Library·Jayaditya & Vamana: Kasikavrtti·3·3.1

Jayaditya & Vamana: Kasikavrtti 3.1

कृञो वृषश् च विभाषा क्यप् प्रत्ययो भवति । करोतेर् ण्यति प्राप्ते वर्षतेः ऋदुपधत्वात् नित्ये क्यपि प्राप्ते विभाषार्भ्यते । कृत्यम्, कार्यम् । वृष्यम्, वर्ष्यम् ॥ युग्यं च पत्रे

kṛño vṛṣaś ca vibhāṣā kyap pratyayo bhavati / karoter ṇyati prāpte varṣateḥ ṛdupadhatvāt nitye kyapi prāpte vibhāṣārbhyate / kṛtyam, kāryam / vṛṣyam, varṣyam // yugyaṃ ca patre

Sanskrit only: no published translation is held for this verse.

युग्यम् इति निपात्यते पत्रं चेत् तद् भवति । पतत्यनेन इत् पत्रं वाहनम् उच्यते । युग्यो गौः । युग्यो ऽश्वः । युग्यो हस्ती । युजेः क्यप् कुत्वं च निपात्यते । पत्रे इति किम् ? योग्यम् अन्यत् ॥ अमावस्यद्-अन्यतरस्याम्

yugyam iti nipātyate patraṃ cet tad bhavati / patatyanena it patraṃ vāhanam ucyate / yugyo gauḥ / yugyo 'śvaḥ / yugyo hastī / yujeḥ kyap kutvaṃ ca nipātyate / patre iti kim ? yogyam anyat // amāvasyad-anyatarasyām

Sanskrit only: no published translation is held for this verse.

अमा-शब्दः सहार्थे वर्तते । तस्मिन्न् उपपदे वसेर् धातोः काले ऽधिकरणे ण्यत् प्रत्ययो भवति, तत्र अन्यतरस्यां वृद्ध्यभावो निपात्यते । सह वसतो ऽस्मिन् काले सूर्याचन्द्रमसौ इति अमावास्य, अमावस्या । एकदेशविकृतस्य अनन्यत्वाद् अमावास्याया वा (*४,३।३०) इत्य् अत्र अमावस्या-शब्दस्य अपि ग्रहणं भवति । अमावसोरहं ण्यतोर् निपातयाम्यवृद्धिताम् । तथैकवृत्तिता तयोः स्वरश् च मे प्रसिध्यति ॥ छन्दसि निष्टर्क्य-देवहूय-प्रणीय-उन्नीय-उच्छिष्य-मर्य-स्तर्य-ध्वर्य-खन्य-खान्य-देवयज्या-आपृच्छ्य-प्रतिषीव्य-ब्रह्मवाद्य-भाव्य-स्ताव्य-उपचाय्यपृडानि

amā-śabdaḥ sahārthe vartate / tasminn upapade vaser dhātoḥ kāle 'dhikaraṇe ṇyat pratyayo bhavati, tatra anyatarasyāṃ vṛddhyabhāvo nipātyate / saha vasato 'smin kāle sūryācandramasau iti amāvāsya, amāvasyā / ekadeśavikṛtasya ananyatvād amāvāsyāyā vā (*4,3.30) ity atra amāvasyā-śabdasya api grahaṇaṃ bhavati / amāvasorahaṃ ṇyator nipātayāmyavṛddhitām / tathaikavṛttitā tayoḥ svaraś ca me prasidhyati // chandasi niṣṭarkya-devahūya-praṇīya-unnīya-ucchiṣya-marya-starya-dhvarya-khanya-khānya-devayajyā-āpṛcchya-pratiṣīvya-brahmavādya-bhāvya-stāvya-upacāyyapṛḍāni

Sanskrit only: no published translation is held for this verse.

