अन्यच् छ्रेयो ऽन्यद् उतैव प्रेयस् ते उभे नानार्थे पुरुषं सिनीतः ।
तयोः श्रेय आददानस्य साधु भवति हीयते ऽर्थाद् य उ प्रेयो वृणीते ॥
अन्यत् पृथग् एव श्रेयो निःश्रेयसं तथान्यद् उतैवापि च प्रेयः प्रियतरम् अपि ते प्रेयः श्रेयस्य् उभे नानार्थे भिन्नप्रयोजने सती पुरुषम् अधिकृतं वर्णाश्रमादिविशिष्टं सिनीतो बध्नीतस् ताभ्यां विद्याविद्याभ्याम् आत्मकर्तव्यतया प्रयुज्यते सर्वः पुरुषः । श्रेयः प्रेयसोर् ह्य् अभ्युदयामृतत्वार्थी पुरुषः प्रवर्तते । अतः श्रेयः प्रेयः प्रयोजनकर्तव्यतया, ताभ्यां बुद्ध इत्य् उच्यते सर्वः पुरुषः । ते यद्य् अप्य् एकैकपुरुषार्थसम्बन्धिनी विद्याविद्यारूपत्वाद् विरुद्धे इत्य् अन्यतरापरित्यागेनैकेन पुरुषेन सहानुष्ठातुम् अशक्यत्वात् तयोर् हित्वाविद्यारूपं प्रेयः, श्रेय एव केवलम् आददानस्योपादानं कुर्वतः साधु शोभनं शिवं भवति । यस् त्व् अदूरदर्शी विमूढो हीयते वियुज्यते ऽर्थात् पुरुषार्थात् पारमार्थिकात् प्रयोजनान् नित्यात् प्रच्यवत इत्य् अर्थः । को ऽसौ य उ प्रेयो वृणीत उपादत्त इत्य् एतत् ॥ कउभ्_२।१।१,२।१ ॥
anyac chreyo 'nyad utaiva preyas te ubhe nānārthe puruṣaṃ sinītaḥ /
tayoḥ śreya ādadānasya sādhu bhavati hīyate 'rthād ya u preyo vṛṇīte //
anyat pṛthag eva śreyo niḥśreyasaṃ tathānyad utaivāpi ca preyaḥ priyataram api te preyaḥ śreyasy ubhe nānārthe bhinnaprayojane satī puruṣam adhikṛtaṃ varṇāśramādiviśiṣṭaṃ sinīto badhnītas tābhyāṃ vidyāvidyābhyām ātmakartavyatayā prayujyate sarvaḥ puruṣaḥ / śreyaḥ preyasor hy abhyudayāmṛtatvārthī puruṣaḥ pravartate / ataḥ śreyaḥ preyaḥ prayojanakartavyatayā, tābhyāṃ buddha ity ucyate sarvaḥ puruṣaḥ / te yady apy ekaikapuruṣārthasambandhinī vidyāvidyārūpatvād viruddhe ity anyatarāparityāgenaikena puruṣena sahānuṣṭhātum aśakyatvāt tayor hitvāvidyārūpaṃ preyaḥ, śreya eva kevalam ādadānasyopādānaṃ kurvataḥ sādhu śobhanaṃ śivaṃ bhavati / yas tv adūradarśī vimūḍho hīyate viyujyate 'rthāt puruṣārthāt pāramārthikāt prayojanān nityāt pracyavata ity arthaḥ / ko 'sau ya u preyo vṛṇīta upādatta ity etat // KaUBh_2.1/1,2.1 //
Sanskrit only: no published translation is held for this verse.
