पापिकां दृष्टिं ग्राहयेयं ॥ अथ तेन क्षणेन मारः पापीमाञ् छीघ्रम् एव स्वभवनाद् अन्तर्हायायुष्मतो ऽश्वजितो वेषलिंगेर्यापथेन तयोः सत्पुरुषयोः पुरतो ऽन्तर्मार्गे स्थित्वैवम् आह ॥ उक्तं पूर्वम् इदं मया हि वितथं हेतूपमं कारणं युवयोर् एव मनःप्रचारनियमं विज्ञायतुं किं युवां । सर्वं चैतद् अपार्थकं हि कथितं नास्त्य् अत्र हेतुः पुनः कृष्णस्यास्य शुभस्य कर्मण इह प्राप्तिः फलं वा कुतः
pāpikāṃ dṛṣṭiṃ grāhayeyaṃ // atha tena kṣaṇena māraḥ pāpīmāñ chīghram eva svabhavanād antarhāyāyuṣmato 'śvajito veṣaliṃgeryāpathena tayoḥ satpuruṣayoḥ purato 'ntarmārge sthitvaivam āha // uktaṃ pūrvam idaṃ mayā hi vitathaṃ hetūpamaṃ kāraṇaṃ yuvayor eva manaḥpracāraniyamaṃ vijñāyatuṃ kiṃ yuvāṃ / sarvaṃ caitad apārthakaṃ hi kathitaṃ nāsty atra hetuḥ punaḥ kṛṣṇasyāsya śubhasya karmaṇa iha prāptiḥ phalaṃ vā kutaḥ
Sanskrit only: no published translation is held for this verse.
क्षिप्रं कामगुणेष्व् अतीव चरतं क्रीडां युवां विन्दतं मृत्युर् नास्ति न जन्म नार्तिजरसे लोकः परो नास्ति वा । पुण्यापुण्यफलं च कर्मजनितं नास्त्य् अत्र हेतुक्रिया लाभाये वदतीह शाक्यतनयो मा श्रद्धया गच्छथः
kṣipraṃ kāmaguṇeṣv atīva carataṃ krīḍāṃ yuvāṃ vindataṃ mṛtyur nāsti na janma nārtijarase lokaḥ paro nāsti vā / puṇyāpuṇyaphalaṃ ca karmajanitaṃ nāsty atra hetukriyā lābhāye vadatīha śākyatanayo mā śraddhayā gacchathaḥ
Sanskrit only: no published translation is held for this verse.
अथोपतिष्यकौलितयोर् एतद् अभूत् । मारो वतायं पापीमान् उपसंक्रान्त आवयोः प्रव्रज्याविच्छन्दनार्थं । अथोपतिष्यः पराङ्मुखः स्वपरिषदम् आहूयैवम् आह । श्रुणत यूयं माणवकाः स्मरत संसारदोषान् । जरया पीडितो लोको मृत्युना परिवारितः । उभयोस् तत्प्रहाणाय प्रव्रज्यां साधु गृह्णथ
athopatiṣyakaulitayor etad abhūt / māro vatāyaṃ pāpīmān upasaṃkrānta āvayoḥ pravrajyāvicchandanārthaṃ / athopatiṣyaḥ parāṅmukhaḥ svapariṣadam āhūyaivam āha / śruṇata yūyaṃ māṇavakāḥ smarata saṃsāradoṣān / jarayā pīḍito loko mṛtyunā parivāritaḥ / ubhayos tatprahāṇāya pravrajyāṃ sādhu gṛhṇatha
Sanskrit only: no published translation is held for this verse.
अथ कौलितो मारं प्रोवाच ॥ आज्ञातः प्रवरः सतां मतिधरो धर्मस् त्रिदुःखान्तकृत् कश्चिन् नास्ति यदावयोर् मतिम् इमां व्युच्चालयेत् सर्वथा । तृष्णायाः प्रशमाय धीरमनसाव् आवां सदा व्युत्थितौ मा सिंहाकृतिना सृगालवचनैर् आवां मतेर् भ्रामय
atha kaulito māraṃ provāca // ājñātaḥ pravaraḥ satāṃ matidharo dharmas triduḥkhāntakṛt kaścin nāsti yadāvayor matim imāṃ vyuccālayet sarvathā / tṛṣṇāyāḥ praśamāya dhīramanasāv āvāṃ sadā vyutthitau mā siṃhākṛtinā sṛgālavacanair āvāṃ mater bhrāmaya
Sanskrit only: no published translation is held for this verse.
याश् च देवता दृष्टसत्यास् ता गगनस्थितास् ताभ्यां सत्पुरुषाभ्यां साधुकारं (कुरुमिय ३) प्रददुः । साधु साधु सत्पुरुषौ सर्वलोकविशिष्ट एष मार्गो यद् उत प्रव्रज्यानिष्क्रमः । सर्वदुःखोपशान्त एष मार्गः । सर्वतथागतगोचरावतार एष मार्गः । सर्वबुद्धैर् भगवद्भिर् वर्णितः प्रशस्त एष मार्गो यद् उत प्रव्रज्यानिष्क्रम इति । अथ खलु मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्धानं जगमा ॥ अथ खलूपतिष्यकौलितौ परिव्राजकौ स्वपरिषदम् अवलोकयैवैवम् ऊचतुः । यत् खलु माणवका यूयं जानीध्वम् आवां जरामरणसागरपारंगमाय तथागतम् उद्दिश्य प्रव्रज्यां संप्रस्थितौ । यः पुनर् युष्माकं नेच्छति भगवतः शासने प्रव्रजितुम् इहैव निवर्ततां । सर्वाणि च तानि पंचमाणवकानां शतान्य् एवम् आहुः । यत् किंचिद् वयं जानीमस् तत् सर्वं युवयोर् अनुभावेन । नूनं युवाम् उदारस्थाने प्रव्रजितौ । यम् उद्दिश्य प्रव्रजितौ युवां तम् उद्दिश्य वयम् अपि प्रव्रजिष्यामः ॥ अथोपतिष्यकौलितौ परिव्राजकौ पंचशतपरिवारौ भगवंतम् उद्दिश्य प्रव्रज्यां संप्रस्थितौ विदित्वाथ मारः पापीमान् बहिराजगृहस्य महानगरस्य महाप्रपातम् अभिनिर्मितवान् योजनशतम् अधस्ताद् (कुरुमिय ४) यथा तौ न शक्ष्यतः श्रवणस्य गौतमस्यान्तिकम् उपसंक्रमितुम् इति । भगवांश् च पुनः तादृशम् ऋद्ध्यभिसंस्कारम् अभिसंश्चकार यथा ताव् उपतिष्यकौलितौ परिव्राजकौ तं महाप्रपातं न ददृशतुः । ऋजुना मार्गेण गच्छतः । पुनर् अपि मारः पापीमांस् तयोः पुरतः पर्वतम् अभिनिर्मिमीते दृ ॥॥। सुषिरं योजनसहस्रम् उच्चत्वेन सहस्रं च सिंहानाम् अभिनिर्मिमीते चण्डानां दुष्टानां घोराणां । तौ च सत्पुरुषौ भगवतस् तेजसार्द्ध्यनुभावेन च तं पर्वतम् अपि न ददृशतुः न च सिंहान् न च सिंहनादञ् छुश्रुवतुः । ऋजुना च मार्गेण येन भगवांस् तेनोपसंक्रामतुः । भगवांश् चानेकशतसहस्रया परिषदा परिवृतः पुरस्कृतो धर्मं देशयति स्म ॥ अथ खलु भगवान् भिक्षून् आमन्त्रयते स्म । पश्यत यूयं भिक्षवः एतौ द्वौ सत्पुरुषौ गणप्रमुखौ गणपरिवारौ । आहुः । पश्यामो वयं भगवन् ॥ भगवान् आह । एतौ द्वौ सत्पुरुषौ सपरिवारौ ममान्तिके प्रव्रजित्वा एको मम सर्वश्रावकाणां प्रज्ञावताम् अग्रो (कुरुमिय ५) भविष्यति द्वितीयो ऋद्धिमताम् ॥ अथान्यतरो भिक्षुस् तस्यां वेलायाम् इमा गाथा अभाषत ॥ एतौ च विज्ञपुरुषौ परिवारवन्तौ यौ व्याकृतौ हितकरेण नरोत्तमेन । समन्विताव् ऋद्धिधिया विशारदाव् उपेम्य् अहं गौरवजात एतौ
yāś ca devatā dṛṣṭasatyās tā gaganasthitās tābhyāṃ satpuruṣābhyāṃ sādhukāraṃ (Kurumiya 3) pradaduḥ / sādhu sādhu satpuruṣau sarvalokaviśiṣṭa eṣa mārgo yad uta pravrajyāniṣkramaḥ / sarvaduḥkhopaśānta eṣa mārgaḥ / sarvatathāgatagocarāvatāra eṣa mārgaḥ / sarvabuddhair bhagavadbhir varṇitaḥ praśasta eṣa mārgo yad uta pravrajyāniṣkrama iti / atha khalu māraḥ pāpīmān duḥkhito durmanā vipratisārī tatraivāntardhānaṃ jagamā // atha khalūpatiṣyakaulitau parivrājakau svapariṣadam avalokayaivaivam ūcatuḥ / yat khalu māṇavakā yūyaṃ jānīdhvam āvāṃ jarāmaraṇasāgarapāraṃgamāya tathāgatam uddiśya pravrajyāṃ saṃprasthitau / yaḥ punar yuṣmākaṃ necchati bhagavataḥ śāsane pravrajitum ihaiva nivartatāṃ / sarvāṇi ca tāni paṃcamāṇavakānāṃ śatāny evam āhuḥ / yat kiṃcid vayaṃ jānīmas tat sarvaṃ yuvayor anubhāvena / nūnaṃ yuvām udārasthāne pravrajitau / yam uddiśya pravrajitau yuvāṃ tam uddiśya vayam api pravrajiṣyāmaḥ // athopatiṣyakaulitau parivrājakau paṃcaśataparivārau bhagavaṃtam uddiśya pravrajyāṃ saṃprasthitau viditvātha māraḥ pāpīmān bahirājagṛhasya mahānagarasya mahāprapātam abhinirmitavān yojanaśatam adhastād (Kurumiya 4) yathā tau na śakṣyataḥ śravaṇasya gautamasyāntikam upasaṃkramitum iti / bhagavāṃś ca punaḥ tādṛśam ṛddhyabhisaṃskāram abhisaṃścakāra yathā tāv upatiṣyakaulitau parivrājakau taṃ mahāprapātaṃ na dadṛśatuḥ / ṛjunā mārgeṇa gacchataḥ / punar api māraḥ pāpīmāṃs tayoḥ purataḥ parvatam abhinirmimīte dṛ ..... suṣiraṃ yojanasahasram uccatvena sahasraṃ ca siṃhānām abhinirmimīte caṇḍānāṃ duṣṭānāṃ ghorāṇāṃ / tau ca satpuruṣau bhagavatas tejasārddhyanubhāvena ca taṃ parvatam api na dadṛśatuḥ na ca siṃhān na ca siṃhanādañ chuśruvatuḥ / ṛjunā ca mārgeṇa yena bhagavāṃs tenopasaṃkrāmatuḥ / bhagavāṃś cānekaśatasahasrayā pariṣadā parivṛtaḥ puraskṛto dharmaṃ deśayati sma // atha khalu bhagavān bhikṣūn āmantrayate sma / paśyata yūyaṃ bhikṣavaḥ etau dvau satpuruṣau gaṇapramukhau gaṇaparivārau / āhuḥ / paśyāmo vayaṃ bhagavan // bhagavān āha / etau dvau satpuruṣau saparivārau mamāntike pravrajitvā eko mama sarvaśrāvakāṇāṃ prajñāvatām agro (Kurumiya 5) bhaviṣyati dvitīyo ṛddhimatām // athānyataro bhikṣus tasyāṃ velāyām imā gāthā abhāṣata // etau ca vijñapuruṣau parivāravantau yau vyākṛtau hitakareṇa narottamena / samanvitāv ṛddhidhiyā viśāradāv upemy ahaṃ gauravajāta etau
Sanskrit only: no published translation is held for this verse.
