Library·Visnusarma: Pancatantra·4

Visnusarma: Pancatantra 4

एवं मत्त-करि-कर्ण-चञ्चलां राज्य-लक्ष्मीम् अवाप्य न्यायैक-निष्ठो भूत्वोपभुङ्क्ष्व । इति श्री-विष्णु-शर्म-विरचिते पञ्चतन्त्रे काकोलूकीयं नाम तृतीयं तन्त्रं समाप्तम् ॥३॥ चतुर्थ-तन्त्रम् अथ लब्ध-प्रणाशम् अथेदम् आरभते लब्ध-प्रणाशं नाम चतुर्थं तन्त्रम् । यस्यायम् आदिमः श्लोकः- समुत्पन्नेषु कार्येषु बुद्धिर् यस्य न हीयते । स एव दुर्गं तरति जलस्थो वानरो यथा

evaṃ matta-kari-karṇa-cañcalāṃ rājya-lakṣmīm avāpya nyāyaika-niṣṭho bhūtvopabhuṅkṣva | iti śrī-viṣṇu-śarma-viracite pañcatantre kākolūkīyaṃ nāma tṛtīyaṃ tantraṃ samāptam ||3|| caturtha-tantram atha labdha-praṇāśam athedam ārabhate labdha-praṇāśaṃ nāma caturthaṃ tantram | yasyāyam ādimaḥ ślokaḥ- samutpanneṣu kāryeṣu buddhir yasya na hīyate | sa eva durgaṃ tarati jalastho vānaro yathā

Sanskrit only: no published translation is held for this verse.

तद् यथानुश्रूयते- प्रस्तावना-कथा वानर-मकर-वृत्तान्तः अस्ति कस्मिंश्चित् समुद्रोपकण्ठे महान् जम्बू-पादपः सदा-फलः । तत्र च रक्तमुखो नाम वानरः प्रतिवसति स्म । तत्र च तस्य तरोर् अधः कदाचित् करालमुखो नाम मकरः समुद्र-सलिलान् निष्क्रम्य सुकोमल-बालुका-सनाथे तीरोपान्ते न्यविशत । ततश् च रक्तमुखेन स प्रोक्तः-भोः ! भवान् समभ्यागतो ऽतिथिः । तद् भक्षयतु मया दत्तान्य् अमृत-तुल्यानि जम्बू-फलानि । उक्तं च- प्रियो वा यदि वा द्वेष्यो मूर्खो वा यदि पण्डितः । वैश्वदेवान्तम् आपन्नः सो ऽतिथिः स्वर्ग-सङ्क्रमः

tad yathānuśrūyate- prastāvanā-kathā vānara-makara-vṛttāntaḥ asti kasmiṃścit samudropakaṇṭhe mahān jambū-pādapaḥ sadā-phalaḥ | tatra ca raktamukho nāma vānaraḥ prativasati sma | tatra ca tasya taror adhaḥ kadācit karālamukho nāma makaraḥ samudra-salilān niṣkramya sukomala-bālukā-sanāthe tīropānte nyaviśata | tataś ca raktamukhena sa proktaḥ-bhoḥ ! bhavān samabhyāgato 'tithiḥ | tad bhakṣayatu mayā dattāny amṛta-tulyāni jambū-phalāni | uktaṃ ca- priyo vā yadi vā dveṣyo mūrkho vā yadi paṇḍitaḥ | vaiśvadevāntam āpannaḥ so 'tithiḥ svarga-saṅkramaḥ

Sanskrit only: no published translation is held for this verse.

न पृच्छेच् चरणं गोत्रं न च विद्यां कुलं न च । अतिथिं वैश्वदेवान्ते श्राद्धे च मनुर् अब्रवीत्

na pṛcchec caraṇaṃ gotraṃ na ca vidyāṃ kulaṃ na ca | atithiṃ vaiśvadevānte śrāddhe ca manur abravīt

Sanskrit only: no published translation is held for this verse.

दूर-मार्ग-श्रम-श्रान्तं वैश्वदेवान्तम् आगतम् । अतिथिं पूजयेद् यस् तु स याति परमां गतिम्

dūra-mārga-śrama-śrāntaṃ vaiśvadevāntam āgatam | atithiṃ pūjayed yas tu sa yāti paramāṃ gatim

Sanskrit only: no published translation is held for this verse.

अपूजितो ऽतिथिर् यस्य गृहाद् याति विनिःश्वसन् । गच्छन्ति पितरस् तस्य विमुखाः सह दैवतैः

apūjito 'tithir yasya gṛhād yāti viniḥśvasan | gacchanti pitaras tasya vimukhāḥ saha daivataiḥ

Sanskrit only: no published translation is held for this verse.

एवम् उक्त्वा तस्मै जम्बू-फलानि ददौ । सो ऽपि तानि भक्षयित्वा तेन सह चिरं गोष्ठी-सुखम् अनुभूय भूयो ऽपि स्व-भवनम् अगात् । एवं नित्यम् एव तौ वानर-मकरौ जम्बू-च्छाया-स्थितौ विविध-शास्त्र-गोष्ठ्या कालं नयन्तौ सुखेन तिष्ठतः । सो ऽपि मकरो भक्षित-शेषाणि जम्बू-फलानि गृहं गत्वा स्व-पत्न्यै प्रयच्छति । अथान्यतमे दिवसे तया स पृष्टः-नाथ ! क्वैवंविधान्य् अमृत-फलानि प्राप्नोषि ? स आह-भद्रे ! ममास्ति परम-सुहृद् रक्तमुखो नाम वानरः । स प्रीति-पूर्वकम् इमानि फलानि प्रयच्छति । अथ तयाभिहितम्-यः सर्वदैवामृत-प्रायाणीदृशानि फलानि भक्षयति, तस्य हृदयम् अमृत-मयं भविष्यति । तद् यदि भार्यया ते प्रयोजनं, ततस् तस्य हृदयं मह्यं प्रयच्छ । येन तद् भक्षयित्वा जरा-मरण-रहिता त्वया सह भोगान् भुनज्मि । स आह-भद्रे ! मा मैवं वद । यतः स प्रतिपन्नो ऽस्माकं भ्राता । अपरं फल-दाता । ततो व्यापादयितुं न शक्यते । तत् त्यजैनं मिथाग्रहणम् । उक्तं च- एकं प्रसूयते माता द्वितीयं वाक् प्रसूयते । वाग्-जातम् अधिकं प्रोचुः सोदर्याद् अपि बान्धवात्

evam uktvā tasmai jambū-phalāni dadau | so 'pi tāni bhakṣayitvā tena saha ciraṃ goṣṭhī-sukham anubhūya bhūyo 'pi sva-bhavanam agāt | evaṃ nityam eva tau vānara-makarau jambū-cchāyā-sthitau vividha-śāstra-goṣṭhyā kālaṃ nayantau sukhena tiṣṭhataḥ | so 'pi makaro bhakṣita-śeṣāṇi jambū-phalāni gṛhaṃ gatvā sva-patnyai prayacchati | athānyatame divase tayā sa pṛṣṭaḥ-nātha ! kvaivaṃvidhāny amṛta-phalāni prāpnoṣi ? sa āha-bhadre ! mamāsti parama-suhṛd raktamukho nāma vānaraḥ | sa prīti-pūrvakam imāni phalāni prayacchati | atha tayābhihitam-yaḥ sarvadaivāmṛta-prāyāṇīdṛśāni phalāni bhakṣayati, tasya hṛdayam amṛta-mayaṃ bhaviṣyati | tad yadi bhāryayā te prayojanaṃ, tatas tasya hṛdayaṃ mahyaṃ prayaccha | yena tad bhakṣayitvā jarā-maraṇa-rahitā tvayā saha bhogān bhunajmi | sa āha-bhadre ! mā maivaṃ vada | yataḥ sa pratipanno 'smākaṃ bhrātā | aparaṃ phala-dātā | tato vyāpādayituṃ na śakyate | tat tyajainaṃ mithāgrahaṇam | uktaṃ ca- ekaṃ prasūyate mātā dvitīyaṃ vāk prasūyate | vāg-jātam adhikaṃ procuḥ sodaryād api bāndhavāt

Sanskrit only: no published translation is held for this verse.

अथ मकर्य् आह-त्वया कदाचिद् अपि मम वचनं नान्यथा कृतम् । तन् नूनं सा वानरी भविष्यति, यतस् तस्या अनुरागतः सकलम् अपि दिनं तत्र गमयसि । तत् त्वं ज्ञातो मया सम्यक् । यतः- साह्लादं वचनं प्रयच्छति न मे नो वाञ्छितं किञ्चन प्रायः प्रोच्छ्वसिषि द्रुतं हुतवह-ज्वाला समं रात्रिषु । कण्ठाश्लेष-परिग्रहे शिथिलता यन् नादराच् चुम्बसे तत् ते धूर्त हृदि स्थिता प्रियतमा काचिन् ममेवापरा

atha makary āha-tvayā kadācid api mama vacanaṃ nānyathā kṛtam | tan nūnaṃ sā vānarī bhaviṣyati, yatas tasyā anurāgataḥ sakalam api dinaṃ tatra gamayasi | tat tvaṃ jñāto mayā samyak | yataḥ- sāhlādaṃ vacanaṃ prayacchati na me no vāñchitaṃ kiñcana prāyaḥ procchvasiṣi drutaṃ hutavaha-jvālā samaṃ rātriṣu | kaṇṭhāśleṣa-parigrahe śithilatā yan nādarāc cumbase tat te dhūrta hṛdi sthitā priyatamā kācin mamevāparā

Sanskrit only: no published translation is held for this verse.

सो ऽपि पत्न्याः पादोपसङ्ग्रहं कृत्वाङ्कोपरि निधाय तस्याः कोप-कोटिम् आपन्नायाः सुदीनम् उवाच- मयि ते पाद-पतिते किङ्करत्वम् उपागते । त्वं प्राण-वल्लभे कस्मात् कोपने कोपम् एष्यसि

so 'pi patnyāḥ pādopasaṅgrahaṃ kṛtvāṅkopari nidhāya tasyāḥ kopa-koṭim āpannāyāḥ sudīnam uvāca- mayi te pāda-patite kiṅkaratvam upāgate | tvaṃ prāṇa-vallabhe kasmāt kopane kopam eṣyasi

Sanskrit only: no published translation is held for this verse.

सापि तद्-वचनम् आकर्ण्याश्रु-प्लुत-मुखी तम् उवाच- सार्धं मनोरथ-शतैस् तव धूर्त कान्ता सैव स्थिता मनसि कृत्रिम-भाव-रम्या । अस्माकम् अस्ति न कथञ्चिद् इहावकाशं तस्मात् कृतं चरण-पात-विडम्बनाभिः

sāpi tad-vacanam ākarṇyāśru-pluta-mukhī tam uvāca- sārdhaṃ manoratha-śatais tava dhūrta kāntā saiva sthitā manasi kṛtrima-bhāva-ramyā | asmākam asti na kathañcid ihāvakāśaṃ tasmāt kṛtaṃ caraṇa-pāta-viḍambanābhiḥ

Sanskrit only: no published translation is held for this verse.

अपरं सा यदि तव वल्लभा न भवति, तत् किं मया भणितो ऽपि तां न व्यापादयसि । अथ यदि स वानरस् तत् कस् तेन सह तव स्नेहः ? तत् किं बहुना ? यदि तस्य हृदयं न भक्षयामि, तन् मया प्रायोपवेशनं कृतं विद्धि । एवं तस्यास् तन् निश्चयं ज्ञात्वा चिन्ता-व्याकुलित-हृदयः स प्रोवाच-अथवा साध्व् इदम् उच्यते- वज्र-लेपस्य मूर्खस्य नारीणां कर्कटस्य च । एको ग्रहस् तु मीनानां नीली-मद्य-पयोस् तथा

aparaṃ sā yadi tava vallabhā na bhavati, tat kiṃ mayā bhaṇito 'pi tāṃ na vyāpādayasi | atha yadi sa vānaras tat kas tena saha tava snehaḥ ? tat kiṃ bahunā ? yadi tasya hṛdayaṃ na bhakṣayāmi, tan mayā prāyopaveśanaṃ kṛtaṃ viddhi | evaṃ tasyās tan niścayaṃ jñātvā cintā-vyākulita-hṛdayaḥ sa provāca-athavā sādhv idam ucyate- vajra-lepasya mūrkhasya nārīṇāṃ karkaṭasya ca | eko grahas tu mīnānāṃ nīlī-madya-payos tathā

Sanskrit only: no published translation is held for this verse.

तत् किं करोमि ? कथं स मे वध्यो भवति । इति विचिन्त्य वानर-पार्श्वम् अगमत् । वानरो ऽपि चिराद् आयान्तं तं सोद्वेगम् अवलोक्य प्रोवाच-भो मित्र ! किम् अद्य चिर-वेलायां समायातो ऽसि ? कस्मात् साह्लादं नालपसि ? न सुभाषितानि पठसि । स आह-मित्र ! अहं तव भ्रातृ-जायया निष्ठुरतरैर् वाक्यैर् अभिहितः-भोः कृतघ्न ! मा मे त्वं स्वमुखं दर्शय, यतस् त्वं प्रतिदिनं मित्रम् उपजीवसि । न च तस्य पुनः प्रत्युपकारं गृह-दर्शन-मात्रेणापि करोषि । तत् ते प्रायश्चित्तम् अपि नास्ति । उक्तं च- ब्रह्मघ्ने च सुरापे च चौरे भग्न-व्रते शठे । निष्कृतिर् विहिता सद्भिः कृतघ्ने नास्ति निष्कृतिः

tat kiṃ karomi ? kathaṃ sa me vadhyo bhavati | iti vicintya vānara-pārśvam agamat | vānaro 'pi cirād āyāntaṃ taṃ sodvegam avalokya provāca-bho mitra ! kim adya cira-velāyāṃ samāyāto 'si ? kasmāt sāhlādaṃ nālapasi ? na subhāṣitāni paṭhasi | sa āha-mitra ! ahaṃ tava bhrātṛ-jāyayā niṣṭhuratarair vākyair abhihitaḥ-bhoḥ kṛtaghna ! mā me tvaṃ svamukhaṃ darśaya, yatas tvaṃ pratidinaṃ mitram upajīvasi | na ca tasya punaḥ pratyupakāraṃ gṛha-darśana-mātreṇāpi karoṣi | tat te prāyaścittam api nāsti | uktaṃ ca- brahmaghne ca surāpe ca caure bhagna-vrate śaṭhe | niṣkṛtir vihitā sadbhiḥ kṛtaghne nāsti niṣkṛtiḥ

Sanskrit only: no published translation is held for this verse.

तत् त्वं मम देवरं गृहीत्वाद्य प्रत्युपकारार्थं गृहम् आनय । नो चेत् त्वया सह मे पर-लोके दर्शनम् इति । तद् अहं तयैवं प्रोक्तस् तव सकाशम् आगतः । तद् अद्य तया सह त्वद्-अर्थे कलहायतो ममेयती वेला विलग्ना । तद् आगच्छ मे गृहम् । तव भ्रातृ-पत्नी रचित-चतुष्का प्रगुणित-वस्त्र-मणि-माणिक्याद्य्-उचिताभरणा द्वार-देश-बद्ध-वन्दन-माला सोत्कण्ठा तिष्ठति । मर्कट आह-भो मित्र ! युक्तम् अभिहितं मद्-भ्रातृ-पत्न्या । उक्तं च- वर्जयेत् कौलिकाकारं मित्रं प्राज्ञतरो नरः । आत्मनः सम्मुखं नित्यं य आकर्षति लोलुपः

tat tvaṃ mama devaraṃ gṛhītvādya pratyupakārārthaṃ gṛham ānaya | no cet tvayā saha me para-loke darśanam iti | tad ahaṃ tayaivaṃ proktas tava sakāśam āgataḥ | tad adya tayā saha tvad-arthe kalahāyato mameyatī velā vilagnā | tad āgaccha me gṛham | tava bhrātṛ-patnī racita-catuṣkā praguṇita-vastra-maṇi-māṇikyādy-ucitābharaṇā dvāra-deśa-baddha-vandana-mālā sotkaṇṭhā tiṣṭhati | markaṭa āha-bho mitra ! yuktam abhihitaṃ mad-bhrātṛ-patnyā | uktaṃ ca- varjayet kaulikākāraṃ mitraṃ prājñataro naraḥ | ātmanaḥ sammukhaṃ nityaṃ ya ākarṣati lolupaḥ

Sanskrit only: no published translation is held for this verse.

तथा च- ददाति प्रतिगृह्णाति गुह्यम् आख्याति पृच्छति । भुङ्क्ते भोजयते चैव षड्-विधं प्रीति-लक्षणम्

tathā ca- dadāti pratigṛhṇāti guhyam ākhyāti pṛcchati | bhuṅkte bhojayate caiva ṣaḍ-vidhaṃ prīti-lakṣaṇam

Sanskrit only: no published translation is held for this verse.

परं वयं वनचराः युष्मदीयं च जलान्ते गृहम् । तत् कथं शक्यते तत्र गन्तुम् । तस्मात् ताम् अपि मे भ्रातृ-पत्नीम् अत्रानय येन प्रणम्य तस्या आशीर्वादं गृह्णामि । स आह-भो मित्र ! अस्ति समुद्रान्तरे सुरम्ये पुलिन-प्रदेशेऽस्मद्-गृहम् æ तन् मम पृष्ठम् आरूधः सुखेनाकृत-भयो गच्छ । सो ऽपि तच् छ्रुत्वा सानन्दम् आह-भद्र ! यद्य् एवं तत् किं विलम्ब्यते । त्वर्यताम् । एषो ऽहं तव पृष्ठाम् आरूढः । तथानुष्ठितेऽगाधे जलधौ गच्छन्तं मरकम् आलोक्य भय-त्रस्त-मना वानरः प्रोवाच-भ्रातः ! शनैः शनैर् गम्यताम् । जल-कल्लोलैः प्लाव्यते मे शरीरम् । तद् आकर्ण्य मकरश् चिन्तयामास-असाव् अगाधं जलं प्राप्तो मे वशः सञ्जातः । मत्-पृष्ठ-गतस् तिल-मात्रम् अपि चलितुं न शक्नोति । तस्मात् कथयाम्य् अस्य निजाभिप्रायम्, येनाभीष्ट-देवता-स्मरणं करोति । आह च-मित्र, त्वं मया वधाय समानीतो भार्या-वाक्येन विश्वास्य । तत् स्मर्यताम् अभीष्ट-देवता । स आह-भ्रातः ! किं मया तस्यास् तवापि चापकृतं येन मे वधोपायश् चिन्तितः ? मकर आह-भोः ! तस्यास् तावत् तव हृदयस्यामृतमय-फल-रसास्वादन-मृष्टस्य भक्षणे दोहदः सञ्जातः । तेनैतद् अनुष्ठितम् । प्रत्युत्पन्न-मतिर् वानर आह-भद्र ! यद्य् एवं तत् किं त्वया मम तत्रैव न व्याहृतम् ? येन स्व-हृदयं जम्बू-कोटरे सदैव मया सुगुप्तं कृतम् । तद् भ्रातृ-पत्न्या अर्पयामि । त्वयाहं शून्य-हृदयो ऽत्र कस्माद् आनीतः ? तद् आकर्ण्य मकरः सानन्दम् आह-भद्र ! यद्य् एवं तद् अर्पय मे हृदयम् । येन सा दुष्ट-पत्नी तद् भक्षयित्वानशनाद् उत्थिष्ठति । अहं त्वां तम् एव जम्बू-पादपं प्रापयामि । एवम् उक्त्वा निवर्त्य जम्बू-तलम् अगात् । वानरो ऽपि कथम् अपि जल्पित-विविध-देवतोपचार-पूजस् तीरम् आसादितवान् । ततश् च दीर्घतर-चङ्क्रमणेन तम् एव जम्बू-पादपम् आरूढश् चिन्तयामास-अहो ! लब्धास् तावत् प्राणाः । अथवा साध्व् इदम् उच्यते- न विश्वसेद् अविश्वस्ते विश्वस्तेऽपि न विश्वसेत् । विश्वासाद् भयम् उत्पन्नं मूलान्य् अपि निकृन्तति

paraṃ vayaṃ vanacarāḥ yuṣmadīyaṃ ca jalānte gṛham | tat kathaṃ śakyate tatra gantum | tasmāt tām api me bhrātṛ-patnīm atrānaya yena praṇamya tasyā āśīrvādaṃ gṛhṇāmi | sa āha-bho mitra ! asti samudrāntare suramye pulina-pradeśe'smad-gṛham æ tan mama pṛṣṭham ārūdhaḥ sukhenākṛta-bhayo gaccha | so 'pi tac chrutvā sānandam āha-bhadra ! yady evaṃ tat kiṃ vilambyate | tvaryatām | eṣo 'haṃ tava pṛṣṭhām ārūḍhaḥ | tathānuṣṭhite'gādhe jaladhau gacchantaṃ marakam ālokya bhaya-trasta-manā vānaraḥ provāca-bhrātaḥ ! śanaiḥ śanair gamyatām | jala-kallolaiḥ plāvyate me śarīram | tad ākarṇya makaraś cintayāmāsa-asāv agādhaṃ jalaṃ prāpto me vaśaḥ sañjātaḥ | mat-pṛṣṭha-gatas tila-mātram api calituṃ na śaknoti | tasmāt kathayāmy asya nijābhiprāyam, yenābhīṣṭa-devatā-smaraṇaṃ karoti | āha ca-mitra, tvaṃ mayā vadhāya samānīto bhāryā-vākyena viśvāsya | tat smaryatām abhīṣṭa-devatā | sa āha-bhrātaḥ ! kiṃ mayā tasyās tavāpi cāpakṛtaṃ yena me vadhopāyaś cintitaḥ ? makara āha-bhoḥ ! tasyās tāvat tava hṛdayasyāmṛtamaya-phala-rasāsvādana-mṛṣṭasya bhakṣaṇe dohadaḥ sañjātaḥ | tenaitad anuṣṭhitam | pratyutpanna-matir vānara āha-bhadra ! yady evaṃ tat kiṃ tvayā mama tatraiva na vyāhṛtam ? yena sva-hṛdayaṃ jambū-koṭare sadaiva mayā suguptaṃ kṛtam | tad bhrātṛ-patnyā arpayāmi | tvayāhaṃ śūnya-hṛdayo 'tra kasmād ānītaḥ ? tad ākarṇya makaraḥ sānandam āha-bhadra ! yady evaṃ tad arpaya me hṛdayam | yena sā duṣṭa-patnī tad bhakṣayitvānaśanād utthiṣṭhati | ahaṃ tvāṃ tam eva jambū-pādapaṃ prāpayāmi | evam uktvā nivartya jambū-talam agāt | vānaro 'pi katham api jalpita-vividha-devatopacāra-pūjas tīram āsāditavān | tataś ca dīrghatara-caṅkramaṇena tam eva jambū-pādapam ārūḍhaś cintayāmāsa-aho ! labdhās tāvat prāṇāḥ | athavā sādhv idam ucyate- na viśvased aviśvaste viśvaste'pi na viśvaset | viśvāsād bhayam utpannaṃ mūlāny api nikṛntati

Sanskrit only: no published translation is held for this verse.

