇḍinyam avatarantī durbalā bhavati ity avyavahitaviśeṣasthayā kauṇḍinyaśrutyā bādhyate. vede 'py evam eva. yajussāmānyasthā upāṃśu yajuṣā iti śrutis tadviśeṣasthayā uccairnigadena iti śrutyā bādhyata ityevamādi darśayitavyam iti. sāmānyaśabdenātra viśeṣān viśiṃṣan na sāmānyātiriktāḥ kecana viśeṣā vidyanta iti darśayati. asti hi keṣāñcid darśanaṃ - nityā dravyavṛttayo 'ntyā viśeṣāḥ. te ca vyāvṛttibuddher eva hetutvād viśeṣā eveti. paramāṇukāraṇakaṃ hi kāṇādā dvyaṇukādikrameṇa jagato nirmāṇam ātiṣṭhante. na cāṇutvena parasparam anatiśayānair aṇubhir asaṅkīrṇākārajagadutpādayituṃ śakyate. ataḥ santi kecanāṇusamavāyino veśeṣā nāma ye tān itaretarato vyāvartayantīti saṅgirante. te ca nirdhūtanikhilakāluṣyair aparokṣam īkṣanta eveti. tān pratyucyate. na tāvadakṣādhīneṣu bhāveṣv avāntarasāmānyātiriktān viśeṣānīkṣāmahe. dravyatvena hi pṛthivyādayo guṇakarmabhyo viśiṣyante (?dravya/pṛthivī)tvena pṛthivī abādibhyo dravyāntarebhyaḥ, vṛkṣatvena vṛkṣāḥ pārthivāntarebhyaḥ, śiṃśapātvena śiṃśapā vṛkṣāntarebhya ity evam aṇūn yāvad iyaṃ viśeṣakathā vartayitavyā. kim atra viśeṣāntareṇa. aṇuṣu tv ekajātīyeṣv api kāryavibhāgād rūpam eva vibhaktam anumāsyāmahe. no khalv avibhaktākāraṃ pūrvavastu vibhaktākārakāryaghaṭanāyotsahata iti. pṛthaktvākhyo vā guṇas teṣām anyonyasya viśeṣakatvād viśeṣo bhaviṣyati. sa evānapekṣitaviśeṣāntaro na sidhyatīti ceti. viśeṣā vā katham anapekṣitaviśeṣāntarāḥ setsyanti. apekṣaṇe vā tadānantyam, ato manda evāyaṃ viśeṣāntarābhyupagamaḥ. yoginas tu tān paśyantīti śraddhadhānā budhyante vayam aśraddhadhānāḥ smaḥ, ye yuktiṃ prārthayāmaha iti sūktaṃ sāmānyaviśeṣeṣv iti || 27 -- 28 || 3,233 anvayavyatirekābhyāṃ vākyajñās tu viviñcate ity uktam. tāv anvayavyatirekau darśayati -- tatreti dvayena. tatra sāmānye gavādau gośabdasya bahulaṃ prayogāt tadviśeṣeṣu ca śābaleyādiṣu asatsv api bāhuleyādiṣu prayo(?gā/ga)darśanāt parasāmānye ca sattādau saty