अथ खलु स भिक्षुर् उत्थायासनाद् बहुभिर् भिक्षुभिः सार्धं बहुभिश् च गृहस्थप्रव्रजितैर् अभ्युद्गम्य तौ सत्पुरुषौ पर्युपासते स्म । अथ तौ सत्पुरुषौ येन भगवांस् तेनोपजग्मतुः । उपेत्य भगवतः पादौ शिरसाभिवन्द्य तृप्रदक्षिणं कृत्वा भगवतः पुरतः स्थित्वा भगवंतम् एतद् ऊचुः । लभेवह्य् आवां वा भगवतो ऽन्तिके प्रव्रज्योपसंपद्भिक्षुभावम् । चरेयम् आवां भगवतो ऽन्तिके ब्रह्मचर्यं ॥ भगवान् आह । किंनाम युवां कुलपुत्रौ । उपतिष्य आह । तिष्यस्य ब्राह्मणस्याहं पुत्र उपतिष्यो नाम । माता मे शारिका नाम । ततो मे जन्म । तेन मे शारिपुत्र इति नामधेयं कृतं । अभ्यनुज्ञातो ऽहं (कुरुमिय ६) पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ कोलित आह । पिता मे कौण्डिण्यो नाम । तेन मे कौलितो नाम । माता मे मुद्गला नाम । तेन मे मौद्गल्यायन इति सामान्यं नामधेयं कृतं । कश्चिन् मे जनो कौलित-म्-इति संजानाति । कश्चिन् मौद्गल्यायन इति ॥ अभ्यनुज्ञातो ऽहं पूर्वं मातापितृभ्यां प्रव्रज्यायै ॥ भगवान् आह । चरतां शारिपुत्रमौद्गल्यायनौ सपरिवारौ ममान्तिके ब्रह्मचर्यम् इति । सैव तयोः प्रव्रज्या उपसंपद् भिक्षुभावश् च । अचिरप्रव्रजितौ च शारिपुत्रमौद्गल्यायनौ सपरिवारौ ॥ अथ मारः पापीमान् महेश्वररूपेण भगवतः पुरतः स्थित्वैवम् आह ॥ ये शास्त्रार्थपरिचरियासु निपुणा विद्यासु पारंगताः ते सर्वे प्रणमंति मत्सुचरणौ तेषाम् अहं नायकः । क्षिप्रं मच्छरणं सशिष्यपरिषं गच्छाद्य भो गौतम स्फीतं निर्वृति + + + + + तं वक्ष्यामि मार्गं तव
atha khalu sa bhikṣur utthāyāsanād bahubhir bhikṣubhiḥ sārdhaṃ bahubhiś ca gṛhasthapravrajitair abhyudgamya tau satpuruṣau paryupāsate sma / atha tau satpuruṣau yena bhagavāṃs tenopajagmatuḥ / upetya bhagavataḥ pādau śirasābhivandya tṛpradakṣiṇaṃ kṛtvā bhagavataḥ purataḥ sthitvā bhagavaṃtam etad ūcuḥ / labhevahy āvāṃ vā bhagavato 'ntike pravrajyopasaṃpadbhikṣubhāvam / careyam āvāṃ bhagavato 'ntike brahmacaryaṃ // bhagavān āha / kiṃnāma yuvāṃ kulaputrau / upatiṣya āha / tiṣyasya brāhmaṇasyāhaṃ putra upatiṣyo nāma / mātā me śārikā nāma / tato me janma / tena me śāriputra iti nāmadheyaṃ kṛtaṃ / abhyanujñāto 'haṃ (Kurumiya 6) pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai // kolita āha / pitā me kauṇḍiṇyo nāma / tena me kaulito nāma / mātā me mudgalā nāma / tena me maudgalyāyana iti sāmānyaṃ nāmadheyaṃ kṛtaṃ / kaścin me jano kaulita-m-iti saṃjānāti / kaścin maudgalyāyana iti // abhyanujñāto 'haṃ pūrvaṃ mātāpitṛbhyāṃ pravrajyāyai // bhagavān āha / caratāṃ śāriputramaudgalyāyanau saparivārau mamāntike brahmacaryam iti / saiva tayoḥ pravrajyā upasaṃpad bhikṣubhāvaś ca / acirapravrajitau ca śāriputramaudgalyāyanau saparivārau // atha māraḥ pāpīmān maheśvararūpeṇa bhagavataḥ purataḥ sthitvaivam āha // ye śāstrārthaparicariyāsu nipuṇā vidyāsu pāraṃgatāḥ te sarve praṇamaṃti matsucaraṇau teṣām ahaṃ nāyakaḥ / kṣipraṃ maccharaṇaṃ saśiṣyapariṣaṃ gacchādya bho gautama sphītaṃ nirvṛti + + + + + taṃ vakṣyāmi mārgaṃ tava
Sanskrit only: no published translation is held for this verse.
त्वन्मार्गो जगतो ऽस्य दुर्गतिवहो दुःखार्णवप्रापको मार्गो मे स चराचरस्य जगतो दुःखार्णवोच्छोषकः । किं भूयो लपसि प्रगल्भमुखरो धृष्टं सृगालस्वरः व्याभग्नो ऽसि न मारकर्म इह मे शक्तो ऽसि कर्तुं पुनः
tvanmārgo jagato 'sya durgativaho duḥkhārṇavaprāpako mārgo me sa carācarasya jagato duḥkhārṇavocchoṣakaḥ / kiṃ bhūyo lapasi pragalbhamukharo dhṛṣṭaṃ sṛgālasvaraḥ vyābhagno 'si na mārakarma iha me śakto 'si kartuṃ punaḥ
Sanskrit only: no published translation is held for this verse.
अथ मारः पापीमान् महेश्वररूपम् अंतर्धाय ब्रह्मवेषेण पुनर् भगवतः पुरतः स्थित्वैवम् आह ॥ कर्मक्लेशभवांकुरप्रमथनं यत् ते कृतं प्रज्ञया दुःखान्य् उत्सहसीह किं पुनर् इतस् सत्त्वार्थम् एवं मुने । नास्त्य् अस्मिं जगति प्रभो क्वचिद् अपि त्वत्पात्रभूतो जनः कस्मात् त्वं विगतामयो न त्वरितं निर्वासि कालो ह्य् अयम्
atha māraḥ pāpīmān maheśvararūpam aṃtardhāya brahmaveṣeṇa punar bhagavataḥ purataḥ sthitvaivam āha // karmakleśabhavāṃkurapramathanaṃ yat te kṛtaṃ prajñayā duḥkhāny utsahasīha kiṃ punar itas sattvārtham evaṃ mune / nāsty asmiṃ jagati prabho kvacid api tvatpātrabhūto janaḥ kasmāt tvaṃ vigatāmayo na tvaritaṃ nirvāsi kālo hy ayam
Sanskrit only: no published translation is held for this verse.
मध्योत्कृष्टजघन्यताम् उपगतो निर्मोक्ष्य निष्ठा जगत् निर्वास्यामि ततो निमन्त्रयसि मां शाठ्येन किं दुर्मते
madhyotkṛṣṭajaghanyatām upagato nirmokṣya niṣṭhā jagat nirvāsyāmi tato nimantrayasi māṃ śāṭhyena kiṃ durmate
Sanskrit only: no published translation is held for this verse.