श्रेयश् च प्रेयश् च मनुष्यम् एतस् तौ संपरीत्य विविनक्ति धीरः ।
श्रेयो हि धीरो ऽभि प्रेयसो वृणीते प्रेयो मन्दो योगक्षेमाद् वृणीते ॥
यद्य् उभे ऽपि कर्तुं स्वायत्ते पुरुषेण, किम् अर्थं प्रेय एवादत्ते बाहुल्येन लोक इत्य् उच्यते -- सत्यं स्वायत्ते, तथापि साधनतः फलतश् च मन्दबुद्धीनां दुर्विवेकरूपे सती व्यामिश्रीभूत इव मनुष्यं पुरुषम् एतः प्राप्नुतः श्रेयश् च प्रेयश् च । अतो हंस इवाम्भसः पयः, तौ श्रेयः प्रेयः पदार्थौ सम्परीत्य सम्यक् परिगम्य मनासालोच्य गुरुलाघवं विविनक्ति पृथक् करोति धीरो धीमान् । विविच्य च श्रेयो हि श्रेय एवाभिवृणीते प्रेयसो ऽभ्यर्हितत्वात् । को ऽसौ धीरः । यस् तु मन्दो ऽल्पबुद्धिः स सदसद्विवेकासामर्थ्याद् योगक्षेमाद् योगक्षेमनिमितं शरीराद्युपचयरक्षणनिमित्तम् इत्य् एतत् प्रेयः पशुपुत्रादिलक्षणं वृणीते ॥ कउभ्_२।२।१,२।२ ॥
śreyaś ca preyaś ca manuṣyam etas tau saṃparītya vivinakti dhīraḥ /
śreyo hi dhīro 'bhi preyaso vṛṇīte preyo mando yogakṣemād vṛṇīte //
yady ubhe 'pi kartuṃ svāyatte puruṣeṇa, kim arthaṃ preya evādatte bāhulyena loka ity ucyate -- satyaṃ svāyatte, tathāpi sādhanataḥ phalataś ca mandabuddhīnāṃ durvivekarūpe satī vyāmiśrībhūta iva manuṣyaṃ puruṣam etaḥ prāpnutaḥ śreyaś ca preyaś ca / ato haṃsa ivāmbhasaḥ payaḥ, tau śreyaḥ preyaḥ padārthau samparītya samyak parigamya manāsālocya gurulāghavaṃ vivinakti pṛthak karoti dhīro dhīmān / vivicya ca śreyo hi śreya evābhivṛṇīte preyaso 'bhyarhitatvāt / ko 'sau dhīraḥ / yas tu mando 'lpabuddhiḥ sa sadasadvivekāsāmarthyād yogakṣemād yogakṣemanimitaṃ śarīrādyupacayarakṣaṇanimittam ity etat preyaḥ paśuputrādilakṣaṇaṃ vṛṇīte // KaUBh_2.2/1,2.2 //
Sanskrit only: no published translation is held for this verse.
स त्वं प्रियान् प्रियरूपांश् च कामान् अभिध्यायन् नचिकेतो ऽत्यस्राक्षीः ।
नैतां सृङ्कां वित्तमयीम् अवाप्तो यस्यां मज्जन्ति बहवो मनुष्याः ॥
स त्वं पुनः पुनर् मया प्रलोभ्यमानो ऽपि प्रियान् पुत्रादीन् प्रियरूपांश् चाप्सरःप्रभृतिलक्षणान् कामान् अभिध्यायंश् चिन्तयंस् तेषाम् अनित्यत्वासारत्वादिदोषान् हे नचिकेतोत्यस्त्राक्षीरतिसृष्टवान् परित्यक्तवान् अस्यहो बुद्धिमत्ता तव । नैताम् अवाप्तवान् असि सृङ्क्तां सृतिं कुत्सितां मूढजनप्रवृत्तां वित्तमयी धनप्रायाम् । यस्यां सृतौ मज्जन्ति सीदन्ति बहवो ऽनेके मूढा मनुष्याः ॥ कउभ्_२।३।१,२।३ ॥
sa tvaṃ priyān priyarūpāṃś ca kāmān abhidhyāyan naciketo 'tyasrākṣīḥ /
naitāṃ sṛṅkāṃ vittamayīm avāpto yasyāṃ majjanti bahavo manuṣyāḥ //
sa tvaṃ punaḥ punar mayā pralobhyamāno 'pi priyān putrādīn priyarūpāṃś cāpsaraḥprabhṛtilakṣaṇān kāmān abhidhyāyaṃś cintayaṃs teṣām anityatvāsāratvādidoṣān he naciketotyastrākṣīratisṛṣṭavān parityaktavān asyaho buddhimattā tava / naitām avāptavān asi sṛṅktāṃ sṛtiṃ kutsitāṃ mūḍhajanapravṛttāṃ vittamayī dhanaprāyām / yasyāṃ sṛtau majjanti sīdanti bahavo 'neke mūḍhā manuṣyāḥ // KaUBh_2.3/1,2.3 //
Sanskrit only: no published translation is held for this verse.