प्रणीयः । उन्नीयः । उत्पूर्वाच् छिषेः क्यप् । उच्छिष्यः । मृङ् प्राणत्यागे, स्तृञ् आच्छन्दने, ध्वृ हूर्च्छने, एतेभ्यो यत् प्रत्ययः । मर्यः । स्तर्या । स्त्रियाम् एव निपातनम् । ध्वर्यः । खनेर्यत् । खन्या । एतस्माद् एव ण्यत् । खान्यः । देवशब्दे उपपदे यजेर्यत् । देवयज्या । स्त्रीलिङ्ग-निपातनम् । आङ्पूर्वात् पृच्छेः क्यप् । आपृच्छ्यः । प्रतिपूर्वत् सीव्यतेः क्यप् षत्वम् च । प्रतिषीव्यः । ब्रह्मण्युपपदे वदेर् ण्यत् । ब्रहमवाद्यम् । भवतेः स्तौतेश् च ण्यत्, आवदेशश् च भवति । भाव्यम् । स्ताव्यः । उपपूर्वस्य चिनोतेः ण्यदायादेशौ । उपचाय्यपृडम् । पृडे चोत्तरपदे निपातनमेतत् । हिरण्य इति वक्तव्यम् । हिरण्याद् अन्यत्र उपचेयपृडम् एव । निष्टर्क्ये व्यत्ययं विद्यान् निसः षत्वं निपातनात् । ण्यदायादेश इत्य् एताव् उपचाय्ये निपाततौ ॥ ण्यदेकस्माच् चतुर्घ्यः क्यप् चतुर्भ्यश् च यतो विधिः । ण्यदेकस्माद् य-शब्दश् च द्वौ क्यपौ ण्यद्विधिश् चतुः ॥ ऋ-हलोर् ण्यत्

praṇīyaḥ / unnīyaḥ / utpūrvāc chiṣeḥ kyap / ucchiṣyaḥ / mṛṅ prāṇatyāge, stṛñ ācchandane, dhvṛ hūrcchane, etebhyo yat pratyayaḥ / maryaḥ / staryā / striyām eva nipātanam / dhvaryaḥ / khaneryat / khanyā / etasmād eva ṇyat / khānyaḥ / devaśabde upapade yajeryat / devayajyā / strīliṅga-nipātanam / āṅpūrvāt pṛccheḥ kyap / āpṛcchyaḥ / pratipūrvat sīvyateḥ kyap ṣatvam ca / pratiṣīvyaḥ / brahmaṇyupapade vader ṇyat / brahamavādyam / bhavateḥ stauteś ca ṇyat, āvadeśaś ca bhavati / bhāvyam / stāvyaḥ / upapūrvasya cinoteḥ ṇyadāyādeśau / upacāyyapṛḍam / pṛḍe cottarapade nipātanametat / hiraṇya iti vaktavyam / hiraṇyād anyatra upaceyapṛḍam eva / niṣṭarkye vyatyayaṃ vidyān nisaḥ ṣatvaṃ nipātanāt / ṇyadāyādeśa ity etāv upacāyye nipātatau // ṇyadekasmāc caturghyaḥ kyap caturbhyaś ca yato vidhiḥ / ṇyadekasmād ya-śabdaś ca dvau kyapau ṇyadvidhiś catuḥ // ṛ-halor ṇyat

Sanskrit only: no published translation is held for this verse.

पञ्चम्य्-अर्थे षष्ठी । ऋवर्ण-अन्ताद् धातोर् हलन्ताच् च ण्यत् प्रत्ययो भवति । कार्यम् । हार्यम् । धार्यम् वाक्यम् । पाक्यम् ॥ ओर् आवश्यके

pañcamy-arthe ṣaṣṭhī / ṛvarṇa-antād dhātor halantāc ca ṇyat pratyayo bhavati / kāryam / hāryam / dhāryam vākyam / pākyam // or āvaśyake

Sanskrit only: no published translation is held for this verse.

आसु-यु-वपि-रपि-लपि-त्रपि-चमश् च

āsu-yu-vapi-rapi-lapi-trapi-camaś ca

Sanskrit only: no published translation is held for this verse.

आङ्-पूर्वात् सुनोतेः यु वपि रपि लपि त्रपि चम इत्य् एतेभ्यश् च ण्यत् प्रत्ययो भवति । यतो ऽपवादः आसाव्यम् । याव्यम् । वाप्यम् । राप्यम् । लाप्यम् । त्राप्यम् । आचाम्यम् । अनुक्त-समुच्चय-अर्थश् चकारः । दभि - दाभ्यम् ॥ आनाय्यो ऽनित्ये

āṅ-pūrvāt sunoteḥ yu vapi rapi lapi trapi cama ity etebhyaś ca ṇyat pratyayo bhavati / yato 'pavādaḥ āsāvyam / yāvyam / vāpyam / rāpyam / lāpyam / trāpyam / ācāmyam / anukta-samuccaya-arthaś cakāraḥ / dabhi - dābhyam // ānāyyo 'nitye

Sanskrit only: no published translation is held for this verse.