तन् ममैतद् अद्य पुनर् जन्म-दिनम् इव सञ्जातम् । इति चिन्तयमानं मकर आह-भो मित्र ! अर्पय तद् धृदयं यथा ते भ्रातृ-पत्नी भक्षयित्वानशनाद् उत्तिष्ठति । अथ विहस्य निर्भर्त्सयन् वानरस् तम् आह-धिग् धिङ् मूर्ख विश्वास-घातक ! किं कस्यचिद् धृदय-द्वयं भवति ? तद् आशु गम्यतां जम्बू-वृक्षस्याधस्तान् न भूयो ऽपि त्वयात्रागन्तव्यम् । उक्तं च यतः- सकृद् दुष्टं च यो मित्रं पुनः सन्धातुम् इच्छति । स मृत्युम् उपगृह्णाति गर्भम् अश्वतरी यथा

tan mamaitad adya punar janma-dinam iva sañjātam | iti cintayamānaṃ makara āha-bho mitra ! arpaya tad dhṛdayaṃ yathā te bhrātṛ-patnī bhakṣayitvānaśanād uttiṣṭhati | atha vihasya nirbhartsayan vānaras tam āha-dhig dhiṅ mūrkha viśvāsa-ghātaka ! kiṃ kasyacid dhṛdaya-dvayaṃ bhavati ? tad āśu gamyatāṃ jambū-vṛkṣasyādhastān na bhūyo 'pi tvayātrāgantavyam | uktaṃ ca yataḥ- sakṛd duṣṭaṃ ca yo mitraṃ punaḥ sandhātum icchati | sa mṛtyum upagṛhṇāti garbham aśvatarī yathā

Sanskrit only: no published translation is held for this verse.

तच् छ्रुत्वा मकरः संविलक्षं चिन्तितवान्-अहो ! मयातिमूढेन किम् अस्य स्व-चित्ताभिप्रायो निवेदितः । तद् यद्य् असौ पुनर् अपि कथञ्चिद् विश्वासं गच्छति, तद् भूयो ऽपि विश्वासयामि । आह च-मित्र ! हास्येन मया तेऽभिप्रायो लब्धः । तस्या न किञ्चित् तव हृदयेन प्रयोजनम् । तद् आगच्छ प्राघुणिक-न्यायेनास्मद्-गृहम् । वानर आह-भो दुष्ट ! गम्यताम् । अधुना नाहम् आगमिष्यामि । उक्तं च- बुभुक्षितः किं न करोति पापं क्षीणा जना निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनर् एति कूपम्

tac chrutvā makaraḥ saṃvilakṣaṃ cintitavān-aho ! mayātimūḍhena kim asya sva-cittābhiprāyo niveditaḥ | tad yady asau punar api kathañcid viśvāsaṃ gacchati, tad bhūyo 'pi viśvāsayāmi | āha ca-mitra ! hāsyena mayā te'bhiprāyo labdhaḥ | tasyā na kiñcit tava hṛdayena prayojanam | tad āgaccha prāghuṇika-nyāyenāsmad-gṛham | vānara āha-bho duṣṭa ! gamyatām | adhunā nāham āgamiṣyāmi | uktaṃ ca- bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā janā niṣkaruṇā bhavanti | ākhyāhi bhadre priya-darśanasya na gaṅgadattaḥ punar eti kūpam

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? स आह- कथा १ गङ्गदत्त-प्रियदर्शन-कथा कस्मिंश्चित् कूपे गङ्गदत्तो नाम मण्डूक-राजः प्रतिवसति स्म । स कदाचिद् दायादैर् उद्वेजितो ऽरघट्ट-घटीम् आरुह्य निष्क्रान्तः । अथ तेन चिन्तितम्-यत् कथं तेसां दायादानां मया प्रत्यपकारः कर्तव्यः । उक्तं च- आपदि येनापकृतं येन च हसितं दशासु विषमासु । अपकृत्य तयोर् उभयोः पुनर् अपि जातं नरं मन्ये

makara āha-katham etat ? sa āha- kathā 1 gaṅgadatta-priyadarśana-kathā kasmiṃścit kūpe gaṅgadatto nāma maṇḍūka-rājaḥ prativasati sma | sa kadācid dāyādair udvejito 'raghaṭṭa-ghaṭīm āruhya niṣkrāntaḥ | atha tena cintitam-yat kathaṃ tesāṃ dāyādānāṃ mayā pratyapakāraḥ kartavyaḥ | uktaṃ ca- āpadi yenāpakṛtaṃ yena ca hasitaṃ daśāsu viṣamāsu | apakṛtya tayor ubhayoḥ punar api jātaṃ naraṃ manye

Sanskrit only: no published translation is held for this verse.

एवं चिन्तयन् बिले प्रविशन्तं कृष्णसर्पम् अपश्यत् । तं दृष्ट्वा भूयो ऽप्य् अचिन्तयत्-यद् एनं तत्र कूपे नीत्वा सकल-दायादानाम् उच्छेदं करोमि । उक्तं च- शत्रुभिर् योजयेच् छत्रुं बलिना बलवत्तरम् । स्व-कार्याय यतो न स्यात् काचित् पीडात्र तत्-क्षये

evaṃ cintayan bile praviśantaṃ kṛṣṇasarpam apaśyat | taṃ dṛṣṭvā bhūyo 'py acintayat-yad enaṃ tatra kūpe nītvā sakala-dāyādānām ucchedaṃ karomi | uktaṃ ca- śatrubhir yojayec chatruṃ balinā balavattaram | sva-kāryāya yato na syāt kācit pīḍātra tat-kṣaye

Sanskrit only: no published translation is held for this verse.

तथा च- शत्रुम् उन्मूलयेत् प्राज्ञस् तीक्ष्णं तीक्ष्णेन शत्रुणा । व्यथा-करं सुखार्थाय कण्टकेनैव कण्टकम्

tathā ca- śatrum unmūlayet prājñas tīkṣṇaṃ tīkṣṇena śatruṇā | vyathā-karaṃ sukhārthāya kaṇṭakenaiva kaṇṭakam

Sanskrit only: no published translation is held for this verse.

एवं स विभाव्य बिल-द्वारं गत्वा तम् आहूतवान्-एह्य् एहि प्रिय-दर्शन ! एहि ! तच् छ्रुत्वा सर्पश् चिन्तयामास-य एवं माम् आह्वयति । स्वजातीयो न भवति । यतो नैषा सर्प-वाणी । अन्येन केनापि सह मम मर्त्य-लोके सन्धानं नास्ति । तद् अत्रैव दुर्गे स्थितस् तावद् वेद्मि को ऽयं भविष्यति । उक्तं च- यस्य न जायते शीलं न कुलं न च संश्रयः । न तेन सङ्गतिं कुर्याद् इत्य् उवाच बृहस्पतिः

evaṃ sa vibhāvya bila-dvāraṃ gatvā tam āhūtavān-ehy ehi priya-darśana ! ehi ! tac chrutvā sarpaś cintayāmāsa-ya evaṃ mām āhvayati | svajātīyo na bhavati | yato naiṣā sarpa-vāṇī | anyena kenāpi saha mama martya-loke sandhānaṃ nāsti | tad atraiva durge sthitas tāvad vedmi ko 'yaṃ bhaviṣyati | uktaṃ ca- yasya na jāyate śīlaṃ na kulaṃ na ca saṃśrayaḥ | na tena saṅgatiṃ kuryād ity uvāca bṛhaspatiḥ

Sanskrit only: no published translation is held for this verse.

कदाचित्को ऽपि मन्त्रवाद्य् औषध-चतुरो वा माम् आहूय बन्धने क्षिपति । अथवा कश्चित् पुरुषो वैरम् आश्रित्य कस्यचिद् भक्षणार्थे माम् आह्वयति । आह च-भोः ! को भवान् ? स आह-अहं गङ्गदत्तो नाम मण्डूकाधिपतिस् त्वत्-सकाशे मैत्र्य्-अर्थम् अभ्यागतः । तच् छ्रुत्वा सर्प आह-भो ! अश्रद्धेयम् एतत् यत्-तृणानां वह्निना सह सङ्गमः । उक्तं च- यो यस्य जायते वध्यः स स्वप्नेऽपि कथञ्चन । न तत्-समीपम् अभ्येति तत् किम् एवं प्रजल्पसि

kadācitko 'pi mantravādy auṣadha-caturo vā mām āhūya bandhane kṣipati | athavā kaścit puruṣo vairam āśritya kasyacid bhakṣaṇārthe mām āhvayati | āha ca-bhoḥ ! ko bhavān ? sa āha-ahaṃ gaṅgadatto nāma maṇḍūkādhipatis tvat-sakāśe maitry-artham abhyāgataḥ | tac chrutvā sarpa āha-bho ! aśraddheyam etat yat-tṛṇānāṃ vahninā saha saṅgamaḥ | uktaṃ ca- yo yasya jāyate vadhyaḥ sa svapne'pi kathañcana | na tat-samīpam abhyeti tat kim evaṃ prajalpasi

Sanskrit only: no published translation is held for this verse.

गङ्गदत्त आह-भोः ! सत्यम् एतत् । स्वभाव-वैरी त्वम् अस्माकम् । परं पर-परिभवात् प्राप्तो ऽहं ते सकाशम् । उक्तं च- सर्व-नाशे च सञ्जाते प्राणानाम् अपि संशये । अपि शत्रुं प्रणम्यापि रक्षेत् प्राणान्धनानि च

gaṅgadatta āha-bhoḥ ! satyam etat | svabhāva-vairī tvam asmākam | paraṃ para-paribhavāt prāpto 'haṃ te sakāśam | uktaṃ ca- sarva-nāśe ca sañjāte prāṇānām api saṃśaye | api śatruṃ praṇamyāpi rakṣet prāṇāndhanāni ca

Sanskrit only: no published translation is held for this verse.

सर्प आह-कथय कस्मात् ते परिभवः । स आह-दायादेभ्यः । सो ऽप्य् आह-क्व ते आश्रयो वाप्यां कूपे तडागे ह्रदे वा । तत् कथय स्वाश्रयम् । तेनोक्तम्-पाषाण-चय-निबद्धे कूपे । सर्प आह-अहो अपदा वयम् । तत्रास्ति तत्र मे प्रवेशः । प्रविष्टस्य च स्थानं नास्ति । यत्र स्थितस् तव दायादान् व्यापादयामि । तद् गम्यताम् । उक्तं च- यच् छक्यं ग्रसितुं यस्य ग्रस्तं परिणमेच् च यत् । हितं च परिणामे यत् तद् आद्यं भूतिम् इच्छता

sarpa āha-kathaya kasmāt te paribhavaḥ | sa āha-dāyādebhyaḥ | so 'py āha-kva te āśrayo vāpyāṃ kūpe taḍāge hrade vā | tat kathaya svāśrayam | tenoktam-pāṣāṇa-caya-nibaddhe kūpe | sarpa āha-aho apadā vayam | tatrāsti tatra me praveśaḥ | praviṣṭasya ca sthānaṃ nāsti | yatra sthitas tava dāyādān vyāpādayāmi | tad gamyatām | uktaṃ ca- yac chakyaṃ grasituṃ yasya grastaṃ pariṇamec ca yat | hitaṃ ca pariṇāme yat tad ādyaṃ bhūtim icchatā

Sanskrit only: no published translation is held for this verse.

गङ्गदत्त आह-भोः ! समागच्छ त्वम् । अहं सुखोपायेन तत्र तव प्रवेशं कारयिष्यामि । तथा तस्य मध्ये जलोपान्ते रम्यतरं कोटरम् अस्ति । तत्र स्थितस् त्वं लीलया दायादान् व्यापादयिष्यसि । तच् छ्रुत्वा सर्पो व्यचिन्तयत्-अहं तावत् परिणत-वयाः । कदाचित् कथञ्चिन् मूषकम् एकं प्राप्नोमि । तत् सुखावहो जीवनोपायो ऽयम् अनेन कुलाङ्गारेण दर्शितः । तद् गत्वा तान् मण्डूकान् भक्षयामि इति । अथवा साध्व् इदम् उच्यते- यो हि प्राण-परिक्षीणः सहाय-परिवर्जितः । स हि सर्व-सुखोपायां वृत्तिम् आरचयेद् बुधः

gaṅgadatta āha-bhoḥ ! samāgaccha tvam | ahaṃ sukhopāyena tatra tava praveśaṃ kārayiṣyāmi | tathā tasya madhye jalopānte ramyataraṃ koṭaram asti | tatra sthitas tvaṃ līlayā dāyādān vyāpādayiṣyasi | tac chrutvā sarpo vyacintayat-ahaṃ tāvat pariṇata-vayāḥ | kadācit kathañcin mūṣakam ekaṃ prāpnomi | tat sukhāvaho jīvanopāyo 'yam anena kulāṅgāreṇa darśitaḥ | tad gatvā tān maṇḍūkān bhakṣayāmi iti | athavā sādhv idam ucyate- yo hi prāṇa-parikṣīṇaḥ sahāya-parivarjitaḥ | sa hi sarva-sukhopāyāṃ vṛttim āracayed budhaḥ

Sanskrit only: no published translation is held for this verse.

एवं विचिन्त्य तम् आह-भो गङ्गदत्त ! यद्य् एवं तद्-अग्रे भव । येन तत्र गच्छावः । गङ्गदत्त आह-भोः प्रियदर्शन ! अहं त्वां सुखोपायेन तत्र नेष्यामि, स्थानं च दर्शयिष्यामि त एव भक्षणीयाः इति । सर्प आह-साम्प्रतं त्वं मे मित्रं जातम् । तन् न भेतव्यम् । तव वचनेन भक्षण्यास् ते दायादाः । एवम् उक्त्वा बिलान् निष्क्रम्य तम् आलिङ्ग्य च तेनैव सह प्रस्थितः । अथ कूपम् आसाद्यार-घट्ट-घटिका-मार्गेण सर्पस् तेनात्मना स्वालयं नीतः । गङ्गदत्त आह-भद्र ! कुतः त्वया मित्र-कृत्यम् । तत् साम्प्रतम् अनेनैव घटिका-यन्त्र-मार्गेण गम्यताम् इति । सर्प आह-भो गङ्गदत्त ! न सम्यग् अभिहितं त्वया । कथम् अहं तत्र गच्छामि ? मदीय-बिल-दुर्गम् अन्येन रुद्धं भविष्यति । तस्माद् अत्र-स्थस्य मे मण्डूकम् एकैकं स्व-वर्गीयं प्रयच्छ । नो चेत् सर्वान् अपि भक्षयिष्यामि इति । तच् छ्रुत्वा गङ्गदत्तो व्याकुल-मना व्याचिन्तयत्-अहो किम् एतन् मया कृतं सर्पम् आनयता । तद् यदि निषेधयिष्यामि तत् सर्वान् अपि भक्षयिष्यति । अथवा युक्तम् उच्यते- यो ऽमित्रं कुरुते मित्रं वीर्याभ्यधिकम् आत्मनः । स करोति न सन्देहः स्वयं हि विष-भक्षणम्

evaṃ vicintya tam āha-bho gaṅgadatta ! yady evaṃ tad-agre bhava | yena tatra gacchāvaḥ | gaṅgadatta āha-bhoḥ priyadarśana ! ahaṃ tvāṃ sukhopāyena tatra neṣyāmi, sthānaṃ ca darśayiṣyāmi ta eva bhakṣaṇīyāḥ iti | sarpa āha-sāmprataṃ tvaṃ me mitraṃ jātam | tan na bhetavyam | tava vacanena bhakṣaṇyās te dāyādāḥ | evam uktvā bilān niṣkramya tam āliṅgya ca tenaiva saha prasthitaḥ | atha kūpam āsādyāra-ghaṭṭa-ghaṭikā-mārgeṇa sarpas tenātmanā svālayaṃ nītaḥ | gaṅgadatta āha-bhadra ! kutaḥ tvayā mitra-kṛtyam | tat sāmpratam anenaiva ghaṭikā-yantra-mārgeṇa gamyatām iti | sarpa āha-bho gaṅgadatta ! na samyag abhihitaṃ tvayā | katham ahaṃ tatra gacchāmi ? madīya-bila-durgam anyena ruddhaṃ bhaviṣyati | tasmād atra-sthasya me maṇḍūkam ekaikaṃ sva-vargīyaṃ prayaccha | no cet sarvān api bhakṣayiṣyāmi iti | tac chrutvā gaṅgadatto vyākula-manā vyācintayat-aho kim etan mayā kṛtaṃ sarpam ānayatā | tad yadi niṣedhayiṣyāmi tat sarvān api bhakṣayiṣyati | athavā yuktam ucyate- yo 'mitraṃ kurute mitraṃ vīryābhyadhikam ātmanaḥ | sa karoti na sandehaḥ svayaṃ hi viṣa-bhakṣaṇam

Sanskrit only: no published translation is held for this verse.

तत् प्रयच्छाम्य् अस्यैकैकं प्रतिदिनं सुहृदम् । उक्तं च- सर्वस्व-हरणे युक्तं शत्रुं बुद्धि-युता नराः । तोषयन्त्य् अल्प-दानेन बाडवं सागरो यथा

tat prayacchāmy asyaikaikaṃ pratidinaṃ suhṛdam | uktaṃ ca- sarvasva-haraṇe yuktaṃ śatruṃ buddhi-yutā narāḥ | toṣayanty alpa-dānena bāḍavaṃ sāgaro yathā

Sanskrit only: no published translation is held for this verse.

तथा च- यो दुर्बलो ऽणून् अपि याच्यमानो बलीयसा यच्छति नैव साम्ना । प्रयच्छते नैव च दर्श्यमानं खारीं स चूर्णस्य पुनर् ददाति

tathā ca- yo durbalo 'ṇūn api yācyamāno balīyasā yacchati naiva sāmnā | prayacchate naiva ca darśyamānaṃ khārīṃ sa cūrṇasya punar dadāti

Sanskrit only: no published translation is held for this verse.

तथा च- सर्व-नाशे समुत्पन्ने अर्धं त्यजति पण्डितः । अर्धेन कुरुते कार्यं सर्व-नाशो हि दुस्तरः

tathā ca- sarva-nāśe samutpanne ardhaṃ tyajati paṇḍitaḥ | ardhena kurute kāryaṃ sarva-nāśo hi dustaraḥ

Sanskrit only: no published translation is held for this verse.

न स्वल्पस्य कृते भूरि नाशयेन् मतिमान् नरः । एतद् एव हि पाण्डित्यं यत् स्वल्पाद् भूरि-रक्षणम्

na svalpasya kṛte bhūri nāśayen matimān naraḥ | etad eva hi pāṇḍityaṃ yat svalpād bhūri-rakṣaṇam

Sanskrit only: no published translation is held for this verse.

एवं निश्चिन्त्य नित्यम् एकैकम् आदिशति । सो ऽपि तं भक्षयित्वा तस्य परोक्षेऽन्यान् अपि भक्षयति । अथवा साध्व् इदम् उच्यते- यथा हि मलिनैर् वस्त्रैर् यत्र तत्रोपविश्यते । एवं चलित-वित्तस् तु वित्त-शेषं न रक्षति

evaṃ niścintya nityam ekaikam ādiśati | so 'pi taṃ bhakṣayitvā tasya parokṣe'nyān api bhakṣayati | athavā sādhv idam ucyate- yathā hi malinair vastrair yatra tatropaviśyate | evaṃ calita-vittas tu vitta-śeṣaṃ na rakṣati

Sanskrit only: no published translation is held for this verse.

अथान्य-दिने तेनापरान् मण्डूकान् भक्षयित्वा गङ्गदत्त-सुतो यमुनादत्तो भक्षितः । तं भक्षितं मत्वा गङ्गदत्तस् तार-स्वरेण धिग् धिक् प्रलाप-परः कथञ्चिद् अपि न विरराम । ततः स्व-पत्न्याभिहितः- किं क्रन्दसि दुराक्रन्द स्व-पक्ष-क्षय-कारक । स्व-पक्षस्य क्षये जाते को नस् त्राता भविष्यति

athānya-dine tenāparān maṇḍūkān bhakṣayitvā gaṅgadatta-suto yamunādatto bhakṣitaḥ | taṃ bhakṣitaṃ matvā gaṅgadattas tāra-svareṇa dhig dhik pralāpa-paraḥ kathañcid api na virarāma | tataḥ sva-patnyābhihitaḥ- kiṃ krandasi durākranda sva-pakṣa-kṣaya-kāraka | sva-pakṣasya kṣaye jāte ko nas trātā bhaviṣyati

Sanskrit only: no published translation is held for this verse.

तद् अद्यापि विचिन्त्यताम् आत्मनो निष्क्रमणम् अस्य वधोपायश् च । अथ गच्छता कालेन सकलम् अपि कवलितं मण्डूक-कुलम् । केवलम् एको गङ्गदत्तस् तिष्ठति । ततः प्रियदर्शनेन भणितम्-भोः गङ्गदत्त ! बुभुक्षितो ऽहम् । निःशेषिताः सर्वे मण्डूकाः । तद् दीयतां मे किञ्चिद् भोजनं यतो ऽहं त्वयात्रानीतः । स आह-भो मित्र ! न त्वयात्र विषये मयावस्थितेन कापि चिन्ता कार्या । तद् यदि मां प्रेषयति ततो ऽन्य-कूप-स्थान् अपि मण्डूकान् विश्वास्यात्रानयामि । स आह-मम तावत् त्वम् अभक्ष्यो भ्रातृ-स्थाने । तद् यद्य् एवं करोषि तत् साम्प्रतं पितृ-स्थाने भवसि । तद् एवं क्रियताम् इति । सो ऽपि तद् आकर्ण्यार-घट्ट-घटिकाम् आश्रित्य विविध-देवतोपकल्पित-पूजोपयाचितस् तत्-कूपाद् विनिष्क्रान्तः । प्रियदर्शनो ऽपि तद्-आकाङ्क्षया तत्रस्थः प्रतीक्षमाणस् तिष्ठति । अथ चिराद् अनागते गङ्गदत्ते प्रियदर्शनो ऽन्य-कोटर-निवासिनीं गोधाम् उवाच-भद्रे ! क्रियतां स्तोकं साहाय्यम् । यतश् चिर-परिचितस् ते गङ्गदत्तः । तद् गत्वा तत्-सकाशं कुत्रचिज् जलाशयेऽन्विष्य मम सन्देशं कथय । येनागम्यताम् एकाकिनापि भवता द्रुततरं यद्य् अन्ये मण्डूका नागच्छन्ति । अहं त्वया विना नात्र वस्तुं शक्नोमि । तथा यद्य् अहं तव विरुद्धम् आचरामि तत् सुकृतम् अन्तरे मया विधृतम् । गोधापि तद्-वचनाद् गङ्गदत्तं द्रुततरम् अन्विष्याह-भद्र गङ्गदत्त ! स तव सुहृत्-प्रियदर्शनस् तव मार्गं समीक्षमाणस् तिष्ठति । तच् छीघ्रम् आगम्यताम् इति । अपरं च तेन तव विरूप-करणे सुकृतम् अन्तरे धृतम् । तन्-निःशङेन मनसा समागम्यताम् । तद् आकर्ण्य गङ्गदत्त आह- बुभुक्षितः किं न करोति पापं क्षीणा नरा निष्करुणा भवन्ति । आख्याहि भद्रे प्रिय-दर्शनस्य न गङ्गदत्तः पुनर् एति कूपम्

tad adyāpi vicintyatām ātmano niṣkramaṇam asya vadhopāyaś ca | atha gacchatā kālena sakalam api kavalitaṃ maṇḍūka-kulam | kevalam eko gaṅgadattas tiṣṭhati | tataḥ priyadarśanena bhaṇitam-bhoḥ gaṅgadatta ! bubhukṣito 'ham | niḥśeṣitāḥ sarve maṇḍūkāḥ | tad dīyatāṃ me kiñcid bhojanaṃ yato 'haṃ tvayātrānītaḥ | sa āha-bho mitra ! na tvayātra viṣaye mayāvasthitena kāpi cintā kāryā | tad yadi māṃ preṣayati tato 'nya-kūpa-sthān api maṇḍūkān viśvāsyātrānayāmi | sa āha-mama tāvat tvam abhakṣyo bhrātṛ-sthāne | tad yady evaṃ karoṣi tat sāmprataṃ pitṛ-sthāne bhavasi | tad evaṃ kriyatām iti | so 'pi tad ākarṇyāra-ghaṭṭa-ghaṭikām āśritya vividha-devatopakalpita-pūjopayācitas tat-kūpād viniṣkrāntaḥ | priyadarśano 'pi tad-ākāṅkṣayā tatrasthaḥ pratīkṣamāṇas tiṣṭhati | atha cirād anāgate gaṅgadatte priyadarśano 'nya-koṭara-nivāsinīṃ godhām uvāca-bhadre ! kriyatāṃ stokaṃ sāhāyyam | yataś cira-paricitas te gaṅgadattaḥ | tad gatvā tat-sakāśaṃ kutracij jalāśaye'nviṣya mama sandeśaṃ kathaya | yenāgamyatām ekākināpi bhavatā drutataraṃ yady anye maṇḍūkā nāgacchanti | ahaṃ tvayā vinā nātra vastuṃ śaknomi | tathā yady ahaṃ tava viruddham ācarāmi tat sukṛtam antare mayā vidhṛtam | godhāpi tad-vacanād gaṅgadattaṃ drutataram anviṣyāha-bhadra gaṅgadatta ! sa tava suhṛt-priyadarśanas tava mārgaṃ samīkṣamāṇas tiṣṭhati | tac chīghram āgamyatām iti | aparaṃ ca tena tava virūpa-karaṇe sukṛtam antare dhṛtam | tan-niḥśaṅena manasā samāgamyatām | tad ākarṇya gaṅgadatta āha- bubhukṣitaḥ kiṃ na karoti pāpaṃ kṣīṇā narā niṣkaruṇā bhavanti | ākhyāhi bhadre priya-darśanasya na gaṅgadattaḥ punar eti kūpam

Sanskrit only: no published translation is held for this verse.

