Library·Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya·4·4.1

Badarayana: Brahmasutra, with Samkara's Sarirakamimamsabhasya 4.1

आवृत्तिर् असकृदुपदेशात् तृतीये अध्याये परा अपरासु विद्यासु साधन आश्रयो विचारः प्रायेणात्यगात् । अथ इह चतुर्थे फलाश्रय आगमिष्यति । प्रसङ्गागतं च अन्यदपि किञ्चित् चिन्तयिष्यते । प्रथमं तावत् कतिभिः चिदधिकरणैः साधन आश्रयविचारशेषमेव अनुसरामः । ऽआत्मा वा अरे द्रष्टव्यः श्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ। ४।४।२१) ऽतमेव धीरो विज्ञाय प्रज्ञां कुर्वीतऽ(बृ। ४।५।६) ऽसो ऽन्वेष्टव्यः स विजिज्ञासितव्यःऽ (छा। ८।७।१) इति च एवमादिश्रवणेषु संशयः - किं सकृत् प्रत्ययः कर्तव्य आहोस्वित् आवृत्त्य इति । किं तावत् प्राप्तं सकृत् प्रत्ययः स्यात् प्रयाजादिवत् । तावता शास्त्रस्य कृतार्थत्वात् । अश्रूयमाणायां क्रियमाणायाम् अशास्त्रार्थः कृतो भवेत् । ननु असकृत् उपदेशा उदाहृताः श्रोतव्यो मन्तव्यो निदिध्यासितव्य इति एवमादयः । एवम् अपि यावत् शब्दम् आवर्तयेत् सकृत् श्रवणं सकृत् मननं सकृत् निदिध्यासनं च इति न अतिरिक्तम् । सकृत् उपदेशेषु तु वेद उपासीत इति एवमादिषु अनावृत्तिः इति । एवं प्राप्ते ब्रूमः - प्रत्ययावृत्तिः कर्तव्या । कुतः - असकृत् उपदेशात् । ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ इति एवञ्जातीयको हि असकृत् उपदेशः प्रत्ययावृत्तिं सूचयति । ननु उक्तं यावत् शब्दमेव आवर्तयेत् न अधिकम् इति । न । दर्शनपर्यवसितत्वात् अदोषम् । दर्शनपर्यवसानानि हि श्रवणादीनि आवर्त्यमानानि दृष्टार्थानि भवन्ति । यथा अवघातादीनि तण्डुलादि निष्पत्तिपर्यसानानि तद्वत् ॥ अपि च उपासनं निदिध्यासनं च इति अत्यन्तर्णीतावृत्तिगुण एव क्रियाभिधीयते । तथा हि - लोके गुरुम् उपास्ते राजानम् उपास्त इति च यः तात्पर्येण गुर्वादीन् अनुवर्तते स एवम् उच्यते । तथा ध्यायति प्रोषितनाथा पतिम् इति या निरन्तर स्मरणा पतिं प्रति सा उत्कण्ठा सा एवम् अभिधीयते । विद्युपास्त्योः च वेदान्तेषु अव्यतिरेकेण प्रयोगो दृश्यते । क्वचित् विदिना उपक्रम्य उपासिन उपसंहरति यथा - ऽयस्तद्वेद यत्स वेद स मयैतदुक्तःऽ (छा। ४।१।४) इति अत्र ऽअनु म एतां भगवो देवतां शाधि यां देवतामुपाःसेऽ (छा। ५।२।२) इति । क्वचित् च उपासिन उपक्रम्य विदिना उपसंहरति यथा - ऽमनो ब्रह्मेत्युपासीतऽ (छा। ३।१८।१) इति अत्र ऽभाति च तपति च कीर्त्या यशसा ब्रह्मवर्चसेन य एवं वेदऽ (छा। ३।१८।३) इति । तस्मत् सकृत् उपदेशेषु अपि आवृत्तिसिद्धिः । असकृत् उपदेशः तु आवृत्तेः सूचकः ॥ १ ॥

āvṛttir asakṛdupadeśāt tṛtīye adhyāye parā aparāsu vidyāsu sādhana āśrayo vicāraḥ prāyeṇātyagāt / atha iha caturthe phalāśraya āgamiṣyati / prasaṅgāgataṃ ca anyadapi kiñcit cintayiṣyate / prathamaṃ tāvat katibhiḥ cidadhikaraṇaiḥ sādhana āśrayavicāraśeṣameva anusarāmaḥ / 'ātmā vā are draṣṭavyaḥ śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.4.21) 'tameva dhīro vijñāya prajñāṃ kurvīta'(bṛ. 4.5.6) 'so 'nveṣṭavyaḥ sa vijijñāsitavyaḥ' (chā. 8.7.1) iti ca evamādiśravaṇeṣu saṃśayaḥ - kiṃ sakṛt pratyayaḥ kartavya āhosvit āvṛttya iti / kiṃ tāvat prāptaṃ sakṛt pratyayaḥ syāt prayājādivat / tāvatā śāstrasya kṛtārthatvāt / aśrūyamāṇāyāṃ kriyamāṇāyām aśāstrārthaḥ kṛto bhavet / nanu asakṛt upadeśā udāhṛtāḥ śrotavyo mantavyo nididhyāsitavya iti evamādayaḥ / evam api yāvat śabdam āvartayet sakṛt śravaṇaṃ sakṛt mananaṃ sakṛt nididhyāsanaṃ ca iti na atiriktam / sakṛt upadeśeṣu tu veda upāsīta iti evamādiṣu anāvṛttiḥ iti / evaṃ prāpte brūmaḥ - pratyayāvṛttiḥ kartavyā / kutaḥ - asakṛt upadeśāt / 'śrotavyo mantavyo nididhyāsitavyaḥ' iti evañjātīyako hi asakṛt upadeśaḥ pratyayāvṛttiṃ sūcayati / nanu uktaṃ yāvat śabdameva āvartayet na adhikam iti / na / darśanaparyavasitatvāt adoṣam / darśanaparyavasānāni hi śravaṇādīni āvartyamānāni dṛṣṭārthāni bhavanti / yathā avaghātādīni taṇḍulādi niṣpattiparyasānāni tadvat // api ca upāsanaṃ nididhyāsanaṃ ca iti atyantarṇītāvṛttiguṇa eva kriyābhidhīyate / tathā hi - loke gurum upāste rājānam upāsta iti ca yaḥ tātparyeṇa gurvādīn anuvartate sa evam ucyate / tathā dhyāyati proṣitanāthā patim iti yā nirantara smaraṇā patiṃ prati sā utkaṇṭhā sā evam abhidhīyate / vidyupāstyoḥ ca vedānteṣu avyatirekeṇa prayogo dṛśyate / kvacit vidinā upakramya upāsina upasaṃharati yathā - 'yastadveda yatsa veda sa mayaitaduktaḥ' (chā. 4.1.4) iti atra 'anu ma etāṃ bhagavo devatāṃ śādhi yāṃ devatāmupāḥse' (chā. 5.2.2) iti / kvacit ca upāsina upakramya vidinā upasaṃharati yathā - 'mano brahmetyupāsīta' (chā. 3.18.1) iti atra 'bhāti ca tapati ca kīrtyā yaśasā brahmavarcasena ya evaṃ veda' (chā. 3.18.3) iti / tasmat sakṛt upadeśeṣu api āvṛttisiddhiḥ / asakṛt upadeśaḥ tu āvṛtteḥ sūcakaḥ // 1 //

Sanskrit only: no published translation is held for this verse.

लिङ्गाच् च लिङ्गम् अपि प्रत्ययावृत्तिं प्रत्याययति । तथा हि उद्गीथविज्ञानं प्रस्तुत्य ऽआदित्य उद्गीथःऽ (छा। १।५।१) इति एतत् एकपुत्रतादोषेण आपोद्य ऽरशमींस्तवं पर्यावर्तयात्ऽ (छा। १।५।२) इति रश्मिबहुत्व विज्ञानं बहुपुत्रतायै विदधत् सिद्धवत् प्रत्ययावृत्तिं दर्शयति । तस्मात् तत् सामान्यात् सर्वप्रत्ययेषु आवृत्तिसिद्धिः । अत्र आह - भवतु नाम साध्यफलेषु प्रत्ययेषु आवृत्तिः । तेषु आवृत्तिसाद्यस्य अतिशयस्य संभवात् । यः तु परब्रह्मविषयः प्रत्ययो नित्य शुद्ध बुद्ध मुक्त स्वभावमेव आत्मभूतं परं ब्रह्म समर्पयति तत्र किम् अर्थावृत्तिः इति । सकृत् श्रुतौ च ब्रह्म आत्मत्वप्रतीति अनुपपत्तेः आवृत्ति अभ्युपगम इति चेत् । न । आवृत्तौ अपि तत् अनुपपत्तेः । यदि हि ऽतत्त्वमसिऽ (छा। ६।८।७) इति एवञ्जातीयकं वाक्यं सकृत् श्रूयमाणं ब्रह्मात्मत्व प्रतीतिं न उत्पादयेत् ततः तदेव आवर्त्यमानम् उत्पादयिष्यति इति का प्रत्याशा स्यात् । अथ उच्येत न केवलं वाक्यं कञ्चिदर्थं साक्षात्कर्तुं शक्नोति अतो युक्त्यपेक्षं वाक्यम् अनुभावयिष्यति ब्रह्मात्मत्वम् इति । तथा अपि आवृत्ति आनर्थक्यमेव । सा अपि हि युक्तिः सकृत् प्रवृत्तैव स्वम् अर्थम् अनुभावयिष्यति । अथापि स्यात् उक्त्या वाक्येन च सामान्यविषयमेव विज्ञानं क्रियते न विशेषविषयम् । यथा अस्ति मे हृदये शूलम् इत्यतो वाक्यात् गात्र कम्पादि लिङ्गात् च शूलसद्भाव सामान्यमेव परः प्रतिपद्यते न विशेषम् अनुभवति यथा स एव शूली । विशेष अनुभवः च अविद्याया निवर्तकः ततः तदर्थ आवृत्तिः इति चेत् । न । असकृत् अपि तावत् मात्रे क्रियमाणे विशेषविज्ञान उत्पत्ति असंभवात् । न हि सकृत् प्रयुक्ताभ्यां शास्त्रयुक्तिभ्याम् अनवगतो विशेषः शतकृत्वः अपि प्रयुज्यमानाभ्याम् अवगन्तुं शक्यते । तस्मात् यदि शास्त्रयुक्तिभ्यां विशेषः प्रतिपाद्यते यदि वा सामान्यमेव उभयथा अपि सकृत् प्रवृत्ते एव ते स्वकार्यं कुरुत इति आवृत्ति अनुपयोगः । न च सकृत् प्रयुक्ते शास्त्रयुक्ती कस्यचित् अपि अनुभवं न उत्पादयत इति शक्यते नियन्तुं विचित्रप्रज्ञत्वात् प्रतिपत्तृणाम् । अपि च अनेक अंशोपेते लौकिके पदार्थे सामान्य विशेषवत् एकेन अवधानेन एकम् अंशम् अवधारयति अपरेण अपरम् इति स्यात् अपि अभ्यास उपयोगो यथा दीर्घप्रपाठकग्रहणादिषु । न तु निर्विशेषे ब्रह्मणि सामान्य विशेषरहिते चैतन्यमात्रात्मके प्रमा उत्पत्तौ अभ्यासापेक्षा युक्त इति । अत्र उच्यते - भवेत् आवृत्ति आनर्थक्यं तं प्रति यः तत्त्वमसि इति सकृत् उक्तमेव ब्रह्मात्मत्वम् अनुभवितुं शक्नुयात् । यस्तु न शक्नोति तं प्रत्युपयुज्यत एव आवृत्तिः । तथा हि छान्दोग्ये ऽतत्त्वमसि श्वेतकेतोऽ (छा। ६।८।७) इति उदिश्य ऽभूय एव मा भगवान्विज्ञापयतुऽ (छा। ६।८।७) इति पुनः परिचोद्यमानः तत् तत् आदाशङ्का कारणं निराकृत्य तत्त्वमसि इति एव असकृत् उपदिशते । तथा च ऽश्रोतव्यो मन्तव्यो निदिध्यासितव्यःऽ (बृ। ४।५।६) इत्यादि दर्शितम् । ननु उक्तं सकृत् श्रुतं चेत् तत्त्वमसि वाक्यं स्वम् अर्थम् अनुभावयितुं न शक्नोति तत आवर्त्यमानम् अपि न एव शक्ष्यति इति । न एष दोषः । नहि दृष्टे अनुपपन्नं नाम । दृश्यन्ते हि सकृत् श्रुतात् वाक्यात् मन्दप्रतीतं वाक्यार्थम् आवर्तयन्तः तत् तत् आभासव्युदासेन सम्यक् प्रतिपद्यमानाः । अपि च तत्त्वमसि इति एतत् वाक्यं त्वं पदार्थस्य तत् पदार्थभावम् आचष्टे । तत् पदेन च प्रकृतं सत् ब्रह्म ईक्षितृ जगतो जन्मादिकारणम् अभिधीयते ऽसत्यं ज्ञानमनन्त ब्रह्मऽ (तै। २।१।१) ऽविज्ञानमानन्दं ब्रह्मऽ (बृ। ३।८।११) ऽअदृष्टं द्रष्टृऽ (बृ। ३।८।११) ऽअविज्ञातं विज्ञातृऽ (बृ। ३।८।११) ऽअजमजरममरम् अस्थूलमनण्वह्रस्वमदीर्घम्ऽ (बृ। ३।८।८) इत्यादि शास्त्र प्रसिद्धम् । तत्र अजादिशब्दैः जन्मादयो भावविकारा निवर्तिताः । अस्थूलादिशब्दैः च स्थौल्यादयो द्रव्यधर्माः । विज्ञानादिशब्दैः च चैतन्यप्रकाशात्मकत्वम् उक्तम् । एष व्यावृत्तसर्वसंसारधर्मकः । अनुभावात्मको ब्रह्मसंज्ञकः तत् पदार्थो वेदान्त अभियुक्तानां प्रसिद्धः । तथा त्वंपदार्थः अपि प्रत्यगात्मा श्रोता देहात् आरभ्य प्रत्यगात्मतया संभाव्यमानः चैतन्यपर्यन्तत्वेन अवधारितः । तत्र येषाम् एतौ पदार्थौ अज्ञान संशय विपर्यय प्रतिबद्धौ तेषां तत्वमसि इत्येतत् वाक्यं स्वार्थे प्रमां न उत्पादयितुं शक्नोति पदार्थज्ञानपूर्वकत्वात् वाक्यार्थस्य इति अतस्तात् प्रत्येष्टव्यः पदार्थविवेकप्रयोजनः शास्त्रयुक्त्यभ्यासः । यद्यपि च प्रतिपत्तव्य आत्मा निरंशः तथा अपि अध्यारोपितं तस्मिन् बहु अशत्वं देह इन्द्रिय मनो बुद्धि विषय वेदनादि लक्षणं तत्र एकेन अवधानेन एकम् अंशम् अपोहति अपरेण अपरम् इति युज्यते तत्र क्रमवती प्रतिपत्तिः । तत् तु पूर्वरूपमेव आत्मप्रतिपत्तेः । येषां पुनः निपुणमतीनां न अज्ञानसंशयविपर्ययलक्षणः पदार्थविषयः प्रतिबन्धः अस्ति ते शक्नुवन्ति सकृत् उक्तमेव तत्त्वमसि वाक्यार्थम् अनुभवितुम् इति तान् प्रत्यावृत्ति आनर्थक्यम् इष्टमेव । सकृत् उत्पन्न एव हि आत्मप्रतिपत्तिः अविद्यां निवर्तयति इति न अत्र कश्चित् अपि क्रमः अभ्युपगम्यते । सत्यमेवं युज्येत यदि कस्यचित् एवं प्रतिपत्तिः भवेत् । बलवती हि आत्मनो दुःखत्वादि प्रतिपत्तिः । अतो न दुःखित्वादि अभावं कश्चित् प्रतिपद्यत इति चेत् । न । देहादि अभिमानवत् दुःखित्वादि अभिमानस्य मिथ्या अभिमानत्व उपपत्तेः । प्रत्यक्षं हि देहे छिद्यमाने दह्यमाने वा अहं छिद्ये दह्य इति च मिथ्या अभिमानो दृष्टः । तथा बाह्यतरेषु अपि पुत्रमित्रादिषु संतप्यमानेषु अहमेव संतप्य इत्यदि आरोपो दृष्टः । तथा दुःखित्वादि अभिमानः अपि स्यात् । देहादिवत् एव चैतन्यात् बहिः उपलभमानत्वात् दुःखित्वादीनां सुषुप्तादिषु च अननुवृत्तेः । चैतन्यस्य तु सुषुप्ते अपि अनुवृत्तिम् आमनन्ति ऽयद्वै तन्न पश्यति पश्यन्वै तन्न पश्यतिऽ (बृ। ४।३।२३) इत्यादिना । तस्मात् सर्वदुःखविनिर्मुक्त एकचैतन्यात्मकः अहम् इत्येष आत्मानुभवः । न च एवम् आत्मानम् अनुभवतः किञ्चित् अन्यत् कृत्यम् अवशिष्यते । तथा च श्रुतिः - ऽकिं प्रजया करिष्यामो येषां नो ऽयमात्मायं लोकःऽ (बृ। ४।४।२२) इति आत्मविदः कर्तव्य अभावं दर्शयति । स्मृतिः अपि - ऽयस्त्वात्मरतिरेव स्यादात्मतृप्तश्च मानवः । आत्मन्येव च संतुष्टस्य कार्यं न विद्यतेऽ (गी। ३।१७) इति । यस्य तु न एषः अनुभवो द्रागिव जायते तं प्रत्यनुभवार्थ एव आवृत्ति अभ्युपगमः । तत्र अपि न तत्त्वमसि वाक्यार्थात् प्रच्याव्यावृत्तौ प्रवर्तयेत् । न हि वरघाताय कन्याम् उद्वाहयन्ति । नियुक्तस्य च अस्मिन् अधिकृतः अहं कर्ता मया इदं मन्दम् अप्रतिभानात् तं ब्रह्मप्रत्ययात् विपरीतप्रत्यय उत्पद्यते । यः तु स्वयमेव मन्दमतिः अप्रतिभानात् तं वाक्यार्थं जिहासेत् तस्य एतस्मिन् एव वाक्यार्थे स्थिरीकार आवृत्त्यादि वाचो युक्त्या अभ्युपेयते । तस्मात् परब्रह्मविषये अपि प्रत्यये तत् उपाय उपदेशेषु आवृत्तिसिद्धिः ॥ २ ॥