api bhāvāntare 'prayogāt sāsnādibhis sahaikāvayavirūpārthasambandhigotvamātrasya gośabdo vācakam ity anvayavyatirekābhyāṃ jñānaṃ janyate. sāsnādyekārthasambandhīti cāvinābhāvinā cihnena gotvam upalakṣayatīti. atas siddhaṃ gamyagamakabhāva eva śabdārthayos sambandhaḥ prathamam avagamyate na punaravinābhāva iti || 29 -- 30 || upasaṃharati -- tasmād iti. nanu -- saṃjñāsaṃjñisambandho bhāṣyakāreṇoktaḥ, na ca gamakaṃ saṃjñeti laukikā manyante, na hy agner dhūmaḥ saṃjñety ucyate, ata āha -- abhidhāyakateti. ayam abhiprāyaḥ -- asyārthasyāyaṃ gamaka iti jñāte nāvyāpriyamāṇasyāvagatau kāraṇatvam upapadyata iti tadvyāpāro 'vasīyate, śabdavyāpāraś cābhidhety ucyate. ato 'trābhidhānakriyāsambandhād gamakatvasyaiva viśeṣo 'bhidhāyakatā śabde jñāyate. abhidhāyakataiva saṃjñātvam ity upapannas saṃjñāsaṃjñisambandha iti. avinābhāvitā tu sambandhaniyamaḥ, na sambandha ity āha -- sambandheti. idaṃ ca niṣkṛṣṭe 'rthe niyamyate ity atroktam asmābhiḥ. tasmād iti padānuṣaṅgeṇopasaṃhṛtam iti 3,234 veditavyam. anvayavyatirekāvinābhāvaśabdau paryāyāv iti nārthabhedaś śaṅkitavya iti || 31 -- 32 || yadi pratyāyakaḥ iti bhāṣyakāreṇa prayogo 'ntarṇītaḥ, tam āha -- sambandheti. devadattādayo hi yadṛcchāśabdā yatraiva saṅketyante tam eva pratipādayanti. na caiṣāṃ kvacid api svābhāvikī śaktiḥ. tad ayaṃ prayogārthaḥ -- gavādiśabdo dharmī, nābhidhāśakta iti sādhyam, upāyāntarāpekṣatvād iti hetuḥ. yadupāyāntarāpekṣaṃ tan na svarūpataś śaktam, devadattādipadam iva saṅketagrahaṇāpekṣam iti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यकारेण यदि प्रत्यायकश् शब्दः प्रथमश्रुतः किं न प्रत्यायति इति परिचोद्य सर्वत्र नो दर्शनं प्रमाणम् इत्यादिना दर्शनबलेन गृहीतशक्तिकः प्रत्याययतीति परिहार उक्तः, तद्दर्शयति -- यथैवेति। अस्यार्थः -- गमकत्वम् एव तावत् शब्दस्य किम् अभ्युपगम्यते, व्यवहारदर्शनबलेनेति चेत्, समानम् इदं शक्तिसंवेदने ऽपि। न ह्य् अविदितशक्तयश् शब्दाद् अर्थम् अवयन्तो दृश्यन्त इति

