Library·Sucaritamisra: Mimamsaslokavarttikakasika·2

Sucaritamisra: Mimamsaslokavarttikakasika 2

सूत्रव्यवधानम् उदाहरति -- सूत्रेणेति। इदं हि समामनान्ते सोमेन्द्रं चरुं निर्वपेत् श्यामकं सोमवामिनः इति। तत्र सन्देहः। किं लौकिके सोमवमने सोमेन्द्रश् चरुः, उत वैदिक इति। तत्र पानव्यापच् च तद्वत् (जै ३।४।३८) इति। अश्वप्रतिग्रहेष्टिवाक्यगताद्यविचारपूर्वपक्षातिदेशः कृतः। तत्र यावतो ऽश्वान् प्रतिगृह्णीयात् तावतो वारुणांश् चतुष्कपालान् निर्वपेद् इत्य् उदाहृत्य विचारितं[६७]किं लौकिक ऽश्वप्रतिग्रह १,२५ इष्टिर् इयम्, उत वैदिक इति। तत्र पूर्वपक्षसूत्रं दोषात् त्व् इष्टिर् लौकिके स्यात् (३।४।३४) इति। दोषनिर्घातार्था हीयम् इष्टिः दोषसंयोगेन[६८]श्रवणात्। एवं हि समामनन्ति वरुणो वा एतं गृह्णाति यो ऽश्वं प्रतिगृह्णातीति। स चायं दोषो लोके सम्भवति न वेदे, विहितत्वाद् अश्वदक्षिणाया ज्योतिष्टोमादौ। अतो लौकिक इति[६९]प्राप्त उक्तम् -- अर्थवादो वानुपपातात् तस्माद् यज्ञे प्रतीयेत (३।४।३५) इति। अस्यार्थः -- नेयं दोषनिर्घातार्थेष्टिः दोषाभावात्, न ह्य् अश्वप्रतिग्रहाद् वरुणग्रहणात्मनो दोषस्योपपातः प्रत्यक्षादिनावगम्यते। ततो ऽर्थवादमात्रं दोषसङ्कीर्तनम् इति फलकल्पनाया अभावाद् वैदिकत्वसामान्याच् च वैदिक इति स्थिते, पुनर्विचारितं - भवतु वैदिके, सा तु किं दातुः उत प्रतिग्रहीतुर् इति। तत्र पूर्वपक्षसूत्रम् -- अचोदितं च कर्मभेदात् (३।४।३६) इति। अस्यार्थः -- दानप्रतिग्रहकर्मभेदात्। इह च यावतो ऽश्वान् प्रतिगृह्णीयाद् इति प्रतिग्रहीतृश्रवणाद् अचोदितम् इष्टिकर्म दातुः अतः[७०]प्रतिग्रहीतुः ऋत्विज इष्टिर् इति प्राप्ते उक्तं - सा लिङ्गाद् आर्त्विजे स्यात् (३।४।३७) इति। अस्यार्थः -- ऋत्विजाम् अयम्[७१]आर्त्विजो यजमानः यो दक्षिणाया दाता। तत्र दातुर् इयम् इष्टिर् भवति। कुतः, लिङ्गात्। किं लिङ्गम्। अश्वप्रतिग्रहेष्टिवाक्यगतपूर्वोत्तरपदसामर्थ्यम्। तत्र हि प्रजापतिर् वरुणायाश्वम् अनयद् इति दातारं सङ्कीर्त्यान्ते प्रतिगृह्णीयाद् इति श्रुतम्। तच् च प्रथमावगतानुपजातविरोधिदात्रवरुद्धायां बुद्धाव् उपनिपतितं दातृगोचरम् एवावगतम्। अतः प्रतिग्राहयेद् इति विपरिणमति। तद् इह पानव्यापच् च तद्वत् (३।४।३८) इति सूत्रे सा लिङ्गाद् आर्त्विजे स्याद् अचोदितं च कर्मभेदात् अर्थवादो वानुपपातात् तस्माद् यज्ञे प्रतीयेतेति सूत्रत्रयव्यवहितो दोषात् त्व् इष्टिर् लौकिके स्याद् इति पूर्वपक्षो ऽतिदिष्टः। तद् अयम् अर्थः -- पानव्यापद् अपि तद्वद् भवितुम् अर्हति यथाश्वप्रतिग्रहेष्ट्य्[७२]आद्यपूर्वपक्षे[७३]ऽभिहितम्।[७४]कुतः, दोषश्रुतेः। एवं हि श्रूयते। इन्द्रियेण वा एष वीर्येण ?वृध्यते यः सोमं वमतीति। स चायम् इन्द्रियवीर्यसमृद्धिविगमो लौकिके रसायनार्थं पीते वान्ते[७५]सम्भवति न वैदिके। १,२६ सर्वप्रकृतिविकृतिसोमेषु पानमात्रेण सोमप्रतिपत्तेः सिद्धत्वाद् इति पूर्वपक्षिते प्रतिविहितं - दोषात् तु वैदिके स्यात् (३।४।३९) इति। रसायनार्थं हि वमनायैव पानम्। वमनेन हि शुद्धकायस्य सम्यगाहारपरिणामपरम्परया स्थैर्यं भवति। सोमप्रतिपत्तिस् तु सम्यग्जरणान्ता इति मामेवाङ्गाभिमतिगा इति मन्त्रवर्णनाद् अवगतम्। अतस् तत्रैव वमनेन पानव्यापदि जातायां तन्निबर्हणार्थश् चरुः। तद् इदं सूत्रत्रयव्यवधाने ऽपि सूत्रेणेति समुदायापेक्षयैकवचनम् इति

sūtravyavadhānam udāharati -- sūtreṇeti. idaṃ hi samāmanānte somendraṃ caruṃ nirvapet śyāmakaṃ somavāminaḥ iti. tatra sandehaḥ. kiṃ laukike somavamane somendraś caruḥ, uta vaidika iti. tatra pānavyāpac ca tadvat (Jai 3.4.38) iti. aśvapratigraheṣṭivākyagatādyavicārapūrvapakṣātideśaḥ kṛtaḥ. tatra yāvato 'śvān pratigṛhṇīyāt tāvato vāruṇāṃś catuṣkapālān nirvaped ity udāhṛtya vicāritaṃ[67]kiṃ laukika 'śvapratigraha 1,25 iṣṭir iyam, uta vaidika iti. tatra pūrvapakṣasūtraṃ doṣāt tv iṣṭir laukike syāt (3.4.34) iti. doṣanirghātārthā hīyam iṣṭiḥ doṣasaṃyogena[68]śravaṇāt. evaṃ hi samāmananti varuṇo vā etaṃ gṛhṇāti yo 'śvaṃ pratigṛhṇātīti. sa cāyaṃ doṣo loke sambhavati na vede, vihitatvād aśvadakṣiṇāyā jyotiṣṭomādau. ato laukika iti[69]prāpta uktam -- arthavādo vānupapātāt tasmād yajñe pratīyeta (3.4.35) iti. asyārthaḥ -- neyaṃ doṣanirghātārtheṣṭiḥ doṣābhāvāt, na hy aśvapratigrahād varuṇagrahaṇātmano doṣasyopapātaḥ pratyakṣādināvagamyate. tato 'rthavādamātraṃ doṣasaṅkīrtanam iti phalakalpanāyā abhāvād vaidikatvasāmānyāc ca vaidika iti sthite, punarvicāritaṃ - bhavatu vaidike, sā tu kiṃ dātuḥ uta pratigrahītur iti. tatra pūrvapakṣasūtram -- acoditaṃ ca karmabhedāt (3.4.36) iti. asyārthaḥ -- dānapratigrahakarmabhedāt. iha ca yāvato 'śvān pratigṛhṇīyād iti pratigrahītṛśravaṇād acoditam iṣṭikarma dātuḥ ataḥ[70]pratigrahītuḥ ṛtvija iṣṭir iti prāpte uktaṃ - sā liṅgād ārtvije syāt (3.4.37) iti. asyārthaḥ -- ṛtvijām ayam[71]ārtvijo yajamānaḥ yo dakṣiṇāyā dātā. tatra dātur iyam iṣṭir bhavati. kutaḥ, liṅgāt. kiṃ liṅgam. aśvapratigraheṣṭivākyagatapūrvottarapadasāmarthyam. tatra hi prajāpatir varuṇāyāśvam anayad iti dātāraṃ saṅkīrtyānte pratigṛhṇīyād iti śrutam. tac ca prathamāvagatānupajātavirodhidātravaruddhāyāṃ buddhāv upanipatitaṃ dātṛgocaram evāvagatam. ataḥ pratigrāhayed iti vipariṇamati. tad iha pānavyāpac ca tadvat (3.4.38) iti sūtre sā liṅgād ārtvije syād acoditaṃ ca karmabhedāt arthavādo vānupapātāt tasmād yajñe pratīyeteti sūtratrayavyavahito doṣāt tv iṣṭir laukike syād iti pūrvapakṣo 'tidiṣṭaḥ. tad ayam arthaḥ -- pānavyāpad api tadvad bhavitum arhati yathāśvapratigraheṣṭy[72]ādyapūrvapakṣe[73]'bhihitam.[74]kutaḥ, doṣaśruteḥ. evaṃ hi śrūyate. indriyeṇa vā eṣa vīryeṇa ?vṛdhyate yaḥ somaṃ vamatīti. sa cāyam indriyavīryasamṛddhivigamo laukike rasāyanārthaṃ pīte vānte[75]sambhavati na vaidike. 1,26 sarvaprakṛtivikṛtisomeṣu pānamātreṇa somapratipatteḥ siddhatvād iti pūrvapakṣite prativihitaṃ - doṣāt tu vaidike syāt (3.4.39) iti. rasāyanārthaṃ hi vamanāyaiva pānam. vamanena hi śuddhakāyasya samyagāhārapariṇāmaparamparayā sthairyaṃ bhavati. somapratipattis tu samyagjaraṇāntā iti māmevāṅgābhimatigā iti mantravarṇanād avagatam. atas tatraiva vamanena pānavyāpadi jātāyāṃ tannibarhaṇārthaś caruḥ. tad idaṃ sūtratrayavyavadhāne 'pi sūtreṇeti samudāyāpekṣayaikavacanam iti

Sanskrit only: no published translation is held for this verse.

गुणार्थौपवसथ्ये ऽह्नि सवनीयपुनश्श्रुतिः । उत्पत्तिः प्रक्रिया चैषाम् आश्विनग्रहणोत्तरा ॥ इति।[७९]अतः सिद्धं[८०]स्थानाद् अग्नीषोमीयार्था धर्मा इति।[८१]किम् इदं सूत्रान्यथाकरणं नाम। उच्यते -- व्यवधारणकल्पनेयम्। यत्रान्यथाप्रतिभासमानो ऽर्थः[८२]प्रकरणबलेनान्यथा वर्ण्यते सा व्यवधारणकल्पना। ननु नेयम् अध्याहारादिषु सन्निविष्टा। उच्यते। नायम् आदिशब्दो व्यवस्थितवचनः प्रकारवचनत्वात्। अध्याहारप्रकाराणां वाक्यदोषाणाम् एवमादीनाम् अपि युक्तम् एवोपवर्णनम् इति

guṇārthaupavasathye 'hni savanīyapunaśśrutiḥ | utpattiḥ prakriyā caiṣām āśvinagrahaṇottarā || iti.[79]ataḥ siddhaṃ[80]sthānād agnīṣomīyārthā dharmā iti.[81]kim idaṃ sūtrānyathākaraṇaṃ nāma. ucyate -- vyavadhāraṇakalpaneyam. yatrānyathāpratibhāsamāno 'rthaḥ[82]prakaraṇabalenānyathā varṇyate sā vyavadhāraṇakalpanā. nanu neyam adhyāhārādiṣu sanniviṣṭā. ucyate. nāyam ādiśabdo vyavasthitavacanaḥ prakāravacanatvāt. adhyāhāraprakārāṇāṃ vākyadoṣāṇām evamādīnām api yuktam evopavarṇanam iti

Sanskrit only: no published translation is held for this verse.

