Library·Sucaritamisra: Mimamsaslokavarttikakasika·1

Sucaritamisra: Mimamsaslokavarttikakasika 1

१,१ वार्त्तिकारम्भे शिष्टाचारम् अनुविदधानो मङ्गलं तावत् करोति -- विशुद्धेति। दृष्टा हि शिष्टानां प्रवृत्तिः सर्वकार्येषु मङ्गलाचरणपूर्विका। मङ्गलं च देवतास्तुतिनमस्कारादि। अस्य च नियोगतः फलवत्कार्यान्तरारम्भसंयोगात् साक्षाद् अफलत्वाच् च फलवत्सन्निधावफलं तदङ्गम् इति न्यायेन कार्यान्तरशेषत्वे ऽवधृते सत्यारम्भस्य समाप्तिपर्यन्तत्वाद् अपेक्षिताविघ्नपरिसमाप्तिः फलम्। अपेक्षितविधेर् अनपेक्षितविधानं दुर्बलम् इति न्यायेन फलान्तरकल्पनाया दुर्बलत्वात्। अतो यथा साम्प्रदायिकम् अध्यायानध्यायादि स्वाध्यायाविघ्नार्थम् एवम् इदम् अपि। तद् अयम् अर्थः -- विशुद्धौ ज्ञानदेहौ यस्य स तथोक्तः। विशुद्धं च भगवतो ज्ञानं रागादिभिर् ज्ञानकारणानाम् अदूषितत्वाद्, देहश् चायोनिजत्वाद् विविधगर्भवेदनाविरहाच् च। त्रिवेदी च तस्य चक्षुर् इति गौणो वादः, असन्दिग्धाविपरीतस्पष्टवेदार्थप्रकाशकत्वात्। दिव्यं चातीन्द्रियार्थगोचरत्वात्। भौतिकं हि चक्षुः प्रत्युत्पन्नार्थविषयम्। इदं त्व् अनागतादिविषयं दिव्यम् इति। श्रेयसश् च हिताहितप्राप्तिपरिहारात्मनो भगवान् निमित्तम्। सोमार्धधारिणे, सोमकलाधारिणे। नम इति। यद्य् अपि विग्रहादिपञ्चकं देवताधिकरणे निराकरिष्यते, तथाप्याज्यादिस्तोत्रवत् प्रधानकर्मण एव देवतास्तुतेर् एवङ्कृतायाः फलम् इत्य् अदोष इति

1,1 vārttikārambhe śiṣṭācāram anuvidadhāno maṅgalaṃ tāvat karoti -- viśuddheti. dṛṣṭā hi śiṣṭānāṃ pravṛttiḥ sarvakāryeṣu maṅgalācaraṇapūrvikā. maṅgalaṃ ca devatāstutinamaskārādi. asya ca niyogataḥ phalavatkāryāntarārambhasaṃyogāt sākṣād aphalatvāc ca phalavatsannidhāvaphalaṃ tadaṅgam iti nyāyena kāryāntaraśeṣatve 'vadhṛte satyārambhasya samāptiparyantatvād apekṣitāvighnaparisamāptiḥ phalam. apekṣitavidher anapekṣitavidhānaṃ durbalam iti nyāyena phalāntarakalpanāyā durbalatvāt. ato yathā sāmpradāyikam adhyāyānadhyāyādi svādhyāyāvighnārtham evam idam api. tad ayam arthaḥ -- viśuddhau jñānadehau yasya sa tathoktaḥ. viśuddhaṃ ca bhagavato jñānaṃ rāgādibhir jñānakāraṇānām adūṣitatvād, dehaś cāyonijatvād vividhagarbhavedanāvirahāc ca. trivedī ca tasya cakṣur iti gauṇo vādaḥ, asandigdhāviparītaspaṣṭavedārthaprakāśakatvāt. divyaṃ cātīndriyārthagocaratvāt. bhautikaṃ hi cakṣuḥ pratyutpannārthaviṣayam. idaṃ tv anāgatādiviṣayaṃ divyam iti. śreyasaś ca hitāhitaprāptiparihārātmano bhagavān nimittam. somārdhadhāriṇe, somakalādhāriṇe. nama iti. yady api vigrahādipañcakaṃ devatādhikaraṇe nirākariṣyate, tathāpyājyādistotravat pradhānakarmaṇa eva devatāstuter evaṅkṛtāyāḥ phalam ity adoṣa iti

Sanskrit only: no published translation is held for this verse.

१,२ विद्यागुरूणाम् इदानीं स्तुतिनमस्कारौ करोति -- अभिवन्द्येति। शिष्यधीपद्मिनीनां रवीन् इव विकासकान् गुरूनादौ वन्दे। ततो वार्त्तिकं करिष्ये। तेषाम् एव प्रसादेन दृष्टेनार्थतत्त्वोपदेशेनादृष्टेन च स्तुतिनमस्कारभुवा। गुर्वनुगमनादयो ऽपि ह्य् आचारप्रमाणका एव। वार्त्तिकग्रहणेन च दुरुक्तभङ्गम् अनुक्तवचनं च समाधत्ते। मीमांसाशब्देन न्यायशास्त्रम् इदम् अतो न्यायानुसारेणाधिकरणभङ्गाद्यदूषणम् इति दर्शयति। श्लोकपदेन च लाघवविकासं क्षिपाम इति दर्शयति। ततश् च सूत्रितप्रायम् इमम् अर्थम् अवहिता जिज्ञासवो भावयिष्यन्तीति तात्पर्यार्थ इति

1,2 vidyāgurūṇām idānīṃ stutinamaskārau karoti -- abhivandyeti. śiṣyadhīpadminīnāṃ ravīn iva vikāsakān gurūnādau vande. tato vārttikaṃ kariṣye. teṣām eva prasādena dṛṣṭenārthatattvopadeśenādṛṣṭena ca stutinamaskārabhuvā. gurvanugamanādayo 'pi hy ācārapramāṇakā eva. vārttikagrahaṇena ca duruktabhaṅgam anuktavacanaṃ ca samādhatte. mīmāṃsāśabdena nyāyaśāstram idam ato nyāyānusāreṇādhikaraṇabhaṅgādyadūṣaṇam iti darśayati. ślokapadena ca lāghavavikāsaṃ kṣipāma iti darśayati. tataś ca sūtritaprāyam imam artham avahitā jijñāsavo bhāvayiṣyantīti tātparyārtha iti

Sanskrit only: no published translation is held for this verse.

सम्प्रति लोकयात्रामाद्रियमाणो ये ऽत्यन्तपरार्थाः स्वोपकारम् अगणयन्तो ऽपि परोपकाराय यतन्ते सन्तस्तान् प्रत्याह -- तद् विद्वांस इति। असूयवो मत्सराः ततो ऽन्ये ऽनसूयव इति

samprati lokayātrāmādriyamāṇo ye 'tyantaparārthāḥ svopakāram agaṇayanto 'pi paropakārāya yatante santastān pratyāha -- tad vidvāṃsa iti. asūyavo matsarāḥ tato 'nye 'nasūyava iti

Sanskrit only: no published translation is held for this verse.

ये तु मध्यस्था गुणदोषनिरूपणेन दोषवन्तम् अपहाय गुणवन्तम् उपाददते, तान् प्रति परीक्षाविशेषार्थम् अर्थयते -- न चात्रेति। (मदीये प्रबन्धे ऽस्मिन् गुणदोष)वति युगपद् गुणदोषौ निरूपयन्तु भवन्तः। अन्यथा गुणानुपेक्ष्य दोषेषु निरूप्यमाणेषु दोषनिर्भावनैकमनसाम् असन्तो दोषाः प्रकाशेरन् इति

ye tu madhyasthā guṇadoṣanirūpaṇena doṣavantam apahāya guṇavantam upādadate, tān prati parīkṣāviśeṣārtham arthayate -- na cātreti. (madīye prabandhe 'smin guṇadoṣa)vati yugapad guṇadoṣau nirūpayantu bhavantaḥ. anyathā guṇānupekṣya doṣeṣu nirūpyamāṇeṣu doṣanirbhāvanaikamanasām asanto doṣāḥ prakāśeran iti

Sanskrit only: no published translation is held for this verse.

इदानीं दुर्जनान् प्रति सदण्डम् आह -- कुतो वेति। ये वयं परस्थान् अपि दोषान् न मृष्यामः, ते कथं स्वग्रन्थेषु दोषानुपाददीमहि। न चास्माभिर् अनुपात्तान् दोषान् सूरयो ग्रहीतुम् अर्हन्तीति

idānīṃ durjanān prati sadaṇḍam āha -- kuto veti. ye vayaṃ parasthān api doṣān na mṛṣyāmaḥ, te kathaṃ svagrantheṣu doṣānupādadīmahi. na cāsmābhir anupāttān doṣān sūrayo grahītum arhantīti

Sanskrit only: no published translation is held for this verse.

१,३ सम्प्रति मत्सरा नूनं दूषयिष्यन्ति मन्निबन्धनम्। अतस् तद्दोषोद्भावनेन शुश्रूषूणाम् उत्साहभङ्गो मा भूद् इत्य् एवम् अर्थम् आह -- निर्दोषत्वेति। प्रसिद्धातिशयाव् अपि मोक्षस्वर्गौ प्रति नास्तिका विवदन्ते। वदन्ति च -- सुखदुःखे लौकिके स्वर्गनरकौ इति। मोक्षे च सद्भावतः प्रभृति विवादः। एके हि नास्ति मोक्ष इति वदन्ति। अन्ये पुनः सकलविषयोपरागरहितं संवेदनप्रवाहम् अपवर्गम् आहुः। अन्ये तदुपरमम्। अपरे सकलवैशेषिकात्मगुणोच्छेदलक्षणं निरतिशयम् अविषयपरिष्वङ्गजम् अनवसानम् आनन्दसन्दोहम्। अपरे च पूर्वे च भ्रान्तिसमुत्थैर् नानाविकल्पैः पारमार्थिकमोक्षस्वरूपम् अपलपन्त्य् एवेति

1,3 samprati matsarā nūnaṃ dūṣayiṣyanti mannibandhanam. atas taddoṣodbhāvanena śuśrūṣūṇām utsāhabhaṅgo mā bhūd ity evam artham āha -- nirdoṣatveti. prasiddhātiśayāv api mokṣasvargau prati nāstikā vivadante. vadanti ca -- sukhaduḥkhe laukike svarganarakau iti. mokṣe ca sadbhāvataḥ prabhṛti vivādaḥ. eke hi nāsti mokṣa iti vadanti. anye punaḥ sakalaviṣayoparāgarahitaṃ saṃvedanapravāham apavargam āhuḥ. anye taduparamam. apare sakalavaiśeṣikātmaguṇocchedalakṣaṇaṃ niratiśayam aviṣayapariṣvaṅgajam anavasānam ānandasandoham. apare ca pūrve ca bhrāntisamutthair nānāvikalpaiḥ pāramārthikamokṣasvarūpam apalapanty eveti

Sanskrit only: no published translation is held for this verse.

