नहीमाम् : फ़्न् न हि ओर् नहि आर्छति : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। प्रजापतिः प्रजा असृजत ता वै तपसैवासृजत स वै स वाचम् एवायछत् तपो वा एष उपैति यो वाचं यछति सृष्टिः प्रजानाम् अग्निहोत्रम् उभयत एव प्रजाः सृजत इतश् चामुतश् च निम्रुक्ते सूर्ये वाग् यन्तव्याथो दुह्यमानायाम् अथो अधिश्रित उन्नीयमान एव यन्तव्यास् तद् अवक्ळ्प्ततमम् ॥ उद्भवः स्थ ॥ इत्य् अवेक्षेत ॥ उद् अहं प्रजया पशुभिर् भूयासम् ॥ इति प्रजायाः पशूनां सृष्ट्यय् अथो अभ्य् एवैनद् घारयति मेध्यत्वायाग्निहोत्रे वै दंपती व्यभिचरेते पूर्वो यजमानस्य लोको ऽपरः पत्न्या यत् प्राचीनम् उद्वासयेद् यजमानः प्रमीयेत यत् प्रतीचीनं पत्नी कं घर्मम् अभ्युदवीवसा इति ब्रह्मवादिनो वदन्त्य् उदीचीनम् एवोद्वास्यम् अग्रहणौ संजीर्यतः सर्वम् आयुर् इतो नार्तिं नीतश् चतुर् उन्नयति चतुष्पदस् तेन पशून् अवरुन्द्धे द्विर् जुहोति द्विपदस् तेन यं कामयेतानुज्येष्ठं प्रजया ऋध्नुयाद् इति तस्य पूर्णम् अग्रा उन्नयेद् अथ कनीयो ऽथ कनीयो ऽनुज्येष्ठं प्रजया ऋध्नोति तद् आहुः कनीयांसं वा एष यज्ञक्रतुम् उपैति कनीयसीं प्रजां कनीयसः पशून् कनीयो ऽन्नाद्यं पापीयान् भवति संमितम् इवाग्रा उन्नयेद् अथ भूयो ऽथ भूयः पूर्णम् उत्तमं यज्ञस्याभिक्रान्त्यै तद् आहुर् ज्यायांसं वा एष यज्ञक्रतुम् उपैति भूयसीं प्रजां भूयसः पशून् भूयो ऽन्नाद्यं वसीयान् भवत्य् अर्धुको ऽस्य पुत्रः कनिष्ठो भवतीति यदि कामयेत सर्वे सदृशाः स्युर् इति सर्वान्त् समावद् उन्नयेत् सर्वे ह सदृशा भवन्ति न पश्चाद् उपसादयेद् अपक्रान्तिः सा यज्ञस्य यत्रैवोन्नयेत् तत् सादयेत् प्रतरं वा यज्ञस्याभिक्रान्त्यय् अनुध्यायिनं वा एतद् अपरं करोति यद् अपरस्मिंस् तपन्ति पूर्वस्मिन् जुह्वति समयाग्निं हरन्ति तेनैवैनं प्रीणात्य् अथो अग्निहोत्रस्य वा एतत् पवित्रम् अपुपोद् एवैनद् अपरस्माद् वै पूर्वं सृष्टं तम् एतावत्य् अरमयंस् तस्मात् पुरो ऽनुद्रुत्य जुहोति ॥ प्रजां : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। भवति : फ़्न् प्रोबब्ल्य् भवतीति। च्फ़्। बेलोw १२०।४ अर्धुको : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। आयुर् मे यछ ॥ इति सादयत्य् आयुर् एवास्मिन् यछति ॥ वर्चो मे यछ ॥ इति सादयति वर्च एवास्मिन् यछत्य् ओषधीर् वा इमा रुद्रा विषेणाञ्जंस् ताः पशवो नालिशन्त ते देवाः प्रजापतिम् एवोपाधावन् स प्रजापतिर् अब्रवीद् वार्यं वृणै भागो मे ऽस्त्व् इति वृणीष्वेत्य् अब्रुवन्त् सो ऽब्रवीन् मद्देवत्यैव समिदसद् इति तस्मात् प्राजापत्या समिद् देवेषु ह्य् अस्यैषा वार्यवृता द्वे समिधौ कार्ये द्वे ह्य् आहुती एकैव कार्यैको हि प्रजापतिर् एकधा खलु वै समिद्ध उत बह्वीर् आहुतयो हूयन्ते ता अग्निनान्ववाकरोत् ता अस्वदयत् ताः पुनर्णवा अजायन्तैतर्हि खलु वा अग्निहोत्रिणे दर्शपूर्णमासिने सर्वा ओषधयः स्वदन्ते यत् समिधम् आदधाति सर्वा एवास्मा ओषधीः स्वधयाम् अकः
nahīmām : FN na hi or nahi ārchati : FN Correcturen und Conjecturen zu dem ganzen Werk. prajāpatiḥ prajā asṛjata tā vai tapasaivāsṛjata sa vai sa vācam evāyachat tapo vā eṣa upaiti yo vācaṃ yachati sṛṣṭiḥ prajānām agnihotram ubhayata eva prajāḥ sṛjata itaś cāmutaś ca nimrukte sūrye vāg yantavyātho duhyamānāyām atho adhiśrita unnīyamāna eva yantavyās tad avakḷptatamam // udbhavaḥ stha // ity avekṣeta // ud ahaṃ prajayā paśubhir bhūyāsam // iti prajāyāḥ paśūnāṃ sṛṣṭyay atho abhy evainad ghārayati medhyatvāyāgnihotre vai daṃpatī vyabhicarete pūrvo yajamānasya loko 'paraḥ patnyā yat prācīnam udvāsayed yajamānaḥ pramīyeta yat pratīcīnaṃ patnī kaṃ gharmam abhyudavīvasā iti brahmavādino vadanty udīcīnam evodvāsyam agrahaṇau saṃjīryataḥ sarvam āyur ito nārtiṃ nītaś catur unnayati catuṣpadas tena paśūn avarunddhe dvir juhoti dvipadas tena yaṃ kāmayetānujyeṣṭhaṃ prajayā ṛdhnuyād iti tasya pūrṇam agrā unnayed atha kanīyo 'tha kanīyo 'nujyeṣṭhaṃ prajayā ṛdhnoti tad āhuḥ kanīyāṃsaṃ vā eṣa yajñakratum upaiti kanīyasīṃ prajāṃ kanīyasaḥ paśūn kanīyo 'nnādyaṃ pāpīyān bhavati saṃmitam ivāgrā unnayed atha bhūyo 'tha bhūyaḥ pūrṇam uttamaṃ yajñasyābhikrāntyai tad āhur jyāyāṃsaṃ vā eṣa yajñakratum upaiti bhūyasīṃ prajāṃ bhūyasaḥ paśūn bhūyo 'nnādyaṃ vasīyān bhavaty ardhuko 'sya putraḥ kaniṣṭho bhavatīti yadi kāmayeta sarve sadṛśāḥ syur iti sarvānt samāvad unnayet sarve ha sadṛśā bhavanti na paścād upasādayed apakrāntiḥ sā yajñasya yatraivonnayet tat sādayet prataraṃ vā yajñasyābhikrāntyay anudhyāyinaṃ vā etad aparaṃ karoti yad aparasmiṃs tapanti pūrvasmin juhvati samayāgniṃ haranti tenaivainaṃ prīṇāty atho agnihotrasya vā etat pavitram apupod evainad aparasmād vai pūrvaṃ sṛṣṭaṃ tam etāvaty aramayaṃs tasmāt puro 'nudrutya juhoti // prajāṃ : FN Correcturen und Conjecturen zu dem ganzen Werk. bhavati : FN probably bhavatīti. cf. below 120.4 ardhuko : FN Correcturen und Conjecturen zu dem ganzen Werk. āyur me yacha // iti sādayaty āyur evāsmin yachati // varco me yacha // iti sādayati varca evāsmin yachaty oṣadhīr vā imā rudrā viṣeṇāñjaṃs tāḥ paśavo nāliśanta te devāḥ prajāpatim evopādhāvan sa prajāpatir abravīd vāryaṃ vṛṇai bhāgo me 'stv iti vṛṇīṣvety abruvant so 'bravīn maddevatyaiva samidasad iti tasmāt prājāpatyā samid deveṣu hy asyaiṣā vāryavṛtā dve samidhau kārye dve hy āhutī ekaiva kāryaiko hi prajāpatir ekadhā khalu vai samiddha uta bahvīr āhutayo hūyante tā agninānvavākarot tā asvadayat tāḥ punarṇavā ajāyantaitarhi khalu vā agnihotriṇe darśapūrṇamāsine sarvā oṣadhayaḥ svadante yat samidham ādadhāti sarvā evāsmā oṣadhīḥ svadhayām akaḥ
Sanskrit only: no published translation is held for this verse.
भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एतद् वै ब्रह्मैतत् सत्यम् एतद् ऋतं न वा एतस्माद् ऋते यज्ञो ऽस्ति तस्माद् एवं वदितव्यम् ॥ अग्निर् ज्योतिर् ज्योतिर् अग्निः स्वाहा ॥ इति गर्भिण्या वाचा गर्भं दधाति मिथुनया वाचा मिथुनं प्रजनयति यद् वाचा च जुहोति यजुषा च तन् मिथुनं यत् तूष्णीं च जुहोति मनसा च तन् मिथुनं स्थाणुर् वै पूर्वाहुतिर् अतिहाय पूर्वाम् आहुतिम् उत्तरा होतव्या स्थाणुम् एव छम्बट्करोत्य् उत्तराहुतिर् भूयो होतव्या यज्ञस्याभिक्रान्त्यै पशून् एव पूर्वयाहुत्या स्पृणोति ब्रह्मवर्चसम् उत्तरयाग्नेयी सायम् आहुतिस् तया रेतः सिञ्चति तद् रेतः सिक्तं रात्र्यै गर्भं दधाति तत् सौर्या प्रातः प्रजनयाम् अकर् इयं होतव्याथ पराथ पुनर् अवस्तात् प्रातर् अवस्ताद् धि प्रजानां प्रजातिः प्रजननं हि सौरी तन् न सूर्क्ष्यं परापरैव होतव्या यज्ञस्याभिक्रान्त्यय् उदङ्ङ् उद्दिशति ॥ ज्योतिर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। अनाभो मृड धूर्ते नमस् ते अस्तु रुद्र मृड ॥ इत्य् एता वै रुद्रस्य तन्वः क्रूरा एतानि नामान्य् एताभिर् वा एष पशूञ् शमायते ता एवास्य भागधेयेन शमयत्य् अवाचीनं सायम् अवमार्ष्टि तस्मात् सायम् अवाची प्रुष्वैत्य् ऊर्ध्वं दिवोन्मार्ष्टि तस्माद् ऊर्ध्वा दिवैति पराचीनम् इव वा एतद् यद् अग्निहोत्रं यत् पुरस्ताद् याजुषं वदति धृत्या अनिर्मार्गाय यो वा अग्निहोत्रस्य वैश्वदेवं वेदाघातुक एनं पशुपतिर् भवत्य् अघातुको ऽस्य पशुपतिः पशून् प्राङ् आसीनो जुहोति देवांस् तेन प्रीणाति हुत्वोञ्शिंषति पशून् एव यजमानायोञ्शिंषत्य् उदङ्ङ् उद्दिशति रुद्रं तेन निरवदयते दक्षिणतो निमार्ष्ट्य् ओषधीश् च तेन पितॄंश् च प्रीणाति प्राश्नाति मनुष्यांस् तेन प्रीणात्य् अङ्गुल्या प्राश्नाति सदत्त्वाय न दतो गमयेद् यद् दतो गमयेत् सर्पा एनं घातुकाः स्युः सर्पान् एव शमयत्य् अहिंसायै ॥ ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। सदत्त्वाय : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। एद्।: यदत्त्वाय। पूषासि ॥ इति यजुर् वदेत् पशवो वै पूषा पशून् एवावरुन्द्धे ऽशान्तो वा एषो ऽप्रीतः पुरुषमेधं वा एष प्रतीक्षते यजमानम् एव हव्यं यद् अग्निहोत्रहवणीं निष्टपत्य् अशान्तस् तेनाग्निहोत्रहवणीं प्रतप्य हस्तो ऽवधेयो हस्तो वा प्रतप्याग्निहोत्रहवण्याम् अवधेयस् तेनैवैनं शमयति तेन प्रीणाति शान्त एनं प्रीतो न हिनस्तीत्थं पर्यावर्तत एवं हि यज्ञः पर्यावर्तते ऽथो अमुष्य वा एतद् आदित्यस्यावृतम् अनु पर्यावर्तते होतव्यं गार्हपत्या३न् न होतव्या३म् इति मीमांसन्ते ऽनुध्यायी वा एष रूक्षो होतव्यम् एव ॥ अग्ने गृहपते परिषद्य जुषस्व स्वाहा ॥ इति जुहुयात् तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यत् पूर्वाम् आहुतिं हुत्वोत्तरां होष्यन् प्रतीक्षते तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोत्य् अथ यद् एवास्य गृह उपह्रियते यद् एनम् अग्निम् अभिता आसीना याचन्ति तेनैवैनं शमयति तेन प्रीणात्य् अथो तेनैवैनम् अननुध्यायिनम् अरूक्षं करोति
bhūr bhuvaḥ svaḥ // iti purastād dhotor vaded etad vai brahmaitat satyam etad ṛtaṃ na vā etasmād ṛte yajño 'sti tasmād evaṃ vaditavyam // agnir jyotir jyotir agniḥ svāhā // iti garbhiṇyā vācā garbhaṃ dadhāti mithunayā vācā mithunaṃ prajanayati yad vācā ca juhoti yajuṣā ca tan mithunaṃ yat tūṣṇīṃ ca juhoti manasā ca tan mithunaṃ sthāṇur vai pūrvāhutir atihāya pūrvām āhutim uttarā hotavyā sthāṇum eva chambaṭkaroty uttarāhutir bhūyo hotavyā yajñasyābhikrāntyai paśūn eva pūrvayāhutyā spṛṇoti brahmavarcasam uttarayāgneyī sāyam āhutis tayā retaḥ siñcati tad retaḥ siktaṃ rātryai garbhaṃ dadhāti tat sauryā prātaḥ prajanayām akar iyaṃ hotavyātha parātha punar avastāt prātar avastād dhi prajānāṃ prajātiḥ prajananaṃ hi saurī tan na sūrkṣyaṃ parāparaiva hotavyā yajñasyābhikrāntyay udaṅṅ uddiśati // jyotir : FN Correcturen und Conjecturen zu dem ganzen Werk. anābho mṛḍa dhūrte namas te astu rudra mṛḍa // ity etā vai rudrasya tanvaḥ krūrā etāni nāmāny etābhir vā eṣa paśūñ śamāyate tā evāsya bhāgadheyena śamayaty avācīnaṃ sāyam avamārṣṭi tasmāt sāyam avācī pruṣvaity ūrdhvaṃ divonmārṣṭi tasmād ūrdhvā divaiti parācīnam iva vā etad yad agnihotraṃ yat purastād yājuṣaṃ vadati dhṛtyā anirmārgāya yo vā agnihotrasya vaiśvadevaṃ vedāghātuka enaṃ paśupatir bhavaty aghātuko 'sya paśupatiḥ paśūn prāṅ āsīno juhoti devāṃs tena prīṇāti hutvoñśiṃṣati paśūn eva yajamānāyoñśiṃṣaty udaṅṅ uddiśati rudraṃ tena niravadayate dakṣiṇato nimārṣṭy oṣadhīś ca tena pitṝṃś ca prīṇāti prāśnāti manuṣyāṃs tena prīṇāty aṅgulyā prāśnāti sadattvāya na dato gamayed yad dato gamayet sarpā enaṃ ghātukāḥ syuḥ sarpān eva śamayaty ahiṃsāyai // te : FN Correcturen und Conjecturen zu dem ganzen Werk. sadattvāya : FN Correcturen und Conjecturen zu dem ganzen Werk. Ed.: yadattvāya. pūṣāsi // iti yajur vadet paśavo vai pūṣā paśūn evāvarunddhe 'śānto vā eṣo 'prītaḥ puruṣamedhaṃ vā eṣa pratīkṣate yajamānam eva havyaṃ yad agnihotrahavaṇīṃ niṣṭapaty aśāntas tenāgnihotrahavaṇīṃ pratapya hasto 'vadheyo hasto vā pratapyāgnihotrahavaṇyām avadheyas tenaivainaṃ śamayati tena prīṇāti śānta enaṃ prīto na hinastītthaṃ paryāvartata evaṃ hi yajñaḥ paryāvartate 'tho amuṣya vā etad ādityasyāvṛtam anu paryāvartate hotavyaṃ gārhapatyā3n na hotavyā3m iti mīmāṃsante 'nudhyāyī vā eṣa rūkṣo hotavyam eva // agne gṛhapate pariṣadya juṣasva svāhā // iti juhuyāt tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoty atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoty atha yat pūrvām āhutiṃ hutvottarāṃ hoṣyan pratīkṣate tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoty atha yad evāsya gṛha upahriyate yad enam agnim abhitā āsīnā yācanti tenaivainaṃ śamayati tena prīṇāty atho tenaivainam ananudhyāyinam arūkṣaṃ karoti
Sanskrit only: no published translation is held for this verse.
द्वे दुहन्त्य् अग्निहोत्राय ज्यायान् वा एकस्यादुग्धाद् अग्निहोत्रिणो लोको यद् द्वे दुहन्ति ज्यायांसं वा एतल् लोकं यजमानो ऽभिजयति मनुश् च वा इदं मनायी च मिथुनेन प्राजनयतां यत् स्थाल्या च दोहनेन च दुहन्ति मिथुनाद् एव प्रजायते ॥ एतल् : फ़्न् एमेन्देद्। एद् (म्२): एतं। म्१: एतं। ह्, ब्ब् ब्: एतल् सजूर् जातवेदो दिवा पृथिव्या जुषाणो अस्य हविषो वीहि स्वाहा ॥ इति जुहुयाद् एषा वा अस्य जातवेदस्या तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ अग्ने दुःशीर्ततनो जुषस्व स्वाहा ॥ इति जुहुयाद् एषा वा अस्य शृणती तनूः क्रूरैतया वा एष पशूञ् शमायते ताम् एवास्य भागधेयेन शमयति यदि तद् अति शमायेत ॥ द्वादश रात्रीः सायंसायं जुहुयाद् द्वादश वै रात्रयः संवत्सरस्य प्रतिमा संवत्सरो वा अग्निर् वैश्वानरस् तम् आहिताग्नयो दर्शपूर्णमासिन इन्धते तेषां वा ऋतव एव दारूणि ये स्थविष्ठा अङ्गारास् ते मासा ये क्षोदिष्ठास् ते ऽर्धमासा अहोरात्राणि मुर्मुरा यत् सधूमं ज्योतिस् तद् वैश्वदेवं यल् लोहितं तद् वारुणं यत् सुवर्णं तद् बार्हस्पत्यं यन् न लोहितं न सुवर्णं तन् मैत्रं यद् अङ्गारेषु व्यवशान्तेषु लेलायद् वीव भाति तद् देवानाम् आस्यम् अथो अमुष्य च वा एतद् आदित्यस्य तेजो मन्यन्ते ऽग्नेश् च तस्मात् तर्हि होतव्यं यद् ध्य् एवासन्न् अपिदधाति तद् धिनोत्य् आविर् वै नामैषाहुतिर् आविर्भूयं देवमनुष्येषु गछति य एवं वेद न समिद् अभि होतवय् अप्रतिष्ठिता साहुतिर् नो यथा वीवावस्रवेद् अयता सा तत् तथैव होतव्यं यथाग्निं व्यवेयात् सा हि यता सा प्रतिष्ठिता तस्मान् महान् अग्निहोत्रस्येध्मः कार्यो यो वै बहु ददिवान् बह्व् ईजानो ऽग्निम् उत्सादयते ऽक्षित् तद् वै तस्य तद् ईजाना वै सुकृतो ऽमुं लोकं नक्षन्ति ते वा एते यन् नक्षत्राणि यद् आहुर् ज्योतिर् अवापादि तारकावापादीति ते वा एते ऽवपद्यन्त आप्त्वा स्थिते त इदं यथालोकं सचन्ते यदामुतः प्रच्यवन्ते ऽथ यो बहु ददिवान् बह्व् ईजानो ऽग्निहोत्रं जुहोति दर्शपूर्णमासौ यजते चातुर्मास्यैर् यजते बहूनि सत्राण्य् उपैति तस्य वा एतद् अक्षय्यम् अपरिमितं तिरो वा ईजानाद् यज्ञो भवति तद् आभ्याम् एवाग्निभ्यां दग्धव्यः स्वं वा एतद् इष्टम् अन्वारोहत्य् अपरेण दग्धव्या३ः पूर्वेणा३ इति मीमांसन्त उभौ समाहृत्यान्तरा दग्धव्यस् तद् अवक्ळ्प्ततमं गृह्णीयान् नक्तम् अग्निम् असुर्या वै रात्रिर् ज्योतिषैव तमस् तरति दिवा ह वा अस्मा अस्मिंल् लोके भवति प्रास्मा असौ लोको भाति य एवं वेद ॥ वीव : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। दग्धव्या३ः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेद् एभ्यो वा एतल् लोकेभ्या इष्टका उपदधाति स्वर्गस्य लोकस्य समष्ट्यै यत् सायं जुहोति सहस्रं तेन कामदुघा अवरुन्द्धे यत् प्रातः सहस्रं तेन यद् अस्याग्निर् आधीयते सहस्रं तेन यमराज्यं वा अग्निष्टोमेनाभिजयति सोमराज्यम् उक्थ्येन सूर्यराज्यं षोडशिना स्वाराज्यम् अतिरात्रेणैतानि वै सर्वाणीन्द्रो ऽभवद् एतानि सर्वाणि भवति य एतैर् यजते सर्वम् एतद् भवति य एवं वेद हविष्मान् वा एको देवयाज्य् एकः सहस्रयाज्य् एको यो ऽग्निहोत्रं जुहोति स हविष्मान् यो दर्शपूर्णमासौ यजते स देवयाजी यश् चातुर्मास्यैर् यजते स सहस्रयाज्य् अग्निहोत्रे वै सर्वे यज्ञक्रतवः सर्वान् यज्ञक्रतून् अवरुन्द्धे य एवं विद्वान् अग्निहोत्रं जुहोति
dve duhanty agnihotrāya jyāyān vā ekasyādugdhād agnihotriṇo loko yad dve duhanti jyāyāṃsaṃ vā etal lokaṃ yajamāno 'bhijayati manuś ca vā idaṃ manāyī ca mithunena prājanayatāṃ yat sthālyā ca dohanena ca duhanti mithunād eva prajāyate // etal : FN emended. Ed (M2): etaṃ. M1: etaṃ. H, Bb B: etal sajūr jātavedo divā pṛthivyā juṣāṇo asya haviṣo vīhi svāhā // iti juhuyād eṣā vā asya jātavedasyā tanūḥ krūraitayā vā eṣa paśūñ śamāyate tām evāsya bhāgadheyena śamayati yadi tad ati śamāyeta // agne duḥśīrtatano juṣasva svāhā // iti juhuyād eṣā vā asya śṛṇatī tanūḥ krūraitayā vā eṣa paśūñ śamāyate tām evāsya bhāgadheyena śamayati yadi tad ati śamāyeta // dvādaśa rātrīḥ sāyaṃsāyaṃ juhuyād dvādaśa vai rātrayaḥ saṃvatsarasya pratimā saṃvatsaro vā agnir vaiśvānaras tam āhitāgnayo darśapūrṇamāsina indhate teṣāṃ vā ṛtava eva dārūṇi ye sthaviṣṭhā aṅgārās te māsā ye kṣodiṣṭhās te 'rdhamāsā ahorātrāṇi murmurā yat sadhūmaṃ jyotis tad vaiśvadevaṃ yal lohitaṃ tad vāruṇaṃ yat suvarṇaṃ tad bārhaspatyaṃ yan na lohitaṃ na suvarṇaṃ tan maitraṃ yad aṅgāreṣu vyavaśānteṣu lelāyad vīva bhāti tad devānām āsyam atho amuṣya ca vā etad ādityasya tejo manyante 'gneś ca tasmāt tarhi hotavyaṃ yad dhy evāsann apidadhāti tad dhinoty āvir vai nāmaiṣāhutir āvirbhūyaṃ devamanuṣyeṣu gachati ya evaṃ veda na samid abhi hotavay apratiṣṭhitā sāhutir no yathā vīvāvasraved ayatā sā tat tathaiva hotavyaṃ yathāgniṃ vyaveyāt sā hi yatā sā pratiṣṭhitā tasmān mahān agnihotrasyedhmaḥ kāryo yo vai bahu dadivān bahv ījāno 'gnim utsādayate 'kṣit tad vai tasya tad ījānā vai sukṛto 'muṃ lokaṃ nakṣanti te vā ete yan nakṣatrāṇi yad āhur jyotir avāpādi tārakāvāpādīti te vā ete 'vapadyanta āptvā sthite ta idaṃ yathālokaṃ sacante yadāmutaḥ pracyavante 'tha yo bahu dadivān bahv ījāno 'gnihotraṃ juhoti darśapūrṇamāsau yajate cāturmāsyair yajate bahūni satrāṇy upaiti tasya vā etad akṣayyam aparimitaṃ tiro vā ījānād yajño bhavati tad ābhyām evāgnibhyāṃ dagdhavyaḥ svaṃ vā etad iṣṭam anvārohaty apareṇa dagdhavyā3ḥ pūrveṇā3 iti mīmāṃsanta ubhau samāhṛtyāntarā dagdhavyas tad avakḷptatamaṃ gṛhṇīyān naktam agnim asuryā vai rātrir jyotiṣaiva tamas tarati divā ha vā asmā asmiṃl loke bhavati prāsmā asau loko bhāti ya evaṃ veda // vīva : FN Correcturen und Conjecturen zu dem ganzen Werk. dagdhavyā3ḥ : FN Correcturen und Conjecturen zu dem ganzen Werk. bhūr bhuvaḥ svaḥ // iti purastād dhotor vaded ebhyo vā etal lokebhyā iṣṭakā upadadhāti svargasya lokasya samaṣṭyai yat sāyaṃ juhoti sahasraṃ tena kāmadughā avarunddhe yat prātaḥ sahasraṃ tena yad asyāgnir ādhīyate sahasraṃ tena yamarājyaṃ vā agniṣṭomenābhijayati somarājyam ukthyena sūryarājyaṃ ṣoḍaśinā svārājyam atirātreṇaitāni vai sarvāṇīndro 'bhavad etāni sarvāṇi bhavati ya etair yajate sarvam etad bhavati ya evaṃ veda haviṣmān vā eko devayājy ekaḥ sahasrayājy eko yo 'gnihotraṃ juhoti sa haviṣmān yo darśapūrṇamāsau yajate sa devayājī yaś cāturmāsyair yajate sa sahasrayājy agnihotre vai sarve yajñakratavaḥ sarvān yajñakratūn avarunddhe ya evaṃ vidvān agnihotraṃ juhoti
Sanskrit only: no published translation is held for this verse.