अथ पुनर् अपि मारः पापीमान् दुःखितो दुर्मना विप्रतिसारी तत्रैवान्तर्धाय स्वभवनं गत्वा शोकागारं प्रविश्य निषण्णः । तत्क्षणम् एव च सर्वमारभवननिवासिनश् च सत्त्वाः परस्परं पृच्छंति स्म । को हेतुर् यद् अयम् अस्माकं महाराजः शोकागारं प्रविश्य निषण्णो न च कश्चिज् जानीते ॥ अथ पंच मारकन्याशतानि परमप्रीतिकराणि पुष्पमाल्यविलेपनानि गृहीत्वा परममनोज्ञैर् वस्त्राभरणैर् आत्मानम् अलंकृत्य परममनोज्ञहर्षकराणि दिव्यानि तूर्याणि प्रवादयंत्यः परममनोज्ञस्वरेण नृत्यंत्यो गायंत्यो वादयंत्यो महता दिव्येन पंचांगिकेन तूर्येण रतिक्रीडायुक्तेन मारस्य पापीमतः पुरतः स्थिताः । स च मारः पापीमान् बाहून् प्रगृह्य प्रक्रोशितुम् आरब्धः । मा शब्दं कुरुत मा शब्दं कुरुतेति । एवम् उक्ताश् च मुहूर्तं ता अप्सरसस् तूष्णीं तस्थुः । पुनर् अपि प्रगायंत्यस् तूर्याणि पराजघ्नुः । मारश् च पापीमान् पुनर् अपि बाहुद्वयम् उत्क्षिप्य प्रक्रोशितुम् आरब्धो यावत् सप्तकृत्वस् ता अप्सरसस् तां रतिनिबद्धनृत्तवा ॥॥॥॥॥ पुनर् मारः पापीमान् तथैव (कुरुमिय ९) बाहुद्वयम् उन्नाम्योत्क्रोशं चकार । मा शब्दं कृध्वं मा शब्दं कृध्वम् इति । एवम् उक्ताश् च ता अप्सरसस् तूष्णीं तस्थुः ॥ अथ खलु विद्युद्वल्गुस्वरा नामाप्सरा येन मारः पापीमांस् तेनांजलिं प्रणाम्यैवम् आह । किं ते विभो च्युतिनिमित्तम् इहाद्य दृष्टं किं वा जगद् धुतवहाकुलम् अद्य जातं । शत्रुस् तवाधिकबलः किम् इहास्ति कश्चित् + + + + + + समाश्रयसे सशोकः
atha punar api māraḥ pāpīmān duḥkhito durmanā vipratisārī tatraivāntardhāya svabhavanaṃ gatvā śokāgāraṃ praviśya niṣaṇṇaḥ / tatkṣaṇam eva ca sarvamārabhavananivāsinaś ca sattvāḥ parasparaṃ pṛcchaṃti sma / ko hetur yad ayam asmākaṃ mahārājaḥ śokāgāraṃ praviśya niṣaṇṇo na ca kaścij jānīte // atha paṃca mārakanyāśatāni paramaprītikarāṇi puṣpamālyavilepanāni gṛhītvā paramamanojñair vastrābharaṇair ātmānam alaṃkṛtya paramamanojñaharṣakarāṇi divyāni tūryāṇi pravādayaṃtyaḥ paramamanojñasvareṇa nṛtyaṃtyo gāyaṃtyo vādayaṃtyo mahatā divyena paṃcāṃgikena tūryeṇa ratikrīḍāyuktena mārasya pāpīmataḥ purataḥ sthitāḥ / sa ca māraḥ pāpīmān bāhūn pragṛhya prakrośitum ārabdhaḥ / mā śabdaṃ kuruta mā śabdaṃ kuruteti / evam uktāś ca muhūrtaṃ tā apsarasas tūṣṇīṃ tasthuḥ / punar api pragāyaṃtyas tūryāṇi parājaghnuḥ / māraś ca pāpīmān punar api bāhudvayam utkṣipya prakrośitum ārabdho yāvat saptakṛtvas tā apsarasas tāṃ ratinibaddhanṛttavā .......... punar māraḥ pāpīmān tathaiva (Kurumiya 9) bāhudvayam unnāmyotkrośaṃ cakāra / mā śabdaṃ kṛdhvaṃ mā śabdaṃ kṛdhvam iti / evam uktāś ca tā apsarasas tūṣṇīṃ tasthuḥ // atha khalu vidyudvalgusvarā nāmāpsarā yena māraḥ pāpīmāṃs tenāṃjaliṃ praṇāmyaivam āha / kiṃ te vibho cyutinimittam ihādya dṛṣṭaṃ kiṃ vā jagad dhutavahākulam adya jātaṃ / śatrus tavādhikabalaḥ kim ihāsti kaścit + + + + + + samāśrayase saśokaḥ
Sanskrit only: no published translation is held for this verse.
मारः प्राह ॥ शत्रुर् ममास्ति बलवान् निगृहीतचेता मायासु शिक्षितमतिर् भुवि शाक्यपुत्रः । तत्प्रक्षयो यदि न चास्ति कथंचिद् एवं शून्यं करिष्यति ममेह स कामधातुम्
māraḥ prāha // śatrur mamāsti balavān nigṛhītacetā māyāsu śikṣitamatir bhuvi śākyaputraḥ / tatprakṣayo yadi na cāsti kathaṃcid evaṃ śūnyaṃ kariṣyati mameha sa kāmadhātum
Sanskrit only: no published translation is held for this verse.
कः शक्नुयात् त्रिभवबन्धनदीर्घतीरं तृष्णार्णवं क्षपयितुं वलसा + युक्तः
kaḥ śaknuyāt tribhavabandhanadīrghatīraṃ tṛṣṇārṇavaṃ kṣapayituṃ valasā + yuktaḥ
Sanskrit only: no published translation is held for this verse.
मारः प्राह । दानव्रताशयदयाप्रणिधानपाशः शून्यानिमित्तपरमास्त्रगृहीतचापः । निःशेषतो भवनिवृत्त्युपदेशकर्ता संसारनिःसृतपथप्रशमानुकूलः
māraḥ prāha / dānavratāśayadayāpraṇidhānapāśaḥ śūnyānimittaparamāstragṛhītacāpaḥ / niḥśeṣato bhavanivṛttyupadeśakartā saṃsāraniḥsṛtapathapraśamānukūlaḥ
Sanskrit only: no published translation is held for this verse.
शून्येषु ग्रामनगरेषु वनान्तरेषु गिरिकन्दरेष्व् अपि वसंति तस्य शिष्याः । ध्यानाभियुक्तमनसः प्रविविक्तचारा दोषक्षयाय सततं विधिवत् प्रयुक्ताः
śūnyeṣu grāmanagareṣu vanāntareṣu girikandareṣv api vasaṃti tasya śiṣyāḥ / dhyānābhiyuktamanasaḥ praviviktacārā doṣakṣayāya satataṃ vidhivat prayuktāḥ
Sanskrit only: no published translation is held for this verse.
ऋद्ध्या बलैः करुणया च सहायवन्ताव् उपतिष्यकौलितव् अनौ मुनिना विनीतौ । त्रैलोक्यसर्वविधिना सुविनीतधर्मा शून्यं करिष्यति स मे किल कामधातुं
ṛddhyā balaiḥ karuṇayā ca sahāyavantāv upatiṣyakaulitav anau muninā vinītau / trailokyasarvavidhinā suvinītadharmā śūnyaṃ kariṣyati sa me kila kāmadhātuṃ
Sanskrit only: no published translation is held for this verse.