liṅgāc ca liṅgam api pratyayāvṛttiṃ pratyāyayati / tathā hi udgīthavijñānaṃ prastutya 'āditya udgīthaḥ' (chā. 1.5.1) iti etat ekaputratādoṣeṇa āpodya 'raśamīṃstavaṃ paryāvartayāt' (chā. 1.5.2) iti raśmibahutva vijñānaṃ bahuputratāyai vidadhat siddhavat pratyayāvṛttiṃ darśayati / tasmāt tat sāmānyāt sarvapratyayeṣu āvṛttisiddhiḥ / atra āha - bhavatu nāma sādhyaphaleṣu pratyayeṣu āvṛttiḥ / teṣu āvṛttisādyasya atiśayasya saṃbhavāt / yaḥ tu parabrahmaviṣayaḥ pratyayo nitya śuddha buddha mukta svabhāvameva ātmabhūtaṃ paraṃ brahma samarpayati tatra kim arthāvṛttiḥ iti / sakṛt śrutau ca brahma ātmatvapratīti anupapatteḥ āvṛtti abhyupagama iti cet / na / āvṛttau api tat anupapatteḥ / yadi hi 'tattvamasi' (chā. 6.8.7) iti evañjātīyakaṃ vākyaṃ sakṛt śrūyamāṇaṃ brahmātmatva pratītiṃ na utpādayet tataḥ tadeva āvartyamānam utpādayiṣyati iti kā pratyāśā syāt / atha ucyeta na kevalaṃ vākyaṃ kañcidarthaṃ sākṣātkartuṃ śaknoti ato yuktyapekṣaṃ vākyam anubhāvayiṣyati brahmātmatvam iti / tathā api āvṛtti ānarthakyameva / sā api hi yuktiḥ sakṛt pravṛttaiva svam artham anubhāvayiṣyati / athāpi syāt uktyā vākyena ca sāmānyaviṣayameva vijñānaṃ kriyate na viśeṣaviṣayam / yathā asti me hṛdaye śūlam ityato vākyāt gātra kampādi liṅgāt ca śūlasadbhāva sāmānyameva paraḥ pratipadyate na viśeṣam anubhavati yathā sa eva śūlī / viśeṣa anubhavaḥ ca avidyāyā nivartakaḥ tataḥ tadartha āvṛttiḥ iti cet / na / asakṛt api tāvat mātre kriyamāṇe viśeṣavijñāna utpatti asaṃbhavāt / na hi sakṛt prayuktābhyāṃ śāstrayuktibhyām anavagato viśeṣaḥ śatakṛtvaḥ api prayujyamānābhyām avagantuṃ śakyate / tasmāt yadi śāstrayuktibhyāṃ viśeṣaḥ pratipādyate yadi vā sāmānyameva ubhayathā api sakṛt pravṛtte eva te svakāryaṃ kuruta iti āvṛtti anupayogaḥ / na ca sakṛt prayukte śāstrayuktī kasyacit api anubhavaṃ na utpādayata iti śakyate niyantuṃ vicitraprajñatvāt pratipattṛṇām / api ca aneka aṃśopete laukike padārthe sāmānya viśeṣavat ekena avadhānena ekam aṃśam avadhārayati apareṇa aparam iti syāt api abhyāsa upayogo yathā dīrghaprapāṭhakagrahaṇādiṣu / na tu nirviśeṣe brahmaṇi sāmānya viśeṣarahite caitanyamātrātmake pramā utpattau abhyāsāpekṣā yukta iti / atra ucyate - bhavet āvṛtti ānarthakyaṃ taṃ prati yaḥ tattvamasi iti sakṛt uktameva brahmātmatvam anubhavituṃ śaknuyāt / yastu na śaknoti taṃ pratyupayujyata eva āvṛttiḥ / tathā hi chāndogye 'tattvamasi śvetaketo' (chā. 6.8.7) iti udiśya 'bhūya eva mā bhagavānvijñāpayatu' (chā. 6.8.7) iti punaḥ paricodyamānaḥ tat tat ādāśaṅkā kāraṇaṃ nirākṛtya tattvamasi iti eva asakṛt upadiśate / tathā ca 'śrotavyo mantavyo nididhyāsitavyaḥ' (bṛ. 4.5.6) ityādi darśitam / nanu uktaṃ sakṛt śrutaṃ cet tattvamasi vākyaṃ svam artham anubhāvayituṃ na śaknoti tata āvartyamānam api na eva śakṣyati iti / na eṣa doṣaḥ / nahi dṛṣṭe anupapannaṃ nāma / dṛśyante hi sakṛt śrutāt vākyāt mandapratītaṃ vākyārtham āvartayantaḥ tat tat ābhāsavyudāsena samyak pratipadyamānāḥ / api ca tattvamasi iti etat vākyaṃ tvaṃ padārthasya tat padārthabhāvam ācaṣṭe / tat padena ca prakṛtaṃ sat brahma īkṣitṛ jagato janmādikāraṇam abhidhīyate 'satyaṃ jñānamananta brahma' (tai. 2.1.1) 'vijñānamānandaṃ brahma' (bṛ. 3.8.11) 'adṛṣṭaṃ draṣṭṛ' (bṛ. 3.8.11) 'avijñātaṃ vijñātṛ' (bṛ. 3.8.11) 'ajamajaramamaram asthūlamanaṇvahrasvamadīrgham' (bṛ. 3.8.8) ityādi śāstra prasiddham / tatra ajādiśabdaiḥ janmādayo bhāvavikārā nivartitāḥ / asthūlādiśabdaiḥ ca sthaulyādayo dravyadharmāḥ / vijñānādiśabdaiḥ ca caitanyaprakāśātmakatvam uktam / eṣa vyāvṛttasarvasaṃsāradharmakaḥ / anubhāvātmako brahmasaṃjñakaḥ tat padārtho vedānta abhiyuktānāṃ prasiddhaḥ / tathā tvaṃpadārthaḥ api pratyagātmā śrotā dehāt ārabhya pratyagātmatayā saṃbhāvyamānaḥ caitanyaparyantatvena avadhāritaḥ / tatra yeṣām etau padārthau ajñāna saṃśaya viparyaya pratibaddhau teṣāṃ tatvamasi ityetat vākyaṃ svārthe pramāṃ na utpādayituṃ śaknoti padārthajñānapūrvakatvāt vākyārthasya iti atastāt pratyeṣṭavyaḥ padārthavivekaprayojanaḥ śāstrayuktyabhyāsaḥ / yadyapi ca pratipattavya ātmā niraṃśaḥ tathā api adhyāropitaṃ tasmin bahu aśatvaṃ deha indriya mano buddhi viṣaya vedanādi lakṣaṇaṃ tatra ekena avadhānena ekam aṃśam apohati apareṇa aparam iti yujyate tatra kramavatī pratipattiḥ / tat tu pūrvarūpameva ātmapratipatteḥ / yeṣāṃ punaḥ nipuṇamatīnāṃ na ajñānasaṃśayaviparyayalakṣaṇaḥ padārthaviṣayaḥ pratibandhaḥ asti te śaknuvanti sakṛt uktameva tattvamasi vākyārtham anubhavitum iti tān pratyāvṛtti ānarthakyam iṣṭameva / sakṛt utpanna eva hi ātmapratipattiḥ avidyāṃ nivartayati iti na atra kaścit api kramaḥ abhyupagamyate / satyamevaṃ yujyeta yadi kasyacit evaṃ pratipattiḥ bhavet / balavatī hi ātmano duḥkhatvādi pratipattiḥ / ato na duḥkhitvādi abhāvaṃ kaścit pratipadyata iti cet / na / dehādi abhimānavat duḥkhitvādi abhimānasya mithyā abhimānatva upapatteḥ / pratyakṣaṃ hi dehe chidyamāne dahyamāne vā ahaṃ chidye dahya iti ca mithyā abhimāno dṛṣṭaḥ / tathā bāhyatareṣu api putramitrādiṣu saṃtapyamāneṣu ahameva saṃtapya ityadi āropo dṛṣṭaḥ / tathā duḥkhitvādi abhimānaḥ api syāt / dehādivat eva caitanyāt bahiḥ upalabhamānatvāt duḥkhitvādīnāṃ suṣuptādiṣu ca ananuvṛtteḥ / caitanyasya tu suṣupte api anuvṛttim āmananti 'yadvai tanna paśyati paśyanvai tanna paśyati' (bṛ. 4.3.23) ityādinā / tasmāt sarvaduḥkhavinirmukta ekacaitanyātmakaḥ aham ityeṣa ātmānubhavaḥ / na ca evam ātmānam anubhavataḥ kiñcit anyat kṛtyam avaśiṣyate / tathā ca śrutiḥ - 'kiṃ prajayā kariṣyāmo yeṣāṃ no 'yamātmāyaṃ lokaḥ' (bṛ. 4.4.22) iti ātmavidaḥ kartavya abhāvaṃ darśayati / smṛtiḥ api - 'yastvātmaratireva syādātmatṛptaśca mānavaḥ / ātmanyeva ca saṃtuṣṭasya kāryaṃ na vidyate' (gī. 3.17) iti / yasya tu na eṣaḥ anubhavo drāgiva jāyate taṃ pratyanubhavārtha eva āvṛtti abhyupagamaḥ / tatra api na tattvamasi vākyārthāt pracyāvyāvṛttau pravartayet / na hi varaghātāya kanyām udvāhayanti / niyuktasya ca asmin adhikṛtaḥ ahaṃ kartā mayā idaṃ mandam apratibhānāt taṃ brahmapratyayāt viparītapratyaya utpadyate / yaḥ tu svayameva mandamatiḥ apratibhānāt taṃ vākyārthaṃ jihāset tasya etasmin eva vākyārthe sthirīkāra āvṛttyādi vāco yuktyā abhyupeyate / tasmāt parabrahmaviṣaye api pratyaye tat upāya upadeśeṣu āvṛttisiddhiḥ // 2 //

Sanskrit only: no published translation is held for this verse.