दूरम् एते विपरीते विषूची अविद्या या च विद्येति ज्ञाता ।
विद्याभीप्सिनं नचिकेतसं मन्ये न त्वा कामा बहवो ऽलोलुपन्त ॥
"तयोः, श्रेय आददनस्य साधु भवति हीयते ऽर्थाद्य उ प्रेयो वृणीते" (कउ २।१) इत्य् उक्तं तत्कस्मात् ? यतो दूरं दूरेण महतान्तरेणैते विपरीत अन्योन्यव्यावृत्तरूपे विवेकाविवेकात्मकत्वात् तमःप्रकाशाव् इव विषूची विषूच्यौ नानागती भिन्नफले संसारमोक्षहेतुत्वेनेत्य् एतत् । के त इत्य् उच्यते -- या चाविद्या प्रेयोविषया विद्येति च श्रेयोविषया ज्ञाता निर्ज्ञातावगता पण्डितैस् तत्र विद्याभीप्सिनं विद्यार्थिनं नचिकेतसं त्वाम् अहं मन्ये । कस्माद् यस्माद् अविद्वद् बुद्धिप्रलोभिनः कामा अप्सरःप्रभृतयो बहवो ऽपि त्वा त्वां नालोलुपन्त न विच्छेदं कृतवन्तः श्रेयोमार्गाद् आत्मोपभोगाभिवाञ्छासम्पादनेन । अतो विद्यार्थिनं श्रेयोभाजनं मन्य इत्य् अभिप्रायः ॥ कउभ्_२।४।१,२।४ ॥
dūram ete viparīte viṣūcī avidyā yā ca vidyeti jñātā /
vidyābhīpsinaṃ naciketasaṃ manye na tvā kāmā bahavo 'lolupanta //
"tayoḥ, śreya ādadanasya sādhu bhavati hīyate 'rthādya u preyo vṛṇīte" (KaU 2.1) ity uktaṃ tatkasmāt ? yato dūraṃ dūreṇa mahatāntareṇaite viparīta anyonyavyāvṛttarūpe vivekāvivekātmakatvāt tamaḥprakāśāv iva viṣūcī viṣūcyau nānāgatī bhinnaphale saṃsāramokṣahetutvenety etat / ke ta ity ucyate -- yā cāvidyā preyoviṣayā vidyeti ca śreyoviṣayā jñātā nirjñātāvagatā paṇḍitais tatra vidyābhīpsinaṃ vidyārthinaṃ naciketasaṃ tvām ahaṃ manye / kasmād yasmād avidvad buddhipralobhinaḥ kāmā apsaraḥprabhṛtayo bahavo 'pi tvā tvāṃ nālolupanta na vicchedaṃ kṛtavantaḥ śreyomārgād ātmopabhogābhivāñchāsampādanena / ato vidyārthinaṃ śreyobhājanaṃ manya ity abhiprāyaḥ // KaUBh_2.4/1,2.4 //
Sanskrit only: no published translation is held for this verse.
अविद्यायाम् अन्तरे वर्तमानाः स्वयं धीराः पण्डितं मन्यमानाः ।
दन्द्रम्यमाणाः परियन्ति मूढा अन्धेनैव नीयमाना यथान्धाः ॥
ये तु संसारभाजो जना अविद्यायाम् अन्तरे मध्ये घनीभूत इव तमसि वर्तमाना वेष्ट्यमानाः पुत्रपश्वादितृष्णापाशशतैः, स्वयं धीराः प्रज्ञावन्तः पण्डिताः शास्त्रकुशलश् चेति मन्यमानास् ते दन्द्रम्यमाणा अत्यर्थं कुटिलाम् अनेकरूपां गतिं गच्छन्तो जरामरणरोगादिदुःखैः परियन्ति परिगच्छन्ति मूढा अविवेकिनो ऽन्धेनैव दृष्टिविहीनेनैव नीयमाना विषमे पथि यथा बहवोन्धा महान्तम् अनर्थम् ऋच्छन्ति तद्वत् ॥ कउभ्_२।५।१,२।५ ॥
avidyāyām antare vartamānāḥ svayaṃ dhīrāḥ paṇḍitaṃ manyamānāḥ /
dandramyamāṇāḥ pariyanti mūḍhā andhenaiva nīyamānā yathāndhāḥ //
ye tu saṃsārabhājo janā avidyāyām antare madhye ghanībhūta iva tamasi vartamānā veṣṭyamānāḥ putrapaśvāditṛṣṇāpāśaśataiḥ, svayaṃ dhīrāḥ prajñāvantaḥ paṇḍitāḥ śāstrakuśalaś ceti manyamānās te dandramyamāṇā atyarthaṃ kuṭilām anekarūpāṃ gatiṃ gacchanto jarāmaraṇarogādiduḥkhaiḥ pariyanti parigacchanti mūḍhā avivekino 'ndhenaiva dṛṣṭivihīnenaiva nīyamānā viṣame pathi yathā bahavondhā mahāntam anartham ṛcchanti tadvat // KaUBh_2.5/1,2.5 //
Sanskrit only: no published translation is held for this verse.