अथ तानि पंचमात्राणि मारकन्याशतानि स्वयम् एव भगवतो वाक्श्रुतघोषव्याहारम् अभिश्रुत्य भूयस्य मात्रया च भगवतो ऽन्तिके प्रसादजातास् तास् तेन प्रसादप्रमोद्येन बोधिचित्तासंप्रमोषं नाम समाधिं प्रतिलेभिरे ॥ अथ खलु ता मारकन्यास् तत्र मारभवने एकांसं चीवरं प्रावृत्य दक्षिणं जानुमण्डलं पृथिव्यां प्रतिष्ठाप्यांजलिं कृत्वा यस्यां दिशि भगवान् विहरति तां दिशं निरीक्षमाणा एवम् ऊचुः ॥ तृष्णासरिन्निखिलशोषक सर्वलोकम् आलोक्य नेत्रविकलं जगद् एकचक्षुः । त्वं तारको ऽद्य जगतः सनरामरस्य बुद्धा वयं कथम् इहाशु मुने भवेम
atha tāni paṃcamātrāṇi mārakanyāśatāni svayam eva bhagavato vākśrutaghoṣavyāhāram abhiśrutya bhūyasya mātrayā ca bhagavato 'ntike prasādajātās tās tena prasādapramodyena bodhicittāsaṃpramoṣaṃ nāma samādhiṃ pratilebhire // atha khalu tā mārakanyās tatra mārabhavane ekāṃsaṃ cīvaraṃ prāvṛtya dakṣiṇaṃ jānumaṇḍalaṃ pṛthivyāṃ pratiṣṭhāpyāṃjaliṃ kṛtvā yasyāṃ diśi bhagavān viharati tāṃ diśaṃ nirīkṣamāṇā evam ūcuḥ // tṛṣṇāsarinnikhilaśoṣaka sarvalokam ālokya netravikalaṃ jagad ekacakṣuḥ / tvaṃ tārako 'dya jagataḥ sanarāmarasya buddhā vayaṃ katham ihāśu mune bhavema
Sanskrit only: no published translation is held for this verse.
नरदेवपूज्य भगवन् परमार्थवादिन् स्त्रीत्वं जुगुप्सितम् अपोह्य वयं समग्राः । ऋद्ध्या तवोत्तममते त्वरितं समीपे गत्वा मुनीन्द्रवचनं श्रुणुयाम एवं
naradevapūjya bhagavan paramārthavādin strītvaṃ jugupsitam apohya vayaṃ samagrāḥ / ṛddhyā tavottamamate tvaritaṃ samīpe gatvā munīndravacanaṃ śruṇuyāma evaṃ
Sanskrit only: no published translation is held for this verse.
बोधाय शीघ्रम् अधुना समं व्याकुरुष्व
bodhāya śīghram adhunā samaṃ vyākuruṣva
Sanskrit only: no published translation is held for this verse.
अथ खलु मारकन्या उत्थायासनाद् एककण्ठेन मारं पापीमन्तम् एतद् ऊचुः ॥ त्वं नाम दुष्कृतमते भगवत्सकाशे दुष्टः कथं शृयम् अवाप्य चलाम् असाराम् । जात्यादिदुःखसमुपद्रुतसर्वमूर्तिः घोरां दशाम् उपगतो ऽसि मदावलिप्तः
atha khalu mārakanyā utthāyāsanād ekakaṇṭhena māraṃ pāpīmantam etad ūcuḥ // tvaṃ nāma duṣkṛtamate bhagavatsakāśe duṣṭaḥ kathaṃ śṛyam avāpya calām asārām / jātyādiduḥkhasamupadrutasarvamūrtiḥ ghorāṃ daśām upagato 'si madāvaliptaḥ
Sanskrit only: no published translation is held for this verse.
श्रद्धां जिने कुरु तथा व्यपनीय रोषं संसारदोषमदपंकसमुद्धृतात्मा । एष स्वयं विदितसर्वजगस्वभाव आगच्छ कारुणिकम् आशु गतिं प्रयामः
śraddhāṃ jine kuru tathā vyapanīya roṣaṃ saṃsāradoṣamadapaṃkasamuddhṛtātmā / eṣa svayaṃ viditasarvajagasvabhāva āgaccha kāruṇikam āśu gatiṃ prayāmaḥ
Sanskrit only: no published translation is held for this verse.
अथ खलु मारस्य पापीमतः परमदुष्टमनसः एतद् अभूत् । यन् न्व् अहं तादृशं मारबलविषयवेगं समनुस्मरेयं यद् एतानि पंच परिचारिकाशतानि पंचपाशबन्धनबद्धाम् आत्मान संपश्येयुर् इहैव निवर्तेरन् न पुनर् गन्तुं शक्नुयुः । स च मारस् तानि बन्द्धुं न शक्तः । तत् कुतस् तथा हि तानि पंच परिचारिकाशतानि तथागताधिष्ठानानि ॥ अथ खलु ताः पंचशतपरिचारिका मारस्य पापीमतो ऽन्तिकात् प्रचक्रमुः । (कुरुमिय १४) अथ मारः पापीमान् भूयस्या मात्रया रुष्टः । तस्यैतद् अभवत् । यन् न्व् अहं पुनर् अपि तादृशं मारबलविषयवेगं समनुस्मरेयं यत् सर्वम् इदम् आकाशवैरंभसंघातैर् महाकालमेघैर् महाकालवायुभिश् चावृतं यथा ता एव परिचारिकाः सर्वा दिग्विदिक्षु संभ्रान्ताः श्रमणं गौतमं न पश्येयुः । पुनर् एव मे भवनम् आगच्छेयुः । तथापि बुद्धाधिष्टानबलेन कियन्तम् अपि वायुं न शक्नोत्य् उत्पादयितुं यो ऽन्ततो बालाग्रम् अपि कंपयेत् प्राग् एव बहुतरम् । अथ मारः पापीमान् भूयस्य मात्रया दुष्टदुःखितो दुर्मना विप्रतिसारी रुदन् महास्वरेण स्वपुत्रगणपारिषद्यान् विक्रोशन् सर्वं मारभवनं शब्देन पूरयाम् आस । आगच्छथ प्रियसुता गणपारिषद्या भ्रष्टा वयं स्वविषयात् स्वबलाच् च रिद्धेः । जातो ऽत्र एष विषवृक्ष इवान्तरात्मा मायाशठो मधुरवाग् इह शाक्यपुत्रः
atha khalu mārasya pāpīmataḥ paramaduṣṭamanasaḥ etad abhūt / yan nv ahaṃ tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yad etāni paṃca paricārikāśatāni paṃcapāśabandhanabaddhām ātmāna saṃpaśyeyur ihaiva nivarteran na punar gantuṃ śaknuyuḥ / sa ca māras tāni banddhuṃ na śaktaḥ / tat kutas tathā hi tāni paṃca paricārikāśatāni tathāgatādhiṣṭhānāni // atha khalu tāḥ paṃcaśataparicārikā mārasya pāpīmato 'ntikāt pracakramuḥ / (Kurumiya 14) atha māraḥ pāpīmān bhūyasyā mātrayā ruṣṭaḥ / tasyaitad abhavat / yan nv ahaṃ punar api tādṛśaṃ mārabalaviṣayavegaṃ samanusmareyaṃ yat sarvam idam ākāśavairaṃbhasaṃghātair mahākālameghair mahākālavāyubhiś cāvṛtaṃ yathā tā eva paricārikāḥ sarvā digvidikṣu saṃbhrāntāḥ śramaṇaṃ gautamaṃ na paśyeyuḥ / punar eva me bhavanam āgaccheyuḥ / tathāpi buddhādhiṣṭānabalena kiyantam api vāyuṃ na śaknoty utpādayituṃ yo 'ntato bālāgram api kaṃpayet prāg eva bahutaram / atha māraḥ pāpīmān bhūyasya mātrayā duṣṭaduḥkhito durmanā vipratisārī rudan mahāsvareṇa svaputragaṇapāriṣadyān vikrośan sarvaṃ mārabhavanaṃ śabdena pūrayām āsa / āgacchatha priyasutā gaṇapāriṣadyā bhraṣṭā vayaṃ svaviṣayāt svabalāc ca riddheḥ / jāto 'tra eṣa viṣavṛkṣa ivāntarātmā māyāśaṭho madhuravāg iha śākyaputraḥ
Sanskrit only: no published translation is held for this verse.