एवम् उक्त्वा स तां विसर्जयामास । तद् भो दुष्ट-जलचर ! अहम् अपि गङ्गदत्त इव त्वद्-गृहे न कथञ्चिद् अपि यास्यामि । तच् छ्रुत्वा मकर आह-भो मित्र ! अथवात्राहम् अनशनात् प्राण-त्यागं तवोपरि करिष्यामि । वानर आह-मूढ ! किम् अहं लम्बकर्णो मूर्खः ? दृष्ट्वापायो ऽपि स्वयम् एव तत्र गत्वात्मानं व्यापादयामि । आगतश् च गतश् चैव गत्वा यः पुनर् आगतः । अकर्ण-हृदयो मूर्खस् तत्रैव निधनं गतः

evam uktvā sa tāṃ visarjayāmāsa | tad bho duṣṭa-jalacara ! aham api gaṅgadatta iva tvad-gṛhe na kathañcid api yāsyāmi | tac chrutvā makara āha-bho mitra ! athavātrāham anaśanāt prāṇa-tyāgaṃ tavopari kariṣyāmi | vānara āha-mūḍha ! kim ahaṃ lambakarṇo mūrkhaḥ ? dṛṣṭvāpāyo 'pi svayam eva tatra gatvātmānaṃ vyāpādayāmi | āgataś ca gataś caiva gatvā yaḥ punar āgataḥ | akarṇa-hṛdayo mūrkhas tatraiva nidhanaṃ gataḥ

Sanskrit only: no published translation is held for this verse.

मकर आह-भद्र ! स को लम्भ-कर्णः । कथं दृष्टापायो ऽपि मृतः ? तन् मे निवेद्यताम् । वानर आह- कथा २ कराल-केसर-कथा कस्मिंश्चिद् वनोद्देशे कराल-केसरो नाम सिंहः प्रतिवसति स्म । तस्य च धूसरको नाम शृगालः सदैवानुयायी परिचारको ऽस्ति । अथ कदाचित् तस्य हस्तिना सह युध्यमानस्य शरीरे गुरुतराः प्रहाराः सञ्जाताः । यैः पदम् एकम् अपि चलितुं न शक्नोति । तस्याचलनाच् च धूसरकः क्षुत्क्षाम-कण्ठो दौर्बल्यं गतः । अन्यस्मिन्न् अहनि तम् अवोचत्-स्वामिन् ! बुभुक्षय पीडितो ऽहम् । पदात् पदम् अपि चलितुं न शक्नोमि । तत् कथं ते शुश्रूषां करोमि ? सिंह आह-भोः ! गच्छ अन्वेषय किञ्चित् सत्त्वम् । येनेमाम् अवस्थां गतो ऽपि व्यापादयामि । तद् आकर्ण्य शृगालो ऽन्वेषयन् कञ्चित् समीप-वर्तिनं ग्रामम् आसादितवान् । तत्र लम्बकर्णो नाम गर्दभस् तडागोपान्ते प्रविरल-दूर्वाङ्कुरान् कृच्छ्राद् आस्वादयन् दृष्टः । ततश् च समीप-वर्तिना भूत्वा तेनाभिहितः-माम ! नमस्कारो ऽयं मदीयः सम्भाव्यताम् । चिराद् दृष्टो ऽसि । तत् कथय किम् एवं दुर्बलतां गतः । स आह-भो भगिनी-पुत्र ! किं कथयामि । रजको ऽतिनिर्दयातिभारेण मां पीडयति । घास-मुष्टिम् अपि न प्रयच्छति । केवलं दूर्वाङ्कुरान् धूइ-मिश्रितान् भक्षयामि । तत् कुतो मे शरीरे पुष्टिः ? शृगाल आह-माम ! यद्य् एवं तद् अस्ति मरकत-सदृश-शष्प-प्रायो नदी-सनाथो रमणीयतरः प्रदेशः । तत्रागत्य मया सह सुभाषित-गोष्ठी-सुखम् अनुभवंस् तिष्ठ । लम्बकर्ण आह-भो भगिनी-सुत ! युक्तम् उक्तं भवता । परं वयं ग्राम्याः पशवो ऽरण्य-चारिणां वध्याः । तत् किं तेन भव्य-प्रदेशेन । शृगाल आह- माम ! मैवं वद । मद्-भुज-पञ्जर-परिरक्षितः स देशः । तत्रास्ति न कश्चिद् अपरस्य तत्र प्रवेशः । परमम् अनेनैव दोषेण रजक-कदर्थितास् तत्र तिस्रो रासभ्यो ऽनाथाः सन्ति । ताश् च पुष्टिम् आपन्ना यौवनोत्कटा इदं माम् ऊचुः-यदि त्वम् अस्माकं सत्यो मातुलस् तदा कंचिद् ग्रामान्तरं गत्वास्मद्-योग्यं कश्चित् पतिम् आनय । तद्-अर्थे त्वाम् अहं तत्र नयामि । अथ शृगाल-वचनानि श्रुत्वा काम-पीडिताङ्गस् तम् अवोचत्-भद्र ! यद्य् एवं तद्-अग्रे भव येनागच्छामि । अथवा साध्व् इदम् उच्यते- नामृतं न विषं किञ्चिद् एकां मुक्त्वा नितम्बिनीम् । यस्याः सङ्गेन जीव्येत म्रियते च वियोगतः

makara āha-bhadra ! sa ko lambha-karṇaḥ | kathaṃ dṛṣṭāpāyo 'pi mṛtaḥ ? tan me nivedyatām | vānara āha- kathā 2 karāla-kesara-kathā kasmiṃścid vanoddeśe karāla-kesaro nāma siṃhaḥ prativasati sma | tasya ca dhūsarako nāma śṛgālaḥ sadaivānuyāyī paricārako 'sti | atha kadācit tasya hastinā saha yudhyamānasya śarīre gurutarāḥ prahārāḥ sañjātāḥ | yaiḥ padam ekam api calituṃ na śaknoti | tasyācalanāc ca dhūsarakaḥ kṣutkṣāma-kaṇṭho daurbalyaṃ gataḥ | anyasminn ahani tam avocat-svāmin ! bubhukṣaya pīḍito 'ham | padāt padam api calituṃ na śaknomi | tat kathaṃ te śuśrūṣāṃ karomi ? siṃha āha-bhoḥ ! gaccha anveṣaya kiñcit sattvam | yenemām avasthāṃ gato 'pi vyāpādayāmi | tad ākarṇya śṛgālo 'nveṣayan kañcit samīpa-vartinaṃ grāmam āsāditavān | tatra lambakarṇo nāma gardabhas taḍāgopānte pravirala-dūrvāṅkurān kṛcchrād āsvādayan dṛṣṭaḥ | tataś ca samīpa-vartinā bhūtvā tenābhihitaḥ-māma ! namaskāro 'yaṃ madīyaḥ sambhāvyatām | cirād dṛṣṭo 'si | tat kathaya kim evaṃ durbalatāṃ gataḥ | sa āha-bho bhaginī-putra ! kiṃ kathayāmi | rajako 'tinirdayātibhāreṇa māṃ pīḍayati | ghāsa-muṣṭim api na prayacchati | kevalaṃ dūrvāṅkurān dhūi-miśritān bhakṣayāmi | tat kuto me śarīre puṣṭiḥ ? śṛgāla āha-māma ! yady evaṃ tad asti marakata-sadṛśa-śaṣpa-prāyo nadī-sanātho ramaṇīyataraḥ pradeśaḥ | tatrāgatya mayā saha subhāṣita-goṣṭhī-sukham anubhavaṃs tiṣṭha | lambakarṇa āha-bho bhaginī-suta ! yuktam uktaṃ bhavatā | paraṃ vayaṃ grāmyāḥ paśavo 'raṇya-cāriṇāṃ vadhyāḥ | tat kiṃ tena bhavya-pradeśena | śṛgāla āha- māma ! maivaṃ vada | mad-bhuja-pañjara-parirakṣitaḥ sa deśaḥ | tatrāsti na kaścid aparasya tatra praveśaḥ | paramam anenaiva doṣeṇa rajaka-kadarthitās tatra tisro rāsabhyo 'nāthāḥ santi | tāś ca puṣṭim āpannā yauvanotkaṭā idaṃ mām ūcuḥ-yadi tvam asmākaṃ satyo mātulas tadā kaṃcid grāmāntaraṃ gatvāsmad-yogyaṃ kaścit patim ānaya | tad-arthe tvām ahaṃ tatra nayāmi | atha śṛgāla-vacanāni śrutvā kāma-pīḍitāṅgas tam avocat-bhadra ! yady evaṃ tad-agre bhava yenāgacchāmi | athavā sādhv idam ucyate- nāmṛtaṃ na viṣaṃ kiñcid ekāṃ muktvā nitambinīm | yasyāḥ saṅgena jīvyeta mriyate ca viyogataḥ

Sanskrit only: no published translation is held for this verse.

तथा च- यासां नाम्नापि कामः स्यात् सङ्गमं दर्शनं विना । तासां दृक्-सङ्गमं प्राप्य यन् न द्रवति कौतुकम्

tathā ca- yāsāṃ nāmnāpi kāmaḥ syāt saṅgamaṃ darśanaṃ vinā | tāsāṃ dṛk-saṅgamaṃ prāpya yan na dravati kautukam

Sanskrit only: no published translation is held for this verse.

तत्रानुष्ठिते शृगालेन सह सिंहान्तिकम् आगतः । सिंहो ऽपि व्यथाकुलितस् तं दृष्ट्वा यावत् समुत्तिष्ठति तावद् रासभः पलायितुम् आरब्धवान् । अथ तस्य पलायमानस्य सिंहेन तल-प्रहारो दत्तः । स च मन्द-भाग्यस्य व्यवसाय इव व्यर्थतां गतः । अत्रान्तरे शृगालः कोपाविष्टस् तम् उवाच-भोः ! किम् एवंविधः प्रहारस् ते । यद् गर्दभो ऽपि तव पुरतो बलाद् गच्छति । तत् कथं गजेन सह युद्धं करिष्यसि ? तद् दृष्टं ते बलम् । अथ सविलक्ष-स्मितं सिंह आह-भोः ! किम् अहं करोमि । मया न क्रमः सज्जीकृत आसीत् । अन्यथा गजो ऽपि मत्-क्रमाक्रान्ता न गच्छति । शृगाल आह-अद्याप्य् एक-वारं तवान्तिके तम् आनेष्यामि । परं त्वया सज्जीकृत-क्रमेण स्थातव्यम् । सिंह आह-भद्र ! यो मां प्रत्यक्षं दृष्ट्वा गतः स पुनः कथम् अत्रागमिष्यति ? तद् अन्यत् किम् अपि सत्त्वम् अन्विष्यताम् । शृगाल आह-किं तवानेन व्यापारेण ? त्वं केवलं सज्जित-क्रमस् तिष्ठ । तथानुष्ठिते शृगालो ऽपि यावद् रासभ-मार्गेण गच्छति, तावत् तत्रैव स्थाने चरन् दृष्टः । अथ शृगालं दृष्ट्वा रासभः प्राह-भो भगिनी-सुत ! शोभन-स्थाने त्वयाहं नीतः । द्राङ् मृत्यु-वशं गतः । तत् कथय किं तत् सत्त्वं यस्यातिरौद्र-वज्र-सदृश-कर-प्रहाराद् अहं मुक्तः । तच् छ्रुत्वा प्रहसन् शृगाल आह-भद्र ! रासभी त्वाम् आयान्तं दृष्ट्वा सानुरागम् आलिङ्गितुं समुत्थिता । त्वं च कातरत्वान् नष्टः । सा पुनर् न शक्ता त्वां विना स्थातुम् । तया तु नशतस् तेऽवलम्बनार्थं हस्तः क्षिप्तः । नान्य-कारणेन । तद् आगच्छ । सा त्वत्-कृते प्रायोपवेशनोपविष्टा तिष्ठति । एतद् वदति-यल् लम्बकर्णो यदि मे भर्ता न भवति तद् अहम् अग्नौ जलं वा प्रविशामि । पुनस् तस्य वियोगं सोढुं न शक्नोमि इति । तत् प्रसादं कृत्वा तत्रागम्यताम् । नो चेत् तव स्त्री-हत्या भविष्यति । अपरं भगवान् काम-कोपं तवोपरि करिष्यति । उक्तं च- स्त्री-मुद्रां मकरध्वजस्य जयिनीं सर्वार्ध-सम्पत्-करीं ते मूढाः प्रविहाय यान्ति कुधियो मिथ्या-फलान्वेषिणः । ते तेनैव निहत्य निर्दयतरं नग्नीकृता मुण्डिताः केचिद् रक्त-पटीकृताश् च जटिलाः कापालिकाश् चापरे

tatrānuṣṭhite śṛgālena saha siṃhāntikam āgataḥ | siṃho 'pi vyathākulitas taṃ dṛṣṭvā yāvat samuttiṣṭhati tāvad rāsabhaḥ palāyitum ārabdhavān | atha tasya palāyamānasya siṃhena tala-prahāro dattaḥ | sa ca manda-bhāgyasya vyavasāya iva vyarthatāṃ gataḥ | atrāntare śṛgālaḥ kopāviṣṭas tam uvāca-bhoḥ ! kim evaṃvidhaḥ prahāras te | yad gardabho 'pi tava purato balād gacchati | tat kathaṃ gajena saha yuddhaṃ kariṣyasi ? tad dṛṣṭaṃ te balam | atha savilakṣa-smitaṃ siṃha āha-bhoḥ ! kim ahaṃ karomi | mayā na kramaḥ sajjīkṛta āsīt | anyathā gajo 'pi mat-kramākrāntā na gacchati | śṛgāla āha-adyāpy eka-vāraṃ tavāntike tam āneṣyāmi | paraṃ tvayā sajjīkṛta-krameṇa sthātavyam | siṃha āha-bhadra ! yo māṃ pratyakṣaṃ dṛṣṭvā gataḥ sa punaḥ katham atrāgamiṣyati ? tad anyat kim api sattvam anviṣyatām | śṛgāla āha-kiṃ tavānena vyāpāreṇa ? tvaṃ kevalaṃ sajjita-kramas tiṣṭha | tathānuṣṭhite śṛgālo 'pi yāvad rāsabha-mārgeṇa gacchati, tāvat tatraiva sthāne caran dṛṣṭaḥ | atha śṛgālaṃ dṛṣṭvā rāsabhaḥ prāha-bho bhaginī-suta ! śobhana-sthāne tvayāhaṃ nītaḥ | drāṅ mṛtyu-vaśaṃ gataḥ | tat kathaya kiṃ tat sattvaṃ yasyātiraudra-vajra-sadṛśa-kara-prahārād ahaṃ muktaḥ | tac chrutvā prahasan śṛgāla āha-bhadra ! rāsabhī tvām āyāntaṃ dṛṣṭvā sānurāgam āliṅgituṃ samutthitā | tvaṃ ca kātaratvān naṣṭaḥ | sā punar na śaktā tvāṃ vinā sthātum | tayā tu naśatas te'valambanārthaṃ hastaḥ kṣiptaḥ | nānya-kāraṇena | tad āgaccha | sā tvat-kṛte prāyopaveśanopaviṣṭā tiṣṭhati | etad vadati-yal lambakarṇo yadi me bhartā na bhavati tad aham agnau jalaṃ vā praviśāmi | punas tasya viyogaṃ soḍhuṃ na śaknomi iti | tat prasādaṃ kṛtvā tatrāgamyatām | no cet tava strī-hatyā bhaviṣyati | aparaṃ bhagavān kāma-kopaṃ tavopari kariṣyati | uktaṃ ca- strī-mudrāṃ makaradhvajasya jayinīṃ sarvārdha-sampat-karīṃ te mūḍhāḥ pravihāya yānti kudhiyo mithyā-phalānveṣiṇaḥ | te tenaiva nihatya nirdayataraṃ nagnīkṛtā muṇḍitāḥ kecid rakta-paṭīkṛtāś ca jaṭilāḥ kāpālikāś cāpare

Sanskrit only: no published translation is held for this verse.

अथासौ तद्-वचनं श्रद्धेयतया श्रुत्वा भूयो ऽपि तेन सह प्रस्थितः । अथवा साध्व् इदम् उच्यते- जानन्न् अपि नरो दैवात् प्रकरोति विगर्हितम् । कर्म किं कस्यचिल् लोके गर्हितं रोचते कथम्

athāsau tad-vacanaṃ śraddheyatayā śrutvā bhūyo 'pi tena saha prasthitaḥ | athavā sādhv idam ucyate- jānann api naro daivāt prakaroti vigarhitam | karma kiṃ kasyacil loke garhitaṃ rocate katham

Sanskrit only: no published translation is held for this verse.

अत्रान्तरे सज्जित-क्रमेण सिंहेन स लम्बकर्णो व्यापादितः । ततस् तं हत्वा शृगालं रक्षकं निरूप्य स्वयं स्नानार्थं नद्यां गतः । शृगालेनापि लौल्योत्सुक्यात् तस्य कर्ण-हृदयं भक्षितम् । अत्रान्तरे सिंहो यावत् स्नात्वा कृते देवार्चनः प्रतर्पित-पितृ-गणः समायाति तावत् कर्ण-हृदय-रहितो रासभस् तिष्ठति । तं दृष्ट्वा कोप-परीतात्मा सिंहः शृगालम् आह-पाप ! किम् इदम् अनुचितं कर्म समाचरितम् ? यत् कर्ण-हृदय-भक्षणेनायम् उच्छिष्टतां नीतः । शृगालः स-विनयम् आह-स्वामिन् ! मा मैवं वद । यत् कर्ण-हृदय-रहितो ऽयं रासभ आसीत्, तेनेहागत्य त्वाम् अवलोक्य भूयो ऽप्य् आगतः । अथ त्वद्-वचनं श्रद्धेयं मत्वा सिंहस् तेनैव संविभज्य निःशङ्कित-मनास् तं भक्षितवान् । अतो ऽहं ब्रवीमि-आगतश् च गतश् चैव इति । तन् मूर्ख ! कपटं कृतं त्वया । परं युधिष्ठिरेणेव सत्य-वचनेन विनाशितम् । अथवा साध्व् इदम् उच्यते- स्वार्थम् उत्सृज्य यो दम्भी सत्यं ब्रूते सुमन्द-धीः । स स्वार्थाद् भ्रश्यते नूनं युधिष्ठिर इवापरः

atrāntare sajjita-krameṇa siṃhena sa lambakarṇo vyāpāditaḥ | tatas taṃ hatvā śṛgālaṃ rakṣakaṃ nirūpya svayaṃ snānārthaṃ nadyāṃ gataḥ | śṛgālenāpi laulyotsukyāt tasya karṇa-hṛdayaṃ bhakṣitam | atrāntare siṃho yāvat snātvā kṛte devārcanaḥ pratarpita-pitṛ-gaṇaḥ samāyāti tāvat karṇa-hṛdaya-rahito rāsabhas tiṣṭhati | taṃ dṛṣṭvā kopa-parītātmā siṃhaḥ śṛgālam āha-pāpa ! kim idam anucitaṃ karma samācaritam ? yat karṇa-hṛdaya-bhakṣaṇenāyam ucchiṣṭatāṃ nītaḥ | śṛgālaḥ sa-vinayam āha-svāmin ! mā maivaṃ vada | yat karṇa-hṛdaya-rahito 'yaṃ rāsabha āsīt, tenehāgatya tvām avalokya bhūyo 'py āgataḥ | atha tvad-vacanaṃ śraddheyaṃ matvā siṃhas tenaiva saṃvibhajya niḥśaṅkita-manās taṃ bhakṣitavān | ato 'haṃ bravīmi-āgataś ca gataś caiva iti | tan mūrkha ! kapaṭaṃ kṛtaṃ tvayā | paraṃ yudhiṣṭhireṇeva satya-vacanena vināśitam | athavā sādhv idam ucyate- svārtham utsṛjya yo dambhī satyaṃ brūte sumanda-dhīḥ | sa svārthād bhraśyate nūnaṃ yudhiṣṭhira ivāparaḥ