अभिधेयाविनाभूतप्रतीतिर् लक्षणेष्यते । लक्ष्यमाणगुणैर् योगाद् वृत्तेर् इष्टा तु गौणता ॥ इति। तद् इहौत्पत्तिकसूत्रे ह्य् औत्पत्तिकशब्द उत्पत्तौ भव इत्य् अनया व्युत्पत्त्या शब्दार्थसम्बन्धानां त्रयाणाम् अनित्यताभिधानाद् विवक्षितनित्यत्वविपरीतवचन इति विवक्षितासम्भवेन गौणो गृहीतः। उत्पत्तिशब्दो ह्य् उत्पत्तिलक्षितोत्पद्यमानसमवेतसत्तागुणयोगात् शब्दार्थयोर् वर्तमानो गौणो भवति। अतश् च शब्दार्थस्वरूपाधीनः सम्बन्ध इत्य् उक्तं भवति। तत्स्वरूपनित्यत्वाच् च सम्बन्धो ऽपि नित्य इति विविक्षितसिद्धिः। तथादित्यानामयनादिषु सत्रेषु किं द्वादशाहिको विध्यन्त उत यावामयनिक इति सन्देहे अहर्गणसामान्याद् द्वादशाहिक इति प्रतिज्ञाय, गव्यस्य च तदादिषु (८।१।१८) इति गव्यस्य विध्यन्तो दर्शितः न। चायं गव्यशब्दः क्वचित् क्रतुभेदे प्रसिद्धः। न च विवक्षितगवामयनार्पणक्षम इति विवक्षितासम्भवाद् गौणो व्याख्यातः। एष च गोर् अवयवे तद्विकारे वा मुख्यः। तत्रैव गोपयसोर्यत् (पा ४।३।१६०) इति स्मरणात्। तद् अयं सम्बन्धविशेषवचनस् तदन्तर्गतलक्षितसामान्यसम्बन्धगुणयोगिनि गवामयने प्रयुक्तो गौणो जायते। गवामयने हि गावो वा एतत् सत्रमासतेत्यर्थवादोदितगोकर्तृकत्वावगमाद् भवति गोसम्बन्धः। तद् अयम् अर्थः -- आदित्यानामयनादिषु गवामयनस्य विध्यन्तो ऽयनसामान्यातिरेकाद् इति। तथा दर्शपूर्णमासयोः सन्ति काम्याः सामिधेनीकल्पाः एकविंशतिम् अनुब्रूयात् प्रतिष्ठाकामस्येत्यादयः। तत्रागमेन सङ्ख्यापूरणम् इति स्थिते आनीयमानास्व् ऋक्षु सन्देहः किं ता अन्ते निविशन्ताम् उत समिध्यमानवतीसमिद्धवत्योर् मध्य इति। तत्र यथावगतक्रमानुरोधेनागन्तूनामन्ते निवेश इति प्राप्ते, उक्तं समिध्यमानवतीसमिद्धवत्योर् मध्य इति। कुतः। एवं ह्य् आह इयं समिध्यमानवती असौ समिद्धवती यदन्तरा तद्धाय्येति धाय्यानां सामिधेनीनाम् अन्तरालत्वेन १,३० संस्तवादन्तराले विधानम् अवसीयते। तथा उष्णिक्ककुभोर् अन्ते दर्शनात् (५।३।६) इति लिङ्गम् उपदिष्टम्। तच् चायुक्तम् उष्णिक्ककुभोर् मुख्ययोर् अन्ते अभावात् त्रिष्टुभा परिदधातीति त्रिष्टुभो ऽन्ते दर्शनात्। तदभिप्रायम् इदम् आनीयमानासु च मध्ये सतीषु समिद्धवत्या जुहोतेन्ते (?) भवतः। ते च समाहृते त्रिष्टुभा समसङ्ख्ये इति सङ्ख्यासामान्यात् त्रिष्टुबन्ते भवति। एवम् अपि त्रिष्टुभो ऽन्ते दर्शनाद् इति वक्तव्यम्। सत्यम्। तथापि त्रिष्टुभो वा एतद् वीर्यं यद् उष्णिक्ककुभाव् इत्य् अर्थवादावगतत्रिष्टुप्कार्यत्वाद् उष्णिक्ककुभोः कारणे कार्योपचाराद् उष्णिक्ककुप्छब्दस्त्रिष्टुभि प्रयुक्तः। तथा ज्योतिष्टोमे द्वादश शतं दक्षिणेति समधिगते षोडशानाम् ऋत्विजां समो विभाग उत विषम इति संशये, विशेषाश्रुतेर् भागसाम्यम् उक्त्वा कर्मपरिमाणाद् दक्षिणापरिमाणं लोके तथा दर्शनाद् इति विशेषो दर्शितः। पुनश् च दर्शनाच् च विशेषस्य तथाभ्युदये इति लिङ्गम् उपदिष्टम्। अत्र चाभ्युदयशब्देनाभ्युदयसाधनत्वाद् द्वादशाहो लक्ष्यते। तत्र हि दीक्षाक्रमपरे वचने अध्वर्युर् ग्रहपतिं दीक्षयित्वे[८८]त्यादिके अर्धिनो दीक्षयति तृतीयिनो दीक्षयति इत्यादिभिः समाख्याभिर् ऋत्विजाम्(?र्धा।र्ध्या)दिभिः सम्बन्धो ऽनूदितः। स चायं ज्योतिष्टोमविकारत्वाद् द्वादशाहस्य प्रकृतौ भागवैषम्यम् अन्तरेणानुपपद्यमानो वैषम्ये लिङ्गम् इति। ननु च गुणकल्पा इत्य् उक्तम्। इह चौत्पत्तिकगव्यशब्दयोर् एवं कथिञ्चिद् गुणवादो दर्शितः उष्णिक्ककुप्शब्दे तूपचारः अभ्युदयशब्दे तु लक्षणा अतः कथं गुणकल्पा इति बहुचननम्। उच्यते -- जघन्यवृत्तिसामान्यात् लिङ्गसमवायाद् वा प्राणभृत उपदधातीतिवद् गुणकल्पा इत्य् उक्तम् इत्य् अदोष इति

abhidheyāvinābhūtapratītir lakṣaṇeṣyate | lakṣyamāṇaguṇair yogād vṛtter iṣṭā tu gauṇatā || iti. tad ihautpattikasūtre hy autpattikaśabda utpattau bhava ity anayā vyutpattyā śabdārthasambandhānāṃ trayāṇām anityatābhidhānād vivakṣitanityatvaviparītavacana iti vivakṣitāsambhavena gauṇo gṛhītaḥ. utpattiśabdo hy utpattilakṣitotpadyamānasamavetasattāguṇayogāt śabdārthayor vartamāno gauṇo bhavati. ataś ca śabdārthasvarūpādhīnaḥ sambandha ity uktaṃ bhavati. tatsvarūpanityatvāc ca sambandho 'pi nitya iti vivikṣitasiddhiḥ. tathādityānāmayanādiṣu satreṣu kiṃ dvādaśāhiko vidhyanta uta yāvāmayanika iti sandehe ahargaṇasāmānyād dvādaśāhika iti pratijñāya, gavyasya ca tadādiṣu (8.1.18) iti gavyasya vidhyanto darśitaḥ na. cāyaṃ gavyaśabdaḥ kvacit kratubhede prasiddhaḥ. na ca vivakṣitagavāmayanārpaṇakṣama iti vivakṣitāsambhavād gauṇo vyākhyātaḥ. eṣa ca gor avayave tadvikāre vā mukhyaḥ. tatraiva gopayasoryat (Pā 4.3.160) iti smaraṇāt. tad ayaṃ sambandhaviśeṣavacanas tadantargatalakṣitasāmānyasambandhaguṇayogini gavāmayane prayukto gauṇo jāyate. gavāmayane hi gāvo vā etat satramāsatetyarthavādoditagokartṛkatvāvagamād bhavati gosambandhaḥ. tad ayam arthaḥ -- ādityānāmayanādiṣu gavāmayanasya vidhyanto 'yanasāmānyātirekād iti. tathā darśapūrṇamāsayoḥ santi kāmyāḥ sāmidhenīkalpāḥ ekaviṃśatim anubrūyāt pratiṣṭhākāmasyetyādayaḥ. tatrāgamena saṅkhyāpūraṇam iti sthite ānīyamānāsv ṛkṣu sandehaḥ kiṃ tā ante niviśantām uta samidhyamānavatīsamiddhavatyor madhya iti. tatra yathāvagatakramānurodhenāgantūnāmante niveśa iti prāpte, uktaṃ samidhyamānavatīsamiddhavatyor madhya iti. kutaḥ. evaṃ hy āha iyaṃ samidhyamānavatī asau samiddhavatī yadantarā taddhāyyeti dhāyyānāṃ sāmidhenīnām antarālatvena 1,30 saṃstavādantarāle vidhānam avasīyate. tathā uṣṇikkakubhor ante darśanāt (5.3.6) iti liṅgam upadiṣṭam. tac cāyuktam uṣṇikkakubhor mukhyayor ante abhāvāt triṣṭubhā paridadhātīti triṣṭubho 'nte darśanāt. tadabhiprāyam idam ānīyamānāsu ca madhye satīṣu samiddhavatyā juhotente (?) bhavataḥ. te ca samāhṛte triṣṭubhā samasaṅkhye iti saṅkhyāsāmānyāt triṣṭubante bhavati. evam api triṣṭubho 'nte darśanād iti vaktavyam. satyam. tathāpi triṣṭubho vā etad vīryaṃ yad uṣṇikkakubhāv ity arthavādāvagatatriṣṭupkāryatvād uṣṇikkakubhoḥ kāraṇe kāryopacārād uṣṇikkakupchabdastriṣṭubhi prayuktaḥ. tathā jyotiṣṭome dvādaśa śataṃ dakṣiṇeti samadhigate ṣoḍaśānām ṛtvijāṃ samo vibhāga uta viṣama iti saṃśaye, viśeṣāśruter bhāgasāmyam uktvā karmaparimāṇād dakṣiṇāparimāṇaṃ loke tathā darśanād iti viśeṣo darśitaḥ. punaś ca darśanāc ca viśeṣasya tathābhyudaye iti liṅgam upadiṣṭam. atra cābhyudayaśabdenābhyudayasādhanatvād dvādaśāho lakṣyate. tatra hi dīkṣākramapare vacane adhvaryur grahapatiṃ dīkṣayitve[88]tyādike ardhino dīkṣayati tṛtīyino dīkṣayati ityādibhiḥ samākhyābhir ṛtvijām(?rdhā/rdhyā)dibhiḥ sambandho 'nūditaḥ. sa cāyaṃ jyotiṣṭomavikāratvād dvādaśāhasya prakṛtau bhāgavaiṣamyam antareṇānupapadyamāno vaiṣamye liṅgam iti. nanu ca guṇakalpā ity uktam. iha cautpattikagavyaśabdayor evaṃ kathiñcid guṇavādo darśitaḥ uṣṇikkakupśabde tūpacāraḥ abhyudayaśabde tu lakṣaṇā ataḥ kathaṃ guṇakalpā iti bahucananam. ucyate -- jaghanyavṛttisāmānyāt liṅgasamavāyād vā prāṇabhṛta upadadhātītivad guṇakalpā ity uktam ity adoṣa iti

Sanskrit only: no published translation is held for this verse.

यस् तूभयप्राप्तेर् मन्दत्वात् परिसंख्याम् अपि नानुमन्यते, तं प्रत्यर्थान्तरम् आह -- सूत्रकारेति। भाष्यकारो हो शिष्यानात्मानं च सूत्रकारप्रशंसया प्ररोचयति।[८९]अनेन खलु सूत्रकारेण प्रसिद्धैर् एव पदैः पदार्था अभिहिताः, न तु गुणवृद्ध्यादिवत् परिभाषा काचित् कृता। अतो ऽक्लेशेन गम्यार्थत्वाद् एतान्य् एव श्रोतुं व्याख्यातुं च युक्तानीति

yas tūbhayaprāpter mandatvāt parisaṃkhyām api nānumanyate, taṃ pratyarthāntaram āha -- sūtrakāreti. bhāṣyakāro ho śiṣyānātmānaṃ ca sūtrakārapraśaṃsayā prarocayati.[89]anena khalu sūtrakāreṇa prasiddhair eva padaiḥ padārthā abhihitāḥ, na tu guṇavṛddhyādivat paribhāṣā kācit kṛtā. ato 'kleśena gamyārthatvād etāny eva śrotuṃ vyākhyātuṃ ca yuktānīti

Sanskrit only: no published translation is held for this verse.

१,३१ ये तु स्तुतौ वास्तुतौ वा तावान् एवार्थ इति न स्तुताव् आद्रियन्ते, तान् प्रत्यथशब्ददूषणपरम् इदं भाष्यम् इत्य् आह -- भवितव्यम् इति। भवितव्यं तु तेनेत्य् अतः प्रागेकवाक्यताम् आपन्नेन, तत् तु वेदाध्ययनम् इत्य् अतो वा पूर्वम् एकवाक्यताम् आपन्नेनाथशब्ददूषणम् अनेन भाष्येण क्रियत इति

1,31 ye tu stutau vāstutau vā tāvān evārtha iti na stutāv ādriyante, tān pratyathaśabdadūṣaṇaparam idaṃ bhāṣyam ity āha -- bhavitavyam iti. bhavitavyaṃ tu tenety ataḥ prāgekavākyatām āpannena, tat tu vedādhyayanam ity ato vā pūrvam ekavākyatām āpannenāthaśabdadūṣaṇam anena bhāṣyeṇa kriyata iti

Sanskrit only: no published translation is held for this verse.

प्रथमावधिना भाष्यं योजयति -- प्रसिद्धार्थपदैर् इति

prathamāvadhinā bhāṣyaṃ yojayati -- prasiddhārthapadair iti

Sanskrit only: no published translation is held for this verse.

द्वितीयावधिना भाष्यं योजयति -- प्रसिद्धार्थम् इति। भवितव्यं तु तेनेति प्रसिद्धार्थं पदं युक्तम् इत्य् अर्थः। नन्व् अथशब्ददूषणव्यतिरिक्तेषु प्रसिद्धार्थपरिग्रहस्योक्तत्वाद् अथादिशब्दव्याख्यानम् अयुक्तम् इति चोदयति -- प्रसिद्धो ऽपीति

dvitīyāvadhinā bhāṣyaṃ yojayati -- prasiddhārtham iti. bhavitavyaṃ tu teneti prasiddhārthaṃ padaṃ yuktam ity arthaḥ. nanv athaśabdadūṣaṇavyatirikteṣu prasiddhārthaparigrahasyoktatvād athādiśabdavyākhyānam ayuktam iti codayati -- prasiddho 'pīti

Sanskrit only: no published translation is held for this verse.

अथवा यत् प्रसिद्धार्थग्रहणम् उक्तं तद् एव[९१]वृत्ताभावाद् अथशब्दस्यानन्तर्यार्थत्वासम्भवाद् आक्षिप्यत इत्य् आह -- यद् वेति। अत्रैव भाष्यं योजयति -- यदीति। तत्रेत्यादिना भाष्यकारः प्रसिद्धार्थग्रहणम् आक्षिपति। प्रसिद्धार्थग्रहणे ह्य् आनन्तर्यम् अथशब्दार्थः, न च तद् वृत्तमन्त्रेण सम्भवतीति प्रसक्तम् अध्याहारादिकल्पनम् इति। अत्र च पक्षे भवितव्यम् इत्यादि सामान्यविशेषोत्तरतयाथशब्ददूषणवद् व्याख्येयम् इति

athavā yat prasiddhārthagrahaṇam uktaṃ tad eva[91]vṛttābhāvād athaśabdasyānantaryārthatvāsambhavād ākṣipyata ity āha -- yad veti. atraiva bhāṣyaṃ yojayati -- yadīti. tatretyādinā bhāṣyakāraḥ prasiddhārthagrahaṇam ākṣipati. prasiddhārthagrahaṇe hy ānantaryam athaśabdārthaḥ, na ca tad vṛttamantreṇa sambhavatīti prasaktam adhyāhārādikalpanam iti. atra ca pakṣe bhavitavyam ityādi sāmānyaviśeṣottaratayāthaśabdadūṣaṇavad vyākhyeyam iti

Sanskrit only: no published translation is held for this verse.