atra bhāṣyakāreṇa yadi pratyāyakaś śabdaḥ prathamaśrutaḥ kiṃ na pratyāyati iti paricodya sarvatra no darśanaṃ pramāṇam ityādinā darśanabalena gṛhītaśaktikaḥ pratyāyayatīti parihāra uktaḥ, taddarśayati -- yathaiveti. asyārthaḥ -- gamakatvam eva tāvat śabdasya kim abhyupagamyate, vyavahāradarśanabaleneti cet, samānam idaṃ śaktisaṃvedane 'pi. na hy aviditaśaktayaś śabdād artham avayanto dṛśyanta iti

Sanskrit only: no published translation is held for this verse.

स्याद् एतत् -- प्रकाशकाः प्रदीपादयो ऽविदितसम्बन्धा अपि स्वार्थं प्रकाशयन्तो दृश्यन्ते, तद्विधर्मा च शद्बः, अतो न प्रकाशक इति। तच् च नैवम्, शक्तिवैलक्षण्यात्। विचित्रशक्तयो ऽपि हि भावाः। तत्प्रदीपः प्रत्यक्षपरिकरतयागृहीतसम्बन्धो ऽपि प्रकाशयतु नाम। नैतावता शब्देनापि तद्धर्मेण भवितव्यम्। अतो ऽयम् अपर्यनुयोगः। अपि च व्रीह्यादयो ऽगृहीतस्वरूपा अपि कार्यम् आरभन्त एवेति शब्दे तद्धर्मः किं नारोप्यते। कारकहेतवो हि व्रीह्यादयः, शब्दस् तु ज्ञापकहेतुः। अतो ऽपेक्षते स्वरूपग्रहणम् इति चेत्। केन वेदम् आज्ञापितं ज्ञापकेन स्वरूपग्रहणम् अपेक्षितव्यं न सम्बन्धग्रहणम् इति, दर्शनबलेनेति चेति, समानम् इदं सम्बन्धग्रहणापेक्षायाम् ३,२३५ अपि, दर्शनबलाद् एव हि लिङ्गशब्दादयो ज्ञापकविशेषास् सम्बन्धग्रहणम् अपेक्षन्ते। न चक्षुरादयः। सर्वत्र हि नो दर्शनं प्रमाणम्। कारकाश् चक्षुरादय इति नानुमन्यामहे, ज्ञानकारणस्यैव ज्ञापकत्वात्, तद् एतद् आह -- स्वरूपेति

syād etat -- prakāśakāḥ pradīpādayo 'viditasambandhā api svārthaṃ prakāśayanto dṛśyante, tadvidharmā ca śadbaḥ, ato na prakāśaka iti. tac ca naivam, śaktivailakṣaṇyāt. vicitraśaktayo 'pi hi bhāvāḥ. tatpradīpaḥ pratyakṣaparikaratayāgṛhītasambandho 'pi prakāśayatu nāma. naitāvatā śabdenāpi taddharmeṇa bhavitavyam. ato 'yam aparyanuyogaḥ. api ca vrīhyādayo 'gṛhītasvarūpā api kāryam ārabhanta eveti śabde taddharmaḥ kiṃ nāropyate. kārakahetavo hi vrīhyādayaḥ, śabdas tu jñāpakahetuḥ. ato 'pekṣate svarūpagrahaṇam iti cet. kena vedam ājñāpitaṃ jñāpakena svarūpagrahaṇam apekṣitavyaṃ na sambandhagrahaṇam iti, darśanabaleneti ceti, samānam idaṃ sambandhagrahaṇāpekṣāyām 3,235 api, darśanabalād eva hi liṅgaśabdādayo jñāpakaviśeṣās sambandhagrahaṇam apekṣante. na cakṣurādayaḥ. sarvatra hi no darśanaṃ pramāṇam. kārakāś cakṣurādaya iti nānumanyāmahe, jñānakāraṇasyaiva jñāpakatvāt, tad etad āha -- svarūpeti

Sanskrit only: no published translation is held for this verse.

ननु च सम्बन्धग्रहणात् प्राग् अप्य् अभिधाने शब्दश् शक्तो न वा। यदि शक्तः, किं सम्बन्धग्रहणापेक्षया। न चेत् सम्बन्धग्रहणम् एत हि तदागमन्यायेन कारणम् आपद्येत, अत आह -- यत्साधकतमेति। न तावत् सम्बन्धग्रहणात् पूर्वम् अशक्तम् एव शब्दम् अवगच्छामः। न च शक्तस्यानुग्राहकापेक्षा स्वशक्तिं विह(?रती।न्ती)ति

nanu ca sambandhagrahaṇāt prāg apy abhidhāne śabdaś śakto na vā. yadi śaktaḥ, kiṃ sambandhagrahaṇāpekṣayā. na cet sambandhagrahaṇam eta hi tadāgamanyāyena kāraṇam āpadyeta, ata āha -- yatsādhakatameti. na tāvat sambandhagrahaṇāt pūrvam aśaktam eva śabdam avagacchāmaḥ. na ca śaktasyānugrāhakāpekṣā svaśaktiṃ viha(?ratī/ntī)ti

Sanskrit only: no published translation is held for this verse.