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? स आह- कथा ३ युधिष्ठिराख्य-कुम्भकार-कथा कस्मिंश्चित् अधिष्ठाने कुम्भकारः प्रतिवसति स्म । स कदाचित् प्रमादाद् अर्ध-मग्न-खर्पर-तीक्ष्णाग्रस्योपरि महता वेगेन धावन् पतितः । ततः खपर-कोट्या पाटित-ललाई᳡ओओ रुधिर-प्लावित-तनुः कृच्छ्राद् उत्थाय स्वाश्रयं गतः । ततश् चापथ्य-सेवनात् स प्रहारस् तस्य करालतां गतः कृच्छ्रेण नीरोगतां नीतः । अथ कदाचिद् दुर्भिक्ष-पीडिते देशे च कुम्भकारः क्षुत्क्षाम-कण्ठः कैश्चिद् राज-सेवकैः सह देशान्तरं गत्वा कस्यापि राज्ञः सेवको बभूव । सो ऽपि राजा तस्य ललाटे विकरालं प्रहार-क्षतं दृष्ट्वा चिन्तयामास, यद्-वीरः पुरुषः कश्चिद् अयम् । नूनं तेन ललाट-पट्टे सम्मुख-प्रहारः । अतस् तं समानादिभिः सर्वेषां राज-पुत्राणां मध्ये विशेष-प्रसादेन पश्यति स्म । तेऽपि राज-पुत्रास् तस्य तं प्रसादातिरेकं पश्यन्तं परमेर्ष्या-धर्मं वहन्तो राज-भयान् न किञ्चिद् ऊचुः । अथान्यस्मिन्न् अहनि तस्य भूपतेर् वीर-सम्भावनायां क्रियमाणायां विग्रहे समुपस्थिते प्रकल्प्यमानेषु गजेषु संनह्यमानेषु वाजिषु योधेषु । प्रगुणीक्रियमाणेषु तेन भूभुजा स कुम्भकारः प्रस्तावानुगतं पृष्टो निर्जने-भो राज-पुत्र ! किं ते नाम ? का च जातिः ? कस्मिन् सङ्ग्रामे प्रहारो ऽयं ते ललाटे लग्नः ? स आह-देव ! नायं शस्त्र-प्रहारः । युधिष्ठिराभिधः कुलालो ऽहं प्रकृत्या । मद्-गेहेऽनेक-खर्पराण्य् आसन् । अथ कदाचिन् मद्य-पानं कृत्वा निर्गतः प्रधावन् खर्परोपरि पतितः । तस्य प्रहार-विकारो ऽयं मे ललाटे एवं विकरालतां गतः । तद् आकर्ण्य राजा स-व्रीडम् आह-अहो वञ्चितो ऽहं राजापुत्रानुकारिणानेन कुलालेन । तद् दीयतां द्राग् एतस्य चन्द्रार्धः । तथानुष्ठिते कुम्भकार आह-मा मैवं कुरु । पश्य मे रणे हस्त-लाघवम् । राजा प्राह-सर्व-गुण-सम्पन्नो भवान् । तथापि गम्यताम् । उक्तं च- शूद्रश् च कृत-विघ्नश् च दर्शनीयो ऽसि पुत्रक । यस्मिन् कुले त्वम् उत्पन्नो गजस् तत्र न हन्यते

makara āha-katham etat ? sa āha- kathā 3 yudhiṣṭhirākhya-kumbhakāra-kathā kasmiṃścit adhiṣṭhāne kumbhakāraḥ prativasati sma | sa kadācit pramādād ardha-magna-kharpara-tīkṣṇāgrasyopari mahatā vegena dhāvan patitaḥ | tataḥ khapara-koṭyā pāṭita-lalāī̀oo rudhira-plāvita-tanuḥ kṛcchrād utthāya svāśrayaṃ gataḥ | tataś cāpathya-sevanāt sa prahāras tasya karālatāṃ gataḥ kṛcchreṇa nīrogatāṃ nītaḥ | atha kadācid durbhikṣa-pīḍite deśe ca kumbhakāraḥ kṣutkṣāma-kaṇṭhaḥ kaiścid rāja-sevakaiḥ saha deśāntaraṃ gatvā kasyāpi rājñaḥ sevako babhūva | so 'pi rājā tasya lalāṭe vikarālaṃ prahāra-kṣataṃ dṛṣṭvā cintayāmāsa, yad-vīraḥ puruṣaḥ kaścid ayam | nūnaṃ tena lalāṭa-paṭṭe sammukha-prahāraḥ | atas taṃ samānādibhiḥ sarveṣāṃ rāja-putrāṇāṃ madhye viśeṣa-prasādena paśyati sma | te'pi rāja-putrās tasya taṃ prasādātirekaṃ paśyantaṃ paramerṣyā-dharmaṃ vahanto rāja-bhayān na kiñcid ūcuḥ | athānyasminn ahani tasya bhūpater vīra-sambhāvanāyāṃ kriyamāṇāyāṃ vigrahe samupasthite prakalpyamāneṣu gajeṣu saṃnahyamāneṣu vājiṣu yodheṣu | praguṇīkriyamāṇeṣu tena bhūbhujā sa kumbhakāraḥ prastāvānugataṃ pṛṣṭo nirjane-bho rāja-putra ! kiṃ te nāma ? kā ca jātiḥ ? kasmin saṅgrāme prahāro 'yaṃ te lalāṭe lagnaḥ ? sa āha-deva ! nāyaṃ śastra-prahāraḥ | yudhiṣṭhirābhidhaḥ kulālo 'haṃ prakṛtyā | mad-gehe'neka-kharparāṇy āsan | atha kadācin madya-pānaṃ kṛtvā nirgataḥ pradhāvan kharparopari patitaḥ | tasya prahāra-vikāro 'yaṃ me lalāṭe evaṃ vikarālatāṃ gataḥ | tad ākarṇya rājā sa-vrīḍam āha-aho vañcito 'haṃ rājāputrānukāriṇānena kulālena | tad dīyatāṃ drāg etasya candrārdhaḥ | tathānuṣṭhite kumbhakāra āha-mā maivaṃ kuru | paśya me raṇe hasta-lāghavam | rājā prāha-sarva-guṇa-sampanno bhavān | tathāpi gamyatām | uktaṃ ca- śūdraś ca kṛta-vighnaś ca darśanīyo 'si putraka | yasmin kule tvam utpanno gajas tatra na hanyate

Sanskrit only: no published translation is held for this verse.

कुलाल आह-कथम् एतत् ? राजा कथयति- कथा ४ सिंह-दम्पती-कथा कस्मिंश्चिद् उद्देशे सिंह-दम्पती प्रतिवसतः स्म । अथ सिंही पुत्र-द्वयम् अजीजनत् । सिंहो ऽपि नित्यम् एव मृगान् व्यापाद्य सिंह्यै ददाति । अथान्यस्मिन् अहनि तेन किम् अपि नासादितम् । येन भ्रमतो ऽपि तस्य रविर् अस्तं गतः । अथ तेन स्व-गृहम् आगच्छता शृगाल-शिशुः प्राप्तः । स च बालको ऽयम् इत्य् अवधार्य यत्नेन दंष्ट्रामध्य-गतं कृत्वा सिंह्या जीवन्तम् एव समर्पितवान् । ततः सिंह्याभिहितम्-भोः कान्त ! त्वयानीतं किञ्चिद् अस्माकं भोजनम् ? सिंह आह-प्रिये ! मयाद्यैनं शृगाल-शिशुं परित्यज्य न किञ्चित् सत्त्वम् आसादितम् । स च मया बालो ऽयम् इति मत्वा न व्यापादितो विशेषात् स्वजातीयश् च । उक्तं च- स्त्री-विप्रलिङ्गि-बालेषु प्रहर्तव्यं न कर्हिचित् । प्राण-त्यागेऽपि सञ्जाते विश्वस्तेषु विशेषतः

kulāla āha-katham etat ? rājā kathayati- kathā 4 siṃha-dampatī-kathā kasmiṃścid uddeśe siṃha-dampatī prativasataḥ sma | atha siṃhī putra-dvayam ajījanat | siṃho 'pi nityam eva mṛgān vyāpādya siṃhyai dadāti | athānyasmin ahani tena kim api nāsāditam | yena bhramato 'pi tasya ravir astaṃ gataḥ | atha tena sva-gṛham āgacchatā śṛgāla-śiśuḥ prāptaḥ | sa ca bālako 'yam ity avadhārya yatnena daṃṣṭrāmadhya-gataṃ kṛtvā siṃhyā jīvantam eva samarpitavān | tataḥ siṃhyābhihitam-bhoḥ kānta ! tvayānītaṃ kiñcid asmākaṃ bhojanam ? siṃha āha-priye ! mayādyainaṃ śṛgāla-śiśuṃ parityajya na kiñcit sattvam āsāditam | sa ca mayā bālo 'yam iti matvā na vyāpādito viśeṣāt svajātīyaś ca | uktaṃ ca- strī-vipraliṅgi-bāleṣu prahartavyaṃ na karhicit | prāṇa-tyāge'pi sañjāte viśvasteṣu viśeṣataḥ

Sanskrit only: no published translation is held for this verse.

इदानीं त्वम् एनं भक्षयित्वा पथ्यं कुरु । प्रभातेऽन्यत् किञ्चिद् उपार्जयिष्यामि । सा प्राह-भोः कान्त ! त्वया बालको ऽयम् इति विचिन्त्य न हतः । तत् कथम् एनम् अहं स्वोदरार्थे विनाशयामि । उक्तं च- अकृत्यं नैव कर्तव्यं प्राण-त्यागेऽप्य् उपस्थिते । न च कृत्यं परित्याज्यम् एष धर्मः सनातनः

idānīṃ tvam enaṃ bhakṣayitvā pathyaṃ kuru | prabhāte'nyat kiñcid upārjayiṣyāmi | sā prāha-bhoḥ kānta ! tvayā bālako 'yam iti vicintya na hataḥ | tat katham enam ahaṃ svodarārthe vināśayāmi | uktaṃ ca- akṛtyaṃ naiva kartavyaṃ prāṇa-tyāge'py upasthite | na ca kṛtyaṃ parityājyam eṣa dharmaḥ sanātanaḥ

Sanskrit only: no published translation is held for this verse.

तस्मान् ममायं तृतीयः पुत्रो भविष्यति । इत्य् एवम् उक्त्वा तम् अपि स्वस्तन-क्षीरेण परां पुष्टिम् अनयत् । एवं ते त्रयो ऽपि शिशवः परस्परम् अज्ञात-जाति-विशेषा एकाचार-विहारा बाल्य-समयं निर्वाहयन्ति । अथ कदाचित् तत्र वने भ्रमन्न् अरण्य-गजः समायातः । तं दृष्ट्वा तौ सिंह-सुतौ द्वाव् अपि कुपिताननौ तं प्रति प्रचलितौ यावत् तावत् तेन शृगाल-सुतेनाभिहितम्-अहो ! गजो ऽयं युष्मत्-कुल-शत्रुः । तन् न गन्तव्यम् एतस्याभिमुखम् । एवम् उक्त्वा गृहं प्रधावितः । ताव् अपि ज्येष्ठ-बान्धव-भङ्गान् निरुत्साहतां गतौ । अथवा साध्व् इदम् उच्यते- एकेनापि सुधीरेण सोत्साहेन रणं प्रति । सोत्साहं जायते सैन्यं भग्ने भङ्गम् अवाप्नुयात्

tasmān mamāyaṃ tṛtīyaḥ putro bhaviṣyati | ity evam uktvā tam api svastana-kṣīreṇa parāṃ puṣṭim anayat | evaṃ te trayo 'pi śiśavaḥ parasparam ajñāta-jāti-viśeṣā ekācāra-vihārā bālya-samayaṃ nirvāhayanti | atha kadācit tatra vane bhramann araṇya-gajaḥ samāyātaḥ | taṃ dṛṣṭvā tau siṃha-sutau dvāv api kupitānanau taṃ prati pracalitau yāvat tāvat tena śṛgāla-sutenābhihitam-aho ! gajo 'yaṃ yuṣmat-kula-śatruḥ | tan na gantavyam etasyābhimukham | evam uktvā gṛhaṃ pradhāvitaḥ | tāv api jyeṣṭha-bāndhava-bhaṅgān nirutsāhatāṃ gatau | athavā sādhv idam ucyate- ekenāpi sudhīreṇa sotsāhena raṇaṃ prati | sotsāhaṃ jāyate sainyaṃ bhagne bhaṅgam avāpnuyāt

Sanskrit only: no published translation is held for this verse.

तथा च- अत एव वाञ्छन्ति भूपा योधान् महाबलान् । शूरान् वीरान् कृतोत्साहान् वर्जयन्ति च कातरान्

tathā ca- ata eva vāñchanti bhūpā yodhān mahābalān | śūrān vīrān kṛtotsāhān varjayanti ca kātarān

Sanskrit only: no published translation is held for this verse.

अथ तौ द्वाव् अपि गृहं प्राप्य पित्रोर् अग्रतो ज्येष्ठ-भ्रातृ-चेष्टितम् ऊचतुः-यथा गजं दृष्ट्वा दूरतो ऽपि नष्टः । सो ऽपि तद् आकर्ण्य कोपाविष्ट-मनाः प्रस्फुरिताधर-पल्लवस् ताम्रलोचनस् त्रिशिखां भ्रुकुटिं कृत्वा तौ निर्भर्त्सयन् परुषतर-वचनान्य् उवाच-ततः सिंह्यै कान्ते नीत्वा प्रबोधितो ऽसौ-वत्स ! मैवं कदाचिज् जल्प । भवदीय-लघु-भ्रातराव् एतौ । अथासौ प्रभूत-कोपाविष्टस् ताम् उवाच-किम् अहम् एताभ्यां शौर्येण रूपेण विद्याभ्यासेन कौशलेन वा हीनः ? येन माम् उपहसतः । तन् मयावश्यम् एतौ व्यापादनीयौ । तद् आकर्ण्य सिंही तस्य जीवितम् इच्छन्त्य् अन्तर् विहस्य प्राह-तत् सम्यक् शृणु । त्वं शृगाली-सुतः । कृपया मया स्वस्तन-क्षीरेण पुष्टिं नीतः । तद् यावद् एतौ मत्-पुत्रौ शिशुत्वात् त्वां शृगालं न जानीतः, तावद् द्रुततरं गत्वा स्वजातीयानां मध्ये भव । नो चेद् आभ्यां हतो मृत्यु-पथं समेष्यसि । सो ऽपि तद्-वचनं श्रुत्वा भय-व्याकुल-मनाः शनैः शनैर् अपसृत्य स्व-जात्या मिलितः । तस्मात् त्वं अपि यावद् एते राज-पुत्रास् त्वां कुलालं नजानन्ति, तावद् द्रुततरम् अपसर । नो चेद् एतेषां सकाशाद् विडम्बनां प्राप्य मरिष्यामि । कुलालो ऽपि तद् आकर्ण्य सत्वरं प्रणष्टः । अतो ऽहं ब्रवीमि-स्वार्थम् उत्सृज्य यो दम्भी (३८) इति । धिङ् मूर्ख ! यत् त्वया स्त्रियो ऽर्थ एतत्-कार्यम् अनुष्ठातुम् आरब्धम् । न हि स्त्रीणां कथञ्चिद् विश्वासम् उपगच्छेत् । उक्तं च- यद्-अर्थे स्व-कुलं त्यक्तं जीवितार्धं च हारितम् । सा मां त्यजति निःस्नेहा कः स्त्रीणां विश्वसेन् नरः

atha tau dvāv api gṛhaṃ prāpya pitror agrato jyeṣṭha-bhrātṛ-ceṣṭitam ūcatuḥ-yathā gajaṃ dṛṣṭvā dūrato 'pi naṣṭaḥ | so 'pi tad ākarṇya kopāviṣṭa-manāḥ prasphuritādhara-pallavas tāmralocanas triśikhāṃ bhrukuṭiṃ kṛtvā tau nirbhartsayan paruṣatara-vacanāny uvāca-tataḥ siṃhyai kānte nītvā prabodhito 'sau-vatsa ! maivaṃ kadācij jalpa | bhavadīya-laghu-bhrātarāv etau | athāsau prabhūta-kopāviṣṭas tām uvāca-kim aham etābhyāṃ śauryeṇa rūpeṇa vidyābhyāsena kauśalena vā hīnaḥ ? yena mām upahasataḥ | tan mayāvaśyam etau vyāpādanīyau | tad ākarṇya siṃhī tasya jīvitam icchanty antar vihasya prāha-tat samyak śṛṇu | tvaṃ śṛgālī-sutaḥ | kṛpayā mayā svastana-kṣīreṇa puṣṭiṃ nītaḥ | tad yāvad etau mat-putrau śiśutvāt tvāṃ śṛgālaṃ na jānītaḥ, tāvad drutataraṃ gatvā svajātīyānāṃ madhye bhava | no ced ābhyāṃ hato mṛtyu-pathaṃ sameṣyasi | so 'pi tad-vacanaṃ śrutvā bhaya-vyākula-manāḥ śanaiḥ śanair apasṛtya sva-jātyā militaḥ | tasmāt tvaṃ api yāvad ete rāja-putrās tvāṃ kulālaṃ najānanti, tāvad drutataram apasara | no ced eteṣāṃ sakāśād viḍambanāṃ prāpya mariṣyāmi | kulālo 'pi tad ākarṇya satvaraṃ praṇaṣṭaḥ | ato 'haṃ bravīmi-svārtham utsṛjya yo dambhī (38) iti | dhiṅ mūrkha ! yat tvayā striyo 'rtha etat-kāryam anuṣṭhātum ārabdham | na hi strīṇāṃ kathañcid viśvāsam upagacchet | uktaṃ ca- yad-arthe sva-kulaṃ tyaktaṃ jīvitārdhaṃ ca hāritam | sā māṃ tyajati niḥsnehā kaḥ strīṇāṃ viśvasen naraḥ

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? वानर आह- कथा ५ ब्राह्मण-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने को ऽपि ब्राह्मणः । तस्य च भार्या प्राणेभ्यो ऽप्य् अतिप्रियासीत् । सो ऽपि प्रतिदिनं कुटुम्बेन सह कलहं कुर्वाणा न विश्राम्यति । सो ऽपि ब्राह्मणः कलहम् असहमानो भार्या-वात्सल्यात् स्व-कुटुम्बं परित्यज्य ब्राह्मण्या सह विप्रकृष्टं देशान्तरं गतः । अथ महाटवी-मध्ये ब्राह्मण्याभिहितः-आर्य-पुत्र ! तृष्णा मां बाधते । तद् उदकं क्वाप्य् अन्वेषय । अथासौ तद्-वचनानन्तरं यावद्-उदकं गृहीत्वा समागच्छति तावत् तां मृताम् अपश्यत् । अतिवल्लभतया विषादं कुर्वन् यावद् विलपति तावद् आकाशे वाचं शृणोति । यथा हि-यदि ब्राह्मण त्वं स्वकीय-जीवितस्यार्धं ददासि ततस् ते जीवति ब्राह्मणी । तच् छ्रुत्वा ब्राह्मणेन शुचीभूय तिसृभिर् वाचोभिः स्वजीवितार्धं दत्तम् । वाक्-समम् एव च ब्राह्मणी जीविता सा । अथ तौ जलं पीत्वा वन-फलानि भक्षयित्वा गन्तुम् आरब्धौ । ततः क्रमेण कस्यचिन् नगरस्य प्रदेशे पुष्प-वाटिकां प्रविश्य ब्राह्मणो भार्याम् अभिहितवान्-भद्रे, यावद् अहं भोजनं गृहीत्वा समागच्छामि तावद् अत्र त्वया स्थातव्यम् । इत्य् अभिधाय ब्राह्मणो नगर-मध्ये जगाम । अथ तस्यां पुष्प-वाटिकायां पङ्गुर अर-घट्टं खेलयन् दिव्य-गिरा गीतम् उद्गिरति । तच् च श्रुत्वा कुसुमेषुणार्दिता ब्राह्मण्या तत्-सकाशं गत्वाभिहितम्-भद्र ! यर्हि मां न कामयसे, तन् मत्-सक्ता स्त्री-हत्या तव भविष्यति । पङ्गुर् अब्रवीत्-किं व्याधि-ग्रस्तेन मया करिष्यसि ? साब्रवीत्-किम् अनेनोक्तेन ? अवश्यं त्वया सह मया सङ्गमः कर्तव्यः । तच् छ्रुत्वा तथा कृतवान् । सुरतानन्तरं साब्रवीत्-इतः-प्रभृति यावज्-जीवं मयात्मा भवते दत्तः । इति ज्ञात्वा भवान् अप्य् अस्माभिः सहागच्छतु । सो ऽब्रवीत्-एवम् अस्तु । अथ ब्राह्मणो भोजनं गृहीत्वा समागत्य तया सहभोक्तुम् आरब्धः साब्रवीत्-एष पङ्गुर् बुभुक्षितः । तद् एतस्यापि कियन्तम् अपि ग्रासं देहि इति । तथानुष्ठिते ब्राह्मण्याभिहितं-ब्राह्मण, सहाय-हीनस् त्वं यदा ग्रामान्तरं गच्छसि, तदा मम वचन-सहायो ऽपि नास्ति । तद् एनं पङ्गुं गृहीत्वा गच्छावः । सो ऽब्रवीत्-न शक्नोम्य् आत्मानम् अप्य् आत्मनां वोढुम् । किं पुनर् एनं पङ्गुम् ? साब्रवीत्-पेटाभ्यन्तर-स्थम् एनम् अहं नेष्यामि । अथ तत्-कृतक-वचन-व्यामोहित-चित्तेन तेन प्रतिपन्नम् । तथानुष्ठितेऽन्यस्मिन् दिने कूपोपकण्ठे विश्रान्तो ब्राह्मणस् तया च पङ्गु-पुरुषासक्तया सम्प्रेर्य कूपान्तः पातितः । सापि पङ्गुं गृहीत्वा कस्मिंश्चिन् नगरे प्रविष्टा । तत्र शुल्क-चौर्य-रक्षा-निमित्तं राज-पुरुषैर् इतस् ततो भ्रमद्भिस् तन्-मस्तक-स्था पेटी दृष्टा बलाद् आच्छिद्य राजाग्रे नीता । राजा च यावत् ताम् उद्घाटयति तावत् तं पङ्गुं ददर्श । ततः सा ब्राह्मणी विलापं कुर्वती राज-पुरुषानुपदम् एव तत्रागता । राज्ञा पृष्टा-को वृत्तान्तः ? इति । साब्रवीत्-ममैष भर्ता व्याधि-बाधितो दायाद-समूहैर् उद्वेजितो मया स्नेह-व्याकुलित-मानसया शिरसि कृत्वा भवदीय-नगर आनीतः । तच् छ्रुत्वा राजाब्रवीत्-ब्राह्मणि ! त्वं मे भगिनी । ग्राम-द्वयं गृहीत्वा भर्ता सह भोगान् भुञ्जाना सुखेन तिष्ठ । अथ स ब्राह्मणो दैव-वशात् केनापि साधुना कूपाद् उत्तारितः परिभ्रमंस् तद् एव नगरम् आयातः । तया दुष्ट-भार्यया दृष्टा राज्ञे निवेदितः-राजन् ! अयं मम भर्तुर् वैरी समायातः । राज्ञापि वध आदिष्टः । साब्रवीत्-देव, अनया मम सक्तं किञ्चित् गृहीतम् अस्ति । यदि त्वं धर्म-वत्सलः, तद् दापय । राजाब्रवीत्-भद्रे ! यत् त्वयास्य सक्तं किञ्चित् गृहीतम् अस्ति तत् समर्पय । सा प्राह-देव, मया न किञ्चिद् गृहीतम् । ब्राह्मण आह-यन् मया त्रिवाचिकं स्व-जीवितार्धं दत्तम्, तद् देहि । अथ सा राज-भयात् तत्रैव त्रिवाचिकम् एव जीवितार्धम् अनेन दत्तम् इति जल्पन्ती प्राणैर् विमुक्ता । ततः स-विस्मयं राजाब्रवीत्-किम् एतत् इति । ब्राह्मणेनापि पूर्व-वृत्तान्तः सकलो ऽपि तस्मै निवेदितः । अतो ऽहं ब्रवीमि-यद्-अर्थे स्व-कुलं त्यक्तम् (४४) इति । वानरः पुनर् आह-साधु चेदम् उपाख्यानकं श्रूयते- न किं दद्यान् न किं कुर्यात् स्त्रीभिर् अभ्यर्थितो नरः । अनश्वा यत्र ह्रेषन्ते शिरः पर्वणि मुण्डितम्