अपि च यदि नाम शुश्रूषवो मन्निबन्धने दोषानुपलभन्ते, तथाप्य् अहम् अनपवाद्यः। न ह्य् अहं स्वतन्त्रः किञ्चिदभिदधे। आगमानुसारिणस् तु मे यथागमं वर्तमानस्य स्खलितम् अपि दैवाद् अवर्जनीयतयापन्नम् इत्य् उपेक्षणीयम् एव। न हि किम् अप्य् अभिमतं वस्तु निर्दोषं भवति। दोषांस् तु समाधाय गुणा उपजीवितव्या इत्य् आह -- आगमेति। सतां हि मार्गो ऽयम् आगमानुसारो नाम। तद् इह बहुलं गुणा एव। दोषास् तु कथञ्चित् सन्तो ऽप्य् अल्पत्वाद् असत्कल्पा इत्य् उपेक्षितव्या इति

api ca yadi nāma śuśrūṣavo mannibandhane doṣānupalabhante, tathāpy aham anapavādyaḥ. na hy ahaṃ svatantraḥ kiñcidabhidadhe. āgamānusāriṇas tu me yathāgamaṃ vartamānasya skhalitam api daivād avarjanīyatayāpannam ity upekṣaṇīyam eva. na hi kim apy abhimataṃ vastu nirdoṣaṃ bhavati. doṣāṃs tu samādhāya guṇā upajīvitavyā ity āha -- āgameti. satāṃ hi mārgo 'yam āgamānusāro nāma. tad iha bahulaṃ guṇā eva. doṣās tu kathañcit santo 'py alpatvād asatkalpā ity upekṣitavyā iti

Sanskrit only: no published translation is held for this verse.

किञ्चास्तु तावद् अस्मादृशानां कविप्रवीराणाम् आगमानुसारिण्यो वाचः शोभन्त इति। अन्यस्यापि श्रद्दधानस्य त्रयीमार्गानुसारिणी यथाकथञ्चिदारब्धा क्लिष्टा अल्पसारापि वाग्वृत्तिः शोभते। अस्माकं तु बहुसारा अक्लेशनिर्मिता शोभतेतराम् इत्य् आह -- यथेति

kiñcāstu tāvad asmādṛśānāṃ kavipravīrāṇām āgamānusāriṇyo vācaḥ śobhanta iti. anyasyāpi śraddadhānasya trayīmārgānusāriṇī yathākathañcidārabdhā kliṣṭā alpasārāpi vāgvṛttiḥ śobhate. asmākaṃ tu bahusārā akleśanirmitā śobhatetarām ity āha -- yatheti

Sanskrit only: no published translation is held for this verse.

१,४ ननु किमङ्गभूतायां मीमांसायां वार्त्तिकं प्रणीयते, वेदा एव साक्षाद् व्याख्यायन्ताम् अत आह -- मीमांसेति। वेदा एव संशयपूर्वोत्तरपक्षक्रमेण व्याख्यायमाना मनो हरन्तितरां, न तु मन्त्रब्राह्मणभाष्यप्रस्थानेन। मीमांसयैव तु ते तथाव्याख्यायन्त इति तत्रैव वार्त्तिकं कर्तुं मे तृष्णा वर्धत इति

1,4 nanu kimaṅgabhūtāyāṃ mīmāṃsāyāṃ vārttikaṃ praṇīyate, vedā eva sākṣād vyākhyāyantām ata āha -- mīmāṃseti. vedā eva saṃśayapūrvottarapakṣakrameṇa vyākhyāyamānā mano harantitarāṃ, na tu mantrabrāhmaṇabhāṣyaprasthānena. mīmāṃsayaiva tu te tathāvyākhyāyanta iti tatraiva vārttikaṃ kartuṃ me tṛṣṇā vardhata iti

Sanskrit only: no published translation is held for this verse.

ननु मीमांसायाम् अपि चिरन्तननिबन्धनानि सन्तीति किं मुधा प्रयस्यते। अत आह -- प्रायेणेति। लोकायतं नाम नास्तिकानां तन्त्रम्। तद्भावमापादिता नानापसिद्धान्तसङ्ग्रहेण। तामास्तिकपथे कर्तुम् अयं यत्नः कृत इति। आशंसायां वर्तमाने ऽर्थे वा क्तो वर्णनीय इति

nanu mīmāṃsāyām api cirantananibandhanāni santīti kiṃ mudhā prayasyate. ata āha -- prāyeṇeti. lokāyataṃ nāma nāstikānāṃ tantram. tadbhāvamāpāditā nānāpasiddhāntasaṅgraheṇa. tāmāstikapathe kartum ayaṃ yatnaḥ kṛta iti. āśaṃsāyāṃ vartamāne 'rthe vā kto varṇanīya iti

Sanskrit only: no published translation is held for this verse.

इत्य् उपोद्धातः सूत्रतात्पर्यम् इदाणीं दर्शयति -- अथेति। इदं हि सूत्रं धर्माख्यम् अस्य शास्त्रस्य प्रतिपाद्यतया विषयभूतं प्रयोजनं वक्तुं कृतम्। आद्यम् इति प्रयोजनाभिधानस्थानम् इति दर्शयति। यद्य् अपि धर्मो ऽस्य प्रयोजनम् इति न कण्ठेनोक्तं, तथापि जिज्ञासाकर्मभूतो धर्म इत्य् आचक्षाणेनापुरुषार्थज्ञानस्यानिष्टत्वात् पुरुषार्थीभूतो धर्मः प्रयोजनम् इति सूचितम् इति सूत्रम् इत्य् उक्तम्। कृतपदेन च कृत्रिमम् इदम् अतः प्रमाणान्तरेण गुरुकुलवासावसाननिवृत्तिपरम् अपि व्याख्यायमानं न दोषम् आवहतीति दर्शयति। नित्ये १,५ हि यावद्वचनं वाचनिकम्। पौरुषेयं तु प्रमाणान्तरबलेनान्यार्थम् अपि प्रतिभासमानम् अन्यपरतया प्रतिपाद्यत इति

ity upoddhātaḥ sūtratātparyam idāṇīṃ darśayati -- atheti. idaṃ hi sūtraṃ dharmākhyam asya śāstrasya pratipādyatayā viṣayabhūtaṃ prayojanaṃ vaktuṃ kṛtam. ādyam iti prayojanābhidhānasthānam iti darśayati. yady api dharmo 'sya prayojanam iti na kaṇṭhenoktaṃ, tathāpi jijñāsākarmabhūto dharma ity ācakṣāṇenāpuruṣārthajñānasyāniṣṭatvāt puruṣārthībhūto dharmaḥ prayojanam iti sūcitam iti sūtram ity uktam. kṛtapadena ca kṛtrimam idam ataḥ pramāṇāntareṇa gurukulavāsāvasānanivṛttiparam api vyākhyāyamānaṃ na doṣam āvahatīti darśayati. nitye 1,5 hi yāvadvacanaṃ vācanikam. pauruṣeyaṃ tu pramāṇāntarabalenānyārtham api pratibhāsamānam anyaparatayā pratipādyata iti

Sanskrit only: no published translation is held for this verse.

ननु किं प्रयोजनाभिधानेन। शास्त्रम् एव प्रणीयताम्। प्रयोजनाभिधानं हि शास्त्राद् बहिर्भूतं शास्त्रं प्रणेतुकामस्य न युक्तम्। किञ् चास्य प्रयोजनम्। प्रयोजनविशेषात् शास्त्रेषु शुश्रूषुप्रवृत्तिर् इति चेत्। तन् न। न हि प्रेक्षावतां पुंवचनाद् एवम् अयम् अर्थ इति विश्वासो युक्तः, विशेषतो हेतुदर्शनात्। अन्यार्थम् अपि शास्त्रं धर्मप्रयोजनतया श्रोतॄन् प्रवर्तयितुम् अयम् आहेति शङ्कमाना नाश्वसेयुः। अतो मन्दफलं प्रयोजनवचनम् अत आह -- सर्वस्येति। यद् अन्यदल्पायाससाध्यम् अपि किञ्चित् शास्त्रं लौकिकं वौदनपाकादि कर्म, तद् अप्य् अनुक्तप्रयोजनं नाद्रियन्ते। किं पुनर् मीमांसाम् इति युक्तः शास्त्रारम्भे प्रयोजननिर्देशः। यत् तु पुंवचनाद् अनाश्वास इति, तन् न। आप्तानाप्तविशेषात्। वक्ष्यति हि -- तच् चेत् प्रत्ययितात् इति भाष्यकारः। जैमिनिश् च अपि वा कारणाग्रहणे प्रयुक्तानि प्रतीयेरन् (१।३।७) इति। यत् तु विप्रलिप्समानो ब्रूत इति। तन् न। न ह्य् अस्य महर्षेर् अनृतवचनं सम्भवति। न चास्य विप्रलम्भे प्रयोजनं किञ्चिद् उपलभ्यते। यदि श्रोतारः प्रवर्तन्ताम् इति, किम् अस्य तैर् अफले ऽधर्मफले वा धर्मच्छलेन प्रवर्तितैः। प्रत्युताधर्म एवास्य शिष्यान् भ्रामयतो महान् दोष आपद्येत। न च परमधार्मिको ऽधर्मम् आचरतीत्य् उत्प्रेक्षितुम् अपि शक्यम्। न च तन्त्रकारस् तन्त्रप्रयोजने भ्राम्यतीति सम्भाव्यते। अत एवासम्भवद्भ्रमविप्रलम्भत्वाद् ऋषीणाम् अष्टकादिस्मरणानि श्रुतिमूलानीति स्मृत्यधिकरणे वक्ष्यते। सर्वपुरुषवचनाविश्वासे[१] पुनस् तद् अपि भज्येतेति[२]युक्तं प्रयोजनाभिधानम् इति

nanu kiṃ prayojanābhidhānena. śāstram eva praṇīyatām. prayojanābhidhānaṃ hi śāstrād bahirbhūtaṃ śāstraṃ praṇetukāmasya na yuktam. kiñ cāsya prayojanam. prayojanaviśeṣāt śāstreṣu śuśrūṣupravṛttir iti cet. tan na. na hi prekṣāvatāṃ puṃvacanād evam ayam artha iti viśvāso yuktaḥ, viśeṣato hetudarśanāt. anyārtham api śāstraṃ dharmaprayojanatayā śrotṝn pravartayitum ayam āheti śaṅkamānā nāśvaseyuḥ. ato mandaphalaṃ prayojanavacanam ata āha -- sarvasyeti. yad anyadalpāyāsasādhyam api kiñcit śāstraṃ laukikaṃ vaudanapākādi karma, tad apy anuktaprayojanaṃ nādriyante. kiṃ punar mīmāṃsām iti yuktaḥ śāstrārambhe prayojananirdeśaḥ. yat tu puṃvacanād anāśvāsa iti, tan na. āptānāptaviśeṣāt. vakṣyati hi -- tac cet pratyayitāt iti bhāṣyakāraḥ. jaiminiś ca api vā kāraṇāgrahaṇe prayuktāni pratīyeran (1.3.7) iti. yat tu vipralipsamāno brūta iti. tan na. na hy asya maharṣer anṛtavacanaṃ sambhavati. na cāsya vipralambhe prayojanaṃ kiñcid upalabhyate. yadi śrotāraḥ pravartantām iti, kim asya tair aphale 'dharmaphale vā dharmacchalena pravartitaiḥ. pratyutādharma evāsya śiṣyān bhrāmayato mahān doṣa āpadyeta. na ca paramadhārmiko 'dharmam ācaratīty utprekṣitum api śakyam. na ca tantrakāras tantraprayojane bhrāmyatīti sambhāvyate. ata evāsambhavadbhramavipralambhatvād ṛṣīṇām aṣṭakādismaraṇāni śrutimūlānīti smṛtyadhikaraṇe vakṣyate. sarvapuruṣavacanāviśvāse[1] punas tad api bhajyeteti[2]yuktaṃ prayojanābhidhānam iti

Sanskrit only: no published translation is held for this verse.