प्रैयमेधा वै सर्वे सह ब्रह्माविदुस् ते ऽग्निहोत्रेण समराधयंस् तेषां त्रिर् एको ऽजुहोद् द्विर् एकः सकृद् एकस् तेषां यस् त्रिर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीत् त्रेधा वा इदम् अग्नये प्रजापतये सूर्यायेत्य् अथ यो द्विर् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् द्वेधा वा इदम् अग्नये च प्रजापतये च सायं सूर्याय च प्रजापतये च प्रातर् इति अथ यः सकृद् अजुहोत् तम् अपृछन् कस्मै त्वम् अहौषीर् इति सो ऽब्रवीद् एकधा वा इदं प्रजापतय एवेति तेषां यो द्विर् अजुहोत् स आर्ध्नोत् तस्येतरे साजात्यम् उपायन्न् ऋध्नोति य एवं विद्वान् अग्निहोत्रं जुहोत्य् उपास्य समानाः साजात्यं यन्ति प्रदोषम् अग्निहोत्रं होतव्यं व्युष्टायां प्रातर् वृद्धान् गर्भान् प्रजनयति तद् आहुः परा वा एतस्याग्निहोत्रं पतति यस्य प्रदोषं न जुह्वतीति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥ दोषा वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैद् धोतव्या३न् न होतव्या३म् इति मीमांसन्ते यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् धोतव्यम् एवाग्नये वा एतद् धृत्यै गुप्त्यै हूयते प्रजननं तु छम्बट्करोति यदि मन्येत ऋतुम् अत्यनैषम् इति ॥ भूर् भुवः स्वः ॥ इति पुरस्ताद् धोतोर् वदेत् तेनैव सर्वं नान्तरेति ॥ भूर् : फ़्न् एमेन्देद्। एद्।: भू। प्रातर् वस्तोर् नमः स्वाहा ॥ इति जुहुयाद् ऋतुम् एव नात्यनैत् तद् यथा कारुद्वेषिणो जुह्वत्य् एवम् अस्य हुतं भवति यस्याग्निम् अनुद्धृतं सूर्यो ऽभिनिम्रोचेद् यो ब्राह्मणो बहुवित् स उद्धरेत् सर्वेणैवैनं ब्रह्मणोद्धरत्य् अग्निहोत्रेणानुद्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयति वरो दक्षिणा सर्वत एवैनं दिग्भ्यो वरेण च्यावयति यस्योभा अनुगता अभिनिम्रोचेद् यस्य वाभ्युदियात् पुनराधेयम् एव तस्य प्रायश्चित्तिर् यथा वै पथो वर्तनी एवं दर्शपूर्णमासौ यथान्तरैवम् अग्निहोत्रम् एवं वा अग्निहोत्रिणे दर्शपूर्णमासिने स्वर्गो लोको ऽनुभात्य् उपान्यानि हवींषि वसन्त्य् अथ कस्माद् अग्निहोत्रं नोपवसन्तीति ब्रह्मवादिनो वदन्ति प्रततं वा एतद् अपरिमितम् असंस्थितम् अश्नाति मांसम् उप स्त्रियम् एति तस्मान् नोपवसन्ति पशुव्रतेन भवितव्यं तूष्णीम् इव पशवः संभवन्ति ते मेध्या यत् तूष्णीं स्त्रियम् उपैति मेध्यतरस् तेन भवति हिंकृत्योपेयाद् एवम् इव हि पशव उपयन्ति मेध्यत्वाय संस्थाप्या३न् न संस्थाप्या३म् इति मीमांसन्ते ऽग्निहोत्रं यत् संस्थापयेत् तृणम् अक्त्वानुप्रहरेत् सा ह्य् अग्निहोत्रस्य संस्थितिस् तद् आहुर् यदा वै जीयते यदा प्रमीयते यदार्तिम् आर्छत्य् अथाग्निहोत्रं संतिष्ठता इति तन् न संस्थाप्यं मनसा वा इमां प्रजापतिः पर्यगृह्णाद् इयं वा अग्निहोत्रस्य वेदिर् इयम् उपयाम ओषधयो बर्हिः प्रुष्वाः प्रोक्षणीर् दिशः परिधयो यत् किंचाभ्याधीयते स इध्मो यजमानो यूप उन्नीयमाने स्थेयम् एवम् इव हि यूपः समृद्ध्यै मध्यतो वा एष यज्ञः प्रततो यद् अग्निहोत्रं तस्माद् अग्निहोत्री दर्शपूर्णमासी सर्वं बर्हिष्यं ददाति मध्यतो ह्य् एतद् यज्ञस्य दीयते यद् अग्निहोत्रे होतव्यं राजन्यस्याग्निहोत्रा३न् न होतव्या३म् इति मीमांसन्त आमाद् इव वा एष यद् राजन्यो बहु वा एषो ऽयज्ञियम् अमेध्यं चरत्य् अत्यनन्नं जिनाति ब्राह्मणं तस्माद् राजन्यस्याग्निहोत्रम् अहोतव्यम् ऋतं वै सत्यम् अग्निहोत्रं ब्राह्मण ऋतं सत्यं तस्माद् ब्राह्मणस्यैव होतव्यम् अथो ब्राह्मणायैवास्याग्रतो गृह आहरेयुस् तद् धुतम् एवास्याग्निहोत्रं भवत्य् अथो य ऋतम् इव सत्यम् इव चरेत् तस्य होतव्यम् अनुसंतत्यै
praiyamedhā vai sarve saha brahmāvidus te 'gnihotreṇa samarādhayaṃs teṣāṃ trir eko 'juhod dvir ekaḥ sakṛd ekas teṣāṃ yas trir ajuhot tam apṛchan kasmai tvam ahauṣīr iti so 'bravīt tredhā vā idam agnaye prajāpataye sūryāyety atha yo dvir ajuhot tam apṛchan kasmai tvam ahauṣīr iti so 'bravīd dvedhā vā idam agnaye ca prajāpataye ca sāyaṃ sūryāya ca prajāpataye ca prātar iti atha yaḥ sakṛd ajuhot tam apṛchan kasmai tvam ahauṣīr iti so 'bravīd ekadhā vā idaṃ prajāpataya eveti teṣāṃ yo dvir ajuhot sa ārdhnot tasyetare sājātyam upāyann ṛdhnoti ya evaṃ vidvān agnihotraṃ juhoty upāsya samānāḥ sājātyaṃ yanti pradoṣam agnihotraṃ hotavyaṃ vyuṣṭāyāṃ prātar vṛddhān garbhān prajanayati tad āhuḥ parā vā etasyāgnihotraṃ patati yasya pradoṣaṃ na juhvatīti yadi manyeta ṛtum atyanaiṣam iti // bhūr bhuvaḥ svaḥ // iti purastād dhotor vadet tenaiva sarvaṃ nāntareti // doṣā vastor namaḥ svāhā // iti juhuyād ṛtum eva nātyanaid dhotavyā3n na hotavyā3m iti mīmāṃsante yasyāhutam agnihotraṃ sūryo 'bhyudiyād dhotavyam evāgnaye vā etad dhṛtyai guptyai hūyate prajananaṃ tu chambaṭkaroti yadi manyeta ṛtum atyanaiṣam iti // bhūr bhuvaḥ svaḥ // iti purastād dhotor vadet tenaiva sarvaṃ nāntareti // bhūr : FN emended. Ed.: bhū. prātar vastor namaḥ svāhā // iti juhuyād ṛtum eva nātyanait tad yathā kārudveṣiṇo juhvaty evam asya hutaṃ bhavati yasyāgnim anuddhṛtaṃ sūryo 'bhinimroced yo brāhmaṇo bahuvit sa uddharet sarveṇaivainaṃ brahmaṇoddharaty agnihotreṇānudraved bhāgadheyenaivainaṃ praṇayaty atho bhāgadheyenaivainaṃ samardhayati varo dakṣiṇā sarvata evainaṃ digbhyo vareṇa cyāvayati yasyobhā anugatā abhinimroced yasya vābhyudiyāt punarādheyam eva tasya prāyaścittir yathā vai patho vartanī evaṃ darśapūrṇamāsau yathāntaraivam agnihotram evaṃ vā agnihotriṇe darśapūrṇamāsine svargo loko 'nubhāty upānyāni havīṃṣi vasanty atha kasmād agnihotraṃ nopavasantīti brahmavādino vadanti pratataṃ vā etad aparimitam asaṃsthitam aśnāti māṃsam upa striyam eti tasmān nopavasanti paśuvratena bhavitavyaṃ tūṣṇīm iva paśavaḥ saṃbhavanti te medhyā yat tūṣṇīṃ striyam upaiti medhyataras tena bhavati hiṃkṛtyopeyād evam iva hi paśava upayanti medhyatvāya saṃsthāpyā3n na saṃsthāpyā3m iti mīmāṃsante 'gnihotraṃ yat saṃsthāpayet tṛṇam aktvānupraharet sā hy agnihotrasya saṃsthitis tad āhur yadā vai jīyate yadā pramīyate yadārtim ārchaty athāgnihotraṃ saṃtiṣṭhatā iti tan na saṃsthāpyaṃ manasā vā imāṃ prajāpatiḥ paryagṛhṇād iyaṃ vā agnihotrasya vedir iyam upayāma oṣadhayo barhiḥ pruṣvāḥ prokṣaṇīr diśaḥ paridhayo yat kiṃcābhyādhīyate sa idhmo yajamāno yūpa unnīyamāne stheyam evam iva hi yūpaḥ samṛddhyai madhyato vā eṣa yajñaḥ pratato yad agnihotraṃ tasmād agnihotrī darśapūrṇamāsī sarvaṃ barhiṣyaṃ dadāti madhyato hy etad yajñasya dīyate yad agnihotre hotavyaṃ rājanyasyāgnihotrā3n na hotavyā3m iti mīmāṃsanta āmād iva vā eṣa yad rājanyo bahu vā eṣo 'yajñiyam amedhyaṃ caraty atyanannaṃ jināti brāhmaṇaṃ tasmād rājanyasyāgnihotram ahotavyam ṛtaṃ vai satyam agnihotraṃ brāhmaṇa ṛtaṃ satyaṃ tasmād brāhmaṇasyaiva hotavyam atho brāhmaṇāyaivāsyāgrato gṛha āhareyus tad dhutam evāsyāgnihotraṃ bhavaty atho ya ṛtam iva satyam iva caret tasya hotavyam anusaṃtatyai
Sanskrit only: no published translation is held for this verse.
दर्शपूर्णमासौ : फ़्न् एमेन्देद्। एद्।: दर्शपर्णमासौ। प्रुष्वाः : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। प्रोक्षणीर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। याग्निहोत्रायोपसृष्टा निषीदेद् यस्यान्नं नाद्यात् तस्मै तां दद्याद् अवर्तिं वा एषा यजमानस्यानुत्सह्य निषीदति तयैवैनां सह निरवदयते गृहे तु तस्य ततः परो नाश्नीयाद् यद् अश्नीयाद् आर्तिम् आर्छेद् यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेद् अग्निना च सहाग्निहोत्रेण चोद्द्रवेद् भागधेयेनैवैनं प्रणयत्य् अथो भागधेयेनैवैनं समर्धयत्य् अथाभिमन्त्रयेत ॥ इत एव प्रथमं जज्ञे अग्निर् एभ्यो योनिभ्यो अधि जातवेदाः । स गायत्र्या त्रिष्टुभा जगत्यानुष्टुभा च देवेभ्यो हव्या वहतु प्रजानन् ॥ इत्य् एते वा एतस्य योनयः स्वेभ्य एवैनं योनिभ्यो ऽधि प्रजनयति ॥ इषे राये रमस्व सहसे द्युम्नायोर्जे ऽपत्याय ॥ इत्य् एतान्य् एवावरुन्द्धे ऽथो रमयत्य् एवैनम् ॥ सम्राड् असि स्वराड् असि सुषदा सीद ॥ इति सुषदैवैनं सादयति ॥ सारस्वतौ त्वोत्सौ प्रावताम् ॥ इत्य् ऋक्सामे वै सारस्वता उत्सौ ताभ्याम् एवैनं प्रावति ताभ्यां समर्धयत्य् अग्नये ज्योतिष्मते ऽष्टाकपालं निर्वपेद् वारुणं यवमयं चरुं यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछेत् तमो वा एतस्य यज्ञं युवते यस्याहुते ऽग्निहोत्रे पूर्वो ऽग्निर् अनुगछति यद् अग्नये ज्योतिष्मते ज्योतिषैवास्य यज्ञं समर्धयति वारुणी रात्रिर् यद् वारुणो वरुणाद् एवास्याधि यज्ञं स्पृणोति यस्याहुते ऽग्निहोत्रे ऽपरो ऽग्निर् अनुगछेत् तत एव प्राञ्चम् उद्धृत्यान्ववसायाग्निहोत्रं जुहुयाद् अथाभिमन्त्रयेत ॥ भवतं नः समनसौ समोकसौ सचेतसा अरेपसा इति समनसा एवैनौ करोति यजमानस्याहिंसायय् एतौ वै तौ या आहुर् ब्रह्मवादिनो नैकः कुब्जिर् द्वौ व्याघ्रौ विव्याचेत्य् अग्नये ऽग्निमते ऽष्टाकपालं निर्वपेद् यस्याग्ना अग्निम् अभ्युद्धरेयुर् देवताभ्यो वा एष समदं करोति यस्याग्ना अग्निम् अभ्युद्धरन्ति यद् अग्नये ऽग्निमते देवता एवास्मै भूयसीर् जनयति वसीयान् भवति
darśapūrṇamāsau : FN emended. Ed.: darśaparṇamāsau. pruṣvāḥ : FN Correcturen und Conjecturen zu dem ganzen Werk. prokṣaṇīr : FN Correcturen und Conjecturen zu dem ganzen Werk. yāgnihotrāyopasṛṣṭā niṣīded yasyānnaṃ nādyāt tasmai tāṃ dadyād avartiṃ vā eṣā yajamānasyānutsahya niṣīdati tayaivaināṃ saha niravadayate gṛhe tu tasya tataḥ paro nāśnīyād yad aśnīyād ārtim ārched yasyāhute 'gnihotre pūrvo 'gnir anugached agninā ca sahāgnihotreṇa coddraved bhāgadheyenaivainaṃ praṇayaty atho bhāgadheyenaivainaṃ samardhayaty athābhimantrayeta // ita eva prathamaṃ jajñe agnir ebhyo yonibhyo adhi jātavedāḥ / sa gāyatryā triṣṭubhā jagatyānuṣṭubhā ca devebhyo havyā vahatu prajānan // ity ete vā etasya yonayaḥ svebhya evainaṃ yonibhyo 'dhi prajanayati // iṣe rāye ramasva sahase dyumnāyorje 'patyāya // ity etāny evāvarunddhe 'tho ramayaty evainam // samrāḍ asi svarāḍ asi suṣadā sīda // iti suṣadaivainaṃ sādayati // sārasvatau tvotsau prāvatām // ity ṛksāme vai sārasvatā utsau tābhyām evainaṃ prāvati tābhyāṃ samardhayaty agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugachet tamo vā etasya yajñaṃ yuvate yasyāhute 'gnihotre pūrvo 'gnir anugachati yad agnaye jyotiṣmate jyotiṣaivāsya yajñaṃ samardhayati vāruṇī rātrir yad vāruṇo varuṇād evāsyādhi yajñaṃ spṛṇoti yasyāhute 'gnihotre 'paro 'gnir anugachet tata eva prāñcam uddhṛtyānvavasāyāgnihotraṃ juhuyād athābhimantrayeta // bhavataṃ naḥ samanasau samokasau sacetasā arepasā iti samanasā evainau karoti yajamānasyāhiṃsāyay etau vai tau yā āhur brahmavādino naikaḥ kubjir dvau vyāghrau vivyācety agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyur devatābhyo vā eṣa samadaṃ karoti yasyāgnā agnim abhyuddharanti yad agnaye 'gnimate devatā evāsmai bhūyasīr janayati vasīyān bhavati
Sanskrit only: no published translation is held for this verse.
अन्व् अग्निर् उषसाम् अग्रम् अक्शद् अन्व् अहानि प्रथमो जातवेदाः । अनु सूर्यस्य पुरुत्रा च रश्मीन् अनु द्यावापृथिवी आततन्थ ॥ इत्य् अभिमन्त्रयेत यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् अनुक्शायैवैनत् पुनर् अवरुन्द्धे तद् आहुर् अमुं वा एष लोकं समारोहयति सह प्रजया पशुभिश् च यजमानस्य तस्माद् उत बहुर् आहिताग्निर् अपशुर् भवतीति तद् उपस्थेयः ॥ इहैव क्षेम्य एधि मा प्रहासीर् माम् अमुम् आमुष्यायणम् ॥ इत्य् अस्मिन् वावैनम् एतं लोके दाधार सह प्रजया पशुभिश् च यजमानो वसीयान् भवति मैत्रं चरुं निर्वपेत् सौर्यम् एककपालं यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियान् मित्रो वा एतस्य यज्ञं युवते यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदेति मित्रम् अहर् यन् मैत्रो मित्राद् एवास्याधि यज्ञं स्पृणोत्य् अथ यत् सौर्यो ऽमुनैवास्यादित्येन पुरस्ताद् यज्ञं समर्धयति यस्याहुतम् अग्निहोत्रं सूर्यो ऽभ्युदियाद् अग्निं समाधाय वाचं यत्वा दंपती सर्वाह्णम् उपासीयातां द्वयोर् गवोः सायम् अग्निहोत्रं जुहुयाद् उभयम् एवास्मै भागधेयं प्रयछति सायन्तनं च प्रातस्तनं च यद् वै पुरुषस्यामयत्य् अश्नाती३ नाश्नाती३ इति वै तम् आहुर् नाश्नातीति चेद् आहुस् तद् वाव सो ऽमृतेति यन् नाश्नीतो न व्याहरतो ऽन्व् एवैनम् अम्रातां तपसैनं पुनर् अवरुन्धाते अग्नये व्रतपतये ऽष्टाकपालं निर्वपेद् अग्निर् वै देवानां व्रतपतिस् तम् एव भागधेयेनोपासरत् स एनं व्रतम् आलम्भयति यस्याग्निर् अपक्षायेद् यत्रैवैनम् अनुपरागछेत् तत् समाधायान्ववसायाग्निहोत्रं जुहुयाद् एति वा एतद् अग्निर् यद् अपक्षायति यत्रैवैनम् अनुपरागछति तत एनं पुनर् अवरुन्द्धे ऽग्नये पथिकृते ऽष्टाकपालं निर्वपेद् यस्याग्निर् अपक्षायेद् बहिष्पथं वा एष एति यस्याग्निर् अपक्षायत्य् अग्निर् वै देवानां पथिकृत् तम् एव भागधेयेनोपासरत् स एनं पन्थाम् अपिनयत्य् अनड्वान् दक्षिणा स हि पन्थाम् अपिवहत्य् अग्नये शुचये ऽष्टाकपालं निर्वपेद् यस्याभ्यादाव्येन संसृज्येताशुचितर इव वा एष यद् अभ्यादाव्यो यद् अग्नये शुचये शुचिम् एवैनं मेध्यं करोत्य् अग्नये क्षामवते ऽष्टाकपालं निर्वपेद् यस्याहिताग्नेः सतो ऽग्निर् गृहान् दहेद् अग्निर् वा एतस्य क्षामो गृहान् अभ्युच्यति स दहत्य् एवापरं यद् अग्नये क्षामवते यैवास्य क्षामा प्रिया तनूस् ताम् एवास्य भागधेयेन शमयत्य् अदाहुको ऽस्यापरम् अग्निर् गृहान् भवति यस्याग्निर् अनुगछेत् तेभ्य एवावक्षाणेभ्यो ऽधि मन्थितव्यस् तद् एनं स्वाद् योनेः प्रजनयति यदि न तादृशानि वावक्षाणानि स्युर् भस्मनारणी संस्पृश्य मन्थितव्यः स्वाद् एवैनं योनेः प्रजनयत्य् अग्नये तपस्वते जनद्वते पावकवते ऽष्टाकपालं निर्वपेद् यस्याग्निर् अनुगछेन् न हि वा एतस्मा अपिधीयते ऽथैषो ऽनुगछत्य् ओषधयो वै पावका ओषधीर् एवास्मै पावका भागधेयम् अपिदधाति प्रजननाय ॥ त्रयस्त्रिंशत् तन्तवो यं वितन्वत इमं च यज्ञं सुधया ददन्ते । तेभिश् छिद्रम् अपिदध्मो यद् अत्र स्वाहा यज्ञो अप्येतु देवान् ॥ इति जुहुयाद् यद्य् अनो वा रथो वान्तरा वियायाद् एवावन्तो वै यज्ञस्य तन्तवो देवता वा एतास् तान् वा एतत् समवृक्षत् ताः संदधात्य् एतद् ध स्म वा आहुर् दाक्षायणास् तन्तून्त् समवृक्षद् गाम् अन्वत्यावर्तयेति गौर् हि यज्ञिया मेध्येदं विष्णुर् विचक्रमा इति पदं योपयति विष्णोः स्विद् एव यज्ञस्य विक्रान्तम् अकर् अपो ऽन्वतिषिञ्चति शान्त्यै
anv agnir uṣasām agram akśad anv ahāni prathamo jātavedāḥ / anu sūryasya purutrā ca raśmīn anu dyāvāpṛthivī ātatantha // ity abhimantrayeta yasyāhutam agnihotraṃ sūryo 'bhyudiyād anukśāyaivainat punar avarunddhe tad āhur amuṃ vā eṣa lokaṃ samārohayati saha prajayā paśubhiś ca yajamānasya tasmād uta bahur āhitāgnir apaśur bhavatīti tad upastheyaḥ // ihaiva kṣemya edhi mā prahāsīr mām amum āmuṣyāyaṇam // ity asmin vāvainam etaṃ loke dādhāra saha prajayā paśubhiś ca yajamāno vasīyān bhavati maitraṃ caruṃ nirvapet sauryam ekakapālaṃ yasyāhutam agnihotraṃ sūryo 'bhyudiyān mitro vā etasya yajñaṃ yuvate yasyāhutam agnihotraṃ sūryo 'bhyudeti mitram ahar yan maitro mitrād evāsyādhi yajñaṃ spṛṇoty atha yat sauryo 'munaivāsyādityena purastād yajñaṃ samardhayati yasyāhutam agnihotraṃ sūryo 'bhyudiyād agniṃ samādhāya vācaṃ yatvā daṃpatī sarvāhṇam upāsīyātāṃ dvayor gavoḥ sāyam agnihotraṃ juhuyād ubhayam evāsmai bhāgadheyaṃ prayachati sāyantanaṃ ca prātastanaṃ ca yad vai puruṣasyāmayaty aśnātī3 nāśnātī3 iti vai tam āhur nāśnātīti ced āhus tad vāva so 'mṛteti yan nāśnīto na vyāharato 'nv evainam amrātāṃ tapasainaṃ punar avarundhāte agnaye vratapataye 'ṣṭākapālaṃ nirvaped agnir vai devānāṃ vratapatis tam eva bhāgadheyenopāsarat sa enaṃ vratam ālambhayati yasyāgnir apakṣāyed yatraivainam anuparāgachet tat samādhāyānvavasāyāgnihotraṃ juhuyād eti vā etad agnir yad apakṣāyati yatraivainam anuparāgachati tata enaṃ punar avarunddhe 'gnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasyāgnir apakṣāyed bahiṣpathaṃ vā eṣa eti yasyāgnir apakṣāyaty agnir vai devānāṃ pathikṛt tam eva bhāgadheyenopāsarat sa enaṃ panthām apinayaty anaḍvān dakṣiṇā sa hi panthām apivahaty agnaye śucaye 'ṣṭākapālaṃ nirvaped yasyābhyādāvyena saṃsṛjyetāśucitara iva vā eṣa yad abhyādāvyo yad agnaye śucaye śucim evainaṃ medhyaṃ karoty agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahed agnir vā etasya kṣāmo gṛhān abhyucyati sa dahaty evāparaṃ yad agnaye kṣāmavate yaivāsya kṣāmā priyā tanūs tām evāsya bhāgadheyena śamayaty adāhuko 'syāparam agnir gṛhān bhavati yasyāgnir anugachet tebhya evāvakṣāṇebhyo 'dhi manthitavyas tad enaṃ svād yoneḥ prajanayati yadi na tādṛśāni vāvakṣāṇāni syur bhasmanāraṇī saṃspṛśya manthitavyaḥ svād evainaṃ yoneḥ prajanayaty agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugachen na hi vā etasmā apidhīyate 'thaiṣo 'nugachaty oṣadhayo vai pāvakā oṣadhīr evāsmai pāvakā bhāgadheyam apidadhāti prajananāya // trayastriṃśat tantavo yaṃ vitanvata imaṃ ca yajñaṃ sudhayā dadante / tebhiś chidram apidadhmo yad atra svāhā yajño apyetu devān // iti juhuyād yady ano vā ratho vāntarā viyāyād evāvanto vai yajñasya tantavo devatā vā etās tān vā etat samavṛkṣat tāḥ saṃdadhāty etad dha sma vā āhur dākṣāyaṇās tantūnt samavṛkṣad gām anvatyāvartayeti gaur hi yajñiyā medhyedaṃ viṣṇur vicakramā iti padaṃ yopayati viṣṇoḥ svid eva yajñasya vikrāntam akar apo 'nvatiṣiñcati śāntyai
Sanskrit only: no published translation is held for this verse.
रौद्रं गवि सद् वायव्यम् उपावसृष्टम् आश्विनं दुह्यमानं सौम्यं दुग्धं वारुणम् अधिश्रितं मैत्रं शरोगृहीतं मारुतं बिन्दुमत् पौष्णम् उदन्तं सारस्वतं विष्यण्णं वैष्णवं प्रतिनीयमानं स्वर्ग्यम् उद्वासितं त्वष्टुर् उन्नीयमानं धातुर् उन्नीतं वैश्वकर्मणम् उद्यतं सावित्रं प्रणीयमानं द्यावापृथिवीयं प्रह्रियमाणम् ऐन्द्राग्नम् उपसन्नं प्राजापत्यं समिधि वैश्वदेवं हुतम्
raudraṃ gavi sad vāyavyam upāvasṛṣṭam āśvinaṃ duhyamānaṃ saumyaṃ dugdhaṃ vāruṇam adhiśritaṃ maitraṃ śarogṛhītaṃ mārutaṃ bindumat pauṣṇam udantaṃ sārasvataṃ viṣyaṇṇaṃ vaiṣṇavaṃ pratinīyamānaṃ svargyam udvāsitaṃ tvaṣṭur unnīyamānaṃ dhātur unnītaṃ vaiśvakarmaṇam udyataṃ sāvitraṃ praṇīyamānaṃ dyāvāpṛthivīyaṃ prahriyamāṇam aindrāgnam upasannaṃ prājāpatyaṃ samidhi vaiśvadevaṃ hutam
Sanskrit only: no published translation is held for this verse.