makara āha-katham etat ? vānara āha- kathā 5 brāhmaṇa-kathā asti kasmiṃścid adhiṣṭhāne ko 'pi brāhmaṇaḥ | tasya ca bhāryā prāṇebhyo 'py atipriyāsīt | so 'pi pratidinaṃ kuṭumbena saha kalahaṃ kurvāṇā na viśrāmyati | so 'pi brāhmaṇaḥ kalaham asahamāno bhāryā-vātsalyāt sva-kuṭumbaṃ parityajya brāhmaṇyā saha viprakṛṣṭaṃ deśāntaraṃ gataḥ | atha mahāṭavī-madhye brāhmaṇyābhihitaḥ-ārya-putra ! tṛṣṇā māṃ bādhate | tad udakaṃ kvāpy anveṣaya | athāsau tad-vacanānantaraṃ yāvad-udakaṃ gṛhītvā samāgacchati tāvat tāṃ mṛtām apaśyat | ativallabhatayā viṣādaṃ kurvan yāvad vilapati tāvad ākāśe vācaṃ śṛṇoti | yathā hi-yadi brāhmaṇa tvaṃ svakīya-jīvitasyārdhaṃ dadāsi tatas te jīvati brāhmaṇī | tac chrutvā brāhmaṇena śucībhūya tisṛbhir vācobhiḥ svajīvitārdhaṃ dattam | vāk-samam eva ca brāhmaṇī jīvitā sā | atha tau jalaṃ pītvā vana-phalāni bhakṣayitvā gantum ārabdhau | tataḥ krameṇa kasyacin nagarasya pradeśe puṣpa-vāṭikāṃ praviśya brāhmaṇo bhāryām abhihitavān-bhadre, yāvad ahaṃ bhojanaṃ gṛhītvā samāgacchāmi tāvad atra tvayā sthātavyam | ity abhidhāya brāhmaṇo nagara-madhye jagāma | atha tasyāṃ puṣpa-vāṭikāyāṃ paṅgura ara-ghaṭṭaṃ khelayan divya-girā gītam udgirati | tac ca śrutvā kusumeṣuṇārditā brāhmaṇyā tat-sakāśaṃ gatvābhihitam-bhadra ! yarhi māṃ na kāmayase, tan mat-saktā strī-hatyā tava bhaviṣyati | paṅgur abravīt-kiṃ vyādhi-grastena mayā kariṣyasi ? sābravīt-kim anenoktena ? avaśyaṃ tvayā saha mayā saṅgamaḥ kartavyaḥ | tac chrutvā tathā kṛtavān | suratānantaraṃ sābravīt-itaḥ-prabhṛti yāvaj-jīvaṃ mayātmā bhavate dattaḥ | iti jñātvā bhavān apy asmābhiḥ sahāgacchatu | so 'bravīt-evam astu | atha brāhmaṇo bhojanaṃ gṛhītvā samāgatya tayā sahabhoktum ārabdhaḥ sābravīt-eṣa paṅgur bubhukṣitaḥ | tad etasyāpi kiyantam api grāsaṃ dehi iti | tathānuṣṭhite brāhmaṇyābhihitaṃ-brāhmaṇa, sahāya-hīnas tvaṃ yadā grāmāntaraṃ gacchasi, tadā mama vacana-sahāyo 'pi nāsti | tad enaṃ paṅguṃ gṛhītvā gacchāvaḥ | so 'bravīt-na śaknomy ātmānam apy ātmanāṃ voḍhum | kiṃ punar enaṃ paṅgum ? sābravīt-peṭābhyantara-stham enam ahaṃ neṣyāmi | atha tat-kṛtaka-vacana-vyāmohita-cittena tena pratipannam | tathānuṣṭhite'nyasmin dine kūpopakaṇṭhe viśrānto brāhmaṇas tayā ca paṅgu-puruṣāsaktayā samprerya kūpāntaḥ pātitaḥ | sāpi paṅguṃ gṛhītvā kasmiṃścin nagare praviṣṭā | tatra śulka-caurya-rakṣā-nimittaṃ rāja-puruṣair itas tato bhramadbhis tan-mastaka-sthā peṭī dṛṣṭā balād ācchidya rājāgre nītā | rājā ca yāvat tām udghāṭayati tāvat taṃ paṅguṃ dadarśa | tataḥ sā brāhmaṇī vilāpaṃ kurvatī rāja-puruṣānupadam eva tatrāgatā | rājñā pṛṣṭā-ko vṛttāntaḥ ? iti | sābravīt-mamaiṣa bhartā vyādhi-bādhito dāyāda-samūhair udvejito mayā sneha-vyākulita-mānasayā śirasi kṛtvā bhavadīya-nagara ānītaḥ | tac chrutvā rājābravīt-brāhmaṇi ! tvaṃ me bhaginī | grāma-dvayaṃ gṛhītvā bhartā saha bhogān bhuñjānā sukhena tiṣṭha | atha sa brāhmaṇo daiva-vaśāt kenāpi sādhunā kūpād uttāritaḥ paribhramaṃs tad eva nagaram āyātaḥ | tayā duṣṭa-bhāryayā dṛṣṭā rājñe niveditaḥ-rājan ! ayaṃ mama bhartur vairī samāyātaḥ | rājñāpi vadha ādiṣṭaḥ | sābravīt-deva, anayā mama saktaṃ kiñcit gṛhītam asti | yadi tvaṃ dharma-vatsalaḥ, tad dāpaya | rājābravīt-bhadre ! yat tvayāsya saktaṃ kiñcit gṛhītam asti tat samarpaya | sā prāha-deva, mayā na kiñcid gṛhītam | brāhmaṇa āha-yan mayā trivācikaṃ sva-jīvitārdhaṃ dattam, tad dehi | atha sā rāja-bhayāt tatraiva trivācikam eva jīvitārdham anena dattam iti jalpantī prāṇair vimuktā | tataḥ sa-vismayaṃ rājābravīt-kim etat iti | brāhmaṇenāpi pūrva-vṛttāntaḥ sakalo 'pi tasmai niveditaḥ | ato 'haṃ bravīmi-yad-arthe sva-kulaṃ tyaktam (44) iti | vānaraḥ punar āha-sādhu cedam upākhyānakaṃ śrūyate- na kiṃ dadyān na kiṃ kuryāt strībhir abhyarthito naraḥ | anaśvā yatra hreṣante śiraḥ parvaṇi muṇḍitam

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? वानरः कथयति- कथा ६ अतिप्रख्यात-बल-पौरुषो ऽनेक-नरेन्द्र-मुकुट-मरीचि-जाल-जटिली-कृत-पाद-पीठः शरच्-छशाङ्क-किरण-निर्मल-यशाः समुद्र-पर्यन्तायाः पृथिव्या भर्ता नन्दो नाम राजा । यस्य सर्व-शास्त्राधिगत-समस्त-तत्त्वः सचिवो वररुचिर् नाम । तस्य च प्रणय-कलहेन जाया कुपिता । सा चातीव वल्लभानेक-प्रकारं परितोष्यमाणापि न प्रसीदति । ब्रवीति च भर्ता-भद्रे ! येन प्रकारेण तुष्यति तं वद । निश्चितं करोमि । ततः कथञ्चित् तयोक्तं-यदि शिरो मुण्डयित्वा मम पादयोर् निपतसि, तदा प्रसादाभिमुखी भवामि । तथानुष्ठिते प्रसन्नासीत् । अथ नन्दस्य भार्यापि तथैव रुष्टा प्रसाद्यमानापि न तुष्यति । तेनोक्तम्-भद्रे ! त्वया विना मुहूर्तम् अपि न जीवामि । पादयोः पतित्वा त्वां प्रसादयामि । साब्रवीत्-यदि खलीनं मुखे प्रक्षित्याहं तव पृष्ठे समारुह्य त्वां धावयामि । धावितस् तु यद्य् अश्ववद् ध्रेषसे, तदा प्रसन्ना भवामि । राज्ञापि तथैवानुष्ठितम् । अथ प्रभात-समये सभायाम् उपविष्टस्य राज्ञः समीपे वररुचिर् आयातः । तं च दृष्ट्वा राजा पप्रच्छ-भो वररुचे ! किं पर्वणि मुण्डितं शिरस् त्वया ? सो ऽब्रवीत्-न किं दद्यात् (४५) इत्य् आदि । तद् भो दुस्ट मकर ! त्वम् अपि नन्द-वररुचि-वत् स्त्री-वश्यः । ततो भद्र आगतेन त्वया मां प्रति वधोपाय-प्रयासः प्रारब्धः । परं स्व-वाग्-दोषेणैव प्रकटीभूतः । अथवा साध्व् इदम् उच्यते- आत्मनो मुख-दोषेण बध्यन्ते शुक-सारिकाः । बकास् तत्र न बध्यन्ते मौनं सर्वार्थ-साधनम्

makara āha-katham etat ? vānaraḥ kathayati- kathā 6 atiprakhyāta-bala-pauruṣo 'neka-narendra-mukuṭa-marīci-jāla-jaṭilī-kṛta-pāda-pīṭhaḥ śarac-chaśāṅka-kiraṇa-nirmala-yaśāḥ samudra-paryantāyāḥ pṛthivyā bhartā nando nāma rājā | yasya sarva-śāstrādhigata-samasta-tattvaḥ sacivo vararucir nāma | tasya ca praṇaya-kalahena jāyā kupitā | sā cātīva vallabhāneka-prakāraṃ paritoṣyamāṇāpi na prasīdati | bravīti ca bhartā-bhadre ! yena prakāreṇa tuṣyati taṃ vada | niścitaṃ karomi | tataḥ kathañcit tayoktaṃ-yadi śiro muṇḍayitvā mama pādayor nipatasi, tadā prasādābhimukhī bhavāmi | tathānuṣṭhite prasannāsīt | atha nandasya bhāryāpi tathaiva ruṣṭā prasādyamānāpi na tuṣyati | tenoktam-bhadre ! tvayā vinā muhūrtam api na jīvāmi | pādayoḥ patitvā tvāṃ prasādayāmi | sābravīt-yadi khalīnaṃ mukhe prakṣityāhaṃ tava pṛṣṭhe samāruhya tvāṃ dhāvayāmi | dhāvitas tu yady aśvavad dhreṣase, tadā prasannā bhavāmi | rājñāpi tathaivānuṣṭhitam | atha prabhāta-samaye sabhāyām upaviṣṭasya rājñaḥ samīpe vararucir āyātaḥ | taṃ ca dṛṣṭvā rājā papraccha-bho vararuce ! kiṃ parvaṇi muṇḍitaṃ śiras tvayā ? so 'bravīt-na kiṃ dadyāt (45) ity ādi | tad bho dusṭa makara ! tvam api nanda-vararuci-vat strī-vaśyaḥ | tato bhadra āgatena tvayā māṃ prati vadhopāya-prayāsaḥ prārabdhaḥ | paraṃ sva-vāg-doṣeṇaiva prakaṭībhūtaḥ | athavā sādhv idam ucyate- ātmano mukha-doṣeṇa badhyante śuka-sārikāḥ | bakās tatra na badhyante maunaṃ sarvārtha-sādhanam

Sanskrit only: no published translation is held for this verse.

तथा च- सुगुप्तं रक्ष्यमाणो ऽपि दर्शयन् दारुणं वपुः । व्याघ्र-चर्म-प्रतिच्छन्नो वाक्-कृते रासभो हतः

tathā ca- suguptaṃ rakṣyamāṇo 'pi darśayan dāruṇaṃ vapuḥ | vyāghra-carma-praticchanno vāk-kṛte rāsabho hataḥ

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? वानरः कथयति- कथा ८ शुद्धपट-नाम-रजक-कथा कस्मिंश्चिद् अधिष्ठाने शुद्धपटो नाम रजकः प्रतिवसति स्म । तस्य च गर्दभ एको ऽस्ति । सो ऽपि घासाभावाद् अतिदुर्बलतां गतः । अथ तेन रजकेनाटव्यां परिभ्रमता मृत-व्याघ्रो दृष्टः । चिन्तितं च-अहो ! शोभनम् आपतितम् । अनेन व्याघ्र-चर्मणा प्रतिच्छाद्य रासभं रात्रौ यव-क्षेत्रेषूत्स्रक्ष्यामि । येन व्याघ्रं मत्वा समीप-वर्तिनः क्षेत्र-पाला एनं न निष्कासयिष्यन्ति । तथानुष्ठिते रासभो यथेच्छया यव-भक्षणं करोति । प्रत्यूषे भूयो ऽपि रजकः स्वाश्रयं नयति । एवं गच्छता कालेन स रासभः पीवर-तनुर् जातः । कृच्छ्राद् बन्धन-स्थानम् अपि नीयते । अथान्यस्मिन्न् अहनि स मधोद्धतो दूराद् रासभी-शब्दम् अशृणोत् । तच्-छ्रवण-मात्रेणैव स्वयं शब्दयितुम् आरब्धः । अथ ते क्षेत्र-पाला रासभो ऽयं व्याघ्र-चर्म-प्रतिच्छन्न इति ज्ञात्वा लगुड-शर-पाषाण-प्रहारैस् तं व्यापादितवन्तः । अतो ऽहं ब्रवीमि-सुगुप्तं रक्ष्यमाणो ऽपि (४७) इति । तत् किं श्यामलकवद् अत्यपमान-सहनाद् अर्ध-चन्द्र-दानेन यास्यसि । मकर आह-कथम् एतत् ? वानर आह- कथा ९ महाधन-ईश्वर-नाम-भाण्डपति-कथा अस्त्य् अत्र धरा-पीठे विकण्टकं नाम पुरम् । तत्र महा-धन ईश्वरो नाम भाण्ड-पतिः । तस्य चत्वारो जामातृका अवन्ती-पीठात् प्राघूर्णिका विकण्टक-पुरे समायाताः । ते च येन महता गौरवेणाभ्यर्चिता भोजानाच्छादनादिभिः । एवं तेषां तत्र वसतां मास-षट्कं सञ्जातम् । तत ईश्वरेण स्वभार्योक्ता यद् एते जामातरः परम-गौरवेणावर्जिताः स्वामि गृहाणि न गच्छन्ति, तत् किं कथ्यते ? विनापमानं न यास्यन्ति । तद् अद्य भोजन-वेलायां पाद-प्रक्षालनार्थं जलं न देयं येनापमानं ज्ञात्वा परित्यज्य गच्छन्तीति । तथानुष्ठिते गर्गः पाद-प्रक्षालनापमानात्, सोमो लघ्व्-आसन-दानात्, दत्तः कदशनतो यातः । एवं ते त्रयो ऽपि परित्यज्य गताः । चतुर्थः श्यामलको यावन् न याति तावद् अर्ध-चन्द्र-प्रदानेन निष्कासितः । अतो ऽहं ब्रवीमि- गर्गो हि पाद-शौचाल् लघ्व्-आसन-दानतो गतः सोमः । दत्तः कदशन-भोज्याच् छ्यामलकश् चार्ध-चन्द्रेण

makara āha-katham etat ? vānaraḥ kathayati- kathā 8 śuddhapaṭa-nāma-rajaka-kathā kasmiṃścid adhiṣṭhāne śuddhapaṭo nāma rajakaḥ prativasati sma | tasya ca gardabha eko 'sti | so 'pi ghāsābhāvād atidurbalatāṃ gataḥ | atha tena rajakenāṭavyāṃ paribhramatā mṛta-vyāghro dṛṣṭaḥ | cintitaṃ ca-aho ! śobhanam āpatitam | anena vyāghra-carmaṇā praticchādya rāsabhaṃ rātrau yava-kṣetreṣūtsrakṣyāmi | yena vyāghraṃ matvā samīpa-vartinaḥ kṣetra-pālā enaṃ na niṣkāsayiṣyanti | tathānuṣṭhite rāsabho yathecchayā yava-bhakṣaṇaṃ karoti | pratyūṣe bhūyo 'pi rajakaḥ svāśrayaṃ nayati | evaṃ gacchatā kālena sa rāsabhaḥ pīvara-tanur jātaḥ | kṛcchrād bandhana-sthānam api nīyate | athānyasminn ahani sa madhoddhato dūrād rāsabhī-śabdam aśṛṇot | tac-chravaṇa-mātreṇaiva svayaṃ śabdayitum ārabdhaḥ | atha te kṣetra-pālā rāsabho 'yaṃ vyāghra-carma-praticchanna iti jñātvā laguḍa-śara-pāṣāṇa-prahārais taṃ vyāpāditavantaḥ | ato 'haṃ bravīmi-suguptaṃ rakṣyamāṇo 'pi (47) iti | tat kiṃ śyāmalakavad atyapamāna-sahanād ardha-candra-dānena yāsyasi | makara āha-katham etat ? vānara āha- kathā 9 mahādhana-īśvara-nāma-bhāṇḍapati-kathā asty atra dharā-pīṭhe vikaṇṭakaṃ nāma puram | tatra mahā-dhana īśvaro nāma bhāṇḍa-patiḥ | tasya catvāro jāmātṛkā avantī-pīṭhāt prāghūrṇikā vikaṇṭaka-pure samāyātāḥ | te ca yena mahatā gauraveṇābhyarcitā bhojānācchādanādibhiḥ | evaṃ teṣāṃ tatra vasatāṃ māsa-ṣaṭkaṃ sañjātam | tata īśvareṇa svabhāryoktā yad ete jāmātaraḥ parama-gauraveṇāvarjitāḥ svāmi gṛhāṇi na gacchanti, tat kiṃ kathyate ? vināpamānaṃ na yāsyanti | tad adya bhojana-velāyāṃ pāda-prakṣālanārthaṃ jalaṃ na deyaṃ yenāpamānaṃ jñātvā parityajya gacchantīti | tathānuṣṭhite gargaḥ pāda-prakṣālanāpamānāt, somo laghv-āsana-dānāt, dattaḥ kadaśanato yātaḥ | evaṃ te trayo 'pi parityajya gatāḥ | caturthaḥ śyāmalako yāvan na yāti tāvad ardha-candra-pradānena niṣkāsitaḥ | ato 'haṃ bravīmi- gargo hi pāda-śaucāl laghv-āsana-dānato gataḥ somaḥ | dattaḥ kadaśana-bhojyāc chyāmalakaś cārdha-candreṇa

Sanskrit only: no published translation is held for this verse.

तत् किम् अहं रथकारवन् मूर्खो यतः स्वयम् अपि दृष्ट्वा ते विकार-पश्चाद् विश्वसिमि । उक्तं च- प्रत्यक्षेऽपि कृते पापे मूर्खः साम्ना प्रशाम्यति । रथकारः स्वकां भार्यां सजारां शिरसावहत् मकर आह-कथम् एतत् ? वानरः कथयति- कथा १० रथकार-कथा कस्मिंश्चिद् अधिष्ठाने कश्चिद् रथकारः प्रतिवसति स्म । तस्य भार्या पुंशलीति जनापवाद-संयुक्ता । सो ऽपि तस्याः परीक्षार्थं व्यचिन्तयत्-कथं मयास्याः परीक्षणं कर्तव्यम् । न चैतद् युज्यते कर्तुं, यतः- नदीनां च कुलानां च मुनीनां च महात्मनाम् । परीक्षा न प्रकर्तव्या स्त्रीणां दुश्चरितस्य च

tat kim ahaṃ rathakāravan mūrkho yataḥ svayam api dṛṣṭvā te vikāra-paścād viśvasimi | uktaṃ ca- pratyakṣe'pi kṛte pāpe mūrkhaḥ sāmnā praśāmyati | rathakāraḥ svakāṃ bhāryāṃ sajārāṃ śirasāvahat makara āha-katham etat ? vānaraḥ kathayati- kathā 10 rathakāra-kathā kasmiṃścid adhiṣṭhāne kaścid rathakāraḥ prativasati sma | tasya bhāryā puṃśalīti janāpavāda-saṃyuktā | so 'pi tasyāḥ parīkṣārthaṃ vyacintayat-kathaṃ mayāsyāḥ parīkṣaṇaṃ kartavyam | na caitad yujyate kartuṃ, yataḥ- nadīnāṃ ca kulānāṃ ca munīnāṃ ca mahātmanām | parīkṣā na prakartavyā strīṇāṃ duścaritasya ca

Sanskrit only: no published translation is held for this verse.

वसोर् वीर्योत्पन्नाम् अभजत मुनिर् मत्स्य-तनयां तथा जातो व्यासो शत-गुण-निवासः किम् अपरम् । स्वयं वेदान् व्यस्यन् शमित-कुरु-वंश-प्रसविता स एवाभा̆च् छ्रीमान् अहह विषमा कर्म-गतयः

vasor vīryotpannām abhajata munir matsya-tanayāṃ tathā jāto vyāso śata-guṇa-nivāsaḥ kim aparam | svayaṃ vedān vyasyan śamita-kuru-vaṃśa-prasavitā sa evābhā̆c chrīmān ahaha viṣamā karma-gatayaḥ

Sanskrit only: no published translation is held for this verse.

कुलानाम् इति पाण्डवानाम् अपि महात्मनां नोत्पत्तिर् अधिगन्तव्या यतः ते क्षेत्रजा इति । स्त्री-दुश्चरितं सन्धुक्ष्यमाणम् अनेक-दोषान् प्रकटयति स्त्रीणाम् इति । तथा च- यदि स्यात् पावकः शीतः प्रोष्णो वा शश-लाञ्छनः । स्त्रीणां तदा सतीत्वं स्याद् यदि स्याद् दुर्जनो हितः

kulānām iti pāṇḍavānām api mahātmanāṃ notpattir adhigantavyā yataḥ te kṣetrajā iti | strī-duścaritaṃ sandhukṣyamāṇam aneka-doṣān prakaṭayati strīṇām iti | tathā ca- yadi syāt pāvakaḥ śītaḥ proṣṇo vā śaśa-lāñchanaḥ | strīṇāṃ tadā satītvaṃ syād yadi syād durjano hitaḥ

Sanskrit only: no published translation is held for this verse.

यथापि शुद्धाम् अशुद्धां वापि जानामि लोक-वचनात् । उक्तं च- यन् न वेदेषु शास्त्रेषु न दृष्टं न च संश्रुतम् । तत् सर्वं वेत्ति लोको ऽयं यत् स्याद् ब्रह्माण्ड-मध्यगम्

yathāpi śuddhām aśuddhāṃ vāpi jānāmi loka-vacanāt | uktaṃ ca- yan na vedeṣu śāstreṣu na dṛṣṭaṃ na ca saṃśrutam | tat sarvaṃ vetti loko 'yaṃ yat syād brahmāṇḍa-madhyagam

Sanskrit only: no published translation is held for this verse.