सर्वस्यैवेति काक्वा[३]मीमांसायां विशेषो यो ऽन्तर्णीतस्तमभिद्योतयति -- मीमांसाख्येति। शास्त्रान्तराणि हि[४]वाच्यैकविषयनिबन्धनानि १,६ व्याकरणादीनि। मीमांसाख्या त्व् इयं विद्या बहूनि विद्यान्तराणि वेदतदङ्गादीन्य् उपायभूतान्याश्रिता। न ह्य् अस्यास्तैर् यथावदविज्ञातैर् अर्थः[५]शक्यनिर्णयः। तदियम् उपायतः स्वरूपतश् च प्रचिता श्रोतॄणां श्रवणेच्छाम् अपि कारयितुम् अनुक्तप्रयोजना सती न शक्येति युक्तं प्रयोजनाभिधानम् इति

sarvasyaiveti kākvā[3]mīmāṃsāyāṃ viśeṣo yo 'ntarṇītastamabhidyotayati -- mīmāṃsākhyeti. śāstrāntarāṇi hi[4]vācyaikaviṣayanibandhanāni 1,6 vyākaraṇādīni. mīmāṃsākhyā tv iyaṃ vidyā bahūni vidyāntarāṇi vedatadaṅgādīny upāyabhūtānyāśritā. na hy asyāstair yathāvadavijñātair arthaḥ[5]śakyanirṇayaḥ. tadiyam upāyataḥ svarūpataś ca pracitā śrotṝṇāṃ śravaṇecchām api kārayitum anuktaprayojanā satī na śakyeti yuktaṃ prayojanābhidhānam iti

Sanskrit only: no published translation is held for this verse.

अथैतेन प्रयोजनेनास्य शास्त्रस्यायं सम्बन्ध इत्य् अपि सूत्रकारस्य युक्तं वक्तुम्। अज्ञातप्रयोजनम् इवाविदितसम्बन्धम् अपि श्रोतुं नाद्रियन्ते शिष्याः। तस्मात् सह प्रयोजनेन अस्य सम्बन्धो वाच्य इति चोदयति -- सिद्धार्थम् इति

athaitena prayojanenāsya śāstrasyāyaṃ sambandha ity api sūtrakārasya yuktaṃ vaktum. ajñātaprayojanam ivāviditasambandham api śrotuṃ nādriyante śiṣyāḥ. tasmāt saha prayojanena asya sambandho vācya iti codayati -- siddhārtham iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- शास्त्रम् इति। यदैवास्य शास्त्रस्येदं प्रयोजनम् इत्य् उक्तं, तदैव तयोर् उपायोपेयलक्षणः सम्बन्धो ऽर्थाद् उक्त एव। न चैवम् अर्थप्राप्तम् अर्थं सूत्रकारा अक्षरैर् निबध्नन्ति, असूत्रत्वप्रसङ्गाद् इति

pariharati -- śāstram iti. yadaivāsya śāstrasyedaṃ prayojanam ity uktaṃ, tadaiva tayor upāyopeyalakṣaṇaḥ sambandho 'rthād ukta eva. na caivam arthaprāptam arthaṃ sūtrakārā akṣarair nibadhnanti, asūtratvaprasaṅgād iti

Sanskrit only: no published translation is held for this verse.

ननु यदि नाम सूत्रकारेण प्रयोजनाद् भेदेन सम्बन्धो नोपात्तः, व्याख्यातृभिस् तु व्यज्यताम्। कथिते हि व्यक्तं सम्बन्धे श्रोतारः प्रवर्तन्ते। अत एव शास्त्रान्तरेष्व् अपि सम्बन्धः स्फुटम्[१०]उपदर्शितः। तथा हि शिष्यप्रश्नानन्तरं कणभुजा तन्त्रं प्रणीतम् इत्य् अर्थमालायाम् उक्तम् इत्य् आह -- सिद्धिर् इति

nanu yadi nāma sūtrakāreṇa prayojanād bhedena sambandho nopāttaḥ, vyākhyātṛbhis tu vyajyatām. kathite hi vyaktaṃ sambandhe śrotāraḥ pravartante. ata eva śāstrāntareṣv api sambandhaḥ sphuṭam[10]upadarśitaḥ. tathā hi śiṣyapraśnānantaraṃ kaṇabhujā tantraṃ praṇītam ity arthamālāyām uktam ity āha -- siddhir iti

Sanskrit only: no published translation is held for this verse.

१,८ अविस्पष्टीकृते तु सम्बन्धे व्याख्यातृभिर् असम्बद्धप्रलापी सूत्रकार इति शङ्कमानाः श्रोतारो ऽसङ्गतिम् एव शास्त्रप्रयोजनयोर् मन्वीरन्न् इत्य् आह -- यावद् इति

1,8 avispaṣṭīkṛte tu sambandhe vyākhyātṛbhir asambaddhapralāpī sūtrakāra iti śaṅkamānāḥ śrotāro 'saṅgatim eva śāstraprayojanayor manvīrann ity āha -- yāvad iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- इहेति। एवं हि मन्यते -- तत्र नाम वार्त्तिककाराः क्लिश्नन्ति यन् न भाष्यकारेणोक्तम्। इह तु भाष्यकारेणैव धर्मः प्रसिद्धो वा स्याद् अप्रसिद्धो वा इत्य् आक्षिप्य सम्बन्धो वक्ष्यते अथवार्थवत् इत्यादिनेति न पृथक् सम्बन्धो ऽभिधानीयः सम्बन्धभाष्यविवरण[११]एव तु यतितव्यम् इति

pariharati -- iheti. evaṃ hi manyate -- tatra nāma vārttikakārāḥ kliśnanti yan na bhāṣyakāreṇoktam. iha tu bhāṣyakāreṇaiva dharmaḥ prasiddho vā syād aprasiddho vā ity ākṣipya sambandho vakṣyate athavārthavat ityādineti na pṛthak sambandho 'bhidhānīyaḥ sambandhabhāṣyavivaraṇa[11]eva tu yatitavyam iti

Sanskrit only: no published translation is held for this verse.

कश्चित् पुनर् अत्रैवम् आह -- यथार्वाचीना व्याख्यातारो न पृथक् सम्बन्धम् अभिदधति तथा भाष्यकारस्यापि सम्बन्धवचनम् अयुक्तं, सूत्रकारेणैवाथशब्दं प्रयुञ्जानेनाध्ययनक्रियानन्तर्यलक्षणस्य शास्त्रसम्बन्धस्योक्तत्वात्। यथा अथातो धर्मं व्याख्यास्यामः इति शिष्यप्रश्नानन्तरं शास्त्रं प्रणयाम इति काश्यपेनोक्तम् इति। तं प्रत्याह -- न चापीति। अध्ययनज्ञानेच्छाक्रिययोर् ह्य् आनन्तर्यलक्षणं सम्बन्धम् अथशब्दो वदति। ते च क्रिये शास्त्राद्[१२]बर्हिर्भूते। सन्नन्तसामान्यमात्रेण जिज्ञासामीमांसयोर् ऐक्यं मन्वानानाम् अयं भ्रम इति

kaścit punar atraivam āha -- yathārvācīnā vyākhyātāro na pṛthak sambandham abhidadhati tathā bhāṣyakārasyāpi sambandhavacanam ayuktaṃ, sūtrakāreṇaivāthaśabdaṃ prayuñjānenādhyayanakriyānantaryalakṣaṇasya śāstrasambandhasyoktatvāt. yathā athāto dharmaṃ vyākhyāsyāmaḥ iti śiṣyapraśnānantaraṃ śāstraṃ praṇayāma iti kāśyapenoktam iti. taṃ pratyāha -- na cāpīti. adhyayanajñānecchākriyayor hy ānantaryalakṣaṇaṃ sambandham athaśabdo vadati. te ca kriye śāstrād[12]barhirbhūte. sannantasāmānyamātreṇa jijñāsāmīmāṃsayor aikyaṃ manvānānām ayaṃ bhrama iti

Sanskrit only: no published translation is held for this verse.

न परम् अनुपात्तः सम्बन्धः, निष्प्रयोजनश् चेत्य् आह -- यो ऽपीतिद्वयेन। काणादे हि तन्त्रे क्रियानन्तर्यरूपः सम्बन्धो दर्शितः। एवं हि तत्र भाष्यकारेणोक्तं - को धर्म इत्यादिकान् शिष्येणोदीरितान् पञ्च १,९ प्रश्नानपेक्ष्याह -- अथातो धर्मं व्याख्यास्यामः इति। गुरुपर्वक्रमात्मकश् च सम्बन्धो यथेहैव कैश्चिद् उक्तः ब्रह्मा महेश्वरो वा मीमांसां प्रजापतये प्रोवाच, प्रजापतिर् इन्द्राय, इन्द्र आदित्यायेत्येवमादि। पर्वाण्यवच्छेदाः गुरूणां पर्वाणि गुरुपर्वाणि गुरुपर्वणां क्रमो गुरुपर्वक्रम इति विग्रहः। न चात्र द्विविधो ह्य् अयं सम्बन्ध उपयुज्यते। न हि तस्य सम्बन्धस्य तद्रूपसदसद्भावयोः सतोः श्रोतुः शास्त्रे प्रवृत्तिनिवृत्त्योर् विशेष उपलभ्यते शास्त्रविषये वा ज्ञान इति विधिनिषेधयोः कार्ये प्रवृत्तिनिवृत्ती। ताभ्यां ते लक्षयतीति ॥ २३-२४ ॥ यतो ऽयं सम्बन्धो निष्प्रयोजनः, तस्माद् ये सूत्रव्याख्यानाङ्गं सम्बन्धम् अभिधित्सन्ति, तैः सोपपत्तिकः सप्रयोजनश् च सम्बन्धो वाच्यः। यथात्र शाबरे भाष्ये कृतम् इत्य् आह -- तस्माद् इति। शास्त्रम् अवतार्यते ऽनेनेति अकर्तरि च कारके संज्ञायाम् (पा ३।३।१९) इति करणे घञ्। शास्त्रावतारश् चासौ सम्बन्धश् चेति शास्त्रावतारसम्बन्धः। स चोपायोपेयलक्षण इत्य् उक्तम् इति

na param anupāttaḥ sambandhaḥ, niṣprayojanaś cety āha -- yo 'pītidvayena. kāṇāde hi tantre kriyānantaryarūpaḥ sambandho darśitaḥ. evaṃ hi tatra bhāṣyakāreṇoktaṃ - ko dharma ityādikān śiṣyeṇodīritān pañca 1,9 praśnānapekṣyāha -- athāto dharmaṃ vyākhyāsyāmaḥ iti. guruparvakramātmakaś ca sambandho yathehaiva kaiścid uktaḥ brahmā maheśvaro vā mīmāṃsāṃ prajāpataye provāca, prajāpatir indrāya, indra ādityāyetyevamādi. parvāṇyavacchedāḥ gurūṇāṃ parvāṇi guruparvāṇi guruparvaṇāṃ kramo guruparvakrama iti vigrahaḥ. na cātra dvividho hy ayaṃ sambandha upayujyate. na hi tasya sambandhasya tadrūpasadasadbhāvayoḥ satoḥ śrotuḥ śāstre pravṛttinivṛttyor viśeṣa upalabhyate śāstraviṣaye vā jñāna iti vidhiniṣedhayoḥ kārye pravṛttinivṛttī. tābhyāṃ te lakṣayatīti || 23-24 || yato 'yaṃ sambandho niṣprayojanaḥ, tasmād ye sūtravyākhyānāṅgaṃ sambandham abhidhitsanti, taiḥ sopapattikaḥ saprayojanaś ca sambandho vācyaḥ. yathātra śābare bhāṣye kṛtam ity āha -- tasmād iti. śāstram avatāryate 'neneti akartari ca kārake saṃjñāyām (Pā 3.3.19) iti karaṇe ghañ. śāstrāvatāraś cāsau sambandhaś ceti śāstrāvatārasambandhaḥ. sa copāyopeyalakṣaṇa ity uktam iti

Sanskrit only: no published translation is held for this verse.