आत्मेति तूपगच्छन्ति ग्राहयन्ति च यः शास्त्रोक्तविशेषण परमात्मा स किम् अहम् इति ग्रहीतव्यः किंवा मत् अन्य इति एतत् विचारयति । कथं पुनः आत्मशब्दे प्रत्यगात्मविषये श्रूयमाणे संशय इति । उच्यते - अयम् आत्मशब्दो मुख्यः शक्यते अभ्युपगन्तुं सति जीव ईश्वरयोः अभेदसंभव इतरथा तु गौणः अयम् अभ्युपगन्तव्य इति मन्यते । किं तावत् प्राप्तं न अहम् इति ग्राह्यः । न हि अपहतपाप्मत्वादि गुणो विपरीत गुणत्वेन शक्यते ग्रहीतुं विपरीत गुणो च अपहतपाप्मत्वादि गुणत्वेन । अपहतपाप्मत्वादि गुणः च परमेश्वरः तद्विपरीतगुणः तु शारीरः । ईश्वरस्य च संसारि आत्मत्व ईश्वर अभावप्रसङ्गः । ततः शास्त्र आनर्थक्यम् । संसारिणः अपि ईश्वर आत्मत्वे अधिकारि अभावात् शास्त्र आनर्थक्यमेव, प्रत्यक्षादि विरोधः च । अन्यत्वे अपि तादात्म्य दर्शनं शास्त्रात् कर्तव्यं प्रतिमादिषु इव विष्णु आदिदर्शनम् इति चेत् काममेवं भवतु । न तु संसारिणो मुख्य आत्म ईश्वर इत्येतत् नः प्रापयितव्यम् । एवं प्राप्ते ब्रूमः - आत्म इत्येव परमेश्वरः प्रतिपत्तव्यः । तथा हि परमेश्वर प्रक्रियायां जाबाला आत्मत्वेन एव एतम् उपगच्छन्ति - ऽत्वं वा अहमस्मि भगवो देवतो ऽहं वै त्वमसि भगवो देवेतिऽ इति । तथा अन्ये अपि ऽअहं ब्रह्मास्मिऽ इत्येवम् आदय आत्मत्व उपगमा द्रष्टव्याः । ग्राहयन्ति च आत्मत्वेन एव ईश्वरं वेदान्तवाक्यानि ऽएष त आत्मा सर्वान्तरःऽ (बृ। ३।४।१) ऽएष त आत्मान्तर्याम्यमृतःऽ (बृ। ३।७।३) ऽतत्सत्यं स आत्मा तत्त्वमसिऽ (छा। ६।८।७) इति एवमादीनि । यत् उक्तं प्रतीक दर्शनम् इदं विष्णुप्रतिमा न्यायेन भविष्यति इति तत् अयुक्तं गौणत्व प्रसङ्गात् । वाक्य वैरूप्यात् च । यत्र हि प्रतीकदृष्टिः अभिप्रेयते सकृदेव तत्र वचनं भवति यथा - ऽमनो ब्रह्मऽ (छा। ३।१८।१) ऽआदित्यो ब्रह्मऽ (छा। ३।१९।१) इत्यादि । इह पुनः त्वम् अहम् अस्मि अहं च त्वम् असि इति आह, अतः प्रतीक श्रुति वैरूप्यात् अभेदप्रतिपत्तिः । भेददृष्टि अपवादात् च । तथा हि - ऽअथ यो ऽन्यां देवतामुपास्ते ऽन्यो ऽसावन्यो ऽहमीति न स वेदऽ (बृ। १।४।१०) ऽमृत्योः स मृत्युमाप्नोति य इह नानेव पश्यतिऽ (बृ। ४।५।७) इति एवमाद्या भूयसी श्रुतिः भेददर्शनम् अपवदति । यत् तु उक्तं न विरुद्धगुणयोः अन्योन्य आत्मसंभव इति । न अयं दोषः । विरुद्धगुणताया मिथ्यात्व उपपत्तेः । यत्पुनः उक्तम् ईश्वर अभावप्रसङ्ग इति । तत् असत् । शास्त्रप्रामाण्यात् अनभ्युपगमात् च । न हि ईश्वरस्य संसारि आत्मत्वं प्रतिपाद्यत इति अभ्युपगच्छामः किं तर्हि संसारिणः संसारित्व अपोहेन ईश्वरात्मत्वं प्रतिपिपायिषितम् इति । एवं च सति अद्वैत ईश्वरस्य अपहतपाप्मत्वादिगुणता विपरीतगुणता तु इतरस्य मिथ्या इति व्यवतिष्ठते । यत् अपि उक्तम् अधिकारि अभावः प्रत्यक्षादिविरोधः च इति । तत् अपि असत् । प्राक्प्रबोधात् संसारित्व अभ्युपगमात् । तद्विषयत्वात् च प्रत्यक्षादि व्यवहारस्य । ऽयत्र त्वस्य सर्वमात्मैवाभूत्तत्केन कं पश्येत्ऽ (बृ। २।४।१४) इत्यादिना हि प्रबोधे प्रत्यक्षादि अभावं दर्शयति । प्रत्यक्षादि अभावे श्रुतेः अपि अभावप्रसङ्ग इति चेत् । न । इष्टत्वात् । ऽअत्र पितापिता भवतिऽ (बृ। ४।३।२२) इति उपक्रम्य ऽवेदा अवेदाःऽ (बृ। ४।३।२२) इति वचनात् इष्यत एव अस्माभिः श्रुतेः अपि अभावः प्रबोधे । कस्य पुनः अयम् अप्रबोध इति चेत् । य- त्वं पृच्छसि तस्य त इति वदामः । ननु अहम् ईश्वर एव उक्तः श्रुत्या, यदि एवं प्रतिबुद्धः असि न अस्ति कस्यचित् अप्रबोधः । यः अपि दोषः चोद्यते कैश्चित् अविद्या किल आत्मनः सद्वितीयत्वात् अद्वैत अनुपपत्तिः इति सः अपि एतेन प्रत्युक्तः । तस्मात् आत्म इति एव ईश्वरे मनो दधीत ॥ ३ ॥

ātmeti tūpagacchanti grāhayanti ca yaḥ śāstroktaviśeṣaṇa paramātmā sa kim aham iti grahītavyaḥ kiṃvā mat anya iti etat vicārayati / kathaṃ punaḥ ātmaśabde pratyagātmaviṣaye śrūyamāṇe saṃśaya iti / ucyate - ayam ātmaśabdo mukhyaḥ śakyate abhyupagantuṃ sati jīva īśvarayoḥ abhedasaṃbhava itarathā tu gauṇaḥ ayam abhyupagantavya iti manyate / kiṃ tāvat prāptaṃ na aham iti grāhyaḥ / na hi apahatapāpmatvādi guṇo viparīta guṇatvena śakyate grahītuṃ viparīta guṇo ca apahatapāpmatvādi guṇatvena / apahatapāpmatvādi guṇaḥ ca parameśvaraḥ tadviparītaguṇaḥ tu śārīraḥ / īśvarasya ca saṃsāri ātmatva īśvara abhāvaprasaṅgaḥ / tataḥ śāstra ānarthakyam / saṃsāriṇaḥ api īśvara ātmatve adhikāri abhāvāt śāstra ānarthakyameva, pratyakṣādi virodhaḥ ca / anyatve api tādātmya darśanaṃ śāstrāt kartavyaṃ pratimādiṣu iva viṣṇu ādidarśanam iti cet kāmamevaṃ bhavatu / na tu saṃsāriṇo mukhya ātma īśvara ityetat naḥ prāpayitavyam / evaṃ prāpte brūmaḥ - ātma ityeva parameśvaraḥ pratipattavyaḥ / tathā hi parameśvara prakriyāyāṃ jābālā ātmatvena eva etam upagacchanti - 'tvaṃ vā ahamasmi bhagavo devato 'haṃ vai tvamasi bhagavo deveti' iti / tathā anye api 'ahaṃ brahmāsmi' ityevam ādaya ātmatva upagamā draṣṭavyāḥ / grāhayanti ca ātmatvena eva īśvaraṃ vedāntavākyāni 'eṣa ta ātmā sarvāntaraḥ' (bṛ. 3.4.1) 'eṣa ta ātmāntaryāmyamṛtaḥ' (bṛ. 3.7.3) 'tatsatyaṃ sa ātmā tattvamasi' (chā. 6.8.7) iti evamādīni / yat uktaṃ pratīka darśanam idaṃ viṣṇupratimā nyāyena bhaviṣyati iti tat ayuktaṃ gauṇatva prasaṅgāt / vākya vairūpyāt ca / yatra hi pratīkadṛṣṭiḥ abhipreyate sakṛdeva tatra vacanaṃ bhavati yathā - 'mano brahma' (chā. 3.18.1) 'ādityo brahma' (chā. 3.19.1) ityādi / iha punaḥ tvam aham asmi ahaṃ ca tvam asi iti āha, ataḥ pratīka śruti vairūpyāt abhedapratipattiḥ / bhedadṛṣṭi apavādāt ca / tathā hi - 'atha yo 'nyāṃ devatāmupāste 'nyo 'sāvanyo 'hamīti na sa veda' (bṛ. 1.4.10) 'mṛtyoḥ sa mṛtyumāpnoti ya iha nāneva paśyati' (bṛ. 4.5.7) iti evamādyā bhūyasī śrutiḥ bhedadarśanam apavadati / yat tu uktaṃ na viruddhaguṇayoḥ anyonya ātmasaṃbhava iti / na ayaṃ doṣaḥ / viruddhaguṇatāyā mithyātva upapatteḥ / yatpunaḥ uktam īśvara abhāvaprasaṅga iti / tat asat / śāstraprāmāṇyāt anabhyupagamāt ca / na hi īśvarasya saṃsāri ātmatvaṃ pratipādyata iti abhyupagacchāmaḥ kiṃ tarhi saṃsāriṇaḥ saṃsāritva apohena īśvarātmatvaṃ pratipipāyiṣitam iti / evaṃ ca sati advaita īśvarasya apahatapāpmatvādiguṇatā viparītaguṇatā tu itarasya mithyā iti vyavatiṣṭhate / yat api uktam adhikāri abhāvaḥ pratyakṣādivirodhaḥ ca iti / tat api asat / prākprabodhāt saṃsāritva abhyupagamāt / tadviṣayatvāt ca pratyakṣādi vyavahārasya / 'yatra tvasya sarvamātmaivābhūttatkena kaṃ paśyet' (bṛ. 2.4.14) ityādinā hi prabodhe pratyakṣādi abhāvaṃ darśayati / pratyakṣādi abhāve śruteḥ api abhāvaprasaṅga iti cet / na / iṣṭatvāt / 'atra pitāpitā bhavati' (bṛ. 4.3.22) iti upakramya 'vedā avedāḥ' (bṛ. 4.3.22) iti vacanāt iṣyata eva asmābhiḥ śruteḥ api abhāvaḥ prabodhe / kasya punaḥ ayam aprabodha iti cet / ya- tvaṃ pṛcchasi tasya ta iti vadāmaḥ / nanu aham īśvara eva uktaḥ śrutyā, yadi evaṃ pratibuddhaḥ asi na asti kasyacit aprabodhaḥ / yaḥ api doṣaḥ codyate kaiścit avidyā kila ātmanaḥ sadvitīyatvāt advaita anupapattiḥ iti saḥ api etena pratyuktaḥ / tasmāt ātma iti eva īśvare mano dadhīta // 3 //

Sanskrit only: no published translation is held for this verse.

न प्रतीके न हि सः ऽमनो ब्रह्मेत्युपासीतेत्यध्यात्ममथाधिदैवतमाकाशो ब्रह्मेतिऽ (छा। ३।१८।१) ऽतथा आदित्यो ब्रह्मेत्यादेशःऽ (छा। ३।१९।१) ऽस यो नाम ब्रह्मेत्युपास्तेऽ (छा। ७।१।५) इति एवमादिषु प्रतीक उपासनेषु संशयः - किं तेषु अपि आत्मग्रहः कर्तव्यो न वा इति । किं तावत् प्राप्तम् । तेषु अपि आत्मग्रह एव युक्तः । कस्मात् । ब्रह्मणः श्रुतिषु आत्मत्वेन प्रसिद्धत्वात् प्रतीकानाम् अपि ब्रह्मविकारत्वात् ब्रह्मत्वे सत्याम् आत्मत्व उपपत्तेः इति । एवं प्राप्ते ब्रूमः - न प्रतीकेषु आत्म मतिं बध्नीयात् । न हि स उपासकः प्रतीकानि व्यस्तानि आत्मत्वेनाकलयेत् । यत् पुनः ब्रह्मविकारत्वात् प्रतीकानां ब्रह्मत्वं ततः च आत्मत्वम् इति । तत् असत् । प्रतीक अभावप्रसङ्गात् । विकारस्वरूप उपमर्देन हि नामादि जातस्य ब्रह्मत्वमेव आश्रिते भवति । स्वरूप उपमर्दे च नामादीनां कुतः प्रतीकत्वम् आत्मग्रहो वा । न च ब्रह्मण आत्मत्वात् ब्रह्मदृष्टि उपदेशेषु आत्मदृष्टिः कल्प्या । कर्तृत्वादि अनिराकरणात् । कर्तृत्वादि संवर्ग संसार धर्मनिराकरणे हि ब्रह्मण आत्मत्व उपदेशः । तत् अनिराकरणेन च उपासनविधानम् । अतः च उपासकस्य प्रतीकैः समत्वात् आत्मग्रहो न उपपद्यते । न हि रूचक स्वस्तिकयोः इतरेतर आत्मत्वम् अस्ति । सुवर्ण आत्मत्वेन इव तु ब्रह्म आत्मत्वेन एकत्वे प्रतीक अभावप्रसङ्गम् अवोचाम । अतो न प्रतीकेषु आत्मदृष्टिः क्रियते ॥ ४ ॥

na pratīke na hi saḥ 'mano brahmetyupāsītetyadhyātmamathādhidaivatamākāśo brahmeti' (chā. 3.18.1) 'tathā ādityo brahmetyādeśaḥ' (chā. 3.19.1) 'sa yo nāma brahmetyupāste' (chā. 7.1.5) iti evamādiṣu pratīka upāsaneṣu saṃśayaḥ - kiṃ teṣu api ātmagrahaḥ kartavyo na vā iti / kiṃ tāvat prāptam / teṣu api ātmagraha eva yuktaḥ / kasmāt / brahmaṇaḥ śrutiṣu ātmatvena prasiddhatvāt pratīkānām api brahmavikāratvāt brahmatve satyām ātmatva upapatteḥ iti / evaṃ prāpte brūmaḥ - na pratīkeṣu ātma matiṃ badhnīyāt / na hi sa upāsakaḥ pratīkāni vyastāni ātmatvenākalayet / yat punaḥ brahmavikāratvāt pratīkānāṃ brahmatvaṃ tataḥ ca ātmatvam iti / tat asat / pratīka abhāvaprasaṅgāt / vikārasvarūpa upamardena hi nāmādi jātasya brahmatvameva āśrite bhavati / svarūpa upamarde ca nāmādīnāṃ kutaḥ pratīkatvam ātmagraho vā / na ca brahmaṇa ātmatvāt brahmadṛṣṭi upadeśeṣu ātmadṛṣṭiḥ kalpyā / kartṛtvādi anirākaraṇāt / kartṛtvādi saṃvarga saṃsāra dharmanirākaraṇe hi brahmaṇa ātmatva upadeśaḥ / tat anirākaraṇena ca upāsanavidhānam / ataḥ ca upāsakasya pratīkaiḥ samatvāt ātmagraho na upapadyate / na hi rūcaka svastikayoḥ itaretara ātmatvam asti / suvarṇa ātmatvena iva tu brahma ātmatvena ekatve pratīka abhāvaprasaṅgam avocāma / ato na pratīkeṣu ātmadṛṣṭiḥ kriyate // 4 //

Sanskrit only: no published translation is held for this verse.