किं पुनर् न विहन्त्य् अत आह -- न हीति। यदि ह्य् अनुग्राहकापेक्षा स्वशाक्तिं विहन्यात् सर्वम् एव लौकिकं वैदिकं करणं करणतां जह्यात। अपेक्षते हि सर्वम् एव करणम् इतिकर्तव्यताजनितम् अनुग्रहम् इति

kiṃ punar na vihanty ata āha -- na hīti. yadi hy anugrāhakāpekṣā svaśāktiṃ vihanyāt sarvam eva laukikaṃ vaidikaṃ karaṇaṃ karaṇatāṃ jahyāta. apekṣate hi sarvam eva karaṇam itikartavyatājanitam anugraham iti

Sanskrit only: no published translation is held for this verse.

किञ् च -- अस्तु तावद् इतिकर्तव्यतापेक्षा करणभावं न विहन्तीति, प्रत्युत तयापि नैव करणत्वं नास्ति, प्रतिकरणस्वरूपं तदपेक्षानियमादित्य् आह -- प्रत्यात्मेति। नन्व् एवम् उभयसमवधानम् एवान्तरेण कार्यानिष्पत्तेः कथं करणेतिकर्तव्यताविभागो दर्शयितव्यः, अत आह -- बाह्यान्तरेति नान्तेन। यत्कार्यसिद्धौ सन्निहितं तत्करणम् इतरद् बाह्यम् इतिकर्तव्यतेति, बाह्यम् अपि क्वचिद् विवक्षातः कारकप्रवृत्तेः करणतया विवक्ष्यत इत्य् आह -- क्वचित् स्याद् वेति

kiñ ca -- astu tāvad itikartavyatāpekṣā karaṇabhāvaṃ na vihantīti, pratyuta tayāpi naiva karaṇatvaṃ nāsti, pratikaraṇasvarūpaṃ tadapekṣāniyamādity āha -- pratyātmeti. nanv evam ubhayasamavadhānam evāntareṇa kāryāniṣpatteḥ kathaṃ karaṇetikartavyatāvibhāgo darśayitavyaḥ, ata āha -- bāhyāntareti nāntena. yatkāryasiddhau sannihitaṃ tatkaraṇam itarad bāhyam itikartavyateti, bāhyam api kvacid vivakṣātaḥ kārakapravṛtteḥ karaṇatayā vivakṣyata ity āha -- kvacit syād veti

Sanskrit only: no published translation is held for this verse.

३,२३६ एतद् एव दर्शयति -- उद्विग्न इति। ज्ञानोत्पत्ताव् अन्तरङ्गम् अपि चक्षुर् न करणतया मन्यते, किन् तु कुतश्चित् तारतम्यविशेषाद् बाह्यम् एव प्रदीपं करणतया विवक्षतीति

3,236 etad eva darśayati -- udvigna iti. jñānotpattāv antaraṅgam api cakṣur na karaṇatayā manyate, kin tu kutaścit tāratamyaviśeṣād bāhyam eva pradīpaṃ karaṇatayā vivakṣatīti

Sanskrit only: no published translation is held for this verse.

स चायं विवक्षानिबन्धः करणभावः कादाचित्कः। नित्यवृत्तौ नित्यं तु कार्यसिद्धौ आन्तरस्य चक्षुषः करणत्वम् अवगम्यत इत्य् आह -- नित्यवृत्ताव् इति। अन्धानां दृष्टिर् दर्शनं नास्तीत्य् अर्थः

sa cāyaṃ vivakṣānibandhaḥ karaṇabhāvaḥ kādācitkaḥ. nityavṛttau nityaṃ tu kāryasiddhau āntarasya cakṣuṣaḥ karaṇatvam avagamyata ity āha -- nityavṛttāv iti. andhānāṃ dṛṣṭir darśanaṃ nāstīty arthaḥ

Sanskrit only: no published translation is held for this verse.