आनाय्यः इति निपात्यते अनित्ये ऽभिधेये । नयतेर् आङ्पूर्वाण् ण्यदायादेशौ निपात्येते । आनाय्यो दक्षिणाग्निः । रूढिरेषा । तस्माद् नित्य-विशेषे दक्षिण-अग्नाव् एव अवतिष्ठते । तस्य च अनित्यत्वं नित्यम् अजागरणात् । यश्च गार्हपत्याद् आनीयते दक्षिणाग्निर् आहवनीयेन सह एकयोनिः, तत्र तन् निपातनं, न दक्षिणाग्निम् आत्रे । तस्य हि योनिर् विकल्प्यते वैश्यकुलाद् वित्तवतो भ्राष्ट्राद्वा गार्हपत्याद् वा इति । आनाय्यो ऽनित्य इति चेद् दक्षिणाग्नौ कृतं भवेत् । एकयोनौ तु तं विद्याद् आनेयो ह्य् अन्यथा भवेत् ॥ प्रणाय्यो ऽसम्मतौ

ānāyyaḥ iti nipātyate anitye 'bhidheye / nayater āṅpūrvāṇ ṇyadāyādeśau nipātyete / ānāyyo dakṣiṇāgniḥ / rūḍhireṣā / tasmād nitya-viśeṣe dakṣiṇa-agnāv eva avatiṣṭhate / tasya ca anityatvaṃ nityam ajāgaraṇāt / yaśca gārhapatyād ānīyate dakṣiṇāgnir āhavanīyena saha ekayoniḥ, tatra tan nipātanaṃ, na dakṣiṇāgnim ātre / tasya hi yonir vikalpyate vaiśyakulād vittavato bhrāṣṭrādvā gārhapatyād vā iti / ānāyyo 'nitya iti ced dakṣiṇāgnau kṛtaṃ bhavet / ekayonau tu taṃ vidyād āneyo hy anyathā bhavet // praṇāyyo 'sammatau

Sanskrit only: no published translation is held for this verse.

अविद्यमाना सम्मतिर् अस्मिन् इत्य् असम्मतिः । सम्मननं सममतिः, सम्मतता, पूजा । प्रणाय्यः इति निपात्यते ऽसम्मतावभिधेये । प्रणाय्यश् चोरः । असम्मतौ इति किम् ? प्रणेयो ऽन्यः । यद्य् एवं कथम् एतत्, ज्येष्ठाय पुत्राय पिता ब्रह्म ब्रूयात् प्रणाय्यान्तेवासिने, न अन्यस्मै कस्मैचन इति ? सम्मतिर् अभिलाषो ऽप्य् उच्यते । तद् अभावेन निष्कामतया असम्मतिर् अन्तेवासी भवति । तस्मै निष्कामाय मोक्ष-अर्थं यतमानायान्तेवासिने प्रणाय्याय ब्रह्म ब्रूयात् इति युज्यते ॥ पाय्य-सान्-नाय्य-निकाय्य-धाय्या मान-हविर्-निवास-सामिधेनीषु

avidyamānā sammatir asmin ity asammatiḥ / sammananaṃ samamatiḥ, sammatatā, pūjā / praṇāyyaḥ iti nipātyate 'sammatāvabhidheye / praṇāyyaś coraḥ / asammatau iti kim ? praṇeyo 'nyaḥ / yady evaṃ katham etat, jyeṣṭhāya putrāya pitā brahma brūyāt praṇāyyāntevāsine, na anyasmai kasmaicana iti ? sammatir abhilāṣo 'py ucyate / tad abhāvena niṣkāmatayā asammatir antevāsī bhavati / tasmai niṣkāmāya mokṣa-arthaṃ yatamānāyāntevāsine praṇāyyāya brahma brūyāt iti yujyate // pāyya-sān-nāyya-nikāyya-dhāyyā māna-havir-nivāsa-sāmidhenīṣu

Sanskrit only: no published translation is held for this verse.

क्रतौ कुण्डपाय्य-सञ्चाय्यौ

kratau kuṇḍapāyya-sañcāyyau

Sanskrit only: no published translation is held for this verse.