अन्यथा परिहरति -- वेदाध्ययनेति। अयम् अभिप्रायः -- नाव्याख्यातदुर्ज्ञानत्वाद् अथशब्दो व्याख्यायते। किन् त्व् अथशब्दव्याख्यानमिषेणान्यद् एव भाष्यकारस्य विवक्षितम्। तच् चैतदथशब्दार्थे कथिते चोद्यपरिहारक्रमेण शक्यते दर्शयितुम्। तथाहि वेदाध्ययनानन्तरोपनिपातिनः स्नानस्य अधीत्य स्नायाद् इति स्मार्तस्याध्ययनविधिदृष्टार्थताबलेनोत्कर्षकल्पनाथशब्दव्याख्याने सत्य् उपपत्तिक्रमेणावतरतीति युक्तम् अथशब्दोपवर्णनम् इति

anyathā pariharati -- vedādhyayaneti. ayam abhiprāyaḥ -- nāvyākhyātadurjñānatvād athaśabdo vyākhyāyate. kin tv athaśabdavyākhyānamiṣeṇānyad eva bhāṣyakārasya vivakṣitam. tac caitadathaśabdārthe kathite codyaparihārakrameṇa śakyate darśayitum. tathāhi vedādhyayanānantaropanipātinaḥ snānasya adhītya snāyād iti smārtasyādhyayanavidhidṛṣṭārthatābalenotkarṣakalpanāthaśabdavyākhyāne saty upapattikrameṇāvataratīti yuktam athaśabdopavarṇanam iti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यकारेण भवितव्यं तु तेनेत्यनेनाशब्द आनन्तर्यार्थ इति प्रतिज्ञाय तथाहीति प्रसिद्धपदार्थकत्वं हेतुर् उक्तः। तद् व्याचष्टे -- अनर्थक इति। आनन्तर्ये ह्य् अथशब्दार्थे भवति प्रसिद्धार्थता। आनर्थक्यान्यार्थत्वयोस् तु प्रसिद्धिबाधः। अतः श्रुतानन्तर्योपपादनाय किम् अपि वृत्तं गम्यते। नन्व् अधिकारार्थो ऽप्य् अथशब्दो दृष्टः यथा -- अथ शब्दानुशासनम् इति। अतः कथम् अन्यार्थत्वे प्रसिद्धिबाधः। उच्यते -- तत्र हि १,३३ शब्दानुशासनम् एवोपरिष्टाद् अधिकरिष्यते इति युक्तम् अधिकारार्थत्वम्। इह तु जिज्ञासाधिकाराभावात् सूक्तम् अन्यार्थत्वे[९२]प्रसिद्धिर् बाध्यते इति

atra bhāṣyakāreṇa bhavitavyaṃ tu tenetyanenāśabda ānantaryārtha iti pratijñāya tathāhīti prasiddhapadārthakatvaṃ hetur uktaḥ. tad vyācaṣṭe -- anarthaka iti. ānantarye hy athaśabdārthe bhavati prasiddhārthatā. ānarthakyānyārthatvayos tu prasiddhibādhaḥ. ataḥ śrutānantaryopapādanāya kim api vṛttaṃ gamyate. nanv adhikārārtho 'py athaśabdo dṛṣṭaḥ yathā -- atha śabdānuśāsanam iti. ataḥ katham anyārthatve prasiddhibādhaḥ. ucyate -- tatra hi 1,33 śabdānuśāsanam evopariṣṭād adhikariṣyate iti yuktam adhikārārthatvam. iha tu jijñāsādhikārābhāvāt sūktam anyārthatve[92]prasiddhir bādhyate iti

Sanskrit only: no published translation is held for this verse.

पुनर् आक्षिपति -- आनन्तर्येति। अयम् अभिप्रायः -- न हि मन्वादिवददृष्टार्थोपदेशी जैमिनिः, अनेन चानन्तर्यम् उपदिष्टं, तद् यस्यानन्तर्यं दृष्टार्थं भवति तदानन्तर्यम् इति गम्यते। वेदाध्ययनम् एव वेदार्थविचारात्मिकायां धर्मजिज्ञासायां दृष्टार्थं, तेन विना तदनुपपत्तेः। अतस् तदाक्षिप्तम्। अतः असूत्रितोपालम्भो न युक्त इति

punar ākṣipati -- ānantaryeti. ayam abhiprāyaḥ -- na hi manvādivadadṛṣṭārthopadeśī jaiminiḥ, anena cānantaryam upadiṣṭaṃ, tad yasyānantaryaṃ dṛṣṭārthaṃ bhavati tadānantaryam iti gamyate. vedādhyayanam eva vedārthavicārātmikāyāṃ dharmajijñāsāyāṃ dṛṣṭārthaṃ, tena vinā tadanupapatteḥ. atas tadākṣiptam. ataḥ asūtritopālambho na yukta iti

Sanskrit only: no published translation is held for this verse.

कथं पुनर्दृष्टार्थतया वेदाध्ययनम् आक्षिप्यते अत आह -- येनेति ॥ [७०] ॥ न च यत्किञ्चित्क्रियानन्तर्यार्थम् उपदेशः तस्यावर्जनीयत्वेन नित्यप्राप्तेर् इत्य् आह -- क्रियमाणेति

kathaṃ punardṛṣṭārthatayā vedādhyayanam ākṣipyate ata āha -- yeneti || [70] || na ca yatkiñcitkriyānantaryārtham upadeśaḥ tasyāvarjanīyatvena nityaprāpter ity āha -- kriyamāṇeti

Sanskrit only: no published translation is held for this verse.

ननु सङ्कल्पप्रयत्नादिभिर् अपि विना[९४]सा नोपपद्यत एवेति दृष्टार्थत्वेन वेदाध्ययनम् आक्षिप्यत इत्य् आशङ्क्याह[९५]- सङ्कल्पादिभिर् इति

nanu saṅkalpaprayatnādibhir api vinā[94]sā nopapadyata eveti dṛṣṭārthatvena vedādhyayanam ākṣipyata ity āśaṅkyāha[95]- saṅkalpādibhir iti

Sanskrit only: no published translation is held for this verse.

१,३४ एवं वेदाध्ययनानन्तर्यम् उपपाद्योपसंहरति -- तस्माद् इति

1,34 evaṃ vedādhyayanānantaryam upapādyopasaṃharati -- tasmād iti

Sanskrit only: no published translation is held for this verse.

अपरम् अपि प्राग् अपि च वेदाध्ययनाद् इति भाष्यम्। तदाक्षिपति -- अन्यस्यापीति। यदैव नैतद् एवम् इत्यादिना वेदाध्ययनम् अतन्त्रीकृतं तदैवाध्ययनात् प्रागूर्ध्वं वान्यस्यापि कर्मणो ऽनन्तरं धर्मजिज्ञासा प्राप्नोत्य् एवेति व्यर्थं प्राग् इति पुनर्वचनम् इति। अत्र[९६]परिहारभाष्यं तादृशीम् इत्यादि। तदाक्षिपति -- पूर्वेणेति। तत् तु वेदाध्ययनं तस्मिन् हि सति सावकल्पते इत्य् अनेनैव वेदाध्ययनप्राप्तेर् उक्तत्वात् किम् अनुक्तं वक्तुं पुनर् इदम् उक्तम् इति

aparam api prāg api ca vedādhyayanād iti bhāṣyam. tadākṣipati -- anyasyāpīti. yadaiva naitad evam ityādinā vedādhyayanam atantrīkṛtaṃ tadaivādhyayanāt prāgūrdhvaṃ vānyasyāpi karmaṇo 'nantaraṃ dharmajijñāsā prāpnoty eveti vyarthaṃ prāg iti punarvacanam iti. atra[96]parihārabhāṣyaṃ tādṛśīm ityādi. tadākṣipati -- pūrveṇeti. tat tu vedādhyayanaṃ tasmin hi sati sāvakalpate ity anenaiva vedādhyayanaprāpter uktatvāt kim anuktaṃ vaktuṃ punar idam uktam iti

Sanskrit only: no published translation is held for this verse.

एवम् आक्षिप्याद्यचोद्यपरिहारं तावद् आह -- वक्ष्यमाणम्[९७]इति सार्धद्वयेन। अत्र हि नाद्यापि[९८]वेदवाक्यानि प्रमाणम् इति साधितम्। तानि च वाक्यानि विवरिष्यति जैमिनिर् इत्य् अपि नावगम्यते। ततो[९९]बुद्धादिवचनपाठानन्तरं चैत्यवन्दनादिधर्मजिज्ञासाप्रसक्तेः परिचोदना युक्तैवेति

evam ākṣipyādyacodyaparihāraṃ tāvad āha -- vakṣyamāṇam[97]iti sārdhadvayena. atra hi nādyāpi[98]vedavākyāni pramāṇam iti sādhitam. tāni ca vākyāni vivariṣyati jaiminir ity api nāvagamyate. tato[99]buddhādivacanapāṭhānantaraṃ caityavandanādidharmajijñāsāprasakteḥ paricodanā yuktaiveti

Sanskrit only: no published translation is held for this verse.

एवमनभिज्ञस्य परिचोदनेति समाधायान्यथा समाधत्ते -- यद् वेति १,३५ द्वयेन। अस्यार्थः - वेदमधीत्याथ धर्मजिज्ञासेतीदृशे ऽपि सूत्रे परिचोदनावकाशो ऽस्त्य् एव, उभयं हि विचक्षितं नानधीत्यानन्तरं नान्यत् कृत्वेति। तच् च वचोभङ्गिभेदेन वाक्यभेदाद् अयुक्तम् इति

evamanabhijñasya paricodaneti samādhāyānyathā samādhatte -- yad veti 1,35 dvayena. asyārthaḥ - vedamadhītyātha dharmajijñāsetīdṛśe 'pi sūtre paricodanāvakāśo 'sty eva, ubhayaṃ hi vicakṣitaṃ nānadhītyānantaraṃ nānyat kṛtveti. tac ca vacobhaṅgibhedena vākyabhedād ayuktam iti

Sanskrit only: no published translation is held for this verse.

वाक्यभेदम् एव प्रपञ्चयति -- अधीत्यैवेति द्वयेन। एकं हि वेदम् अधीत्याथ धर्मजिज्ञासेति वाक्यम्। तद् यदि वेदम् अधीत्यैवेति विदधाति, तदानन्तर्याविधानाद् अन्यस्यापि स्नानसहधर्मचारिणी संयोगादिकर्मणो ऽनन्तरं धर्मजिज्ञासा प्राप्नोति। अथैतद्भयादानन्तर्यम् आश्रीयते ततो यो ऽधीत्य जिज्ञासते तं प्रत्यानन्तर्यमात्रविधानाद् अनधीतवेदस्य धर्मजिज्ञासा न वार्यत इति प्राग् अपि प्रसज्येत। उभयविवक्षा तु वाक्यभेदप्रसङ्गाद् अयुक्तैवेति। वक्ष्यमाणा[१००]लोचनेन तु नैतद् एवम् इति परिचोदनायां प्राग् अपि च वेदाध्ययनाद् इति भिन्नक्रमं योजनीयम्। अपि च प्राग् वेदाध्ययनाद् इति। अयम् अर्थः -- यद्य् अपि वेदार्थो विचारयितव्यः, तथापि प्रथमम् एव विचारयितुम् उचितः। सर्वं हि हानोपादानार्थं वस्तु प्रथमम् एव जिज्ञास्यते। ततो हीयेतोपादीयेत वा। यत् त्व् अविचारितासिद्धम् अर्थं प्रथमम् एवोपादाय भ्रष्टावसरं जिज्ञास्यते, तदबुद्धिपूर्वकम् आपद्येत। अस्यापि चोद्यस्य तादृशीम् इत्य् एतद् एवोत्तरम् इति वक्ष्यामः

vākyabhedam eva prapañcayati -- adhītyaiveti dvayena. ekaṃ hi vedam adhītyātha dharmajijñāseti vākyam. tad yadi vedam adhītyaiveti vidadhāti, tadānantaryāvidhānād anyasyāpi snānasahadharmacāriṇī saṃyogādikarmaṇo 'nantaraṃ dharmajijñāsā prāpnoti. athaitadbhayādānantaryam āśrīyate tato yo 'dhītya jijñāsate taṃ pratyānantaryamātravidhānād anadhītavedasya dharmajijñāsā na vāryata iti prāg api prasajyeta. ubhayavivakṣā tu vākyabhedaprasaṅgād ayuktaiveti. vakṣyamāṇā[100]locanena tu naitad evam iti paricodanāyāṃ prāg api ca vedādhyayanād iti bhinnakramaṃ yojanīyam. api ca prāg vedādhyayanād iti. ayam arthaḥ -- yady api vedārtho vicārayitavyaḥ, tathāpi prathamam eva vicārayitum ucitaḥ. sarvaṃ hi hānopādānārthaṃ vastu prathamam eva jijñāsyate. tato hīyetopādīyeta vā. yat tv avicāritāsiddham arthaṃ prathamam evopādāya bhraṣṭāvasaraṃ jijñāsyate, tadabuddhipūrvakam āpadyeta. asyāpi codyasya tādṛśīm ity etad evottaram iti vakṣyāmaḥ

Sanskrit only: no published translation is held for this verse.

परिहारभाष्यम् इदानीं समर्थयते -- बुद्धवाक्यादीति। तत् तु वेदाध्ययनम् इति वक्ष्यमाणालोचनेन वेदाध्ययनं वृत्तिम् इत्य् उक्तम्। तदनाकलय्य वक्ष्यमाणानालोचनेन नैतद् एवम् इति परिचोदितं तादृशीम् इत्य् अनेन १,३६ प्रवर्तिष्यमाणानेकविधवेदार्थविचारात्मिका धर्मजिज्ञासेयम् इति जिज्ञासास्वरूपोपवर्णनेन परिहृतम्। अतः परिचोदनापरिहारत्वेनापुनरुक्तत्वम् इति। एवञ् च वक्ष्यमाणानालोचनेन चोद्योत्तरतया भाष्यं व्याख्यायालोचनपरिचोदनायाम् अपि एतद् एवोत्तरम् इति योजयति -- प्राग् इति। यत् तावद् उभयप्रतिपादनेन वाक्यभेदप्रसञ्जनं कृतं, तदानन्तर्यमात्रपरत्वेन परिह्रियते तत्परत्वे ऽध्ययनविधानासम्भवात्। प्राग् अपीति च चोद्यं परिशिष्यते। तस्यापि तादृशीम् इत्य् अनेनापाक्रिया, जिज्ञासासामर्थ्येन पूर्ववृत्तवेदाध्ययनलाभात्। नहीयम् अनुपात्तवेदेन शक्या कर्तुम्। अत एव यदुक्तमध्ययनात् प्राग् एव धर्मजिज्ञासा युक्तेति, तद् अप्य् अनेन परिहृतं भवति। तादृशीयम् अनेकविधविचारायत् ता या विचारसिद्धमध्ययनम् अन्तरेण कर्तुम् अशक्या। विचार्य त्व् अधीयानो विचारस्यानेककालसाध्यत्वाद् अध्ययनकालातिपाताद् व्रात्यताम् आपद्येत। न चैवम् अनधीतवेदस् तदर्थं यावदवधारयितुम् अलम् इत्य् अविचारितोपात्तवेदाध्ययनपूर्वकत्वं धर्मजिज्ञासायाः। यत् तूक्तम् अविचारितोपादाने ऽबुद्धिपूर्वकम् उपादानम् इति। केन वोक्तं बुद्धिपूर्वकम् उपादानम् इति। हितैषिणः पित्रादय एवैनं[१०१]कुमारम् अनाकलितपारलौकिककल्याणं प्रवर्तयन्ति। अपि च[१०२]सजातीयानहरहरविरतप्रवृत्तस्वाध्यायाध्ययनानुपलभमानः सामान्यतो जानाति नूनम् अस्मात् कर्मणः को ऽप्य् अभ्युदय एषां भविता कथम् अपरथा श्राम्यद्भिर् हितकामैः पित्रादिभिर् अमी प्रवर्त्यन्त इति। एवं विदितवतो ऽहम् अप्य्[१०३]अनुतिष्ठन् श्रेयः प्राप्स्यामीति चिन्तयतः स्वयम् अपि प्रवृत्तिर् उपपद्यत एवेति