ब्रह्मदृष्टिर् उत्कर्षात् तेषु एव उदाहरणेषु अन्यः संशयः - किम् आदित्यादि दृष्टयो ब्रह्मणि अध्यसितव्याः किंवा ब्रह्मदृष्टिः आदित्यादिषु इति । कुतः संशयः -सामानाधिकरम्ये कारण अनवधारणात् । अत्र हि ब्रह्मशब्दस्य आदित्यादिशब्दैः सामानाधिकरण्यम् उपलभ्यते । आदित्यो ब्रह्म प्राणो ब्रह्म विद्युत् ब्रह्म इत्यादि समान विभक्ति निर्देशात् । न च अत्र आञ्जसं सामानाधिकरण्यम् अवकल्पते । अर्थान्तरवचनत्वात् ब्रह्म आदित्यादिशब्दानाम् । न हि भवति गौः अश्व इति सामानाधिकरण्यम् । ननु प्रकृतिविकारभावात् ब्रह्म आदित्यानां मृत् शरावादिवत् सामानाधिकरण्यं स्यात् । न इति उच्यते । विकारप्रविलयो हि एवं प्रकृतिसामानाधिकरण्यात् स्यात् । ततः च प्रतीक अभावप्रसङ्गम् अवोचाम । परमात्म वाक्यं च इदं तदानीं स्यात् ततः च उपासन अधिकारो बाध्येत । परिमितविकार उपादानं च व्यर्थम् । तस्मात् ब्राह्मणः अग्निः वैश्वानर इत्यादिवत् अन्यत्र अन्यदृष्टि अध्यासे सति क्व किन्दृष्टिः अध्यस्यताम् इति संशयः । तत्र अनियमो नियमकारिणः शास्त्रस्य अभावात् इत्येवं प्राप्तम् । अथवा आदित्यादि दृष्टय एव ब्रह्मणि कर्तव्या इति एवं प्राप्तम् । एवं हि आदित्यादि दृष्टिभिः ब्रह्म उपासितं भवति ब्रह्म उपासनं च फलवत् इति शास्त्रमर्यादा । तस्मात् न ब्रह्मदृष्टिः आदित्यादिषु इति । एवं प्राप्ते ब्रूमः - ब्रह्मदृष्टिः एव आदित्यादिषु स्यात् इति । कस्मात् । उत्कर्षात् । एवम् उत्कर्षेण आदित्यादयो दृष्टा भवन्ति । उत्कृष्टदृष्टेः तेषु अध्यासात् । तथा च लौकिको न्यायो अनुगतो भवति । उत्कृष्टदृष्टिः हि निकृष्टे अध्यसितव्य इति लौकिको न्यायः । यथा राजदृष्टिः क्षत्तरि । स च अनुसर्तव्यः । विपर्यये प्रत्यवाय प्रसङ्गात् । न हि क्षत्तृदृष्टिपरिगृहीतो राजा निकर्षं नीयमानः श्रेयसे स्यात् । ननु शास्त्रप्रामाण्यात् अनाशङ्कनीयः अत्र प्रत्यवाय प्रसङ्गो न च लोकिकेन न्यायेन शास्त्रीया दृष्टिः नियन्तुं युक्त इति । अत्र उच्यते - निर्धारिते शास्त्रार्थ एतत् एवं स्यात् । संदिग्धे तु तस्मिन् निर्णयं प्रति लोकिकः अपि न्याय आश्रीयनाणो न विरुध्यते । तेन च उत्कृष्टदृष्टि अध्यासे शास्त्रार्थे अवधार्यमाणे निकृष्टदृष्टिम् अध्यस्यन् प्रत्यवेयात् इति श्लिष्यते । प्राथम्यात् च आदित्यादि शब्दानां मुख्यार्थत्वम् अविरोधात् गृहीतव्यम् । तैः स्वार्थवृत्तिभिः अवरुद्धायां बुद्धौ पश्चात् अवतरतो ब्रह्मशब्दस्य मुख्यया वृत्त्या सामानाधिकरण्य असंभवात् ब्रह्मदृष्टिविधानार्थत एव अवतिष्ठते । इतिपरत्वात् अपि ब्रह्मशब्दस्य एष एव अर्थो न्याय्यः । तथा हि ऽब्रह्मेत्यादेशःऽ ऽब्रह्मेत्युपासीतऽ ऽब्रहमेत्युपास्तेऽ इति च सर्वत्र इतिपरं ब्रह्मशब्दम् उच्चारयति शुद्धान् तु आदित्यादि शब्दान् । तत- च यथा शुक्तिकां रजतम् इति प्रत्येति इत्यत्र शुक्तिवचन एव शुक्तिका शब्दो रजतशब्दः तु रजतप्रतीति लक्षणार्थः । प्रत्येत्येव हि केवलं रजतम् इति न तु तत्र रजतम् अस्ति । एवम् अत्र अपि आदित्यादीन् ब्रह्म इति प्रतीयात् इति गम्यते । वाक्यशेषः अपि च द्वितीयानिर्देशेन आदित्यादीनेव उपास्तिक्रियया व्याप्यमानान् दर्शयति - ऽस य एतमेवं विद्वानादित्यं ब्रह्मेत्युपास्तेऽ (छा। ३।१९।४), ऽयो वाचं ब्रह्मेत्युपास्तेऽ (छा। ७।२।२), ऽयः संकल्पः ब्रह्मेत्युपास्तेऽ (छा। ७।४।३) इति च । यत् तु उक्तं ब्रह्म उपासनाम् एव अत्र आदरणीयं फलत्वाय इति । तत् अयुक्तम् । उक्तेन न्यायेन आदित्यादीनाम् एव उपास्यत्व अवगमात् । फलं तु अतिथ्यादि उपासन इव आदित्यादि उपासने ऽपि ब्रह्म एव दास्यति सर्व अध्यक्षत्वात् । वर्णितं च एतत् ऽफलमत उपपत्तेःऽ (ब्रसू। ३।२।३८) इति अत्र । ईदृशं च अत्र ब्रह्मण उपास्यत्वं यत् प्रतीकेषु तत् दृष्टि अध्यारोपणं प्रतिमादिषु इव विष्णु आदीनाम् ॥ ५ ॥

brahmadṛṣṭir utkarṣāt teṣu eva udāharaṇeṣu anyaḥ saṃśayaḥ - kim ādityādi dṛṣṭayo brahmaṇi adhyasitavyāḥ kiṃvā brahmadṛṣṭiḥ ādityādiṣu iti / kutaḥ saṃśayaḥ -sāmānādhikaramye kāraṇa anavadhāraṇāt / atra hi brahmaśabdasya ādityādiśabdaiḥ sāmānādhikaraṇyam upalabhyate / ādityo brahma prāṇo brahma vidyut brahma ityādi samāna vibhakti nirdeśāt / na ca atra āñjasaṃ sāmānādhikaraṇyam avakalpate / arthāntaravacanatvāt brahma ādityādiśabdānām / na hi bhavati gauḥ aśva iti sāmānādhikaraṇyam / nanu prakṛtivikārabhāvāt brahma ādityānāṃ mṛt śarāvādivat sāmānādhikaraṇyaṃ syāt / na iti ucyate / vikārapravilayo hi evaṃ prakṛtisāmānādhikaraṇyāt syāt / tataḥ ca pratīka abhāvaprasaṅgam avocāma / paramātma vākyaṃ ca idaṃ tadānīṃ syāt tataḥ ca upāsana adhikāro bādhyeta / parimitavikāra upādānaṃ ca vyartham / tasmāt brāhmaṇaḥ agniḥ vaiśvānara ityādivat anyatra anyadṛṣṭi adhyāse sati kva kindṛṣṭiḥ adhyasyatām iti saṃśayaḥ / tatra aniyamo niyamakāriṇaḥ śāstrasya abhāvāt ityevaṃ prāptam / athavā ādityādi dṛṣṭaya eva brahmaṇi kartavyā iti evaṃ prāptam / evaṃ hi ādityādi dṛṣṭibhiḥ brahma upāsitaṃ bhavati brahma upāsanaṃ ca phalavat iti śāstramaryādā / tasmāt na brahmadṛṣṭiḥ ādityādiṣu iti / evaṃ prāpte brūmaḥ - brahmadṛṣṭiḥ eva ādityādiṣu syāt iti / kasmāt / utkarṣāt / evam utkarṣeṇa ādityādayo dṛṣṭā bhavanti / utkṛṣṭadṛṣṭeḥ teṣu adhyāsāt / tathā ca laukiko nyāyo anugato bhavati / utkṛṣṭadṛṣṭiḥ hi nikṛṣṭe adhyasitavya iti laukiko nyāyaḥ / yathā rājadṛṣṭiḥ kṣattari / sa ca anusartavyaḥ / viparyaye pratyavāya prasaṅgāt / na hi kṣattṛdṛṣṭiparigṛhīto rājā nikarṣaṃ nīyamānaḥ śreyase syāt / nanu śāstraprāmāṇyāt anāśaṅkanīyaḥ atra pratyavāya prasaṅgo na ca lokikena nyāyena śāstrīyā dṛṣṭiḥ niyantuṃ yukta iti / atra ucyate - nirdhārite śāstrārtha etat evaṃ syāt / saṃdigdhe tu tasmin nirṇayaṃ prati lokikaḥ api nyāya āśrīyanāṇo na virudhyate / tena ca utkṛṣṭadṛṣṭi adhyāse śāstrārthe avadhāryamāṇe nikṛṣṭadṛṣṭim adhyasyan pratyaveyāt iti śliṣyate / prāthamyāt ca ādityādi śabdānāṃ mukhyārthatvam avirodhāt gṛhītavyam / taiḥ svārthavṛttibhiḥ avaruddhāyāṃ buddhau paścāt avatarato brahmaśabdasya mukhyayā vṛttyā sāmānādhikaraṇya asaṃbhavāt brahmadṛṣṭividhānārthata eva avatiṣṭhate / itiparatvāt api brahmaśabdasya eṣa eva artho nyāyyaḥ / tathā hi 'brahmetyādeśaḥ' 'brahmetyupāsīta' 'brahametyupāste' iti ca sarvatra itiparaṃ brahmaśabdam uccārayati śuddhān tu ādityādi śabdān / tata- ca yathā śuktikāṃ rajatam iti pratyeti ityatra śuktivacana eva śuktikā śabdo rajataśabdaḥ tu rajatapratīti lakṣaṇārthaḥ / pratyetyeva hi kevalaṃ rajatam iti na tu tatra rajatam asti / evam atra api ādityādīn brahma iti pratīyāt iti gamyate / vākyaśeṣaḥ api ca dvitīyānirdeśena ādityādīneva upāstikriyayā vyāpyamānān darśayati - 'sa ya etamevaṃ vidvānādityaṃ brahmetyupāste' (chā. 3.19.4), 'yo vācaṃ brahmetyupāste' (chā. 7.2.2), 'yaḥ saṃkalpaḥ brahmetyupāste' (chā. 7.4.3) iti ca / yat tu uktaṃ brahma upāsanām eva atra ādaraṇīyaṃ phalatvāya iti / tat ayuktam / uktena nyāyena ādityādīnām eva upāsyatva avagamāt / phalaṃ tu atithyādi upāsana iva ādityādi upāsane 'pi brahma eva dāsyati sarva adhyakṣatvāt / varṇitaṃ ca etat 'phalamata upapatteḥ' (bra.sū. 3.2.38) iti atra / īdṛśaṃ ca atra brahmaṇa upāsyatvaṃ yat pratīkeṣu tat dṛṣṭi adhyāropaṇaṃ pratimādiṣu iva viṣṇu ādīnām // 5 //

Sanskrit only: no published translation is held for this verse.

आदित्यादिमतयश् चाङ्ग उपपत्तेः ऽय एवासौ तपति तमुद्गीथमुपासीतऽ (छा। १।३।१), ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा। २।२।१), ऽवाचि सप्तविधं सामोपासीतऽ (छा। २।८।१), ऽइयमेवर्गग्निः सामऽ (छा। १।६।१) इति एवमादिषु अङ्गावबद्धेषु उपासनेषु संशयः किम् आदित्यादिषु उद्गीथादि दृष्टयो विधीयन्ते किं वा उद्गीथादिषु एव आदित्यादि दृष्टय इति । तत्र अनियमो नियमकारण अभावात् इति प्राप्तम् । न हि अत्र ब्रह्मण इव कस्यचित् उत्कर्षविशेषः अवधार्यते ऽब्रह्म हि समस्त जगत् कारणत्वात् अपहतपाप्मत्वादि गुणयोगात् च आदित्यादिभ्य उत्कृष्टम् इति शक्यम् अवधारयितुं न तु आदित्य उद्गीथादीनां विकारत्व अविशेषात् कञ्चित् उत्कर्षविशेष अवधारणे कारणम् अस्ति । अथवा नियमेन उद्गीथादिमतय आदित्यादिषु अध्यस्येरन् । कस्मात् । कर्मात्मकत्वात् उद्गीथादीनां कर्मणः च फलप्राप्तिप्रसिद्धेः । उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मात्मकाः सन्तः फलहेतवो भविष्यन्ति । तथा च ऽइयमेवर्गग्निः सामऽ(छा। १।६।१) इति अत्र ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा। १।६।१) इति ऋक्शब्देन पृथिवीं निर्दिशति सामशब्देन अग्निं तत् च पृथिवि अग्न्योः रृक् सामदृष्टिचीकीर्षायाम् अवकल्पते न ऋक् सामयोः पृथिवि अग्निदृष्टि चिकीर्षायाम् । क्षत्तरि हि राजदृष्टिकरणात् राजशब्द उपचर्यते न राजनि क्षत्तृशब्दः । अपि च ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा। २।२।१) इति अधिकरणनिर्देशात् लोकेषु साम अध्यसितव्यम् इति प्रतीयते । ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा। २।११।१) इति च एतदेवं दर्शयति । प्रथमनिर्दिष्टेषु च आदित्यादिषु चरमनिर्दिष्टं ब्रह्म अध्यस्तम् ऽआदित्यो ब्रह्मेत्यादेशःऽ (छा। ३।१९।१) इत्यादिषु । प्रथमनिर्दिष्टाः च पृथिव्यादयः चरमनर्दिष्टा हिङ्कारादयः ऽपृथिवी हिङ्कारःऽ (छा। २।२।१) इत्यादि श्रुतिषु । अतः अनङ्गेषु आदित्यादिषु अङ्गम् अतिनिक्षेप इति । एवं प्राप्ते ब्रूमः - आदित्यादिमतय एव अङ्गेषु उद्गीथादिषु क्षिप्येरन् । कुतः - उपपत्तेः । उपपद्यते हि एवम् अपूर्वसंनिकर्षात् आदित्यादिमतिभिः संस्क्रियमाणेषु उद्गीथादिषु कर्मसमृद्धिः । ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा। १।१।१०) इति च विद्यायाः कर्मसमृद्धिहेतुत्वं दर्शयति । भवतु कर्मसमृद्धिफलेषु एवं, स्वतन्त्रफलेषु तु कथम् ऽय एतदेवं विद्वांल्लोकेषु पञ्चविधं सामोपास्तेऽ (छा। २।२।३) इत्यादिषु । तेषु अपि अधिकृत अधिकारात् प्रकृत अपूर्वसंनिकर्षेण एव फलकल्पना युक्ता गोदोहनादीनियमवत् । फलात्मकत्वात् च आदित्यादीनाम् उद्गीथादिभ्यः कर्मात्मकेभ्य उत्कर्ष उपपत्तिः आदित्यादिप्राप्तिलक्षणं हि कर्मफलं शिष्यते श्रुतिषु । अपि च ऽओमित्येतदक्षरमुद्गीथमुपासीतऽ (छा। १।१।१) ऽखल्वेतस्यैवाक्षरस्योपव्याख्यातं भवतिऽ (छा। १।१।१०) इति च उद्गीथमेव उपास्यत्वेन उपक्रम्य आदित्यादिमतीः विदधाति । यत् तु उक्तम् उद्गीथादिमतिभिः उपास्यमाना आदित्यादयः कर्मभूयं भूत्वा फलं करिष्यन्ति इति । तत् अयुक्तम् । स्वयमेव उपासनस्य कर्मत्वात् फलवत्त्व उपपत्तेः । आदित्यादिभावेन अपि च दृश्यमानानाम् उद्गीथादीनां कर्मात्मकत्वान् अपायात् । ऽतदेतदेतस्यामृच्यध्यूढं सामऽ (छा। १।६।१) इति तु लाक्षणिक एव पृथिवी अग्न्योः ऋक् सामशब्दप्रयोगः । लक्षणा च यथासंभवं संनिकृष्टेन विप्रकृष्टेन वा स्वार्थसंबन्धेन प्रवर्तते । तत्र यदि अपि ऋक् सामयोः पृथिवी अग्न्योः च संनिधानयोरेव एष ऋक् सामशब्दप्रयोग ऋक् सामसंबन्धात् इति निश्चीयते । क्षत्तृशब्दःअपि हि कुतश्चित् कारणात् राजानम् उपसर्पन् न निवारयितुं पार्यते । ऽइयमेवर्कऽ(छा। १।६।१) इति च यथा अक्षरन्यासम् ऋच एव पृथिवीत्वम् अवधारयति । पृथिव्या हि अक्त्वे अवधार्यमाण इयम् ऋक् एव इत्यक्षरन्यासः स्यात् । ऽय एवं विद्वान्साम गायतिऽ (छा। १।७।७) इति च अङ्गाश्रयमेव विज्ञानम् उपसंहरति न पृथिव्यादि आश्रयम् । तथा ऽलोकेषु पञ्चविधं सामोपासीतऽ (छा। २।२।१) इति यदि अपि सप्तमीनिर्दिष्टा लोकाः तथापि साम्न्येव ते अध्यस्येरन् द्वितीयानिर्देशेन साम्न उपास्यत्व अवगमात् । सामनि हि लोकेषु अध्यस्यमानेषु साम लोकात्मन उपासितं भवति । अन्यथा पुनः लोकाः सामा आत्मन उपासिताः स्युः । एतेन ऽएतद्गायत्रं प्राणेषु प्रोतम्ऽ (छा। २।११।१) इत्यादि व्याख्यातम् । यत्र अपि तुल्यो द्वितीयनिर्देशः - ऽअथ खल्वमुमादित्यं सप्तविधं सामोपासीतऽ (छा। २।९।१) इति, तत्र अपि ऽसमस्तस्य खलु साम्न उपासनं साधुऽ (छा। २।८।१) ऽइति च पञ्चविधस्यऽ (छा। २।७।२ ) ऽअथ सप्तविधस्यऽ (छा। २।८।१) इति च साम्न एव उपास्यत्व उपक्रमात् तस्मिन् एव आदित्यादि अध्यासः । एतस्मात् एव च साम्न उपास्यत्व अवगमात् ऽपृथिवी हिङ्कारःऽ (छा। २।२।१) इत्यादिनिर्देशविपर्यये अपि हिङ्कारादिषु एव पृथिव्यादि दृष्टिः । तस्मात् अनङ्गाश्रया आदित्यादिमतयः अङ्गेषु उद्गीथादिषु क्षिप्येरन् इति सिद्धम् ॥ ६ ॥