कुण्डपाय्य सञ्चाय्य इत्य् एतौ शब्दौ निपात्येते क्रताव् अभिधेये । कुण्ड-शब्दे तृतीयान्त उपपदे पिबतेर् धातोर् अधिकरणे यत् प्रत्ययो निपात्यते युक् च । कुण्डेन पीयते ऽस्मिन् सोमः इति कुण्डपाय्यः क्रतुः । यतो ऽनावः इति स्वरः । सम्पूर्वाच् चिनोतेः ण्यदायादेशौ निपात्येते । सञ्चीयते ऽस्मिन् सोमः इति सञ्चाय्यः क्रतुः । क्रतौ इति किम् ? कुण्डपानम् । सञ्चेयः ॥ अग्नौ परिचाय्य-उपचाय्य-समूह्याः

kuṇḍapāyya sañcāyya ity etau śabdau nipātyete kratāv abhidheye / kuṇḍa-śabde tṛtīyānta upapade pibater dhātor adhikaraṇe yat pratyayo nipātyate yuk ca / kuṇḍena pīyate 'smin somaḥ iti kuṇḍapāyyaḥ kratuḥ / yato 'nāvaḥ iti svaraḥ / sampūrvāc cinoteḥ ṇyadāyādeśau nipātyete / sañcīyate 'smin somaḥ iti sañcāyyaḥ kratuḥ / kratau iti kim ? kuṇḍapānam / sañceyaḥ // agnau paricāyya-upacāyya-samūhyāḥ

Sanskrit only: no published translation is held for this verse.

परिचाय्य उपचाय्य समूह्य इत्य् एते शब्दा निपात्यन्ते अग्नाव् अभिधेये । परिपूर्वत् उपपूर्वाच् च चिनोतेर् ण्य दायादेशौ निपात्येते । परिचाय्यम् । उपचाय्यः । सम्पूर्वाद् वहेः सम्प्रसारणं दीर्घत्वं च निपात्यते । समूह्यं चिन्वीत पशुकामः । अग्नौ इति किम् ? परिचेयम् । उपचेयम् । संवाह्यम् ॥ चित्य-अग्निचित्ये च

paricāyya upacāyya samūhya ity ete śabdā nipātyante agnāv abhidheye / paripūrvat upapūrvāc ca cinoter ṇya dāyādeśau nipātyete / paricāyyam / upacāyyaḥ / sampūrvād vaheḥ samprasāraṇaṃ dīrghatvaṃ ca nipātyate / samūhyaṃ cinvīta paśukāmaḥ / agnau iti kim ? pariceyam / upaceyam / saṃvāhyam // citya-agnicitye ca

Sanskrit only: no published translation is held for this verse.

चित्यशब्दो ऽग्निचित्या-शब्दश् च निपात्येते । नीयते ऽसौ चित्यो ऽग्निः । अग्निचयनम् एव अग्निचित्या । भावे यकर-प्रत्ययः तुक् च । तेन अनतोदात्तत्वं भवति । अग्नावित्य् एव । चेयम् अन्यत् ॥ ण्वुल्-तृचौ

cityaśabdo 'gnicityā-śabdaś ca nipātyete / nīyate 'sau cityo 'gniḥ / agnicayanam eva agnicityā / bhāve yakara-pratyayaḥ tuk ca / tena anatodāttatvaṃ bhavati / agnāvity eva / ceyam anyat // ṇvul-tṛcau

Sanskrit only: no published translation is held for this verse.

धातोः इति वर्तते । सर्वधातुभ्यो ण्वुल्-तृचौ प्रत्ययौ भवतः । कारकः । कर्ता । हारकः । हर्ता । चकारः सामान्य-ग्रहणा-विधात-अर्थः, तुश् छन्दसि (*५,३।५९), तुर् इष्ठ-ईमेयस्सु (*६,४।१५४) इति ॥ नन्दि-ग्रहि-पचादिभ्यो ल्यु-णिन्य्-अचः

dhātoḥ iti vartate / sarvadhātubhyo ṇvul-tṛcau pratyayau bhavataḥ / kārakaḥ / kartā / hārakaḥ / hartā / cakāraḥ sāmānya-grahaṇā-vidhāta-arthaḥ, tuś chandasi (*5,3.59), tur iṣṭha-īmeyassu (*6,4.154) iti // nandi-grahi-pacādibhyo lyu-ṇiny-acaḥ

Sanskrit only: no published translation is held for this verse.