parihārabhāṣyam idānīṃ samarthayate -- buddhavākyādīti. tat tu vedādhyayanam iti vakṣyamāṇālocanena vedādhyayanaṃ vṛttim ity uktam. tadanākalayya vakṣyamāṇānālocanena naitad evam iti paricoditaṃ tādṛśīm ity anena 1,36 pravartiṣyamāṇānekavidhavedārthavicārātmikā dharmajijñāseyam iti jijñāsāsvarūpopavarṇanena parihṛtam. ataḥ paricodanāparihāratvenāpunaruktatvam iti. evañ ca vakṣyamāṇānālocanena codyottaratayā bhāṣyaṃ vyākhyāyālocanaparicodanāyām api etad evottaram iti yojayati -- prāg iti. yat tāvad ubhayapratipādanena vākyabhedaprasañjanaṃ kṛtaṃ, tadānantaryamātraparatvena parihriyate tatparatve 'dhyayanavidhānāsambhavāt. prāg apīti ca codyaṃ pariśiṣyate. tasyāpi tādṛśīm ity anenāpākriyā, jijñāsāsāmarthyena pūrvavṛttavedādhyayanalābhāt. nahīyam anupāttavedena śakyā kartum. ata eva yaduktamadhyayanāt prāg eva dharmajijñāsā yukteti, tad apy anena parihṛtaṃ bhavati. tādṛśīyam anekavidhavicārāyat tā yā vicārasiddhamadhyayanam antareṇa kartum aśakyā. vicārya tv adhīyāno vicārasyānekakālasādhyatvād adhyayanakālātipātād vrātyatām āpadyeta. na caivam anadhītavedas tadarthaṃ yāvadavadhārayitum alam ity avicāritopāttavedādhyayanapūrvakatvaṃ dharmajijñāsāyāḥ. yat tūktam avicāritopādāne 'buddhipūrvakam upādānam iti. kena voktaṃ buddhipūrvakam upādānam iti. hitaiṣiṇaḥ pitrādaya evainaṃ[101]kumāram anākalitapāralaukikakalyāṇaṃ pravartayanti. api ca[102]sajātīyānaharaharaviratapravṛttasvādhyāyādhyayanānupalabhamānaḥ sāmānyato jānāti nūnam asmāt karmaṇaḥ ko 'py abhyudaya eṣāṃ bhavitā katham aparathā śrāmyadbhir hitakāmaiḥ pitrādibhir amī pravartyanta iti. evaṃ viditavato 'ham apy[103]anutiṣṭhan śreyaḥ prāpsyāmīti cintayataḥ svayam api pravṛttir upapadyata eveti

Sanskrit only: no published translation is held for this verse.

अत्रापरम् अपि च नैव वयम् इह वेदाध्ययनात् पूर्वं धर्मजिज्ञासायाः प्रतिषेधं शिष्मः इति भाष्यं, तस्यार्थम् आह -- नैवेति। ये एते पूर्वकल्पिते वचोभङ्गी तयोर् एको ऽप्य् अर्थो नानेन सूत्रेण विवक्ष्यते[१०४]किन् तु वेदाध्ययनम्। अनन्तरम् उभयम् उपनिपतति,[१०५]यदर्थो विचारयितव्यः यच् चाधीत्य स्नायाद् इति १,३७ स्मृतिवचनबलेन गुरु[१०६]कुलसकाशाद् अपवर्तनम्। तत्रासमावृत्तः कथं नाम वेदार्थं विचारयेद् इत्य् एवम् अर्थम् इदं सूत्रम् इत्य् अपिचेत्यादिकेनोक्तम् इति

atrāparam api ca naiva vayam iha vedādhyayanāt pūrvaṃ dharmajijñāsāyāḥ pratiṣedhaṃ śiṣmaḥ iti bhāṣyaṃ, tasyārtham āha -- naiveti. ye ete pūrvakalpite vacobhaṅgī tayor eko 'py artho nānena sūtreṇa vivakṣyate[104]kin tu vedādhyayanam. anantaram ubhayam upanipatati,[105]yadartho vicārayitavyaḥ yac cādhītya snāyād iti 1,37 smṛtivacanabalena guru[106]kulasakāśād apavartanam. tatrāsamāvṛttaḥ kathaṃ nāma vedārthaṃ vicārayed ity evam artham idaṃ sūtram ity apicetyādikenoktam iti

Sanskrit only: no published translation is held for this verse.

इदं च भाष्यं न्यूनं मन्यमानैः[१०७][१०८]कैश्चिद् अध्याहृत्य व्याख्यातं,[१०९]ततस् तम् उपन्यस्यति -- आनन्तर्यम् इति। अस्य हि सूत्रस्य गुरुकुलवासावसाननिवृत्तिपरत्वाद् अध्ययनम् आनन्तर्यं चोभयम् अपि न विवक्षितम्। भाष्यं तु यथाश्रुतम्[११०]अध्ययनविधान[१११]निषेधमात्रपरम्[११२]उपलभ्यते। अतो नापि परस्तादानन्तर्यं शिष्म इत्य् अध्याहृत्योभयवचनव्यक्तिनिषेधार्थतया व्याख्येयम् इति

idaṃ ca bhāṣyaṃ nyūnaṃ manyamānaiḥ[107][108]kaiścid adhyāhṛtya vyākhyātaṃ,[109]tatas tam upanyasyati -- ānantaryam iti. asya hi sūtrasya gurukulavāsāvasānanivṛttiparatvād adhyayanam ānantaryaṃ cobhayam api na vivakṣitam. bhāṣyaṃ tu yathāśrutam[110]adhyayanavidhāna[111]niṣedhamātraparam[112]upalabhyate. ato nāpi parastādānantaryaṃ śiṣma ity adhyāhṛtyobhayavacanavyaktiniṣedhārthatayā vyākhyeyam iti

Sanskrit only: no published translation is held for this verse.

ननु नानन्वितपदार्थो वाक्यार्थः। न चेह[११३]सूत्रे तादृश्[११४]आनां पदार्थानाम् अन्वयो दृश्यते, येन गुरुकुलवासावसाननिवृत्तिः प्रतीयेत। प्रत्युताध्ययनानन्तर्ययोर् एव श्रुत्या विधानम् उपलभ्यते। ततस् तद् एव युक्तम् अत आह -- न वार्यत इति। अनधीतवेदस्य सर्वक्रियास्वशक्तस्यानधिकाराद् धर्मजिज्ञासा दैवाद् एव वारिता, किं तन्निवृत्त्यर्थेनाध्ययनविधानेन। आनन्तर्यम् अपि न मन्वादिवददृष्टार्थम् उपदिश्यते। नचादृष्टार्थोपदेशी जैमिनिर् इत्य् उक्तम्। अतो दृष्टार्थाध्ययनानन्तर्यबलेन गुरुकुलवासावसाननिवृत्तिर् लक्षणयाश्रीयत इति

nanu nānanvitapadārtho vākyārthaḥ. na ceha[113]sūtre tādṛś[114]ānāṃ padārthānām anvayo dṛśyate, yena gurukulavāsāvasānanivṛttiḥ pratīyeta. pratyutādhyayanānantaryayor eva śrutyā vidhānam upalabhyate. tatas tad eva yuktam ata āha -- na vāryata iti. anadhītavedasya sarvakriyāsvaśaktasyānadhikārād dharmajijñāsā daivād eva vāritā, kiṃ tannivṛttyarthenādhyayanavidhānena. ānantaryam api na manvādivadadṛṣṭārtham upadiśyate. nacādṛṣṭārthopadeśī jaiminir ity uktam. ato dṛṣṭārthādhyayanānantaryabalena gurukulavāsāvasānanivṛttir lakṣaṇayāśrīyata iti

Sanskrit only: no published translation is held for this verse.

एवम् अध्याहारपक्षम् उपन्यस्य दूषयति -- आनन्तर्येति। अयम् अभिप्रायः -- श्रुतार्थानुपपत्त्यैव हि लक्षणा भवति। यदि चानन्तर्यवचनव्यक्तिर् नाश्रिता, किं लक्षणाया बीजम्। तस्माद् आनन्तर्यवचनव्यक्तिम् आश्रित्यैव श्रौतार्थपरिग्रहे दृष्टार्थत्वप्रसक्तेर् लक्षणार्थो लक्षणया विषयीकृतो ऽर्थः स्नानाभावो विधीयते। यथाश्रुतभाष्यस्वरसभङ्गश् चैवं सति न भविष्यतीति

evam adhyāhārapakṣam upanyasya dūṣayati -- ānantaryeti. ayam abhiprāyaḥ -- śrutārthānupapattyaiva hi lakṣaṇā bhavati. yadi cānantaryavacanavyaktir nāśritā, kiṃ lakṣaṇāyā bījam. tasmād ānantaryavacanavyaktim āśrityaiva śrautārthaparigrahe dṛṣṭārthatvaprasakter lakṣaṇārtho lakṣaṇayā viṣayīkṛto 'rthaḥ snānābhāvo vidhīyate. yathāśrutabhāṣyasvarasabhaṅgaś caivaṃ sati na bhaviṣyatīti

Sanskrit only: no published translation is held for this verse.

१,३८ केन पुनः सम्बन्धेनानन्तर्यम् उपदिष्टं स्नानाभावं लक्षयतीत्य् अत आह -- प्रतीतेति। अयम् अभिप्रायः -- विरोधिसद्भावो हो विरोध्यन्तरनिवृत्त्या व्याप्तः। तद् यदैव वेदाध्ययनानन्तरा धर्मजिज्ञासा प्राप्ता[११५]भवति, तदैवाध्ययनानन्तरकालस्य तया व्याप्तत्वात् तत्परिपन्थि स्नानं निवर्तते। न हि गुरुगृहादनावृत्तः स्नाति। न च समावृत्तो धर्मं जिज्ञासितुम् ईष्टे। यथैव गुरुणा विनाध्ययनं न सिध्यति, तथैवार्थज्ञानम् अपि। अतो ऽध्ययनानन्तरं धर्मजिज्ञासा कार्येत्युक्ते सत्य् आनन्तर्यस्वरूपे दृष्तार्थत्वप्रसक्तेः स्नानाभावलक्षणा युक्तेति

1,38 kena punaḥ sambandhenānantaryam upadiṣṭaṃ snānābhāvaṃ lakṣayatīty ata āha -- pratīteti. ayam abhiprāyaḥ -- virodhisadbhāvo ho virodhyantaranivṛttyā vyāptaḥ. tad yadaiva vedādhyayanānantarā dharmajijñāsā prāptā[115]bhavati, tadaivādhyayanānantarakālasya tayā vyāptatvāt tatparipanthi snānaṃ nivartate. na hi gurugṛhādanāvṛttaḥ snāti. na ca samāvṛtto dharmaṃ jijñāsitum īṣṭe. yathaiva guruṇā vinādhyayanaṃ na sidhyati, tathaivārthajñānam api. ato 'dhyayanānantaraṃ dharmajijñāsā kāryetyukte saty ānantaryasvarūpe dṛṣtārthatvaprasakteḥ snānābhāvalakṣaṇā yukteti

Sanskrit only: no published translation is held for this verse.

१,४५ अत्रोच्यते -- स्वाध्यायो ऽध्येतव्यः स्वाध्यायम् अधीयीतेति च विस्पष्टं स्वाध्यायस्याध्ययनकर्मत्वम् अवगम्यते। न च सक्तुवद् विनियोगभङ्गो युक्तः। सक्तवो हि भूतभाव्युपयोगरहिता न संस्कारम् अर्हन्ति। न च तथा स्वाध्यायः, भाव्युपयोगित्वात्। इह ह्य् अध्ययनानन्तरम् अक्षरग्रहणं, ततः पदावधारणं, ततः पदार्थस्मरणं, ततो वाक्यार्थ[१३७]ज्ञानं, ततो ऽनुष्ठानं, ततो ऽभ्युदय इति परम्परया पुरुषार्थ[१३८]प्रयोजनप्रतिलम्भेन विपरिवृत्त्याध्ययनमात्रान्[१३९]नादृष्टकल्पनावकाशः। यावद् धि विप्रकृष्टम् अपि दृष्टम् उपलभ्यते, तावत् तद् एवानुसरणीयम्। तद् इह ब्राह्मणवाक्येषु प्रधानवाक्यानां फलवत्कर्मावबोधनं फलम्, अङ्गवाक्यानां तु सन्निपत्योपकारकाराद् उपकारकदृष्टादृष्टार्थेतिकर्तव्यताप्रकाशनम्। अर्थवादानां च विध्यपेक्षितविषयप्राशस्त्यप्रतिपादनम्। उद्भिदादीनां च[१४०]नाम्नां गुणफलविधानम्। उपनिषदां तु साम्परायिकफलोपभोगोचितचेतनकर्तृप्रतिपादनद्वारेण सकलवेदप्रामाण्यप्रतिपादनम् इत्य् ऊहनीयम्। मन्त्राणां च केषाञ्चिदनुष्ठीयमानपदार्थप्रकाशनम्। येषां तु न दृष्टं प्रयोजनं तेषां क्रतुपुरुषार्थादृष्टकल्पना। न च तददृष्टार्थत्वेनान्यत्रापि दृश्यमानप्रयोजनपरित्यागो युक्तः। स्वाध्याया[१४१]ध्ययनविध्यध्यापितस्य[१४२]मन्त्रब्राह्मणस्य प्रयोजनकल्पनावसरे यथाशक्ति प्रयोजन[१४३]कल्पनैव युक्ता। तत्र हुमादीनां दृष्टप्रयोजनासम्भवे जपब्रह्मयज्ञादाव् अदृष्टार्थता। दृष्टं चैकप्रयोगविधिगोचराणां[१४४]दृष्टादृष्टप्रयोजनत्वं प्रोक्षणावघातादीनाम्। अतो नावश्यमैकरूप्यम्[१४५]एव सर्वत्रैवास्थेयम्। तद् एष पूर्वोत्तरपक्षसंक्षेपा[१४६]र्थः -- पारलौकिकादृष्टफलत्वाद् अध्ययनस्य नार्थज्ञानपर्यन्तो ऽध्ययनविध्यर्थ इति नावश्यम् अनन्तरं वेदार्थो मीमांसितव्यः। अतो न स्नानस्मृत्यध्ययनविध्योर् विरोधः। अविरुद्धं च न दुर्बलम् अपि बाधम् अर्हतीति पूर्वः पक्षः। सिद्धान्तस् तु - स्वाध्यायस्याध्ययन[१४७]संस्कार्यत्वावगमादधीतेन स्वाध्यायेन किं कुर्याद् इत्यपेक्षिते योग्यत्वेनार्थज्ञाने स्वाध्यायस्य विनियोगात्, तस्य चैहिकत्वाद् अनन्तरं दृश्यमानत्वाच् च न व्यवहितामुष्मिकादृष्टस्वर्गफलकल्पना युक्तेत्यधीतेन स्वाध्यायेनार्थं जानीयाद् इति करणीभूतस्य वेदस्यानुग्राहकापेक्षायां, १,४६ योग्यत्वेनेतिकर्तव्यतांशोपनिपातिनी मीमांसाध्ययनानन्तरम् उपनिपतन्ती स्वकालोपनिपातिना स्नानेन विरुध्यत इति श्रुतिबलीयस्त्वेन युक्तः स्नानस्मृतेर् बाध इति सूक्तं स्नानस्य तेन बाधः स्याद् इति