ādityādimatayaś cāṅga upapatteḥ 'ya evāsau tapati tamudgīthamupāsīta' (chā. 1.3.1), 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1), 'vāci saptavidhaṃ sāmopāsīta' (chā. 2.8.1), 'iyamevargagniḥ sāma' (chā. 1.6.1) iti evamādiṣu aṅgāvabaddheṣu upāsaneṣu saṃśayaḥ kim ādityādiṣu udgīthādi dṛṣṭayo vidhīyante kiṃ vā udgīthādiṣu eva ādityādi dṛṣṭaya iti / tatra aniyamo niyamakāraṇa abhāvāt iti prāptam / na hi atra brahmaṇa iva kasyacit utkarṣaviśeṣaḥ avadhāryate 'brahma hi samasta jagat kāraṇatvāt apahatapāpmatvādi guṇayogāt ca ādityādibhya utkṛṣṭam iti śakyam avadhārayituṃ na tu āditya udgīthādīnāṃ vikāratva aviśeṣāt kañcit utkarṣaviśeṣa avadhāraṇe kāraṇam asti / athavā niyamena udgīthādimataya ādityādiṣu adhyasyeran / kasmāt / karmātmakatvāt udgīthādīnāṃ karmaṇaḥ ca phalaprāptiprasiddheḥ / udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmātmakāḥ santaḥ phalahetavo bhaviṣyanti / tathā ca 'iyamevargagniḥ sāma'(chā. 1.6.1) iti atra 'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti ṛkśabdena pṛthivīṃ nirdiśati sāmaśabdena agniṃ tat ca pṛthivi agnyoḥ rṛk sāmadṛṣṭicīkīrṣāyām avakalpate na ṛk sāmayoḥ pṛthivi agnidṛṣṭi cikīrṣāyām / kṣattari hi rājadṛṣṭikaraṇāt rājaśabda upacaryate na rājani kṣattṛśabdaḥ / api ca 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti adhikaraṇanirdeśāt lokeṣu sāma adhyasitavyam iti pratīyate / 'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) iti ca etadevaṃ darśayati / prathamanirdiṣṭeṣu ca ādityādiṣu caramanirdiṣṭaṃ brahma adhyastam 'ādityo brahmetyādeśaḥ' (chā. 3.19.1) ityādiṣu / prathamanirdiṣṭāḥ ca pṛthivyādayaḥ caramanardiṣṭā hiṅkārādayaḥ 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādi śrutiṣu / ataḥ anaṅgeṣu ādityādiṣu aṅgam atinikṣepa iti / evaṃ prāpte brūmaḥ - ādityādimataya eva aṅgeṣu udgīthādiṣu kṣipyeran / kutaḥ - upapatteḥ / upapadyate hi evam apūrvasaṃnikarṣāt ādityādimatibhiḥ saṃskriyamāṇeṣu udgīthādiṣu karmasamṛddhiḥ / 'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti ca vidyāyāḥ karmasamṛddhihetutvaṃ darśayati / bhavatu karmasamṛddhiphaleṣu evaṃ, svatantraphaleṣu tu katham 'ya etadevaṃ vidvāṃllokeṣu pañcavidhaṃ sāmopāste' (chā. 2.2.3) ityādiṣu / teṣu api adhikṛta adhikārāt prakṛta apūrvasaṃnikarṣeṇa eva phalakalpanā yuktā godohanādīniyamavat / phalātmakatvāt ca ādityādīnām udgīthādibhyaḥ karmātmakebhya utkarṣa upapattiḥ ādityādiprāptilakṣaṇaṃ hi karmaphalaṃ śiṣyate śrutiṣu / api ca 'omityetadakṣaramudgīthamupāsīta' (chā. 1.1.1) 'khalvetasyaivākṣarasyopavyākhyātaṃ bhavati' (chā. 1.1.10) iti ca udgīthameva upāsyatvena upakramya ādityādimatīḥ vidadhāti / yat tu uktam udgīthādimatibhiḥ upāsyamānā ādityādayaḥ karmabhūyaṃ bhūtvā phalaṃ kariṣyanti iti / tat ayuktam / svayameva upāsanasya karmatvāt phalavattva upapatteḥ / ādityādibhāvena api ca dṛśyamānānām udgīthādīnāṃ karmātmakatvān apāyāt / 'tadetadetasyāmṛcyadhyūḍhaṃ sāma' (chā. 1.6.1) iti tu lākṣaṇika eva pṛthivī agnyoḥ ṛk sāmaśabdaprayogaḥ / lakṣaṇā ca yathāsaṃbhavaṃ saṃnikṛṣṭena viprakṛṣṭena vā svārthasaṃbandhena pravartate / tatra yadi api ṛk sāmayoḥ pṛthivī agnyoḥ ca saṃnidhānayoreva eṣa ṛk sāmaśabdaprayoga ṛk sāmasaṃbandhāt iti niścīyate / kṣattṛśabdaḥapi hi kutaścit kāraṇāt rājānam upasarpan na nivārayituṃ pāryate / 'iyamevarka'(chā. 1.6.1) iti ca yathā akṣaranyāsam ṛca eva pṛthivītvam avadhārayati / pṛthivyā hi aktve avadhāryamāṇa iyam ṛk eva ityakṣaranyāsaḥ syāt / 'ya evaṃ vidvānsāma gāyati' (chā. 1.7.7) iti ca aṅgāśrayameva vijñānam upasaṃharati na pṛthivyādi āśrayam / tathā 'lokeṣu pañcavidhaṃ sāmopāsīta' (chā. 2.2.1) iti yadi api saptamīnirdiṣṭā lokāḥ tathāpi sāmnyeva te adhyasyeran dvitīyānirdeśena sāmna upāsyatva avagamāt / sāmani hi lokeṣu adhyasyamāneṣu sāma lokātmana upāsitaṃ bhavati / anyathā punaḥ lokāḥ sāmā ātmana upāsitāḥ syuḥ / etena 'etadgāyatraṃ prāṇeṣu protam' (chā. 2.11.1) ityādi vyākhyātam / yatra api tulyo dvitīyanirdeśaḥ - 'atha khalvamumādityaṃ saptavidhaṃ sāmopāsīta' (chā. 2.9.1) iti, tatra api 'samastasya khalu sāmna upāsanaṃ sādhu' (chā. 2.8.1) 'iti ca pañcavidhasya' (chā. 2.7.2 ) 'atha saptavidhasya' (chā. 2.8.1) iti ca sāmna eva upāsyatva upakramāt tasmin eva ādityādi adhyāsaḥ / etasmāt eva ca sāmna upāsyatva avagamāt 'pṛthivī hiṅkāraḥ' (chā. 2.2.1) ityādinirdeśaviparyaye api hiṅkārādiṣu eva pṛthivyādi dṛṣṭiḥ / tasmāt anaṅgāśrayā ādityādimatayaḥ aṅgeṣu udgīthādiṣu kṣipyeran iti siddham // 6 //

Sanskrit only: no published translation is held for this verse.

आसीनः संभवात् कर्माङ्गसंबद्धेषु तावत् उपासनेषु कर्मतन्त्रत्वात् न आसनादिचिन्ता न अपि सम्यक् दर्शने वस्तुतन्त्रत्वात् विज्ञानस्य । इतरेषु तु उपासनेषु किम् अनियमेन तिष्ठन् आसीनः शयानो वा प्रवर्तेत उत नियमेन आसीन एव इति चिन्तयति । तत्र मानसत्वात् उपासनस्य अनियमः शरीरस्थितेः इति । एवं प्राप्ते ब्रवीति - आसीन एव उपासीत इति । कुतः - संभवात् । उपासनं नाम समानप्रत्ययप्रवाहकरणं न च तत् गच्छतो धावतो वा संभवति गत्यादीनां चित्तविक्षेपकत्वात् । तिष्ठतः अपि देहधारणे व्यापृतं मनो न सूक्ष्मवस्तुनिरीक्षणक्षमं भवति । शयानस्य अपि अकस्मात् एव निद्रया अभिभूयेत । आसीनस्य तु एवञ्जातीयको भूयान् दोषः सुपरिहर इति संभवति तस्य उपासनम् ॥ ७ ॥

āsīnaḥ saṃbhavāt karmāṅgasaṃbaddheṣu tāvat upāsaneṣu karmatantratvāt na āsanādicintā na api samyak darśane vastutantratvāt vijñānasya / itareṣu tu upāsaneṣu kim aniyamena tiṣṭhan āsīnaḥ śayāno vā pravarteta uta niyamena āsīna eva iti cintayati / tatra mānasatvāt upāsanasya aniyamaḥ śarīrasthiteḥ iti / evaṃ prāpte bravīti - āsīna eva upāsīta iti / kutaḥ - saṃbhavāt / upāsanaṃ nāma samānapratyayapravāhakaraṇaṃ na ca tat gacchato dhāvato vā saṃbhavati gatyādīnāṃ cittavikṣepakatvāt / tiṣṭhataḥ api dehadhāraṇe vyāpṛtaṃ mano na sūkṣmavastunirīkṣaṇakṣamaṃ bhavati / śayānasya api akasmāt eva nidrayā abhibhūyeta / āsīnasya tu evañjātīyako bhūyān doṣaḥ suparihara iti saṃbhavati tasya upāsanam // 7 //

Sanskrit only: no published translation is held for this verse.

ध्यानाच् च अपि च ध्यायति अर्थं एष यत् समानप्रत्ययप्रवाहकरणम् । ध्यायतिः च प्रशिथिल अङ्गचेष्टेषु प्रतिष्ठितदृष्टिषु एकविषय आक्षिप्तचित्तेषु उपचर्यमाणो दृश्यते ध्यायति बको ध्यायति प्रोषितबन्धुः इति । आसीनः च अनायासो भवति । तस्मात् अपि आसीनकर्म उपासनम् ॥ ८ ॥

dhyānāc ca api ca dhyāyati arthaṃ eṣa yat samānapratyayapravāhakaraṇam / dhyāyatiḥ ca praśithila aṅgaceṣṭeṣu pratiṣṭhitadṛṣṭiṣu ekaviṣaya ākṣiptacitteṣu upacaryamāṇo dṛśyate dhyāyati bako dhyāyati proṣitabandhuḥ iti / āsīnaḥ ca anāyāso bhavati / tasmāt api āsīnakarma upāsanam // 8 //

Sanskrit only: no published translation is held for this verse.

अचलत्वं चापेक्ष्य अपि च ऽध्यायतीव पृथिवीऽ (छा। ७।६।१) इति अत्र पृथिव्यादिषु अचलत्वमेव अपेक्ष्य ध्यायतिवादो भवति तत् च लिङ्गम् उपासनस्य आसीनकर्मत्वे ॥ ९ ॥

acalatvaṃ cāpekṣya api ca 'dhyāyatīva pṛthivī' (chā. 7.6.1) iti atra pṛthivyādiṣu acalatvameva apekṣya dhyāyativādo bhavati tat ca liṅgam upāsanasya āsīnakarmatve // 9 //

Sanskrit only: no published translation is held for this verse.

स्मरन्ति च स्मरन्ति अपि च शिष्टा उपासन अङ्गत्वेन आसनम् - ऽशुचौ देशे प्रतिष्ठाप्य स्थिरमासनमात्मनःऽ (गी। ६।११) इत्यादिना । अत एव पद्मकादीनाम् आसनविशेषाणाम् उपदेशो योगशास्त्रे ॥ १० ॥

smaranti ca smaranti api ca śiṣṭā upāsana aṅgatvena āsanam - 'śucau deśe pratiṣṭhāpya sthiramāsanamātmanaḥ' (gī. 6.11) ityādinā / ata eva padmakādīnām āsanaviśeṣāṇām upadeśo yogaśāstre // 10 //

Sanskrit only: no published translation is held for this verse.

यत्रैकाग्रता तत्राविशेषात् दिक् देशकालेषु संशयः - किम् अस्ति कश्चित् नियमो न अस्ति वा इति । प्रायेण वैदिकेषु आरम्भेषु दिगादिनियमदर्शनात् स्यात् इह अपि कश्चित् नियम इति यस्य मतिः तं प्रति आह दिक् देशकालेषु अर्थलक्षण एव नियमः । यत्र एव अस्य दिशि देशे काले वा मनसः सोकर्येण एकाग्रता भवति तत्र एव उपासीत प्राचीदिक् पूर्वाह्न प्राचीन प्रवणादिवत् विशेष अश्रावणात् । एकाग्रतया इष्टायाः सर्वत्र अविशेषात् । ननु विशेषम् अपि केचित् आमनन्ति - ऽसमे शुचौ खर्करावह्निवालुकाविवर्जिते शब्दजलाश्रयादिभिः । मनोनुकूले नतु चक्षुपीडने गुहानिवाताश्रयणे प्रयोजयेत्ऽ (श्वे। २।१०) इति यथा इति । उच्यते - सत्यम् अस्ति एवञ्जातीयको नियमः । सति तु एतस्मिन् तद्गतेषु विशेषनियम इति सुहृत् भूत्वा आचार्य आचष्टे । ऽमनोनुकूलेऽ इति च एषा श्रुतिः यत्र एकाग्रता तत्र एव इति एतत् एव दर्शयति ॥ ११ ॥

yatraikāgratā tatrāviśeṣāt dik deśakāleṣu saṃśayaḥ - kim asti kaścit niyamo na asti vā iti / prāyeṇa vaidikeṣu ārambheṣu digādiniyamadarśanāt syāt iha api kaścit niyama iti yasya matiḥ taṃ prati āha dik deśakāleṣu arthalakṣaṇa eva niyamaḥ / yatra eva asya diśi deśe kāle vā manasaḥ sokaryeṇa ekāgratā bhavati tatra eva upāsīta prācīdik pūrvāhna prācīna pravaṇādivat viśeṣa aśrāvaṇāt / ekāgratayā iṣṭāyāḥ sarvatra aviśeṣāt / nanu viśeṣam api kecit āmananti - 'same śucau kharkarāvahnivālukāvivarjite śabdajalāśrayādibhiḥ / manonukūle natu cakṣupīḍane guhānivātāśrayaṇe prayojayet' (śve. 2.10) iti yathā iti / ucyate - satyam asti evañjātīyako niyamaḥ / sati tu etasmin tadgateṣu viśeṣaniyama iti suhṛt bhūtvā ācārya ācaṣṭe / 'manonukūle' iti ca eṣā śrutiḥ yatra ekāgratā tatra eva iti etat eva darśayati // 11 //

Sanskrit only: no published translation is held for this verse.