परिभवी । परिभावी । इति ग्रह्यादिः । पच । वप । वद । चल । शल । तप । पत । नदट् । भषट् । वस । गरट् । प्लवट् । चरट् । तरट् । चोरट् । ग्राहट् । जर । मर । क्षर । क्षम । सूदट् । देवट् । मोदट् । सेव । मेष । कोप । मेधा । नर्त । व्रण । दर्श । दंश । दम्भ । जारभरा । श्वपच । पचादिराकृतिगणः । अज्विधिः सर्वधातुभ्यः पठ्यन्ते च पचादयः । अण्बाधन-अर्थम् एव स्यात् सिध्यन्ति श्वपचादयः ॥ इगुपध-ज्ञा-प्री-किरः कः

paribhavī / paribhāvī / iti grahyādiḥ / paca / vapa / vada / cala / śala / tapa / pata / nadaṭ / bhaṣaṭ / vasa / garaṭ / plavaṭ / caraṭ / taraṭ / coraṭ / grāhaṭ / jara / mara / kṣara / kṣama / sūdaṭ / devaṭ / modaṭ / seva / meṣa / kopa / medhā / narta / vraṇa / darśa / daṃśa / dambha / jārabharā / śvapaca / pacādirākṛtigaṇaḥ / ajvidhiḥ sarvadhātubhyaḥ paṭhyante ca pacādayaḥ / aṇbādhana-artham eva syāt sidhyanti śvapacādayaḥ // igupadha-jñā-prī-kiraḥ kaḥ

Sanskrit only: no published translation is held for this verse.

इग्-उपधेभ्यः जानातेः प्रीणातेः किरतेश् च कप्रत्ययः भवति । विक्षिपः । विलिखः । बुधः । कृशः । जानाति इति ज्ञः । प्रीणाति इति प्रियः । किरति इति किरः । देवस् एवमेषादयः पचादौ पठितव्याः ॥ आतश् च+उपसर्गे

ig-upadhebhyaḥ jānāteḥ prīṇāteḥ kirateś ca kapratyayaḥ bhavati / vikṣipaḥ / vilikhaḥ / budhaḥ / kṛśaḥ / jānāti iti jñaḥ / prīṇāti iti priyaḥ / kirati iti kiraḥ / devas evameṣādayaḥ pacādau paṭhitavyāḥ // ātaś ca+upasarge

Sanskrit only: no published translation is held for this verse.

पा-घ्रा-ध्मा-धेट्-दृशः शः

pā-ghrā-dhmā-dheṭ-dṛśaḥ śaḥ

Sanskrit only: no published translation is held for this verse.

पादिभ्यो धातुभ्यः उपसर्गे उपपदे श-प्रत्ययो भवति । उत्पिबः । विपिबः । उज्जिघ्रः । विजिघ्रः । उद्धमः । विधमः । उद्धयः । विधयः । उत्पश्यः । विपश्यः । उपसर्गे इति केचिन् न अनुवर्तयन्ति । पश्यति इति पश्य । जिघ्रतेः सञ्ज्ञायां प्रतिषेधो वक्तव्यः । व्याघ्रः ॥ अनुपसर्गाल् लिम्प-विन्द-धारि-पारि-वेद्य्-उदेजि-चेति-साति-साहिभ्यश् च

pādibhyo dhātubhyaḥ upasarge upapade śa-pratyayo bhavati / utpibaḥ / vipibaḥ / ujjighraḥ / vijighraḥ / uddhamaḥ / vidhamaḥ / uddhayaḥ / vidhayaḥ / utpaśyaḥ / vipaśyaḥ / upasarge iti kecin na anuvartayanti / paśyati iti paśya / jighrateḥ sañjñāyāṃ pratiṣedho vaktavyaḥ / vyāghraḥ // anupasargāl limpa-vinda-dhāri-pāri-vedy-udeji-ceti-sāti-sāhibhyaś ca

Sanskrit only: no published translation is held for this verse.