1,45 atrocyate -- svādhyāyo 'dhyetavyaḥ svādhyāyam adhīyīteti ca vispaṣṭaṃ svādhyāyasyādhyayanakarmatvam avagamyate. na ca saktuvad viniyogabhaṅgo yuktaḥ. saktavo hi bhūtabhāvyupayogarahitā na saṃskāram arhanti. na ca tathā svādhyāyaḥ, bhāvyupayogitvāt. iha hy adhyayanānantaram akṣaragrahaṇaṃ, tataḥ padāvadhāraṇaṃ, tataḥ padārthasmaraṇaṃ, tato vākyārtha[137]jñānaṃ, tato 'nuṣṭhānaṃ, tato 'bhyudaya iti paramparayā puruṣārtha[138]prayojanapratilambhena viparivṛttyādhyayanamātrān[139]nādṛṣṭakalpanāvakāśaḥ. yāvad dhi viprakṛṣṭam api dṛṣṭam upalabhyate, tāvat tad evānusaraṇīyam. tad iha brāhmaṇavākyeṣu pradhānavākyānāṃ phalavatkarmāvabodhanaṃ phalam, aṅgavākyānāṃ tu sannipatyopakārakārād upakārakadṛṣṭādṛṣṭārthetikartavyatāprakāśanam. arthavādānāṃ ca vidhyapekṣitaviṣayaprāśastyapratipādanam. udbhidādīnāṃ ca[140]nāmnāṃ guṇaphalavidhānam. upaniṣadāṃ tu sāmparāyikaphalopabhogocitacetanakartṛpratipādanadvāreṇa sakalavedaprāmāṇyapratipādanam ity ūhanīyam. mantrāṇāṃ ca keṣāñcidanuṣṭhīyamānapadārthaprakāśanam. yeṣāṃ tu na dṛṣṭaṃ prayojanaṃ teṣāṃ kratupuruṣārthādṛṣṭakalpanā. na ca tadadṛṣṭārthatvenānyatrāpi dṛśyamānaprayojanaparityāgo yuktaḥ. svādhyāyā[141]dhyayanavidhyadhyāpitasya[142]mantrabrāhmaṇasya prayojanakalpanāvasare yathāśakti prayojana[143]kalpanaiva yuktā. tatra humādīnāṃ dṛṣṭaprayojanāsambhave japabrahmayajñādāv adṛṣṭārthatā. dṛṣṭaṃ caikaprayogavidhigocarāṇāṃ[144]dṛṣṭādṛṣṭaprayojanatvaṃ prokṣaṇāvaghātādīnām. ato nāvaśyamaikarūpyam[145]eva sarvatraivāstheyam. tad eṣa pūrvottarapakṣasaṃkṣepā[146]rthaḥ -- pāralaukikādṛṣṭaphalatvād adhyayanasya nārthajñānaparyanto 'dhyayanavidhyartha iti nāvaśyam anantaraṃ vedārtho mīmāṃsitavyaḥ. ato na snānasmṛtyadhyayanavidhyor virodhaḥ. aviruddhaṃ ca na durbalam api bādham arhatīti pūrvaḥ pakṣaḥ. siddhāntas tu - svādhyāyasyādhyayana[147]saṃskāryatvāvagamādadhītena svādhyāyena kiṃ kuryād ityapekṣite yogyatvenārthajñāne svādhyāyasya viniyogāt, tasya caihikatvād anantaraṃ dṛśyamānatvāc ca na vyavahitāmuṣmikādṛṣṭasvargaphalakalpanā yuktetyadhītena svādhyāyenārthaṃ jānīyād iti karaṇībhūtasya vedasyānugrāhakāpekṣāyāṃ, 1,46 yogyatvenetikartavyatāṃśopanipātinī mīmāṃsādhyayanānantaram upanipatantī svakālopanipātinā snānena virudhyata iti śrutibalīyastvena yuktaḥ snānasmṛter bādha iti sūktaṃ snānasya tena bādhaḥ syād iti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यं दृष्टार्थता चाध्ययनस्यानन्तर्ये व्याहन्येत, लक्षणया त्व् एषो ऽर्थः स्याद् इति। तदध्ययनदृष्टार्थताप्रतिपादनस्य पुनरुक्तत्वाल् लक्षणया त्व् एषो ऽर्थः स्याद् इति चाविज्ञायमानार्थत्वात् कैश्चिद् व्याख्यातृभिस् त्यक्तम्। तत् तावद् आह दृष्टार्थेति कैश्चिदन्तेन। स्वयं तु चिरन्तनलेख्येषु विद्यमानत्वात् समाधत्ते -- तद् उच्यत इति। अयम् अभिप्रायः -- पूर्वं हि न चाधीतवेदस्येत्यादिभाष्येण पूर्वकालतामात्रं क्त्वाप्रत्ययेनोच्यते, नानन्तर्यम्। न च तदध्ययनदृष्टार्थत्वे विरुध्यत इति स्मृत्या सहाविरोधो दर्शितः। इदानीं तु यद्य् अप्य् आनन्तर्यवचनः क्त्वाशब्दः, तथापि समस्तस्मृत्यर्थपरिग्रहे वेदविरोधाद् वरं लक्षणेति। पौर्वापर्यविशेष आनन्तर्ये उक्ते तदन्तर्गतपूर्वकालतामात्रम् अध्ययनस्य लक्ष्यते। एवं हि दृष्टार्थाध्ययनेन सहाविरोधो भवतीति

atra bhāṣyaṃ dṛṣṭārthatā cādhyayanasyānantarye vyāhanyeta, lakṣaṇayā tv eṣo 'rthaḥ syād iti. tadadhyayanadṛṣṭārthatāpratipādanasya punaruktatvāl lakṣaṇayā tv eṣo 'rthaḥ syād iti cāvijñāyamānārthatvāt kaiścid vyākhyātṛbhis tyaktam. tat tāvad āha dṛṣṭārtheti kaiścidantena. svayaṃ tu cirantanalekhyeṣu vidyamānatvāt samādhatte -- tad ucyata iti. ayam abhiprāyaḥ -- pūrvaṃ hi na cādhītavedasyetyādibhāṣyeṇa pūrvakālatāmātraṃ ktvāpratyayenocyate, nānantaryam. na ca tadadhyayanadṛṣṭārthatve virudhyata iti smṛtyā sahāvirodho darśitaḥ. idānīṃ tu yady apy ānantaryavacanaḥ ktvāśabdaḥ, tathāpi samastasmṛtyarthaparigrahe vedavirodhād varaṃ lakṣaṇeti. paurvāparyaviśeṣa ānantarye ukte tadantargatapūrvakālatāmātram adhyayanasya lakṣyate. evaṃ hi dṛṣṭārthādhyayanena sahāvirodho bhavatīti

Sanskrit only: no published translation is held for this verse.

अपरम् अपि स्मृत्या सहाविरोधप्रकारम् आह -- ग्रन्थेति। अधीत्येति इङो रूपे विरोधः नेण इति। इदं चान्वारुह्यवचनम् इति नातीवादरणीयं। इङो हि नित्यसहचरितो ऽधिशब्द एकदेशभूतः, न हि तस्य केवलस्य प्रयोगो दृष्टपूर्वः। अत इङो रूपे समुदायप्रासिद्धिः। इणस् त्व् अवयवप्रसिद्धिः। सा च समुदायप्रसिद्धेर् दुर्बला। स्वाध्यायाध्ययनाधिकारे चाधीत्येति श्रुतं तद्विषयम् एवावगम्यत इत्य् अतो ऽपि नाधिगमार्थ[१४८]कल्पना युक्तेति

aparam api smṛtyā sahāvirodhaprakāram āha -- grantheti. adhītyeti iṅo rūpe virodhaḥ neṇa iti. idaṃ cānvāruhyavacanam iti nātīvādaraṇīyaṃ. iṅo hi nityasahacarito 'dhiśabda ekadeśabhūtaḥ, na hi tasya kevalasya prayogo dṛṣṭapūrvaḥ. ata iṅo rūpe samudāyaprāsiddhiḥ. iṇas tv avayavaprasiddhiḥ. sā ca samudāyaprasiddher durbalā. svādhyāyādhyayanādhikāre cādhītyeti śrutaṃ tadviṣayam evāvagamyata ity ato 'pi nādhigamārtha[148]kalpanā yukteti

Sanskrit only: no published translation is held for this verse.

१,४७ अत्र भाष्यं न चेदं स्नानम् अदृष्टार्थं विधीयते इति। तद् व्याचष्टे -- यस् त्व् इति। यो हि श्रुतिस्मृत्योर् एवम् अविरोधो भवतीति गुरुगेहादनावृत्तस्याप्लवनमात्रम् अधीत्य स्नायाद् इति प्रयाजादिवत् प्रधानम् अदृष्टार्थं विधीयते। अथवा मन्त्राद्युपेतम् अध्ययनस्य प्रधानकर्मणः प्रोक्षणादिवददृष्टार्थं नरसंस्काररूपं स्नानं विधीयत इति मन्यते, तस्य वक्ष्यमाणम् उत्तरम् इति

1,47 atra bhāṣyaṃ na cedaṃ snānam adṛṣṭārthaṃ vidhīyate iti. tad vyācaṣṭe -- yas tv iti. yo hi śrutismṛtyor evam avirodho bhavatīti gurugehādanāvṛttasyāplavanamātram adhītya snāyād iti prayājādivat pradhānam adṛṣṭārthaṃ vidhīyate. athavā mantrādyupetam adhyayanasya pradhānakarmaṇaḥ prokṣaṇādivadadṛṣṭārthaṃ narasaṃskārarūpaṃ snānaṃ vidhīyata iti manyate, tasya vakṣyamāṇam uttaram iti

Sanskrit only: no published translation is held for this verse.

तद् इदानीम् उत्तरम् आह - इहेति[१४९]द्वयेन। ब्रह्मचारिणो हि न स्नायाद् इत्य् अस्नानादिनियम उक्तः। न च तत्र कस्यचिद् अवधित्वम् आश्रितम्। अतो ऽसौ कियन्तं कालम् इति भवत्य् अवसानापेक्षेति। यद्य् एवं ततः किम् अत आह -- तत इति। अपेक्षितविधौ दृष्टार्थत्वम्। इतरथादृष्टार्थं स्नानविधानम्। न च दृष्टे सम्भवति तद् युक्तम्। अतो ऽपेक्षावशादस्नानादिनियमनिवृत्तिम् एव अधीत्य स्नायाद् इति स्नानं लक्षयति। तद् धि अस्नानविरोधि स्नानं, विरोधिसत्ता च विरोध्यन्तरनिवृत्त्या व्याप्ता। अतः स्नानेनास्नाननियमनिवृत्तिलक्षणा युक्तैव। तत्सहचरिताश् च गुरुकुलवासादय इति तन्निवृत्त्या तेषाम् अपि निवृत्तिर् लक्ष्यत इति। ननु युक्तं विरोधिनोः सहासम्भवात् स्नानेनास्नाननिवृत्तिर् लक्ष्यत इति। गुरुकुलवासादिधर्मनिवृत्तौ (?कृ।कु)तो हेतुः। यच् चास्नानादिनियमसहचरितो गुरुकुलवासादिस् तन्निवृत्त्या निवर्त्यत इत्य् उक्तं तद् अयुक्तम्। प्रमाणान्तरगोचरे हि विषये तद् युक्तम्। यथा लोके भोजनकाले केवलस्थलपरिमार्जनोपदेशे स्थला(दी)नि परिमृज्यन्ताम् इति भवति तत्सहचरितनिखिलभोजनोपकरणशङ्खशुक्तिकादिपरिमार्जनोपदेशः। श्रुतिस्मृत्योस् तु यावदुपात्तमात्रविषयत्वात् सहचरितादिग्रहणम् अन्याय्यम्। उच्यते -- स्याद् एवं यदि श्रुतिमूलेयम् अधीत्य स्नायाद् इति स्मृतिः १,४८ स्यात्। इयं तु न्यायमूला। न्यायश् च सकलब्रह्मचारिधर्मनिवृत्तौ समानः। कः पुनर् असौ। श्रूयताम्। ब्रह्मचारिधर्मा हि गुरुकुलवासादयो ऽध्ययनाङ्गम् अध्ययनसमाप्तौ समाप्यन्ते इष्टिसमाप्ताव् इव व्रतम् इति न्यायः। अतो ऽस्नाननियमनिवृत्तिमूलेन सकलाग्नीन्धनादिब्रह्मचारिधर्मपर्यवसानलक्षणा युक्तेति। इदं तु किन् तु लक्षणयेत्यादिभाष्येणोक्तम् इति वेदितव्यम्

tad idānīm uttaram āha - iheti[149]dvayena. brahmacāriṇo hi na snāyād ity asnānādiniyama uktaḥ. na ca tatra kasyacid avadhitvam āśritam. ato 'sau kiyantaṃ kālam iti bhavaty avasānāpekṣeti. yady evaṃ tataḥ kim ata āha -- tata iti. apekṣitavidhau dṛṣṭārthatvam. itarathādṛṣṭārthaṃ snānavidhānam. na ca dṛṣṭe sambhavati tad yuktam. ato 'pekṣāvaśādasnānādiniyamanivṛttim eva adhītya snāyād iti snānaṃ lakṣayati. tad dhi asnānavirodhi snānaṃ, virodhisattā ca virodhyantaranivṛttyā vyāptā. ataḥ snānenāsnānaniyamanivṛttilakṣaṇā yuktaiva. tatsahacaritāś ca gurukulavāsādaya iti tannivṛttyā teṣām api nivṛttir lakṣyata iti. nanu yuktaṃ virodhinoḥ sahāsambhavāt snānenāsnānanivṛttir lakṣyata iti. gurukulavāsādidharmanivṛttau (?kṛ/ku)to hetuḥ. yac cāsnānādiniyamasahacarito gurukulavāsādis tannivṛttyā nivartyata ity uktaṃ tad ayuktam. pramāṇāntaragocare hi viṣaye tad yuktam. yathā loke bhojanakāle kevalasthalaparimārjanopadeśe sthalā(dī)ni parimṛjyantām iti bhavati tatsahacaritanikhilabhojanopakaraṇaśaṅkhaśuktikādiparimārjanopadeśaḥ. śrutismṛtyos tu yāvadupāttamātraviṣayatvāt sahacaritādigrahaṇam anyāyyam. ucyate -- syād evaṃ yadi śrutimūleyam adhītya snāyād iti smṛtiḥ 1,48 syāt. iyaṃ tu nyāyamūlā. nyāyaś ca sakalabrahmacāridharmanivṛttau samānaḥ. kaḥ punar asau. śrūyatām. brahmacāridharmā hi gurukulavāsādayo 'dhyayanāṅgam adhyayanasamāptau samāpyante iṣṭisamāptāv iva vratam iti nyāyaḥ. ato 'snānaniyamanivṛttimūlena sakalāgnīndhanādibrahmacāridharmaparyavasānalakṣaṇā yukteti. idaṃ tu kin tu lakṣaṇayetyādibhāṣyeṇoktam iti veditavyam

Sanskrit only: no published translation is held for this verse.