अथ तेन शब्देन सर्वास् ता मारकन्याः मारदुहितराश् च सर्वे च मारपुत्रा (कुरुमिय १५) गणपार्षद्याश् च त्वरितमानरूपाः शीघ्रम् उपगम्य मारस्य पापीमतः पुरतस् तस्थुः । तस्यां च परिषदि जयमतिर् नाम मारपुत्रः । स प्रांजलिर् भूत्वैवम् आह । किं दुर्मनाः परमकोपविदुष्टचेता नो कल्पदाह इह न च्युतिर् अद्य ते ऽस्मात् । शत्रुर् न चास्ति तव कश्चिद् इह प्रवृद्धो मोहं गतो ऽसि किम् इवान्यमतिर् व कस्मात्
atha tena śabdena sarvās tā mārakanyāḥ māraduhitarāś ca sarve ca māraputrā (Kurumiya 15) gaṇapārṣadyāś ca tvaritamānarūpāḥ śīghram upagamya mārasya pāpīmataḥ puratas tasthuḥ / tasyāṃ ca pariṣadi jayamatir nāma māraputraḥ / sa prāṃjalir bhūtvaivam āha / kiṃ durmanāḥ paramakopaviduṣṭacetā no kalpadāha iha na cyutir adya te 'smāt / śatrur na cāsti tava kaścid iha pravṛddho mohaṃ gato 'si kim ivānyamatir va kasmāt
Sanskrit only: no published translation is held for this verse.
मारः प्राह । न त्वं पश्यसि शाक्यपुत्रविषलञ् छायानिषण्णं द्रुमे यद् वाक्यं वदसीह नास्ति बलवाञ् छत्रुस् तवेत्य् अग्रतः । सर्वे तेन शठेन चैकबलिना संभ्रामिता नैकशो अङ्गारेण वयं सुताश् च चमवः यद्वद् विदह्यामहे
māraḥ prāha / na tvaṃ paśyasi śākyaputraviṣalañ chāyāniṣaṇṇaṃ drume yad vākyaṃ vadasīha nāsti balavāñ chatrus tavety agrataḥ / sarve tena śaṭhena caikabalinā saṃbhrāmitā naikaśo aṅgāreṇa vayaṃ sutāś ca camavaḥ yadvad vidahyāmahe
Sanskrit only: no published translation is held for this verse.
विद्वांसो बहुशास्त्रकाव्यरचनाव्यग्राः समग्रा द्रुतम् । एतं शाक्यसुतं गता द्य शरमं धर्माङ्कुशेनोद्धृता तत्व् एष प्रियविग्रहः शठमतिः शत्रुर् ममात्युद्धतः
vidvāṃso bahuśāstrakāvyaracanāvyagrāḥ samagrā drutam / etaṃ śākyasutaṃ gatā dya śaramaṃ dharmāṅkuśenoddhṛtā tatv eṣa priyavigrahaḥ śaṭhamatiḥ śatrur mamātyuddhataḥ
Sanskrit only: no published translation is held for this verse.
एता वै परिचारिकाः प्रियतमाः प्रोत्सृज्य मां निष्कृपाः भो भोस् तं श्रमणं गता द्य शरणं कृत्वापि मां साक्षिणम् । कुर्यात् कृत्स्नम् इदं भवत्रयम् अतः शून्यं शठो मायया भस्मीकुर्म इहाद्य यद्य् अतिबलं नाशु प्रयत्नाद् वयं
etā vai paricārikāḥ priyatamāḥ protsṛjya māṃ niṣkṛpāḥ bho bhos taṃ śramaṇaṃ gatā dya śaraṇaṃ kṛtvāpi māṃ sākṣiṇam / kuryāt kṛtsnam idaṃ bhavatrayam ataḥ śūnyaṃ śaṭho māyayā bhasmīkurma ihādya yady atibalaṃ nāśu prayatnād vayaṃ
Sanskrit only: no published translation is held for this verse.
अथ ते सर्वे मारपुत्राः सगणपार्षद्याः प्राञ्जलयो भूत्वैवम् आहुः । एवम् अस्तु यद् अस्माकम् ऋद्धिबलविषयानुभावविकुर्वितं सर्वं दर्शयिष्यामः । यदि शक्ष्याम एतं शाक्यपुत्रं भस्मीकर्तुम् इत्य् एवं कुशलम् । यद्य् एवं न शक्ष्यामस् तं शरणं गमिष्यामः । स्वयम् एव तात प्रत्यक्षो ऽसि यद् वयं महासैन्यपरिवृताः प्राग् एव एकाकिनाद्वितीयेनानेन शाक्यपुत्रेणर्द्धिबलेन पराजिताः किं पुनर् एतर्ह्य् अनेकपरिवारपरिवृतेन । मारः पापीमान् एवम् आह । गच्छत तावद् भद्रमुखाः । यदि शक्नुतैनं श्रमणं गौतमं घातयितुं पुनर् आगच्छत ॥ अथ न शक्तास् तथाप्य् आगच्छत । स्वभवनं पुनः परिपालयिष्यामः ॥ अथ मारपर्षद्द्वादशबिंबराणि ततो ऽतिक्रम्य इत ऊर्ध्वं यावच् (कुरुमिय १७) चतुराशीतिं योजनसहस्राणि स्फरित्वा तादृशं मारबलरिद्धिवेगं दर्शयाम् आसुः । सर्वचातुर्द्वीपिकायाम् आकाशं महाकालमेघैर् आपूरयाम् आसुः । महाकालवायुभिश् चोल्कापातैश् च सुमेरुं पर्वतराजानं पाणिभिः पराजघ्नुः । सर्वं चातुर्द्वीपिकां प्रकम्पयाम् आसुः । परमभैरवांश् च शब्दान् समुत्ससर्जुः । यतो नागा महानागाः यतो यक्षा महायक्षाः सर्वावन्त्या महापृथिव्याः सगिरिशैलपर्वतायाः सुमेरोश् च पर्वतराज्ञः कंपं विदित्वा सरसां महासरसां नदीकुनदीमहानदीनां महासमुद्राणां च संक्षोभं ज्ञात्वा गगनतले तस्थुः । सा च मारपर्षत् सुमेरुमूर्धनि स्थित्वा योजनप्रमाणां वृष्टिम् अभिनिर्मिमीयांगमगधेषु समुत्ससर्ज । महान्तं चासिमुसलपाषाणतोमरभिण्डिपालनाराचक्षुरप्रक्षुरमुखक्षुरकल्पवासिमुखवासिधारकरालचक्रविकरालचक्रदृढखरपरुषरूक्षवर्षं निर्मायोत्ससर्ज ॥ अथ भगवांश् तस्मिन् समये मारमण्डलविध्वंसनं नाम समाधिं समापदे । यत् सर्वां शिलाप्रहरणवृष्टिं दिव्योत्पलपद्मकुमुदपुण्डरीकमान्दारवमहामान्दारवपुष्पवृष्टिम् अध्यतिष्ठत् । (कुरुमिय १८) तांश् च शब्दान् नानावाद्यान् अध्यतिष्ठत् । यद् उत बुद्धशब्दं धर्मशब्दं संघशब्दं पारमिताशब्दं अभिज्ञाशब्दं अवैवर्तिकशब्दं अभिषेकशब्दं चतुर्मारपराजयशब्दं बोधिमण्डोपसंक्रमणशब्दं यावत् सोपादाननिरुपादानशब्दान् अध्यतिष्ठत् ॥ सर्वा रजोन्धकारवायवः प्रशेमुः । ये केचिद् इह चातुर्द्वीपिके तृणगुल्मौषधिवनस्पतिक्षितिशैलपर्वतास् तान् सर्वान् सप्तरत्नमयान् अध्यतिष्ठत् ॥ अनवलोक्यमूर्ध्नो भगवान् यावद् ब्रह्मलोकं कायेन वशं वर्तयाम् आस । एकैकस्माच् च लक्षणाद् भगवतस् तादृशी प्रभा निश्चचार यया प्रभया तृसाहस्रमहासाहस्री लोकधातुर् उदारेणावभासेन स्फुटो ऽभूत् । ये चास्यां त्रिसाहस्रमहासाहस्र्यां लोकधातौ देवनागयक्षगन्धर्वासुरगरुडकिन्नरमहोरगप्रेतपिशाचकुम्भाण्डमनुष्यामनुष्या नैरयिका वा तैर्यग्योनिका वा यामलौकिका वा ते सर्वे भगवंतम् अद्राक्षुः । बहूनि च देवनागयक्षमनुष्यामनुष्यशतसहस्राणि गगनस्थाः पुष्पैर् अवकीर्य प्रदक्षिणं चक्रुः स्तुवंतो नमश् चक्रुः । बहूनि च नैरयिकतैर्यग्योनिकयामलौकिकाक्षोभ्यकोटीशतसहस्राणि स्मृतिं प्रतिलेभिरे । पूर्वावरोपितकुशलमूलम् अनुस्मृत्य नमो बुद्धायेति कृत्वा तेभ्यो (कुरुमिय १९) ऽपायेभ्यश् चवित्वा देवेषूपपन्नाः ॥ ततश् च मारसैन्या द्वाविंशतिमारपुत्रशतसहस्राणि सगणपार्षद्यानि भगवत एवंरूपं प्रातिहार्यं दृष्ट्वा भगवतो ऽन्तिके ऽतीव प्रसादं प्रतिलब्ध्वा येन भगवांस् तेनोपजग्मुः । उपेत्य सार्धं तैः पंचभिर् मारकन्याशतैर् भगवतः पादौ शिरसाभिवन्द्यांजलीन् प्रगृह्याभिर् गाथाभिर् अधिभाषंते स्म ॥ विशुद्धमूर्ते परमाभिरूप ज्ञानोदधे कांचनमेरुतुल्य । वितत्य लोकं यशसा विभासि त्वाम् एव नाथं शरणं व्रजामः
atha te sarve māraputrāḥ sagaṇapārṣadyāḥ prāñjalayo bhūtvaivam āhuḥ / evam astu yad asmākam ṛddhibalaviṣayānubhāvavikurvitaṃ sarvaṃ darśayiṣyāmaḥ / yadi śakṣyāma etaṃ śākyaputraṃ bhasmīkartum ity evaṃ kuśalam / yady evaṃ na śakṣyāmas taṃ śaraṇaṃ gamiṣyāmaḥ / svayam eva tāta pratyakṣo 'si yad vayaṃ mahāsainyaparivṛtāḥ prāg eva ekākinādvitīyenānena śākyaputreṇarddhibalena parājitāḥ kiṃ punar etarhy anekaparivāraparivṛtena / māraḥ pāpīmān evam āha / gacchata tāvad bhadramukhāḥ / yadi śaknutainaṃ śramaṇaṃ gautamaṃ ghātayituṃ punar āgacchata // atha na śaktās tathāpy āgacchata / svabhavanaṃ punaḥ paripālayiṣyāmaḥ // atha māraparṣaddvādaśabiṃbarāṇi tato 'tikramya ita ūrdhvaṃ yāvac (Kurumiya 17) caturāśītiṃ yojanasahasrāṇi spharitvā tādṛśaṃ mārabalariddhivegaṃ darśayām āsuḥ / sarvacāturdvīpikāyām ākāśaṃ mahākālameghair āpūrayām āsuḥ / mahākālavāyubhiś colkāpātaiś ca sumeruṃ parvatarājānaṃ pāṇibhiḥ parājaghnuḥ / sarvaṃ cāturdvīpikāṃ prakampayām āsuḥ / paramabhairavāṃś ca śabdān samutsasarjuḥ / yato nāgā mahānāgāḥ yato yakṣā mahāyakṣāḥ sarvāvantyā mahāpṛthivyāḥ sagiriśailaparvatāyāḥ sumeroś ca parvatarājñaḥ kaṃpaṃ viditvā sarasāṃ mahāsarasāṃ nadīkunadīmahānadīnāṃ mahāsamudrāṇāṃ ca saṃkṣobhaṃ jñātvā gaganatale tasthuḥ / sā ca māraparṣat sumerumūrdhani sthitvā yojanapramāṇāṃ vṛṣṭim abhinirmimīyāṃgamagadheṣu samutsasarja / mahāntaṃ cāsimusalapāṣāṇatomarabhiṇḍipālanārācakṣuraprakṣuramukhakṣurakalpavāsimukhavāsidhārakarālacakravikarālacakradṛḍhakharaparuṣarūkṣavarṣaṃ nirmāyotsasarja // atha bhagavāṃś tasmin samaye māramaṇḍalavidhvaṃsanaṃ nāma samādhiṃ samāpade / yat sarvāṃ śilāpraharaṇavṛṣṭiṃ divyotpalapadmakumudapuṇḍarīkamāndāravamahāmāndāravapuṣpavṛṣṭim adhyatiṣṭhat / (Kurumiya 18) tāṃś ca śabdān nānāvādyān adhyatiṣṭhat / yad uta buddhaśabdaṃ dharmaśabdaṃ saṃghaśabdaṃ pāramitāśabdaṃ abhijñāśabdaṃ avaivartikaśabdaṃ abhiṣekaśabdaṃ caturmāraparājayaśabdaṃ bodhimaṇḍopasaṃkramaṇaśabdaṃ yāvat sopādānanirupādānaśabdān adhyatiṣṭhat // sarvā rajondhakāravāyavaḥ praśemuḥ / ye kecid iha cāturdvīpike tṛṇagulmauṣadhivanaspatikṣitiśailaparvatās tān sarvān saptaratnamayān adhyatiṣṭhat // anavalokyamūrdhno bhagavān yāvad brahmalokaṃ kāyena vaśaṃ vartayām āsa / ekaikasmāc ca lakṣaṇād bhagavatas tādṛśī prabhā niścacāra yayā prabhayā tṛsāhasramahāsāhasrī lokadhātur udāreṇāvabhāsena sphuṭo 'bhūt / ye cāsyāṃ trisāhasramahāsāhasryāṃ lokadhātau devanāgayakṣagandharvāsuragaruḍakinnaramahoragapretapiśācakumbhāṇḍamanuṣyāmanuṣyā