आ प्रयाणात् तत्रापि हि दृष्टम् आवृत्तिः सर्व उपासनेषु आदर्तव्य इति स्थितम् आद्ये अधिकरणे । तत्र यानि तावत् सम्यक् दर्शनार्थानि उपासनानि तानि अवघातादिवत् कार्यपर्यवसानानि इति ज्ञातमेव एषाम् आवृत्तिपरिमाणम् । न हि सम्यक् दर्शने कार्ये निष्पन्ने यत्नान्तरं किञ्चित् शासितुं शक्यम् । अनियोज्यब्रह्मात्मत्वप्रतिपत्तेः शास्त्रस्य अविषयत्वात् । यानि पुनः अभ्युदयफलानि तेषु एषा चिन्ता किं कियन्तञ्चित् कालं प्रत्ययम् आवर्त्य उपरमेत् उत यावज्जीवम् आवर्तयेत् इति । किं तावत् प्राप्तम् । कियन्तञ्चित् कालं प्रत्ययम् अभ्यस्य उत्सृजेत् आवृत्तिविशिष्टस्य उपासनशब्दार्थस्य कृतत्वात् इति । एवं प्राप्ते ब्रूमः - आप्रायणात् एव आवर्तयेत् प्रत्ययम् । अन्त्यप्रत्ययवशात् अदृष्टफलप्राप्तेः । कर्माणि अपि हि जन्मान्तर उपभोग्यं फलम् आरभमाणानि तत् अनुरूपं भावनाविज्ञानं प्रायणकाल आक्षिपन्ति, ऽसविज्ञानो भवति सविज्ञानमेवान्ववक्रामतिऽ ऽयच्चित्तस्तेनैष प्राणमायाति, प्राणस्तेजसा युक्तः सहात्मना यथासंकल्पितं लोकं नयतिऽ इति च एवमादिश्रुतिभ्यः । तृणजलूकानिदर्शनात् च । प्रत्ययाः तु एते स्वरूप अनुवृत्तिं मुक्त्वा किम् अन्यत् प्रायणकालभावि भावनाविज्ञानम् अपेक्षेरन् । तस्मात् ये प्रतिपत्तव्यफलभावनात्मकाः प्रत्ययः तेषु अप्रायणात् आवृत्तिः । तथा च श्रुतिः -ऽस यावत्क्रतुरयमस्माल्लोकात्प्रैतिऽ इति प्रायणकाले अपि प्रत्यय अनुवृत्तिं दर्शयति । स्मृतिः अपि - ऽयं यं वापि स्मरन्भावं त्यजत्यन्ते कलेवरम् । तं तमेवैति कौन्तेय सदा तद्भावभावितःऽ (गी। ८।६) इति ऽप्रयाणकाले मनसाचलेनऽ (गी। ८।१०) इति च । ऽसो ऽन्तवेलायामेतत्त्रयं प्रतिपद्येतऽ इति च मरणवेलायाम् अपि कर्तव्यशेषं श्रावयति ॥ १२ ॥

ā prayāṇāt tatrāpi hi dṛṣṭam āvṛttiḥ sarva upāsaneṣu ādartavya iti sthitam ādye adhikaraṇe / tatra yāni tāvat samyak darśanārthāni upāsanāni tāni avaghātādivat kāryaparyavasānāni iti jñātameva eṣām āvṛttiparimāṇam / na hi samyak darśane kārye niṣpanne yatnāntaraṃ kiñcit śāsituṃ śakyam / aniyojyabrahmātmatvapratipatteḥ śāstrasya aviṣayatvāt / yāni punaḥ abhyudayaphalāni teṣu eṣā cintā kiṃ kiyantañcit kālaṃ pratyayam āvartya uparamet uta yāvajjīvam āvartayet iti / kiṃ tāvat prāptam / kiyantañcit kālaṃ pratyayam abhyasya utsṛjet āvṛttiviśiṣṭasya upāsanaśabdārthasya kṛtatvāt iti / evaṃ prāpte brūmaḥ - āprāyaṇāt eva āvartayet pratyayam / antyapratyayavaśāt adṛṣṭaphalaprāpteḥ / karmāṇi api hi janmāntara upabhogyaṃ phalam ārabhamāṇāni tat anurūpaṃ bhāvanāvijñānaṃ prāyaṇakāla ākṣipanti, 'savijñāno bhavati savijñānamevānvavakrāmati' 'yaccittastenaiṣa prāṇamāyāti, prāṇastejasā yuktaḥ sahātmanā yathāsaṃkalpitaṃ lokaṃ nayati' iti ca evamādiśrutibhyaḥ / tṛṇajalūkānidarśanāt ca / pratyayāḥ tu ete svarūpa anuvṛttiṃ muktvā kim anyat prāyaṇakālabhāvi bhāvanāvijñānam apekṣeran / tasmāt ye pratipattavyaphalabhāvanātmakāḥ pratyayaḥ teṣu aprāyaṇāt āvṛttiḥ / tathā ca śrutiḥ -'sa yāvatkraturayamasmāllokātpraiti' iti prāyaṇakāle api pratyaya anuvṛttiṃ darśayati / smṛtiḥ api - 'yaṃ yaṃ vāpi smaranbhāvaṃ tyajatyante kalevaram / taṃ tamevaiti kaunteya sadā tadbhāvabhāvitaḥ' (gī. 8.6) iti 'prayāṇakāle manasācalena' (gī. 8.10) iti ca / 'so 'ntavelāyāmetattrayaṃ pratipadyeta' iti ca maraṇavelāyām api kartavyaśeṣaṃ śrāvayati // 12 //

Sanskrit only: no published translation is held for this verse.

तदधिगम उत्तरपूर्वाघयोर् अश्लेषविनाशौ तद्व्यपदेशात् गतः तृतीयशेषः । अथ इदानीं ब्रह्मविद्याफलं प्रति चिन्ता प्रतायते । ब्रह्म अधिगमे सति तत् विपरीतफलं दुरितं क्षीयते न क्षीयते वा इति संशयः । किं तावत् प्राप्तम् । फलार्थत्वात् कर्मणः फलम् अदत्वा न संभाव्यते क्षयः । फलदायिनी हि अस्य शक्तिः श्रुत्या समधिगता । यदि तदन्तरेण एव फल उपभोगम् अपवृज्येत श्रुतिः कदर्थिता स्यात् । स्मरन्ति च ऽनहि कर्म क्षीयतेऽ इति । ननु एवं सति प्रायश्चित्त उपदेशःअनर्थकः प्राप्नोति । न एष दोषः । प्रायश्चित्तानां नैमित्तिकत्व उपपत्तेः गृहदाह इष्ट्यादिवत् । अपि च प्रायश्चित्तानां दोषसंयोगेन विदानात् भवेत् अपि दोषक्षपणार्थता न तु एवं ब्रह्मविद्यायां विधानम् अस्ति । ननु अनभ्युपगम्यमाने ब्रह्मविदः कर्मक्षये तत्फलस्य अवश्यं भोक्तव्यतावात् अनिर्मोक्षः स्यात् । न इति उच्यते । देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भविष्यति । तस्मात् न ब्रह्म अधिगमे दुरितनिवृत्तिः इति । एवं प्राप्ते ब्रूमः- तत् अधिगमे ब्रह्म अधिगमे सति उत्तरपूर्वयोः अघयोः अश्लेषविनाशौ भवतः उत्तरस्य अश्लेषः पूर्वस्य विनाशः । कस्मात् । तत् व्यपदेशात् । तथा हि ब्रह्मविद्या प्रक्रियायां संभाव्यमानसंबन्धस्य आगामिनो दुरितस्य अनभिसंबन्धं विदुषो व्यपदिशति - ऽयथा पुष्करपलाश आपो न श्लिष्यन्त एवमेवंविदि पापं कर्म न श्लिष्यतेऽ (छा।४।१४।३) इति । तथा विनाशम् अपि पूर्व उचितस्य दुरितस्य व्यपदिशति - ऽतद्यथेषीकातूलमग्नौ प्रोतं प्रदूयेतैवं हास्य सर्वे पाप्मानः प्रदूयन्तेऽ (छा। ५।२४।३) इति । अयम् अपरः कर्मक्षयव्यपदेशो भवति - ऽभिद्यते हृदयग्रन्थिश्छिद्यन्ते सर्वसंशयाः । क्षीयन्ते चास्य कर्माणि तस्मिन्दृष्टे परावरेऽ (मु। २।२।८) इति । यत् उक्तम् अनुपभुक्तफलस्य कर्मणः क्षयकल्पनायां शास्त्रं कदर्थितं स्यात् इति । न एष दोषः । न हि वयं कर्मणः फलदायिनीं शक्तिम् अवजानीमहे, विद्यत एव सा, सा तु विद्यादिना कारणान्तरेण प्रतिबध्यत इति वदामः । शक्तिसद्भावमात्रे च शास्त्रं व्याप्रियते न प्रतिबन्ध अप्रतिबन्धयोः अपि । न हि कर्म क्षीयत इति एतत् अपि स्मरणम् औत्सर्गिकं न भोगात् ऋते कर्म क्षीयत तदर्थत्वात् इति । इष्यत एव तु प्रायश्चित्तादिना तस्य क्षयः ऽसर्वं पाप्मानं तरतिऽ ऽतरति ब्रह्महत्यां यो ऽश्वमेधेन यजते य उ चैनमेव वदऽ इत्यादि श्रुतिस्मृतिभ्यः । यत् तु उक्तं नैमित्तिकानि प्रायश्चित्तानि भविष्यन्ति इति । तत् असत् । दोषसंयोगेन चोद्यमानानाम् एषां दोषनिर्घातफलसंभवे फलान्तरकल्पना अनुपपत्तेः । यत्पुनः एतत् उक्तं न प्रायश्चित्तवत् दोषक्षय उद्देशेन विद्याविदानम् अस्ति इति । अत्र ब्रूमः - सगुणासु तावत् विद्यासु विद्यत एव विधानम् । तासु च वाक्यशेष ऐश्वर्यप्राप्तिः पापनिवृत्तिः च विद्यावत उच्यते । तयोः च अविवक्षाकारणं न अस्ति इति अतः पाप्मप्रहाणपूर्वक ऐश्वर्यप्राप्तिः तासां फलम् इति निश्चीयते । निर्गुणायां तु विद्यायां यदि अपि विधानं न अस्ति तथा अपि अकर्तृ आत्मत्वबोधात् कर्मप्रदाहसिद्धिः । अश्लेष इति च आगामिषु कर्मसु कर्तृत्वमेव न प्रतिपद्यते ब्रह्मवित् इति दर्शयति । अतिक्रान्तेषु तु यदि अपि मिथ्याज्ञानात् कर्तृत्वं प्रतिपेद इव तथा अपि विद्यासामर्थ्यात् मिथ्याज्ञाननिवृत्तेः तानि अपि प्रविलीयन्त इति आह विनाश इति । पूर्वसिद्धकर्तृत्व भोक्तृत्व विपरीतं हि त्रिषु अपि कालेषु अकर्तृत्व अभोक्तृत्वस्वरूपं ब्रह्म अहम् अस्मि न इतः पूर्वम् अपि कर्ता भोक्ता वा अहम् आसं न इदानीं न अपि भविष्यत्काल इति ब्रह्मवित् अवगच्छति । एवम् एव च मोक्ष उपपद्यते । अन्यथा हि अनादिकालप्रवृत्तानां कर्माणां क्षयाभावे मोक्ष अभावः स्यात् । न च देशकालनिमित्तापेक्षो मोक्षः कर्मफलवत् भवितुम् अर्हति । अनित्यत्व प्रसङ्गात् । परोक्षत्व अनुपपत्तेः च ज्ञानफलम् । तस्मात् ब्रह्म अधिगमे दुरितक्षय इति स्थिरम् ॥ १३ ॥

tadadhigama uttarapūrvāghayor aśleṣavināśau tadvyapadeśāt gataḥ tṛtīyaśeṣaḥ / atha idānīṃ brahmavidyāphalaṃ prati cintā pratāyate / brahma adhigame sati tat viparītaphalaṃ duritaṃ kṣīyate na kṣīyate vā iti saṃśayaḥ / kiṃ tāvat prāptam / phalārthatvāt karmaṇaḥ phalam adatvā na saṃbhāvyate kṣayaḥ / phaladāyinī hi asya śaktiḥ śrutyā samadhigatā / yadi tadantareṇa eva phala upabhogam apavṛjyeta śrutiḥ kadarthitā syāt / smaranti ca 'nahi karma kṣīyate' iti / nanu evaṃ sati prāyaścitta upadeśaḥanarthakaḥ prāpnoti / na eṣa doṣaḥ / prāyaścittānāṃ naimittikatva upapatteḥ gṛhadāha iṣṭyādivat / api ca prāyaścittānāṃ doṣasaṃyogena vidānāt bhavet api doṣakṣapaṇārthatā na tu evaṃ brahmavidyāyāṃ vidhānam asti / nanu anabhyupagamyamāne brahmavidaḥ karmakṣaye tatphalasya avaśyaṃ bhoktavyatāvāt anirmokṣaḥ syāt / na iti ucyate / deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhaviṣyati / tasmāt na brahma adhigame duritanivṛttiḥ iti / evaṃ prāpte brūmaḥ- tat adhigame brahma adhigame sati uttarapūrvayoḥ aghayoḥ aśleṣavināśau bhavataḥ uttarasya aśleṣaḥ pūrvasya vināśaḥ / kasmāt / tat vyapadeśāt / tathā hi brahmavidyā prakriyāyāṃ saṃbhāvyamānasaṃbandhasya āgāmino duritasya anabhisaṃbandhaṃ viduṣo vyapadiśati - 'yathā puṣkarapalāśa āpo na śliṣyanta evamevaṃvidi pāpaṃ karma na śliṣyate' (chā.4.14.3) iti / tathā vināśam api pūrva ucitasya duritasya vyapadiśati - 'tadyatheṣīkātūlamagnau protaṃ pradūyetaivaṃ hāsya sarve pāpmānaḥ pradūyante' (chā. 5.24.3) iti / ayam aparaḥ karmakṣayavyapadeśo bhavati - 'bhidyate hṛdayagranthiśchidyante sarvasaṃśayāḥ / kṣīyante cāsya karmāṇi tasmindṛṣṭe parāvare' (mu. 2.2.8) iti / yat uktam anupabhuktaphalasya karmaṇaḥ kṣayakalpanāyāṃ śāstraṃ kadarthitaṃ syāt iti / na eṣa doṣaḥ / na hi vayaṃ karmaṇaḥ phaladāyinīṃ śaktim avajānīmahe, vidyata eva sā, sā tu vidyādinā kāraṇāntareṇa pratibadhyata iti vadāmaḥ / śaktisadbhāvamātre ca śāstraṃ vyāpriyate na pratibandha apratibandhayoḥ api / na hi karma kṣīyata iti etat api smaraṇam autsargikaṃ na bhogāt ṛte karma kṣīyata tadarthatvāt iti / iṣyata eva tu prāyaścittādinā tasya kṣayaḥ 'sarvaṃ pāpmānaṃ tarati' 'tarati brahmahatyāṃ yo 'śvamedhena yajate ya u cainameva vada' ityādi śrutismṛtibhyaḥ / yat tu uktaṃ naimittikāni prāyaścittāni bhaviṣyanti iti / tat asat / doṣasaṃyogena codyamānānām eṣāṃ doṣanirghātaphalasaṃbhave phalāntarakalpanā anupapatteḥ / yatpunaḥ etat uktaṃ na prāyaścittavat doṣakṣaya uddeśena vidyāvidānam asti iti / atra brūmaḥ - saguṇāsu tāvat vidyāsu vidyata eva vidhānam / tāsu ca vākyaśeṣa aiśvaryaprāptiḥ pāpanivṛttiḥ ca vidyāvata ucyate / tayoḥ ca avivakṣākāraṇaṃ na asti iti ataḥ pāpmaprahāṇapūrvaka aiśvaryaprāptiḥ tāsāṃ phalam iti niścīyate / nirguṇāyāṃ tu vidyāyāṃ yadi api vidhānaṃ na asti tathā api akartṛ ātmatvabodhāt karmapradāhasiddhiḥ / aśleṣa iti ca āgāmiṣu karmasu kartṛtvameva na pratipadyate brahmavit iti darśayati / atikrānteṣu tu yadi api mithyājñānāt kartṛtvaṃ pratipeda iva tathā api vidyāsāmarthyāt mithyājñānanivṛtteḥ tāni api pravilīyanta iti āha vināśa iti / pūrvasiddhakartṛtva bhoktṛtva viparītaṃ hi triṣu api kāleṣu akartṛtva abhoktṛtvasvarūpaṃ brahma aham asmi na itaḥ pūrvam api kartā bhoktā vā aham āsaṃ na idānīṃ na api bhaviṣyatkāla iti brahmavit avagacchati / evam eva ca mokṣa upapadyate / anyathā hi anādikālapravṛttānāṃ karmāṇāṃ kṣayābhāve mokṣa abhāvaḥ syāt / na ca deśakālanimittāpekṣo mokṣaḥ karmaphalavat bhavitum arhati / anityatva prasaṅgāt / parokṣatva anupapatteḥ ca jñānaphalam / tasmāt brahma adhigame duritakṣaya iti sthiram // 13 //

Sanskrit only: no published translation is held for this verse.