न साम्परायः प्रतिभाति बालं प्रमाद्यन्तं वित्तमोहेन मूढम् ।
अयं लोको नास्ति पर इति मानी पुनः पुनर् वशम् आपद्यते मे ॥
अत एव मूढत्वान् न साम्परायः प्रतिभाति । सम्परेयत इति साम्परायः परलोकस् तत्प्राप्तिप्रयोजनः साधनविशेषः शास्त्रीयः साम्परायः स च बालम् अविवेकिनं प्रति न प्रतिभाति न प्रकाशते नोपतिष्ठत इत्य् एतत् । प्रमाद्यन्तं प्रमादं कुर्वन्तं पुत्रपश्वादिप्रयोजनेष्व् आसक्तमनसं तथा वित्तमोहेन वित्तनिमित्तेनाविवेकेन मूढं तमसाच्छन्नम् । स त्व् अयम् एव लोको यो ऽयं दृश्यमानः स्त्र्यन्नपानादिविशिष्टो नास्ति परो ऽदृष्टो लोक इत्य् एवं मननशीलो मानी पुनः पुनर् जनित्वा वशं मे ऽधीनतामापद्यते मृत्योर् मम जननमरणादिलक्षणदुःखप्रबन्धारूढ एव भवतीत्य् अर्थः । प्रायेण ह्य् एवंविध एव लोकः ॥ कउभ्_२।६।१,२।६ ॥
na sāmparāyaḥ pratibhāti bālaṃ pramādyantaṃ vittamohena mūḍham /
ayaṃ loko nāsti para iti mānī punaḥ punar vaśam āpadyate me //
ata eva mūḍhatvān na sāmparāyaḥ pratibhāti / sampareyata iti sāmparāyaḥ paralokas tatprāptiprayojanaḥ sādhanaviśeṣaḥ śāstrīyaḥ sāmparāyaḥ sa ca bālam avivekinaṃ prati na pratibhāti na prakāśate nopatiṣṭhata ity etat / pramādyantaṃ pramādaṃ kurvantaṃ putrapaśvādiprayojaneṣv āsaktamanasaṃ tathā vittamohena vittanimittenāvivekena mūḍhaṃ tamasācchannam / sa tv ayam eva loko yo 'yaṃ dṛśyamānaḥ stryannapānādiviśiṣṭo nāsti paro 'dṛṣṭo loka ity evaṃ mananaśīlo mānī punaḥ punar janitvā vaśaṃ me 'dhīnatāmāpadyate mṛtyor mama jananamaraṇādilakṣaṇaduḥkhaprabandhārūḍha eva bhavatīty arthaḥ / prāyeṇa hy evaṃvidha eva lokaḥ // KaUBh_2.6/1,2.6 //
Sanskrit only: no published translation is held for this verse.