चित्तिः स्रुक् चित्तम् आज्यं वाग् वेदिर् आधीतं बर्हिः केतो अग्निर् विज्ञातम् अग्नीद् वाचस्पतिर् होता मन उपवक्ता प्राणो हविः सामाध्वर्युर् इन्द्रं गछ स्वाहा पृथिवी होता द्यौर् अध्वर्युस् त्वष्टाग्नीन् मित्र उपवक्ता वाचस्पते वाचो वीर्येण संभृततमेनायक्षसे यज्ञपतये वार्यमा स्वस् कर् वाचस्पतिः सोमम् अपाद् जजनद् इन्द्रम् इन्द्रियाय सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो ऽग्निर् होताश्विनाध्वर्यू रुद्रो अग्नीद् बृहस्पतिर् उपवक्ता वाचस्पते हिन्विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम वाचस्पतिः सोमम् अपाद् आस्मासु नृम्णं धात् सोमः सोमस्य पिबतु शुक्रः शुक्रस्य पिबतु श्रातास् त इन्द्र सोमा वातापयो हवनश्रुतो महाहविर् होता सत्यहविर् अध्वर्युस् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरव् अयास्य उद्गाता विधे नामन् विधेम ते नाम विधेस् त्वम् अस्माकं नाम मा देवानां तन्तुश् छेदि मा मनुष्याणां नमो मात्रे पृथिव्यै
cittiḥ sruk cittam ājyaṃ vāg vedir ādhītaṃ barhiḥ keto agnir vijñātam agnīd vācaspatir hotā mana upavaktā prāṇo haviḥ sāmādhvaryur indraṃ gacha svāhā pṛthivī hotā dyaur adhvaryus tvaṣṭāgnīn mitra upavaktā vācaspate vāco vīryeṇa saṃbhṛtatamenāyakṣase yajñapataye vāryamā svas kar vācaspatiḥ somam apād jajanad indram indriyāya somaḥ somasya pibatu śukraḥ śukrasya pibatu śrātās ta indra somā vātāpayo havanaśruto 'gnir hotāśvinādhvaryū rudro agnīd bṛhaspatir upavaktā vācaspate hinvidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāma vācaspatiḥ somam apād āsmāsu nṛmṇaṃ dhāt somaḥ somasya pibatu śukraḥ śukrasya pibatu śrātās ta indra somā vātāpayo havanaśruto mahāhavir hotā satyahavir adhvaryus acittapājā agnīd acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarav ayāsya udgātā vidhe nāman vidhema te nāma vidhes tvam asmākaṃ nāma mā devānāṃ tantuś chedi mā manuṣyāṇāṃ namo mātre pṛthivyai
Sanskrit only: no published translation is held for this verse.
अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् अदितिर् अपश् च बर्हिश् चादित्या आज्यैर् मरुतः सदोहविर्धानैर् विष्णुर् दीक्षातपोभ्यां मित्रावरुणौ धिष्ण्यैर् अश्विन आशिरा त्वष्टा समिधा पूषा स्वाहाकारैर् वाग् वायोः पत्नी पथ्या पूष्णः पृथिव्य् अग्नेः सेनेन्द्रस्य धेना बृहस्पतेर् गायत्री वसूणां त्रिष्टुब् रुद्राणां जगत्य् आदित्यानाम् अनुष्टुब् मित्रस्य विराड् वरुणस्य पङ्क्तिर् विष्णोर् दीक्षा सोमस्य
agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir aditir apaś ca barhiś cādityā ājyair marutaḥ sadohavirdhānair viṣṇur dīkṣātapobhyāṃ mitrāvaruṇau dhiṣṇyair aśvina āśirā tvaṣṭā samidhā pūṣā svāhākārair vāg vāyoḥ patnī pathyā pūṣṇaḥ pṛthivy agneḥ senendrasya dhenā bṛhaspater gāyatrī vasūṇāṃ triṣṭub rudrāṇāṃ jagaty ādityānām anuṣṭub mitrasya virāḍ varuṇasya paṅktir viṣṇor dīkṣā somasya
Sanskrit only: no published translation is held for this verse.
प्रजापतिर् वा एक आसीत् सो ऽकामयत यज्ञो भूत्वा प्रजाः सृजेयेति स दशहोतारं यज्ञम् आत्मानं व्यधत्त स चित्तिं स्रुचम् अकुरुत चित्तम् आज्यं वाचं वेदिम् आधीतं बर्हिः स दशधात्मानं विधाय मिथुनं कृत्वायतनम् ऐछत् स वै त्रिवृत एव प्राणान् आयतनम् अचायत् तैः प्रजा असृजतोर्ध्वम् उदतृणत् पूर्वपक्षः पञ्चदशस् तेन देवान् असृजत ते देवा ऊर्ध्वा आप्यायन्तोर्ध्व आप्यायते य एवं वेदावाङ् अवातृणद् अपरपक्षः पञ्चदशस् तेनासुरान् असृजत ते ऽसुरा अवाञ्चः प्राध्वंसन्त प्रास्य भ्रातृव्यो ध्वंसते य एवं वेद दिवा देवान् असृजत नक्तम् असुरांस् ते देवाः शुक्ला अभवन् कृष्णा असुराः सत्येन देवान् असृजतानृतेनासुरांस् ते देवाः सत्यम् अभवन्न् अनृतम् असुरा दक्षिणेन हस्तेन देवान् असृजत सव्येनासुरांस् ते देवा वीर्यवन्तो ऽभवन् मृद्धा असुरास् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति सो ऽमन्यत क्व होष्यामीति स तद् एव नाविन्दत् प्रजापतिर् यत्राहोष्यन् नो अस्यान्यद् धोत्वम् आसीत् प्राणात् स वा इन्द्रम् एवान्तर् आत्मनायतनम् अचायत् स इन्द्रं गछ स्वाहेत्य् अपानद् वीर्यं वै प्राणो वीर्यम् इन्द्रो वीर्य एव वीर्यम् अजुहोत्
prajāpatir vā eka āsīt so 'kāmayata yajño bhūtvā prajāḥ sṛjeyeti sa daśahotāraṃ yajñam ātmānaṃ vyadhatta sa cittiṃ srucam akuruta cittam ājyaṃ vācaṃ vedim ādhītaṃ barhiḥ sa daśadhātmānaṃ vidhāya mithunaṃ kṛtvāyatanam aichat sa vai trivṛta eva prāṇān āyatanam acāyat taiḥ prajā asṛjatordhvam udatṛṇat pūrvapakṣaḥ pañcadaśas tena devān asṛjata te devā ūrdhvā āpyāyantordhva āpyāyate ya evaṃ vedāvāṅ avātṛṇad aparapakṣaḥ pañcadaśas tenāsurān asṛjata te 'surā avāñcaḥ prādhvaṃsanta prāsya bhrātṛvyo dhvaṃsate ya evaṃ veda divā devān asṛjata naktam asurāṃs te devāḥ śuklā abhavan kṛṣṇā asurāḥ satyena devān asṛjatānṛtenāsurāṃs te devāḥ satyam abhavann anṛtam asurā dakṣiṇena hastena devān asṛjata savyenāsurāṃs te devā vīryavanto 'bhavan mṛddhā asurās tato devā abhavan parāsurās tad ya evaṃ veda bhavaty ātmanā parāsya bhrātṛvyo bhavati so 'manyata kva hoṣyāmīti sa tad eva nāvindat prajāpatir yatrāhoṣyan no asyānyad dhotvam āsīt prāṇāt sa vā indram evāntar ātmanāyatanam acāyat sa indraṃ gacha svāhety apānad vīryaṃ vai prāṇo vīryam indro vīrya eva vīryam ajuhot
Sanskrit only: no published translation is held for this verse.
क इदं कस्मा अदात् कामः कामायादात् कामो दाता कामः प्रतिग्रहीता कामाय त्वा प्रतिगृह्णामि कामैतत् ते ॥ इति समुद्रो वै कामो दक्षिणा कामो दक्षिणयैव दक्षिणां प्रतिगृह्णाति यो वै तां देवतां वेद याग्रे दक्षिणाम् अनयद् दक्षिणीयो ह भवति नयति दक्षिणाम्
ka idaṃ kasmā adāt kāmaḥ kāmāyādāt kāmo dātā kāmaḥ pratigrahītā kāmāya tvā pratigṛhṇāmi kāmaitat te // iti samudro vai kāmo dakṣiṇā kāmo dakṣiṇayaiva dakṣiṇāṃ pratigṛhṇāti yo vai tāṃ devatāṃ veda yāgre dakṣiṇām anayad dakṣiṇīyo ha bhavati nayati dakṣiṇām
Sanskrit only: no published translation is held for this verse.
ते वै स्वर्यन्तो ऽब्रुवन्न् अतो नो यूपं प्रयछत केनायतनेनात्रैव वेत्स्यथेत्य् अब्रुवंस् ते वै सप्तहोतारो न्यसीदन्न् अर्यमगृहपतयो महाहविर् होतासीत् सत्यहविर् अध्वर्युर् अचित्तपाजा अग्नीद् अचित्तमना उपवक्तानाधृष्यश् चाप्रतिधृष्यश् चाभिगरा अयास्य उद्गाता ते वा एतं ग्रहम् अगृह्णत विधे नामन्विधेम ते नाम विधेस् त्वम् अस्माकं नामेति ते त्रयस्त्रिंशम् आयतनम् अचायंस् तेनेदं समतन्वन् सप्तहोत्रा च वा इदं संततं त्रयस्त्रिंशेन च यद् इदं देवमनुष्या अन्यो ऽन्यस्मै संप्रयच्छते प्राणो वै दशहोता चक्षुश् चतुर्होता श्रोत्रं पञ्चहोता वाक् चात्मा च सप्तहोताग्निहोत्रं वै दशहोता दर्शपूर्णमासौ चतुर्होता चातुर्मास्यानि पञ्चहोता सौम्यो ऽध्वरः सप्तहोतायुषे कम् अग्निहोत्रं हूयते सर्वम् आयुर् एति य एवं वेद चक्षुषे कं दर्शपूर्णमासा इज्येते न चक्षुषो गृहे य एवं वेद श्रोत्राय कं चातुर्मास्यानीज्यन्ते न श्रोत्रस्य गृहे य एवं वेद वाचे चात्मने च कं सौम्यो ऽध्वर इज्यते न वाचो नात्मनो गृहे य एवं वेद प्रजापतिर् वै दशहोतैकः सन् भूयिष्ठभाग् व्याहृतीनाम् एकः सन् भूयिष्ठो भवति य एवं वेद तेजसे कं पूर्णमा इज्यते सौम्यो वै ब्राह्मणो देवतया गायत्रछन्दा गायत्रो ऽग्निः स्वे वावास्मा एतद् देवते सप्रस्थे अकर् नास्यान्यो योगक्षेमस्येश आयुषे कम् अमावास्येज्यते समीव वा एष आभ्रियते सर्वम् आयुर् एति य एवं वेद स्वर्गाय लोकाय कं सौम्यो ऽध्वर इज्यत एति स्वर्गं लोकं य एवं वेद दशहोत्राग्निहोत्रम् उन्नीतम् अभिमृशेद् दशहोत्रा वै देवा अग्निहोत्रम् असृजन्त प्रजातम् एनत् सृष्टम् आलब्ध चतुर्होत्रा दर्शपूर्णमासा अभिमृशेच् चतुर्होत्रा वै देवा दर्शपूर्णमासा असृजन्त प्रजाता एनौ सृष्टा आलब्ध पञ्चहोत्रा चातुर्मास्यान्य् अभिमृशेत् पञ्चहोत्रा वै देवाश् चातुर्मास्यान्य् असृजन्त प्रजातान्य् एनानि सृष्टान्य् आलब्ध सप्तहोत्रा सौम्यम् अध्वरम् अभिमृशेत् सप्तहोत्रा वै देवाः सौम्यम् अध्वरम् असृजन्त प्रजातम् एनं सृष्टम् आलब्ध दशहोतारं वदेत् पुरस्तात् सामिधेनीनां प्रजापतिर् वै दशहोता यज्ञमुखं सामिधेन्यस् मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्तात् प्रयाजानां चतुर्होत्रा वै देवा इन्द्रम् अजनयन्न् इन्द्रं वावास्यैतद् यज्ञे ऽजीजनत् सेन्द्रेण यज्ञेन यजते पञ्चहोतारं वदेत् पुरस्ताद् धविषां पञ्चहोत्रा वै देवाः पशून् असृजन्त परासुरान् अभावयन् पशून् एव सृजते परा भ्रातृव्यं भावयति सप्तहोतारं वदेत् पुरस्ताद् अनुयाजानां सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति दशहोतारं वदेत् पुरस्ताद् बहिष्पवमानस्य प्रजापतिर् वै दशहोता यज्ञमुखं बहिष्पवमानं मिथुनं वावास्यैतद् यज्ञमुखे दधाति चतुर्होतारं वदेत् पुरस्ताद् आज्यानां पञ्चहोतारं वदेत् पुरस्तान् माध्यंदिनस्य पवमानस्य सप्तहोतारं वदेत् पुरस्ताद् आर्भवस्य पवमानस्य सप्तहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो वै चतुर्होत्πन् अनुसवनं तर्पयितव्यान् वेद तृप्यति प्रजया च पशुभिश् चैते वै चतुर्होतारो ऽनुसवनं तर्पयितव्या यद् ब्राह्मणा बहुविदस् तान् एव तर्पयति त एनं तृप्ताः प्रजया च पशुभिश् च तर्पयन्ति
te vai svaryanto 'bruvann ato no yūpaṃ prayachata kenāyatanenātraiva vetsyathety abruvaṃs te vai saptahotāro nyasīdann aryamagṛhapatayo mahāhavir hotāsīt satyahavir adhvaryur acittapājā agnīd acittamanā upavaktānādhṛṣyaś cāpratidhṛṣyaś cābhigarā ayāsya udgātā te vā etaṃ graham agṛhṇata vidhe nāmanvidhema te nāma vidhes tvam asmākaṃ nāmeti te trayastriṃśam āyatanam acāyaṃs tenedaṃ samatanvan saptahotrā ca vā idaṃ saṃtataṃ trayastriṃśena ca yad idaṃ devamanuṣyā anyo 'nyasmai saṃprayacchate prāṇo vai daśahotā cakṣuś caturhotā śrotraṃ pañcahotā vāk cātmā ca saptahotāgnihotraṃ vai daśahotā darśapūrṇamāsau caturhotā cāturmāsyāni pañcahotā saumyo 'dhvaraḥ saptahotāyuṣe kam agnihotraṃ hūyate sarvam āyur eti ya evaṃ veda cakṣuṣe kaṃ darśapūrṇamāsā ijyete na cakṣuṣo gṛhe ya evaṃ veda śrotrāya kaṃ cāturmāsyānījyante na śrotrasya gṛhe ya evaṃ veda vāce cātmane ca kaṃ saumyo 'dhvara ijyate na vāco nātmano gṛhe ya evaṃ veda prajāpatir vai daśahotaikaḥ san bhūyiṣṭhabhāg vyāhṛtīnām ekaḥ san bhūyiṣṭho bhavati ya evaṃ veda tejase kaṃ pūrṇamā ijyate saumyo vai brāhmaṇo devatayā gāyatrachandā gāyatro 'gniḥ sve vāvāsmā etad devate saprasthe akar nāsyānyo yogakṣemasyeśa āyuṣe kam amāvāsyejyate samīva vā eṣa ābhriyate sarvam āyur eti ya evaṃ veda svargāya lokāya kaṃ saumyo 'dhvara ijyata eti svargaṃ lokaṃ ya evaṃ veda daśahotrāgnihotram unnītam abhimṛśed daśahotrā vai devā agnihotram asṛjanta prajātam enat sṛṣṭam ālabdha caturhotrā darśapūrṇamāsā abhimṛśec caturhotrā vai devā darśapūrṇamāsā asṛjanta prajātā enau sṛṣṭā ālabdha pañcahotrā cāturmāsyāny abhimṛśet pañcahotrā vai devāś cāturmāsyāny asṛjanta prajātāny enāni sṛṣṭāny ālabdha saptahotrā saumyam adhvaram abhimṛśet saptahotrā vai devāḥ saumyam adhvaram asṛjanta prajātam enaṃ sṛṣṭam ālabdha daśahotāraṃ vadet purastāt sāmidhenīnāṃ prajāpatir vai daśahotā yajñamukhaṃ sāmidhenyas mithunaṃ vāvāsyaitad yajñamukhe dadhāti caturhotāraṃ vadet purastāt prayājānāṃ caturhotrā vai devā indram ajanayann indraṃ vāvāsyaitad yajñe 'jījanat sendreṇa yajñena yajate pañcahotāraṃ vadet purastād dhaviṣāṃ pañcahotrā vai devāḥ paśūn asṛjanta parāsurān abhāvayan paśūn eva sṛjate parā bhrātṛvyaṃ bhāvayati saptahotāraṃ vadet purastād anuyājānāṃ saptahotrā vai devāḥ svar āyan svar evaiti daśahotāraṃ vadet purastād bahiṣpavamānasya prajāpatir vai daśahotā yajñamukhaṃ bahiṣpavamānaṃ mithunaṃ vāvāsyaitad yajñamukhe dadhāti caturhotāraṃ vadet purastād ājyānāṃ pañcahotāraṃ vadet purastān mādhyaṃdinasya pavamānasya saptahotāraṃ vadet purastād ārbhavasya pavamānasya saptahotrā vai devāḥ svar āyan svar evaiti yo vai caturhotπn anusavanaṃ tarpayitavyān veda tṛpyati prajayā ca paśubhiś caite vai caturhotāro 'nusavanaṃ tarpayitavyā yad brāhmaṇā bahuvidas tān eva tarpayati ta enaṃ tṛptāḥ prajayā ca paśubhiś ca tarpayanti
Sanskrit only: no published translation is held for this verse.
अचित्तपाजा : फ़्न् एमेन्देद्। एद्।: अचित्तपाजा। च्फ़्। १।९।१:१३१।११। गृहे : फ़्न् एमेन्देद्। एद्।: गृहे। सप्तहोतारं : फ़्न् एमेन्देद्। एद्।: सप्तहोतरं। यः प्रजया पशुभिर् न प्रजायेत स द्वादशाहानि बरासीं परिधाय तप्तं पिबन्न् अधः शयीत तपो वै तप्त्वा प्रजापतिर् विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्राजायताविहितो हि वा एषो ऽमिथुनो ऽथैष न प्रजायते तत् तप एव तप्त्वा विधायात्मानं मिथुनं कृत्वा प्रजया च पशुभिश् च प्रजायते प्रजापतिर् वै दशहोता ज्यायान् वै प्रजापतिर् होमात् तस्मात् तन् न जुह्वति प्राण्यापानेद् अपानम् एव प्राणं जुहोति संग्रामिणं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् यतरस्मिन् खलु वै संग्राम इन्द्रो भवति स जयतीन्द्रं वावास्यैतत् संग्रामे ऽजीजनद् जयति संग्रामं प्रजाकामं चतुर्होत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा चतुर्होतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं चतुर्होत्रा वै देवा इन्द्रम् अजनयन् प्रजाम् अस्मै जनयति नेव त्व् अपरो ऽनुजायते तेजस्वीव तु भवति सर्वेण ह्य् एनम् इन्द्रियेण जनयति पशुकामं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः पशून् असृजन्त पशून् एव सृजते भ्रातृव्यवन्तं पञ्चहोत्रा याजयेच् चतुर्गृहीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवा असुरान् पराभावयन् परा पाप्मानं भ्रातृव्यं भावयति स्वर्गकामं पञ्चहोत्रा याजयेच् चतुर्गृथीतम् आज्यं कृत्वा पञ्चहोतारं व्याचक्षीत पूर्वेण ग्रहेणार्धं जुहुयाद् उत्तरेणार्धं पञ्चहोत्रा वै देवाः स्वर् आयन् स्वर् एवैति यो यज्ञस्य संस्थाम् अनु पापीयान् मन्येत तं सप्तहोत्रा याजयेत् सप्तहोत्रा वै देवा इदं समतन्वन् समतत ताजक् तादृङ् पुनर् भवति यादृक् सन् यजते
acittapājā : FN emended. Ed.: acittapājā. cf. 1.9.1:131.11. gṛhe : FN emended. Ed.: gṛhe. saptahotāraṃ : FN emended. Ed.: saptahotaraṃ. yaḥ prajayā paśubhir na prajāyeta sa dvādaśāhāni barāsīṃ paridhāya taptaṃ pibann adhaḥ śayīta tapo vai taptvā prajāpatir vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prājāyatāvihito hi vā eṣo 'mithuno 'thaiṣa na prajāyate tat tapa eva taptvā vidhāyātmānaṃ mithunaṃ kṛtvā prajayā ca paśubhiś ca prajāyate prajāpatir vai daśahotā jyāyān vai prajāpatir homāt tasmāt tan na juhvati prāṇyāpāned apānam eva prāṇaṃ juhoti saṃgrāmiṇaṃ caturhotrā yājayec caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ caturhotrā vai devā indram ajanayan yatarasmin khalu vai saṃgrāma indro bhavati sa jayatīndraṃ vāvāsyaitat saṃgrāme 'jījanad jayati saṃgrāmaṃ prajākāmaṃ caturhotrā yājayec caturgṛhītam ājyaṃ kṛtvā caturhotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ caturhotrā vai devā indram ajanayan prajām asmai janayati neva tv aparo 'nujāyate tejasvīva tu bhavati sarveṇa hy enam indriyeṇa janayati paśukāmaṃ pañcahotrā yājayec caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ pañcahotrā vai devāḥ paśūn asṛjanta paśūn eva sṛjate bhrātṛvyavantaṃ pañcahotrā yājayec caturgṛhītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ pañcahotrā vai devā asurān parābhāvayan parā pāpmānaṃ bhrātṛvyaṃ bhāvayati svargakāmaṃ pañcahotrā yājayec caturgṛthītam ājyaṃ kṛtvā pañcahotāraṃ vyācakṣīta pūrveṇa graheṇārdhaṃ juhuyād uttareṇārdhaṃ pañcahotrā vai devāḥ svar āyan svar evaiti yo yajñasya saṃsthām anu pāpīyān manyeta taṃ saptahotrā yājayet saptahotrā vai devā idaṃ samatanvan samatata tājak tādṛṅ punar bhavati yādṛk san yajate
Sanskrit only: no published translation is held for this verse.
ब्रह्मवादिनो वदन्ति यद् एको यज्ञश् चतुर्होताथ कस्मात् सर्वे चतुर्होतार उच्यन्ता इति चत्वारो वा एते यज्ञास् तेषां चत्वारो होतारस् तच् चतुर्होतृणां चतुर्होतृत्वं चतुर्णाम् एकः संवत्सरं नाश्नीयात् तद् व्रतम् अन्नं वै चतुर्होतारो ऽन्नवान् भवति य एवं वेदाथ यम् अनूचानं सन्तं नोपनमेत् सो ऽरण्यं परेत्य ब्राह्मणम् उपद्रष्टारं कृत्वा चतुर्होत्πन् व्याचक्षीत ब्रह्मणो वा एतद् उदरणं यच् चतुर्होत्रारो ब्राह्मण उपद्रष्टोपद्रष्टुर् एवान्ते ब्रह्माविर् अकस् तद् एनम् आविर्भूतम् आविदं गमयत्य् अथ यौ विशपेयाताम् अहं भूयो वेदाहं भूयो वेदेत्य् एष वाव भूयो वेद यश् चतुर्होत्πन् वेद चतुर्होतारो वै यज्ञस्य योनिश् चतुर्होतृभ्यो ऽधि यज्ञो निर्मितो नैनं विशप्तं हिनस्ति चतुर्होतारं वदेद् दशमे ऽहन्न् अन्नकामो ऽन्नं वै चतुर्होतारो ऽन्तो दशमम् अहर् अन्तम् एव गत्वान्नाद्यम् अवरुन्द्ध एतद् वा अस्यैतर्ह्य् अप्रयुक्तम् एतद् अनवरुद्धं तद् एव प्रयुङ्क्ते तद् अवरुन्द्ध इयं वै सर्पराज्ञी तस्या वा एतद् उक्थं यच् चतुर्होतारो होता वदति स्तुतं वा एतद् अनुशंसति न हि स्तुतम् अननुशस्तम् अस्ति
brahmavādino vadanti yad eko yajñaś caturhotātha kasmāt sarve caturhotāra ucyantā iti catvāro vā ete yajñās teṣāṃ catvāro hotāras tac caturhotṛṇāṃ caturhotṛtvaṃ caturṇām ekaḥ saṃvatsaraṃ nāśnīyāt tad vratam annaṃ vai caturhotāro 'nnavān bhavati ya evaṃ vedātha yam anūcānaṃ santaṃ nopanamet so 'raṇyaṃ paretya brāhmaṇam upadraṣṭāraṃ kṛtvā caturhotπn vyācakṣīta brahmaṇo vā etad udaraṇaṃ yac caturhotrāro brāhmaṇa upadraṣṭopadraṣṭur evānte brahmāvir akas tad enam āvirbhūtam āvidaṃ gamayaty atha yau viśapeyātām ahaṃ bhūyo vedāhaṃ bhūyo vedety eṣa vāva bhūyo veda yaś caturhotπn veda caturhotāro vai yajñasya yoniś caturhotṛbhyo 'dhi yajño nirmito nainaṃ viśaptaṃ hinasti caturhotāraṃ vaded daśame 'hann annakāmo 'nnaṃ vai caturhotāro 'nto daśamam ahar antam eva gatvānnādyam avarunddha etad vā asyaitarhy aprayuktam etad anavaruddhaṃ tad eva prayuṅkte tad avarunddha iyaṃ vai sarparājñī tasyā vā etad ukthaṃ yac caturhotāro hotā vadati stutaṃ vā etad anuśaṃsati na hi stutam ananuśastam asti
Sanskrit only: no published translation is held for this verse.
देवाश् च वा असुराश् चास्पर्धन्त ते वै समावद् एव यज्ञे कुर्वाणा आयन् यद् एव देवा अकुर्वत तद् असुरा अकुर्वत तेन व्यावृतम् अगछंस् ते देवा अब्रुवन्न् एतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामहा इति तम् एतावञ्श आदायोदक्रामन्न् अग्निर् यजुर्भिः सविता स्तोमैर् इन्द्र उक्थामदैर् बृहस्पतिश् छन्दोभिर् इति तं तिर उपर्य् असुरेभ्यो ऽतन्वत तम् एषां यज्ञम् असुरा नान्ववायंस् तेन वा एनान् अपानुदन्त ततो देवा अभवन् परासुरास् तद् य एवं वेद तिर उपरि भ्रातृव्याद् यज्ञं तनुते भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश्चतुर्भिर् अन्वाक्शायं पुरस्तात् प्रातरनुवाकस्यैतावान् वै यज्ञो यावान् एव यज्ञस् तं वृङ्क्ते सयज्ञो भवत्य् अयज्ञा इतर एतैर् एव जुहुयात् पुरस्ताद् दीक्षाया एषा वै प्रत्यक्षं दीक्षा ताम् एवालब्धैतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्यैष वै प्रत्यक्षं द्वादशाहस् तम् एवालब्धैतैर् एवातिथ्यम् अभिमृशेद् यज्ञेनैव यज्ञम् आलब्ध दक्षिणतो वै देवान् असुरा यज्ञम् अजयंस् त उदञ्चः पत्नीभिः सहाग्नीध्रं प्राविशंस् तान् पत्नीभिः सह प्रक्शाय जिह्रियतो ऽसुरा अपावर्तन्त तांस् तत एवानूत्थायाजयंस् ततो देवा अभवन् परासुरास् तद् य एवं वेद भवत्य् आत्मना परास्य भ्रातृव्यो भवति नास्य भ्रातृव्यो गृहान् न पशून् अभ्यारोहत्य् अभि भ्रातृव्यस्य गृहान् अभि पशून् आरोहति य एवं वेदैतान्य् एवाग्नीधे ऽनुब्रूयाद् अग्नीद् वै पात्नीवतस्य यजति तृप्ता पत्नी रेतो धत्ते प्र प्रजया च पशुभिश् च प्रजायत एतैर् एव जुहुयाद् अन्तरा त्वष्टारं च पत्नीश् च संवत्सरं प्रजाकामो मिथुनं वै त्वष्टा च पत्नीश् च त्वष्टारं वा एतन् मिथुने ऽप्यस्राट् प्रजननाय तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते विन्दते प्रजाम् आस्य वीरो जायते यदि संवत्सरं जुह्वन् न विन्देन् नादृत्यम्
devāś ca vā asurāś cāspardhanta te vai samāvad eva yajñe kurvāṇā āyan yad eva devā akurvata tad asurā akurvata tena vyāvṛtam agachaṃs te devā abruvann etemaṃ yajñaṃ tira upary asurebhyas taṃsyāmahā iti tam etāvañśa ādāyodakrāmann agnir yajurbhiḥ savitā stomair indra ukthāmadair bṛhaspatiś chandobhir iti taṃ tira upary asurebhyo 'tanvata tam eṣāṃ yajñam asurā nānvavāyaṃs tena vā enān apānudanta tato devā abhavan parāsurās tad ya evaṃ veda tira upari bhrātṛvyād yajñaṃ tanute bhavaty ātmanā parāsya bhrātṛvyo bhavaty etair eva juhuyāt samṛtayajñe caturbhiścaturbhir anvākśāyaṃ purastāt prātaranuvākasyaitāvān vai yajño yāvān eva yajñas taṃ vṛṅkte sayajño bhavaty ayajñā itara etair eva juhuyāt purastād dīkṣāyā eṣā vai pratyakṣaṃ dīkṣā tām evālabdhaitair eva juhuyāt purastād dvādaśāhasyaiṣa vai pratyakṣaṃ dvādaśāhas tam evālabdhaitair evātithyam abhimṛśed yajñenaiva yajñam ālabdha dakṣiṇato vai devān asurā yajñam ajayaṃs ta udañcaḥ patnībhiḥ sahāgnīdhraṃ prāviśaṃs tān patnībhiḥ saha prakśāya jihriyato 'surā apāvartanta tāṃs tata evānūtthāyājayaṃs tato devā abhavan parāsurās tad ya evaṃ veda bhavaty ātmanā parāsya bhrātṛvyo bhavati nāsya bhrātṛvyo gṛhān na paśūn abhyārohaty abhi bhrātṛvyasya gṛhān abhi paśūn ārohati ya evaṃ vedaitāny evāgnīdhe 'nubrūyād agnīd vai pātnīvatasya yajati tṛptā patnī reto dhatte pra prajayā ca paśubhiś ca prajāyata etair eva juhuyād antarā tvaṣṭāraṃ ca patnīś ca saṃvatsaraṃ prajākāmo mithunaṃ vai tvaṣṭā ca patnīś ca tvaṣṭāraṃ vā etan mithune 'pyasrāṭ prajananāya tan mithunaṃ tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate vindate prajām āsya vīro jāyate yadi saṃvatsaraṃ juhvan na vinden nādṛtyam
Sanskrit only: no published translation is held for this verse.