भाष्यम् इदानीम् अनुसन्धत्ते -- लोक इति। ननु यत्रैव भाष्यं सङ्गच्छते स एवार्थो व्याख्यातुम् उचितः। कथं षडर्थान् सम्प्रचक्षते। अत आह -- भाष्यकारानुसारेणेति। एतद् उक्तं भवति सर्वत्र भाष्यं सङ्गच्छत इति। कथं पुनर् अनेकार्थम् एकं वाक्यम्, अर्थैकत्वेन ह्य् एकवाक्यतां वक्ष्यति अर्थैकत्वाद् एकं वाक्यम् इति। अत आह -- प्रयुक्तस्येति। अयम् अभिप्रायः -- पुरुषप्रयुक्तम् इदं वाक्यम्। पुरुषास् तु प्रमाणान्तरेणार्थं विदित्वा बह्वभिप्रायम् अप्य् एकं वाक्यं प्रयुञ्जाना दृश्यन्ते। यथा श्वेतो धावति अलम्बुसानां यातेति। वैदिके त्व् अयं नियम एकम् एकार्थम् इति। यथाशब्दं हि तत्रार्थे सम्प्रत्ययः, प्रमाणान्तराभावात्। तद् उक्तं - बह्वभिप्रायम् अप्य् एकं पुरुषास् तु प्रयुञ्जते । १,१० इति। ननु च सान्निधानात् प्रथमसूत्रगताथशब्ददूषणम् एवास्य भाष्यस्यार्थो युक्तः कथं सर्वशास्त्रगतसूत्रव्याख्यानाङ्गत्वम् अत आह -- आदित इति। एवं हि मन्यते -- सर्वादौ प्रयुक्तम् इदं वाक्यम्। अतः सूत्रसमुदायस्यैवेदमाद् इमं स्थानम् इति न स्थानतो विशेषलाभः। प्रत्युत सूत्रेष्व् इति बहुवचनसाम्र्थ्यस्वरूपलिङ्गानुरोधेन सर्वसूत्रविषयत्वम् एव स्पष्टं प्रकाशत इति। ननु तत्र लोके ऽयम् अथशब्द इत्यादिभाष्यैकवाक्यतापन्नस्य भाष्यस्याथशब्ददूषणार्थत्वम् एव स्पष्टं[१३]प्रकाशते। न ह्य् अन्यथा तद् एकवाक्यतोपपद्यते। अत आह -- पृथग् इति। यत्नगौरवं प्रसज्येतेत्य् एवम् अन्तस्य तत्रेत्यादिकात् पृथक्कृ[१४]तस्य पञ्च व्याख्याविकल्पा भवन्ति। तदेकवाक्यतापन्नस्याथशब्ददूषणम् एवार्थ इति

bhāṣyam idānīm anusandhatte -- loka iti. nanu yatraiva bhāṣyaṃ saṅgacchate sa evārtho vyākhyātum ucitaḥ. kathaṃ ṣaḍarthān sampracakṣate. ata āha -- bhāṣyakārānusāreṇeti. etad uktaṃ bhavati sarvatra bhāṣyaṃ saṅgacchata iti. kathaṃ punar anekārtham ekaṃ vākyam, arthaikatvena hy ekavākyatāṃ vakṣyati arthaikatvād ekaṃ vākyam iti. ata āha -- prayuktasyeti. ayam abhiprāyaḥ -- puruṣaprayuktam idaṃ vākyam. puruṣās tu pramāṇāntareṇārthaṃ viditvā bahvabhiprāyam apy ekaṃ vākyaṃ prayuñjānā dṛśyante. yathā śveto dhāvati alambusānāṃ yāteti. vaidike tv ayaṃ niyama ekam ekārtham iti. yathāśabdaṃ hi tatrārthe sampratyayaḥ, pramāṇāntarābhāvāt. tad uktaṃ - bahvabhiprāyam apy ekaṃ puruṣās tu prayuñjate | 1,10 iti. nanu ca sānnidhānāt prathamasūtragatāthaśabdadūṣaṇam evāsya bhāṣyasyārtho yuktaḥ kathaṃ sarvaśāstragatasūtravyākhyānāṅgatvam ata āha -- ādita iti. evaṃ hi manyate -- sarvādau prayuktam idaṃ vākyam. ataḥ sūtrasamudāyasyaivedamād imaṃ sthānam iti na sthānato viśeṣalābhaḥ. pratyuta sūtreṣv iti bahuvacanasāmrthyasvarūpaliṅgānurodhena sarvasūtraviṣayatvam eva spaṣṭaṃ prakāśata iti. nanu tatra loke 'yam athaśabda ityādibhāṣyaikavākyatāpannasya bhāṣyasyāthaśabdadūṣaṇārthatvam eva spaṣṭaṃ[13]prakāśate. na hy anyathā tad ekavākyatopapadyate. ata āha -- pṛthag iti. yatnagauravaṃ prasajyetety evam antasya tatretyādikāt pṛthakkṛ[14]tasya pañca vyākhyāvikalpā bhavanti. tadekavākyatāpannasyāthaśabdadūṣaṇam evārtha iti

Sanskrit only: no published translation is held for this verse.

षडर्थान् इदानीं सुखग्रहणार्थम् उद्दिशति -- सर्वव्याख्येति। ते च यथास्वम् अवसरे वक्ष्यन्त इति

ṣaḍarthān idānīṃ sukhagrahaṇārtham uddiśati -- sarvavyākhyeti. te ca yathāsvam avasare vakṣyanta iti

Sanskrit only: no published translation is held for this verse.

सर्वव्याख्यां तावद् विवृणोति -- साधारणीति। भाष्यकारेण हि द्विधा सूत्रव्याख्या कृता। एका सर्वार्था येयं लोक इत्यादिका। प्रतिसूत्रगता[१५]तु विशिष्टा। समासव्यासाभ्यां हि विदुषाम् अर्थाव् अधारणम् इष्टिम् इति

sarvavyākhyāṃ tāvad vivṛṇoti -- sādhāraṇīti. bhāṣyakāreṇa hi dvidhā sūtravyākhyā kṛtā. ekā sarvārthā yeyaṃ loka ityādikā. pratisūtragatā[15]tu viśiṣṭā. samāsavyāsābhyāṃ hi viduṣām arthāv adhāraṇam iṣṭim iti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यकारेण लोके येष्व् अर्थेषु प्रसिद्धानि पदानि तानि सति सम्भवे तदर्थान्य् एव सूत्रेष्व् इत्य् अवगन्तव्यम् इति प्रवृत्तिर् उपदर्शिता। तथा नाध्याहारादिभिर् इत्यादिना निवृत्तिः। तद् इह प्रवृत्तिनिवृत्ती तावत् स्वरूपतो दर्शिते। प्रवृत्तिपुरस्सरी च निवृत्तिः। तथा प्रसिद्धानि पदानीति १,११ पदान्य् अग्रे ऽभिधाय तदर्थान्य् एव सूत्रेष्व् इति पश्चात् सूत्राणि दर्शितानि। तद् इह सर्वत्र वार्त्तिककारः पदविन्यासविशेषेण तात्पर्यम् आह -- प्रवृत्तिर् इति। प्रवृत्तिनिवृत्ती शब्दौ प्रयुञ्जानो द्विधैव प्रवृत्तिनिवृत्तिभ्यां सूत्राणि प्रवर्तन्त इति भाष्यकृतोक्तम् इति दर्शयति। तयोश् च क्रमविशेषेण भाष्यकारस्यापि प्रवृत्तिपूर्विका निवृत्तिर् व्युत्पाद्येति दर्शयति। तथा पदसूत्रयोः पौर्वापर्यविवक्षया भाष्यकारस्यापि पदार्थपूर्वको वाक्यार्थो ऽभिमत इति[१६]सूचयति। तद् अयम् अर्थः -- येयं प्रसिद्धार्थग्रहणं कर्तव्यम् इति प्रवृत्तिः, सा तेषु पदेषु प्रसिद्धार्थो ग्रहीतव्य इति यावत्। या च वाक्यदोषाणाम् अध्याहारादीना निवृत्तिः, सा सूत्रेषु नैषाम् अध्याहारादिभिर् अर्थव[१७]र्णनं कार्यम् इति। अत्र भाष्यं सति सम्भव इति। तस्यार्थम् आह -- वेदवाक्याविरुद्धेष्व् इति। वेदवाक्याविरुद्धेषु पदेषु सूत्रेषु च प्रसिद्धार्थग्रहणप्रवृत्तिर् अध्याहारादिनिवृत्तिश् च, न तु सर्वेषु विरुद्धेष्व् अपि केषुचित् पदेषु सूत्रेषु च। तत्र विपरीते प्रवृत्तिनिवृत्ती। तद् इदं सति सम्भव इत्य् अनेनोक्तम्। एवं[१८]वेदाविरोधसम्भवे कार्यम् इदं नान्यथेति

atra bhāṣyakāreṇa loke yeṣv artheṣu prasiddhāni padāni tāni sati sambhave tadarthāny eva sūtreṣv ity avagantavyam iti pravṛttir upadarśitā. tathā nādhyāhārādibhir ityādinā nivṛttiḥ. tad iha pravṛttinivṛttī tāvat svarūpato darśite. pravṛttipurassarī ca nivṛttiḥ. tathā prasiddhāni padānīti 1,11 padāny agre 'bhidhāya tadarthāny eva sūtreṣv iti paścāt sūtrāṇi darśitāni. tad iha sarvatra vārttikakāraḥ padavinyāsaviśeṣeṇa tātparyam āha -- pravṛttir iti. pravṛttinivṛttī śabdau prayuñjāno dvidhaiva pravṛttinivṛttibhyāṃ sūtrāṇi pravartanta iti bhāṣyakṛtoktam iti darśayati. tayoś ca kramaviśeṣeṇa bhāṣyakārasyāpi pravṛttipūrvikā nivṛttir vyutpādyeti darśayati. tathā padasūtrayoḥ paurvāparyavivakṣayā bhāṣyakārasyāpi padārthapūrvako vākyārtho 'bhimata iti[16]sūcayati. tad ayam arthaḥ -- yeyaṃ prasiddhārthagrahaṇaṃ kartavyam iti pravṛttiḥ, sā teṣu padeṣu prasiddhārtho grahītavya iti yāvat. yā ca vākyadoṣāṇām adhyāhārādīnā nivṛttiḥ, sā sūtreṣu naiṣām adhyāhārādibhir arthava[17]rṇanaṃ kāryam iti. atra bhāṣyaṃ sati sambhava iti. tasyārtham āha -- vedavākyāviruddheṣv iti. vedavākyāviruddheṣu padeṣu sūtreṣu ca prasiddhārthagrahaṇapravṛttir adhyāhārādinivṛttiś ca, na tu sarveṣu viruddheṣv api keṣucit padeṣu sūtreṣu ca. tatra viparīte pravṛttinivṛttī. tad idaṃ sati sambhava ity anenoktam. evaṃ[18]vedāvirodhasambhave kāryam idaṃ nānyatheti

Sanskrit only: no published translation is held for this verse.