श्रवणायापि बहुभिर् यो न लभ्यः शृण्वन्तो ऽपि बहवो यं न विद्युः ।
आश्चर्यो वक्ता कुशलो ऽस्य लब्धा आश्चर्यो ज्ञाता कुशलानुशिष्टः ॥
यस् तु श्रेयोर्थी सहस्रेषु कश्चिद् एवात्मविद्भवति त्वद् विधो यस्माच् छ्रवणायापि श्रवणार्थं श्रोतम् अपि यो न लभ्य आत्मा बहुभिर् अनेकैः शृण्वन्तो ऽपि बहवो ऽनेके ऽन्ये यम् आत्मानं न विद्युर् न विदन्त्य् अभागिनो ऽसंस्कृतात्मानो न विजानीयुः । किञ् चास्य वक्ताप्य् आश्चर्यो ऽद्भुतवद् एवानेकेषु कश्चिद् एव भवति । तथा श्रुत्वाप्य् अस्यात्मनः कुशलो निपुण एवानेकेषु लब्धा कश्चिद् एव भवति । यस्माद् आश्चर्यो ज्ञाता कश्चिद् एव कुशलानुशिष्टः कुशलेन निपुणेनाचार्येणानुशिष्टः (संशिक्षित इत्य् अध्याहार्यम्) सन् ॥ कउभ्_२।७।१,२।७ ॥
śravaṇāyāpi bahubhir yo na labhyaḥ śṛṇvanto 'pi bahavo yaṃ na vidyuḥ /
āścaryo vaktā kuśalo 'sya labdhā āścaryo jñātā kuśalānuśiṣṭaḥ //
yas tu śreyorthī sahasreṣu kaścid evātmavidbhavati tvad vidho yasmāc chravaṇāyāpi śravaṇārthaṃ śrotam api yo na labhya ātmā bahubhir anekaiḥ śṛṇvanto 'pi bahavo 'neke 'nye yam ātmānaṃ na vidyur na vidanty abhāgino 'saṃskṛtātmāno na vijānīyuḥ / kiñ cāsya vaktāpy āścaryo 'dbhutavad evānekeṣu kaścid eva bhavati / tathā śrutvāpy asyātmanaḥ kuśalo nipuṇa evānekeṣu labdhā kaścid eva bhavati / yasmād āścaryo jñātā kaścid eva kuśalānuśiṣṭaḥ kuśalena nipuṇenācāryeṇānuśiṣṭaḥ (saṃśikṣita ity adhyāhāryam) san // KaUBh_2.7/1,2.7 //
Sanskrit only: no published translation is held for this verse.
न नरेणावरेण प्रोक्त एष सुविज्ञेयो बहुधा चिन्त्यमानः ।
अनन्यप्रोक्ते गतिर् अत्र नास्त्य् अणीयान् ह्य् अतर्क्यम् अणुप्रमाणात् ॥
कस्मात् ? न हि नरेण मनुष्येणावरेण प्रोक्तो ऽवरेण हीनेन प्रकृतबुद्धिनेत्य् एतद् उक्त एष आत्मा यं त्वं मां पृच्छसि । न हि सुष्ठु सम्यग् विज्ञेयो विज्ञातुं शक्यो यस्माद् बहुधास्ति नास्ति कर्ताकर्ता शुद्धो ऽशुद्ध इत्य् आद्यनेकधा चिन्त्यमानो वादिभिः । कथं पुनः सुविज्ञेय इत्य् उच्यते -- अनन्यप्रोक्ते ऽनन्येनापृथग् दर्शिनाचार्येण प्रतिपाद्यब्रह्मात्मभूतेन प्रोक्त उक्त आत्मनि गतिर् अनेकधास्तिनास्तीत्य् आदिलक्षणा चिन्ता गतिर् अत्रास्मिन्न् आत्मनि नास्ति न विद्यते सर्वविकल्पगतिप्रत्यस्तमितत्वाद् आत्मनः । अथवा स्वात्मभूते ऽनन्यस्मिन्न् आत्मनि प्रोक्ते ऽनन्यप्रोक्ते गतिर् अत्रान्यावगतिर् नास्ति ज्ञेयस्यान्यस्याभावात् । ज्ञानस्य ह्य् एषा परा निष्ठा यद् आत्मैकत्वविज्ञानम् । अतो