प्रकरणार्थम् इदानीम् उपसंहरति -- तस्माद् इति। अयम् अर्थः -- यद् अध्ययनशब्दो ऽधिगमार्थ इति व्याख्यातं, यच् च स्नायादित्यस्नानादिनियमनिवृत्तिलक्षणार्थः स्नानशब्द इति, तथा अथातो धर्मजिज्ञासेति[१५०]धर्मजिज्ञासाक्रमवचनो ऽथशब्दो ऽध्ययनानन्तरोपनिपातिस्मार्तस्नानाभावलक्षणार्थ इति यद् उक्तं तत्र[१५१]च सर्वत्र दृष्टार्थत्वं हेतुर् इति

prakaraṇārtham idānīm upasaṃharati -- tasmād iti. ayam arthaḥ -- yad adhyayanaśabdo 'dhigamārtha iti vyākhyātaṃ, yac ca snāyādityasnānādiniyamanivṛttilakṣaṇārthaḥ snānaśabda iti, tathā athāto dharmajijñāseti[150]dharmajijñāsākramavacano 'thaśabdo 'dhyayanānantaropanipātismārtasnānābhāvalakṣaṇārtha iti yad uktaṃ tatra[151]ca sarvatra dṛṣṭārthatvaṃ hetur iti

Sanskrit only: no published translation is held for this verse.

अत्र चोदयति -- स्नात्वेतीत्यन्तेन। एवं ह्य् उक्तं दौर्बल्यं वेदबाधनाद् इति। एवं च वेदबाधो भवति यदि वेदार्थः सर्वथैवोपेक्ष्येत। यदि तु स्मृत्यनुरोधेनाध्ययनानन्तरं स्नात्वा सन्दिग्धं प्रयोजनवन्तं वेदार्थं बुध्यमानो जिज्ञासते, ततो न कश्चिद् वेदविरोधो दृश्यत इत्य् अविरोधिता स्नानस्येति। एवंवा[१५२]दिन उत्तरम् आह -- एवम् इति स्नानबाधनमन्तेन। अयम् अर्थः -- भवेद् अपि स्मृत्यनुरोधेनानन्तरं स्नानं यदि तावन्मात्रम् एव स्मृतं स्यात्। इह च[१५३]स्नानाद् उत्तरकालम् अपि नानाविधानि नित्यानि नैमित्तिकानि च कर्माणि स्मर्यन्ते। तद् यदि तान्य् अप्य् अनुरुध्यन्ते, ततो ऽत्यन्ताय वेदबाधः। न च तान्य् अप्य् अविचारितवेदार्थो यथावद् अनुष्ठातुम् ईष्टे। न चाविदुषो ऽधिकारो ऽस्ति। वक्ष्यति हि -- न चाविद्वान् विहितो ऽस्तीति। तदवश्यम् अनुरुध्यापि स्मृतिं कियत्य् अप्य् अध्वनि गत्वा पुनस् तद्बाधो वक्तव्यः। तद् वरम् अधीतवेदत्वेन विचारयोग्यत्वान्माणवकस्याध्ययनानन्तरम्[१५४]आगते काले १,४९ प्रथमोपनिपातिनो विरोधिनः स्नानस्यैव बाधनम्। अतो ऽनधीतवेदत्वेन यावन्नित्यनैमित्तिककर्मणो ऽनुष्ठानायोग्यः, तावद् अकुर्वन्न् अपि तानि न प्रत्यवैति। अधीतवेदतया योग्यो ऽकुर्वन् प्रत्यवेयात्। न चाविद्वान् कर्तुं शक्नोति। न चाविचारयन् जानातीत्यध्ययनानन्तरम्[१५५]एव धर्मजिज्ञासा युक्तेति। इदं चोत्तरवि[१५६]भवाद् उक्तम्। परमार्थतस् त्व् अध्ययनविध्यर्थसम्पादनाय प्रवृत्तो न प्राङ् मीमांसाश्रवणाद् विरन्तुम् अर्हतीत्यध्ययनविधिबलप्रभावित एवायम् अर्थः। न हि प्रधानम् अनङ्गम् अनुष्ठितं पर्यवस्यति। वक्ष्यति हि साङ्गं प्रधानम् ऐकशब्द्याद् इति

atra codayati -- snātvetītyantena. evaṃ hy uktaṃ daurbalyaṃ vedabādhanād iti. evaṃ ca vedabādho bhavati yadi vedārthaḥ sarvathaivopekṣyeta. yadi tu smṛtyanurodhenādhyayanānantaraṃ snātvā sandigdhaṃ prayojanavantaṃ vedārthaṃ budhyamāno jijñāsate, tato na kaścid vedavirodho dṛśyata ity avirodhitā snānasyeti. evaṃvā[152]dina uttaram āha -- evam iti snānabādhanamantena. ayam arthaḥ -- bhaved api smṛtyanurodhenānantaraṃ snānaṃ yadi tāvanmātram eva smṛtaṃ syāt. iha ca[153]snānād uttarakālam api nānāvidhāni nityāni naimittikāni ca karmāṇi smaryante. tad yadi tāny apy anurudhyante, tato 'tyantāya vedabādhaḥ. na ca tāny apy avicāritavedārtho yathāvad anuṣṭhātum īṣṭe. na cāviduṣo 'dhikāro 'sti. vakṣyati hi -- na cāvidvān vihito 'stīti. tadavaśyam anurudhyāpi smṛtiṃ kiyaty apy adhvani gatvā punas tadbādho vaktavyaḥ. tad varam adhītavedatvena vicārayogyatvānmāṇavakasyādhyayanānantaram[154]āgate kāle 1,49 prathamopanipātino virodhinaḥ snānasyaiva bādhanam. ato 'nadhītavedatvena yāvannityanaimittikakarmaṇo 'nuṣṭhānāyogyaḥ, tāvad akurvann api tāni na pratyavaiti. adhītavedatayā yogyo 'kurvan pratyaveyāt. na cāvidvān kartuṃ śaknoti. na cāvicārayan jānātītyadhyayanānantaram[155]eva dharmajijñāsā yukteti. idaṃ cottaravi[156]bhavād uktam. paramārthatas tv adhyayanavidhyarthasampādanāya pravṛtto na prāṅ mīmāṃsāśravaṇād virantum arhatītyadhyayanavidhibalaprabhāvita evāyam arthaḥ. na hi pradhānam anaṅgam anuṣṭhitaṃ paryavasyati. vakṣyati hi sāṅgaṃ pradhānam aikaśabdyād iti

Sanskrit only: no published translation is held for this verse.

एवं स्मृतिबाधम् उपपाद्यात्रैवाधिकरणम्[१५७]उदाहरति -- सो ऽयम् इति। इतिरिवार्थे। पाठक्रमस्येव श्रुतिक्रमस्यायथमर्थाद् बाधो ऽवगम्यत इत्य् अर्थः। उक्तं हि क्रमकोपाधिकरणे क्रमकोपो ऽर्थशब्दाभ्याम् -- (५।४।१) इति। अत्र हि अग्निहोत्रं जुहोति यवागूं पचतीत्य् उदाहृत्य विचारयिष्यते -- किं हुत्वा पक्तव्यम्, उत पक्त्वा होतव्यम् इति। अत्र[१५८]पाठप्रामा[१५९]ण्याद् हुत्वा पक्तव्यम् इति पूर्वपक्षित उक्तं पाठक्रमस्यार्थक्रमात् कोपो बाधः। अर्थवशेन ह्य् अत्र पाठक्रमो ऽतिक्रमितव्यः। यथापाठक्रमानुष्ठाने ह्य् अर्थो न संवर्तेत। होमार्थो हि पाकः। स होमाद् उत्तरम्[१६०]अनुष्ठितो ऽनर्थकः स्यात्। होमश् च हवनीयादृते न सिध्येत्। तस्माद् आदौ श्रपणं ततो होम इति। तद्वद् इहापि यद्य् अप्य् अध्ययनानन्तर्यरूपक्त्वाश्रुत्या स्नानस्य क्रमो ऽवगतः, तथाप्य् अध्ययनदृष्टार्थतासामर्थ्येन बाधितव्य इति। तत्परिग्रहे ऽध्ययनविध्यर्थ एव बाधितः स्यात्। श्रुतिक्रमो ऽप्य् अर्थानुसारेण[१६१]बाध्यत एव, अर्थार्थत्वात् सर्वस्येति क्रमकोपाधिकरणे टीकाकारेणोक्तम् इति। १,५० अधिकरणान्तरमत्रैवोदाहरति[१६२]- गुणप्रधानयोर् इति। वक्ष्यति -- अङ्गगुणविरोधे च तादर्थ्यात् (१२।२।२५) इति। अत्र च प्रधानभूतसुत्याकालानुरोधेनाङ्गभूतदीक्षणीयाकालबाधो वक्ष्यते, प्रधानार्थत्वाद् अङ्गानाम्। प्रधानविरोधे सत्यानर्थक्यात्। एवम् इहाप्य् अध्ययनस्नानयोः क्रममधीत्यस्नायाद् इति स्मृतिर् उपदिशति। क्रमश् च क्रमवताम् अङ्गम् इत्य्[१६३]अविवादं सर्ववादिनाम्।[१६४]तद् यद्य् एष क्रमो ऽनुरुध्येत, ततः प्रधानभूतं दृष्टार्थम् अध्ययनम् एव बाधितं भवेत्। न च गुणानुरोधेन प्रधानबाधो युक्त इति

evaṃ smṛtibādham upapādyātraivādhikaraṇam[157]udāharati -- so 'yam iti. itirivārthe. pāṭhakramasyeva śrutikramasyāyathamarthād bādho 'vagamyata ity arthaḥ. uktaṃ hi kramakopādhikaraṇe kramakopo 'rthaśabdābhyām -- (5.4.1) iti. atra hi agnihotraṃ juhoti yavāgūṃ pacatīty udāhṛtya vicārayiṣyate -- kiṃ hutvā paktavyam, uta paktvā hotavyam iti. atra[158]pāṭhaprāmā[159]ṇyād hutvā paktavyam iti pūrvapakṣita uktaṃ pāṭhakramasyārthakramāt kopo bādhaḥ. arthavaśena hy atra pāṭhakramo 'tikramitavyaḥ. yathāpāṭhakramānuṣṭhāne hy artho na saṃvarteta. homārtho hi pākaḥ. sa homād uttaram[160]anuṣṭhito 'narthakaḥ syāt. homaś ca havanīyādṛte na sidhyet. tasmād ādau śrapaṇaṃ tato homa iti. tadvad ihāpi yady apy adhyayanānantaryarūpaktvāśrutyā snānasya kramo 'vagataḥ, tathāpy adhyayanadṛṣṭārthatāsāmarthyena bādhitavya iti. tatparigrahe 'dhyayanavidhyartha eva bādhitaḥ syāt. śrutikramo 'py arthānusāreṇa[161]bādhyata eva, arthārthatvāt sarvasyeti kramakopādhikaraṇe ṭīkākāreṇoktam iti. 1,50 adhikaraṇāntaramatraivodāharati[162]- guṇapradhānayor iti. vakṣyati -- aṅgaguṇavirodhe ca tādarthyāt (12.2.25) iti. atra ca pradhānabhūtasutyākālānurodhenāṅgabhūtadīkṣaṇīyākālabādho vakṣyate, pradhānārthatvād aṅgānām. pradhānavirodhe satyānarthakyāt. evam ihāpy adhyayanasnānayoḥ kramamadhītyasnāyād iti smṛtir upadiśati. kramaś ca kramavatām aṅgam ity[163]avivādaṃ sarvavādinām.[164]tad yady eṣa kramo 'nurudhyeta, tataḥ pradhānabhūtaṃ dṛṣṭārtham adhyayanam eva bādhitaṃ bhavet. na ca guṇānurodhena pradhānabādho yukta iti

Sanskrit only: no published translation is held for this verse.

एवं तावत् स्मृतेर् अत्यन्तबाधो भणितः। इदानीं[१६५]विरोधानुसारित्वाद् बाध्यबाधकभावस्य यावन्मात्रम् एव विरुध्यते तद् बाधितव्यम्। गुरुकुल[१६६]वासपरित्यागमात्रं च धर्मजिज्ञासापरिपन्थि, तदायत्तत्वात्[१६७]तस्याः, न मधुमांसादिसेवेति न[१६८]ते बाधितव्या इत्य् आह -- स्नानेति

evaṃ tāvat smṛter atyantabādho bhaṇitaḥ. idānīṃ[165]virodhānusāritvād bādhyabādhakabhāvasya yāvanmātram eva virudhyate tad bādhitavyam. gurukula[166]vāsaparityāgamātraṃ ca dharmajijñāsāparipanthi, tadāyattatvāt[167]tasyāḥ, na madhumāṃsādiseveti na[168]te bādhitavyā ity āha -- snāneti

Sanskrit only: no published translation is held for this verse.

तस्मात् स्मृत्येकदेशबाधो ऽयं न समस्तस्मृतेर्[१६९]बाध इत्य् आह -- तस्माद् इति

tasmāt smṛtyekadeśabādho 'yaṃ na samastasmṛter[169]bādha ity āha -- tasmād iti

Sanskrit only: no published translation is held for this verse.

नन्व् एवं परित्यक्ताग्नीन्धनादिब्रह्मचारिधर्मः स्नातको जात इति स्नातको नित्यं शुचिः सुगन्धिः स्नानशीलः इति विधिप्राप्तं मध्वादिसेवनवद् धर्मजिज्ञासायाम् अविरोधि यत् स्नानं तद् अपि क्रियताम्[१७०]अत आह -- गुरुगेहेति। सकलब्रह्मचारिधर्मनिवृत्तौ हि स्नातकशब्दः प्रयुक्तः, नाग्नीन्धनादिकतिपयधर्मनिवृत्तौ। अतो यावद् गुरुगेह[१७१]निवृत्तिर् मध्वादिसेवासमुदायस्यांशो न समाप्यते, तावत् स्नातक एव न भवतीति न स्नानम् १,५१ अस्नानादिनियमनिवृत्तिः पर्यवस्यति। स्नानं न प्राप्नोतीत्यर्थः। सकलब्रह्मचारिधर्मनिवृत्तिवाची स्नातकशब्द इति

nanv evaṃ parityaktāgnīndhanādibrahmacāridharmaḥ snātako jāta iti snātako nityaṃ śuciḥ sugandhiḥ snānaśīlaḥ iti vidhiprāptaṃ madhvādisevanavad dharmajijñāsāyām avirodhi yat snānaṃ tad api kriyatām[170]ata āha -- gurugeheti. sakalabrahmacāridharmanivṛttau hi snātakaśabdaḥ prayuktaḥ, nāgnīndhanādikatipayadharmanivṛttau. ato yāvad gurugeha[171]nivṛttir madhvādisevāsamudāyasyāṃśo na samāpyate, tāvat snātaka eva na bhavatīti na snānam 1,51 asnānādiniyamanivṛttiḥ paryavasyati. snānaṃ na prāpnotītyarthaḥ. sakalabrahmacāridharmanivṛttivācī snātakaśabda iti

Sanskrit only: no published translation is held for this verse.