ननु युक्तं तावत् पदेषु प्रवृत्तिर् इति। कथं सूत्रसंश्रया निवृत्तिः यावता पदान्य् एव तु प्रधानतया प्रकृतानि एषाम् इति सर्वनाम्ना परामर्शम् अर्हन्ति। प्रधानगोचरतया व्युत्पत्तेः। न ह्य् एष दण्ड इष्टकाकूटे तिष्ठति प्रहरानेनेत्य् उक्ते इष्टकाकूटेनेति गम्यते, अपि तर्हि दण्डेनेति। दण्डविशेषणतयोपात्तत्वादिष्टकाकूटस्य। तद्वद् इहापि पदविशेषानि सूत्राणि न परामर्शार्हाणीति। अत आह -- अध्याहारस्येति। अयम् अर्थः -- यत्राध्याहारादयः प्रसजन्ति तत्रैव निषेधम् अर्हन्ति, प्राप्तिपूर्वकत्वात् प्रति षेधस्य। न चेह तौ पदेषु सम्भवतः। अध्याहारो नाम न्यूनवाक्यपूरणसमर्थाधिकपदाहरणात्मकः। स च न पदेषु सम्भवति, अपभ्रंशत्वेन न्यूनपदप्रयोगासम्भवात्। व्यत्यासो हि व्यवहितकल्पना। सा चान्यत्र स्थितस्यान्यत्र सञ्चारः। न चासौ नियतपौर्वापर्यप्रकृतिप्रत्ययात्मके पदे सम्भवति, पदनाशप्रसङ्गात्। अतः सूत्राण्य् एव सम्भवदध्याहारादिकानि १,१२ एषाम् इति सर्वनाम्ना परामर्शम् अर्हन्ति। ननु विपरिणामगुणकल्पने पदधर्माव् एव। पदे हि प्रकृतिः प्रत्ययो वा विपरिणमति। यथा -- प्रतिगृह्णीयाद् इति प्रतिग्राहयेद् इति भवति। विप्रकर्ष इति च विप्रकर्षाद् इति भवति। गुणकल्पनापि पदगोचरा। सा यथौत्पत्तिकादिपदेषु वक्ष्यते। वाक्येषु तु नानयोः सम्भवः। न हि पदसमुदायो विपरिणमति। न च गौणो भवति। अतो न पदसूत्रयोः कश्चिद् विशेषः। उच्यते -- वाक्यं हि नाम न पदेभ्यो व्यतिरिक्तम् अन्यद् एव किम् अपि तत्त्वम्। अपि तर्हि पदान्य् एवैककार्यपरिष्वङ्गसमासादितसमन्वयानि। तद् इह युक्तं यत् पदधर्मो ऽप्य् अन्वेतीति। अतः प्रसजतः पदद्वारेण वाक्येषु विपरिणामगुणकल्पने इति प्रतिषेधाधारत्वोपपत्तिः। वाक्यधर्मयोस् तु पदमात्रे न कथञ्चित् प्रसक्तिर् इति न तन्निषेधो युक्तः। तस्माद् युक्तम् अध्याहारादिनिषेधार्थम् एषाम् इति सर्वनाम्ना सूत्राणाम् अभिधानम् इति

nanu yuktaṃ tāvat padeṣu pravṛttir iti. kathaṃ sūtrasaṃśrayā nivṛttiḥ yāvatā padāny eva tu pradhānatayā prakṛtāni eṣām iti sarvanāmnā parāmarśam arhanti. pradhānagocaratayā vyutpatteḥ. na hy eṣa daṇḍa iṣṭakākūṭe tiṣṭhati praharānenety ukte iṣṭakākūṭeneti gamyate, api tarhi daṇḍeneti. daṇḍaviśeṣaṇatayopāttatvādiṣṭakākūṭasya. tadvad ihāpi padaviśeṣāni sūtrāṇi na parāmarśārhāṇīti. ata āha -- adhyāhārasyeti. ayam arthaḥ -- yatrādhyāhārādayaḥ prasajanti tatraiva niṣedham arhanti, prāptipūrvakatvāt prati ṣedhasya. na ceha tau padeṣu sambhavataḥ. adhyāhāro nāma nyūnavākyapūraṇasamarthādhikapadāharaṇātmakaḥ. sa ca na padeṣu sambhavati, apabhraṃśatvena nyūnapadaprayogāsambhavāt. vyatyāso hi vyavahitakalpanā. sā cānyatra sthitasyānyatra sañcāraḥ. na cāsau niyatapaurvāparyaprakṛtipratyayātmake pade sambhavati, padanāśaprasaṅgāt. ataḥ sūtrāṇy eva sambhavadadhyāhārādikāni 1,12 eṣām iti sarvanāmnā parāmarśam arhanti. nanu vipariṇāmaguṇakalpane padadharmāv eva. pade hi prakṛtiḥ pratyayo vā vipariṇamati. yathā -- pratigṛhṇīyād iti pratigrāhayed iti bhavati. viprakarṣa iti ca viprakarṣād iti bhavati. guṇakalpanāpi padagocarā. sā yathautpattikādipadeṣu vakṣyate. vākyeṣu tu nānayoḥ sambhavaḥ. na hi padasamudāyo vipariṇamati. na ca gauṇo bhavati. ato na padasūtrayoḥ kaścid viśeṣaḥ. ucyate -- vākyaṃ hi nāma na padebhyo vyatiriktam anyad eva kim api tattvam. api tarhi padāny evaikakāryapariṣvaṅgasamāsāditasamanvayāni. tad iha yuktaṃ yat padadharmo 'py anvetīti. ataḥ prasajataḥ padadvāreṇa vākyeṣu vipariṇāmaguṇakalpane iti pratiṣedhādhāratvopapattiḥ. vākyadharmayos tu padamātre na kathañcit prasaktir iti na tanniṣedho yuktaḥ. tasmād yuktam adhyāhārādiniṣedhārtham eṣām iti sarvanāmnā sūtrāṇām abhidhānam iti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यकारेण सर्वव्याख्याप्रयोजनम् अभिदधतोक्तम् एवं वेदवाक्यान्येवैभिर् विचार्यन्ते इति। तस्यार्थः -- साधारणव्याख्ययैव सूत्राणां व्याख्यातत्वान् न पुनस् तानि व्याख्येयानि। वेदवाक्यान्य् एव तैः परिज्ञातार्थैर् व्याखातव्यानीति। तद् अयुक्तम्। उक्तं हि -- साधारणी विशिष्टा च सूत्रव्याख्या द्विधा कृता । इति। अतो विशिष्टव्याख्ययापि सूत्राणां स्पृश्यमानत्वात् कथं वेदवाक्यान्य् एवेत्यवधारणोपपत्तिर् इत्य् अत आह -- एवशब्द इति। यत्नगौरवपरिहारार्थो हि विशेषव्याख्याप्रत्यादेशः। गौरवं च पदच्छेदादिप्रपञ्चेन तार्किकवत् क्रियमाणायां व्याख्यायाम् आपद्यते। न चेह तथा करिष्यते। अतो ऽल्पस्य विशेषस्य सूत्रगतस्य वाच्यत्वाद् अवधारणं कृतम् इत्य् अदोष इति। अपरम् अपि इतरथा यत्नगौरवं प्रसज्येतेति भाष्यम्। तस्यायम् अर्थः -- वेदवाक्यान्य् एव तावद् व्याख्येयानि। यदि त्व् इदं व्याख्यानं वेदसूत्रोभयगोचरतया वर्ण्यते, ततो यत्नगौरवम् आपद्यत इति। तदाह -- अस्येति। भाष्यं व्याचक्षाणो व्याख्येया इत्य् अतः प्रकृतं व्याख्यानम् अस्येति १,१३ परामृशति। यदीह वेदाश् च सूत्राणि च व्याख्यायन्ते, ततो व्याख्यानावृत्तौ यत्नगौरवं प्रसज्येत। द्रव्यभेदे ऽपि हि क्रियावृत्तिर् दृष्टा यथाष्टकृत्वो ब्राह्मणा भुक्तवन्त इति। अत्र चोदयति -- प्रसिद्धेति।[१९]स्वतःसिद्धम् एव ह्य् अविरोधे प्रसिद्धार्थग्रहणम् अध्याहारादिवर्जनं च किम् अनेनोक्तेनेति। परिहरति -- न दोष इति। न हि वेदवदप्राप्त[२०]विषयं भाष्यम् इति

atra bhāṣyakāreṇa sarvavyākhyāprayojanam abhidadhatoktam evaṃ vedavākyānyevaibhir vicāryante iti. tasyārthaḥ -- sādhāraṇavyākhyayaiva sūtrāṇāṃ vyākhyātatvān na punas tāni vyākhyeyāni. vedavākyāny eva taiḥ parijñātārthair vyākhātavyānīti. tad ayuktam. uktaṃ hi -- sādhāraṇī viśiṣṭā ca sūtravyākhyā dvidhā kṛtā | iti. ato viśiṣṭavyākhyayāpi sūtrāṇāṃ spṛśyamānatvāt kathaṃ vedavākyāny evetyavadhāraṇopapattir ity ata āha -- evaśabda iti. yatnagauravaparihārārtho hi viśeṣavyākhyāpratyādeśaḥ. gauravaṃ ca padacchedādiprapañcena tārkikavat kriyamāṇāyāṃ vyākhyāyām āpadyate. na ceha tathā kariṣyate. ato 'lpasya viśeṣasya sūtragatasya vācyatvād avadhāraṇaṃ kṛtam ity adoṣa iti. aparam api itarathā yatnagauravaṃ prasajyeteti bhāṣyam. tasyāyam arthaḥ -- vedavākyāny eva tāvad vyākhyeyāni. yadi tv idaṃ vyākhyānaṃ vedasūtrobhayagocaratayā varṇyate, tato yatnagauravam āpadyata iti. tadāha -- asyeti. bhāṣyaṃ vyācakṣāṇo vyākhyeyā ity ataḥ prakṛtaṃ vyākhyānam asyeti 1,13 parāmṛśati. yadīha vedāś ca sūtrāṇi ca vyākhyāyante, tato vyākhyānāvṛttau yatnagauravaṃ prasajyeta. dravyabhede 'pi hi kriyāvṛttir dṛṣṭā yathāṣṭakṛtvo brāhmaṇā bhuktavanta iti. atra codayati -- prasiddheti.[19]svataḥsiddham eva hy avirodhe prasiddhārthagrahaṇam adhyāhārādivarjanaṃ ca kim anenokteneti. pariharati -- na doṣa iti. na hi vedavadaprāpta[20]viṣayaṃ bhāṣyam iti

Sanskrit only: no published translation is held for this verse.