ऽवगन्तव्याभावान् न गतिर् अत्रावशिष्यते, संसारगतिर् वात्र नास्त्य् अनन्य आत्मनि प्रोक्ते नान्तरीयकत्वात् तद्विज्ञानफलस्य मोक्षस्य । अथवा प्रोच्यमानब्रह्मात्मभूतेनाचार्येणानन्यतया प्रोक्त आत्मन्य् अगतिर् अनवबोधो ऽपरिज्ञानम् अत्र नास्ति । भवत्य् एवावगतिस् तद्विषया श्रोतुस् तदनन्यो ऽहम् इत्य् आचार्यस्येवेत्य् अर्थः । एवं सुविज्ञेय आत्मागमवताचार्येणानन्यतया प्रोक्तः । इतरथा ह्य् अणीयान् अणुतरो ऽणुप्रमाणाद् अपि सम्पद्यत आत्मा । अतर्क्यम् अतर्क्यः स्वबुद्ध्यभ्यूहेन केवलेन तर्केण । तर्क्यमाणे ऽणुपरिमाणे केनचित् स्थापित आत्मनि ततो ऽणुतरम् अन्यो ऽभ्यूहति, ततो ऽप्य् अन्यो ऽणुतरम्, इति न हि तर्कस्य निष्ठा क्वचिद् विद्यते ॥ कउभ्_२।८।१,२।८ ॥
na nareṇāvareṇa prokta eṣa suvijñeyo bahudhā cintyamānaḥ /
ananyaprokte gatir atra nāsty aṇīyān hy atarkyam aṇupramāṇāt //
kasmāt ? na hi nareṇa manuṣyeṇāvareṇa prokto 'vareṇa hīnena prakṛtabuddhinety etad ukta eṣa ātmā yaṃ tvaṃ māṃ pṛcchasi / na hi suṣṭhu samyag vijñeyo vijñātuṃ śakyo yasmād bahudhāsti nāsti kartākartā śuddho 'śuddha ity ādyanekadhā cintyamāno vādibhiḥ / kathaṃ punaḥ suvijñeya ity ucyate -- ananyaprokte 'nanyenāpṛthag darśinācāryeṇa pratipādyabrahmātmabhūtena prokta ukta ātmani gatir anekadhāstināstīty ādilakṣaṇā cintā gatir atrāsminn ātmani nāsti na vidyate sarvavikalpagatipratyastamitatvād ātmanaḥ / athavā svātmabhūte 'nanyasminn ātmani prokte 'nanyaprokte gatir atrānyāvagatir nāsti jñeyasyānyasyābhāvāt / jñānasya hy eṣā parā niṣṭhā yad ātmaikatvavijñānam / ato 'vagantavyābhāvān na gatir atrāvaśiṣyate, saṃsāragatir vātra nāsty ananya ātmani prokte nāntarīyakatvāt tadvijñānaphalasya mokṣasya / athavā procyamānabrahmātmabhūtenācāryeṇānanyatayā prokta ātmany agatir anavabodho 'parijñānam atra nāsti / bhavaty evāvagatis tadviṣayā śrotus tadananyo 'ham ity ācāryasyevety arthaḥ / evaṃ suvijñeya ātmāgamavatācāryeṇānanyatayā proktaḥ / itarathā hy aṇīyān aṇutaro 'ṇupramāṇād api sampadyata ātmā / atarkyam atarkyaḥ svabuddhyabhyūhena kevalena tarkeṇa / tarkyamāṇe 'ṇuparimāṇe kenacit sthāpita ātmani tato 'ṇutaram anyo 'bhyūhati, tato 'py anyo 'ṇutaram, iti na hi tarkasya niṣṭhā kvacid vidyate // KaUBh_2.8/1,2.8 //
Sanskrit only: no published translation is held for this verse.