इतरस्याप्य् एवम् असंश्लेषः पाते तु पूर्वस्मिन् अधिकरणे बन्धहेतोः अघस्य स्वाभाविकस्य अश्लेषविनाशौ ज्ञाननिमित्तौ शास्त्रव्यपदेशात् निरूपितौ । धर्मस्य पुनः शास्त्रीयत्वात् शास्त्रीयेण ज्ञानेन अविरोध इति आशङ्क्य तत् निराकरणाय पूर्व अधिकरणन्याय अतिदेशः क्रियते । इतरस्य अपि पुण्यस्य कर्मण एवम् अघवत् असंश्लेषो विनाशः च ज्ञानवतो भवतः । कुतः - तस्य अपि स्वफलहेतुत्वेन ज्ञानफलप्रतिबन्धित्वप्रसङ्गात् । ऽउभे उ हैवैष एते तरतिऽ (बृ। ४।४।२२) इत्यादिश्रुतिषु च दुष्कृतवत् सुकृतस्य अपि प्रणाशव्यपदेशात् । अकर्तृ आत्मत्वबोधनिमित्तस्य च कर्मक्षयस्य सुकृतदुष्कृतयोः तुल्यत्वात् ऽक्षीयन्ते चास्य कर्माणिऽ (मु। २।२।८) इति च अविशेषश्रुतेः । यत्र अपि केवल एव पाप्मशब्दो दृश्यते तत्र अपि तेन एव पुण्यम् अपि अकलितम् इति द्रष्टव्यम् । ज्ञानफल अपेक्षया निकृष्टफलत्वात् । अस्ति च श्रुतौ पुण्ये अपि पाप्मशब्दः ऽनैनं सेतुमहोरात्रे तरतःऽ (छा। ८।४।१) इति अत्र सह दुष्कृतेन सकृतमपि अनुक्रम्य सर्वे पाप्मानः अतो निवर्तन्त इति अविशेषेण एव प्रकृते पुण्ये पाप्मशब्दप्रयोगात् । पाते तु इति तु शब्दः अवधारणार्थः । एवं धर्म अधर्मयोः बन्धहेत्वोः विद्यासामर्थ्यात् अश्लेषविनाशसिद्धेः अवश्यंभाविनी विदुषः शरीरपाते मुक्तिः इति अवधारयति ॥ १४॥

itarasyāpy evam asaṃśleṣaḥ pāte tu pūrvasmin adhikaraṇe bandhahetoḥ aghasya svābhāvikasya aśleṣavināśau jñānanimittau śāstravyapadeśāt nirūpitau / dharmasya punaḥ śāstrīyatvāt śāstrīyeṇa jñānena avirodha iti āśaṅkya tat nirākaraṇāya pūrva adhikaraṇanyāya atideśaḥ kriyate / itarasya api puṇyasya karmaṇa evam aghavat asaṃśleṣo vināśaḥ ca jñānavato bhavataḥ / kutaḥ - tasya api svaphalahetutvena jñānaphalapratibandhitvaprasaṅgāt / 'ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) ityādiśrutiṣu ca duṣkṛtavat sukṛtasya api praṇāśavyapadeśāt / akartṛ ātmatvabodhanimittasya ca karmakṣayasya sukṛtaduṣkṛtayoḥ tulyatvāt 'kṣīyante cāsya karmāṇi' (mu. 2.2.8) iti ca aviśeṣaśruteḥ / yatra api kevala eva pāpmaśabdo dṛśyate tatra api tena eva puṇyam api akalitam iti draṣṭavyam / jñānaphala apekṣayā nikṛṣṭaphalatvāt / asti ca śrutau puṇye api pāpmaśabdaḥ 'nainaṃ setumahorātre tarataḥ' (chā. 8.4.1) iti atra saha duṣkṛtena sakṛtamapi anukramya sarve pāpmānaḥ ato nivartanta iti aviśeṣeṇa eva prakṛte puṇye pāpmaśabdaprayogāt / pāte tu iti tu śabdaḥ avadhāraṇārthaḥ / evaṃ dharma adharmayoḥ bandhahetvoḥ vidyāsāmarthyāt aśleṣavināśasiddheḥ avaśyaṃbhāvinī viduṣaḥ śarīrapāte muktiḥ iti avadhārayati // 14//

Sanskrit only: no published translation is held for this verse.

अनारब्धकार्ये एव तु पूर्वे तदवधेः पूर्वयोः अधिकरणयोः ज्ञाननिमित्तः सुकृतदुष्कृतयोः विनाशः अवधारितः स किम् अविशेषेण आरब्धकार्ययोः अनारब्धकार्ययोः च भवति उत विशेषेण अनारब्धकार्ययोः एव इति विचार्यते । ऽतत्र उभे उ हैवैष एते तरतिऽ (बृ। ४।४।२२) इति एवमादिश्रुतिषु अविशेषश्रवणात् अविशेषेण एव क्षय इति । एवं प्राप्ते प्रत्याह - अनारब्धकार्ये एव तु इति । अप्रवृत्तफले एव पूर्वे जन्मान्तरसंचिते अस्मिन् अपि च जन्मनि प्राक् ज्ञान उत्पत्तेः संचिते सुकृतदुष्कृते ज्ञान अधिगमात् क्षीयेते न तु आरब्धकार्ये सामिभुक्तफले याभ्याम् एतत् ब्रह्मज्ञान आयतनं जन्म निर्मितम् । कुत एतत् - ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छा। ६।१४।२) इति शरीरपातौ अधिकरणात् क्षेमप्राप्तेः । इतरथा हि ज्ञानात् अशेषकर्मक्षये सति स्थितिहेतु अभावात् ज्ञानप्राप्ति अनन्तरमेव क्षेमम्श्नु अवीत, तत्र शरीरपातप्रतीक्षां न आचक्षीत । ननु वस्तुबलेन एव अयम् अकर्तृ आत्मावबोधः कर्माणि क्षपयन् कथं कानिचित् क्षपयेत् कानिचित् च उपेक्षेत । न हि समाने अग्निबीजसंपर्के केषाञ्चित् बीजशक्तिः क्षीयते केषाञ्चित् न क्षीयत इति शक्यम् अङ्गीकर्तुम् इति । उच्यते - न तावत् अनाश्रित्य आरब्धकार्यं कर्माशयं ज्ञान उत्पत्तिः उपपद्यते । आश्रिते च तस्मिन् कुलालचक्रवत् प्रवृत्तवेगस्य अन्तराले प्रतिबन्ध असंभवात् भवति वेगक्षयप्रतिपालनम् । अकर्तृ आत्मबोधः अपि हि मिथ्याज्ञानबाधनेन कर्माणि उच्छिनत्ति । बाधितम् अपि तु मिथ्याज्ञानं द्विचन्द्रज्ञानवत् संस्कारवशात् कञ्चित्कालम् अनुवर्तत एव । अपि च न एव अत्र विवदितव्यं ब्रह्मविदा कञ्चित्कालं शरीरं ध्रियते न वा ध्रियत इति । कथं हि एकस्य स्वहृदयप्रत्ययं ब्रह्मवेदनं देहधारणं च अपरेण प्रतिक्षेप्तुं शक्येत । श्रुतिस्मृतिषु च स्थितप्रज्ञलक्षणनिर्देशेन एतदेव निरुच्यते । तस्मात् अनारब्धकार्ययोः एव सुकृतदुष्कृतयोः विद्यासामर्थ्यात् क्षय इति निर्णयः ॥ १५ ॥

anārabdhakārye eva tu pūrve tadavadheḥ pūrvayoḥ adhikaraṇayoḥ jñānanimittaḥ sukṛtaduṣkṛtayoḥ vināśaḥ avadhāritaḥ sa kim aviśeṣeṇa ārabdhakāryayoḥ anārabdhakāryayoḥ ca bhavati uta viśeṣeṇa anārabdhakāryayoḥ eva iti vicāryate / 'tatra ubhe u haivaiṣa ete tarati' (bṛ. 4.4.22) iti evamādiśrutiṣu aviśeṣaśravaṇāt aviśeṣeṇa eva kṣaya iti / evaṃ prāpte pratyāha - anārabdhakārye eva tu iti / apravṛttaphale eva pūrve janmāntarasaṃcite asmin api ca janmani prāk jñāna utpatteḥ saṃcite sukṛtaduṣkṛte jñāna adhigamāt kṣīyete na tu ārabdhakārye sāmibhuktaphale yābhyām etat brahmajñāna āyatanaṃ janma nirmitam / kuta etat - 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chā. 6.14.2) iti śarīrapātau adhikaraṇāt kṣemaprāpteḥ / itarathā hi jñānāt aśeṣakarmakṣaye sati sthitihetu abhāvāt jñānaprāpti anantarameva kṣemamśnu avīta, tatra śarīrapātapratīkṣāṃ na ācakṣīta / nanu vastubalena eva ayam akartṛ ātmāvabodhaḥ karmāṇi kṣapayan kathaṃ kānicit kṣapayet kānicit ca upekṣeta / na hi samāne agnibījasaṃparke keṣāñcit bījaśaktiḥ kṣīyate keṣāñcit na kṣīyata iti śakyam aṅgīkartum iti / ucyate - na tāvat anāśritya ārabdhakāryaṃ karmāśayaṃ jñāna utpattiḥ upapadyate / āśrite ca tasmin kulālacakravat pravṛttavegasya antarāle pratibandha asaṃbhavāt bhavati vegakṣayapratipālanam / akartṛ ātmabodhaḥ api hi mithyājñānabādhanena karmāṇi ucchinatti / bādhitam api tu mithyājñānaṃ dvicandrajñānavat saṃskāravaśāt kañcitkālam anuvartata eva / api ca na eva atra vivaditavyaṃ brahmavidā kañcitkālaṃ śarīraṃ dhriyate na vā dhriyata iti / kathaṃ hi ekasya svahṛdayapratyayaṃ brahmavedanaṃ dehadhāraṇaṃ ca apareṇa pratikṣeptuṃ śakyeta / śrutismṛtiṣu ca sthitaprajñalakṣaṇanirdeśena etadeva nirucyate / tasmāt anārabdhakāryayoḥ eva sukṛtaduṣkṛtayoḥ vidyāsāmarthyāt kṣaya iti nirṇayaḥ // 15 //

Sanskrit only: no published translation is held for this verse.

अग्निहोत्रादि तु तत्कार्यायैव तद्दर्शनात् पुण्यस्य अपि अश्लेषविनाशयोः अघन्यायः अतिदिष्टः सः अतिदेशः सर्वपुण्यविषय इति आशङ्क्य प्रतिवक्ति - अग्निहोत्रादि तु इति । तु शब्द आशङ्काम् उपनुदति । यत् नित्यं कर्म वैदिकम् अग्निहोत्रादि तत् तत् कार्याय एव भवति, ज्ञानस्य यत्कार्यं तदेव अस्य अपि कार्यम् इत्यर्थः । कुतः - ऽतमेतं वेदानुवचनेन ब्राह्मणा विविदिषन्ति यज्ञेन दानेनऽ (बृ। ४।४।२२) इत्यादिदर्शनात् । ननु ज्ञानकर्मणोः विलक्षणकार्यत्वात् कार्य एकत्व अनुपपत्तिः । न एष दोषः । ज्वरमरणकार्ययोः अपि दधिविषयोः गुडमन्त्रसंयुक्तयोः तृप्तिपुष्टिकार्यदर्शनात् । तद्वत् कर्मणः अपि ज्ञानसंयुक्तस्य मोक्षकार्य उपपत्तेः । ननु अनारभ्यो मोक्षः कथम् अस्य कर्मकार्यत्वम् उच्यते । न एष दोषः । आरात् उपकारकत्वात् कर्मणः । ज्ञानस्य एव हि प्रापकं सत्कर्म प्राणाड्या मोक्षकारणम् इति उपचर्यते । अत एव च अतिक्रान्तविषयम् एतत् कार्य एकत्व अभिधानम् । न हि ब्रह्मविद आगामि अग्निहोत्रादि संभवति । अनियोज्यब्रह्मात्मत्व प्रतिपत्तेः शास्त्रस्य अविषयत्वात् । सगुणासु तु विद्यासु कर्तृत्व अनतिवृत्तेः संभवति आगामि अपि अग्निहोत्रादि । तस्य अपि निरभिसंधिनः कार्यान्तर अभावात् विद्यासंगति उपपत्तिः ॥ १६ ॥ किंविषयं पुनः इदम् अश्लेषविनाश वचनं किंविषयं वा अदो विनियोगवचनम् एकेषां शाखिनाम् ऽतस्य पुत्रा दायमुपयन्ति सुहृदः साधुकृत्यां द्विषन्तः पापकृत्याम्ऽ इति । अत उत्तरं पठति -

agnihotrādi tu tatkāryāyaiva taddarśanāt puṇyasya api aśleṣavināśayoḥ aghanyāyaḥ atidiṣṭaḥ saḥ atideśaḥ sarvapuṇyaviṣaya iti āśaṅkya prativakti - agnihotrādi tu iti / tu śabda āśaṅkām upanudati / yat nityaṃ karma vaidikam agnihotrādi tat tat kāryāya eva bhavati, jñānasya yatkāryaṃ tadeva asya api kāryam ityarthaḥ / kutaḥ - 'tametaṃ vedānuvacanena brāhmaṇā vividiṣanti yajñena dānena' (bṛ. 4.4.22) ityādidarśanāt / nanu jñānakarmaṇoḥ vilakṣaṇakāryatvāt kārya ekatva anupapattiḥ / na eṣa doṣaḥ / jvaramaraṇakāryayoḥ api dadhiviṣayoḥ guḍamantrasaṃyuktayoḥ tṛptipuṣṭikāryadarśanāt / tadvat karmaṇaḥ api jñānasaṃyuktasya mokṣakārya upapatteḥ / nanu anārabhyo mokṣaḥ katham asya karmakāryatvam ucyate / na eṣa doṣaḥ / ārāt upakārakatvāt karmaṇaḥ / jñānasya eva hi prāpakaṃ satkarma prāṇāḍyā mokṣakāraṇam iti upacaryate / ata eva ca atikrāntaviṣayam etat kārya ekatva abhidhānam / na hi brahmavida āgāmi agnihotrādi saṃbhavati / aniyojyabrahmātmatva pratipatteḥ śāstrasya aviṣayatvāt / saguṇāsu tu vidyāsu kartṛtva anativṛtteḥ saṃbhavati āgāmi api agnihotrādi / tasya api nirabhisaṃdhinaḥ kāryāntara abhāvāt vidyāsaṃgati upapattiḥ // 16 // kiṃviṣayaṃ punaḥ idam aśleṣavināśa vacanaṃ kiṃviṣayaṃ vā ado viniyogavacanam ekeṣāṃ śākhinām 'tasya putrā dāyamupayanti suhṛdaḥ sādhukṛtyāṃ dviṣantaḥ pāpakṛtyām' iti / ata uttaraṃ paṭhati -

Sanskrit only: no published translation is held for this verse.