नन्व् अस्तु विज्ञानकार्यासत्तिविशेषणात् प्रदीपाद्यपेक्षया चक्षुषः करणभावः, आत्ममनस्संयोगस् तु ज्ञानोत्पत्ताव् अत्यन्तम् आसन्नः, अतः कथं तदपेक्षया चक्षुषः करणत्वं भविष्यतीत्य् अत आह -- शरीरेति। अयम् अभिप्रायः -- नासत्तिविशेष एव करणत्वे कारणम्, अपि तर्हि बाह्यप्रदीपाद्यपेक्षयासत्तिः, आभ्यन्तरात्ममनस्संयोगापेक्षया त्व् असाधारण्यम्, आत्ममनस्संयोगो हि रसादिज्ञानसाधारणो नाव्यभिचारितया रूपदर्शनकारणम् इति शक्यते ऽवगन्तुम्। चक्षुषः पुनरसाधरणतयैव रूपज्ञाने कारणत्वम् इति चक्षूरूपादिभेदस् तु इत्य् अत्रोक्तम् इति

nanv astu vijñānakāryāsattiviśeṣaṇāt pradīpādyapekṣayā cakṣuṣaḥ karaṇabhāvaḥ, ātmamanassaṃyogas tu jñānotpattāv atyantam āsannaḥ, ataḥ kathaṃ tadapekṣayā cakṣuṣaḥ karaṇatvaṃ bhaviṣyatīty ata āha -- śarīreti. ayam abhiprāyaḥ -- nāsattiviśeṣa eva karaṇatve kāraṇam, api tarhi bāhyapradīpādyapekṣayāsattiḥ, ābhyantarātmamanassaṃyogāpekṣayā tv asādhāraṇyam, ātmamanassaṃyogo hi rasādijñānasādhāraṇo nāvyabhicāritayā rūpadarśanakāraṇam iti śakyate 'vagantum. cakṣuṣaḥ punarasādharaṇatayaiva rūpajñāne kāraṇatvam iti cakṣūrūpādibhedas tu ity atroktam iti

Sanskrit only: no published translation is held for this verse.

तद् एवं दृष्टान्ते विवक्षासन्निकर्षविशेषकृतकरणेतिकर्तव्यताविभागं दर्शयित्वा प्रकृते योजयति -- तथैवेति। अनेन यत्तदागमन्यायेन सम्बन्धग्रहणम् एव कारणम् आपद्येतेत्य् उक्तं तद् अपि विवक्षाविशेषवशेनास्त्व् इति दर्शितम् इति

tad evaṃ dṛṣṭānte vivakṣāsannikarṣaviśeṣakṛtakaraṇetikartavyatāvibhāgaṃ darśayitvā prakṛte yojayati -- tathaiveti. anena yattadāgamanyāyena sambandhagrahaṇam eva kāraṇam āpadyetety uktaṃ tad api vivakṣāviśeṣavaśenāstv iti darśitam iti

Sanskrit only: no published translation is held for this verse.

अपरम् अपि -- यथा चक्षुर्द्रष्टृ न बाह्येन प्रकाशेन विना इत्यादि परिहारभाष्यं, तस्याभिप्रायम् आह -- यथेति। चक्षुर् हि प्रदीपाद्युपायान्तरापेक्षम् ३,२३७ अपि रूपप्रकाशने स्वभावतश् शक्तम् इत्य् अनैकान्तिको हेतुः। दृष्टान्तो ऽपि साध्यविकल इत्य् आह -- देवदत्तेति

aparam api -- yathā cakṣurdraṣṭṛ na bāhyena prakāśena vinā ityādi parihārabhāṣyaṃ, tasyābhiprāyam āha -- yatheti. cakṣur hi pradīpādyupāyāntarāpekṣam 3,237 api rūpaprakāśane svabhāvataś śaktam ity anaikāntiko hetuḥ. dṛṣṭānto 'pi sādhyavikala ity āha -- devadatteti

Sanskrit only: no published translation is held for this verse.