जिह्रियतो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो द्वादशकपालः सारस्वतश् चरुः पौष्णश् चरुर् मारुतः सप्तकपालो वैश्वदेव्य् आमिक्षा द्यावापृथिवीया एककपालो वाजिनां वाजिनम् आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपालो मारुत्य् आमिक्षा वारुण्य् आमिक्षा काय एककपालो वाजिनां वाजिनम् अग्नये ऽनीकवते प्रातर् अष्टाकपालो मरुद्भ्यः सांतपनेभ्यो मध्यंदिने चरुर् मरुद्भ्यो गृहमेधेभ्यः सर्वासां दुग्धे सायम् ओदनम् इन्द्रस्य निष्काषो मरुद्भ्यः क्रीडिभ्यः साकं रश्मिभिः सप्तकपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् ऐन्द्राग्नो द्वादशकपाल इन्द्राय वृत्रघ्ने चरुर् वैश्वकर्मण एककपाल आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः सारस्वतश् चरुः पौष्णश् चरुर् वायव्या यवागूः प्रतिधुग् वेन्द्राय शुनासीराय द्वादशकपालः सौर्य एककपालः षट्कपालः पुरोडाशो धाना मन्थः प्रतिपुरुषं पुरोडाशा एकश् चाध्य् आदित्यश् चरुः
jihriyato : FN Correcturen und Conjecturen zu dem ganzen Werk. āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro dvādaśakapālaḥ sārasvataś caruḥ pauṣṇaś carur mārutaḥ saptakapālo vaiśvadevy āmikṣā dyāvāpṛthivīyā ekakapālo vājināṃ vājinam āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro 'ṣṭākapālaḥ sārasvataś caruḥ pauṣṇaś carur aindrāgno dvādaśakapālo māruty āmikṣā vāruṇy āmikṣā kāya ekakapālo vājināṃ vājinam agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyaṃdine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odanam indrasya niṣkāṣo marudbhyaḥ krīḍibhyaḥ sākaṃ raśmibhiḥ saptakapāla āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro 'ṣṭākapālaḥ sārasvataś caruḥ pauṣṇaś carur aindrāgno dvādaśakapāla indrāya vṛtraghne carur vaiśvakarmaṇa ekakapāla āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro 'ṣṭākapālaḥ sārasvataś caruḥ pauṣṇaś carur vāyavyā yavāgūḥ pratidhug vendrāya śunāsīrāya dvādaśakapālaḥ saurya ekakapālaḥ ṣaṭkapālaḥ puroḍāśo dhānā manthaḥ pratipuruṣaṃ puroḍāśā ekaś cādhy ādityaś caruḥ
Sanskrit only: no published translation is held for this verse.
अग्ने वेर् होत्रं वेर् दूत्यम् ऊर्ध्वो अध्वरो अस्थाद् अवतां नो द्यावापृथिवी स्विष्टकृद् इन्द्राय देवेभ्यो भवास्य घृतस्य हविषो जुषाणो वीहि स्वाहा ॥ प्रघास्यान् हवामहे मरुतो यज्ञवाहसः । करम्भेण सजोषसः ॥ मो षू ण इन्द्रात्र पृत्सु देवास्तु स्म ते शुष्मिन्न् अवयाः । मही चिद्यस्य मीढुषो यव्या हविष्मतो मरुतो वन्दते गीः ॥ यद् ग्रामे यद् अरण्ये यत् सभायां यद् इन्द्रिये । यद् एनश् चकृमा वयं यद् अप्सश् चकृमा वयम् । तद् एकस्यापि चेतसि तद् एकस्यापि धर्मणि । तस्य सर्वस्यांहसो ऽवयजनम् असि ॥ अक्रन् कर्म कर्मकृतः सह वाचा मयोभ्वा । देवेभ्यः कम्र कृत्वास्तं प्रेत सुदानवः ॥ पूर्णा दर्वे परा पत सुपूर्णा पुनर् आपत । वस्नेव विक्रीणावहा इषम् ऊर्जं शतक्रतो ॥ देहि मे ददामि ते नि मे धेहि नि ते दधौ । अपामित्यम् इव संभर को अम्बाददते ददत्
agne ver hotraṃ ver dūtyam ūrdhvo adhvaro asthād avatāṃ no dyāvāpṛthivī sviṣṭakṛd indrāya devebhyo bhavāsya ghṛtasya haviṣo juṣāṇo vīhi svāhā // praghāsyān havāmahe maruto yajñavāhasaḥ / karambheṇa sajoṣasaḥ // mo ṣū ṇa indrātra pṛtsu devāstu sma te śuṣminn avayāḥ / mahī cidyasya mīḍhuṣo yavyā haviṣmato maruto vandate gīḥ // yad grāme yad araṇye yat sabhāyāṃ yad indriye / yad enaś cakṛmā vayaṃ yad apsaś cakṛmā vayam / tad ekasyāpi cetasi tad ekasyāpi dharmaṇi / tasya sarvasyāṃhaso 'vayajanam asi // akran karma karmakṛtaḥ saha vācā mayobhvā / devebhyaḥ kamra kṛtvāstaṃ preta sudānavaḥ // pūrṇā darve parā pata supūrṇā punar āpata / vasneva vikrīṇāvahā iṣam ūrjaṃ śatakrato // dehi me dadāmi te ni me dhehi ni te dadhau / apāmityam iva saṃbhara ko ambādadate dadat
Sanskrit only: no published translation is held for this verse.
यद् अन्तरिक्षं पृथिवीम् उत द्यां यन् मातरं पितरं वा जिहिंसिम । अग्निर् नस् तस्माद् एनसो गार्हपत्या उन्निनेतु दुष्कृताज् जातवेदाः ॥ अमीमदन्त पितरो नमो वः पितर इषे नमो वः पितर ऊर्जे नमो वः पितरः शुष्माय नमो वः पितरो रसाय नमो वः पितरो यज् जीवं तस्मै नमो वः पितरो यद् घोरं तस्मै स्वधा वः पितरो नमो नमो वः पितरः ॥ एषा युष्माकं पितर इमा अस्माकं जीवा वो जीवन्तः इह सन्तः स्याम ॥ परेतन पितरः सोम्यासो गम्भीरेभिः पथिभिः पूर्वेभिः । दधथ नो द्रविणं यच् च भद्रं रयिं च नः सर्ववीरं नियछत ॥ अया विष्ठा जनयन् कर्वराणि स हि घृणिर् उरुर् वराय गातुः । स प्रत्यङ्ङ् ऐद् धरुणो मध्वो अग्रं स्वां यत् तनूं तन्वाम् ऐरयत ॥ प्रत्यङ्ङ् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। अक्षन्न् अमीमदन्त ह्य् अव प्रिया अधूषत । अस्तोषत स्वभानवो विप्रा नविष्ठया मती योजा न्व् इन्द्र ते हरी ॥ मनो व्याहुवामहे नाराशंसेन स्तोमेन । पितृणां च मन्मभिः ॥ आ न एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे ॥ पुनर् नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ अग्ने तम् अद्याश्वं न स्तोमैः क्रतुं न भद्रं हृदिस्पृशम् । ऋध्यामा ता ओहैः
yad antarikṣaṃ pṛthivīm uta dyāṃ yan mātaraṃ pitaraṃ vā jihiṃsima / agnir nas tasmād enaso gārhapatyā unninetu duṣkṛtāj jātavedāḥ // amīmadanta pitaro namo vaḥ pitara iṣe namo vaḥ pitara ūrje namo vaḥ pitaraḥ śuṣmāya namo vaḥ pitaro rasāya namo vaḥ pitaro yaj jīvaṃ tasmai namo vaḥ pitaro yad ghoraṃ tasmai svadhā vaḥ pitaro namo namo vaḥ pitaraḥ // eṣā yuṣmākaṃ pitara imā asmākaṃ jīvā vo jīvantaḥ iha santaḥ syāma // paretana pitaraḥ somyāso gambhīrebhiḥ pathibhiḥ pūrvebhiḥ / dadhatha no draviṇaṃ yac ca bhadraṃ rayiṃ ca naḥ sarvavīraṃ niyachata // ayā viṣṭhā janayan karvarāṇi sa hi ghṛṇir urur varāya gātuḥ / sa pratyaṅṅ aid dharuṇo madhvo agraṃ svāṃ yat tanūṃ tanvām airayata // pratyaṅṅ : FN Correcturen und Conjecturen zu dem ganzen Werk. akṣann amīmadanta hy ava priyā adhūṣata / astoṣata svabhānavo viprā naviṣṭhayā matī yojā nv indra te harī // mano vyāhuvāmahe nārāśaṃsena stomena / pitṛṇāṃ ca manmabhiḥ // ā na etu manaḥ punaḥ kratve dakṣāya jīvase / jyok ca sūryaṃ dṛśe // punar naḥ pitaro mano dadātu daivyo janaḥ / jīvaṃ vrātaṃ sacemahi // agne tam adyāśvaṃ na stomaiḥ kratuṃ na bhadraṃ hṛdispṛśam / ṛdhyāmā tā ohaiḥ
Sanskrit only: no published translation is held for this verse.
आखुं ते रुद्र पशुं करोम्य् एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहा ॥ अवाम्ब रुद्रम् अदिमह्य् अव देवं त्र्यम्बकम् । यथा नो वस्यसस् करद् यथा नः श्रेयसस् करत् । यथा नो भूयसस् करद् यथा नः प्रतरं तिराद् यथा नो व्यवसाययात् ॥ भेषजं गवे अश्वाय पुरुषाय भेषजम् । अथो अस्मभ्यं भेषजं सुभेषजं यथासति सुगं मेषाय मेष्यै ॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकम् इव बन्धनान् मृत्योर् मुक्षीय मामृतात् ॥ रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि ॥ पिनाकहस्तः कृत्तिवासा अवततधन्वा
ākhuṃ te rudra paśuṃ karomy eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāhā // avāmba rudram adimahy ava devaṃ tryambakam / yathā no vasyasas karad yathā naḥ śreyasas karat / yathā no bhūyasas karad yathā naḥ prataraṃ tirād yathā no vyavasāyayāt // bheṣajaṃ gave aśvāya puruṣāya bheṣajam / atho asmabhyaṃ bheṣajaṃ subheṣajaṃ yathāsati sugaṃ meṣāya meṣyai // tryambakaṃ yajāmahe sugandhiṃ puṣṭivardhanam / urvārukam iva bandhanān mṛtyor mukṣīya māmṛtāt // rudraiṣa te bhāgas tenāvasena paro mūjavato 'tīhi // pinākahastaḥ kṛttivāsā avatatadhanvā
Sanskrit only: no published translation is held for this verse.
देवाश् च वा असुराश् चास्मिंल् लोक आसन्त् स प्रजापतिर् अकामयत प्रासुरान् नुदेय प्रजाः सृजेयेति स चातुर्मास्यान्य् अपश्यच् चातुर्मास्यैर् वै सो ऽसुरान् प्रानुदत चातुर्मास्यैः प्रजा असृजत तद् य एवं विद्वांश् चातुर्मास्यैर् यजते प्र भ्रातृव्यं नुदते प्र प्रजया च पशुभिश् च जायते ऽग्निष्टोमाद् वैश्वदेवं यज्ञक्रतुं निर्माय प्रजापतिः प्रजा असृजतोक्थ्याद् वरुणप्रघासान् यज्ञक्रतुं निर्मायेमाः प्रजा वरुणेनाग्राहयद् अतिरात्रात् साकमेधान् यज्ञक्रतुं निर्मायेन्द्रो वृत्रम् अहन् सृष्टा वा अन्याः प्रजा आसन्न् असृष्टा अन्या अथ प्रजापतिर् अकामयत प्रजाः सृजेयेति संवत्सरो वै यज्ञो यज्ञः प्रजापतिः स एते मिथुने पयसी आत्मन्न् अधत्तोधन्यं च वह्यं चाथैताभ्यो देवताभ्य एतानि हवींषि भागं निरवपत् तैः प्रजा असृजत ऋतुभ्यो वै ताः प्रजाः प्राजायन्त ऋतवो वा एतानि पञ्च हवींषि पञ्च ह्य् ऋतवस् ततः प्रजायते ऽग्निर् एव प्रावापयत् सोमो वै रेतो ऽदधान् मिथुनं वा अग्निश् च सोमश् च सविता प्रासुवत् प्रजननाय संवत्सरो वै सविता द्वादश मासाः संवत्सरस् तस्माद् द्वादशकपालो ऽथो वैश्वदेवत्वायैव द्वादशकपाल उपांशु यजत्य् अनिरुक्तो हि संवत्सरः सरस्वत्य् एव सृष्टासु वाचम् अदधात् पूषणं प्रतिष्ठाम् अभ्यसृज्यन्त वाग् वै सरस्वती पशवः पूषा मिथुनं वाक् च पशवश् च मध्यतः प्रजापतिनासृज्यन्तान्ततो मिथुनाद् विषूचीः प्राजायन्त तन् मध्यत एवैतत् प्रजापतिना सृज्यन्ते ऽथादो ऽन्ततो मिथुनाद् विषूचीः प्रजायन्ते वार्त्रघ्नानि वा एतानि हवींष्य् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहन् सोमेन राज्ञा सवितृप्रसूतः सरस्वत्या चेत्रा पूषैनं वीर्येणान्वतिष्ठत विजितिर् वा एतानि हवींषीन्द्रो वै वृत्रम् अहन् स विष्वङ् वीर्येण व्यार्छत् तद् इदं सर्वं प्राविशद् अप ओषधीर् वनस्पतींस् तेन देवा अश्राम्यंस् तत् समनयंस् तत् सान्नाय्यस्य सान्नाय्यत्वं तद् य एवं विद्वान्त् सान्नाय्येन यजत ऋध्नोति
devāś ca vā asurāś cāsmiṃl loka āsant sa prajāpatir akāmayata prāsurān nudeya prajāḥ sṛjeyeti sa cāturmāsyāny apaśyac cāturmāsyair vai so 'surān prānudata cāturmāsyaiḥ prajā asṛjata tad ya evaṃ vidvāṃś cāturmāsyair yajate pra bhrātṛvyaṃ nudate pra prajayā ca paśubhiś ca jāyate 'gniṣṭomād vaiśvadevaṃ yajñakratuṃ nirmāya prajāpatiḥ prajā asṛjatokthyād varuṇapraghāsān yajñakratuṃ nirmāyemāḥ prajā varuṇenāgrāhayad atirātrāt sākamedhān yajñakratuṃ nirmāyendro vṛtram ahan sṛṣṭā vā anyāḥ prajā āsann asṛṣṭā anyā atha prajāpatir akāmayata prajāḥ sṛjeyeti saṃvatsaro vai yajño yajñaḥ prajāpatiḥ sa ete mithune payasī ātmann adhattodhanyaṃ ca vahyaṃ cāthaitābhyo devatābhya etāni havīṃṣi bhāgaṃ niravapat taiḥ prajā asṛjata ṛtubhyo vai tāḥ prajāḥ prājāyanta ṛtavo vā etāni pañca havīṃṣi pañca hy ṛtavas tataḥ prajāyate 'gnir eva prāvāpayat somo vai reto 'dadhān mithunaṃ vā agniś ca somaś ca savitā prāsuvat prajananāya saṃvatsaro vai savitā dvādaśa māsāḥ saṃvatsaras tasmād dvādaśakapālo 'tho vaiśvadevatvāyaiva dvādaśakapāla upāṃśu yajaty anirukto hi saṃvatsaraḥ sarasvaty eva sṛṣṭāsu vācam adadhāt pūṣaṇaṃ pratiṣṭhām abhyasṛjyanta vāg vai sarasvatī paśavaḥ pūṣā mithunaṃ vāk ca paśavaś ca madhyataḥ prajāpatināsṛjyantāntato mithunād viṣūcīḥ prājāyanta tan madhyata evaitat prajāpatinā sṛjyante 'thādo 'ntato mithunād viṣūcīḥ prajāyante vārtraghnāni vā etāni havīṃṣy agninā vā anīkenendro vṛtram ahan somena rājñā savitṛprasūtaḥ sarasvatyā cetrā pūṣainaṃ vīryeṇānvatiṣṭhata vijitir vā etāni havīṃṣīndro vai vṛtram ahan sa viṣvaṅ vīryeṇa vyārchat tad idaṃ sarvaṃ prāviśad apa oṣadhīr vanaspatīṃs tena devā aśrāmyaṃs tat samanayaṃs tat sānnāyyasya sānnāyyatvaṃ tad ya evaṃ vidvānt sānnāyyena yajata ṛdhnoti
Sanskrit only: no published translation is held for this verse.
मिथुनं वै दधि च शृतं चाथ यत् संसृष्टम् आण्डम् इव मस्त्व् इव परीव ददृशे गर्भ एव स तपसो वै प्रजाः प्राजायन्त तपस्त्वं वा एतद् गछति यञ् शृतत्वं गछति ततः प्रजायते ऽथैषा वैश्वदेव्य् आमिक्षा प्रजापतिः प्रजा असृजत ता वैश्वदेवेनैवासृजत तस्माद् इमा वैश्वदेवीः प्रजा विश्वान् देवान् यजति स्तोका वै विश्वे देवास् तान् वा एतद् यजत्य् अथो अमुतःप्रदानाद् धि मनुष्या यज्ञम् उपजीवन्ति योनिर् वा एष प्रजानां तं मरुतो ऽभ्यकामयन्त ततो ऽंहोगृहीता असृज्यन्त यत् स्वतवद्भ्यः स्वत्वायैव निष्कृत्यै प्रजननो वा एष पशूनां यन् मारुतः सप्तकपालो भवति सप्त हि मरुतो विण् मरुतो ऽथो निरवत्त्या एव मारुतो ऽथो ग्राम्यम् एवैतेनान्नाद्यम् अवरुन्द्धे
mithunaṃ vai dadhi ca śṛtaṃ cātha yat saṃsṛṣṭam āṇḍam iva mastv iva parīva dadṛśe garbha eva sa tapaso vai prajāḥ prājāyanta tapastvaṃ vā etad gachati yañ śṛtatvaṃ gachati tataḥ prajāyate 'thaiṣā vaiśvadevy āmikṣā prajāpatiḥ prajā asṛjata tā vaiśvadevenaivāsṛjata tasmād imā vaiśvadevīḥ prajā viśvān devān yajati stokā vai viśve devās tān vā etad yajaty atho amutaḥpradānād dhi manuṣyā yajñam upajīvanti yonir vā eṣa prajānāṃ taṃ maruto 'bhyakāmayanta tato 'ṃhogṛhītā asṛjyanta yat svatavadbhyaḥ svatvāyaiva niṣkṛtyai prajanano vā eṣa paśūnāṃ yan mārutaḥ saptakapālo bhavati sapta hi maruto viṇ maruto 'tho niravattyā eva māruto 'tho grāmyam evaitenānnādyam avarunddhe
Sanskrit only: no published translation is held for this verse.
ता वैश्वदेवेन सृष्टा विषूचीर् व्युदायंस् ताः प्रजापतिर् द्यावापृथिवीयेन पर्यगृह्णाद् यद् द्यावापृथिवीयः प्रजानां सृष्टानां परिगृहीत्यै यद् एककपालस् तेन प्राजापत्यः प्रजापता एव देवतासु प्रतितिष्ठति यजमानो वा एककपाल आहवनीयः स्वर्गो लोको यत् सर्वहुतं करोति हविर्भूतम् एवैनं स्वर्गं लोकं गमयति यजमानं वै हूर्छन्तं प्रजा अनुहूर्छन्ति यजमानं प्रतितिष्ठन्तं प्रजा अनुप्रतितिष्ठन्त्य् ऋजुर् होतव्यः प्रतिष्ठित्यै सर्वहुतं करोति प्रतिष्ठित्यै यजमानो वा एककपालः पशवो घृतं तद् अभिपूर्यः पशुभिर् एवैनं समर्धयति यद् अभिपूरयेद् अधरम् एनं पशुभ्यः कुर्याद् अभुञ्जन्त एनं पशवा उपतिष्ठेयुर् आविःपृष्ठः कार्यः पशुभ्य एवैनम् उत्तरम् अकर् भुञ्जन्त एनं पशवा उपतिष्ठते तन् न सूर्क्ष्यम् अभिपूर्य एव न हि पशवो न भुञ्जन्ति यत् प्राङ् पद्येत यजमानः प्रमीयेत यद् दक्षिणा प्रजाम् अस्य निर्दहेद् यत् प्रत्यङ् पत्नी प्रमीयेत यद् उदङ् पशून् अस्य निर्दहेद् यद् उत्तानः पतेत् पर्जन्यो ऽवर्षुकः स्यात् पुनरादायाभिघार्य होतव्यो यजमानस्य प्रतिष्ठित्यै वरो दक्षिणा वरेनैव वरं स्पृणोत्य् आत्मा हि वरस् त्रेधासंनद्धं बर्हिर् भवति त्रेधासंनद्ध इध्मस् त्रेधाविहितानि चातुर्मास्यानि संवत्सरं वै चातुर्मास्यानि संवत्सरेणाग्निं मन्थन्त्य् अग्निं वै प्रजा अनुप्रजायन्ते प्रजननो वा एष मथ्यते ऽथो वृषाणं वा एतद् यजमानाय जनयन्ति वसन्ता यष्टव्यं प्रजननाय प्रवणे यष्टव्यं प्रजननाय नोत्तरवेदिम् उपवपन्ति प्रजननाय प्रस्वो भवन्ति प्र मा जनयानीति पशवो वै पृषदाज्यं नानारूपा वै पशवस् तस्मान् नानारूपम् आग्नेयं घृतम् ऐन्द्रं दध्य् ऐन्द्राग्नं पृषदाज्यं देवतया प्राणापानौ वा इन्द्राग्नी मिथुनं प्राणापानौ मिथुनयोनयः प्रजा मिथुनात् खलु वै प्रजाः पशवः प्रजायन्ते तन् मिथुनं तस्माद् एव मिथुनाद् यजमानः प्रजया च पशुभिश् च प्रजायते यदि वसन्ता यजेत द्विर् उपस्तृणीयात् सकृद् अभिघारयेद् ओषधयो वै पशव ओषधीष्व् एव पशून् प्रतिष्ठापयति यदि प्रावृषि यजेत सकृद् उपस्तृणीयाद् द्विर् अभिघारयेद् वृष्ट्यैव पशून् अभिजिघर्ति
tā vaiśvadevena sṛṣṭā viṣūcīr vyudāyaṃs tāḥ prajāpatir dyāvāpṛthivīyena paryagṛhṇād yad dyāvāpṛthivīyaḥ prajānāṃ sṛṣṭānāṃ parigṛhītyai yad ekakapālas tena prājāpatyaḥ prajāpatā eva devatāsu pratitiṣṭhati yajamāno vā ekakapāla āhavanīyaḥ svargo loko yat sarvahutaṃ karoti havirbhūtam evainaṃ svargaṃ lokaṃ gamayati yajamānaṃ vai hūrchantaṃ prajā anuhūrchanti yajamānaṃ pratitiṣṭhantaṃ prajā anupratitiṣṭhanty ṛjur hotavyaḥ pratiṣṭhityai sarvahutaṃ karoti pratiṣṭhityai yajamāno vā ekakapālaḥ paśavo ghṛtaṃ tad abhipūryaḥ paśubhir evainaṃ samardhayati yad abhipūrayed adharam enaṃ paśubhyaḥ kuryād abhuñjanta enaṃ paśavā upatiṣṭheyur āviḥpṛṣṭhaḥ kāryaḥ paśubhya evainam uttaram akar bhuñjanta enaṃ paśavā upatiṣṭhate tan na sūrkṣyam abhipūrya eva na hi paśavo na bhuñjanti yat prāṅ padyeta yajamānaḥ pramīyeta yad dakṣiṇā prajām asya nirdahed yat pratyaṅ patnī pramīyeta yad udaṅ paśūn asya nirdahed yad uttānaḥ patet parjanyo 'varṣukaḥ syāt punarādāyābhighārya hotavyo yajamānasya pratiṣṭhityai varo dakṣiṇā varenaiva varaṃ spṛṇoty ātmā hi varas tredhāsaṃnaddhaṃ barhir bhavati tredhāsaṃnaddha idhmas tredhāvihitāni cāturmāsyāni saṃvatsaraṃ vai cāturmāsyāni saṃvatsareṇāgniṃ manthanty agniṃ vai prajā anuprajāyante prajanano vā eṣa mathyate 'tho vṛṣāṇaṃ vā etad yajamānāya janayanti vasantā yaṣṭavyaṃ prajananāya pravaṇe yaṣṭavyaṃ prajananāya nottaravedim upavapanti prajananāya prasvo bhavanti pra mā janayānīti paśavo vai pṛṣadājyaṃ nānārūpā vai paśavas tasmān nānārūpam āgneyaṃ ghṛtam aindraṃ dadhy aindrāgnaṃ pṛṣadājyaṃ devatayā prāṇāpānau vā indrāgnī mithunaṃ prāṇāpānau mithunayonayaḥ prajā mithunāt khalu vai prajāḥ paśavaḥ prajāyante tan mithunaṃ tasmād eva mithunād yajamānaḥ prajayā ca paśubhiś ca prajāyate yadi vasantā yajeta dvir upastṛṇīyāt sakṛd abhighārayed oṣadhayo vai paśava oṣadhīṣv eva paśūn pratiṣṭhāpayati yadi prāvṛṣi yajeta sakṛd upastṛṇīyād dvir abhighārayed vṛṣṭyaiva paśūn abhijigharti
Sanskrit only: no published translation is held for this verse.