अनुपसर्गेभ्यो लिम्प-आदिभ्यः श-प्रत्ययो भवति । लिम्पति इति लिम्पः । विन्दति ति विन्दः । धारयति इति धारयः । पारयति इति पारयः । वेदयति इति वेदयः । उदेजाति इति उदेजयः । चेतयति इति चेतयः । सातिः सौत्रो धातुः । सातयः । साहयः । अनुपसर्गात् इति किम् । प्रलिपः । नौ लिम्पेर् इति वक्तव्यम् । निलिम्पा नाम देवाः । गवादिषु विन्देः सञ्ज्ञायाम् । गोविन्दः । अरविन्दः ॥ ददाति-दधात्योर् विभाषा

anupasargebhyo limpa-ādibhyaḥ śa-pratyayo bhavati / limpati iti limpaḥ / vindati ti vindaḥ / dhārayati iti dhārayaḥ / pārayati iti pārayaḥ / vedayati iti vedayaḥ / udejāti iti udejayaḥ / cetayati iti cetayaḥ / sātiḥ sautro dhātuḥ / sātayaḥ / sāhayaḥ / anupasargāt iti kim / pralipaḥ / nau limper iti vaktavyam / nilimpā nāma devāḥ / gavādiṣu vindeḥ sañjñāyām / govindaḥ / aravindaḥ // dadāti-dadhātyor vibhāṣā

Sanskrit only: no published translation is held for this verse.

दाञो धाञश् च विभाषा श-प्रत्ययो भवति । णस्य अपवादः । ददः, दायः । दधः, धायः । अनुपसर्गात् इत्य् एव, प्रदः, प्रधः ॥ ज्वलिति-कसन्तेभ्यो णः

dāño dhāñaś ca vibhāṣā śa-pratyayo bhavati / ṇasya apavādaḥ / dadaḥ, dāyaḥ / dadhaḥ, dhāyaḥ / anupasargāt ity eva, pradaḥ, pradhaḥ // jvaliti-kasantebhyo ṇaḥ

Sanskrit only: no published translation is held for this verse.

श्या-आद्-व्यध-आस्रु-संस्र्व्-अतीण्-अवसा-अवहृ-लिह-श्लिष-श्वसश् च

śyā-ād-vyadha-āsru-saṃsrv-atīṇ-avasā-avahṛ-liha-śliṣa-śvasaś ca

Sanskrit only: no published translation is held for this verse.

अनुपसर्गात् इति, विभाषा इति च निवृत्तम् । श्यैङः, आकार-अन्तेभ्यश् च धातुभ्यः, व्यध आस्रौ संस्रौ अतीण् अवसा अवहृ लिह श्लिष श्वस इत्य् एतेभ्यश् च ण प्रत्ययो भवति । आकार-अन्तत्वाद् एव श्यायतेः प्रत्यत्ये सिद्धे पुनर् वचनं बाधकबाधन-अर्थम् । उपसर्गे कं बाधित्वा ऽयम् एव भवति । अवश्यायः । प्रतिश्यायः । दायः । धायः । व्याधः । आस्रावः । संस्रावः । अत्यायः । अवसायः । अवहारः । लेहः । श्लेषः । श्वासः ॥ दु-न्योर् अनुपसर्गे

anupasargāt iti, vibhāṣā iti ca nivṛttam / śyaiṅaḥ, ākāra-antebhyaś ca dhātubhyaḥ, vyadha āsrau saṃsrau atīṇ avasā avahṛ liha śliṣa śvasa ity etebhyaś ca ṇa pratyayo bhavati / ākāra-antatvād eva śyāyateḥ pratyatye siddhe punar vacanaṃ bādhakabādhana-artham / upasarge kaṃ bādhitvā 'yam eva bhavati / avaśyāyaḥ / pratiśyāyaḥ / dāyaḥ / dhāyaḥ / vyādhaḥ / āsrāvaḥ / saṃsrāvaḥ / atyāyaḥ / avasāyaḥ / avahāraḥ / lehaḥ / śleṣaḥ / śvāsaḥ // du-nyor anupasarge

Sanskrit only: no published translation is held for this verse.

दुनोतेर् नयतेश् च अनुपसर्गे ण-प्रत्ययो भव्ति । दुनोति इति दावः । नयति इति नायः । अनुपसर्गे इति किम् ? प्रदवः । प्रणयः ॥ विभाशा ग्रहः

dunoter nayateś ca anupasarge ṇa-pratyayo bhavti / dunoti iti dāvaḥ / nayati iti nāyaḥ / anupasarge iti kim ? pradavaḥ / praṇayaḥ // vibhāśā grahaḥ

Sanskrit only: no published translation is held for this verse.