यदृच्छाशब्दानाम् अपि ज्ञानसामर्थ्यं विद्यमानम् एव नियोगेनाभिव्यज्यत इत्य् अध्यासवादे वर्णितम्। अत्र च यथा चक्षुर् इति भाष्ये चक्षुषः करणभावो दर्शितः। कथं पुनस् तुल्ये ऽपि चक्षुःप्रदीपयोर् ज्ञानकारणत्वे चक्षुषः करणत्वम् इत्य् अत्रोपपत्तिम् आह -- प्रकाश इति। इदं च नित्यवृत्तौ इत्य् अत्रोक्तम् अप्य् अधुना भाष्यसमर्थनार्थम् उक्तम् इत्य् अपौनरुक्त्यम् इति

yadṛcchāśabdānām api jñānasāmarthyaṃ vidyamānam eva niyogenābhivyajyata ity adhyāsavāde varṇitam. atra ca yathā cakṣur iti bhāṣye cakṣuṣaḥ karaṇabhāvo darśitaḥ. kathaṃ punas tulye 'pi cakṣuḥpradīpayor jñānakāraṇatve cakṣuṣaḥ karaṇatvam ity atropapattim āha -- prakāśa iti. idaṃ ca nityavṛttau ity atroktam apy adhunā bhāṣyasamarthanārtham uktam ity apaunaruktyam iti

Sanskrit only: no published translation is held for this verse.

तद् एवम् उपपादितस् संज्ञासंज्ञिसम्बन्धः कृतकत्वेन भाष्यकृताक्षिप्तः -- यदि प्रथमश्रुतो न प्रत्याययति कृतकस् तर्हि इति, तद् एतद्वार्तिककारो दर्शयति -- पुरुषेति। एवं चात्र प्रयोगः -- यः संज्ञासंज्ञिसम्बन्धः स कृतकः, पुरुषापेक्षत्वात्, रज्जुघटसंयोगवद् इति

tad evam upapāditas saṃjñāsaṃjñisambandhaḥ kṛtakatvena bhāṣyakṛtākṣiptaḥ -- yadi prathamaśruto na pratyāyayati kṛtakas tarhi iti, tad etadvārtikakāro darśayati -- puruṣeti. evaṃ cātra prayogaḥ -- yaḥ saṃjñāsaṃjñisambandhaḥ sa kṛtakaḥ, puruṣāpekṣatvāt, rajjughaṭasaṃyogavad iti

Sanskrit only: no published translation is held for this verse.

अपरम् अपि[७३१]स्वाभावतो ह्य् असम्बन्धाव् एतौ शब्दार्थौ इत्यादि भाष्यं, तस्याभिप्रायम् आह -- भिन्नेति। अयम् अर्थः -- यथा रज्जुसर्पादिषु भिन्नदेशकालाधिष्ठानेषु किञ्चिद् देशादि समं नास्ति, एवं तयोश् शब्दार्थयोः। अतस् तद्वद् एव ताव् अपि स्वभावतो ऽसम्बन्धाव् इति। ईदृशी चात्र प्रयोगरचनाशब्दार्थौ स्वभावतो ऽसङ्गतौ, असमदेशकालत्वात्, रज्ज्वादिवत्। ताव् एव न समदेशकालौ, भिन्नदेशाद्यधिष्ठानोपलम्भात्, तद्वद् एवेति

aparam api[731]svābhāvato hy asambandhāv etau śabdārthau ityādi bhāṣyaṃ, tasyābhiprāyam āha -- bhinneti. ayam arthaḥ -- yathā rajjusarpādiṣu bhinnadeśakālādhiṣṭhāneṣu kiñcid deśādi samaṃ nāsti, evaṃ tayoś śabdārthayoḥ. atas tadvad eva tāv api svabhāvato 'sambandhāv iti. īdṛśī cātra prayogaracanāśabdārthau svabhāvato 'saṅgatau, asamadeśakālatvāt, rajjvādivat. tāv eva na samadeśakālau, bhinnadeśādyadhiṣṭhānopalambhāt, tadvad eveti

Sanskrit only: no published translation is held for this verse.