प्राणेभ्यो वै ताः प्रजाः प्राजायन्त प्राणा वा एतानि नव हवींषि नव हि प्राणा आत्मा देवता ततः प्रजायते नव प्रयाजा नवानुयाजा द्वा आज्यभागव् अष्टौ हवींष्य् अग्नये समवद्यति वाजिनो यजति तत् त्रिंशस् त्रिंशदक्षरा विराड् विराज्य् एव प्रतितिष्ठति विराजो वै योनेः प्रजापतिः प्रजा असृजत विराजो वा एतद् योनेर् यजमानः प्रजायते त्रिंशत्त्रिंशद् वै रात्रयो मासो यो मासः स संवत्सरः संवत्सरः प्रजापतिस् तत् प्रजापतेश् च वा एतद् विराजश् च योनेर् मिथुनाद् यजमानः प्रजायत एकैकया वा आहुत्या द्वादशद्वादश रात्रीर् अयुवत ता यावतीः संख्याने तावतीः संवत्सरस्य रात्रयः संवत्सरम् एव भ्रातृव्याद् युवते वैश्वदेवेन चतुरो मासो ऽयुवत वरुणप्रघासैः परांश् चतुरः साकमेधैः परांश् चतुरस् तान् एव भ्रातृव्याद् युवत ऋतुयाजी वा अन्यश् चातुर्मास्ययाज्य् अन्यो यो वसन्तो ऽभूत् प्रावृड् अभूञ् शरद् अभूद् इति यजते स ऋतुयाज्य् अथ यस् त्रयोदशं मासं संपादयति त्रयोदशं मासम् अभियजते स चातुर्मास्ययाज्य् ऋजूंस् त्रीन् इष्ट्वा चतुर्थम् उत्सृजेत ऋजू द्वौ परा इष्ट्वा तृतीयम् उत्सृजेत ये वै त्रयः संवत्सरास् तेषां षट्त्रिंशत् पूर्णमासा यौ द्वौ तयोश् चतुर्विंशतिस् तद् ये ऽमी षट् त्रिंशत्य् अधि तान् अस्यां चतुर्विंशत्याम् उपसंपादयत्य् एष वाव स त्रयोदशो मासस् तम् एवैतत् संपादयति तम् अभियजते वैश्वदेवेन यजेत पशुकामो न वरुणप्रघासैर् न साकमेधैः सर्वो वै पुरुषः साहस्रो जायते यावत्तरसं त्व् एवैति प्रजननं वा एतद् धविर् यद् वैश्वदेवं यद् वैश्वदेवेन यजते प्रजननाय वा एतद् यजते स्वां मात्रां गछानीति स यदा सहस्रं पशून् गछेद् अथ वरुणप्रघासैर् यजेत यद् एवादः सहस्रम् अगंस् तस्यैतद् अंहो ऽवयजति
prāṇebhyo vai tāḥ prajāḥ prājāyanta prāṇā vā etāni nava havīṃṣi nava hi prāṇā ātmā devatā tataḥ prajāyate nava prayājā navānuyājā dvā ājyabhāgav aṣṭau havīṃṣy agnaye samavadyati vājino yajati tat triṃśas triṃśadakṣarā virāḍ virājy eva pratitiṣṭhati virājo vai yoneḥ prajāpatiḥ prajā asṛjata virājo vā etad yoner yajamānaḥ prajāyate triṃśattriṃśad vai rātrayo māso yo māsaḥ sa saṃvatsaraḥ saṃvatsaraḥ prajāpatis tat prajāpateś ca vā etad virājaś ca yoner mithunād yajamānaḥ prajāyata ekaikayā vā āhutyā dvādaśadvādaśa rātrīr ayuvata tā yāvatīḥ saṃkhyāne tāvatīḥ saṃvatsarasya rātrayaḥ saṃvatsaram eva bhrātṛvyād yuvate vaiśvadevena caturo māso 'yuvata varuṇapraghāsaiḥ parāṃś caturaḥ sākamedhaiḥ parāṃś caturas tān eva bhrātṛvyād yuvata ṛtuyājī vā anyaś cāturmāsyayājy anyo yo vasanto 'bhūt prāvṛḍ abhūñ śarad abhūd iti yajate sa ṛtuyājy atha yas trayodaśaṃ māsaṃ saṃpādayati trayodaśaṃ māsam abhiyajate sa cāturmāsyayājy ṛjūṃs trīn iṣṭvā caturtham utsṛjeta ṛjū dvau parā iṣṭvā tṛtīyam utsṛjeta ye vai trayaḥ saṃvatsarās teṣāṃ ṣaṭtriṃśat pūrṇamāsā yau dvau tayoś caturviṃśatis tad ye 'mī ṣaṭ triṃśaty adhi tān asyāṃ caturviṃśatyām upasaṃpādayaty eṣa vāva sa trayodaśo māsas tam evaitat saṃpādayati tam abhiyajate vaiśvadevena yajeta paśukāmo na varuṇapraghāsair na sākamedhaiḥ sarvo vai puruṣaḥ sāhasro jāyate yāvattarasaṃ tv evaiti prajananaṃ vā etad dhavir yad vaiśvadevaṃ yad vaiśvadevena yajate prajananāya vā etad yajate svāṃ mātrāṃ gachānīti sa yadā sahasraṃ paśūn gached atha varuṇapraghāsair yajeta yad evādaḥ sahasram agaṃs tasyaitad aṃho 'vayajati
Sanskrit only: no published translation is held for this verse.
विराड् : फ़्न् ⟨ विराज् एव : फ़्न् एमेन्देद्। एद्।: विराजेव यजेत : फ़्न् एमेन्देद्। एद्।: यजते यद् बर्हिः प्रयाजेषु यजत्य् ओषधीस् तद् यजति यद् बर्हिर् अनुयाजेषु फलं तद् यद् बर्हिर् वारितीनां यद् एवादः फलात् प्रजायते तद् एतद् यजति यद् दुर उपस्थं तद् यद् उषासानक्ता व्युष्टिं चैव निम्रुक्तिं च यज् जोष्ट्री यद् एव जातं च जनिष्यमाणं च यद् ऊर्जाहुती यद् एवात्ति च पिबति च यद् दैव्या होतारेमे एव यत् तिस्रो देवीर् वाग् वै तिस्रो देवीर् वाचं वा एतद् यजत्य् अथो छन्दांसि वै वाक् छन्दांसि वा एतद् यजति तनूनपाद् वै यज्ञो ऽप्रसृतो नराशंसः प्रसृतस् तस्मात् तनूनपातं प्रयाजेषु यजत्य् अप्रसृतो हि तर्हि यज्ञस् तस्माद् उ नराशंसम् अनुयाजेषु यजति प्रसृतो हि तर्हि यज्ञो वनस्पतिं यजति सोमो वै वनस्पतिः सौमीर् इमाः प्रजाः प्रजास्व् एव रसं दधाति त्वष्टारं यजति त्वष्टा हि रूपाणि विकरोति वाजिनो यजति पशवो वै वाजिनस् तान् वा एतद् यजत्य् अथो छन्दांसि वै वाजिनश् छन्दांसि वा एतद् यजति पशवो वै वाजिनस् तन् न संस्थाप्यं यत् संस्थापयेत् तान् एव संस्थापयेद् असंस्थिता ह्य् एते सददि प्रजायन्ते न वा एष सुयज्ञ इव संस्थिते हि प्रहृतेषु परिधिषु जुहोति यद् अव्यवानन् यजति तेन यज्ञः क्रियते ऽनुयजति समिष्ट्या एव प्रतिष्ठित्यै बर्हिर् अनुषिञ्चन् गृह्णात्य् ऋषभेष्व् एव रेतो दधात्य् ऊर्ध्वज्ञुर् आसीनो यजत्य् ऊर्ध्वज्ञवो हि पशवः पशुषु रेतो दधत्य् अथो जूर्ध्वज्ञुर् हि प्रजापतिः प्रजा असृजत दिग्भ्यो जुहोतीमा एव दिशो रसेन व्युनत्ति प्राचीम् उत्तमां जुहोति प्राचीम् एव दिशं पुनर् उपावर्तन्ते समुपह्वयन्ते सोमपीथ इव ह्य् एष ऋत्विजः प्राश्नन्ति ॥ वाजिनो मे यज्ञं वहान् ॥ इति समावञ्शो भक्षयन्ति समावञ्श एव वाजं विभजन्त आत्मना प्राश्नात्य् आत्मन्न् एव वाजं धत्ते
virāḍ : FN ⟨ virāj eva : FN emended. Ed.: virājeva yajeta : FN emended. Ed.: yajate yad barhiḥ prayājeṣu yajaty oṣadhīs tad yajati yad barhir anuyājeṣu phalaṃ tad yad barhir vāritīnāṃ yad evādaḥ phalāt prajāyate tad etad yajati yad dura upasthaṃ tad yad uṣāsānaktā vyuṣṭiṃ caiva nimruktiṃ ca yaj joṣṭrī yad eva jātaṃ ca janiṣyamāṇaṃ ca yad ūrjāhutī yad evātti ca pibati ca yad daivyā hotāreme eva yat tisro devīr vāg vai tisro devīr vācaṃ vā etad yajaty atho chandāṃsi vai vāk chandāṃsi vā etad yajati tanūnapād vai yajño 'prasṛto narāśaṃsaḥ prasṛtas tasmāt tanūnapātaṃ prayājeṣu yajaty aprasṛto hi tarhi yajñas tasmād u narāśaṃsam anuyājeṣu yajati prasṛto hi tarhi yajño vanaspatiṃ yajati somo vai vanaspatiḥ saumīr imāḥ prajāḥ prajāsv eva rasaṃ dadhāti tvaṣṭāraṃ yajati tvaṣṭā hi rūpāṇi vikaroti vājino yajati paśavo vai vājinas tān vā etad yajaty atho chandāṃsi vai vājinaś chandāṃsi vā etad yajati paśavo vai vājinas tan na saṃsthāpyaṃ yat saṃsthāpayet tān eva saṃsthāpayed asaṃsthitā hy ete sadadi prajāyante na vā eṣa suyajña iva saṃsthite hi prahṛteṣu paridhiṣu juhoti yad avyavānan yajati tena yajñaḥ kriyate 'nuyajati samiṣṭyā eva pratiṣṭhityai barhir anuṣiñcan gṛhṇāty ṛṣabheṣv eva reto dadhāty ūrdhvajñur āsīno yajaty ūrdhvajñavo hi paśavaḥ paśuṣu reto dadhaty atho jūrdhvajñur hi prajāpatiḥ prajā asṛjata digbhyo juhotīmā eva diśo rasena vyunatti prācīm uttamāṃ juhoti prācīm eva diśaṃ punar upāvartante samupahvayante somapītha iva hy eṣa ṛtvijaḥ prāśnanti // vājino me yajñaṃ vahān // iti samāvañśo bhakṣayanti samāvañśa eva vājaṃ vibhajanta ātmanā prāśnāty ātmann eva vājaṃ dhatte
Sanskrit only: no published translation is held for this verse.
ता वैश्वदेवेन सृष्टास् तस्मिंस् तरुणिमनि वरुणो ऽगृह्णात् तद् आहुर् अति वै ताः प्रजापतिम् अचरंस् ता अतिचरन्तीर् वरुणेनाग्राहयत् तस्मात् पिता नातिचरितवा इति वैश्वदेवेन वै प्रजापतिः प्रजा असृजत तस्य मरुतो हव्यं व्यमथ्नत ततो ऽंहोगृहीता असृज्यन्त ताभ्यो भेषजम् ऐछत् तद् वा आत्मन्न् एवैछत् स एतत् पय आत्मनो ऽधि निरमिमीत तेनाभ्यो ऽंहो ऽवायजत् तद् अंहसो वा एषावेष्टिर् यद् वरुणप्रघासा यद् वरुणप्रघासैर् यजते सर्वस्यांहसो ऽवेष्ट्यै जग्धाद् वै ताः प्रजा वरुणो ऽगृह्णात् तस्माद् वरुणप्रघासा यावत् कुमारे ऽम्णो जात एनस् तावद् अस्मिन्न् एनो भवति यो वरुणप्रघासैर् यजते सावित्रो ऽष्टाकपालो भवति गायत्रो वै देवानां सविता द्वादशकपाल ऐन्द्राग्नो देवतया यद् वै तद् वरुणगृहीता अवेव्लीयन्तेव तद् आस्व् इन्द्राग्नी बलम् अधत्तां शिथिरा वै ताः प्रजा वरुणो ऽगृह्णात् तास्व् इन्द्राग्नी बलम् अधत्तम् ओजो वै वीर्यम् इन्द्राग्नी ओजो वा एतद् वीर्यं मध्यतः प्रजानां धीयते न वै ताः प्राणंस् ता अप्राणतीर् वरुणो ऽगृह्णात् प्राणापानौ वा इन्द्राग्नी प्राणापानौ वा एतन् मुखतः प्रजानां धीयते अथैतानि पञ्च हवींषि संतत्यै निरवत्त्यै मारुती निर्वरुणत्वाय वारुणी कन्त्वाय कायो यद् वै तद् वरुणगृहीताभ्यः कम् अभवत् तस्मात् कायः प्रजापतिर् वै कः प्रजापतिर् वै ताः प्रजा वरुणेनाग्राहयद् यत् काय आत्मन एवैना वरुणान् मुञ्चति
tā vaiśvadevena sṛṣṭās tasmiṃs taruṇimani varuṇo 'gṛhṇāt tad āhur ati vai tāḥ prajāpatim acaraṃs tā aticarantīr varuṇenāgrāhayat tasmāt pitā nāticaritavā iti vaiśvadevena vai prajāpatiḥ prajā asṛjata tasya maruto havyaṃ vyamathnata tato 'ṃhogṛhītā asṛjyanta tābhyo bheṣajam aichat tad vā ātmann evaichat sa etat paya ātmano 'dhi niramimīta tenābhyo 'ṃho 'vāyajat tad aṃhaso vā eṣāveṣṭir yad varuṇapraghāsā yad varuṇapraghāsair yajate sarvasyāṃhaso 'veṣṭyai jagdhād vai tāḥ prajā varuṇo 'gṛhṇāt tasmād varuṇapraghāsā yāvat kumāre 'mṇo jāta enas tāvad asminn eno bhavati yo varuṇapraghāsair yajate sāvitro 'ṣṭākapālo bhavati gāyatro vai devānāṃ savitā dvādaśakapāla aindrāgno devatayā yad vai tad varuṇagṛhītā avevlīyanteva tad āsv indrāgnī balam adhattāṃ śithirā vai tāḥ prajā varuṇo 'gṛhṇāt tāsv indrāgnī balam adhattam ojo vai vīryam indrāgnī ojo vā etad vīryaṃ madhyataḥ prajānāṃ dhīyate na vai tāḥ prāṇaṃs tā aprāṇatīr varuṇo 'gṛhṇāt prāṇāpānau vā indrāgnī prāṇāpānau vā etan mukhataḥ prajānāṃ dhīyate athaitāni pañca havīṃṣi saṃtatyai niravattyai mārutī nirvaruṇatvāya vāruṇī kantvāya kāyo yad vai tad varuṇagṛhītābhyaḥ kam abhavat tasmāt kāyaḥ prajāpatir vai kaḥ prajāpatir vai tāḥ prajā varuṇenāgrāhayad yat kāya ātmana evainā varuṇān muñcati
Sanskrit only: no published translation is held for this verse.
यजते : फ़्न् एमेन्देद्। एद्।: यजेत ऋतं वै सत्यं यज्ञो ऽनृतं स्त्र्य् अनृतं वा एषा करोति या पत्युः क्रीता सत्य् अथान्यैश् चरत्य् अनृतम् एव निरवदाय ऋतं सत्यम् उपैति यन् मिथुया प्रतिब्रूयात् प्रियतमेन याजयेद् अथ यद् वाचयति मेध्याम् एवैनां करोत्य् आमपेषा भवन्ति सर्वस्यांहसो ऽवेष्ट्यै यद् भृज्येयुर् अनवेष्टम् अंहः स्यात् पात्रेभ्यो वै ताः प्रजा वरुणो ऽगृह्णाद् यत् पात्राणि पात्रेभ्य एवैना वरुणान् मुञ्चति प्रतिपुरुषं भवन्ति प्रतिपुरुषम् एवांहो ऽवयजत्य् एकम् अधि भवति गर्भेभ्यस् तेन निरवदयते ऽन्नाद् वै ताः प्रजा वरुणो ऽगृह्णाच् छूर्पेणान्नं बिभ्रति तस्माञ् शूर्पेण जुहुतः स्त्रीपुंसौ जुहुतो मिथुना एव प्रजा वरुणान् मुञ्चतः पुरस्तात् प्रत्यञ्चौ तिष्ठन्तौ जुहुतः पुरस्ताद् एवांहो ऽवयजतो यत् प्रात्राणि य एव द्विपादः पशवो मिथुनास् तेषाम् एतत् पुरस्ताद् अंहो ऽवयजतो ऽथ यन् मेषश् च मेषी च य एव चतुष्पादः पशवो मिथुनास् तेषाम् एतद् उपरिष्टाद् अंहो ऽवयजत उभयत एवांहो ऽवयजतः पुरस्ताच् चोपरिष्टाच् च
yajate : FN emended. Ed.: yajeta ṛtaṃ vai satyaṃ yajño 'nṛtaṃ stry anṛtaṃ vā eṣā karoti yā patyuḥ krītā saty athānyaiś caraty anṛtam eva niravadāya ṛtaṃ satyam upaiti yan mithuyā pratibrūyāt priyatamena yājayed atha yad vācayati medhyām evaināṃ karoty āmapeṣā bhavanti sarvasyāṃhaso 'veṣṭyai yad bhṛjyeyur anaveṣṭam aṃhaḥ syāt pātrebhyo vai tāḥ prajā varuṇo 'gṛhṇād yat pātrāṇi pātrebhya evainā varuṇān muñcati pratipuruṣaṃ bhavanti pratipuruṣam evāṃho 'vayajaty ekam adhi bhavati garbhebhyas tena niravadayate 'nnād vai tāḥ prajā varuṇo 'gṛhṇāc chūrpeṇānnaṃ bibhrati tasmāñ śūrpeṇa juhutaḥ strīpuṃsau juhuto mithunā eva prajā varuṇān muñcataḥ purastāt pratyañcau tiṣṭhantau juhutaḥ purastād evāṃho 'vayajato yat prātrāṇi ya eva dvipādaḥ paśavo mithunās teṣām etat purastād aṃho 'vayajato 'tha yan meṣaś ca meṣī ca ya eva catuṣpādaḥ paśavo mithunās teṣām etad upariṣṭād aṃho 'vayajata ubhayata evāṃho 'vayajataḥ purastāc copariṣṭāc ca
Sanskrit only: no published translation is held for this verse.
यद् वै प्रजा वरुणो गृह्णाति शम्यं चैव यवं चापि न गृह्णाति हेमन्तो हि वरुणो या एवावरुणगृहीतौ ताभ्याम् एवैना वरुणान् मुञ्चति वरुणो वै यवो वरुणदेवत्यः स्वेनैवैना भागधेयेन वरुणान् मुञ्चत्य् अनृताद् वै ताः प्रजा वरुणो ऽगृह्णाद् यद् एता अनृतपशू अनृताद् एवैना वरुणान् मुञ्चतो मिथुनौ भवतो मिथुना एव प्रजा वरुणान् मुञ्चतो लोमशौ भवतो मेध्यत्वाय ये हि पशवो लोम जगृहुस् ते मेधं प्रापुः शमीपर्णानि भवन्ति शंत्वाय भूर्जो वै नामैष वृक्षः कार्या एतस्य स्रुचः प्रजापतिर् वा अन्नाद्यम् अवरुन्धं नाशक्नोत् तञ् शतेध्मेनावारुन्द्ध परःशतानि कार्याण्य् अन्नाद्यस्यावरुद्ध्यै सहस्रेध्मो ह त्व् एवांहसो ऽवेष्टिं विव्याच परःसहस्राणि कार्याणि सर्वस्यांहसो ऽवेष्ट्यै यदा पात्राणि जुह्वत्य् अथाग्निं संमार्ष्टि यस्मिन्न् एवांहो ऽवायाक्षुस् तस्मिन्न् उत्पूते देवता यजा इतीन्द्रो वै यतीन्त् सालावृकेयेभ्यः प्रायछत् तेषां वा एतानि शीर्षाणि यत् खर्जूराः सोमपीथो वा एषो ऽस्या उदैषद् यत् करीराणि सौम्यानि वै करीराणि सौमी ह त्व् एवाहुतिर् अमुतो वृष्टिं च्यावयति यत् करीराणि भवन्ति वृष्ट्या अन्नाद्यस्यावरुद्ध्यै
yad vai prajā varuṇo gṛhṇāti śamyaṃ caiva yavaṃ cāpi na gṛhṇāti hemanto hi varuṇo yā evāvaruṇagṛhītau tābhyām evainā varuṇān muñcati varuṇo vai yavo varuṇadevatyaḥ svenaivainā bhāgadheyena varuṇān muñcaty anṛtād vai tāḥ prajā varuṇo 'gṛhṇād yad etā anṛtapaśū anṛtād evainā varuṇān muñcato mithunau bhavato mithunā eva prajā varuṇān muñcato lomaśau bhavato medhyatvāya ye hi paśavo loma jagṛhus te medhaṃ prāpuḥ śamīparṇāni bhavanti śaṃtvāya bhūrjo vai nāmaiṣa vṛkṣaḥ kāryā etasya srucaḥ prajāpatir vā annādyam avarundhaṃ nāśaknot tañ śatedhmenāvārunddha paraḥśatāni kāryāṇy annādyasyāvaruddhyai sahasredhmo ha tv evāṃhaso 'veṣṭiṃ vivyāca paraḥsahasrāṇi kāryāṇi sarvasyāṃhaso 'veṣṭyai yadā pātrāṇi juhvaty athāgniṃ saṃmārṣṭi yasminn evāṃho 'vāyākṣus tasminn utpūte devatā yajā itīndro vai yatīnt sālāvṛkeyebhyaḥ prāyachat teṣāṃ vā etāni śīrṣāṇi yat kharjūrāḥ somapītho vā eṣo 'syā udaiṣad yat karīrāṇi saumyāni vai karīrāṇi saumī ha tv evāhutir amuto vṛṣṭiṃ cyāvayati yat karīrāṇi bhavanti vṛṣṭyā annādyasyāvaruddhyai
Sanskrit only: no published translation is held for this verse.
एवांहसो : फ़्न् क्स्।३६।६:७४।१: ह त्वा अंहसो प्रजापतेर् वा एतज् ज्येष्ठं तोकं यत् पर्वतास् ते पक्षिण आसंस् ते परापातम् आसत यत्रयत्राकामयन्ताथ वा इयं तर्हि शिथिरासीत् तेषाम् इन्द्रः पक्षान् अछिनत् तैर् इमाम् अदृंहद् ये पक्षा आसंस् ते जीमूता अभवंस् तस्माद् एते सददि पर्वतम् उपप्लवन्ते योनिर् ह्य् एषाम् एष ततो यः प्रथमो रसः प्राक्षरत् तानि करीराण्य् अभवंस् तद् एतद् उत् प्रावृषि जीमूताः प्लवन्ते यजन्ते वरुणप्रघासैः करीराणि भवन्ति वृष्टिं तैः संतनोति तस्मात् तर्हि भूयिष्ठं वर्षति वृष्टिं हि संतनोति न वै वैश्वदेव उत्तरवेदिम् उपवपन्त्य् उपात्र वपन्ति प्रजाताः प्रजाः प्रतिगृभ्णाद् इति येयम् उत्तरा वेदिर् या अत्रीः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्ते येयं दक्षिणा वेदिर् या आद्याः प्रजास् तासाम् एषा योनिस् ता एताम् अनुप्रजायन्त उभयीर् एव प्रजाः प्रजनयत्य् अत्रीश् चाद्याश् चायं वाव हस्ता आसीन् नायं तद् येयं दक्षिणा वेदिस् तयेमम् अविन्दंस् तस्माद् एष एतस्य परिवेष्टा कनीयान् हि तस्मात् कनीयान् ज्यायांसं परिवेवेष्टि समे प्राची भवतः समौ हीमौ प्राञ्चौ हस्ता असंभिन्ने भवतः सर्वस्यांहसो ऽवेष्ट्यै यत् संभिन्द्युर् अनवेष्टम् अंहः स्याद् एकस्यां पश्चात् संभिनत्त्य् अनुसंतत्यय् उपेमां वपति नेमाम् अन्वभ्यारोहाय क्षत्रं वा इन्द्रो विण् मरुतो नाना यजतः पापवसीयसस्य व्यावृत्त्यै यद् एवाध्वर्युः करोति तत् प्रतिप्रस्थाता करोति तस्माद् यद् राजा करोति तद् विट् करोति न वै वैश्वदेवे त्रिंशद् आहुतयः सन्ति न साकमेधेषु वरुणप्रघासेषु वाव त्रिंशद् आहुतयो वैराजो वै पुरुषो दश हस्त्या अङ्गुलयो दश पाद्या दश प्राणा यत् तर्ह्य् अवभृथम् अभ्यवयन्ति यजमानस्य निर्वरुणत्वाय यद् वै यज्ञस्य स्वगाकृतिं न प्राप्नोति तद् वरुणो गृह्णाति यन् निष्काषेणावभृथम् अभ्यवयन्ति यद् एवात्र वरुणय्स्य न्यक्तं तस्यैषा निरवत्तिर् अनपेक्षमाणा आयन्ति वरुणस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव वरुणं निरवदयन्त एधो ऽस्य् एधिसीमहीति निर्वरुणा एव भूत्वैधितुम् उपयन्ति समिद् असि समेधिषीमहीति समिद्ध्या एव
evāṃhaso : FN KS.36.6:74.1: ha tvā aṃhaso prajāpater vā etaj jyeṣṭhaṃ tokaṃ yat parvatās te pakṣiṇa āsaṃs te parāpātam āsata yatrayatrākāmayantātha vā iyaṃ tarhi śithirāsīt teṣām indraḥ pakṣān achinat tair imām adṛṃhad ye pakṣā āsaṃs te jīmūtā abhavaṃs tasmād ete sadadi parvatam upaplavante yonir hy eṣām eṣa tato yaḥ prathamo rasaḥ prākṣarat tāni karīrāṇy abhavaṃs tad etad ut prāvṛṣi jīmūtāḥ plavante yajante varuṇapraghāsaiḥ karīrāṇi bhavanti vṛṣṭiṃ taiḥ saṃtanoti tasmāt tarhi bhūyiṣṭhaṃ varṣati vṛṣṭiṃ hi saṃtanoti na vai vaiśvadeva uttaravedim upavapanty upātra vapanti prajātāḥ prajāḥ pratigṛbhṇād iti yeyam uttarā vedir yā atrīḥ prajās tāsām eṣā yonis tā etām anuprajāyante yeyaṃ dakṣiṇā vedir yā ādyāḥ prajās tāsām eṣā yonis tā etām anuprajāyanta ubhayīr eva prajāḥ prajanayaty atrīś cādyāś cāyaṃ vāva hastā āsīn nāyaṃ tad yeyaṃ dakṣiṇā vedis tayemam avindaṃs tasmād eṣa etasya pariveṣṭā kanīyān hi tasmāt kanīyān jyāyāṃsaṃ pariveveṣṭi same prācī bhavataḥ samau hīmau prāñcau hastā asaṃbhinne bhavataḥ sarvasyāṃhaso 'veṣṭyai yat saṃbhindyur anaveṣṭam aṃhaḥ syād ekasyāṃ paścāt saṃbhinatty anusaṃtatyay upemāṃ vapati nemām anvabhyārohāya kṣatraṃ vā indro viṇ maruto nānā yajataḥ pāpavasīyasasya vyāvṛttyai yad evādhvaryuḥ karoti tat pratiprasthātā karoti tasmād yad rājā karoti tad viṭ karoti na vai vaiśvadeve triṃśad āhutayaḥ santi na sākamedheṣu varuṇapraghāseṣu vāva triṃśad āhutayo vairājo vai puruṣo daśa hastyā aṅgulayo daśa pādyā daśa prāṇā yat tarhy avabhṛtham abhyavayanti yajamānasya nirvaruṇatvāya yad vai yajñasya svagākṛtiṃ na prāpnoti tad varuṇo gṛhṇāti yan niṣkāṣeṇāvabhṛtham abhyavayanti yad evātra varuṇaysya nyaktaṃ tasyaiṣā niravattir anapekṣamāṇā āyanti varuṇasyānanvavāyāya parogoṣṭhaṃ mārjayante parogoṣṭham eva varuṇaṃ niravadayanta edho 'sy edhisīmahīti nirvaruṇā eva bhūtvaidhitum upayanti samid asi samedhiṣīmahīti samiddhyā eva
Sanskrit only: no published translation is held for this verse.