व्याख्याय तद् एव प्रयोगानुसारेणाह -- गुरुगेहाद् इति। यावद् धि गुरुगेहान् न निवर्तते न निष्क्रामति, तावत् स्नातको न कथ्यते। अतो न स्नातकधर्मं लभत इति। यद्य् एवं तर्हि मा स्नातु, दारपरिग्रहं किन् तु न करोति। उपात्तदारो ऽपि[१७२]गुरौ निवसन् धर्मं जिज्ञासत एव,[१७३]अत आह -- तद् इति। गुरुगेहान्निष्क्रान्तस्य कृतमन्त्राद्युपेतस्नानस्य तत्र स्नानात् परो दारसङ्ग्रहो विहितः स्नातकः सदृशीं भार्यां विन्देत इति। तत् कथम् अकृतस्नानस्य भवेद् इति

vyākhyāya tad eva prayogānusāreṇāha -- gurugehād iti. yāvad dhi gurugehān na nivartate na niṣkrāmati, tāvat snātako na kathyate. ato na snātakadharmaṃ labhata iti. yady evaṃ tarhi mā snātu, dāraparigrahaṃ kin tu na karoti. upāttadāro 'pi[172]gurau nivasan dharmaṃ jijñāsata eva,[173]ata āha -- tad iti. gurugehānniṣkrāntasya kṛtamantrādyupetasnānasya tatra snānāt paro dārasaṅgraho vihitaḥ snātakaḥ sadṛśīṃ bhāryāṃ vindeta iti. tat katham akṛtasnānasya bhaved iti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यं वेदम् अधीत्य स्नायाद् गुरुकुलान् मा समावर्तिष्टेति। तदसङ्गतार्थम् इव लक्ष्यते। कथं हि वेदम् अधीत्य स्नायाद् गुरुकुलान् मा समावर्तिष्टेति। तद् विच्छिद्य योजयति -- व्याख्यायेति। पूर्वं हि न चेदं स्नानम् अदृष्टार्थम् इत्यादिना भाष्येण स्मृतिवाक्यं व्याख्याय पुनस् तद् एव कीर्तितम् अस्याः स्मृतेर् अयम् अर्थ इत्य् उक्तं भवति

atra bhāṣyaṃ vedam adhītya snāyād gurukulān mā samāvartiṣṭeti. tadasaṅgatārtham iva lakṣyate. kathaṃ hi vedam adhītya snāyād gurukulān mā samāvartiṣṭeti. tad vicchidya yojayati -- vyākhyāyeti. pūrvaṃ hi na cedaṃ snānam adṛṣṭārtham ityādinā bhāṣyeṇa smṛtivākyaṃ vyākhyāya punas tad eva kīrtitam asyāḥ smṛter ayam artha ity uktaṃ bhavati

Sanskrit only: no published translation is held for this verse.

नन्व् आनन्तर्याद् गुरुकुलान् मा समावर्तिष्टेत्यनेनैकग्रन्थो ऽवगम्यते। किं तत्परित्यागे कारणम्[१७४]अत आह -- समावर्तिष्टेति। न ह्य् आनन्तर्यम् एव सम्बन्धे कारणम्। अपि तर्हि, योग्यतापि। इह च विरोधाद् आनन्तर्ये ऽप्य् असम्बन्ध इति

nanv ānantaryād gurukulān mā samāvartiṣṭetyanenaikagrantho 'vagamyate. kiṃ tatparityāge kāraṇam[174]ata āha -- samāvartiṣṭeti. na hy ānantaryam eva sambandhe kāraṇam. api tarhi, yogyatāpi. iha ca virodhād ānantarye 'py asambandha iti

Sanskrit only: no published translation is held for this verse.

अथापनीतं कथं व्याख्येयम् अत आह -- अथशब्देनेति। पूर्वं हि गुरुकुलवासावसानबाधनार्थो ऽथशब्द इति व्याख्यातं गुरुकुलान् मा १,५२ समावर्तिष्ट कथं वेदवाक्यानि विचारयेद् इत्यादिना भाष्येण। न च तत्र हेतुर् उक्त इति स्मृतिदृष्टार्थताप्रसङ्गेन मनसि विपरिवर्तमानो ऽभिहितः। अथशब्दो ह्य् आनन्तर्यपरत्वे ऽदृष्टार्थः स्याद् इति तत्परिहाराय गुरुकुलान् मा समावर्तिष्टेत्य् एवंअपरो व्याख्या[१७५]यत इति। यद् वा गुरुकुलवासनिवृत्तिमात्रं बाध्यते न कृत्स्नस्मृत्यर्थ इति, तत्रायं हेतुर् इत्य् आह -- तन्मात्रस्येति

athāpanītaṃ kathaṃ vyākhyeyam ata āha -- athaśabdeneti. pūrvaṃ hi gurukulavāsāvasānabādhanārtho 'thaśabda iti vyākhyātaṃ gurukulān mā 1,52 samāvartiṣṭa kathaṃ vedavākyāni vicārayed ityādinā bhāṣyeṇa. na ca tatra hetur ukta iti smṛtidṛṣṭārthatāprasaṅgena manasi viparivartamāno 'bhihitaḥ. athaśabdo hy ānantaryaparatve 'dṛṣṭārthaḥ syād iti tatparihārāya gurukulān mā samāvartiṣṭety evaṃaparo vyākhyā[175]yata iti. yad vā gurukulavāsanivṛttimātraṃ bādhyate na kṛtsnasmṛtyartha iti, tatrāyaṃ hetur ity āha -- tanmātrasyeti

Sanskrit only: no published translation is held for this verse.

एतद् एव विवृणोति -- स्मृतिप्राप्तम् इति। इदानीम् अधीते वेदे ऽधीत्य स्नायाद् इति स्मृतिप्राप्तं मध्वादिसेवनं प्रतिषेधयन् सूत्रकारो ऽदृष्टार्थोपदेशी स्यात् तेषां धर्मजिज्ञासायाम् अविरोधात्। न च तद् युक्तम् इति

etad eva vivṛṇoti -- smṛtiprāptam iti. idānīm adhīte vede 'dhītya snāyād iti smṛtiprāptaṃ madhvādisevanaṃ pratiṣedhayan sūtrakāro 'dṛṣṭārthopadeśī syāt teṣāṃ dharmajijñāsāyām avirodhāt. na ca tad yuktam iti

Sanskrit only: no published translation is held for this verse.

यस् तु स्मृतेर् अविरोधं वदन्न् एवम् आह -- स्मृतिवशाद् अनन्तरं स्नात्वा गुरुगेहं प्रविश्य धर्मो विचारयिष्यते तन् न कश्चिद् विरोधः स्याद् इति, तं प्रत्याह -- निवृत्येति। निर्गत्य हि पुनः प्रवेशो ऽदृष्टार्थः स्याद् इति। पूर्वं चेदम् उद्भाष्यम् एव परिचोद्यान्यथा परिहृतम्। इदानीं भाष्या[१७६]नुसारेणादृष्टार्थतया परिह्रियते इत्य् अपौनरुक्त्यम्

yas tu smṛter avirodhaṃ vadann evam āha -- smṛtivaśād anantaraṃ snātvā gurugehaṃ praviśya dharmo vicārayiṣyate tan na kaścid virodhaḥ syād iti, taṃ pratyāha -- nivṛtyeti. nirgatya hi punaḥ praveśo 'dṛṣṭārthaḥ syād iti. pūrvaṃ cedam udbhāṣyam eva paricodyānyathā parihṛtam. idānīṃ bhāṣyā[176]nusāreṇādṛṣṭārthatayā parihriyate ity apaunaruktyam

Sanskrit only: no published translation is held for this verse.

ननु कथं प्रवेशो ऽदृष्टार्थः स्यात्, तस्य हि विचारो दृष्टम् एव प्रयोजनम् अत आह -- निर्गम इति। कृतार्थस्य निर्गमो निस्सरणं दृष्टार्थं स्यात्। इतरथादृष्टार्थम्। अतो निर्गत्यप्रवेशो ऽदृष्टार्थ इति वदता निवृत्तेर् अदृष्टार्थत्वम् उक्तं भवति

nanu kathaṃ praveśo 'dṛṣṭārthaḥ syāt, tasya hi vicāro dṛṣṭam eva prayojanam ata āha -- nirgama iti. kṛtārthasya nirgamo nissaraṇaṃ dṛṣṭārthaṃ syāt. itarathādṛṣṭārtham. ato nirgatyapraveśo 'dṛṣṭārtha iti vadatā nivṛtter adṛṣṭārthatvam uktaṃ bhavati

Sanskrit only: no published translation is held for this verse.

अतश् शब्दम् इदानीम् अनुसन्धत्ते -- अथेति। यदैवाथशब्देन दृष्टार्थम् १,५३ आनन्तर्यम् उपदिष्टं, तदैव क्रियामात्रानन्तर्यस्यादृष्टार्थत्वाद् वेदग्रहणं वेदार्थनिर्णये हेतुर् इत्य् उक्तम्[१७७]एवेति किम् अतश् शब्देनेति

ataś śabdam idānīm anusandhatte -- atheti. yadaivāthaśabdena dṛṣṭārtham 1,53 ānantaryam upadiṣṭaṃ, tadaiva kriyāmātrānantaryasyādṛṣṭārthatvād vedagrahaṇaṃ vedārthanirṇaye hetur ity uktam[177]eveti kim ataś śabdeneti

Sanskrit only: no published translation is held for this verse.

परिहरति -- योग्यत्वम् इति। आनन्तर्योपदेशाद् वेदाध्ययनेन धर्मज्ञाने योग्यो भवतीति ज्ञायते, न तु तद्धेतुकैव[१७८]धर्मजिज्ञासेति

pariharati -- yogyatvam iti. ānantaryopadeśād vedādhyayanena dharmajñāne yogyo bhavatīti jñāyate, na tu taddhetukaiva[178]dharmajijñāseti

Sanskrit only: no published translation is held for this verse.

अतश् चैवंविधः पुरुषो धर्मज्ञाने[१७९]योग्य इत्य् एतावद् एवाथशब्देनोक्तं स्यात्, न हेतुविशेष इत्य् आह -- लक्षणम् इति। न च हेत्वन्तराभावात् पारिशेष्यसिद्धम् अध्ययनं शक्यं वक्तुम् इत्य् आह -- जिज्ञासाया इति

ataś caivaṃvidhaḥ puruṣo dharmajñāne[179]yogya ity etāvad evāthaśabdenoktaṃ syāt, na hetuviśeṣa ity āha -- lakṣaṇam iti. na ca hetvantarābhāvāt pāriśeṣyasiddham adhyayanaṃ śakyaṃ vaktum ity āha -- jijñāsāyā iti

Sanskrit only: no published translation is held for this verse.

धर्मफलार्थित्वाचार्यकयशःप्रभृति जिज्ञासाया हेतुत्वेन सम्भवति। तद्धेतुत्वे च धर्मजिज्ञासायाः शूद्राधिकारो दोष इति परिहारान्तरम् आह -- अतश् शब्द इति। अथशब्दो ह्य् आनन्तर्यम् उपदिशन् यद् वेदाध्ययनानन्तर्यम् उपदिशतीत्युक्तं, तद् वक्ष्यमाणातश् शब्दप्रतिपाद्यहेतुत्वबलेन। इतरथा त्व् अर्थान्तरवचनो ऽयम् अथशब्दः सम्भाव्येतेति

dharmaphalārthitvācāryakayaśaḥprabhṛti jijñāsāyā hetutvena sambhavati. taddhetutve ca dharmajijñāsāyāḥ śūdrādhikāro doṣa iti parihārāntaram āha -- ataś śabda iti. athaśabdo hy ānantaryam upadiśan yad vedādhyayanānantaryam upadiśatītyuktaṃ, tad vakṣyamāṇātaś śabdapratipādyahetutvabalena. itarathā tv arthāntaravacano 'yam athaśabdaḥ sambhāvyeteti

Sanskrit only: no published translation is held for this verse.

अन्यथा पौनरुक्त्यम् आह -- स्नानबाधस्येति। यद्य् अप्य् अथशब्देन वेदाध्ययनं धर्मजिज्ञासाया हेतुर् इति प्रतिपादितं, तथापि हेत्वन्तरवचनत्वाद् अतश्शब्दो न पुनरुक्तः। स्नानबाधस्य हेतुत्वम् अतश्शब्दो वदति।[१८०]स्नानबाधहेतुम् आविष्करोति -- योग्यस्येति। अधीतवेदो हि १,५४ नित्यनैमित्तिकानुष्ठानयोग्यो[१८१]जातो यद्य्[१८२]अविद्वत्तया नानुतिष्ठेत्, प्रत्यवेयात्। अतो ऽधीतवेदत्वान् नावस्थातुं लभ्यते झटिति विद्वत्तायां यतितव्यम् इति

anyathā paunaruktyam āha -- snānabādhasyeti. yady apy athaśabdena vedādhyayanaṃ dharmajijñāsāyā hetur iti pratipāditaṃ, tathāpi hetvantaravacanatvād ataśśabdo na punaruktaḥ. snānabādhasya hetutvam ataśśabdo vadati.[180]snānabādhahetum āviṣkaroti -- yogyasyeti. adhītavedo hi 1,54 nityanaimittikānuṣṭhānayogyo[181]jāto yady[182]avidvattayā nānutiṣṭhet, pratyaveyāt. ato 'dhītavedatvān nāvasthātuṃ labhyate jhaṭiti vidvattāyāṃ yatitavyam iti

Sanskrit only: no published translation is held for this verse.

यादृशं प्रकृतेः स्पष्टं विकारं प्रति दृश्यते ॥ इति। तथा च नाप्रकृतिविकृत्योस् तादर्थ्यसमासो दृष्टचरः। अश्वधासादिषु षष्ठीसमासाश्रयणात्। वैयाकरणाख्यायां तु सत्य् अपि समासे ऽलुग्विधानाद् विभक्तिः श्रूयते इति युक्तम् एव वृत्तिविग्रहयोर् ऐक्यार्थ्यम् असत्य् अपि प्रकृतिविकृतिभावे। धर्मजिज्ञासापदसमासस् तु विवादास्पदीभूत एव। तस्माद् असमासो ऽयम्

yādṛśaṃ prakṛteḥ spaṣṭaṃ vikāraṃ prati dṛśyate || iti. tathā ca nāprakṛtivikṛtyos tādarthyasamāso dṛṣṭacaraḥ. aśvadhāsādiṣu ṣaṣṭhīsamāsāśrayaṇāt. vaiyākaraṇākhyāyāṃ tu saty api samāse 'lugvidhānād vibhaktiḥ śrūyate iti yuktam eva vṛttivigrahayor aikyārthyam asaty api prakṛtivikṛtibhāve. dharmajijñāsāpadasamāsas tu vivādāspadībhūta eva. tasmād asamāso 'yam

Sanskrit only: no published translation is held for this verse.