विभाषा ग्रहेः धातोः ण-प्रत्ययो भवति । अचः अपवादः । ग्राहः, ग्रहः । व्यवस्थित-विभाषा च+इयम् । जलचरे नित्यं ग्राहः । ज्योतिषि नेस्यते, तत्र ग्रहः एव । भवतेश् च इति वक्तव्यम् । भवति इति भावः, भवः ॥ गेहे कः

vibhāṣā graheḥ dhātoḥ ṇa-pratyayo bhavati / acaḥ apavādaḥ / grāhaḥ, grahaḥ / vyavasthita-vibhāṣā ca+iyam / jalacare nityaṃ grāhaḥ / jyotiṣi nesyate, tatra grahaḥ eva / bhavateś ca iti vaktavyam / bhavati iti bhāvaḥ, bhavaḥ // gehe kaḥ

Sanskrit only: no published translation is held for this verse.

ग्रहेर् धातोः क-प्रत्ययो भवति गेहे कर्तरि । गृहं वेश्म । तात्स्थ्यात् दाराश् च । गृह्णन्ति इति गृहाः दाराः । गृहाणि वेश्मानि ॥ शिल्पिनि ष्वुन्

graher dhātoḥ ka-pratyayo bhavati gehe kartari / gṛhaṃ veśma / tātsthyāt dārāś ca / gṛhṇanti iti gṛhāḥ dārāḥ / gṛhāṇi veśmāni // śilpini ṣvun

Sanskrit only: no published translation is held for this verse.

गस्थकन्

gasthakan

Sanskrit only: no published translation is held for this verse.

गायतेः थकन् प्रत्ययो भवति शिल्पिनि कर्तरि । गाथकः, गाथिका ॥ ण्युट् च

gāyateḥ thakan pratyayo bhavati śilpini kartari / gāthakaḥ, gāthikā // ṇyuṭ ca

Sanskrit only: no published translation is held for this verse.

चकारेण गः इत्य् अनुकृष्यते । गायतेः ण्युट् प्रत्ययो भवति शिल्पिनि कर्तरि । गायनः, गायनी । योग-विभागः उत्तर-अर्थः ॥ हश् च व्रीहि-कालयोः

cakāreṇa gaḥ ity anukṛṣyate / gāyateḥ ṇyuṭ pratyayo bhavati śilpini kartari / gāyanaḥ, gāyanī / yoga-vibhāgaḥ uttara-arthaḥ // haś ca vrīhi-kālayoḥ

Sanskrit only: no published translation is held for this verse.

चकारेण गः इत्य् अनुकृस्यते । गायतेः ण्युट् प्रत्ययो भवति शिल्पिति कर्तरि । गायनः, गायनी । योग-विभागः उत्तर-अर्थः ॥ प्रु-सृ-ल्वः समभिहारे वुन्

cakāreṇa gaḥ ity anukṛsyate / gāyateḥ ṇyuṭ pratyayo bhavati śilpiti kartari / gāyanaḥ, gāyanī / yoga-vibhāgaḥ uttara-arthaḥ // pru-sṛ-lvaḥ samabhihāre vun

Sanskrit only: no published translation is held for this verse.

प्रु सृ लू इत्य् एतेभ्यः धातुभ्यः समभिहारे वुन् प्रत्ययो भवति । प्रवकः । सरकः । लवकः । समभिहार-ग्रहणेन अत्र सधुकारित्वं लक्ष्यते । साधुकारिणि वुन् विधानात् सकृद् अपि यः सुष्ठु करोति तत्र भवति । बहुशो यो दुष्टं करोति तत्र न भवति ॥ आशिषि च

pru sṛ lū ity etebhyaḥ dhātubhyaḥ samabhihāre vun pratyayo bhavati / pravakaḥ / sarakaḥ / lavakaḥ / samabhihāra-grahaṇena atra sadhukāritvaṃ lakṣyate / sādhukāriṇi vun vidhānāt sakṛd api yaḥ suṣṭhu karoti tatra bhavati / bahuśo yo duṣṭaṃ karoti tatra na bhavati // āśiṣi ca

Sanskrit only: no published translation is held for this verse.