संभिन्द्युर् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। अन्वभ्यारोहाय : फ़्न् एमेन्देद्। एद्।: अन्वभ्यारोहयत्। क्स्।३६।७:७४।१९: अनभ्यारोहाय प्रजाः सृष्ट्वांहो ऽवयज्य सो ऽकामयत वृत्रं हन्याम् इति स एताभिर् देवताभिः सयुग् भूत्वा मरुद्भिर् विशाग्निनानीकेनोपप्लायत स वृत्रम् एत्य वृत्रं दृष्ट्वोरुस्कम्भगृहीतो ऽनभिधृष्णुवन्न् अतिष्ठत् तं मरुतो ऽध्यैयन्त ते ऽत्यैषंस् तस्य यदा मर्मागछन्न् अथाचेष्टत् सं वा एनं तद् अतपंस् तस्मात् सांतपनास् अग्निना वा अनीकेनेन्द्रो वृत्रम् अहंस् तद् अनीकत्वायैवैषो ऽथो अग्निर् वै देवानां सेनानीस् तत् सेनोत्थापनीयम् एवैतद् इन्द्रो वै वृत्राय वज्रम् उद्यमं नाशक्नोत् स एतं मरुद्भ्यो भागं निरवपत् तं वीर्याय समतपंस् तं तेन वीर्येणोदयछन् सं वा एनं तद् अतपंस् तस्मात् सांतपना मध्यंदिने चरुर् निरुप्यस् तर्ह्य् उभा अन्तौ तपति चरुः स्यात् तं हि सर्वतस् तपति देवा वै वृत्रस्य मर्म नाविन्दन् तं मरुतः क्षुरपविना व्ययुः सं वा एनं तद् अतपंस् तस्मात् सांतपनाः
saṃbhindyur : FN Correcturen und Conjecturen zu dem ganzen Werk. anvabhyārohāya : FN emended. Ed.: anvabhyārohayat. KS.36.7:74.19: anabhyārohāya prajāḥ sṛṣṭvāṃho 'vayajya so 'kāmayata vṛtraṃ hanyām iti sa etābhir devatābhiḥ sayug bhūtvā marudbhir viśāgninānīkenopaplāyata sa vṛtram etya vṛtraṃ dṛṣṭvoruskambhagṛhīto 'nabhidhṛṣṇuvann atiṣṭhat taṃ maruto 'dhyaiyanta te 'tyaiṣaṃs tasya yadā marmāgachann athāceṣṭat saṃ vā enaṃ tad atapaṃs tasmāt sāṃtapanās agninā vā anīkenendro vṛtram ahaṃs tad anīkatvāyaivaiṣo 'tho agnir vai devānāṃ senānīs tat senotthāpanīyam evaitad indro vai vṛtrāya vajram udyamaṃ nāśaknot sa etaṃ marudbhyo bhāgaṃ niravapat taṃ vīryāya samatapaṃs taṃ tena vīryeṇodayachan saṃ vā enaṃ tad atapaṃs tasmāt sāṃtapanā madhyaṃdine carur nirupyas tarhy ubhā antau tapati caruḥ syāt taṃ hi sarvatas tapati devā vai vṛtrasya marma nāvindan taṃ marutaḥ kṣurapavinā vyayuḥ saṃ vā enaṃ tad atapaṃs tasmāt sāṃtapanāḥ
Sanskrit only: no published translation is held for this verse.
सेनोत्थापनीयम् : फ़्न् एमेन्देद्। एद्।: सेनोत्थापनीयम् ते वै श्वो भूते वृत्रं हनिष्यन्ता उपावसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् तेन पशून् अचिकयुस् ते ऽविदुर् यतरान् वा इम उपावर्त्स्यन्ति त इदं भविष्यन्तीति तेभ्यो वा एतेन प्रातिष्ठंस् तान् एतेनायछंस् तत् पशूनां वावैषा यतिस् ते वै श्वोविजयिनो ऽवसंस् ते ऽब्रुवन् कस्य वाहेदं श्वो भविता कस्य वा पचतेति त एतम् ओदनम् अपचंस् ते ऽब्रुवन् माहुतम् अशिष्मेति तं मरुद्भ्यो गृहमेधेभ्यो ऽजुहवुः पशवो वै मरुतो गृहमेधाः पशुभ्यो वै ते तम् अजुहवुस् ते वै संयत्ता आसंस् ते ऽसुरा देवेभ्यः क्षुधं प्राहिण्वंस् तां देवाः प्रतिश्रुत्यैतम् ओदनम् अपचन् सा देवेषु लोकम् अवित्त्वा पुनर् असुरान् प्राविशत् ततो देवा अभवन् परासुरास् तद् य एवं विद्वान् एतम् ओदनं पचति भवत्य् आत्मना परास्य भ्रातृव्यो भवत्य् अपि प्रतिवेशं पचेद् भ्रातृव्यायैव क्षुधं प्रहिणोति यद् वै चातुर्मास्यानां पाकयज्ञस्यैव तद् एषां पशव्यं पशव्यो गृहमेधो न प्रयाजान् यजति नानुयाजान् न सामिधेनीर् अन्वाहाज्यभागौ यजति यज्ञतायय् अग्नये समवद्यत्य् अग्निर् वै समिष्टिर् अग्निः प्रतिष्ठितिः समिष्ट्या एव प्रतिष्ठियईडाम् उपह्वयन्ते पशवो वा इडा पशव्यो गृहमेधस् तस्माद् इडाम् उपह्वयन्ते निष्काषं निदधात्य् अनुसंतत्यै
senotthāpanīyam : FN emended. Ed.: senotthāpanīyam te vai śvo bhūte vṛtraṃ haniṣyantā upāvasaṃs te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti ta etam odanam apacaṃs tena paśūn acikayus te 'vidur yatarān vā ima upāvartsyanti ta idaṃ bhaviṣyantīti tebhyo vā etena prātiṣṭhaṃs tān etenāyachaṃs tat paśūnāṃ vāvaiṣā yatis te vai śvovijayino 'vasaṃs te 'bruvan kasya vāhedaṃ śvo bhavitā kasya vā pacateti ta etam odanam apacaṃs te 'bruvan māhutam aśiṣmeti taṃ marudbhyo gṛhamedhebhyo 'juhavuḥ paśavo vai maruto gṛhamedhāḥ paśubhyo vai te tam ajuhavus te vai saṃyattā āsaṃs te 'surā devebhyaḥ kṣudhaṃ prāhiṇvaṃs tāṃ devāḥ pratiśrutyaitam odanam apacan sā deveṣu lokam avittvā punar asurān prāviśat tato devā abhavan parāsurās tad ya evaṃ vidvān etam odanaṃ pacati bhavaty ātmanā parāsya bhrātṛvyo bhavaty api prativeśaṃ paced bhrātṛvyāyaiva kṣudhaṃ prahiṇoti yad vai cāturmāsyānāṃ pākayajñasyaiva tad eṣāṃ paśavyaṃ paśavyo gṛhamedho na prayājān yajati nānuyājān na sāmidhenīr anvāhājyabhāgau yajati yajñatāyay agnaye samavadyaty agnir vai samiṣṭir agniḥ pratiṣṭhitiḥ samiṣṭyā eva pratiṣṭhiyaīḍām upahvayante paśavo vā iḍā paśavyo gṛhamedhas tasmād iḍām upahvayante niṣkāṣaṃ nidadhāty anusaṃtatyai
Sanskrit only: no published translation is held for this verse.
ते : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। अवित्त्वा : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। तेषां वा उभयेषाम् इन्द्रः प्रावसत् ते देवा एतम् इन्द्राय भागं न्यदधुर् अस्माञ् श्वो निहितभागो वृणता इत्य् ऋषभम् आह्वयन्तीन्द्रं वा एतं निह्वयन्ते रुवथो वषट्कारो ऽथो असुराणां वा एतद् ऋषभम् अत्याह्वयन्त्य् अस्मान् प्रजनयाद् इति सवत्सा गावो वसन्ति साकमेधत्वाय स्त्र्य् अश्नाति साकमेधत्वाय यत् स्त्री नाश्नीयाद् असाकमेधाः स्युर् अथ यत् स्त्र्य् अश्नाति साकमेधत्वाय निरृतिर् वा एतद् यज्ञस्य गृह्णाति यत् स्त्र्य् अश्नाति निरृतिर् हि स्त्री निरृतिगृहीता वै दर्विस् तप्तं ह्य् अवचरत्य् एष खलु वै स्त्रिया हस्तो यद् दर्विर् यद् दर्व्या जुहोति निरृतिगृहीतयैव निरृतिं निरवदयते स वै श्वो भूते वृत्रं हन्तुम् उपप्लायत तं मरुतः परिक्रीडन्त आसंस् ते ऽस्याप्त्वा व्यनयंस् ते ऽभ्यधर्षयंस् तस्मात् क्रीडयस् ते वै संयत्ता आसंस् ते देवा असुराणां परम् अन्तं न परापश्यंस् ते मरुतः क्रीडीन् क्रीडतो ऽपापश्यंस् तज् जितमनसो वा इम इति तेभ्यो वा एतं भागं निरवपंस् ततो वा अजयंस् तज् जित्वा एवैषो ऽसौ वा आदित्य इन्द्रो रश्मयः क्रीडयः साकं रश्मिभिः प्रचरति विजित्यै देवा वै वृत्रं हतं न व्यजानंस् तं मरुतः क्रीडयो ऽध्यक्रीडंस् तस्मात् क्रीडयो ऽथैतानि पञ्च हवींषि संतत्यय् अथैष ऐन्द्राग्न इन्द्राग्नी एवास्मै वज्रम् अन्वबिभृताम् इन्द्राग्नी अस्मै वज्रम् अभ्यवहताम् अथैष ऐन्द्र उद्धारं वा एतम् इन्द्रा उदहरत् वृत्रं हत्वा तद् उद्धार एवास्यैष भाग एव तस्माद् राजा संग्रामं जित्वोदाजम् उदजते ऽथैष वैश्वकर्मणो विश्वानि मे कर्माणि कृतान्य् आसन्न् इति विश्वकर्मा हि सो ऽभवद् वृत्रं हत्वाथैष आघार आहुतीनां संतत्यै त्रिंशत्वाय
te : FN Correcturen und Conjecturen zu dem ganzen Werk. avittvā : FN Correcturen und Conjecturen zu dem ganzen Werk. teṣāṃ vā ubhayeṣām indraḥ prāvasat te devā etam indrāya bhāgaṃ nyadadhur asmāñ śvo nihitabhāgo vṛṇatā ity ṛṣabham āhvayantīndraṃ vā etaṃ nihvayante ruvatho vaṣaṭkāro 'tho asurāṇāṃ vā etad ṛṣabham atyāhvayanty asmān prajanayād iti savatsā gāvo vasanti sākamedhatvāya stry aśnāti sākamedhatvāya yat strī nāśnīyād asākamedhāḥ syur atha yat stry aśnāti sākamedhatvāya nirṛtir vā etad yajñasya gṛhṇāti yat stry aśnāti nirṛtir hi strī nirṛtigṛhītā vai darvis taptaṃ hy avacaraty eṣa khalu vai striyā hasto yad darvir yad darvyā juhoti nirṛtigṛhītayaiva nirṛtiṃ niravadayate sa vai śvo bhūte vṛtraṃ hantum upaplāyata taṃ marutaḥ parikrīḍanta āsaṃs te 'syāptvā vyanayaṃs te 'bhyadharṣayaṃs tasmāt krīḍayas te vai saṃyattā āsaṃs te devā asurāṇāṃ param antaṃ na parāpaśyaṃs te marutaḥ krīḍīn krīḍato 'pāpaśyaṃs taj jitamanaso vā ima iti tebhyo vā etaṃ bhāgaṃ niravapaṃs tato vā ajayaṃs taj jitvā evaiṣo 'sau vā āditya indro raśmayaḥ krīḍayaḥ sākaṃ raśmibhiḥ pracarati vijityai devā vai vṛtraṃ hataṃ na vyajānaṃs taṃ marutaḥ krīḍayo 'dhyakrīḍaṃs tasmāt krīḍayo 'thaitāni pañca havīṃṣi saṃtatyay athaiṣa aindrāgna indrāgnī evāsmai vajram anvabibhṛtām indrāgnī asmai vajram abhyavahatām athaiṣa aindra uddhāraṃ vā etam indrā udaharat vṛtraṃ hatvā tad uddhāra evāsyaiṣa bhāga eva tasmād rājā saṃgrāmaṃ jitvodājam udajate 'thaiṣa vaiśvakarmaṇo viśvāni me karmāṇi kṛtāny āsann iti viśvakarmā hi so 'bhavad vṛtraṃ hatvāthaiṣa āghāra āhutīnāṃ saṃtatyai triṃśatvāya
Sanskrit only: no published translation is held for this verse.
क्रीडतो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। प्रजाः सृष्ट्वांहो ऽवयज्य वृत्रं हत्वा ते देवा अमृतत्वम् एवाकामयन्त स्वर्गो वै लोको ऽमृतत्वं संवत्सरः स्वर्गो लोको यद् द्वादशाहुतयो ऽमृतत्वम् एव तेन स्पृणोत्य् आपद् वा एतत् संवत्सरम् अति वा एतत् संवत्सरम् अक्रमीद् यद् द्वादशाहुतयः संवत्सरम् एव पुनर् अभिपर्यावर्तत आपद् वा एतत् संवत्सरं सं वा एतत् संवत्सरम् अकृक्षद् यत् षट्षट् संपादयति षड् वा ऋतवस् तान् वा एतत् संपादयति तान् अपिपादयति तान् अपिपद्यमानान् अन्वपिपद्यत आपद् वा एतत् संवत्सरं पितरो वा ऋतवस् तान् वा एतत् प्रजनयति तान् प्रजायमानान् अनु प्रजायते ततः प्रजायत एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य पितरो ऽनभीष्टा यद् एष पितृयज्ञस् तेनैवास्य पितरो ऽभीष्टाः प्रीता भवन्ति दक्षिणतो निरुप्यं दक्षिणा हि पितृणाम् अथो आहुर् उभयत एव निरुप्यम् इत्य् उभये हीज्यन्ते तन् न सूर्क्ष्यं दक्षिणत एव निरुप्यं दक्षिणा हि पितृणां षट्कपालः पुरोडाशो भवति षड् वा ऋतवस् त एवास्यैतेनाभीष्टाः प्रीता भवन्ति न वै धानाभिर् न मन्थेन यज्ञो यद् एष पुरोडाशस् तेन यज्ञो ऽथैता धानाः स्वधा वा एता अमुष्मिंल् लोके ऽथो अपरिमिता वै संवत्सरस्य रात्रयस् ता एवास्यैताभिर् अभीष्टाः प्रीता भवन्ति न वै धानाभिर् न पुरोडाशेन पितृयज्ञो यद् एष मन्थस् तेन पितृयज्ञो ऽभिवान्याया गोर् दुग्धे स्यात् सा हि पितृणां नेदिष्ठं दक्षिणासीना उपमन्थति दक्षिणा हि पितृणाम् एकयोपमन्थत्य् एका हि पितृणाम् इक्षुशलाकयोपमन्थति सा हि पितृणां न प्राच्य् उद्धत्या पितृयज्ञो हि न दक्षिणा यज्ञो ह्य् उभे दिशा अन्तरोद्धन्त्य् उभये हीज्यन्त उपमूलं बर्हिर् दाति तेन पितृणां यद् ऋतेमूलं तेन देवानाम् उभये हीज्यन्ते परिश्रयन्त्य् अन्तर्हिता वा अमुष्माद् आदित्यात् पितरो ऽथो अन्तर्हिता हि देवेभ्यश् च मनुष्येभ्यश् च पितरस् तस्मात् परिश्रयन्ति समन्तं बर्हिः परिस्तृणाति समन्तं हीम ऋतवः परिविष्टा अथो समन्तान् मा पितरो ऽभिसमागछान् इत्य् अमुष्मिन् वै पूर्वस्मिन्न् इतरा देवता इज्यन्ते यत् तत्र जुहुयाद् आहुतीः संसृजेत् समदं कुर्याद् गार्हपत्ये शृतं कुर्वन्ति यज्ञतायय् ओदनपचनाद् अग्निम् आहरन्ति तत् स्विन् नान्यता आहरन्ति
krīḍato : FN Correcturen und Conjecturen zu dem ganzen Werk. prajāḥ sṛṣṭvāṃho 'vayajya vṛtraṃ hatvā te devā amṛtatvam evākāmayanta svargo vai loko 'mṛtatvaṃ saṃvatsaraḥ svargo loko yad dvādaśāhutayo 'mṛtatvam eva tena spṛṇoty āpad vā etat saṃvatsaram ati vā etat saṃvatsaram akramīd yad dvādaśāhutayaḥ saṃvatsaram eva punar abhiparyāvartata āpad vā etat saṃvatsaraṃ saṃ vā etat saṃvatsaram akṛkṣad yat ṣaṭṣaṭ saṃpādayati ṣaḍ vā ṛtavas tān vā etat saṃpādayati tān apipādayati tān apipadyamānān anvapipadyata āpad vā etat saṃvatsaraṃ pitaro vā ṛtavas tān vā etat prajanayati tān prajāyamānān anu prajāyate tataḥ prajāyata etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavo 'tha vā asya pitaro 'nabhīṣṭā yad eṣa pitṛyajñas tenaivāsya pitaro 'bhīṣṭāḥ prītā bhavanti dakṣiṇato nirupyaṃ dakṣiṇā hi pitṛṇām atho āhur ubhayata eva nirupyam ity ubhaye hījyante tan na sūrkṣyaṃ dakṣiṇata eva nirupyaṃ dakṣiṇā hi pitṛṇāṃ ṣaṭkapālaḥ puroḍāśo bhavati ṣaḍ vā ṛtavas ta evāsyaitenābhīṣṭāḥ prītā bhavanti na vai dhānābhir na manthena yajño yad eṣa puroḍāśas tena yajño 'thaitā dhānāḥ svadhā vā etā amuṣmiṃl loke 'tho aparimitā vai saṃvatsarasya rātrayas tā evāsyaitābhir abhīṣṭāḥ prītā bhavanti na vai dhānābhir na puroḍāśena pitṛyajño yad eṣa manthas tena pitṛyajño 'bhivānyāyā gor dugdhe syāt sā hi pitṛṇāṃ nediṣṭhaṃ dakṣiṇāsīnā upamanthati dakṣiṇā hi pitṛṇām ekayopamanthaty ekā hi pitṛṇām ikṣuśalākayopamanthati sā hi pitṛṇāṃ na prācy uddhatyā pitṛyajño hi na dakṣiṇā yajño hy ubhe diśā antaroddhanty ubhaye hījyanta upamūlaṃ barhir dāti tena pitṛṇāṃ yad ṛtemūlaṃ tena devānām ubhaye hījyante pariśrayanty antarhitā vā amuṣmād ādityāt pitaro 'tho antarhitā hi devebhyaś ca manuṣyebhyaś ca pitaras tasmāt pariśrayanti samantaṃ barhiḥ paristṛṇāti samantaṃ hīma ṛtavaḥ pariviṣṭā atho samantān mā pitaro 'bhisamāgachān ity amuṣmin vai pūrvasminn itarā devatā ijyante yat tatra juhuyād āhutīḥ saṃsṛjet samadaṃ kuryād gārhapatye śṛtaṃ kurvanti yajñatāyay odanapacanād agnim āharanti tat svin nānyatā āharanti
Sanskrit only: no published translation is held for this verse.
पितृयज्ञस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। उशन्तस् त्वा हवामह उशन्तः समिधीमहि । उशन्न् उशत आवह पितॄन् हविषे अत्तवे ॥ इत्य् अन्वाहोशन्तो हि पितरो ऽनुष्टुभम् अन्वाहान्तो वा अनुष्टुब् अन्तः पितरस् तस्माद् अनुष्टुभम् अन्वाहैकाम् अन्वाहैकलोका हि पितरस् त्रिर् अन्वाह तृतीये हि लोके पितरो यद् एकाम् अन्वाह तेन पितृणां यत् त्रिस् तेन देवानाम् उभये हीज्यन्ते न होतारं वृणीते नार्षेयं मृत्योर् एवैना उत्सृजत्य् अपबर्हिषः प्रयाजान् यजति प्रजा वै बर्हिः प्रजा एव मृत्योर् उत्सृजति संव्ययते वै मनुष्येभ्यः करिष्यन् दक्षिणतो देवेभ्या उपव्ययते ऽथात्र प्राचीनावीतेन भव्यं व्यावृत्त्यै दक्षिणतो ऽवदायोदङ्ङ् अतिक्रम्य दक्षिणा तिष्ठन् जुहोति दक्षिणा हि प्तृणां सोमम् अग्रे यजति सोमो वै पितृणां देवता पितृदेवत्यः सोमो यत् सोमं पितृमन्तं यजति सोमपांस् तत् पित्πन् यजति यद् बर्हिषदो यज्वनस् तद् यद् अग्निष्वात्तान् गृहमेधिनस् तद् यद् अग्निं कव्यवाहनं द्वे वा अग्नेस् तन्वौ हव्यवाहन्या देवेभ्यो हव्यं वहति कव्यवाहन्या पितृभ्यः समिष्ट्या एव प्रतिष्ठित्यै द्वे वै देवानां याज्यानुवाक्ये प्राण्यया यछति गमयत्य् अन्ययाथात्र तिस्रः कार्याः परे हि देवेभ्यः पितरस् तद् यैषा तृतीयात्य् एवैतया प्रादात् पञ्च कृत्वो ऽवद्यति पाङ्क्तो यज्ञो यावान् एव यज्ञस् तम् आलब्ध ॥ प्राचीनावीतेन : फ़्न् एमेन्देद्। एद्।: प्राचीनाववीतेन स्वधा नमः ॥ इति वषट्करोति स्वधाकारः पितृणां नमस्कारो देवानाम् उभये हीज्यन्ते स्रक्तिषु निदधाति देवान् वै पितॄन् मनुष्या अनुप्रपिबन्ते देवान् एव पितॄन् अयाट् त्रिर् निदधाति त्रीन् हीदं पुरुषान् अभिस्मस् त्रीन् परान् अन्वाचष्टे त्रयो हि परे पिता पुत्रः पौत्रो ऽनुसंतत्यै सर्वासु स्रक्तिषु निदधाति सर्वासु हि दिक्षु पितरः सर्वा एवैनं दिशो गमयति नामुष्यां निदधाति यद् अमुष्यां निदध्यान् मृत्युनैनाः परिवेशयेत् ताम् एवानूद्यन्त्य् अथ यत् तस्यां निमार्ष्टि ताम् एव तेन प्रीणाति
pitṛyajñas : FN Correcturen und Conjecturen zu dem ganzen Werk. uśantas tvā havāmaha uśantaḥ samidhīmahi / uśann uśata āvaha pitṝn haviṣe attave // ity anvāhośanto hi pitaro 'nuṣṭubham anvāhānto vā anuṣṭub antaḥ pitaras tasmād anuṣṭubham anvāhaikām anvāhaikalokā hi pitaras trir anvāha tṛtīye hi loke pitaro yad ekām anvāha tena pitṛṇāṃ yat tris tena devānām ubhaye hījyante na hotāraṃ vṛṇīte nārṣeyaṃ mṛtyor evainā utsṛjaty apabarhiṣaḥ prayājān yajati prajā vai barhiḥ prajā eva mṛtyor utsṛjati saṃvyayate vai manuṣyebhyaḥ kariṣyan dakṣiṇato devebhyā upavyayate 'thātra prācīnāvītena bhavyaṃ vyāvṛttyai dakṣiṇato 'vadāyodaṅṅ atikramya dakṣiṇā tiṣṭhan juhoti dakṣiṇā hi ptṛṇāṃ somam agre yajati somo vai pitṛṇāṃ devatā pitṛdevatyaḥ somo yat somaṃ pitṛmantaṃ yajati somapāṃs tat pitπn yajati yad barhiṣado yajvanas tad yad agniṣvāttān gṛhamedhinas tad yad agniṃ kavyavāhanaṃ dve vā agnes tanvau havyavāhanyā devebhyo havyaṃ vahati kavyavāhanyā pitṛbhyaḥ samiṣṭyā eva pratiṣṭhityai dve vai devānāṃ yājyānuvākye prāṇyayā yachati gamayaty anyayāthātra tisraḥ kāryāḥ pare hi devebhyaḥ pitaras tad yaiṣā tṛtīyāty evaitayā prādāt pañca kṛtvo 'vadyati pāṅkto yajño yāvān eva yajñas tam ālabdha // prācīnāvītena : FN emended. Ed.: prācīnāvavītena svadhā namaḥ // iti vaṣaṭkaroti svadhākāraḥ pitṛṇāṃ namaskāro devānām ubhaye hījyante sraktiṣu nidadhāti devān vai pitṝn manuṣyā anuprapibante devān eva pitṝn ayāṭ trir nidadhāti trīn hīdaṃ puruṣān abhismas trīn parān anvācaṣṭe trayo hi pare pitā putraḥ pautro 'nusaṃtatyai sarvāsu sraktiṣu nidadhāti sarvāsu hi dikṣu pitaraḥ sarvā evainaṃ diśo gamayati nāmuṣyāṃ nidadhāti yad amuṣyāṃ nidadhyān mṛtyunaināḥ pariveśayet tām evānūdyanty atha yat tasyāṃ nimārṣṭi tām eva tena prīṇāti
Sanskrit only: no published translation is held for this verse.