एवं सम्प्रधार्य ताम् अवोचत-प्रिये, अहं प्रातर् ग्रामान्तरं यास्यामि तत्र दिनानि कतिचिल् लगिष्यन्ति । तत् त्वया किञ्चित् पाथेयं मम योग्यं कार्यम् । सापि तद् आकर्ण्य हर्षित-चित्तौत्सुक्येन सर्व-कार्याणि सन्त्यज्य सिद्धम् अन्नं घृत-शर्करा-प्रायम् अकरोत् । अथवा साध्व् इदम् उच्यते- दुर्दिवसे घन-तिमिरे दुःख-चारासु नगर-वीथीषु । पत्यौ विदेश-याते परम-सुखं जघन-चपलायाः

evaṃ sampradhārya tām avocata-priye, ahaṃ prātar grāmāntaraṃ yāsyāmi tatra dināni katicil lagiṣyanti | tat tvayā kiñcit pātheyaṃ mama yogyaṃ kāryam | sāpi tad ākarṇya harṣita-cittautsukyena sarva-kāryāṇi santyajya siddham annaṃ ghṛta-śarkarā-prāyam akarot | athavā sādhv idam ucyate- durdivase ghana-timire duḥkha-cārāsu nagara-vīthīṣu | patyau videśa-yāte parama-sukhaṃ jaghana-capalāyāḥ

Sanskrit only: no published translation is held for this verse.

अथासौ प्रत्यूषे उत्थाय स्व-गृहान् निर्गतः । सापि तं प्रस्थितं विज्ञाय प्रहसित-वदनाङ्ग-सत्कारं कुर्वाणा कथञ्चित् तं दिवसम् अत्यवाहयत् । ततश् च पूर्व-परिचितं विट-गृहं गत्वा तम् अभ्यर्थोक्तवती यद्-ग्रामान्तरं गतः स दुरात्मा मे पतिः । तद् अद्य त्वयास्मद्-गृहे प्रसुप्ते जने समागन्तव्यम् । तथानुष्ठिते स रथकारो ऽप्य् अरण्ये दिनम् अतिवाह्य प्रदोषे स्व-गृहम् अपर-द्वारेण प्रविष्टः शय्या-तले निभृतो भूत्वा स्थितः । अत्रान्तरे स देवदत्तः शयन आगत्योपविष्टः । तं दृष्ट्वा रथकारो रोषाविष्ट-चित्तो व्यचिन्तयत्-किम् एनम् उत्थाय विनाशयाम्य् अथवा द्वाव् अप्य् एतौ सुप्तौ हेलया हन्मि । परं पश्यामि तावच् चेष्टितम् अस्याः शृणोमि चानेन सहालापान् । अत्रान्तरे सा गृह-द्वारं निभृतं पिधाय शयन-तलम् आरूढा । तस्यास् तच्-छयनम् आरोहन्त्या रथकार-शरीरे पादो लग्नः । ततो व्यचिन्तयत्-नूनम् एतेन दुरात्मना रथकारेण मत्-परीक्षार्थं भाव्यम् । तत्-स्त्री-चरित-विज्ञानं किम् अपि करोमि । एवं तस्याश् चिन्तयन्त्याः स देवदत्तः स्पर्शोत्सुक्यो बभूव । ततश् च तयाकृताऊजलि-पुटयाभिहितं-भो महानुभव ! न मे गात्रं त्वया स्प्रष्टव्यम्, यतो ऽहं पतिव्रता महा-सती च । नो चेच् छापं दत्त्वा त्वां भस्मसात् करिष्यामि । स आह-यद्य् एवं तर्हि किम् अर्थं त्वयाहूतः ? सा प्राह-भोः ! शृणुष्वैकाग्र-मनाः । अहम् अद्य प्रत्यूषे देवता-दर्शनार्थं चण्डिकायतनं गता । तत्राकस्मात् खे वाणी सञ्जाता-पुत्रि, किं करोमि । भक्तासि मे त्वम् । परं षण्मासाभ्यन्तरे विधि-नियोगाद् विधवा भविष्यसि । ततो मयाभिहितं-भगवति ! यया त्वम् आपदं वेत्सि तथा तत्-पर्तीकारम् अपि जानासि । तद् अस्ति कश्चिद् उपायो येन मे पतिः शत-संवत्सर-जीवी भवति । ततस् तयाभिहितं-वत्से, सन्न् अपि नास्ति यतस् तवायत्तः स प्रतीकारः । तच् छ्रुत्वा मयाभिहितं-देवि ! यन् मत्-प्राणैर् भवति तद् आदेशय येन करोमि । ततो देव्याभिहितं-यद्य् अद्य दिने पर-पुरुषेण सहैकस्मिञ् छयने समारुह्यालिङ्गनं करोषि, तदा तव भर्तृ-सक्तो ऽपमृत्युस् तस्य सञ्चरित, त्वद्-भर्ता पुनर् वर्ष-शतं जीवति । तेन मया त्वम् अभ्यर्थितः । तयो यत् किञ्चित् कर्तुम् अनास् तत् कुरुष्व, नहि देवता-वचनम् अन्यथा भविष्यतीति निश्चयः । ततो ऽन्तर्हास-विकास-मुखः स तद्-उचितम् आचचार । सो ऽपि रथकारो मूर्खस् तस्यास् तद्-वचनम् आकर्ण्य पुलकाङ्कित-तनुः शय्या-तलान् निष्क्रम्य ताम् उवाच-साधु पतिव्रते ! साधु कुल-नन्दिनि ! साधु ! अहं दुर्जन-वचन-शङ्कित-हृदयस् त्वत्-परीक्षार्थं ग्रामान्तर-व्याजं कृत्वात्र निभृतं खट्वा-तले लीनः स्थितः । तद् एहि, आलिङ्गय माम् । त्वं स्व-भर्तृ-भक्तानां मुख्या नारीणां, यद् एवं ब्रह्म-व्रतं पर-सङ्गेऽपि पालितवती । मद्-आयुर्-वृद्धि-कृतेऽपमृत्यु-विनाशार्थं च त्वम् एवं कृतवती । ताम् एवम् उक्त्वा स-स्नेहम् आलिङ्गितवान् । स्व-स्कन्धे ताम् आरोप्य तम् अपि देवदत्तम् उवाच-भोः महानुभाव ! मत्-पुण्यैस् त्वम् इहागतः । त्वत्-प्रसादात् प्राप्ताम् अद्य मया वर्ष-शत-प्रमाणम् आयुः । ततस् त्वम् अपि मां समालिङ्गय स्कन्धं मे समारोह । इति जल्पन्न् अनिच्छन्तम् अपि देवदत्तं बलाद् आलिङ्ग्य स्कन्धे समारोपितवान् । ततश् च तूर्य-ध्वनि-च्छन्देन नृत्यन् सकल-गृह-द्वारेषु बभ्राम । अतो ऽहं ब्रवीमि-प्रत्यक्षेऽपि कृते पापे (४९) । तन् मूढ ! दृष्ट-विकारस् त्वम्, तत् कथं तत्र गृहं गच्छामि । अथवा यन् मां त्वं विश्वासयसि तत् ते दोषो नास्ति, यत् ईदृशी स्वभाव-दुष्टा युष्मज्-जातिर् या शिष्ट-सङ्गाद् अपि सौम्यत्वं न याति । अथवा स्वभावो ऽयं दुष्टानाम् । उक्तं च- सद्भिः सम्बोध्यमानो ऽपि दुरात्मा पाप-पौरुषः । घृष्यमाण इवाङ्गारो निर्मलत्वं न गच्छति

athāsau pratyūṣe utthāya sva-gṛhān nirgataḥ | sāpi taṃ prasthitaṃ vijñāya prahasita-vadanāṅga-satkāraṃ kurvāṇā kathañcit taṃ divasam atyavāhayat | tataś ca pūrva-paricitaṃ viṭa-gṛhaṃ gatvā tam abhyarthoktavatī yad-grāmāntaraṃ gataḥ sa durātmā me patiḥ | tad adya tvayāsmad-gṛhe prasupte jane samāgantavyam | tathānuṣṭhite sa rathakāro 'py araṇye dinam ativāhya pradoṣe sva-gṛham apara-dvāreṇa praviṣṭaḥ śayyā-tale nibhṛto bhūtvā sthitaḥ | atrāntare sa devadattaḥ śayana āgatyopaviṣṭaḥ | taṃ dṛṣṭvā rathakāro roṣāviṣṭa-citto vyacintayat-kim enam utthāya vināśayāmy athavā dvāv apy etau suptau helayā hanmi | paraṃ paśyāmi tāvac ceṣṭitam asyāḥ śṛṇomi cānena sahālāpān | atrāntare sā gṛha-dvāraṃ nibhṛtaṃ pidhāya śayana-talam ārūḍhā | tasyās tac-chayanam ārohantyā rathakāra-śarīre pādo lagnaḥ | tato vyacintayat-nūnam etena durātmanā rathakāreṇa mat-parīkṣārthaṃ bhāvyam | tat-strī-carita-vijñānaṃ kim api karomi | evaṃ tasyāś cintayantyāḥ sa devadattaḥ sparśotsukyo babhūva | tataś ca tayākṛtāūjali-puṭayābhihitaṃ-bho mahānubhava ! na me gātraṃ tvayā spraṣṭavyam, yato 'haṃ pativratā mahā-satī ca | no cec chāpaṃ dattvā tvāṃ bhasmasāt kariṣyāmi | sa āha-yady evaṃ tarhi kim arthaṃ tvayāhūtaḥ ? sā prāha-bhoḥ ! śṛṇuṣvaikāgra-manāḥ | aham adya pratyūṣe devatā-darśanārthaṃ caṇḍikāyatanaṃ gatā | tatrākasmāt khe vāṇī sañjātā-putri, kiṃ karomi | bhaktāsi me tvam | paraṃ ṣaṇmāsābhyantare vidhi-niyogād vidhavā bhaviṣyasi | tato mayābhihitaṃ-bhagavati ! yayā tvam āpadaṃ vetsi tathā tat-partīkāram api jānāsi | tad asti kaścid upāyo yena me patiḥ śata-saṃvatsara-jīvī bhavati | tatas tayābhihitaṃ-vatse, sann api nāsti yatas tavāyattaḥ sa pratīkāraḥ | tac chrutvā mayābhihitaṃ-devi ! yan mat-prāṇair bhavati tad ādeśaya yena karomi | tato devyābhihitaṃ-yady adya dine para-puruṣeṇa sahaikasmiñ chayane samāruhyāliṅganaṃ karoṣi, tadā tava bhartṛ-sakto 'pamṛtyus tasya sañcarita, tvad-bhartā punar varṣa-śataṃ jīvati | tena mayā tvam abhyarthitaḥ | tayo yat kiñcit kartum anās tat kuruṣva, nahi devatā-vacanam anyathā bhaviṣyatīti niścayaḥ | tato 'ntarhāsa-vikāsa-mukhaḥ sa tad-ucitam ācacāra | so 'pi rathakāro mūrkhas tasyās tad-vacanam ākarṇya pulakāṅkita-tanuḥ śayyā-talān niṣkramya tām uvāca-sādhu pativrate ! sādhu kula-nandini ! sādhu ! ahaṃ durjana-vacana-śaṅkita-hṛdayas tvat-parīkṣārthaṃ grāmāntara-vyājaṃ kṛtvātra nibhṛtaṃ khaṭvā-tale līnaḥ sthitaḥ | tad ehi, āliṅgaya mām | tvaṃ sva-bhartṛ-bhaktānāṃ mukhyā nārīṇāṃ, yad evaṃ brahma-vrataṃ para-saṅge'pi pālitavatī | mad-āyur-vṛddhi-kṛte'pamṛtyu-vināśārthaṃ ca tvam evaṃ kṛtavatī | tām evam uktvā sa-sneham āliṅgitavān | sva-skandhe tām āropya tam api devadattam uvāca-bhoḥ mahānubhāva ! mat-puṇyais tvam ihāgataḥ | tvat-prasādāt prāptām adya mayā varṣa-śata-pramāṇam āyuḥ | tatas tvam api māṃ samāliṅgaya skandhaṃ me samāroha | iti jalpann anicchantam api devadattaṃ balād āliṅgya skandhe samāropitavān | tataś ca tūrya-dhvani-cchandena nṛtyan sakala-gṛha-dvāreṣu babhrāma | ato 'haṃ bravīmi-pratyakṣe'pi kṛte pāpe (49) | tan mūḍha ! dṛṣṭa-vikāras tvam, tat kathaṃ tatra gṛhaṃ gacchāmi | athavā yan māṃ tvaṃ viśvāsayasi tat te doṣo nāsti, yat īdṛśī svabhāva-duṣṭā yuṣmaj-jātir yā śiṣṭa-saṅgād api saumyatvaṃ na yāti | athavā svabhāvo 'yaṃ duṣṭānām | uktaṃ ca- sadbhiḥ sambodhyamāno 'pi durātmā pāpa-pauruṣaḥ | ghṛṣyamāṇa ivāṅgāro nirmalatvaṃ na gacchati

Sanskrit only: no published translation is held for this verse.

तन् मूर्ख ! स्त्री-लुब्ध ! स्त्री-जित ! अन्येऽपि ये त्वद्-विधा भवन्ति ते स्व-कार्यं विभवं मित्रं च परित्यजन्ति तत्-कृते । उक्तं च- या ममोद्विजते नित्यं साद्य माम् अवगूहते । प्रिय-कारक भद्रं ते यन् ममास्ति हरस्व तत्

tan mūrkha ! strī-lubdha ! strī-jita ! anye'pi ye tvad-vidhā bhavanti te sva-kāryaṃ vibhavaṃ mitraṃ ca parityajanti tat-kṛte | uktaṃ ca- yā mamodvijate nityaṃ sādya mām avagūhate | priya-kāraka bhadraṃ te yan mamāsti harasva tat

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? वानरो ऽब्रवीत्- कथा ११ कामातुर-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने कामातुरो नाम महाधनो वृद्ध-वणिक् । तेन मृत-भार्येण कामोपहत-चेतसा काचिन् निर्धन-वणिक्-सुता प्रभूतं वित्तं दत्त्वोद्वाहिता । अथ सा दुःखाभिभूता तं वृद्ध-वणिजं द्रष्टुम् अपि न शशाक । अथवा साध्व् इदम् उच्यते- श्वेतं पदं शिरसि यत् तु शिरोरुहाणां स्थानं परं परिभवस्य तद् एव पुंसाम् । आरोपितास्थि-शकलं परिहृत्य यान्ति चाण्डाल-कूपम् इव दूरतरं तरुण्यः

makara āha-katham etat ? vānaro 'bravīt- kathā 11 kāmātura-kathā asti kasmiṃścid adhiṣṭhāne kāmāturo nāma mahādhano vṛddha-vaṇik | tena mṛta-bhāryeṇa kāmopahata-cetasā kācin nirdhana-vaṇik-sutā prabhūtaṃ vittaṃ dattvodvāhitā | atha sā duḥkhābhibhūtā taṃ vṛddha-vaṇijaṃ draṣṭum api na śaśāka | athavā sādhv idam ucyate- śvetaṃ padaṃ śirasi yat tu śiroruhāṇāṃ sthānaṃ paraṃ paribhavasya tad eva puṃsām | āropitāsthi-śakalaṃ parihṛtya yānti cāṇḍāla-kūpam iva dūrataraṃ taruṇyaḥ

Sanskrit only: no published translation is held for this verse.

तथा च- गात्रं सङ्कुचितं गति-विगलिता दन्ताश् च नाशं गताह् दृष्टिर् भ्राम्यति रूपम् एव ह्रसते वक्त्रं च लालायते । वाक्यं नैव करोति बान्धव-जनः पत्नी न शुश्रूषते हा कष्टं जरयाभिभूत-पुरुषः पुत्रैर् अवज्ञायते

tathā ca- gātraṃ saṅkucitaṃ gati-vigalitā dantāś ca nāśaṃ gatāh dṛṣṭir bhrāmyati rūpam eva hrasate vaktraṃ ca lālāyate | vākyaṃ naiva karoti bāndhava-janaḥ patnī na śuśrūṣate hā kaṣṭaṃ jarayābhibhūta-puruṣaḥ putrair avajñāyate

Sanskrit only: no published translation is held for this verse.

अथ कदाचित् सा तेन सहैक-शयने पराङ्-मुखी यावत् तिष्ठति तावत् तस्य गृहे चौरः प्रविष्टः । सापि तं चौरम् अवलोक्य भय-व्याकुला वृद्धम् अपि पतिं गाढं समालिलिङ्ग । सो ऽपि विस्मयात् पुलकाङ्कित-सर्व-गात्रश् चिन्तयामास-अहो ! किम् एषा माम् अद्यावगूहते । अहो चित्रम् एतत् ! ततश् च यावन् निपुणतयावलोकयति तावत् चौरः प्रविष्टः कोणैक-देशे तिष्ठति । पुनर् अप्य् अचिन्तयत्-नूनम् एषा चौरस्य भयान् माम् आलिङ्गति । तज् ज्ञात्वा चौरम् आह-या ममोद्विजते नित्यं साद्य (५५) इति । भूयो ऽपि निर्गच्छन्तम् अवादीत्-भो चोर ! नित्यम् एव त्वया रात्राव् आगन्तव्यं मदीयो ऽयं विभवस् त्वदीय इति । अतो ऽहं ब्रवीमि-या ममोद्विजते इत्य् आदि । किं बहुना, तेन च स्त्री-लुब्धेन स्वं सर्वं चौरस्य समर्पितम् । त्वयापि तथानुष्ठितम् । अथैव तेन सह वदतो मकरस्य जलचरेणैकेनागत्याभिहितम्-भो मकर ! त्वदीया भार्यानशनोपविष्टा त्वयि चिरयति प्रणयाभिभवाद् विपन्ना । एवं तद्-वज्र-पात-सदृश-वचनम् आकर्ण्यातीव्र-व्याकुलित-हृदयः प्रलपितम् एवं चकार-अहो किम् इदं सञ्जातं मे मन्द-भागस्य । उक्तं च- न गृहं गृहम् इत्य् आहुर् गृहिणी गृहम् उच्यते । गृहं तु गृहिणी-हीनं कान्तारान् नातिरिच्यते

atha kadācit sā tena sahaika-śayane parāṅ-mukhī yāvat tiṣṭhati tāvat tasya gṛhe cauraḥ praviṣṭaḥ | sāpi taṃ cauram avalokya bhaya-vyākulā vṛddham api patiṃ gāḍhaṃ samāliliṅga | so 'pi vismayāt pulakāṅkita-sarva-gātraś cintayāmāsa-aho ! kim eṣā mām adyāvagūhate | aho citram etat ! tataś ca yāvan nipuṇatayāvalokayati tāvat cauraḥ praviṣṭaḥ koṇaika-deśe tiṣṭhati | punar apy acintayat-nūnam eṣā caurasya bhayān mām āliṅgati | taj jñātvā cauram āha-yā mamodvijate nityaṃ sādya (55) iti | bhūyo 'pi nirgacchantam avādīt-bho cora ! nityam eva tvayā rātrāv āgantavyaṃ madīyo 'yaṃ vibhavas tvadīya iti | ato 'haṃ bravīmi-yā mamodvijate ity ādi | kiṃ bahunā, tena ca strī-lubdhena svaṃ sarvaṃ caurasya samarpitam | tvayāpi tathānuṣṭhitam | athaiva tena saha vadato makarasya jalacareṇaikenāgatyābhihitam-bho makara ! tvadīyā bhāryānaśanopaviṣṭā tvayi cirayati praṇayābhibhavād vipannā | evaṃ tad-vajra-pāta-sadṛśa-vacanam ākarṇyātīvra-vyākulita-hṛdayaḥ pralapitam evaṃ cakāra-aho kim idaṃ sañjātaṃ me manda-bhāgasya | uktaṃ ca- na gṛhaṃ gṛham ity āhur gṛhiṇī gṛham ucyate | gṛhaṃ tu gṛhiṇī-hīnaṃ kāntārān nātiricyate

Sanskrit only: no published translation is held for this verse.

अन्यच् च- वृक्ष-मूलेऽपि दयिता यत्र तिष्ठति तद् गृहम् । प्रासादो ऽपि तया हीनो ऽरण्य-सदृशः स्मृतः

anyac ca- vṛkṣa-mūle'pi dayitā yatra tiṣṭhati tad gṛham | prāsādo 'pi tayā hīno 'raṇya-sadṛśaḥ smṛtaḥ

Sanskrit only: no published translation is held for this verse.

माता यस्य गृहे नास्ति भार्या च प्रिय-वादिनी । अरण्यं तेन गन्तव्यं यथारण्यं तथा गृहम्

mātā yasya gṛhe nāsti bhāryā ca priya-vādinī | araṇyaṃ tena gantavyaṃ yathāraṇyaṃ tathā gṛham

Sanskrit only: no published translation is held for this verse.

तन् मित्र ! क्षम्यताम् । मया तेऽपराधः कृतः । सम्प्रत्य् अहं तु स्त्री-वियोगाद् वैश्वानर-प्रवेशं करिष्यामि । तन् मूढ ! आनन्देऽपि जाते त्वं विषादं गतः । तादृग्-भार्यायां मृतायाम् उत्सवः कर्तुं युज्यते । उक्तं च यतः- या भार्या दुष्ट-चरित्रा सततं कलह-प्रिया । भार्या-रूपेण सा ज्ञेया विदग्धैर् दारुणा जरा

tan mitra ! kṣamyatām | mayā te'parādhaḥ kṛtaḥ | sampraty ahaṃ tu strī-viyogād vaiśvānara-praveśaṃ kariṣyāmi | tan mūḍha ! ānande'pi jāte tvaṃ viṣādaṃ gataḥ | tādṛg-bhāryāyāṃ mṛtāyām utsavaḥ kartuṃ yujyate | uktaṃ ca yataḥ- yā bhāryā duṣṭa-caritrā satataṃ kalaha-priyā | bhāryā-rūpeṇa sā jñeyā vidagdhair dāruṇā jarā

Sanskrit only: no published translation is held for this verse.

तस्मात् सर्व-प्रयत्नेन नामापि परिवर्जयेत् । स्त्रीणाम् इह हि सर्वासां य इच्छेत् सुखम् आत्मनः

tasmāt sarva-prayatnena nāmāpi parivarjayet | strīṇām iha hi sarvāsāṃ ya icchet sukham ātmanaḥ

Sanskrit only: no published translation is held for this verse.

यद्-अन्तस् तन् न जिह्वायां यज् जिह्वायां न तद्-बहिः । यद्-बहिस् तन् न कुर्वन्ति विचित्र-चरिताः स्त्रियः

yad-antas tan na jihvāyāṃ yaj jihvāyāṃ na tad-bahiḥ | yad-bahis tan na kurvanti vicitra-caritāḥ striyaḥ

Sanskrit only: no published translation is held for this verse.

के नाम न विनश्यन्ति मिथ्या-ज्ञानान् नितम्बिनीम् । रम्यां ते उपसर्पन्ति दीपाभां शलभा यथा

ke nāma na vinaśyanti mithyā-jñānān nitambinīm | ramyāṃ te upasarpanti dīpābhāṃ śalabhā yathā

Sanskrit only: no published translation is held for this verse.

अन्तर्-विष-मया ह्य् एता बहिश् चैव मनोरमाः । गुञ्जा-फल-समाकारा योषितः केन निर्मिताः

antar-viṣa-mayā hy etā bahiś caiva manoramāḥ | guñjā-phala-samākārā yoṣitaḥ kena nirmitāḥ

Sanskrit only: no published translation is held for this verse.