नैषा तर्केण मतिर् आपनेया प्रोक्तान्येनैव सुज्ञानाय प्रेष्ठ ।
यां त्वम् आपः सत्यधृतिर् बतासि त्वादृङ् नो भूयान् नचिकेतः प्रेष्टा ॥
अतो ऽनन्यप्रोक्त आत्मन्य् उत्पन्ना येयम् आगमप्रतिपाद्यात्ममतिर् नैषा तर्केण स्वबुद्ध्याभ्यूहमात्रेणापनेया न प्रापणीयेत्य् अर्थः । नापनेतव्या वा, न हातव्या । तार्किको ह्य् अनागम् अज्ञः स्वबुद्धिपरिकल्पितं यत् किञ्चिद् एव कल्पयति । अत एव च येयम् आगमप्रभूता मतिस् तार्किकाद् अन्येनैवागमाभिज्ञेनाचार्येणैव प्रोक्ता सती सुज्ञानाय भवति हे प्रेष्ठ प्रियतम । का पुनः सा तर्कागम्या मतिर् इत्य् उच्यते । यां त्वं मतिं मद्वरप्रदानेनापः प्राप्तवान् असि । सत्या अवितथविषया धृतिर् यस्य तव स त्वं सत्यधृतिः । बतासीत्य् अनुकम्पयन्न् आह मृत्युर् नचिकेतसं वक्ष्यमाणविज्ञानस्तुतये । त्वादृक् त्व् अतुल्यो नो ऽस्मभ्यं भूयाद् भवताद्भवत्वन्यः पुत्रः शिष्यो वा प्रष्टा । कीदृक् ? यादृक्त्वं हे नचिकेतः प्रष्टा ॥ कउभ्_२।९।१,२।९ ॥
naiṣā tarkeṇa matir āpaneyā proktānyenaiva sujñānāya preṣṭha /
yāṃ tvam āpaḥ satyadhṛtir batāsi tvādṛṅ no bhūyān naciketaḥ preṣṭā //
ato 'nanyaprokta ātmany utpannā yeyam āgamapratipādyātmamatir naiṣā tarkeṇa svabuddhyābhyūhamātreṇāpaneyā na prāpaṇīyety arthaḥ / nāpanetavyā vā, na hātavyā / tārkiko hy anāgam ajñaḥ svabuddhiparikalpitaṃ yat kiñcid eva kalpayati / ata eva ca yeyam āgamaprabhūtā matis tārkikād anyenaivāgamābhijñenācāryeṇaiva proktā satī sujñānāya bhavati he preṣṭha priyatama / kā punaḥ sā tarkāgamyā matir ity ucyate / yāṃ tvaṃ matiṃ madvarapradānenāpaḥ prāptavān asi / satyā avitathaviṣayā dhṛtir yasya tava sa tvaṃ satyadhṛtiḥ / batāsīty anukampayann āha mṛtyur naciketasaṃ vakṣyamāṇavijñānastutaye / tvādṛk tv atulyo no 'smabhyaṃ bhūyād bhavatādbhavatvanyaḥ putraḥ śiṣyo vā praṣṭā / kīdṛk ? yādṛktvaṃ he naciketaḥ praṣṭā // KaUBh_2.9/1,2.9 //
Sanskrit only: no published translation is held for this verse.
जानाम्य् अहं शेवधिर् इत्य् अनित्यं न ह्य् अध्रुवैः प्राप्यते हि ध्रुवं तत् ।
ततो मया नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः प्राप्तवान् अस्मि नित्यम् ॥
पुनर् अपि तुष्ट आह -- जानाम्य् अहं शेवधिर् निधिः कर्मफललक्षणो निधिर् इव प्राथ्यत इति । असाव् अनित्यम् अनित्य इति जानामि । न हि यस्माद् अनित्यैर् अध्रुवैर् यन् नित्यं ध्रुवं तत्प्राप्यते परमात्माख्यः शेवधिः । यस् त्व् अनित्यसुखात्मकः शेवधिः स एवानित्यैर् द्रव्यैः प्राप्यते हि यतस् ततस् तस्मान् मया जानतापि नित्यम् अनित्यसाधनैः प्राप्यत इति नाचिकेतश् चितो ऽग्निर् अनित्यैर् द्रव्यैः पश्वादिभिः स्वर्गसुखसाधनभूतो ऽग्निर् निर्वर्तित इत्य् अर्थः । तेनाहम् अधिकारापन्नो नित्यं याम्यं स्थानं स्वर्गाख्यं नित्यम् आपेक्षिकं प्राप्तवान् अस्मि ॥ कउभ्_२।१०।१,२।१० ॥
jānāmy ahaṃ śevadhir ity anityaṃ na hy adhruvaiḥ prāpyate hi dhruvaṃ tat /
tato mayā nāciketaś cito 'gnir anityair dravyaiḥ prāptavān asmi nityam //
punar api tuṣṭa āha -- jānāmy ahaṃ śevadhir nidhiḥ karmaphalalakṣaṇo nidhir iva prāthyata iti / asāv anityam anitya iti jānāmi / na hi yasmād anityair adhruvair yan nityaṃ dhruvaṃ tatprāpyate paramātmākhyaḥ śevadhiḥ / yas tv anityasukhātmakaḥ śevadhiḥ sa evānityair dravyaiḥ prāpyate hi yatas tatas tasmān mayā jānatāpi nityam anityasādhanaiḥ prāpyata iti nāciketaś cito 'gnir anityair dravyaiḥ paśvādibhiḥ svargasukhasādhanabhūto 'gnir nirvartita ity arthaḥ / tenāham adhikārāpanno nityaṃ yāmyaṃ sthānaṃ svargākhyaṃ nityam āpekṣikaṃ prāptavān asmi // KaUBh_2.10/1,2.10 //
Sanskrit only: no published translation is held for this verse.