अभिस्मस् : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। अत्र पितरो मादयध्वम् इत्य् उक्त्वा परायन्ति त आहवनीयम् उपतिष्ठन्ते सुसंदृशं त्वा वयम् इत्य् आ तमितोस् तिष्ठन्त्य् अग्निम् एवोपद्रष्टारं कृत्वान्तं प्राणस्य गछन्त्य् अमीमदन्त पितरा इत्य् उक्त्वा प्रपद्यन्ते त ऊर्णां दशां वा न्यस्यन्ति यद् एवात्र निगछन्ति तस्यैषा निरवत्तिः परेतन पितरः सोम्यासा इत्य् आहानुषक्ता वा एतान् पितरः स्युर् व्यावृत्त्यै समन्तम् अपः परिषिञ्चन् पर्येति मार्जनम् एवैषां तद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एते लोकं निगछन्ति ये पितृयज्ञेन चरन्ति प्रजापतिस् त्व् एवैनांस् तता उन्नेतुम् अर्हति यत् प्राजापत्याम् ऋचम् अन्वाह प्रजापतिर् एवैनांस् तता उन्नयत्य् अथ यद् अपरिषिञ्चन् पुनः पर्येत्य् अमुं वा एतं लोकं पुनर् उपावर्तन्ते पितॄन् वा एतद् यज्ञो ऽगन् पाङ्क्तो यज्ञो यत् पङ्क्त्या पुनर् आयन्ति सहैव यज्ञेनायन्ति मनस्वतीभिर् आयन्ति मन एव पुनर् उपह्वयन्ते
abhismas : FN Correcturen und Conjecturen zu dem ganzen Werk. atra pitaro mādayadhvam ity uktvā parāyanti ta āhavanīyam upatiṣṭhante susaṃdṛśaṃ tvā vayam ity ā tamitos tiṣṭhanty agnim evopadraṣṭāraṃ kṛtvāntaṃ prāṇasya gachanty amīmadanta pitarā ity uktvā prapadyante ta ūrṇāṃ daśāṃ vā nyasyanti yad evātra nigachanti tasyaiṣā niravattiḥ paretana pitaraḥ somyāsā ity āhānuṣaktā vā etān pitaraḥ syur vyāvṛttyai samantam apaḥ pariṣiñcan paryeti mārjanam evaiṣāṃ tad apariṣiñcan punaḥ paryety amuṃ vā ete lokaṃ nigachanti ye pitṛyajñena caranti prajāpatis tv evaināṃs tatā unnetum arhati yat prājāpatyām ṛcam anvāha prajāpatir evaināṃs tatā unnayaty atha yad apariṣiñcan punaḥ paryety amuṃ vā etaṃ lokaṃ punar upāvartante pitṝn vā etad yajño 'gan pāṅkto yajño yat paṅktyā punar āyanti sahaiva yajñenāyanti manasvatībhir āyanti mana eva punar upahvayante
Sanskrit only: no published translation is held for this verse.
एतद् वा अस्य संवत्सरो ऽभीष्टो ऽभूद् अभीष्टा ऋतवो ऽथ वा अस्य रुद्रा अनभीष्टा यद् एते त्र्यम्बकास् तेनैवास्य रुद्रा अभीष्टाः प्रीता भवन्त्य् एककपाला भवन्ति न वै पुरुषः कपालैर् आप्य एकधैवैनम् आप्नोत्य् अथो एका वा इयम् अस्याम् एव प्रतितिष्ठत्य् अभिघार्या३ नाभिघार्या३ इति मीमांसन्ते यद् अभिघारयेद् रुद्रायास्य पशून् अपिदध्यात् तन् न सूर्क्ष्यम् अभिघार्या एव न हि हविर् अनभिघृतम् अस्त्य् एकोल्मुकं हरन्त्य् एकोल्मुकं हि रुद्राणां धूपायद् धरन्ति धूपायद् धि रुद्राणाम् एतां दिशं हरन्त्य् एषा हि रुद्राणां दिक् पराचीनं हरन्ति पराञ्चम् एव रुद्रं हरन्त्य् आखुं ते रुद्र पशुं करोमीत्य् आखुकिरा एकम् उपवपति पशुभ्यस् तेन निरवदयते तस्मात् तान् पशुपतिर् घातुकश् चतुष्पथे याजयेच् चतुष्पथे वै रुद्राणां गृहा गृहेष्व् एव रुद्रं निरवदयत एष ते रुद्र भागस् तं जुषस्व सह स्वस्राम्बिकया स्वाहेति शरद् वै रुद्रस्य योनिः स्वसाम्बिकैतां वा एषो ऽन्वभ्यवचरति तस्माञ् शरदि भूयीष्ठं हन्ति तयैवैनं सह निरवदयते मध्यमपर्णेन जुहोति तद् ध्य् अरक्षोहतम् आरण्येन जुहोत्य् अरण्य एव रुद्रं निरवदयते यत् पात्रेण जुहुयाद् रुद्रं प्रजास्व् अन्ववनयेत् तस्माद् आरण्येन जुहोत्य् अवाम्ब रुद्रम् अदिमहीत्य् अनृणा एवाभूवन् भेषजं गवे अश्वाय पुरुषाय भेषजम् इत्य् अनृणा एव भूत्वा भेषजम् अक्रत त्र्यम्बकं यजामहा इति परियन्ति तत्रापि पतिकामा पर्येति पतिवेदनम् एवास्यास् तत् तान् ऊर्ध्वान् उदस्य प्रतिलभन्ते भगम् एव प्रतिलभन्ते तान् यजमानाय समावपन्ति भगम् एवास्मै समावपन्ति या पतिकामा स्यात् तस्यै समावपेयुर् भगम् एवास्यै समावपन्ति तान् मूते कृत्वा वृक्ष आसञ्चति ॥ अरक्षोहतम् : फ़्न् एमेन्देद्। एद्।: अरक्षोहतम् एवाभूवन् : फ़्न् एमेन्देद्। एद्।: एवाभुवन् रुद्रैष ते भागस् तेनावसेन परो मूजवतो ऽतीहि पिनाकहस्तः कृत्तिवासा अवततधन्वा ॥ इति गिरिर् वै रुद्रस्य योनिर् अतो वा एषो ऽन्वभ्यवचारं प्रजाः शमायते स्वेनैवैनं भागधेयेन स्वं योनिं गमयत्य् अनपेक्षमाणा आयन्ति रुद्रस्यानन्ववायाय परोगोष्ठं मार्जयन्ते परोगोष्ठम् एव रुद्रं निरवदयन्ते ऽम्बी वै स्त्री भगनाम्नी तस्मात् त्र्यम्बका यस्य वै हविर् अप्रतिष्ठितम् अप्रतिष्ठितः सो ऽप्रतिष्ठिता अस्य त्र्यम्बका आदित्यं घृते चरुं निर्वपेत् पुनर् एत्य गृहेष्व् इयं वा अदितिर् इयं प्रतिष्ठा यद् आदित्यो ऽस्याम् एव प्रतितिष्ठति
etad vā asya saṃvatsaro 'bhīṣṭo 'bhūd abhīṣṭā ṛtavo 'tha vā asya rudrā anabhīṣṭā yad ete tryambakās tenaivāsya rudrā abhīṣṭāḥ prītā bhavanty ekakapālā bhavanti na vai puruṣaḥ kapālair āpya ekadhaivainam āpnoty atho ekā vā iyam asyām eva pratitiṣṭhaty abhighāryā3 nābhighāryā3 iti mīmāṃsante yad abhighārayed rudrāyāsya paśūn apidadhyāt tan na sūrkṣyam abhighāryā eva na hi havir anabhighṛtam asty ekolmukaṃ haranty ekolmukaṃ hi rudrāṇāṃ dhūpāyad dharanti dhūpāyad dhi rudrāṇām etāṃ diśaṃ haranty eṣā hi rudrāṇāṃ dik parācīnaṃ haranti parāñcam eva rudraṃ haranty ākhuṃ te rudra paśuṃ karomīty ākhukirā ekam upavapati paśubhyas tena niravadayate tasmāt tān paśupatir ghātukaś catuṣpathe yājayec catuṣpathe vai rudrāṇāṃ gṛhā gṛheṣv eva rudraṃ niravadayata eṣa te rudra bhāgas taṃ juṣasva saha svasrāmbikayā svāheti śarad vai rudrasya yoniḥ svasāmbikaitāṃ vā eṣo 'nvabhyavacarati tasmāñ śaradi bhūyīṣṭhaṃ hanti tayaivainaṃ saha niravadayate madhyamaparṇena juhoti tad dhy arakṣohatam āraṇyena juhoty araṇya eva rudraṃ niravadayate yat pātreṇa juhuyād rudraṃ prajāsv anvavanayet tasmād āraṇyena juhoty avāmba rudram adimahīty anṛṇā evābhūvan bheṣajaṃ gave aśvāya puruṣāya bheṣajam ity anṛṇā eva bhūtvā bheṣajam akrata tryambakaṃ yajāmahā iti pariyanti tatrāpi patikāmā paryeti pativedanam evāsyās tat tān ūrdhvān udasya pratilabhante bhagam eva pratilabhante tān yajamānāya samāvapanti bhagam evāsmai samāvapanti yā patikāmā syāt tasyai samāvapeyur bhagam evāsyai samāvapanti tān mūte kṛtvā vṛkṣa āsañcati // arakṣohatam : FN emended. Ed.: arakṣohatam evābhūvan : FN emended. Ed.: evābhuvan rudraiṣa te bhāgas tenāvasena paro mūjavato 'tīhi pinākahastaḥ kṛttivāsā avatatadhanvā // iti girir vai rudrasya yonir ato vā eṣo 'nvabhyavacāraṃ prajāḥ śamāyate svenaivainaṃ bhāgadheyena svaṃ yoniṃ gamayaty anapekṣamāṇā āyanti rudrasyānanvavāyāya parogoṣṭhaṃ mārjayante parogoṣṭham eva rudraṃ niravadayante 'mbī vai strī bhaganāmnī tasmāt tryambakā yasya vai havir apratiṣṭhitam apratiṣṭhitaḥ so 'pratiṣṭhitā asya tryambakā ādityaṃ ghṛte caruṃ nirvapet punar etya gṛheṣv iyaṃ vā aditir iyaṃ pratiṣṭhā yad ādityo 'syām eva pratitiṣṭhati
Sanskrit only: no published translation is held for this verse.
वायुर् वा त्वा मनुर् वा त्वा गन्धर्वाः सप्तविंशतिः । ते अग्रे अश्वम् अयुञ्जंस् ते अस्मिन् जवम् आदधुः ॥ अपां नपाद् आशुहेमन् य ऊर्मिः प्रतूर्तिः ककुभ्वान् वाजसाः । तेन वाजं सेषम् ॥ देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयम् ॥ देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्म
vāyur vā tvā manur vā tvā gandharvāḥ saptaviṃśatiḥ / te agre aśvam ayuñjaṃs te asmin javam ādadhuḥ // apāṃ napād āśuheman ya ūrmiḥ pratūrtiḥ kakubhvān vājasāḥ / tena vājaṃ seṣam // devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam // devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣma
Sanskrit only: no published translation is held for this verse.
एष स्य वाजि क्षिपणिं तुरण्यति ग्रीवायां बद्धो अपिपक्ष आसन् । क्रतुं दधिक्राम् अनु संसनिष्यदत् पथाम् अङ्कांस्य् अन्व् आपनीफणत् ॥ उत स्मास्य द्रवतस् तुरण्यतः पर्णं न वेर् अनु वाति प्रगर्धिनः । श्येनस्येव द्रवतो अङ्कसं परि दधिक्राव्णः सहोर्ज तरित्रतः
eṣa sya vāji kṣipaṇiṃ turaṇyati grīvāyāṃ baddho apipakṣa āsan / kratuṃ dadhikrām anu saṃsaniṣyadat pathām aṅkāṃsy anv āpanīphaṇat // uta smāsya dravatas turaṇyataḥ parṇaṃ na ver anu vāti pragardhinaḥ / śyenasyeva dravato aṅkasaṃ pari dadhikrāvṇaḥ sahorja taritrataḥ
Sanskrit only: no published translation is held for this verse.
आ मा वाजस्य प्रसवो जगम्याद् आ मा द्यावापृथिवि विश्वशंभू । आ मा गन्त पितरो विश्वरूपा आ मा सोमो अमृतत्वेन गम्यात् ॥ इन्द्राय वाचं वदतेन्द्राय वाचं संवदतेन्द्रं वाजं जापयतेन्द्र वाजं जयेयं वः सा सत्या संवाग् अभूद् याम् इन्द्रेण समदद्भ्वम् अजीजपत वनस्पतय इन्द्राय वाचं विमुच्यध्वं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतं वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथां स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावायुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पते चक्षुर् यज्ञेन कल्पते श्रोत्रं यज्ञेन कल्पते मनो यज्ञेन कल्पते वाग् यज्ञेन कल्पते ब्रह्मा यज्ञेन कल्पते पृष्ठं यज्ञेन कल्पते स्वर् यज्ञेन कल्पते यज्ञो यज्ञेन कल्पते वाजाय स्वाहा प्रसवाय स्वाहापिजाय स्वाहा क्रतवे स्वाहाहर्पतये स्वाहा वाक्पतये स्वाहा वसवे स्वाहा स्वर् मूर्धा वैयशनो व्यश्यन्न् आन्त्यो ऽन्त्यो भौवनो भुवनस्य पतये ऽधिपतये स्वाहान्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेषे त्वोर्जे त्वा रय्यै त्वा पोषाय त्वा स्वर् देवा अगामामृता अभूम प्रजापतेः प्रजा अभूम
ā mā vājasya prasavo jagamyād ā mā dyāvāpṛthivi viśvaśaṃbhū / ā mā ganta pitaro viśvarūpā ā mā somo amṛtatvena gamyāt // indrāya vācaṃ vadatendrāya vācaṃ saṃvadatendraṃ vājaṃ jāpayatendra vājaṃ jayeyaṃ vaḥ sā satyā saṃvāg abhūd yām indreṇa samadadbhvam ajījapata vanaspataya indrāya vācaṃ vimucyadhvaṃ vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighrataṃ vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethāṃ svo rohāvehi svo rohāvehi svo rohāvāyur yajñena kalpate prāṇo yajñena kalpate cakṣur yajñena kalpate śrotraṃ yajñena kalpate mano yajñena kalpate vāg yajñena kalpate brahmā yajñena kalpate pṛṣṭhaṃ yajñena kalpate svar yajñena kalpate yajño yajñena kalpate vājāya svāhā prasavāya svāhāpijāya svāhā kratave svāhāharpataye svāhā vākpataye svāhā vasave svāhā svar mūrdhā vaiyaśano vyaśyann āntyo 'ntyo bhauvano bhuvanasya pataye 'dhipataye svāhānnāya tvā vājāya tvā vājajityāyai tveṣe tvorje tvā rayyai tvā poṣāya tvā svar devā agāmāmṛtā abhūma prajāpateḥ prajā abhūma
Sanskrit only: no published translation is held for this verse.
वैयशनो : फ़्न् चोर्रेच्तुरेन् उन्द् चोन्जेच्तुरेन् ज़ु देम् गन्ज़ेन् Wएर्क्। अग्ने अछा वदेह नः प्रत्यङ् नः सुमना भव । प्र नो यछ विशस्पते धनदा असि नस् त्वम् ॥ प्र नो यछत्व् अर्यमा प्र भगः प्र बृहस्पतिः । प्र देवाः प्रोत सूनृता प्र वाग् देवी ददातु नः ॥ अर्यमणं बृहस्पतिम् इन्द्रं दानाय चोदय । वाचं विष्णुं सरस्वतीं सवितारं च वाजिनम् ॥ सोमं राजानं वरुणम् अग्निम् अन्वारभामहे । आदित्यान् विष्णुं सूर्यं ब्रह्माणं च बृहस्पतिम् ॥ इन्द्रवायू सुसंदृशा सुहवेह हवामहे । यथा नः सर्वा इज् जनः संगमे सुमना असत् ॥ वाजस्येमं प्रसवः सुषुवे ऽग्रे सोमं राजानम् ओषधीष्व् अप्सु । स विराजं पर्येतु प्रजानन् प्रजां पुष्टिं वर्धयमानो अस्मे ॥ वाजस्येमां प्रसवः शिश्रिये दिवं स ओषधीः समनक्तु घृतेन । ता अस्मभ्यं मधुमतीर् भवन्तु वयं राष्ट्रे जागृयामा पुरोहिताः वाजस्येदं प्रसव आबभूवेमा च विश्वा भुवनानि सर्वतः । अदित्सन्तं दापयतु प्रजानन् रयिं च नः सर्ववीरं नियछतु ॥ देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्यां पूष्णो हस्ताभ्यां सरस्वत्या वाचा यन्तुर् यन्त्रेण बृहस्पतिं साम्राज्यायाभिषिञ्चामीन्द्रं साम्राज्यायाभिषिञ्चाम्य् उपयामगृहीतो ऽसि द्रुषदं त्वा नृषदम् आयुषदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि पृथिवीषदं त्वान्तरिक्षसदं नाकसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽस्य् अप्सुषदं त्वा घृतसदं भूतसदम् इन्द्राय जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा उपयामगृहीतो ऽसि ग्रह विश्वजनीन नियन्तर् विप्रायाम ते ॥ यास् तिस्रः प्रथमजा दिव्यः कोशः समुक्षितः । तासां विशिश्नानाम् इषम् ऊर्जं समग्रभम् ॥ इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वोपयामगृहीतो ऽसि ॥ अपां रसम् उद्वयसं सूर्याञ् शुक्रं समाभृतम् । अपां रसस्य यो रसस् तं ते गृभ्णाम्य् उत्तमम् ॥ इन्द्राय त्वा जुष्टं गृह्णाम्य् एष ते योनिर् इन्द्राय त्वा ॥ कुविद् अङ्ग यवमन्तो यवं चिद् यथा दान्त्य् अनुपूर्वं वियूय । इहेहैषां कृणुत भोजनानि ये बर्हिषा नमौक्तिं न जग्मुः ॥ उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णाम्य् एष ते योनिः प्रजापतये त्वा ॥ अया विष्ठा प्रजापतये त्वा
vaiyaśano : FN Correcturen und Conjecturen zu dem ganzen Werk. agne achā vadeha naḥ pratyaṅ naḥ sumanā bhava / pra no yacha viśaspate dhanadā asi nas tvam // pra no yachatv aryamā pra bhagaḥ pra bṛhaspatiḥ / pra devāḥ prota sūnṛtā pra vāg devī dadātu naḥ // aryamaṇaṃ bṛhaspatim indraṃ dānāya codaya / vācaṃ viṣṇuṃ sarasvatīṃ savitāraṃ ca vājinam // somaṃ rājānaṃ varuṇam agnim anvārabhāmahe / ādityān viṣṇuṃ sūryaṃ brahmāṇaṃ ca bṛhaspatim // indravāyū susaṃdṛśā suhaveha havāmahe / yathā naḥ sarvā ij janaḥ saṃgame sumanā asat // vājasyemaṃ prasavaḥ suṣuve 'gre somaṃ rājānam oṣadhīṣv apsu / sa virājaṃ paryetu prajānan prajāṃ puṣṭiṃ vardhayamāno asme // vājasyemāṃ prasavaḥ śiśriye divaṃ sa oṣadhīḥ samanaktu ghṛtena / tā asmabhyaṃ madhumatīr bhavantu vayaṃ rāṣṭre jāgṛyāmā purohitāḥ vājasyedaṃ prasava ābabhūvemā ca viśvā bhuvanāni sarvataḥ / aditsantaṃ dāpayatu prajānan rayiṃ ca naḥ sarvavīraṃ niyachatu // devasya tvā savituḥ prasave 'śvinor bāhubhyāṃ pūṣṇo hastābhyāṃ sarasvatyā vācā yantur yantreṇa bṛhaspatiṃ sāmrājyāyābhiṣiñcāmīndraṃ sāmrājyāyābhiṣiñcāmy upayāmagṛhīto 'si druṣadaṃ tvā nṛṣadam āyuṣadam indrāya juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā upayāmagṛhīto 'si pṛthivīṣadaṃ tvāntarikṣasadaṃ nākasadam indrāya juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā upayāmagṛhīto 'sy apsuṣadaṃ tvā ghṛtasadaṃ bhūtasadam indrāya juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā upayāmagṛhīto 'si graha viśvajanīna niyantar viprāyāma te // yās tisraḥ prathamajā divyaḥ kośaḥ samukṣitaḥ / tāsāṃ viśiśnānām iṣam ūrjaṃ samagrabham // indrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvopayāmagṛhīto 'si // apāṃ rasam udvayasaṃ sūryāñ śukraṃ samābhṛtam / apāṃ rasasya yo rasas taṃ te gṛbhṇāmy uttamam // indrāya tvā juṣṭaṃ gṛhṇāmy eṣa te yonir indrāya tvā // kuvid aṅga yavamanto yavaṃ cid yathā dānty anupūrvaṃ viyūya / ihehaiṣāṃ kṛṇuta bhojanāni ye barhiṣā namauktiṃ na jagmuḥ // upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmy eṣa te yoniḥ prajāpataye tvā // ayā viṣṭhā prajāpataye tvā
Sanskrit only: no published translation is held for this verse.
देवा वै नाना यज्ञान् अपश्यन्न् अथ वा एतं सर्वे ऽपश्यंस् तस्मिन् वा अयतन्त तस्मिन्न् आजिम् अयुस् तं बृहस्पतिर् उदजयद् बृहस्पतिर् वै देवानां पुरोहितो यद् वै पुरोहितो ब्राह्मणं शृणोति तद् राज्ञे तेनेन्द्रम् अयाजयत् स स्वाराज्यम् अगच्छत् स एष स्वाराज्यो यज्ञः स्वाराज्यं गछति य एतेन यजते यद् बृहस्पतिर् उदजयत् तस्माद् ब्राह्मणो यजेत यद् इन्द्रम् अयाजयंस् तस्माद् राजन्यो देवा वै नाना यज्ञान् आहरन्न् इमम् अहम् इमं त्वम् इत्य् अथ वा एतं प्रजापतिर् आहरत् तस्मिन् वा अपित्वम् ऐछन्त तेभ्यश् छन्दांस्य् उज्जितीः प्रायछद् अथ वा एतेन प्रजापतिर् अयजत स स्वाराज्यम् अगछत् स एष स्वारज्यो यज्ञः स्वाराज्यम् गछति य एतेन यजते ऽन्नं वै वाजस् तद् य एवं विद्वान् अन्नम् अत्ति वाजयति ह वा एनम् अन्नम् अद्यमानं सोमो वै वाजपेयस् तद् य एवं विद्वान्त् सोमं पिबति वाजं ह गछति यावन्तो हि देवाः सोमम् अपिबंस् ते वाजम् अगछंस् तस्मात् सर्वः सोमं पिपासति वाजं ह गछति वाग् घि वाजस्य प्रसवः सा वै वाक् सृष्टा चतुर्धा व्यभवद् एषु लोकेषु त्रीणि तुरीयाणि पशुषु तुरीयं या पृथिव्यां साग्नौ सा रथन्तरे यान्तरिक्षे सा वाते सा वामदेव्ये या दिवि सा बृहति सा स्तनयित्नव् अथ पशुषु ततो या वाग् अत्यरिच्यत तां ब्राह्मणे न्य् अदधुस् तस्माद् ब्राह्मण उभयीं वाचं वदति यश् च वेद यश् च न या बृहद्रथन्तरयोर् यज्ञाद् एनं तयागछति या पशुषु तय ऋतेयज्ञं तद् य एवं वेदा ह वा एनम् अप्रतिक्शातं गछति यावती वाक् तां हि वेद वाचा हि दीयन्ते वाचा प्रदीयये यो गाथानाराशंसीभ्यां सनोति न तस्य प्रतिगृह्यम् अनृतेन हि स तत् सनोति न मत्तस्य यदा हि तस्य मदो व्येत्य् अथ तं तत् तपति
devā vai nānā yajñān apaśyann atha vā etaṃ sarve 'paśyaṃs tasmin vā ayatanta tasminn ājim ayus taṃ bṛhaspatir udajayad bṛhaspatir vai devānāṃ purohito yad vai purohito brāhmaṇaṃ śṛṇoti tad rājñe tenendram ayājayat sa svārājyam agacchat sa eṣa svārājyo yajñaḥ svārājyaṃ gachati ya etena yajate yad bṛhaspatir udajayat tasmād brāhmaṇo yajeta yad indram ayājayaṃs tasmād rājanyo devā vai nānā yajñān āharann imam aham imaṃ tvam ity atha vā etaṃ prajāpatir āharat tasmin vā apitvam aichanta tebhyaś chandāṃsy ujjitīḥ prāyachad atha vā etena prajāpatir ayajata sa svārājyam agachat sa eṣa svārajyo yajñaḥ svārājyam gachati ya etena yajate 'nnaṃ vai vājas tad ya evaṃ vidvān annam atti vājayati ha vā enam annam adyamānaṃ somo vai vājapeyas tad ya evaṃ vidvānt somaṃ pibati vājaṃ ha gachati yāvanto hi devāḥ somam apibaṃs te vājam agachaṃs tasmāt sarvaḥ somaṃ pipāsati vājaṃ ha gachati vāg ghi vājasya prasavaḥ sā vai vāk sṛṣṭā caturdhā vyabhavad eṣu lokeṣu trīṇi turīyāṇi paśuṣu turīyaṃ yā pṛthivyāṃ sāgnau sā rathantare yāntarikṣe sā vāte sā vāmadevye yā divi sā bṛhati sā stanayitnav atha paśuṣu tato yā vāg atyaricyata tāṃ brāhmaṇe ny adadhus tasmād brāhmaṇa ubhayīṃ vācaṃ vadati yaś ca veda yaś ca na yā bṛhadrathantarayor yajñād enaṃ tayāgachati yā paśuṣu taya ṛteyajñaṃ tad ya evaṃ vedā ha vā enam apratikśātaṃ gachati yāvatī vāk tāṃ hi veda vācā hi dīyante vācā pradīyaye yo gāthānārāśaṃsībhyāṃ sanoti na tasya pratigṛhyam anṛtena hi sa tat sanoti na mattasya yadā hi tasya mado vyety atha taṃ tat tapati
Sanskrit only: no published translation is held for this verse.