ताडिता अपि दण्डेन शस्त्रैर् अपि विखण्डिताः । न वशं योषितो यान्ति न दानैर् न च संस्तवैः

tāḍitā api daṇḍena śastrair api vikhaṇḍitāḥ | na vaśaṃ yoṣito yānti na dānair na ca saṃstavaiḥ

Sanskrit only: no published translation is held for this verse.

आस्तां तावत् किम् अन्येन दौरात्म्येनेह योषिताम् । विधृतं स्वोदरेणापि घ्नन्ति पुत्रम् अपि स्वकम्

āstāṃ tāvat kim anyena daurātmyeneha yoṣitām | vidhṛtaṃ svodareṇāpi ghnanti putram api svakam

Sanskrit only: no published translation is held for this verse.

रूक्षायां स्नेह-सद्-भावं कठोरायां सुमार्दवम् । नीरसायां रसं बालो बालिकायां विकल्पयेत्

rūkṣāyāṃ sneha-sad-bhāvaṃ kaṭhorāyāṃ sumārdavam | nīrasāyāṃ rasaṃ bālo bālikāyāṃ vikalpayet

Sanskrit only: no published translation is held for this verse.

मकर आह-भो मित्र ! अस्त्व् एतत् । परं किं करोमि ? ममानर्थ-द्वयम् एतत् सञ्जातम् । एकस् तावद् गृह-भङ्गः । अपरस् त्वद्-विधेन मित्रेण सह चित्त-विश्लेषः । अथवा भवत्य् एवं दैव-योगात् । उक्तं च यतः- यादृशं मम पाण्डित्यं तादृशं द्विगुणं तव । नाभूज् जारो न भर्ता च किं निरीक्षसि नग्निके

makara āha-bho mitra ! astv etat | paraṃ kiṃ karomi ? mamānartha-dvayam etat sañjātam | ekas tāvad gṛha-bhaṅgaḥ | aparas tvad-vidhena mitreṇa saha citta-viśleṣaḥ | athavā bhavaty evaṃ daiva-yogāt | uktaṃ ca yataḥ- yādṛśaṃ mama pāṇḍityaṃ tādṛśaṃ dviguṇaṃ tava | nābhūj jāro na bhartā ca kiṃ nirīkṣasi nagnike

Sanskrit only: no published translation is held for this verse.

वानर आह-कथम् एतत् ? मकरो ऽब्रवीत्- कथा १२ हालिक-दम्पती-कथा कस्मिंश्चिद् अधिष्ठाने हालिक-दम्पती प्रतिवसतः स्म । सा च हालिक-भार्या पत्युर् वृद्ध-भावात् सदैवान्य-चित्ता न कथञ्चिद् गृहे स्थैर्यम् आलम्बते । केवलं पर-पुरुषान् अन्वेषमाणा परिभ्रमति । अथ केनचित् पर-वित्तापहारकेण धूर्तेन सा लक्षिता विजने प्रोक्ता च-सुभगे ! मृत-भार्यो ऽहम् । त्वद्-दर्शनेन स्मर-पीडितश् च । तद् दीयतां मे रति-दक्षिणा । ततस् तयाभिहितम्-भोः सुभग ! यद्य् एवं तद् अस्ति मे पत्युः प्रभूतं धनम् । स च वृद्धत्वात् प्रचलितुम् अप्य् असमर्थः । ततस् तद्-धनम् आदायाहम् आगच्छामि । येन त्वया सहान्यत्र गत्वा यथेच्छया रति-सुखम् अनुभविष्यामि । सो ऽब्रवीत्-रोचते मह्यम् अप्य् एतत् । तत् प्रत्यूषेऽत्र स्थाने शीघ्रम् एव समागन्तव्यम्, येन शुभतरं किञ्चिन् नगरं गत्वा त्वया सह जीव-लोकः सफलीक्रियते । सापि तथेति प्रतिज्ञाय प्रहसित-वदना स्व-गृहं गत्वा रात्रौ प्रसुप्ते भर्तरि सर्वं वित्तम् आदाय प्रत्यूष-समये तत्-कथित-स्थानम् उपाद्रवत् । धूर्तो ऽपि ताम् अग्रे विधाय दक्षिणां दिशम् आश्रित्य सत्वर-गतिः प्रस्थितः । एवं तयोर् व्रजतोर् योजन-द्वय-मात्रेणाग्रतः काचिन् नदी समुपस्थिता । तां दृष्ट्वा धूर्तश् चिन्तयामास-किम् अहम् अनया यौवन-प्रान्ते वर्तमानया करिष्यामि । किं च कदाप्य् अस्याः पृष्ठतः को ऽपि समेष्यति । तन् मे महान् अनर्थः स्यात् । तत् केवलम् अस्या वित्तम् आदाय गच्छामि । इति निश्चित्य ताम् उवाच-प्रिये ! सुदुस्तरेयं महानदा । तद् अहं द्रव्य-मात्रां पारे धृत्वा समागच्छामि । ततस् त्वाम् एकाकिनीं स्व-पृष्ठम् आरोप्य सुखेनोत्तारयिष्यामि । सा प्राह-सुभग ! एवं क्रियताम् । इत्य् उक्त्वाशिषं वित्तं तस्मै समर्पयामास । अथ तेनाभिहितं-भद्रे ! परिधानाच्छादन-वस्त्रम् अपि समर्पय । येन जल-मध्ये निःशङ्कं व्रजसि । तथानुष्ठिते धूर्तो वित्तं वस्त्र-युगलं चादाय यथाचिन्तित-विषयं गतः । सापि कण्ठ-निवेशित-हस्त-युगला सोद्वेगा नदी-पुलिन-देश उपविष्टा यावत् तिष्ठति तावद् एतस्मिन्न् अन्तरे काचिच् छृगालिका मांस-पिण्ड-गृहीत-वदना तत्राजगाम । आगत्य च यावत् पश्यति, तावन् नदी महान् मत्स्यः सलिलान् निष्क्रम्य बहिः स्थित आस्ते । एवं च दृष्ट्वा सा मांस-पिण्डं समुत्सृज्य तं मत्स्यं प्रत्युपाद्रवत् । अत्रान्तरं आकाशाद् आवतीर्थं को ऽपि प्रत्युपाद्रवत् । अत्रान्तरम् आकाशाद् अवतीर्य को ऽपि गृध्रस् तं मांस-पिण्डम् आदाय पुनः खम् उत्पतात । मत्स्यो ऽपि शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिकां दृष्ट्वा नद्यां प्रविवेश । सा शृगालिका व्यर्थ-श्रमा गृध्रम् अवलोकयन्ती तया नग्निकया स-स्मितम् अभिहिता- गृध्रेणापहृतं मांसं मत्स्यो ऽपि सलिलं गतः । मत्स्य-मांस-परिभ्रष्टे किं निरीक्ष्यसि जम्बुके

vānara āha-katham etat ? makaro 'bravīt- kathā 12 hālika-dampatī-kathā kasmiṃścid adhiṣṭhāne hālika-dampatī prativasataḥ sma | sā ca hālika-bhāryā patyur vṛddha-bhāvāt sadaivānya-cittā na kathañcid gṛhe sthairyam ālambate | kevalaṃ para-puruṣān anveṣamāṇā paribhramati | atha kenacit para-vittāpahārakeṇa dhūrtena sā lakṣitā vijane proktā ca-subhage ! mṛta-bhāryo 'ham | tvad-darśanena smara-pīḍitaś ca | tad dīyatāṃ me rati-dakṣiṇā | tatas tayābhihitam-bhoḥ subhaga ! yady evaṃ tad asti me patyuḥ prabhūtaṃ dhanam | sa ca vṛddhatvāt pracalitum apy asamarthaḥ | tatas tad-dhanam ādāyāham āgacchāmi | yena tvayā sahānyatra gatvā yathecchayā rati-sukham anubhaviṣyāmi | so 'bravīt-rocate mahyam apy etat | tat pratyūṣe'tra sthāne śīghram eva samāgantavyam, yena śubhataraṃ kiñcin nagaraṃ gatvā tvayā saha jīva-lokaḥ saphalīkriyate | sāpi tatheti pratijñāya prahasita-vadanā sva-gṛhaṃ gatvā rātrau prasupte bhartari sarvaṃ vittam ādāya pratyūṣa-samaye tat-kathita-sthānam upādravat | dhūrto 'pi tām agre vidhāya dakṣiṇāṃ diśam āśritya satvara-gatiḥ prasthitaḥ | evaṃ tayor vrajator yojana-dvaya-mātreṇāgrataḥ kācin nadī samupasthitā | tāṃ dṛṣṭvā dhūrtaś cintayāmāsa-kim aham anayā yauvana-prānte vartamānayā kariṣyāmi | kiṃ ca kadāpy asyāḥ pṛṣṭhataḥ ko 'pi sameṣyati | tan me mahān anarthaḥ syāt | tat kevalam asyā vittam ādāya gacchāmi | iti niścitya tām uvāca-priye ! sudustareyaṃ mahānadā | tad ahaṃ dravya-mātrāṃ pāre dhṛtvā samāgacchāmi | tatas tvām ekākinīṃ sva-pṛṣṭham āropya sukhenottārayiṣyāmi | sā prāha-subhaga ! evaṃ kriyatām | ity uktvāśiṣaṃ vittaṃ tasmai samarpayāmāsa | atha tenābhihitaṃ-bhadre ! paridhānācchādana-vastram api samarpaya | yena jala-madhye niḥśaṅkaṃ vrajasi | tathānuṣṭhite dhūrto vittaṃ vastra-yugalaṃ cādāya yathācintita-viṣayaṃ gataḥ | sāpi kaṇṭha-niveśita-hasta-yugalā sodvegā nadī-pulina-deśa upaviṣṭā yāvat tiṣṭhati tāvad etasminn antare kācic chṛgālikā māṃsa-piṇḍa-gṛhīta-vadanā tatrājagāma | āgatya ca yāvat paśyati, tāvan nadī mahān matsyaḥ salilān niṣkramya bahiḥ sthita āste | evaṃ ca dṛṣṭvā sā māṃsa-piṇḍaṃ samutsṛjya taṃ matsyaṃ pratyupādravat | atrāntaraṃ ākāśād āvatīrthaṃ ko 'pi pratyupādravat | atrāntaram ākāśād avatīrya ko 'pi gṛdhras taṃ māṃsa-piṇḍam ādāya punaḥ kham utpatāta | matsyo 'pi śṛgālikāṃ dṛṣṭvā nadyāṃ praviveśa | sā śṛgālikāṃ dṛṣṭvā nadyāṃ praviveśa | sā śṛgālikā vyartha-śramā gṛdhram avalokayantī tayā nagnikayā sa-smitam abhihitā- gṛdhreṇāpahṛtaṃ māṃsaṃ matsyo 'pi salilaṃ gataḥ | matsya-māṃsa-paribhraṣṭe kiṃ nirīkṣyasi jambuke

Sanskrit only: no published translation is held for this verse.

मित्रं ह्य् अमित्रतां यातम् अपरं मे प्रिया मित्रा । गृहम् अन्येन च व्याप्तं किम् अद्यापि भविष्यति

mitraṃ hy amitratāṃ yātam aparaṃ me priyā mitrā | gṛham anyena ca vyāptaṃ kim adyāpi bhaviṣyati

Sanskrit only: no published translation is held for this verse.

अथवा युक्तम् इदम् उच्यते- क्षते प्रहारा निपतन्त्य् अभीक्ष्णम् अन्न-क्षये वर्धति जाठराग्निः । आपत्सु वैराणि समुद्भवन्ति वामे विधौ सर्वम् इदं नराणाम्

athavā yuktam idam ucyate- kṣate prahārā nipatanty abhīkṣṇam anna-kṣaye vardhati jāṭharāgniḥ | āpatsu vairāṇi samudbhavanti vāme vidhau sarvam idaṃ narāṇām

Sanskrit only: no published translation is held for this verse.

तत् किं करोमि ? किम् अनेन सह युद्धं करोमि ? किं वा साम्नैव सम्बोध्य गृहान् निःसारयामि ? किं वा भेदं दानं वा करोमि ? अथवामुम् एव वानर-मित्रं पृच्छामि ? उक्तं च- यः पृष्ट्वा कुरुते कार्यं प्रष्टव्यान् स्व-हितान् गुरून् । न तस्य जायते विघ्नः कस्मिंश्चिद् अपि कर्मणि

tat kiṃ karomi ? kim anena saha yuddhaṃ karomi ? kiṃ vā sāmnaiva sambodhya gṛhān niḥsārayāmi ? kiṃ vā bhedaṃ dānaṃ vā karomi ? athavāmum eva vānara-mitraṃ pṛcchāmi ? uktaṃ ca- yaḥ pṛṣṭvā kurute kāryaṃ praṣṭavyān sva-hitān gurūn | na tasya jāyate vighnaḥ kasmiṃścid api karmaṇi

Sanskrit only: no published translation is held for this verse.

एवं सम्प्रधार्य भूयो ऽपि तम् एव जम्बू-वृक्षम् आरूढं कपिम् अपृच्छत्-भो मित्र ! पश्य मे मन्द-भाग्यताम् । तत् सम्प्रति गृहम् अपि मे बलवत्तरेण मकरेण रुद्धम् । तद् अहं त्वां प्रष्टुम् अभ्यागतः । कथय किं करोमि ? सामादीनाम् उपायानां मध्ये कस्यात्र विषयः ? स आह-भोः कृतघ्न पाप-चारिन् ! मया निषिद्धो ऽपि किं भूयो माम् अनुसरसि । नाहं तव मूर्खस्योपदेशम् अपि दास्यामि । तच् छ्रुत्वा मकरः प्राह-भो मित्र ! सापराधस्य मे पूर्व-स्नेहम् अनुस्मृत्य हितोपदेशं देहि । वानर आह-नाहं ते कथयिष्यामि । यद् भार्या-वाक्येन भवताहं समुद्रे प्रक्षिप्तुं नीतः । तद् एवं न युक्तम् । यद्यपि भार्या सर्व-लोकाद् अपि वल्लभा भवति, तथापि न मित्राणि बान्धवाश् च भार्या-वाक्येन समुद्रे प्रक्षिप्यन्ते । तन् मूर्ख ! मूढत्वेन नाशस् तव मया प्राग् एव निवेदित आसीत्, यतः- सतां वचनम् आदिष्टं मदेन न करोति यः । स विनाशम् अवाप्नोति घण्टोष्ट्र इव सत्वरम्

evaṃ sampradhārya bhūyo 'pi tam eva jambū-vṛkṣam ārūḍhaṃ kapim apṛcchat-bho mitra ! paśya me manda-bhāgyatām | tat samprati gṛham api me balavattareṇa makareṇa ruddham | tad ahaṃ tvāṃ praṣṭum abhyāgataḥ | kathaya kiṃ karomi ? sāmādīnām upāyānāṃ madhye kasyātra viṣayaḥ ? sa āha-bhoḥ kṛtaghna pāpa-cārin ! mayā niṣiddho 'pi kiṃ bhūyo mām anusarasi | nāhaṃ tava mūrkhasyopadeśam api dāsyāmi | tac chrutvā makaraḥ prāha-bho mitra ! sāparādhasya me pūrva-sneham anusmṛtya hitopadeśaṃ dehi | vānara āha-nāhaṃ te kathayiṣyāmi | yad bhāryā-vākyena bhavatāhaṃ samudre prakṣiptuṃ nītaḥ | tad evaṃ na yuktam | yadyapi bhāryā sarva-lokād api vallabhā bhavati, tathāpi na mitrāṇi bāndhavāś ca bhāryā-vākyena samudre prakṣipyante | tan mūrkha ! mūḍhatvena nāśas tava mayā prāg eva nivedita āsīt, yataḥ- satāṃ vacanam ādiṣṭaṃ madena na karoti yaḥ | sa vināśam avāpnoti ghaṇṭoṣṭra iva satvaram

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा १३ उज्ज्वलक-रथकार-कथा कस्मिंश्चिद् अधिष्ठाने उज्ज्वलको नाम रथकारः प्रतिवसति स्म । स चातीव दारिद्र्योपहतश् चिन्तितवान्-अहो ! धिग् इयं दरिद्रतास्मद्-गृहे । यतः सर्वो ऽपि जनः स्व-कर्मणैव रतस् तिष्ठति । अस्मदीयः पुनर् व्यापारो नात्राधिष्ठानेऽर्हति । यतः सर्व-लोकानां चिरन्तनाश् चतुर्भूमिका गृहाः सन्ति । मम च नात्र । तत् किं मदीयेन रथकारत्वेन प्रयोजनम् ? इति चिन्तयित्वा देशान् निष्क्रान्तः । यावत् किञ्चिद् वनं गच्छति तावद् गह्वराकार-वन-गहन-मध्ये सूर्यास्तम् अनवेलायां स्व-यूथाद् भ्रष्टां प्रसव-वेदनया पीड्यमानाम् उष्ट्रीम् अपश्यत् । स च दासेरक-युक्ताम् उष्ट्रीं गृहीत्वा स्व-स्थानाभिमुखः प्रस्थितः । गृहम् आसाद्य रज्जुं गृहीत्वा ताम् उष्ट्रिकां बबन्ध । ततश् च तीक्ष्णं परशुम् आदाय तस्याः पल्लवानयनार्थं पर्वतैक-देशे गतः । तत्र च नूतनानि कोमलानि बहूनि पल्लवानि च्छित्त्वा शिरसि समारोप्य तस्याग्रे निचिक्षेप । तया च तानि शनैः शनैर् भक्षितानि । पश्चात् पल्लव-भक्षण-प्रभावाद् अहर्निशं पीवर-तनुर् उष्ट्री सञ्जाता । सो ऽपि दासेरको महान् उष्ट्रः सञ्जातः । ततः स नित्यम् एव दुग्धं गृहीत्वा स्व-कुटुम्बं परिपालयति । अथ रथकारेण वल्लभत्वाद् दासेरक-ग्रीवायां महती घण्टा प्रतिबद्धा । पश्चाद् रथकारो व्यचिन्तयत्-अहो ! किम् अन्यैर् दुष्कृत-कर्मभिः । यावन् ममैतस्माद् एवोष्ट्रापरिपालनाद् अस्य कुटुम्बस्य भव्यं सञ्जातम् । तत् किम् अन्येन व्यापारेण ? एवं विचिन्त्य गृहम् आगत्य प्रियाम् आह-भद्रे ! समीचीनो ऽयं व्यापारः । तव सम्मतिश् चेत् कुतो ऽपि धनिकात् किञ्चिद् द्रव्यम् आदाय मया गुर्जर-देशे गन्तव्यं कलभ-ग्रहणाय । तावत् त्वयैतौ यत्नेन रक्षणीयौ । यावद् अहम् अपराम् उष्ट्रीं नीत्वा समागच्छामि । ततश् च गुर्जर-देशं गत्वोष्ट्रीं गृहीत्वा स्व-गृहम् आगतः । किं बहुना ? तेन तथा कृतं यथा तस्य प्रचुरा उष्ट्राः करभाश् च सम्मिलिताः । ततस् तेन महद् उष्ट्र-यूथं कृत्वा रक्षा-पुरुषो धृतः । तस्य प्रतिवर्षं वृत्त्या करभम् एकं प्रयच्छति । प्रतिवर्षम् अन्यच् चाहर्निशं दुग्ध-पानं तस्य निरूपितम् । एवं रथकारो ऽपि नित्यम् एवोष्ट्री-करभ-व्यापारं कुर्वन् सुखेन तिष्ठति । अथ ते दासेरका अधिष्ठानोपवनाहार्थं गच्छन्ति । कोमल-वल्लीर् यथेच्छया भक्षयित्वा महति सरसि पानीयं पीत्वा सायन्तन-समये मन्दं मन्दं लीलया गृहम् आगच्छन्ति । स च पूर्व-दासेरको मदातिरेकात् पृष्ठ आगत्य मिलति । ततस् तैः कलभैर् अभिहितम्-अहो ! मन्द-मतिर् अयं दासेरको यथा यूथाद् भ्रष्टः पृष्ठे स्थित्वा घण्टां वादयन्न् आगच्छति । यदि कस्यापि दुष्ट-सत्त्वस्य मुखे पतिष्यति, तन् नूनं मृत्युम् अवाप्स्यति । अथ तस्य तद्-वनं गाहमानस्य कश्चित् सिंहो घण्टा-रवम् आकर्ण्य समायातः । यावद् अवलोकयति, तावद् उष्ट्री-दासेरकाणां यूथं गच्छति । एकस् तु पुनः पृष्ठे क्रीडां कुर्वन् वल्लरीश् चरन् यावत् तिष्ठति, तावद् अन्ये दासेरकाः पानीयं पीत्वा स्व-गृहे गताः । सो ऽपि वनान् निष्क्रम्य यावद् दिशो ऽवलोकयति, तावन् न कञ्चिन् मार्गं पश्यति वेत्ति च । यूथाद् भ्रष्टो मन्दं मन्दं बृहच्-छब्दं कुर्वन् यावत् कियद्-दूरं गच्छति, तावत् तच्-छब्दानुसारी सिंहो ऽपि क्रमं कृत्वा निभृतो ऽयं व्यवस्थितः । ततो यावद् उष्ट्रः समीपम् आगतः, तावत् सिंहेन लम्भयित्वा ग्रीवायां गृहीतो मारितश् च । अतो ऽहं ब्रवीमि-सतां वचनम् आदिष्टम् (७४) इति । अथ तच् छ्रुत्वा मकरः प्राह- उपदेश-प्रदातॄणां नराणां हितम् इच्छताम् । परस्मिन्न् इह लोके च व्यसनं नोपपद्यते