तथाप्य् अनुक्तसुज्ञानस्यार्थस्य पुनर्वचनं प्रयोजनापेक्षम् इव दृश्यत इति मन्वानं[२१]प्रति प्रयोजनम् आह -- व्याख्याङ्गत्वेति। यो नाम तन्त्रान्तरे ऽध्याहारादि स्वपरिभाषा वा गुणवृद्ध्यादिका दृष्टेत्य् अत्रापि[२२]तत् प्रयोजयति तस्य कृते शास्त्रस्वरूपम् अनेन निरूप्यते, अध्याहारादिवर्जितम् एव व्याख्यानं मीमांसायाम् उपपन्नम् इति

tathāpy anuktasujñānasyārthasya punarvacanaṃ prayojanāpekṣam iva dṛśyata iti manvānaṃ[21]prati prayojanam āha -- vyākhyāṅgatveti. yo nāma tantrāntare 'dhyāhārādi svaparibhāṣā vā guṇavṛddhyādikā dṛṣṭety atrāpi[22]tat prayojayati tasya kṛte śāstrasvarūpam anena nirūpyate, adhyāhārādivarjitam eva vyākhyānaṃ mīmāṃsāyām upapannam iti

Sanskrit only: no published translation is held for this verse.

यस्य तु मन्दफलत्वाद् एवम् अप्य् अपरितोषः, तं प्रत्यन्यथा वर्णयति -- वृत्त्यन्तरेष्व् इति। केषाञ्चिद् धि भवदासादीनां वृत्त्यन्तरेषु शब्दानाम् अलौकिको ऽर्थ उपवर्णितः। ते ऽनेन भाष्येणोपालभ्यन्ते। यावद् धि पूर्वग्रन्थदोषोद्भावनेन स्वग्रन्थगुणवत्ताख्यापनेन वा विशेषो न प्रदर्श्यते,[२३]तावन् न श्रोतारः श्रोतुम् आद्रियेरन्। अत्युत पूर्वग्रन्थान् एवायम् अल्पान्तरं चोरयतीति वदद्भिर् असूयकैः शुश्रूषूणाम् उत्साहभङ्गो युज्येत। अतः प्रयोजनवान् एव परोपालम्भ इति

yasya tu mandaphalatvād evam apy aparitoṣaḥ, taṃ pratyanyathā varṇayati -- vṛttyantareṣv iti. keṣāñcid dhi bhavadāsādīnāṃ vṛttyantareṣu śabdānām alaukiko 'rtha upavarṇitaḥ. te 'nena bhāṣyeṇopālabhyante. yāvad dhi pūrvagranthadoṣodbhāvanena svagranthaguṇavattākhyāpanena vā viśeṣo na pradarśyate,[23]tāvan na śrotāraḥ śrotum ādriyeran. atyuta pūrvagranthān evāyam alpāntaraṃ corayatīti vadadbhir asūyakaiḥ śuśrūṣūṇām utsāhabhaṅgo yujyeta. ataḥ prayojanavān eva paropālambha iti

Sanskrit only: no published translation is held for this verse.

इति। तेनास्य पदसमुदायस्य तादर्थ्यं नर्ते परिभाषादिभिः[२६]सिध्यतीति। आदिशब्देन परैः सङ्गानं लक्षणां चाहेति

iti. tenāsya padasamudāyasya tādarthyaṃ narte paribhāṣādibhiḥ[26]sidhyatīti. ādiśabdena paraiḥ saṅgānaṃ lakṣaṇāṃ cāheti

Sanskrit only: no published translation is held for this verse.

अत्रेदानीं भाष्यं योजयति -- प्रसिद्धेति। भवदासेन ह्य् अतश् शब्दस्य हेत्वर्थत्वं प्रसिद्धम् अपलपितम्। अप्रसिद्धानन्तर्यगोचरत्वं च कल्पितम्। इदं च सति[२७]प्रसिद्धार्थसम्भवे न वृत्तिकारेण कार्यम् इति लोक इत्यादिग्रन्थेनोक्तम्। सम्भवति चात्र प्रसिद्धार्थग्रहणम्। न ह्य् अत्र पाणिनिनेव जैमिनिना वृद्धिरादैच् (पा १।१।१) इतिवत् स्वसंज्ञा प्रणीता। तद् इदं सति सम्भव इत्य् अनेनोक्तम् इति वेदितव्यम्। किं हि प्रसिद्धेनापराद्धं यत्[२८] स्वरससिद्धमुल्लङ्घ्याप्रसिद्धो ऽर्थः कल्प्यत इति

atredānīṃ bhāṣyaṃ yojayati -- prasiddheti. bhavadāsena hy ataś śabdasya hetvarthatvaṃ prasiddham apalapitam. aprasiddhānantaryagocaratvaṃ ca kalpitam. idaṃ ca sati[27]prasiddhārthasambhave na vṛttikāreṇa kāryam iti loka ityādigranthenoktam. sambhavati cātra prasiddhārthagrahaṇam. na hy atra pāṇinineva jaimininā vṛddhirādaic (Pā 1.1.1) itivat svasaṃjñā praṇītā. tad idaṃ sati sambhava ity anenoktam iti veditavyam. kiṃ hi prasiddhenāparāddhaṃ yat[28] svarasasiddhamullaṅghyāprasiddho 'rthaḥ kalpyata iti

Sanskrit only: no published translation is held for this verse.

अपि चैवं सत्यप्रसिद्धकल्पितेषु सूत्रपदार्थेषु व्याख्यायमानेषु पुनश् च वेदवाक्येषु यत्नगौरवं प्रसज्यत इति इतरथेत्यादिकेनोक्तम् इत्य् आह -- सूत्रार्थे क्लिश्यत इति। स्वमनीषाकल्पितेषु सूत्रपदार्थेषु व्याख्यायमानेषु पुनश् च वेदवाक्येषु वक्तुर् ग्रन्थकारस्य ग्रन्थसन्दर्भप्रणयनेन व्याख्यातुश् च तद्व्याख्यानेन श्रोतुश् च महतो ग्रन्थस्य श्रवणधारणाभ्यां महान् यत्न आपद्यत इति

api caivaṃ satyaprasiddhakalpiteṣu sūtrapadārtheṣu vyākhyāyamāneṣu punaś ca vedavākyeṣu yatnagauravaṃ prasajyata iti itarathetyādikenoktam ity āha -- sūtrārthe kliśyata iti. svamanīṣākalpiteṣu sūtrapadārtheṣu vyākhyāyamāneṣu punaś ca vedavākyeṣu vaktur granthakārasya granthasandarbhapraṇayanena vyākhyātuś ca tadvyākhyānena śrotuś ca mahato granthasya śravaṇadhāraṇābhyāṃ mahān yatna āpadyata iti

Sanskrit only: no published translation is held for this verse.

यस् तु मन्यते -- गुणवत्तरग्रन्थनिर्माणे श्रवणाद् एव श्रोतारः[२९]श्रोतुम् १,१५ आद्रियन्ते किं गुणगणहारिणा दौर्जन्येनेति, तं प्रत्यर्थान्तरम् अवतारयति -- न व्याख्यास्यतीति। एष हि भाष्यकारः सूत्रोच्चारणानन्तरं वेदवाक्यान्य् उदाहृत्य संशयपूर्वोत्तरपक्षविभागेनार्थनिर्णये यत्नं करिष्यति, न सूत्रावयवविवरणादरम्। तत्र श्रोतॄणाम् आशङ्का जायेत किं स्विद् अयम् अज्ञतया सूत्राण्य् उपेक्षितवान्, आहोस्विद् अनर्थकत्वाद्, उत प्रसिद्धत्वाद् इति। तद् अयम् अकुशलो भाष्यकारः यत् सूत्रेषु भाष्यं कर्तुम् अभिप्रवृत्तस् तान्य् उपेक्षितवान् इति। इमं दोषं व्याख्याप्रत्याख्यानेन परिहरति। न वयम् अनभिज्ञाः, न चैतानि सूत्राण्य् अनर्थकानि, चोदनार्थपरतन्त्रत्वान् न व्याख्येयानीत्य् उपेक्षितानीति

yas tu manyate -- guṇavattaragranthanirmāṇe śravaṇād eva śrotāraḥ[29]śrotum 1,15 ādriyante kiṃ guṇagaṇahāriṇā daurjanyeneti, taṃ pratyarthāntaram avatārayati -- na vyākhyāsyatīti. eṣa hi bhāṣyakāraḥ sūtroccāraṇānantaraṃ vedavākyāny udāhṛtya saṃśayapūrvottarapakṣavibhāgenārthanirṇaye yatnaṃ kariṣyati, na sūtrāvayavavivaraṇādaram. tatra śrotṝṇām āśaṅkā jāyeta kiṃ svid ayam ajñatayā sūtrāṇy upekṣitavān, āhosvid anarthakatvād, uta prasiddhatvād iti. tad ayam akuśalo bhāṣyakāraḥ yat sūtreṣu bhāṣyaṃ kartum abhipravṛttas tāny upekṣitavān iti. imaṃ doṣaṃ vyākhyāpratyākhyānena pariharati. na vayam anabhijñāḥ, na caitāni sūtrāṇy anarthakāni, codanārthaparatantratvān na vyākhyeyānīty upekṣitānīti

Sanskrit only: no published translation is held for this verse.