अतो ऽन्यापि ह्य् एकेषाम् उभयोः अतः अग्निहोत्रादेः नित्यात्कर्मणः अन्यापि हि अस्ति साधुकृत्या या फलम् अभिसंधाय क्रियते तस्या एष विनियोग उक्त एकेषां शाखिनाम् ऽसुहृदः साधुकृत्यामुपयन्तिऽ इति । तस्या एव च इदम् अघवत् अश्लेषविनाशनिरूपणम् इतरस्य अपि एवम् अश्लेष इति । तथा जातीयकस्य काम्यस्य कर्मणो विद्यां प्रति अनुपकारकत्वे संप्रतिपत्तिः उभयोः अपि जैमिनिबादरायणयोः आचार्ययोः ॥ १७ ॥

ato 'nyāpi hy ekeṣām ubhayoḥ ataḥ agnihotrādeḥ nityātkarmaṇaḥ anyāpi hi asti sādhukṛtyā yā phalam abhisaṃdhāya kriyate tasyā eṣa viniyoga ukta ekeṣāṃ śākhinām 'suhṛdaḥ sādhukṛtyāmupayanti' iti / tasyā eva ca idam aghavat aśleṣavināśanirūpaṇam itarasya api evam aśleṣa iti / tathā jātīyakasya kāmyasya karmaṇo vidyāṃ prati anupakārakatve saṃpratipattiḥ ubhayoḥ api jaiminibādarāyaṇayoḥ ācāryayoḥ // 17 //

Sanskrit only: no published translation is held for this verse.

यद् एव विद्ययेति हि समधिगतम् एतत् अनन्तर अधिकरणे नित्यम् अग्निहोत्रादिकं कर्म मुमुक्षुणा मोक्षप्रयोजन उद्देशेन कृतम् उपात्तदुरितक्षयहेतुत्वद्वारेण सत्त्वशुद्धिकारणतां प्रतिपद्यमानं मोक्षप्रयोजनब्रह्म अधिगमनिमित्तत्वेन ब्रह्मविद्यया सह एककार्यं भवति इति । तत्र अग्निहोत्रादि कर्माङ्गव्यपाश्रयविद्यासंयुक्तं केवलं च अस्ति । ऽय एवं विद्वानयजतिऽ ऽय एवं विद्वाञ्जुहोतिऽ ऽय एवं विद्वाञ्छंसतिऽ ऽय एवं विद्वान्गायतिऽ ऽतस्मादेवंविदमेव ब्रह्माणं कुर्विति नानेवं विदंऽ (छा। ४।१७।१०) ऽतेनोभौ कुरुतो यश्चैतदेवं वेद यश्च न वेदऽ (छा। १।१।१०) इत्यादिवचनेभ्यो विद्यासंयुक्तम् अस्ति केवलम् अपि अस्ति । तत्र इदं विचार्यते - किं विद्यासंयुक्तमेव अग्निहोत्रादिकं कर्म मुमुक्षोः विद्याहेतुत्वेन तया सह एककार्यत्वं प्रतिपद्यते न केवलम् उत विद्यासंयुक्तं केवलं च अविशेषेण इति । कुतः संशयः - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति यज्ञादीनाम्वि अशेषेण आत्मवेदनाङ्गत्वेन श्रवणात् । विद्यासंयुक्तस्य च अग्निहोत्रादीनाम् अविशेषत्व अवगमात् । किं तावत् प्राप्तं विद्यासंयुक्तम् एव कर्माग्निहोत्रादि आत्मविद्याशेषत्वं प्रतिपद्यते न विद्याहीनम् । विद्या उपेतस्य विशिष्टत्व अवगमात् विद्याविहीनात् । ऽयदहरेव जुहोति तदहः पुनर्मृत्युमपजयत्येवंविद्वान्ऽ इत्यादिश्रुतिभ्यः । ऽबुद्ध्या युक्तो यया पार्थ कर्मबन्धं प्रहास्यसिऽ (गी। २।३९) ऽदूरेण ह्यवरं कर्म बुद्धियोगाद्धनञ्जयऽ (गी। २।४९) इत्यादिस्मृतिभ्य- च इति । एवं प्राप्ते प्रतिपद्यते - यदेव विद्यया इति हि । सत्यम् एतत् । विद्यासंयुक्तं कर्माग्निहोत्रादिकं विद्याविहीनात् कर्मणः अग्निहोत्रात् विशिष्टं विद्वानिव ब्राह्मणो विद्याविहीनात् ब्राह्मणात् । तथा अपि न अत्यन्तम् अनपेक्षं विद्याविहीनं कर्माग्निहोत्रादिकम् । कस्मात् - ऽतमेतमात्मानं यज्ञेन विविदिषन्तिऽ इति अविशेषेण अग्निहोत्रादेः विद्याहेतुत्वेन श्रुतत्वात् । ननु विद्यासंयुक्तस्य अग्निहोत्रादेः विद्याविहीनात् विशिष्टत्व अवगमात् विद्याविहीनम् अग्निहोत्रादि आत्मविद्याहेतुत्वेन अनपेक्षमेव इति युक्तम् । न एतत् एवम् । विद्यासहायस्य अग्निहोत्रादेः विद्यानिमित्तेन सामर्थ्य अतिशयेन योगात् आत्मज्ञानं प्रति कश्चित् कारण अतिशयो भविष्यति न तथा विद्याविहीनस्य इति युक्तं कल्पयितुम् । नतु ऽयज्ञेन विविदिषन्तिऽ इति अत्र अविशेषेण आत्मज्ञानाङ्गत्वेन श्रुतस्य अग्निहोत्रादेः अनङ्गत्वं शक्यम् अभ्युपगन्तुम् । तथा हि श्रुतिः - ऽयदेव विद्यया करोति श्रद्धयोपनिषदा तदेव वीर्यवत्तरं भवतिऽ (छा। १।१।१०) इति विद्यासंयुक्तस्य कर्मणः अग्निहोत्रादेः वीर्यवत्तरत्व अभिधानेन स्वकार्यं प्रति कञ्चित् अतिशयं ब्रुवाणा विद्याविहीनस्य तस्य एव तत् प्रयोजनं प्रति वीर्यवत्त्वं दर्शयति । कर्मण- च वीर्यवत्त्वं तत् यत् स्वप्रयोजनसाधनप्रसहत्वम् । तस्मात् विद्यासंयुक्तं नित्यम् अग्निहोत्रादि विद्याविहीनं च उभयम् अपि मुमुक्षुणा मोक्षप्रयोजन उद्देशेन इह जन्मनि जन्मान्तरे च प्राक् ज्ञान उत्पत्तेः कृतं यत् तत् यथासामर्थ्यं ब्रह्म अधिगमप्रतिबन्धकारण उपात्तदुरितक्षयहेतुत्वद्वारेण ब्रह्म अधिगमकारणत्वं प्रतिपद्यमानं श्रवण मनन श्रद्धा तात्पर्यादि अन्तरङ्गकारणापेक्षं ब्रह्मविद्यया सह एककार्यं भवति इति स्थितम् ॥ १८ ॥

yad eva vidyayeti hi samadhigatam etat anantara adhikaraṇe nityam agnihotrādikaṃ karma mumukṣuṇā mokṣaprayojana uddeśena kṛtam upāttaduritakṣayahetutvadvāreṇa sattvaśuddhikāraṇatāṃ pratipadyamānaṃ mokṣaprayojanabrahma adhigamanimittatvena brahmavidyayā saha ekakāryaṃ bhavati iti / tatra agnihotrādi karmāṅgavyapāśrayavidyāsaṃyuktaṃ kevalaṃ ca asti / 'ya evaṃ vidvānayajati' 'ya evaṃ vidvāñjuhoti' 'ya evaṃ vidvāñchaṃsati' 'ya evaṃ vidvāngāyati' 'tasmādevaṃvidameva brahmāṇaṃ kurviti nānevaṃ vidaṃ' (chā. 4.17.10) 'tenobhau kuruto yaścaitadevaṃ veda yaśca na veda' (chā. 1.1.10) ityādivacanebhyo vidyāsaṃyuktam asti kevalam api asti / tatra idaṃ vicāryate - kiṃ vidyāsaṃyuktameva agnihotrādikaṃ karma mumukṣoḥ vidyāhetutvena tayā saha ekakāryatvaṃ pratipadyate na kevalam uta vidyāsaṃyuktaṃ kevalaṃ ca aviśeṣeṇa iti / kutaḥ saṃśayaḥ - 'tametamātmānaṃ yajñena vividiṣanti' iti yajñādīnāmvi aśeṣeṇa ātmavedanāṅgatvena śravaṇāt / vidyāsaṃyuktasya ca agnihotrādīnām aviśeṣatva avagamāt / kiṃ tāvat prāptaṃ vidyāsaṃyuktam eva karmāgnihotrādi ātmavidyāśeṣatvaṃ pratipadyate na vidyāhīnam / vidyā upetasya viśiṣṭatva avagamāt vidyāvihīnāt / 'yadahareva juhoti tadahaḥ punarmṛtyumapajayatyevaṃvidvān' ityādiśrutibhyaḥ / 'buddhyā yukto yayā pārtha karmabandhaṃ prahāsyasi' (gī. 2.39) 'dūreṇa hyavaraṃ karma buddhiyogāddhanañjaya' (gī. 2.49) ityādismṛtibhya- ca iti / evaṃ prāpte pratipadyate - yadeva vidyayā iti hi / satyam etat / vidyāsaṃyuktaṃ karmāgnihotrādikaṃ vidyāvihīnāt karmaṇaḥ agnihotrāt viśiṣṭaṃ vidvāniva brāhmaṇo vidyāvihīnāt brāhmaṇāt / tathā api na atyantam anapekṣaṃ vidyāvihīnaṃ karmāgnihotrādikam / kasmāt - 'tametamātmānaṃ yajñena vividiṣanti' iti aviśeṣeṇa agnihotrādeḥ vidyāhetutvena śrutatvāt / nanu vidyāsaṃyuktasya agnihotrādeḥ vidyāvihīnāt viśiṣṭatva avagamāt vidyāvihīnam agnihotrādi ātmavidyāhetutvena anapekṣameva iti yuktam / na etat evam / vidyāsahāyasya agnihotrādeḥ vidyānimittena sāmarthya atiśayena yogāt ātmajñānaṃ prati kaścit kāraṇa atiśayo bhaviṣyati na tathā vidyāvihīnasya iti yuktaṃ kalpayitum / natu 'yajñena vividiṣanti' iti atra aviśeṣeṇa ātmajñānāṅgatvena śrutasya agnihotrādeḥ anaṅgatvaṃ śakyam abhyupagantum / tathā hi śrutiḥ - 'yadeva vidyayā karoti śraddhayopaniṣadā tadeva vīryavattaraṃ bhavati' (chā. 1.1.10) iti vidyāsaṃyuktasya karmaṇaḥ agnihotrādeḥ vīryavattaratva abhidhānena svakāryaṃ prati kañcit atiśayaṃ bruvāṇā vidyāvihīnasya tasya eva tat prayojanaṃ prati vīryavattvaṃ darśayati / karmaṇa- ca vīryavattvaṃ tat yat svaprayojanasādhanaprasahatvam / tasmāt vidyāsaṃyuktaṃ nityam agnihotrādi vidyāvihīnaṃ ca ubhayam api mumukṣuṇā mokṣaprayojana uddeśena iha janmani janmāntare ca prāk jñāna utpatteḥ kṛtaṃ yat tat yathāsāmarthyaṃ brahma adhigamapratibandhakāraṇa upāttaduritakṣayahetutvadvāreṇa brahma adhigamakāraṇatvaṃ pratipadyamānaṃ śravaṇa manana śraddhā tātparyādi antaraṅgakāraṇāpekṣaṃ brahmavidyayā saha ekakāryaṃ bhavati iti sthitam // 18 //

Sanskrit only: no published translation is held for this verse.

भोगेन त्व् इतरे क्षपयित्वाथ संपद्यते अनारब्धकार्ययोः पुण्यपापयोः विद्यासामर्थ्यात् क्षय उक्तः इतरे तु आरब्धकार्ये पुण्यपापे उपभोगेन क्षपयित्वा ब्रह्म संपद्यते ऽतस्य तावदेव चिरं यावन्न विमोक्ष्ये ऽथ संपत्स्येऽ (छान्दो। ६।१४।२) इति ऽब्रह्मैव सन्ब्रह्माप्येतिऽ इति च एवमादिश्रुतिभ्यः । ननु सति अपि सम्यक् दर्शने यथा प्राक् देहपातात् भेददर्शनं द्विचन्द्रदर्शनन्यायेन अनुवृत्तमेवं पश्चात् अपि अनुवर्तेत । न । निमित्त अभावात् । उपभोगशेषक्षपणं हि तत्र अनुवृत्तिनिमित्तं न च तादृशमात्र किञ्चित् अस्ति । ननु अपरः कर्माशयोः अभिनवम् उपभोग्म् आरप्स्यते । न । तस्य दग्धबीजत्वात् । मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत् च मिथ्याज्ञान अवष्टम्भं हि कर्मान्तरं देहपात उपभोगान्तरम् आरभते तत्च मिथ्याज्ञानं सम्यक् ज्ञानेन दग्धम् इत्यतः साधु एतत् आरब्धकार्यक्षये विदुषः कैवल्यम् अवश्यं भवति इति ॥ १९ ॥ इति श्रीगोविन्दभगवत्पूज्यपादशिष्यश्रीमच्छङ्करभगवत्पादकृतौ शारीरकमीमांसाभाष्ये चतुर्थाध्यायस्य प्रथमः पादः ॥ १ ॥ ____________________________________________________________________________________________ ____________________________________________________________________________________________ चतुर्थाध्याये द्वितीयः पादः । अत्र पादे उत्क्रान्तिगतिनिरूपणम् १ वागाधिकरणम् । सू। १-२

bhogena tv itare kṣapayitvātha saṃpadyate anārabdhakāryayoḥ puṇyapāpayoḥ vidyāsāmarthyāt kṣaya uktaḥ itare tu ārabdhakārye puṇyapāpe upabhogena kṣapayitvā brahma saṃpadyate 'tasya tāvadeva ciraṃ yāvanna vimokṣye 'tha saṃpatsye' (chāndo. 6.14.2) iti 'brahmaiva sanbrahmāpyeti' iti ca evamādiśrutibhyaḥ / nanu sati api samyak darśane yathā prāk dehapātāt bhedadarśanaṃ dvicandradarśananyāyena anuvṛttamevaṃ paścāt api anuvarteta / na / nimitta abhāvāt / upabhogaśeṣakṣapaṇaṃ hi tatra anuvṛttinimittaṃ na ca tādṛśamātra kiñcit asti / nanu aparaḥ karmāśayoḥ abhinavam upabhogm ārapsyate / na / tasya dagdhabījatvāt / mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tat ca mithyājñāna avaṣṭambhaṃ hi karmāntaraṃ dehapāta upabhogāntaram ārabhate tatca mithyājñānaṃ samyak jñānena dagdham ityataḥ sādhu etat ārabdhakāryakṣaye viduṣaḥ kaivalyam avaśyaṃ bhavati iti // 19 // iti śrīgovindabhagavatpūjyapādaśiṣyaśrīmacchaṅkarabhagavatpādakṛtau śārīrakamīmāṃsābhāṣye caturthādhyāyasya prathamaḥ pādaḥ // 1 // ____________________________________________________________________________________________ ____________________________________________________________________________________________ caturthādhyāye dvitīyaḥ pādaḥ / atra pāde utkrāntigatinirūpaṇam 1 vāgādhikaraṇam / sū. 1-2

Sanskrit only: no published translation is held for this verse.