makara āha-katham etat ? so 'bravīt- kathā 13 ujjvalaka-rathakāra-kathā kasmiṃścid adhiṣṭhāne ujjvalako nāma rathakāraḥ prativasati sma | sa cātīva dāridryopahataś cintitavān-aho ! dhig iyaṃ daridratāsmad-gṛhe | yataḥ sarvo 'pi janaḥ sva-karmaṇaiva ratas tiṣṭhati | asmadīyaḥ punar vyāpāro nātrādhiṣṭhāne'rhati | yataḥ sarva-lokānāṃ cirantanāś caturbhūmikā gṛhāḥ santi | mama ca nātra | tat kiṃ madīyena rathakāratvena prayojanam ? iti cintayitvā deśān niṣkrāntaḥ | yāvat kiñcid vanaṃ gacchati tāvad gahvarākāra-vana-gahana-madhye sūryāstam anavelāyāṃ sva-yūthād bhraṣṭāṃ prasava-vedanayā pīḍyamānām uṣṭrīm apaśyat | sa ca dāseraka-yuktām uṣṭrīṃ gṛhītvā sva-sthānābhimukhaḥ prasthitaḥ | gṛham āsādya rajjuṃ gṛhītvā tām uṣṭrikāṃ babandha | tataś ca tīkṣṇaṃ paraśum ādāya tasyāḥ pallavānayanārthaṃ parvataika-deśe gataḥ | tatra ca nūtanāni komalāni bahūni pallavāni cchittvā śirasi samāropya tasyāgre nicikṣepa | tayā ca tāni śanaiḥ śanair bhakṣitāni | paścāt pallava-bhakṣaṇa-prabhāvād aharniśaṃ pīvara-tanur uṣṭrī sañjātā | so 'pi dāserako mahān uṣṭraḥ sañjātaḥ | tataḥ sa nityam eva dugdhaṃ gṛhītvā sva-kuṭumbaṃ paripālayati | atha rathakāreṇa vallabhatvād dāseraka-grīvāyāṃ mahatī ghaṇṭā pratibaddhā | paścād rathakāro vyacintayat-aho ! kim anyair duṣkṛta-karmabhiḥ | yāvan mamaitasmād evoṣṭrāparipālanād asya kuṭumbasya bhavyaṃ sañjātam | tat kim anyena vyāpāreṇa ? evaṃ vicintya gṛham āgatya priyām āha-bhadre ! samīcīno 'yaṃ vyāpāraḥ | tava sammatiś cet kuto 'pi dhanikāt kiñcid dravyam ādāya mayā gurjara-deśe gantavyaṃ kalabha-grahaṇāya | tāvat tvayaitau yatnena rakṣaṇīyau | yāvad aham aparām uṣṭrīṃ nītvā samāgacchāmi | tataś ca gurjara-deśaṃ gatvoṣṭrīṃ gṛhītvā sva-gṛham āgataḥ | kiṃ bahunā ? tena tathā kṛtaṃ yathā tasya pracurā uṣṭrāḥ karabhāś ca sammilitāḥ | tatas tena mahad uṣṭra-yūthaṃ kṛtvā rakṣā-puruṣo dhṛtaḥ | tasya prativarṣaṃ vṛttyā karabham ekaṃ prayacchati | prativarṣam anyac cāharniśaṃ dugdha-pānaṃ tasya nirūpitam | evaṃ rathakāro 'pi nityam evoṣṭrī-karabha-vyāpāraṃ kurvan sukhena tiṣṭhati | atha te dāserakā adhiṣṭhānopavanāhārthaṃ gacchanti | komala-vallīr yathecchayā bhakṣayitvā mahati sarasi pānīyaṃ pītvā sāyantana-samaye mandaṃ mandaṃ līlayā gṛham āgacchanti | sa ca pūrva-dāserako madātirekāt pṛṣṭha āgatya milati | tatas taiḥ kalabhair abhihitam-aho ! manda-matir ayaṃ dāserako yathā yūthād bhraṣṭaḥ pṛṣṭhe sthitvā ghaṇṭāṃ vādayann āgacchati | yadi kasyāpi duṣṭa-sattvasya mukhe patiṣyati, tan nūnaṃ mṛtyum avāpsyati | atha tasya tad-vanaṃ gāhamānasya kaścit siṃho ghaṇṭā-ravam ākarṇya samāyātaḥ | yāvad avalokayati, tāvad uṣṭrī-dāserakāṇāṃ yūthaṃ gacchati | ekas tu punaḥ pṛṣṭhe krīḍāṃ kurvan vallarīś caran yāvat tiṣṭhati, tāvad anye dāserakāḥ pānīyaṃ pītvā sva-gṛhe gatāḥ | so 'pi vanān niṣkramya yāvad diśo 'valokayati, tāvan na kañcin mārgaṃ paśyati vetti ca | yūthād bhraṣṭo mandaṃ mandaṃ bṛhac-chabdaṃ kurvan yāvat kiyad-dūraṃ gacchati, tāvat tac-chabdānusārī siṃho 'pi kramaṃ kṛtvā nibhṛto 'yaṃ vyavasthitaḥ | tato yāvad uṣṭraḥ samīpam āgataḥ, tāvat siṃhena lambhayitvā grīvāyāṃ gṛhīto māritaś ca | ato 'haṃ bravīmi-satāṃ vacanam ādiṣṭam (74) iti | atha tac chrutvā makaraḥ prāha- upadeśa-pradātṝṇāṃ narāṇāṃ hitam icchatām | parasminn iha loke ca vyasanaṃ nopapadyate

Sanskrit only: no published translation is held for this verse.

तत सर्वथा कृतघ्नस्यापि मे कुरु प्रसादम् उपदेश-प्रदानेन । उक्तं च- उपकारिषु यः साधुः साधुत्वे तस्य को गुणः । अपकारिषु यः साधुः स साधुः सद्भिर् उच्यते

tata sarvathā kṛtaghnasyāpi me kuru prasādam upadeśa-pradānena | uktaṃ ca- upakāriṣu yaḥ sādhuḥ sādhutve tasya ko guṇaḥ | apakāriṣu yaḥ sādhuḥ sa sādhuḥ sadbhir ucyate

Sanskrit only: no published translation is held for this verse.

तद् आकर्ण्य वानरः प्राह-भद्र ! यद्य् एवं तर्हि तत्र गत्वा तेन सह युद्धं कुरु । उक्तं च- हतस् त्वं प्राप्स्यसि स्वर्गं जीवन् गृहम् अथो यशः । युध्यमानस्य ते भावि गुण-द्वयम् अनुत्तमम्

tad ākarṇya vānaraḥ prāha-bhadra ! yady evaṃ tarhi tatra gatvā tena saha yuddhaṃ kuru | uktaṃ ca- hatas tvaṃ prāpsyasi svargaṃ jīvan gṛham atho yaśaḥ | yudhyamānasya te bhāvi guṇa-dvayam anuttamam

Sanskrit only: no published translation is held for this verse.

उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् । नीचम् अल्प-प्रदानेन सम-शक्तिं पराक्रमैः

uttamaṃ praṇipātena śūraṃ bhedena yojayet | nīcam alpa-pradānena sama-śaktiṃ parākramaiḥ

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? सो ऽब्रवीत्- कथा १४ महाचतुरकाख्य-शृगाल-कथा आसीत् कस्मिंश्चिद् देशे महा-चतुरको नाम शृगालः । तेन कदाचिद् अरण्ये स्वयं मृतो गजः समासादितः । तस्य समन्तात् परिभ्रमति, परं कठिनां त्वचं भेत्तुं न शक्नोति । अथात्रावसर इतश् चेतश् च विचरन् कश्चित् सिंहस् तत्रैव प्रदेशे समाययौ । अथ सिंहं समागतं दृष्ट्वा स क्षिति-तल-विन्यस्त-मौलि-मण्डलः संयोजित-कर-युगलः स-विनयम् उवाच-स्वामिन् ! त्वदीयो ऽहं लागुडिकः स्थितस् त्वद्-अर्थे गजम् इमं रक्षामि । तद् एनं भक्षयतु स्वामी । तं प्रणतं दृष्ट्वा सिंहः प्राह-भोः ! नाहम् अन्येन हतं सत्त्वं कदाचिद् अपि भक्षयामि । तत् तवैव गजो ऽयं मया प्रसादीकृतः । तच् छ्रुत्वा शृगालः सानन्दम् आह-युक्तम् इदं स्वामिनो निज-भृत्येषु । उक्तं च यतः- अन्त्यावस्थो ऽपि महान् स्वामि-गुणान् न जहाति शुद्धतया । न श्वेत-भावम् उज्झति शङ्खः शिखि-भुक्त-मुक्तो ऽपि

makara āha-katham etat ? so 'bravīt- kathā 14 mahācaturakākhya-śṛgāla-kathā āsīt kasmiṃścid deśe mahā-caturako nāma śṛgālaḥ | tena kadācid araṇye svayaṃ mṛto gajaḥ samāsāditaḥ | tasya samantāt paribhramati, paraṃ kaṭhināṃ tvacaṃ bhettuṃ na śaknoti | athātrāvasara itaś cetaś ca vicaran kaścit siṃhas tatraiva pradeśe samāyayau | atha siṃhaṃ samāgataṃ dṛṣṭvā sa kṣiti-tala-vinyasta-mauli-maṇḍalaḥ saṃyojita-kara-yugalaḥ sa-vinayam uvāca-svāmin ! tvadīyo 'haṃ lāguḍikaḥ sthitas tvad-arthe gajam imaṃ rakṣāmi | tad enaṃ bhakṣayatu svāmī | taṃ praṇataṃ dṛṣṭvā siṃhaḥ prāha-bhoḥ ! nāham anyena hataṃ sattvaṃ kadācid api bhakṣayāmi | tat tavaiva gajo 'yaṃ mayā prasādīkṛtaḥ | tac chrutvā śṛgālaḥ sānandam āha-yuktam idaṃ svāmino nija-bhṛtyeṣu | uktaṃ ca yataḥ- antyāvastho 'pi mahān svāmi-guṇān na jahāti śuddhatayā | na śveta-bhāvam ujjhati śaṅkhaḥ śikhi-bhukta-mukto 'pi

Sanskrit only: no published translation is held for this verse.

अथ सिंहे गते कश्चिद् व्याघ्रः समाययौ । तम् अपि दृष्ट्वासौ व्यचिन्तयत्-अहो ! एकस् तावद् दुरात्मा प्रणिपातेनापवाहितः । तत् कथम् इदानीम् एनम् अपवाहयिष्यामि ? नूनं शूरो ऽयम् । न खलु भेदं विना साध्यो भविष्यति । उक्तं च यतः- न यत्र शक्यते कर्तुं साम दानम् अथापि वा । भेदस् तत्र प्रयोक्तव्यो यतः स वश-कारकः

atha siṃhe gate kaścid vyāghraḥ samāyayau | tam api dṛṣṭvāsau vyacintayat-aho ! ekas tāvad durātmā praṇipātenāpavāhitaḥ | tat katham idānīm enam apavāhayiṣyāmi ? nūnaṃ śūro 'yam | na khalu bhedaṃ vinā sādhyo bhaviṣyati | uktaṃ ca yataḥ- na yatra śakyate kartuṃ sāma dānam athāpi vā | bhedas tatra prayoktavyo yataḥ sa vaśa-kārakaḥ

Sanskrit only: no published translation is held for this verse.

किं च सर्व-गुण-सम्पन्नो ऽपि भेदेन बध्यते । उक्तं च यतः- अन्तः-स्थेनाविरुद्धेन सुवृत्तेनातिचारुणा । अन्तर्-भिन्नेन सम्प्राप्तं मौक्तिकेनापि बन्धनम्

kiṃ ca sarva-guṇa-sampanno 'pi bhedena badhyate | uktaṃ ca yataḥ- antaḥ-sthenāviruddhena suvṛttenāticāruṇā | antar-bhinnena samprāptaṃ mauktikenāpi bandhanam

Sanskrit only: no published translation is held for this verse.

एवं सम्प्रधार्य तस्याभिमुखो भूत्वा गर्वाद् उन्नत-कन्धरः स-सम्भ्रमम् उवाच-माम ! कथम् अत्र भवान् मृत्यु-मुखे प्रविष्टः । येनैष गजः सिंहेन व्यापादितः । स च माम् एतद् रक्षणं नियुज्य नद्यां स्नानार्थं गतः । तेन च गच्छता मम समादिष्टम्-यदि कश्चिद् इह व्याघ्रः समायाति, त्वया सुगुप्तं माम् आवेदनीयम् । येन वनम् इदं मया निर्व्याघ्रं कर्तव्यम् । यतः पूर्वं व्याघ्रेणैकेन मया व्यापादितो गजः शून्ये भक्षयित्वोच्छिष्टतां नीतः । तद्-दिनाद् आरभ्य व्याघ्रान् प्रति प्रकुपितो ऽस्मि । तच् छ्रुत्वा व्याघ्रः सन्त्रस्तम् आह-भो भागिनेय ! देहि मे प्राण-दक्षिणाम् । त्वया तस्यात्र चिरायायातस्यापि मदीया कापि वार्ता नाख्येया । एवम् अभिधाय सत्वरं पलायाञ्चक्रे । अथ गते व्याघ्रे तत्र कश्चिद् द्वीपी समायातः । तम् अपि दृष्ट्वासौ व्यचिन्तयत्-दृढ-दंष्ट्रो ऽयं चित्रकः । तद् अस्य पार्श्वाद् अस्य गजस्य यथा चर्म-च्छेदो भवति तथा करोमि । एवं निश्चित्य तम् अप्य् उवाच-भो भगिनी-सुत ! किम् इति चिराद् दृष्टो ऽसि । कथं च बुभुक्षित इव लक्ष्यसे ? तद् अतिथिर् असि मे । एष गजः सिंहेन हतस् तिष्ठति । अहं चास्य तद्-आदिष्टो रक्षा-पालः । परं तथापि यावत् सिंहो न समायाति, तावद् अस्य गजस्य मांसं भक्षयित्वा तृप्तिं कृत्वा द्रुततरं व्रज । स आह-माम, तद् एवं तन् न कार्यं मे मांसाशनेन, यतो जीवन् नरो भद्र-शतानि पश्यति । उक्तं च-यच् छक्यं ग्रसितं यस्य ग्रस्तं परिणमेच् च यत् (२३) इत्य् आदि । तत् सर्वथा तद् एव भुज्यते यद् एव परिणमति । तद् अहम् इतो ऽपयास्यामि । शृगाल आह-भो अधीर ! विश्रब्धो भूत्वा भक्षय त्वम् । तस्यागमनं दूरतो ऽपि तवाहं निवेदयिष्यामि । तथानुष्ठिते दीव्पिना भिन्नां त्वचं विज्ञाय जम्बूकेनाभिहितम्-भो भगिनी-सुत ! गम्यताम् । एष सिंहः समायाति । तच् छ्रुत्वा चित्रको दूरं प्रणष्टः । अथ यावद् असौ तद्-भेद-कृत-द्वारेण किञ्चिन् मांसं भक्षयति, तावद् अतिसङ्क्रुद्धो ऽपरः शृगालः समाययौ । अथ तम् आत्म-तुल्य-पराक्रमं दृष्ट्वा-उत्तमं प्रणिपातेन शूरं भेदेन योजयेत् (७८) इति श्लोकं पठन् तद्-अभिमुख-कृत-प्रयाणः स्व-दंष्ट्राभिस् तं विदार्य दिशो भागं कृत्वा स्वयं सुखेन चिर-कालं हस्ति-मांसं बुभुजे । एवं त्वम् अपि तं रिपुं स्व-जातीयं युद्धेन परिभूय दिशो-भागं कुरु । नो चेत् पश्चाद् बद्ध-मूलाद् अस्मात् त्वम् अपि विनाशम् अवाप्स्यसि । उक्तं च यतः- सम्भाव्यं गोषु सम्पन्नं सम्भाव्यं ब्राह्मणे तपः । सम्भाव्यं स्त्रीषु चापल्यं सम्भाव्यं जातितो भयम्

evaṃ sampradhārya tasyābhimukho bhūtvā garvād unnata-kandharaḥ sa-sambhramam uvāca-māma ! katham atra bhavān mṛtyu-mukhe praviṣṭaḥ | yenaiṣa gajaḥ siṃhena vyāpāditaḥ | sa ca mām etad rakṣaṇaṃ niyujya nadyāṃ snānārthaṃ gataḥ | tena ca gacchatā mama samādiṣṭam-yadi kaścid iha vyāghraḥ samāyāti, tvayā suguptaṃ mām āvedanīyam | yena vanam idaṃ mayā nirvyāghraṃ kartavyam | yataḥ pūrvaṃ vyāghreṇaikena mayā vyāpādito gajaḥ śūnye bhakṣayitvocchiṣṭatāṃ nītaḥ | tad-dinād ārabhya vyāghrān prati prakupito 'smi | tac chrutvā vyāghraḥ santrastam āha-bho bhāgineya ! dehi me prāṇa-dakṣiṇām | tvayā tasyātra cirāyāyātasyāpi madīyā kāpi vārtā nākhyeyā | evam abhidhāya satvaraṃ palāyāñcakre | atha gate vyāghre tatra kaścid dvīpī samāyātaḥ | tam api dṛṣṭvāsau vyacintayat-dṛḍha-daṃṣṭro 'yaṃ citrakaḥ | tad asya pārśvād asya gajasya yathā carma-cchedo bhavati tathā karomi | evaṃ niścitya tam apy uvāca-bho bhaginī-suta ! kim iti cirād dṛṣṭo 'si | kathaṃ ca bubhukṣita iva lakṣyase ? tad atithir asi me | eṣa gajaḥ siṃhena hatas tiṣṭhati | ahaṃ cāsya tad-ādiṣṭo rakṣā-pālaḥ | paraṃ tathāpi yāvat siṃho na samāyāti, tāvad asya gajasya māṃsaṃ bhakṣayitvā tṛptiṃ kṛtvā drutataraṃ vraja | sa āha-māma, tad evaṃ tan na kāryaṃ me māṃsāśanena, yato jīvan naro bhadra-śatāni paśyati | uktaṃ ca-yac chakyaṃ grasitaṃ yasya grastaṃ pariṇamec ca yat (23) ity ādi | tat sarvathā tad eva bhujyate yad eva pariṇamati | tad aham ito 'payāsyāmi | śṛgāla āha-bho adhīra ! viśrabdho bhūtvā bhakṣaya tvam | tasyāgamanaṃ dūrato 'pi tavāhaṃ nivedayiṣyāmi | tathānuṣṭhite dīvpinā bhinnāṃ tvacaṃ vijñāya jambūkenābhihitam-bho bhaginī-suta ! gamyatām | eṣa siṃhaḥ samāyāti | tac chrutvā citrako dūraṃ praṇaṣṭaḥ | atha yāvad asau tad-bheda-kṛta-dvāreṇa kiñcin māṃsaṃ bhakṣayati, tāvad atisaṅkruddho 'paraḥ śṛgālaḥ samāyayau | atha tam ātma-tulya-parākramaṃ dṛṣṭvā-uttamaṃ praṇipātena śūraṃ bhedena yojayet (78) iti ślokaṃ paṭhan tad-abhimukha-kṛta-prayāṇaḥ sva-daṃṣṭrābhis taṃ vidārya diśo bhāgaṃ kṛtvā svayaṃ sukhena cira-kālaṃ hasti-māṃsaṃ bubhuje | evaṃ tvam api taṃ ripuṃ sva-jātīyaṃ yuddhena paribhūya diśo-bhāgaṃ kuru | no cet paścād baddha-mūlād asmāt tvam api vināśam avāpsyasi | uktaṃ ca yataḥ- sambhāvyaṃ goṣu sampannaṃ sambhāvyaṃ brāhmaṇe tapaḥ | sambhāvyaṃ strīṣu cāpalyaṃ sambhāvyaṃ jātito bhayam

Sanskrit only: no published translation is held for this verse.

अन्यच् च- सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः । एको दोषो विदेशस्य स्वजातिर् यद् विरुध्यते

anyac ca- subhikṣāṇi vicitrāṇi śithilāḥ paura-yoṣitaḥ | eko doṣo videśasya svajātir yad virudhyate

Sanskrit only: no published translation is held for this verse.

मकर आह-कथम् एतत् ? वानरो ऽब्रवीत्- कथा १५ चित्राङ्ग-नाम-सारमेय-कथा अस्ति कस्मिंश्चिद् अधिष्ठाने चित्राङ्गो नाम सारमेयः । तत्र च चिर-कालं दुर्भिक्षं पतितम् । अन्नाभावात् सारमेयादयो निष्कुलतां गन्तुम् आरब्धाः । अथ चित्राङ्गः क्षुत्क्षाम-कण्ठस् तद्-भयाद् देशान्तरं गतः । तत्र च कस्मिंश्चित् पुरे कस्यचिद् गृह-मेधिनो गृहिण्याः प्रसादेन प्रतिदिनं गृहं प्रविश्य विविधान्नानि भक्षयन् परां तृप्तिं गच्छति । परं तद्-गृहाद् बहिर् निष्क्रान्तो ऽन्यैर् मदोद्धत-सारमेयैः सर्व-दिक्षु परिवृत्य सर्वाङ्गं दंष्ट्राभिर् विदार्यते । ततस् तेन विचिन्तितवान्-अहो ! वरं स्व-देशो यत्र दुर्भिक्षेऽपि सुखेन स्थीयते । न च को ऽपि युद्धं करोति । तद् एवं स्व-नगरं व्रजामि इत्य् अवधार्य स्व-स्थानं प्रति जगाम । अथासौ देशान्तरात् समायातः सर्वैर् अपि स्वजनैः पृष्टः-भोश् चित्राङ्ग ! कथयास्माकं देशान्तर-वार्ताम् । कीदृग् देशः ? किं चेष्टितं लोकस्य ? क आहारः ? कश् च व्यवहारस् तत्र इति । स आह-किं कथ्यते विदेशस्य स्वरूप-विषयः ? सुभिक्षाणि विचित्राणि शिथिलाः पौर-योषितः (८३) इति पठति । सो ऽपि मकरस् तद्-उपदेशं श्रुत्वा कृत-मरण-निश्चयो वानरम् अनुज्ञाप्य स्वाश्रयं गतः । तत्र च तेन स्व-गृह-प्रविष्टेनाततायिना सह विग्रहं कृत्वा दृढ-सत्त्वावष्टम्भनाच् च तं व्यापाद्य स्वाश्रयं च लब्ध्वा सुखेन चिर-कालम् अतिष्ठत् । साध्व् इदम् उच्यते- अकृत्वा पौरुषं या श्रीः किं तयालस-भाग्यया । कुरङ्गो ऽपि समश्नाति दैवाद् उपनतं तृणम्

makara āha-katham etat ? vānaro 'bravīt- kathā 15 citrāṅga-nāma-sārameya-kathā asti kasmiṃścid adhiṣṭhāne citrāṅgo nāma sārameyaḥ | tatra ca cira-kālaṃ durbhikṣaṃ patitam | annābhāvāt sārameyādayo niṣkulatāṃ gantum ārabdhāḥ | atha citrāṅgaḥ kṣutkṣāma-kaṇṭhas tad-bhayād deśāntaraṃ gataḥ | tatra ca kasmiṃścit pure kasyacid gṛha-medhino gṛhiṇyāḥ prasādena pratidinaṃ gṛhaṃ praviśya vividhānnāni bhakṣayan parāṃ tṛptiṃ gacchati | paraṃ tad-gṛhād bahir niṣkrānto 'nyair madoddhata-sārameyaiḥ sarva-dikṣu parivṛtya sarvāṅgaṃ daṃṣṭrābhir vidāryate | tatas tena vicintitavān-aho ! varaṃ sva-deśo yatra durbhikṣe'pi sukhena sthīyate | na ca ko 'pi yuddhaṃ karoti | tad evaṃ sva-nagaraṃ vrajāmi ity avadhārya sva-sthānaṃ prati jagāma | athāsau deśāntarāt samāyātaḥ sarvair api svajanaiḥ pṛṣṭaḥ-bhoś citrāṅga ! kathayāsmākaṃ deśāntara-vārtām | kīdṛg deśaḥ ? kiṃ ceṣṭitaṃ lokasya ? ka āhāraḥ ? kaś ca vyavahāras tatra iti | sa āha-kiṃ kathyate videśasya svarūpa-viṣayaḥ ? subhikṣāṇi vicitrāṇi śithilāḥ paura-yoṣitaḥ (83) iti paṭhati | so 'pi makaras tad-upadeśaṃ śrutvā kṛta-maraṇa-niścayo vānaram anujñāpya svāśrayaṃ gataḥ | tatra ca tena sva-gṛha-praviṣṭenātatāyinā saha vigrahaṃ kṛtvā dṛḍha-sattvāvaṣṭambhanāc ca taṃ vyāpādya svāśrayaṃ ca labdhvā sukhena cira-kālam atiṣṭhat | sādhv idam ucyate- akṛtvā pauruṣaṃ yā śrīḥ kiṃ tayālasa-bhāgyayā | kuraṅgo 'pi samaśnāti daivād upanataṃ tṛṇam

Sanskrit only: no published translation is held for this verse.