सत्यम् उपायानभिज्ञस्योपेयावधारणा नास्ति। उपायान्तराद् एव तु विदितवेदार्थस्य किं सूत्रव्याख्यया। अत आह -- नान्यत इति। ये ह्य् अन्यत एव विदितवेदार्थास् तेषाम् अर्थे नैतानि सूत्राणि जैमिनिना प्रणीतानि, भाष्यकारेण च व्याख्यातानि। अन्यतो ऽनभिज्ञांस् तु प्रति सूत्राणि प्रणीतानि भाष्यकारेण च व्याख्यातानि। न च ते ऽव्याख्यातम् एव सूत्रार्थम् उन्नयन्ति। न चानिर्णीतसूत्रार्था वेदार्थम् अवधारयन्तीति युक्तस् तदर्थो व्याख्याप्रयास इति ॥ ४२च्द् ॥ यद् उक्तं[४२]पदार्थानां प्रसिद्धत्वात् इति, तन्निराचष्टे -- प्रत्याख्यानस्येति। प्रसिद्धपदार्थकत्वं हि वेदवाक्यानाम् अप्य् अव्याख्येयत्वम् आपादयति। १,१९ तेष्व् अपि हि लोकप्रसिद्धान्य् एव पदानि पदार्थाश् च। वक्ष्यति हि य एव लौकिकाः शब्दास् त एव वैकिकास् त एव तेषाम् अर्थः इति। तद् इदम् उक्तं तुल्यार्थत्वाद् इति। तुल्या हि लोकवेदसूत्रेष्व् अपि पदार्था इति

satyam upāyānabhijñasyopeyāvadhāraṇā nāsti. upāyāntarād eva tu viditavedārthasya kiṃ sūtravyākhyayā. ata āha -- nānyata iti. ye hy anyata eva viditavedārthās teṣām arthe naitāni sūtrāṇi jaimininā praṇītāni, bhāṣyakāreṇa ca vyākhyātāni. anyato 'nabhijñāṃs tu prati sūtrāṇi praṇītāni bhāṣyakāreṇa ca vyākhyātāni. na ca te 'vyākhyātam eva sūtrārtham unnayanti. na cānirṇītasūtrārthā vedārtham avadhārayantīti yuktas tadartho vyākhyāprayāsa iti || 42cd || yad uktaṃ[42]padārthānāṃ prasiddhatvāt iti, tannirācaṣṭe -- pratyākhyānasyeti. prasiddhapadārthakatvaṃ hi vedavākyānām apy avyākhyeyatvam āpādayati. 1,19 teṣv api hi lokaprasiddhāny eva padāni padārthāś ca. vakṣyati hi ya eva laukikāḥ śabdās ta eva vaikikās ta eva teṣām arthaḥ iti. tad idam uktaṃ tulyārthatvād iti. tulyā hi lokavedasūtreṣv api padārthā iti

Sanskrit only: no published translation is held for this verse.

अथैवम् उच्यते -- यद् अपि वेदवाक्येषु प्रसिद्धा एव पदार्थाः, तथापि वाक्यार्थेषु वचनव्यक्तिविशेषानवधारणाद् यथायथं संशयाः समुपनिपतन्तीति तन्निरासाय तत्र व्याख्यानं प्रवर्तत इति, तत् सूत्रेष्व् अपि समानम् इति तद्व्याख्याप्रत्याख्यानम् अयुक्तम् इत्य् आह -- वाक्यार्थ इति

athaivam ucyate -- yad api vedavākyeṣu prasiddhā eva padārthāḥ, tathāpi vākyārtheṣu vacanavyaktiviśeṣānavadhāraṇād yathāyathaṃ saṃśayāḥ samupanipatantīti tannirāsāya tatra vyākhyānaṃ pravartata iti, tat sūtreṣv api samānam iti tadvyākhyāpratyākhyānam ayuktam ity āha -- vākyārtha iti

Sanskrit only: no published translation is held for this verse.

अपि चायं भाष्यकारः सूत्रव्याख्यां प्रत्याचक्षाणः स्पष्टम् एव न व्याख्येयानीत्याचक्षीत, एतावतैव प्रत्याख्याने सिध्यति यद् अयम् अध्याहारादिदोषदुष्टव्याख्यानिषेधं करोति, तद् अवगम्यते दोषापेता तु व्याख्यानेनन निवार्यत इत्य् आह -- न व्याख्यातव्यम् इति

api cāyaṃ bhāṣyakāraḥ sūtravyākhyāṃ pratyācakṣāṇaḥ spaṣṭam eva na vyākhyeyānītyācakṣīta, etāvataiva pratyākhyāne sidhyati yad ayam adhyāhārādidoṣaduṣṭavyākhyāniṣedhaṃ karoti, tad avagamyate doṣāpetā tu vyākhyānenana nivāryata ity āha -- na vyākhyātavyam iti

Sanskrit only: no published translation is held for this verse.

तद् एवम् अस्य प्रत्याख्यानपक्षस्य[४३]दृष्टव्याख्याविरुद्धत्वात्, पूर्वयोश् च सर्वव्याख्योपालम्भयोः फल्गुत्वाद् अनतिप्रयोजनत्वाद्, मध्यमस्योपालम्भस्य विशेषतो दौर्जन्यापादनाद्, न्यायाभासप्राप्तवेदवाक्यान्यथाकरणनिराकरणेन महाफला अनुक्तदुर्ज्ञाना च परिसंख्यैवास्य भाष्यस्यार्थ इत्य् आह -- अस्येति

tad evam asya pratyākhyānapakṣasya[43]dṛṣṭavyākhyāviruddhatvāt, pūrvayoś ca sarvavyākhyopālambhayoḥ phalgutvād anatiprayojanatvād, madhyamasyopālambhasya viśeṣato daurjanyāpādanād, nyāyābhāsaprāptavedavākyānyathākaraṇanirākaraṇena mahāphalā anuktadurjñānā ca parisaṃkhyaivāsya bhāṣyasyārtha ity āha -- asyeti

Sanskrit only: no published translation is held for this verse.

ननु न विरुद्धार्थम् उभयं सम्भावयितुं शक्यते। अतो ऽन्यतरदन्याय्यम् इति स्थिते, गुणत्वात् सूत्रम् अन्यथा कार्यम् इति प्रागुक्तम् अत आह -- असम्भवाद् इति। विचित्राशया हि जिज्ञासवः। अतस् ते कदाचित् प्रधानगुणगोचरं[४९]बलाबलं जानन्तो वेदानुरोधेन सूत्रम् अन्यथा नयन्ति। कदाचिद् उद्भूताचार्यगौरवा एवम् आलोचयन्ति -- कथं हि न्यायसहस्रविज्जैमिनिर् अस्मदादिगोचराम् अनुपपत्तिं नाकलयतीति सम्भावयामः, ययैव तु तेन व्याख्यातं तथैव[५०]श्रुत्यर्थो युक्तः। अन्यथैकश्रुत्यनुरोधेन बहुश्रुतिविनाश एवापद्यत इति। तद् एवमालोचनाभेदाद् विकल्प इति

nanu na viruddhārtham ubhayaṃ sambhāvayituṃ śakyate. ato 'nyataradanyāyyam iti sthite, guṇatvāt sūtram anyathā kāryam iti prāguktam ata āha -- asambhavād iti. vicitrāśayā hi jijñāsavaḥ. atas te kadācit pradhānaguṇagocaraṃ[49]balābalaṃ jānanto vedānurodhena sūtram anyathā nayanti. kadācid udbhūtācāryagauravā evam ālocayanti -- kathaṃ hi nyāyasahasravijjaiminir asmadādigocarām anupapattiṃ nākalayatīti sambhāvayāmaḥ, yayaiva tu tena vyākhyātaṃ tathaiva[50]śrutyartho yuktaḥ. anyathaikaśrutyanurodhena bahuśrutivināśa evāpadyata iti. tad evamālocanābhedād vikalpa iti

Sanskrit only: no published translation is held for this verse.

अथवा समसामर्थ्ययोर् उभयोर् विकल्पो भवति। इह पुनर्वेदार्थनिरूपणावस्थायां सूत्राणि प्रथमम् उपनिपतन्ति। तान्य् अनुपजातविरोधीनि तावद् यथाश्रुतग्राह्याण्य् आपतन्ति। तैश् च प्राथम्येनावरुद्धबुद्धिः श्रोता जघन्यस्थानोपनिपातिनीम् एव चोदनां बाधेत। मुख्यानुरोधेन हि जघन्यबाधो वक्ष्यते मुख्यं वा पूर्वचोदनाल् लोकवत् (जै १२।२।२३) इति। तदाह -- प्राथम्येनेति। न्याय्याम् इति परिसंख्यायाः प्रयोजनं सूचयति। असत्यां हि परिसङ्ख्यायां न्यायाभासेन न्याय्य[५१]चोदनाबाधः प्रसज्येत। कथं पुनर्न्याय्या चोदना। उच्यते। गुणभूतानि सूत्राणि प्रधानभूतानि १,२२ वेदवाक्यानि, तद्व्याख्याना[५२]र्थानि हि तानि। न च गुणानुरोधेन प्रधानम् अन्यथाकर्तुम् उचितम्। प्रधानम् अविगुणं कथं निर्वर्त्येतेति हि गुणाः क्रियन्ते। प्रधानवैगुण्ये तु किं गुणैः। अत एव वक्ष्यति अङ्गगुणविरोधे च तादर्थ्यात् (जै १२।२।२५) इति। एष च न्यायः पूर्वस्य मुख्यानुग्रहन्यायस्यापवादकः। अत एव मुख्यदीक्षाकालबाधः प्रधानकालानुरोधेन दर्शितः। उक्तं हि पर्वणि दीक्षा पर्वणि सुत्येति। अतः सूक्तं न्याय्याम् इति

athavā samasāmarthyayor ubhayor vikalpo bhavati. iha punarvedārthanirūpaṇāvasthāyāṃ sūtrāṇi prathamam upanipatanti. tāny anupajātavirodhīni tāvad yathāśrutagrāhyāṇy āpatanti. taiś ca prāthamyenāvaruddhabuddhiḥ śrotā jaghanyasthānopanipātinīm eva codanāṃ bādheta. mukhyānurodhena hi jaghanyabādho vakṣyate mukhyaṃ vā pūrvacodanāl lokavat (Jai 12.2.23) iti. tadāha -- prāthamyeneti. nyāyyām iti parisaṃkhyāyāḥ prayojanaṃ sūcayati. asatyāṃ hi parisaṅkhyāyāṃ nyāyābhāsena nyāyya[51]codanābādhaḥ prasajyeta. kathaṃ punarnyāyyā codanā. ucyate. guṇabhūtāni sūtrāṇi pradhānabhūtāni 1,22 vedavākyāni, tadvyākhyānā[52]rthāni hi tāni. na ca guṇānurodhena pradhānam anyathākartum ucitam. pradhānam aviguṇaṃ kathaṃ nirvartyeteti hi guṇāḥ kriyante. pradhānavaiguṇye tu kiṃ guṇaiḥ. ata eva vakṣyati aṅgaguṇavirodhe ca tādarthyāt (Jai 12.2.25) iti. eṣa ca nyāyaḥ pūrvasya mukhyānugrahanyāyasyāpavādakaḥ. ata eva mukhyadīkṣākālabādhaḥ pradhānakālānurodhena darśitaḥ. uktaṃ hi parvaṇi dīkṣā parvaṇi sutyeti. ataḥ sūktaṃ nyāyyām iti

Sanskrit only: no published translation is held for this verse.

परिसंख्या फलेनोक्ता इति। तद् इदं विधीयते[५५]ऽर्थ इत्य् अनेनोक्तम् इति वेदितव्यम् इति

parisaṃkhyā phalenoktā iti. tad idaṃ vidhīyate[55]'rtha ity anenoktam iti veditavyam iti

Sanskrit only: no published translation is held for this verse.