सप्तदश वा एते द्वया ग्रहाः प्राजापत्याः सप्तदशः पुरुषाः प्राजापत्यश् चत्वार्य् अङ्गानि शिरोग्रीवम् आत्मा वाक् सप्तमी दश प्राणा अङ्गेऽङ्गे वै पुरुषस्य पाप्मोपश्लिष्टो यद् व्यतिषजन् ग्रहान् गृह्णात्य् अङ्गादङ्गाद् एवैनं पाप्मनो मुञ्चति श्रीर् वै सोमः पाप्मा सुरोपयामा आगते काले प्राञ्चः सोमैर् उत्क्रामन्ति प्रत्यञ्चः सुरोपयामैः पापमनैवैनं विपुनन्ति तस्माद् आहुर् वाजपेययाज्य् एव पूत इति पापमना ह्य् एनं विपुनन्ति देव सवितः प्रसुव यज्ञं प्रसुव यज्ञपतिं भगायेति परुषिपरुषि जुहोत्य् उत्सन्नयज्ञो वा एष को ह तद् वेद यद् एतस्य क्रियते यन् न सर्वत्वायैव प्रसवाय वाजस्य नु प्रसवे मातरं महीम् इति रथम् उपावहरतीयं वा अदितिर् अनयैवैनं प्रसूतं सवित्रा चोपावहरति वाजस्योज्जित्यय् अप्स्व् अन्तर् अमृतम् अप्सु भेषजम् इत्य् अश्वान्त् स्नपयन्त्य् अप्सुजा वा अश्वाः स्वाद् एवैनान् योनेर् जनयन्ति वायुर् वा त्वा मनुर् वा त्वेति युनक्ति न वा एतन् मनुष्या योक्तुम् अर्हन्ति देवताभिर् एवैनान् युनक्त्य् अपां नपाद् आशुहेमन्न् इति रराटानि प्रतिमार्ष्टि पूर्वम् एव यजुर् उदितम् अनु वदति दुन्दुभीन् निह्रादयन्ति वाग् वा एषैकारण्यं प्राविशत् ताम् एवोज्जयत्य् अथो या वनस्पतिषु वाक् ताम् एवावरुन्द्धे सप्तदशः सर्वो भवति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवाप्नोत्य् उत्सन्नयज्ञो वा एष संवत्सराद् वा अध्य् उत्सन्नयज्ञो ऽवरुध्यते संवत्सराद् एवैनम् अध्य् आप्त्वावरुन्द्धे
saptadaśa vā ete dvayā grahāḥ prājāpatyāḥ saptadaśaḥ puruṣāḥ prājāpatyaś catvāry aṅgāni śirogrīvam ātmā vāk saptamī daśa prāṇā aṅge'ṅge vai puruṣasya pāpmopaśliṣṭo yad vyatiṣajan grahān gṛhṇāty aṅgādaṅgād evainaṃ pāpmano muñcati śrīr vai somaḥ pāpmā suropayāmā āgate kāle prāñcaḥ somair utkrāmanti pratyañcaḥ suropayāmaiḥ pāpamanaivainaṃ vipunanti tasmād āhur vājapeyayājy eva pūta iti pāpamanā hy enaṃ vipunanti deva savitaḥ prasuva yajñaṃ prasuva yajñapatiṃ bhagāyeti paruṣiparuṣi juhoty utsannayajño vā eṣa ko ha tad veda yad etasya kriyate yan na sarvatvāyaiva prasavāya vājasya nu prasave mātaraṃ mahīm iti ratham upāvaharatīyaṃ vā aditir anayaivainaṃ prasūtaṃ savitrā copāvaharati vājasyojjityay apsv antar amṛtam apsu bheṣajam ity aśvānt snapayanty apsujā vā aśvāḥ svād evainān yoner janayanti vāyur vā tvā manur vā tveti yunakti na vā etan manuṣyā yoktum arhanti devatābhir evainān yunakty apāṃ napād āśuhemann iti rarāṭāni pratimārṣṭi pūrvam eva yajur uditam anu vadati dundubhīn nihrādayanti vāg vā eṣaikāraṇyaṃ prāviśat tām evojjayaty atho yā vanaspatiṣu vāk tām evāvarunddhe saptadaśaḥ sarvo bhavati prajāpatir vai saptadaśaḥ prajāpatim evāpnoty utsannayajño vā eṣa saṃvatsarād vā adhy utsannayajño 'varudhyate saṃvatsarād evainam adhy āptvāvarunddhe
Sanskrit only: no published translation is held for this verse.
देवस्य सवितुः प्रसवे सत्यसवसो वर्षिष्ठं नाकं रुहेयम् इति ब्रह्मा रथचक्रं सर्पति सवितृप्रसूत एव वज्रं सर्पति वाजस्योज्जित्यय् अथो प्रजापतिर् वै ब्रह्मा यज्ञस्य प्रजापतिर् एवैनं वज्राद् अधि प्रसुवति वाजस्योज्जित्यै साम गायते सत्यं वै साम सत्येनैवोज्जयत्य् उज्जितिर् वाजयत्य् अन्नं वै वाजो ऽन्नाद्यस्योज्जित्यै देवस्य वयं सवितुः प्रसवे सत्यसवनस्य बृहस्पतेर् वाजिनो वाजजितो वाजं जेष्मेति रथम् अभ्यातिष्ठति सवितृप्रसूत एव रथम् अभ्यातिष्ठति वाजस्योज्जित्यै वाजिनाम् ऋचो ऽन्वाह वाजस्योज्जित्यय् आजिं धावन्ति वाजस्योज्जित्यय् अनुदिष्टै रथैर् धावन्ति दक्षिणयैव स्वर्गं लोकम् एति यद् अनुदिष्टै रथैर् धावन्ति दक्षिणया वा एतद् यजमानः सह स्वर्गं लोकम् एत्य् अथैष नैवारः सप्तदशशरावो देवा ओषधीषु पक्वास्व् आजिम् अयुस् ता बृहस्पतिर् उदजयत् स एतान् निवारान् न्यवृणीत तन् निवाराणां निवारत्वं बृहस्पतिर् वै ता उदजयत् तम् एव भागिनं करोत्य् अहिंसायै तम् अधश् चात्वालं हरन्तीह वा असा आदित्य आसीत् तम् इतो ऽध्य् अमुं लोकम् अहरंस् तद् यतो ऽध्य् अमुं लोकम् अहरन् यच् चात्वाले ऽवदधति यजमानम् एव स्वर्गं लोकं हरन्त्य् आ मा वाजस्य प्रसवो जगम्याद् इति रथेषु पुनरासृतेषु जुहोति यम् एव वाजम् उदजैषुस् तम् आत्मन् धत्ते ऽजीजपत वनस्पतया इन्द्राय वाचं विमुच्यध्वम् इति रथविमोचनीयं जुहोति यजुषैव युज्यन्ते यजुषा विमुच्यन्ते वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागम् अवजिघ्रतम् इति भागिना एवैना अकर् वाजिनौ वाजजितौ वाजं जित्वा बृहस्पतेर् भागे निमृज्येथाम् इति सर्वान् एवैनान् प्रीणात्य् अर्धवशां च सुरोपयामांश् च हरन्ति य आजिं धावन्ति तेभ्यो यम् एव वाजम् उदजैषुस् तं परिक्रीणीते मधुष्ठालं ब्रह्मणे ब्रह्मण एव तेन परिक्रीणीते ककुभो राजपुत्रः प्राश्नाति वीर्यं वै ककुब् वीर्यम् एवात्मन् धत्ते
devasya savituḥ prasave satyasavaso varṣiṣṭhaṃ nākaṃ ruheyam iti brahmā rathacakraṃ sarpati savitṛprasūta eva vajraṃ sarpati vājasyojjityay atho prajāpatir vai brahmā yajñasya prajāpatir evainaṃ vajrād adhi prasuvati vājasyojjityai sāma gāyate satyaṃ vai sāma satyenaivojjayaty ujjitir vājayaty annaṃ vai vājo 'nnādyasyojjityai devasya vayaṃ savituḥ prasave satyasavanasya bṛhaspater vājino vājajito vājaṃ jeṣmeti ratham abhyātiṣṭhati savitṛprasūta eva ratham abhyātiṣṭhati vājasyojjityai vājinām ṛco 'nvāha vājasyojjityay ājiṃ dhāvanti vājasyojjityay anudiṣṭai rathair dhāvanti dakṣiṇayaiva svargaṃ lokam eti yad anudiṣṭai rathair dhāvanti dakṣiṇayā vā etad yajamānaḥ saha svargaṃ lokam ety athaiṣa naivāraḥ saptadaśaśarāvo devā oṣadhīṣu pakvāsv ājim ayus tā bṛhaspatir udajayat sa etān nivārān nyavṛṇīta tan nivārāṇāṃ nivāratvaṃ bṛhaspatir vai tā udajayat tam eva bhāginaṃ karoty ahiṃsāyai tam adhaś cātvālaṃ harantīha vā asā āditya āsīt tam ito 'dhy amuṃ lokam aharaṃs tad yato 'dhy amuṃ lokam aharan yac cātvāle 'vadadhati yajamānam eva svargaṃ lokaṃ haranty ā mā vājasya prasavo jagamyād iti ratheṣu punarāsṛteṣu juhoti yam eva vājam udajaiṣus tam ātman dhatte 'jījapata vanaspatayā indrāya vācaṃ vimucyadhvam iti rathavimocanīyaṃ juhoti yajuṣaiva yujyante yajuṣā vimucyante vājinau vājajitau vājaṃ jitvā bṛhaspater bhāgam avajighratam iti bhāginā evainā akar vājinau vājajitau vājaṃ jitvā bṛhaspater bhāge nimṛjyethām iti sarvān evainān prīṇāty ardhavaśāṃ ca suropayāmāṃś ca haranti ya ājiṃ dhāvanti tebhyo yam eva vājam udajaiṣus taṃ parikrīṇīte madhuṣṭhālaṃ brahmaṇe brahmaṇa eva tena parikrīṇīte kakubho rājaputraḥ prāśnāti vīryaṃ vai kakub vīryam evātman dhatte
Sanskrit only: no published translation is held for this verse.
वाजयति : फ़्न् क्स्।१४।७:२०६।१४: उज्जितीर् वाचयति स्वो रोहावेहि स्वो रोहावेहि स्वो रोहावेति स्वर् वा एतद् रोक्ष्यन् पत्न्या संवदते ऽथो अन्वारम्भो वा एष यज्ञस्य पत्न्या सह स्वर्गे लोके भवत आयुर् यज्ञेन कल्पते प्राणो यज्ञेन कल्पता इत्य् एतावान् वै पुरुषो यावान् एव पुरुषस् तम् आप्नोति स सर्वो भूत्वा स्वर्गं लोकम् एति दर्भमयं वासो भवति पवित्रत्वाय गौधूमं चषालं प्राजापत्या वै गोधूमा अर्धं प्रत्य् आसाम् ओषधीनां सहैवान्नाद्येनामुं लोकम् एति वाजाय स्वाहा प्रसवाय स्वाहेति त्रयोदश वा एता आहुतयस् त्रयोदश मासाः संवतसरः संवत्सरं वावास्मा एतद् उपदधाति स्वर्गे लोके तस्मिन्न् एव प्रतितिष्ठत्य् अन्नाय त्वा वाजाय त्वा वाजजित्यायै त्वेत्य् ऊषपुटैर् अर्पयन्ति प्राजापत्या वा ऊषाः श्वःश्वो भूयांसो भवन्त्य् अन्नाद्येनैवैनम् अर्पयन्त्य् एति वा एषो ऽस्माल् लोकाद् यो ऽमुं लोकम् एति यद् ऊषपुटैर् अर्पयन्ति तेनास्माल् लोकान् नैति तेनास्मिंल् लोके धृतो हिरण्यम् अभ्यवरोहति तेजो वै हिरण्यं तेजस्य् एव प्रतितिष्ठति बस्ताजिनम् अभ्यवरोहति पशवो वै बस्ताजिनं पशुष्व् एव प्रतितिष्ठत्य् अन्नस्यान्नस्य जुहोति वाजप्रसव्याभिर् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यय् उभयं ग्राम्यं चारण्यं च जुहोत्य् उभयस्यान्नाद्यस्यावरुद्ध्यय् औदुम्बरेण स्रुवेण जुहोत्य् ऊर्ग् वा उदुम्बर ऊर्जो ऽवरुद्ध्यै सप्तभिर् जुहोति सप्त वै छन्दांसि छन्दोभिर् एवास्मा अन्नाद्यम् अवरुन्द्धे ऽथो वाग् वै छन्दांसि वाचैवास्मा अन्नाद्यं प्रयछति
vājayati : FN KS.14.7:206.14: ujjitīr vācayati svo rohāvehi svo rohāvehi svo rohāveti svar vā etad rokṣyan patnyā saṃvadate 'tho anvārambho vā eṣa yajñasya patnyā saha svarge loke bhavata āyur yajñena kalpate prāṇo yajñena kalpatā ity etāvān vai puruṣo yāvān eva puruṣas tam āpnoti sa sarvo bhūtvā svargaṃ lokam eti darbhamayaṃ vāso bhavati pavitratvāya gaudhūmaṃ caṣālaṃ prājāpatyā vai godhūmā ardhaṃ praty āsām oṣadhīnāṃ sahaivānnādyenāmuṃ lokam eti vājāya svāhā prasavāya svāheti trayodaśa vā etā āhutayas trayodaśa māsāḥ saṃvatasaraḥ saṃvatsaraṃ vāvāsmā etad upadadhāti svarge loke tasminn eva pratitiṣṭhaty annāya tvā vājāya tvā vājajityāyai tvety ūṣapuṭair arpayanti prājāpatyā vā ūṣāḥ śvaḥśvo bhūyāṃso bhavanty annādyenaivainam arpayanty eti vā eṣo 'smāl lokād yo 'muṃ lokam eti yad ūṣapuṭair arpayanti tenāsmāl lokān naiti tenāsmiṃl loke dhṛto hiraṇyam abhyavarohati tejo vai hiraṇyaṃ tejasy eva pratitiṣṭhati bastājinam abhyavarohati paśavo vai bastājinaṃ paśuṣv eva pratitiṣṭhaty annasyānnasya juhoti vājaprasavyābhir annaṃ vai vājo 'nnādyasyāvaruddhyay ubhayaṃ grāmyaṃ cāraṇyaṃ ca juhoty ubhayasyānnādyasyāvaruddhyay audumbareṇa sruveṇa juhoty ūrg vā udumbara ūrjo 'varuddhyai saptabhir juhoti sapta vai chandāṃsi chandobhir evāsmā annādyam avarunddhe 'tho vāg vai chandāṃsi vācaivāsmā annādyaṃ prayachati
Sanskrit only: no published translation is held for this verse.
अथो : फ़्न् एमेन्देद्। एद्।: अथ अथैते ऽतिग्राह्या यद् एवादः परमन्नाद्यम् अनवरुद्धं तस्यैते ऽवरुद्ध्यै गृह्यन्ते ऽथैते पशवा आलभ्यन्ते यज्ञक्रतूनाम् अवरुद्ध्यै यद् आगेयो ऽग्निष्टोमं तेनावरुन्द्धे यद् ऐन्द्राग्न उक्थ्यं तेन यद् ऐन्द्रो वृष्णिः षोडशिनं तेन यत् सारस्वती मेषी यद् एवादः सप्तदशं स्तोत्रम् अनाप्तम् अनवरुद्धं तद् एवैतयाप्नोति तद् अवरुन्द्धे ऽथैषा वशा देवाश् च वा असुराश् चास्पर्धन्त नेमे देवा आसन् नेमे ऽसुरास् ते देवा एतां वशाम् अपश्यंस् तया लोकं द्वितीयम् अवृञ्जतासुरलोकं यस्यावद्यति स देवलोको यस्य नावद्यति सो ऽसुरलोकस् तं लोकम् एवैतया द्वितीयं यजमानो वृङ्क्ते भ्रातृव्यलोकम् एव सारस्वत्य् अन्येषाम् उत्तमा भवति सारस्वत्य् अन्येषां प्रतहमा वाग् वै सरस्वती वाचा यज्ञः संततो वाचैव यज्ञं संतनोति यद् वै यज्ञस्य विद्वान् न करोति यच् चाविद्वान् अन्तरेति तच् छिद्रं तद् वाचैव सरस्वत्या कल्पयत्य् अनिरुक्तः प्रातःसवः प्रजापतिम् एव तेनाप्नोति वियोनिर् वै वाजपेयः प्राजापत्यः सन् निरुक्तसामा यद् अनिरुक्तः प्रातःसवस् तेन सयोनि रथन्तरं साम भवत्य् आशीया उज्जित्यय् अथो इयं वै रथन्तरम् अस्याम् एव सूयते वाजवतीर् माध्यंदिने पवमाने भवन्त्य् अन्नं वै वाजो ऽन्नाद्यस्यावरुद्ध्यै चित्रवतीर् आर्भवे पवमाने भवन्ति स्वर्गस्य लोकस्य समष्ट्यै शिपिविष्टवतीषु स्तुवत एषा वै प्रजापतेः पशुष्ठास् तनूर् यञ् शिपिविष्टं तस्माञ् शिपिविष्टवतीषु स्तुवत आष्टादंष्ट्रम् उत्तमम् उक्थानां भवत्य् उत्तरे एव स्तोत्रे अभिसंतनोति यद् वै यज्ञस्यातिरिच्यते ऽमुं तं लोकम् अभ्यतिरिच्यते बृहत् त्व् एवामुं लोकम् आप्तुम् अर्हतीन्द्रियं वै वीर्यं बृहद् यद् बृहता स्तुवते इन्द्रिये वा एतद् वीर्ये ततो यज्ञस्य यजमानः प्रतितिष्ठति
atho : FN emended. Ed.: atha athaite 'tigrāhyā yad evādaḥ paramannādyam anavaruddhaṃ tasyaite 'varuddhyai gṛhyante 'thaite paśavā ālabhyante yajñakratūnām avaruddhyai yad āgeyo 'gniṣṭomaṃ tenāvarunddhe yad aindrāgna ukthyaṃ tena yad aindro vṛṣṇiḥ ṣoḍaśinaṃ tena yat sārasvatī meṣī yad evādaḥ saptadaśaṃ stotram anāptam anavaruddhaṃ tad evaitayāpnoti tad avarunddhe 'thaiṣā vaśā devāś ca vā asurāś cāspardhanta neme devā āsan neme 'surās te devā etāṃ vaśām apaśyaṃs tayā lokaṃ dvitīyam avṛñjatāsuralokaṃ yasyāvadyati sa devaloko yasya nāvadyati so 'suralokas taṃ lokam evaitayā dvitīyaṃ yajamāno vṛṅkte bhrātṛvyalokam eva sārasvaty anyeṣām uttamā bhavati sārasvaty anyeṣāṃ pratahamā vāg vai sarasvatī vācā yajñaḥ saṃtato vācaiva yajñaṃ saṃtanoti yad vai yajñasya vidvān na karoti yac cāvidvān antareti tac chidraṃ tad vācaiva sarasvatyā kalpayaty aniruktaḥ prātaḥsavaḥ prajāpatim eva tenāpnoti viyonir vai vājapeyaḥ prājāpatyaḥ san niruktasāmā yad aniruktaḥ prātaḥsavas tena sayoni rathantaraṃ sāma bhavaty āśīyā ujjityay atho iyaṃ vai rathantaram asyām eva sūyate vājavatīr mādhyaṃdine pavamāne bhavanty annaṃ vai vājo 'nnādyasyāvaruddhyai citravatīr ārbhave pavamāne bhavanti svargasya lokasya samaṣṭyai śipiviṣṭavatīṣu stuvata eṣā vai prajāpateḥ paśuṣṭhās tanūr yañ śipiviṣṭaṃ tasmāñ śipiviṣṭavatīṣu stuvata āṣṭādaṃṣṭram uttamam ukthānāṃ bhavaty uttare eva stotre abhisaṃtanoti yad vai yajñasyātiricyate 'muṃ taṃ lokam abhyatiricyate bṛhat tv evāmuṃ lokam āptum arhatīndriyaṃ vai vīryaṃ bṛhad yad bṛhatā stuvate indriye vā etad vīrye tato yajñasya yajamānaḥ pratitiṣṭhati
Sanskrit only: no published translation is held for this verse.
सन् : फ़्न् एमेन्देद्। एद्।: स। च्फ़्। क्स्।१४।१०:२०९।१ स्तुवते : फ़्न् सिच् अग्निर् एकाक्षराम् उदजयद् अश्विनौ द्व्यक्षरां विष्णुस् त्र्यक्षरां सोमश् चतुरक्षरां सविता पञ्चाक्षरां पूषा षडक्षरां मरुतः सप्ताक्षरां बृहस्पतिर् अष्टाक्षरां मित्रो नवाक्षरां वरुणो दशाक्षराम् इन्द्रा एकादशाक्षरां विश्वे देवा द्वादशाक्षरां वसवस् त्रयोदशाक्षरां रुद्राश् चतुर्दशाक्षराम् आदित्याः पञ्चदशाक्षराम् अदितिः षोडशाक्षरां प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरया वाचम् उदजयद् अश्विनौ द्व्यक्षरया प्राणापाना उदजयतां विष्णुस् त्र्यक्षरया त्रीण् इमांल् लोकान् उदजयत् सोमश् चतुरक्षरया चतुष्यदः पशून् उदजयत् सविता पञ्चाक्षरया पञ्च दिशा उदजयत् पूषा षडक्षरया षड् ऋतून् उदजयन् मरुतः सप्ताक्षरया सप्तपदां शक्वरीम् उदजयन् बृहस्पतिर् अष्टाक्षरयाष्टौ दिशा उदजयच् चतस्रो दिशस् चतस्रो ऽकुशलीर् मित्रो नवाक्षरया नव प्राणान् उदजयद् वरुणो दशाक्षरया विराजम् उदजयद् इन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयद् विश्वे देवा द्वादशाक्षरया जगतीम् उदजयन् वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्निर् एकाक्षरयोदजयन् माम् इमां पृथिवीम् अश्विनौ द्व्यक्षरया प्रमाम् अन्तरिक्षं विष्णुस् त्र्यक्षरया प्रतिमां स्वर्गं लोकं सोमश् चतुरक्षरयाश्रीवीर् नक्षत्राणि सविता पञ्चाक्षरयाक्षरपङ्क्तिम् उदजयद् या ह्य् अक्षरपङ्क्तिः सा पङ्क्तिश् चतुर्धा ह्य् एतस्याः पञ्च पञ्चाक्षराणि पूषा षडक्षरया गायत्रीम् उदजयच् चतुर्धा ह्य् एतस्याः षट् षडक्षराणि मरुतः सप्ताक्षरयोष्णिहम् उदजयंश् चतुर्धा ह्य् एतस्याः स्प्त सप्ताक्षराणि बृहस्पतिर् अष्टाक्षरयानुष्टुभम् उदजयच् चतुर्धा ह्य् एतस्या अष्टाष्टा अक्षराणि मित्रो नवाक्षरया बृहतीम् उदजयच् चतुर्धा ह्य् एतस्या नव नवाक्षराणि वरुणो दशाक्षरया विराजम् उदजयच् चतुर्धा ह्य् एतस्या दश दशाक्षराणीन्द्रा एकादशाक्षरया त्रिष्टुभम् उदजयच् चतुर्धा ह्य् एतस्य एकादशैकादशाक्षराणि विश्वे देवा द्वादशाक्षरया जगतीम् उदजयंश् चतुर्धा ह्य् एतस्या द्वादश द्वादशाक्षराणि वसवस् त्रयोदशाक्षरया त्रयोदशं मासम् उदजयन् रुद्राश् चतुर्दशाक्षरया चतुर्दशं मासम् उदजयन्न् आदित्याः पञ्चदशाक्षरया पञ्चदशं मासम् उदजयन्न् अदितिः षोडशाक्षरया षोडशं मासम् उदजयत् प्रजापतिः सप्तदशो ऽग्नया एकाक्षरया छन्दसे स्वाहाश्विभ्यां द्व्यक्षराय छन्दसे स्वाहा विष्णवे त्र्यक्षराय छन्दसे स्वाहा सोमाय चतुरक्षराय छन्दसे स्वाहा सवित्रे पञ्चाक्षराय छन्दसे स्वाहा पूष्णे षडक्षराय छन्दसे स्वाहा मरुद्भ्यः सप्ताक्षराय छन्दसे स्वाहा बृहस्पतये ऽष्टाक्षराय छन्दसे स्वाहा मित्राय नवाक्षराय छन्दसे स्वाहा वरुणाय दशाक्षराय छन्दसे स्वाहेन्द्रायैकादशाक्षराय छन्दसे स्वाहा विश्वेभ्यो देवेभ्यो द्वादशाक्षराय छन्दसे स्वाहा वसुभ्यस् त्रयोदशाक्षराय छन्दसे स्वाहा रुद्रेभ्यश् चतुर्दशाक्षराय छन्दसे स्वाहादित्येभ्यः पञ्चदशाक्षराय छन्दसे स्वाहादित्यै षोडशाक्षराय छन्दसे स्वाहा प्रजापतिः सप्तदशः
san : FN emended. Ed.: sa. cf. KS.14.10:209.1 stuvate : FN sic agnir ekākṣarām udajayad aśvinau dvyakṣarāṃ viṣṇus tryakṣarāṃ somaś caturakṣarāṃ savitā pañcākṣarāṃ pūṣā ṣaḍakṣarāṃ marutaḥ saptākṣarāṃ bṛhaspatir aṣṭākṣarāṃ mitro navākṣarāṃ varuṇo daśākṣarām indrā ekādaśākṣarāṃ viśve devā dvādaśākṣarāṃ vasavas trayodaśākṣarāṃ rudrāś caturdaśākṣarām ādityāḥ pañcadaśākṣarām aditiḥ ṣoḍaśākṣarāṃ prajāpatiḥ saptadaśo 'gnir ekākṣarayā vācam udajayad aśvinau dvyakṣarayā prāṇāpānā udajayatāṃ viṣṇus tryakṣarayā trīṇ imāṃl lokān udajayat somaś caturakṣarayā catuṣyadaḥ paśūn udajayat savitā pañcākṣarayā pañca diśā udajayat pūṣā ṣaḍakṣarayā ṣaḍ ṛtūn udajayan marutaḥ saptākṣarayā saptapadāṃ śakvarīm udajayan bṛhaspatir aṣṭākṣarayāṣṭau diśā udajayac catasro diśas catasro 'kuśalīr mitro navākṣarayā nava prāṇān udajayad varuṇo daśākṣarayā virājam udajayad indrā ekādaśākṣarayā triṣṭubham udajayad viśve devā dvādaśākṣarayā jagatīm udajayan vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayann ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayann aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat prajāpatiḥ saptadaśo 'gnir ekākṣarayodajayan mām imāṃ pṛthivīm aśvinau dvyakṣarayā pramām antarikṣaṃ viṣṇus tryakṣarayā pratimāṃ svargaṃ lokaṃ somaś caturakṣarayāśrīvīr nakṣatrāṇi savitā pañcākṣarayākṣarapaṅktim udajayad yā hy akṣarapaṅktiḥ sā paṅktiś caturdhā hy etasyāḥ pañca pañcākṣarāṇi pūṣā ṣaḍakṣarayā gāyatrīm udajayac caturdhā hy etasyāḥ ṣaṭ ṣaḍakṣarāṇi marutaḥ saptākṣarayoṣṇiham udajayaṃś caturdhā hy etasyāḥ spta saptākṣarāṇi bṛhaspatir aṣṭākṣarayānuṣṭubham udajayac caturdhā hy etasyā aṣṭāṣṭā akṣarāṇi mitro navākṣarayā bṛhatīm udajayac caturdhā hy etasyā nava navākṣarāṇi varuṇo daśākṣarayā virājam udajayac caturdhā hy etasyā daśa daśākṣarāṇīndrā ekādaśākṣarayā triṣṭubham udajayac caturdhā hy etasya ekādaśaikādaśākṣarāṇi viśve devā dvādaśākṣarayā jagatīm udajayaṃś caturdhā hy etasyā dvādaśa dvādaśākṣarāṇi vasavas trayodaśākṣarayā trayodaśaṃ māsam udajayan rudrāś caturdaśākṣarayā caturdaśaṃ māsam udajayann ādityāḥ pañcadaśākṣarayā pañcadaśaṃ māsam udajayann aditiḥ ṣoḍaśākṣarayā ṣoḍaśaṃ māsam udajayat prajāpatiḥ saptadaśo 'gnayā ekākṣarayā chandase svāhāśvibhyāṃ dvyakṣarāya chandase svāhā viṣṇave tryakṣarāya chandase svāhā somāya caturakṣarāya chandase svāhā savitre pañcākṣarāya chandase svāhā pūṣṇe ṣaḍakṣarāya chandase svāhā marudbhyaḥ saptākṣarāya chandase svāhā bṛhaspataye 'ṣṭākṣarāya chandase svāhā mitrāya navākṣarāya chandase svāhā varuṇāya daśākṣarāya chandase svāhendrāyaikādaśākṣarāya chandase svāhā viśvebhyo devebhyo dvādaśākṣarāya chandase svāhā vasubhyas trayodaśākṣarāya chandase svāhā rudrebhyaś caturdaśākṣarāya chandase svāhādityebhyaḥ pañcadaśākṣarāya chandase svāhādityai ṣoḍaśākṣarāya chandase svāhā prajāpatiḥ saptadaśaḥ
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.