nairayikā vā tairyagyonikā vā yāmalaukikā vā te sarve bhagavaṃtam adrākṣuḥ / bahūni ca devanāgayakṣamanuṣyāmanuṣyaśatasahasrāṇi gaganasthāḥ puṣpair avakīrya pradakṣiṇaṃ cakruḥ stuvaṃto namaś cakruḥ / bahūni ca nairayikatairyagyonikayāmalaukikākṣobhyakoṭīśatasahasrāṇi smṛtiṃ pratilebhire / pūrvāvaropitakuśalamūlam anusmṛtya namo buddhāyeti kṛtvā tebhyo (Kurumiya 19) 'pāyebhyaś cavitvā deveṣūpapannāḥ // tataś ca mārasainyā dvāviṃśatimāraputraśatasahasrāṇi sagaṇapārṣadyāni bhagavata evaṃrūpaṃ prātihāryaṃ dṛṣṭvā bhagavato 'ntike 'tīva prasādaṃ pratilabdhvā yena bhagavāṃs tenopajagmuḥ / upetya sārdhaṃ taiḥ paṃcabhir mārakanyāśatair bhagavataḥ pādau śirasābhivandyāṃjalīn pragṛhyābhir gāthābhir adhibhāṣaṃte sma // viśuddhamūrte paramābhirūpa jñānodadhe kāṃcanamerutulya / vitatya lokaṃ yaśasā vibhāsi tvām eva nāthaṃ śaraṇaṃ vrajāmaḥ
Sanskrit only: no published translation is held for this verse.
प्रणष्टमार्गे विनिमीलिताक्षे उल्कायसे त्वं जगतीव सूर्यः । अपराजितप्राणभृद् एकबन्धो त्वां सार्थवाहं शरणं व्रजामः
praṇaṣṭamārge vinimīlitākṣe ulkāyase tvaṃ jagatīva sūryaḥ / aparājitaprāṇabhṛd ekabandho tvāṃ sārthavāhaṃ śaraṇaṃ vrajāmaḥ
Sanskrit only: no published translation is held for this verse.
सुसंभृतज्ञानसमृद्धकोश नभःस्वभावादिविमुक्तचित्त । करुणाशय स्निग्धमनोज्ञवाक्य सर्वार्थसिद्धं शरणं व्रजामः
susaṃbhṛtajñānasamṛddhakośa nabhaḥsvabhāvādivimuktacitta / karuṇāśaya snigdhamanojñavākya sarvārthasiddhaṃ śaraṇaṃ vrajāmaḥ
Sanskrit only: no published translation is held for this verse.
मैत्राविहारी परमविधिज्ञ करुणाविहारींश् छरणम् व्रजामः
maitrāvihārī paramavidhijña karuṇāvihārīṃś charaṇam vrajāmaḥ
Sanskrit only: no published translation is held for this verse.
मायामरीचिदगचन्द्रसन्निभे भवे ऽप्रसक्ताविषयाश्रयेण । अज्ञानरुग्नाशक लोकनाथ त्वां वैद्यराजं शरणं व्रजामः
māyāmarīcidagacandrasannibhe bhave 'prasaktāviṣayāśrayeṇa / ajñānarugnāśaka lokanātha tvāṃ vaidyarājaṃ śaraṇaṃ vrajāmaḥ
Sanskrit only: no published translation is held for this verse.
त्वं सेतुभूतश् चतुरौघमध्याद् उत्तारकः सप्तधनार्यवृत्तैः । सन्मार्गसन्दर्शक लोकबन्धो कृपान्वितं त्वाम् इह पूजयामः
tvaṃ setubhūtaś caturaughamadhyād uttārakaḥ saptadhanāryavṛttaiḥ / sanmārgasandarśaka lokabandho kṛpānvitaṃ tvām iha pūjayāmaḥ
Sanskrit only: no published translation is held for this verse.
क्षम्यामहे त्वां वयम् अग्रबुद्द्धिम् आसं प्रदुष्टास् त्वयि यद् वयं तु । तम् अत्ययं वीर गृहाण नाथ त्वम् एकबन्धुर् जगति प्रधानः
kṣamyāmahe tvāṃ vayam agrabudddhim āsaṃ praduṣṭās tvayi yad vayaṃ tu / tam atyayaṃ vīra gṛhāṇa nātha tvam ekabandhur jagati pradhānaḥ
Sanskrit only: no published translation is held for this verse.
वयं समुत्सृज्य हि मारपक्षम् उत्पादयामो वरबोधिचित्तम् निमंत्रयामः किल सर्वसत्त्वान् (कुरुमिय २१) बोधिं लभेमो वयम् उत्तमातु
vayaṃ samutsṛjya hi mārapakṣam utpādayāmo varabodhicittam nimaṃtrayāmaḥ kila sarvasattvān (Kurumiya 21) bodhiṃ labhemo vayam uttamātu
Sanskrit only: no published translation is held for this verse.
निदर्शयास्माकम् उदारचर्यां यथा वयं पारमिताश् चरेम । अनन्यवादैः कतिभिस् तु धर्मैः समन्विता बोधिम् अवाप्नुवंति
nidarśayāsmākam udāracaryāṃ yathā vayaṃ pāramitāś carema / ananyavādaiḥ katibhis tu dharmaiḥ samanvitā bodhim avāpnuvaṃti
Sanskrit only: no published translation is held for this verse.
पुष्पाणि यत् ते ऽभिमुखं क्षिपामश् छत्राणि तान्य् एव तु सर्वदिक्षु । तिष्ठंतु मूर्ध्नि द्विपदोत्तमानां क्षेत्रेषु सर्वर्तुसुखाकरेषु
puṣpāṇi yat te 'bhimukhaṃ kṣipāmaś chatrāṇi tāny eva tu sarvadikṣu / tiṣṭhaṃtu mūrdhni dvipadottamānāṃ kṣetreṣu sarvartusukhākareṣu
Sanskrit only: no published translation is held for this verse.
तूष्णीं स्थिता वयम् अनन्यमनःप्रतर्काः शाक्यात्मजं कथं इम्ऽ; अद्य तु घातयेम
tūṣṇīṃ sthitā vayam ananyamanaḥpratarkāḥ śākyātmajaṃ kathaṃ im'; adya tu ghātayema
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.