१,५६ एवम् आक्षिप्य समादधाति -- सा हीति। नायं चतुर्थीसमासः। किन् तु अश्वधासादिवत् षष्ठीसमास एवायम्। तथा हि सा हि तस्य ज्ञातुम् इच्छेति षष्ठ्यन्तेन तदा विगृह्णातीति। ननु धर्माय जिज्ञासेति विग्रहवचनं तत् कथं व्याख्येयम् अत आह - धर्मायेति। नेदं विग्रहवचनं, किन् तु षष्ठ्यर्थविशेषप्रदर्शनम् इति

1,56 evam ākṣipya samādadhāti -- sā hīti. nāyaṃ caturthīsamāsaḥ. kin tu aśvadhāsādivat ṣaṣṭhīsamāsa evāyam. tathā hi sā hi tasya jñātum iccheti ṣaṣṭhyantena tadā vigṛhṇātīti. nanu dharmāya jijñāseti vigrahavacanaṃ tat kathaṃ vyākhyeyam ata āha - dharmāyeti. nedaṃ vigrahavacanaṃ, kin tu ṣaṣṭhyarthaviśeṣapradarśanam iti

Sanskrit only: no published translation is held for this verse.

अथ चोदयति -- प्राप्नोतीति। तादर्थ्यरूपार्थविवक्षायां हि चतुर्थ्य् एव प्राप्नोति। सम्बन्धसामान्यविवक्षायां तु तादर्थ्यवचनं कथम् इति

atha codayati -- prāpnotīti. tādarthyarūpārthavivakṣāyāṃ hi caturthy eva prāpnoti. sambandhasāmānyavivakṣāyāṃ tu tādarthyavacanaṃ katham iti

Sanskrit only: no published translation is held for this verse.

परिहरति -- सम्बन्धमात्रेति। सूत्रकारेण हि सम्बन्धसामान्यविवक्षाया धर्मजिज्ञासेति षष्ठीसमासः प्रयुक्तः। निर्विशेषसामान्यानुपपत्तेस् तु विशेषाकाङ्क्षायां भाष्यकारेणैव तस्य सामान्यस्य तादर्थ्यरूपविशेषनिष्ठता वर्ण्यते, तेनायम् अपि न दोष इति

pariharati -- sambandhamātreti. sūtrakāreṇa hi sambandhasāmānyavivakṣāyā dharmajijñāseti ṣaṣṭhīsamāsaḥ prayuktaḥ. nirviśeṣasāmānyānupapattes tu viśeṣākāṅkṣāyāṃ bhāṣyakāreṇaiva tasya sāmānyasya tādarthyarūpaviśeṣaniṣṭhatā varṇyate, tenāyam api na doṣa iti

Sanskrit only: no published translation is held for this verse.

अत्रापरं धर्मजिज्ञासास्वरूपप्रदर्शनार्थं कान्यस्य साधनानि कानि साधनाभासानीति भाष्यम्। तत्र साधनाभासपदं व्याचष्टे -- साधनाभासतेति। पूर्वपक्षस्यार्थो धर्मस्य साधनाभासम् इति। कथं पुनः पूर्वपक्षस्यार्थः साधनाभासः, अत आह -- अन्यसाधनम् इति। अन्यस्य हि साधनम् अन्यस्य साधनवदवभासमानं साधनाभासं भवतीति

atrāparaṃ dharmajijñāsāsvarūpapradarśanārthaṃ kānyasya sādhanāni kāni sādhanābhāsānīti bhāṣyam. tatra sādhanābhāsapadaṃ vyācaṣṭe -- sādhanābhāsateti. pūrvapakṣasyārtho dharmasya sādhanābhāsam iti. kathaṃ punaḥ pūrvapakṣasyārthaḥ sādhanābhāsaḥ, ata āha -- anyasādhanam iti. anyasya hi sādhanam anyasya sādhanavadavabhāsamānaṃ sādhanābhāsaṃ bhavatīti

Sanskrit only: no published translation is held for this verse.

एतद् एवाभिव्यनक्ति -- क्रत्वर्थम् इति। क्रत्वर्थं हि पर्णमय्यादि १,५७ पुरुषार्थस्यापापश्लोकश्रवणादेर् उच्यमानं साधनाभासं भवति। पुरुषार्थं च गोदोहनादि क्रतोर् उच्यमानं तदाभासं भवतीति। अत्र भाष्यकारेण को धर्मः कथंलक्षणः इति चोदनासूत्रेण व्याख्यातम् इत्य् उक्त्वा कान्यस्य साधनानीत्यादि शेषलक्षणेन व्याख्यातम् इत्य् उक्तम्। तद् अयुक्तम् इव दृश्यते, शेषलक्षणशब्दो हि तृतीयाध्याये प्रसिद्धः। न च तत्र साधनादि सर्वं व्याख्यायते, अतः कथम् इत्य् आशङ्क्याह -- शेषलक्षणेति। नायं तृतीयाध्यायविवक्षया शेषलक्षणशब्दः प्रयुक्तः, किन् तु परिशिष्टसकलशास्त्रविवक्षया। अत एवैकवचनम् इति

etad evābhivyanakti -- kratvartham iti. kratvarthaṃ hi parṇamayyādi 1,57 puruṣārthasyāpāpaślokaśravaṇāder ucyamānaṃ sādhanābhāsaṃ bhavati. puruṣārthaṃ ca godohanādi krator ucyamānaṃ tadābhāsaṃ bhavatīti. atra bhāṣyakāreṇa ko dharmaḥ kathaṃlakṣaṇaḥ iti codanāsūtreṇa vyākhyātam ity uktvā kānyasya sādhanānītyādi śeṣalakṣaṇena vyākhyātam ity uktam. tad ayuktam iva dṛśyate, śeṣalakṣaṇaśabdo hi tṛtīyādhyāye prasiddhaḥ. na ca tatra sādhanādi sarvaṃ vyākhyāyate, ataḥ katham ity āśaṅkyāha -- śeṣalakṣaṇeti. nāyaṃ tṛtīyādhyāyavivakṣayā śeṣalakṣaṇaśabdaḥ prayuktaḥ, kin tu pariśiṣṭasakalaśāstravivakṣayā. ata evaikavacanam iti

Sanskrit only: no published translation is held for this verse.

अत्र भाष्यकारेण शास्त्रारम्भम् आक्षिपतोक्तम् -- धर्मः प्रसिद्धो ऽप्रसिद्धो वा स्यात्। यदि प्रसिद्धः, न जिज्ञास्यः। अथाप्रसिद्धः, नतराम् इति। तत्राभाववचनत्वान्नञः को ऽयम् आतिशायनिकः प्रत्ययः। न हि निषेधस्य स्वगतो विशेषः कश्चिद् अस्तीत्य् आशङ्क्याह -- प्रसिद्ध इति। सत्यम्। नाभावस्य स्वगतो विशेषः, तथापि निषेध्यतन्त्रत्वाद् निषेधस्य तदतिशयात् सो ऽप्य् अतिशेते इति। तद् इह प्रसिद्धे ज्ञानेच्छामात्रस्यैवाभावः, न ज्ञानस्य अप्रसिद्धे तु न ज्ञानं न चेच्छेति द्वयनिषेधाद् अतिशयो युक्तः। अशक्यत्वान् नेष्यते न ज्ञायते चेत्यर्थ इति

atra bhāṣyakāreṇa śāstrārambham ākṣipatoktam -- dharmaḥ prasiddho 'prasiddho vā syāt. yadi prasiddhaḥ, na jijñāsyaḥ. athāprasiddhaḥ, natarām iti. tatrābhāvavacanatvānnañaḥ ko 'yam ātiśāyanikaḥ pratyayaḥ. na hi niṣedhasya svagato viśeṣaḥ kaścid astīty āśaṅkyāha -- prasiddha iti. satyam. nābhāvasya svagato viśeṣaḥ, tathāpi niṣedhyatantratvād niṣedhasya tadatiśayāt so 'py atiśete iti. tad iha prasiddhe jñānecchāmātrasyaivābhāvaḥ, na jñānasya aprasiddhe tu na jñānaṃ na ceccheti dvayaniṣedhād atiśayo yuktaḥ. aśakyatvān neṣyate na jñāyate cetyartha iti

Sanskrit only: no published translation is held for this verse.

अत्र परिहारभाष्यं धर्मं प्रति विप्रतिपन्ना बहुविदः। स हि निःश्रेयसेन पुरुषं संयुनक्तीति, तद् व्याचष्टे -- जिज्ञास्य इति। सन्दिग्धस्य हि प्रयोजनवतो निर्णयाय मतिमन्तो यतन्ते। तथा च धर्मः। तस्माद् अयम् अपि जिज्ञास्यत इति

atra parihārabhāṣyaṃ dharmaṃ prati vipratipannā bahuvidaḥ. sa hi niḥśreyasena puruṣaṃ saṃyunaktīti, tad vyācaṣṭe -- jijñāsya iti. sandigdhasya hi prayojanavato nirṇayāya matimanto yatante. tathā ca dharmaḥ. tasmād ayam api jijñāsyata iti

Sanskrit only: no published translation is held for this verse.

कीदृशः पुनर्धर्मे संशयः किन्निमित्तो वा, अत आह -- स्वरूपादिष्व् इति। पूर्वं तावद् धर्मस्य स्वरूपादिषु मध्ये प्रमाणस्वरूपाभ्यां द्वेधा १,५८ विप्रतिपद्यते। विप्रतिपत्तिः क्रियते इति भावे[१९६]प्रत्ययः। वादिविप्रतिपत्तिश् च संशये निमित्तम् इति नैयायिकाः। तस्माद् एष संशयो भवति किं खलु धर्मे प्रमाणं, किंस्विद् योगिप्रत्यक्षम् उत चोदनेति। प्रमाणसंशयाद् एव तु स्वरूपसंशयः, किं यागादिर् धर्म[१९७]उत चैत्यवन्दनादीति। तद् अत्राद्यस्याध्यायस्य प्रथमपादे निर्णयः कार्य इत्य् आह -- पादेनेति। अत्र हि सम्भावितेतरप्रमाणनिषेधेन सम्भाविताप्रामाण्यनिषे[१९८]धेन च प्रामाण्यम् उपपादयिष्यते। तदुपपादनाच् च स्वरूपोपपादनम् अपि कृतं भवति। त्रिपाद्यां तु कथंलक्षण इत्य् अमुना प्रतिज्ञातः प्रमाणप्रकारो निरूप्यते। प्रामाण्यं त्व् इहैवोपपादितम्। अत एव पादावसाने इति प्रमाणत्वम् इदं प्रसिद्धम् इति वदति। अर्थवादाधिकरणे च सिद्धप्रमाण[१९९]भावस्य इति, प्रकारस्य तु तद्वतः प्रमाणाद् अनतिभेदात् कृत्स्नो ऽध्यायः प्रमाणलक्षणम् इत्य् आख्यायते इति

kīdṛśaḥ punardharme saṃśayaḥ kinnimitto vā, ata āha -- svarūpādiṣv iti. pūrvaṃ tāvad dharmasya svarūpādiṣu madhye pramāṇasvarūpābhyāṃ dvedhā 1,58 vipratipadyate. vipratipattiḥ kriyate iti bhāve[196]pratyayaḥ. vādivipratipattiś ca saṃśaye nimittam iti naiyāyikāḥ. tasmād eṣa saṃśayo bhavati kiṃ khalu dharme pramāṇaṃ, kiṃsvid yogipratyakṣam uta codaneti. pramāṇasaṃśayād eva tu svarūpasaṃśayaḥ, kiṃ yāgādir dharma[197]uta caityavandanādīti. tad atrādyasyādhyāyasya prathamapāde nirṇayaḥ kārya ity āha -- pādeneti. atra hi sambhāvitetarapramāṇaniṣedhena sambhāvitāprāmāṇyaniṣe[198]dhena ca prāmāṇyam upapādayiṣyate. tadupapādanāc ca svarūpopapādanam api kṛtaṃ bhavati. tripādyāṃ tu kathaṃlakṣaṇa ity amunā pratijñātaḥ pramāṇaprakāro nirūpyate. prāmāṇyaṃ tv ihaivopapāditam. ata eva pādāvasāne iti pramāṇatvam idaṃ prasiddham iti vadati. arthavādādhikaraṇe ca siddhapramāṇa[199]bhāvasya iti, prakārasya tu tadvataḥ pramāṇād anatibhedāt kṛtsno 'dhyāyaḥ pramāṇalakṣaṇam ity ākhyāyate iti

Sanskrit only: no published translation is held for this verse.

एवमाद्यपादप्रयोजनमुक्त्वोपरितनतन्त्रप्रयोजनम् आह -- स्थित इति द्वयेन। अज्ञानाम् एकमार्ग[२००]दृश्वनां चासंशयाद् बहुविदां वाक्यार्थनिर्णये संशयान् न मतिर् उपजायते। प्रथमं तावद् विध्यर्थवादमन्त्रनाम्नाम् अर्थे प्रयोजने संशयः स्तुत्याद्युपयोगप्र[२०१]तिपादनेनार्थवादाधिकरणाद्यैर् अपनेष्यते। पुनश् च द्वितीये यजति ददाति जुहोतीत्यादिनां चार्थभेदाभावाद् भेदसंशयः शब्दान्तराधिकरणादिभिर् इत्य् एषा दिक्। अतः सन्दिग्धप्रयोजनवत्त्वात्[२०२]परम् अपि शास्त्रं प्रणेतव्यम् इति

evamādyapādaprayojanamuktvoparitanatantraprayojanam āha -- sthita iti dvayena. ajñānām ekamārga[200]dṛśvanāṃ cāsaṃśayād bahuvidāṃ vākyārthanirṇaye saṃśayān na matir upajāyate. prathamaṃ tāvad vidhyarthavādamantranāmnām arthe prayojane saṃśayaḥ stutyādyupayogapra[201]tipādanenārthavādādhikaraṇādyair apaneṣyate. punaś ca dvitīye yajati dadāti juhotītyādināṃ cārthabhedābhāvād bhedasaṃśayaḥ śabdāntarādhikaraṇādibhir ity eṣā dik. ataḥ sandigdhaprayojanavattvāt[202]param api śāstraṃ praṇetavyam iti

Sanskrit only: no published translation is held for this verse.