१,२३ इदानीं विरोधविषये ऽध्याहारादिकल्पनां सूत्रेषूदाहरणैर् दर्शयिष्यन्न् अध्याहारोदाहरणं तावद् आह -- शेषभाजाम् इति। वक्ष्यति हि जैमिनिः अपि वा शेषभाजां स्यात् (जै ६।४।३) इति।[५६]अत्र हि शेषकार्याणीडाप्राशित्रादीन्य् उदाहृत्य विचारयिष्यते -- यद्येषाम् अर्थेन गृहीतस्य हविषो दैवाद् अपचारो भवति, किं तदा हविरन्तरम् आगमयितव्यं,[५७]शेषाद् वावदेयं, कर्मलोपो वेति।[५८]तत्रोक्तम् अपि वा शेषभाजा स्याद् इति। न चानेन पूर्वपक्षो गृह्यते, अपि वाशब्दसम्बन्धात्। न च सिद्धान्तः, पूर्वपक्षाभावात्।[५९]अपि च अनन्तराधिकरणे प्रधानार्थावत्तहविर्नाशे शेषाद् अवदानेन पूर्वपक्षं परिगृह्य सिद्धान्तितं निर्देशाद् वान्यद् आगमयेत् (जै ६।४।२) इति। द्रव्यान्तरोपादानेन तद् यदि द्रव्यान्तरागम एवानन्तर्याद् अत्रानुषज्यते, ततो न्यायान्तरविरोध आपद्यते। शेषकार्याणाम् एकदेशद्रव्यश् चोत्पत्तौ विद्यमानसंयोगात् (जै ४।१।२८) इत्य् अनेनाधिकरणेनाप्रयोजकत्वस्य स्थितत्वात्। अथोत्तरपक्षातिक्रमेण शेषाद् अवदानं शेषभाजाम् अर्थेन स्याद् इति सम्बन्धः, तद् अप्य् अयुक्तम्। शेषस्य प्रतिपत्त्यन्तरसम्बन्धाद्, नष्टावयवप्रतिपत्तिसम्बन्धाभावाच् च। तेनोत्सूत्रम् एव द्रव्यान्तरागमेन पूर्वपक्षं परिगृह्य राद्धान्तितम् अपि वा शेषभाजां स्याल् लोप इति लोपपदाध्याहारं दर्शयिष्यति। तद् एष सूत्रार्थो भवति -- शेषं भजन्ते यानीडाप्राशित्रादीनि,[६०]तेषां द्रव्यान्तरप्रयुक्तिशक्तेर् अभावाद् विद्यमानशेषस्य प्रतिपत्त्यन्तरसम्बन्धाल् लोपः अकरणम् एव स्याद् इति

1,23 idānīṃ virodhaviṣaye 'dhyāhārādikalpanāṃ sūtreṣūdāharaṇair darśayiṣyann adhyāhārodāharaṇaṃ tāvad āha -- śeṣabhājām iti. vakṣyati hi jaiminiḥ api vā śeṣabhājāṃ syāt (Jai 6.4.3) iti.[56]atra hi śeṣakāryāṇīḍāprāśitrādīny udāhṛtya vicārayiṣyate -- yadyeṣām arthena gṛhītasya haviṣo daivād apacāro bhavati, kiṃ tadā havirantaram āgamayitavyaṃ,[57]śeṣād vāvadeyaṃ, karmalopo veti.[58]tatroktam api vā śeṣabhājā syād iti. na cānena pūrvapakṣo gṛhyate, api vāśabdasambandhāt. na ca siddhāntaḥ, pūrvapakṣābhāvāt.[59]api ca anantarādhikaraṇe pradhānārthāvattahavirnāśe śeṣād avadānena pūrvapakṣaṃ parigṛhya siddhāntitaṃ nirdeśād vānyad āgamayet (Jai 6.4.2) iti. dravyāntaropādānena tad yadi dravyāntarāgama evānantaryād atrānuṣajyate, tato nyāyāntaravirodha āpadyate. śeṣakāryāṇām ekadeśadravyaś cotpattau vidyamānasaṃyogāt (Jai 4.1.28) ity anenādhikaraṇenāprayojakatvasya sthitatvāt. athottarapakṣātikrameṇa śeṣād avadānaṃ śeṣabhājām arthena syād iti sambandhaḥ, tad apy ayuktam. śeṣasya pratipattyantarasambandhād, naṣṭāvayavapratipattisambandhābhāvāc ca. tenotsūtram eva dravyāntarāgamena pūrvapakṣaṃ parigṛhya rāddhāntitam api vā śeṣabhājāṃ syāl lopa iti lopapadādhyāhāraṃ darśayiṣyati. tad eṣa sūtrārtho bhavati -- śeṣaṃ bhajante yānīḍāprāśitrādīni,[60]teṣāṃ dravyāntaraprayuktiśakter abhāvād vidyamānaśeṣasya pratipattyantarasambandhāl lopaḥ akaraṇam eva syād iti

Sanskrit only: no published translation is held for this verse.

विपरिणामम् उदाहरति -- विप्रकर्षाद् इति। अस्ति हि सवनीयः पशुः आश्विनं ग्रहं गृहीत्वा त्रिवृता यूपं परिवीयाग्नेयं[६१]सवनीयं पशुम् उपाकरोतीति अनुसवनं[६२]सवनीयाः पुरोडाशा निरुप्यन्त इति। सन्ति च सवनीयाः[६३]पशुपुरोडाशाः। तत्र[६४]तन्त्रिणो धर्माः प्रसङ्गिन उपकुर्वन्तीति स्थिते, पशुतन्त्रमध्यपातित्वं पुरोडाशानां प्रतिपादयितुं सूत्रं पशोश् च विप्रकर्षस् तन्त्रमध्ये १,२४ विधानात् (जै १२।२।३२) इति।[६५]तच् चैतद् यथाश्रुतगृहीतं न विवक्षितार्थाख्यानक्षमम्। विप्रकर्षो ह्य् अत्र प्रथमान्तः साध्यभूतो ऽवगम्यते। तन्त्रमध्ये विधानाद् इति पञ्चम्यन्तं हेतुभूतम्। तच् चायुक्तम्। विप्रकर्षो हि पशोः प्रातरादिकालत्रयसम्बन्धः। स च प्रत्यक्षवचनसिद्धो न साध्यः। एवं हि श्रूयते वपया प्रातस्सवने चरन्ति पुरोडाशेन माध्यन्दिने सवने अङ्गैस् तृतीयसवने इति। तन्त्रमध्यविधानम् अपि साध्यं न हेतुनिर्देशार्हम्। अतः प्रथमापञ्चम्योर् विपरिणामो वक्ष्यते। पशोर् विप्रकर्षात् प्रातरादिकालत्रय[६६]व्यापित्वात् पुरोडाशानां पशुतन्त्रमध्ये विधानम्। पशुर् हि पुरोडाशकालम् अपि व्याप्नोति। पुरोडाशास्तु स्वसवनसमाप्तेर् अव्यापकाः। अतः पशुतन्त्रमध्यपतिताः पुरोडाशा इति पश्वर्थम् अनुष्ठानं पुरोडाशेषु प्रसज्यत इति। इदं च वार्त्तिककारेण विपरिणतम् एवोदाहृतम् विप्रकर्षाद् इति। व्यवहितकल्पनाम् उदाहरति -- पदेनेति। वेदाधिकरणे ह्य् एवं वक्ष्यति -- पदसङ्घातात्मानो वेदाः। पदसङ्घाताश् च पुरुषकृता दृष्टाः, यथा नीलोत्पलवनाद्यर्थविषयाः। अत एते ऽपि कृत्रिमा इति। तद्विशेषप्रदर्शनार्थं चेदं सूत्रं लोके सन्नियमात् प्रयोगसन्निकर्षः स्यात् (जै १।१।२६) इति। अत्र च सन्नियमाद् इति पदव्यवहितः प्रयोगशब्दो लोक इत्य् अस्यानन्तरं सम्बन्धनीयः। तद् अयम् अर्थः -- लोके शब्दप्रयोगः सन्नियमः सम्यङ्निबन्धनात्मको युक्तः, अर्थस्य चक्षुरादिसन्निकर्षात्। न तु वेदे, अतीन्द्रियार्थत्वाद् इति। इदं च विपरिणामव्यवहितकल्पनयोः साधारणम् अप्य् उदाहरणं विपरिणामस्योक्तत्वाद् व्यवधानमात्रोदाहरणत्वेनोक्तम् इति वेदितव्यम् इति

vipariṇāmam udāharati -- viprakarṣād iti. asti hi savanīyaḥ paśuḥ āśvinaṃ grahaṃ gṛhītvā trivṛtā yūpaṃ parivīyāgneyaṃ[61]savanīyaṃ paśum upākarotīti anusavanaṃ[62]savanīyāḥ puroḍāśā nirupyanta iti. santi ca savanīyāḥ[63]paśupuroḍāśāḥ. tatra[64]tantriṇo dharmāḥ prasaṅgina upakurvantīti sthite, paśutantramadhyapātitvaṃ puroḍāśānāṃ pratipādayituṃ sūtraṃ paśoś ca viprakarṣas tantramadhye 1,24 vidhānāt (Jai 12.2.32) iti.[65]tac caitad yathāśrutagṛhītaṃ na vivakṣitārthākhyānakṣamam. viprakarṣo hy atra prathamāntaḥ sādhyabhūto 'vagamyate. tantramadhye vidhānād iti pañcamyantaṃ hetubhūtam. tac cāyuktam. viprakarṣo hi paśoḥ prātarādikālatrayasambandhaḥ. sa ca pratyakṣavacanasiddho na sādhyaḥ. evaṃ hi śrūyate vapayā prātassavane caranti puroḍāśena mādhyandine savane aṅgais tṛtīyasavane iti. tantramadhyavidhānam api sādhyaṃ na hetunirdeśārham. ataḥ prathamāpañcamyor vipariṇāmo vakṣyate. paśor viprakarṣāt prātarādikālatraya[66]vyāpitvāt puroḍāśānāṃ paśutantramadhye vidhānam. paśur hi puroḍāśakālam api vyāpnoti. puroḍāśāstu svasavanasamāpter avyāpakāḥ. ataḥ paśutantramadhyapatitāḥ puroḍāśā iti paśvartham anuṣṭhānaṃ puroḍāśeṣu prasajyata iti. idaṃ ca vārttikakāreṇa vipariṇatam evodāhṛtam viprakarṣād iti. vyavahitakalpanām udāharati -- padeneti. vedādhikaraṇe hy evaṃ vakṣyati -- padasaṅghātātmāno vedāḥ. padasaṅghātāś ca puruṣakṛtā dṛṣṭāḥ, yathā nīlotpalavanādyarthaviṣayāḥ. ata ete 'pi kṛtrimā iti. tadviśeṣapradarśanārthaṃ cedaṃ sūtraṃ loke sanniyamāt prayogasannikarṣaḥ syāt (Jai 1.1.26) iti. atra ca sanniyamād iti padavyavahitaḥ prayogaśabdo loka ity asyānantaraṃ sambandhanīyaḥ. tad ayam arthaḥ -- loke śabdaprayogaḥ sanniyamaḥ samyaṅnibandhanātmako yuktaḥ, arthasya cakṣurādisannikarṣāt. na tu vede, atīndriyārthatvād iti. idaṃ ca vipariṇāmavyavahitakalpanayoḥ sādhāraṇam apy udāharaṇaṃ vipariṇāmasyoktatvād vyavadhānamātrodāharaṇatvenoktam iti veditavyam iti

Sanskrit only: no published translation is held for this verse.