कामस्य आप्तिं जगतः प्रतिष्ठां क्रतोर् अनन्त्यम् अभयस्य पारम् ।
स्तोममहद् उरुगायं प्रतिष्ठां दृष्ट्वा धृत्या धीरो नचिकेतो ऽत्यस्राक्षीः ॥
त्वं तु कामस्याप्तिं समाप्तिम्, अत्रैव हि सर्वे कामाः परिसमाप्ताः, जगतः साध्यात्माधिभूताधिदैवादेः प्रतिष्ठामाश्रयं सर्वात्मकत्वात्, क्रतोर् उपासनायाः फलं हैरण्यगर्भपदम् अनन्त्यमानन्त्यम् । अभयस्य च पारं परां निष्ठाम् । स्तोमं स्तुत्यं महदणिमाद्यैश्वर्याद्यनेकगुणसंहतम्, स्तोमं च तन्महच् च निरतिशयत्वात् स्तोममहत् । उरुगायं विस्तीर्णां गतिम् । प्रतिष्ठां स्थितिम् आत्मनो ऽनुत्तमाम् अपि दृष्ट्वा धृत्या धैर्येण धीगे धीमान् सन् नचिकेतो ऽत्यस्राक्षीः परम् एवाकाङ्क्षन्न् अतिसृष्ट्वान् असि सर्वम् एतत् संसारभोगजातम् । अहो बतानुत्तमगुणो ऽसि ॥ कउभ्_२।११।१,२।११ ॥
kāmasya āptiṃ jagataḥ pratiṣṭhāṃ krator anantyam abhayasya pāram /
stomamahad urugāyaṃ pratiṣṭhāṃ dṛṣṭvā dhṛtyā dhīro naciketo 'tyasrākṣīḥ //
tvaṃ tu kāmasyāptiṃ samāptim, atraiva hi sarve kāmāḥ parisamāptāḥ, jagataḥ sādhyātmādhibhūtādhidaivādeḥ pratiṣṭhāmāśrayaṃ sarvātmakatvāt, krator upāsanāyāḥ phalaṃ hairaṇyagarbhapadam anantyamānantyam / abhayasya ca pāraṃ parāṃ niṣṭhām / stomaṃ stutyaṃ mahadaṇimādyaiśvaryādyanekaguṇasaṃhatam, stomaṃ ca tanmahac ca niratiśayatvāt stomamahat / urugāyaṃ vistīrṇāṃ gatim / pratiṣṭhāṃ sthitim ātmano 'nuttamām api dṛṣṭvā dhṛtyā dhairyeṇa dhīge dhīmān san naciketo 'tyasrākṣīḥ param evākāṅkṣann atisṛṣṭvān asi sarvam etat saṃsārabhogajātam / aho batānuttamaguṇo 'si // KaUBh_2.11/1,2.11 //
Sanskrit only: no published translation is held for this verse.
तं दुर्दर्शं गूढम् अनुप्रविष्टं गुहाहितं गह्वरेष्ठं पुराणम् ।
अध्यात्मयोगाधिगमेन देवं मत्वा धीरो हर्षशोकौ जहाति ॥
यं त्वं ज्ञातुम् इच्छस्य् आत्मानं तं दुर्दर्शं दुःखेन दर्शनम् अस्येति दुर्दर्शो ऽतिसूक्ष्मत्वात् तं गूढं गहनम्, अनुप्रविष्टं प्राकृतविषयविकारविज्ञानैः प्रच्छन्नम् इत्य् एतत् । गुहाहितं गुहायां बुद्धौ स्थितं तत्रोपलभ्यमानत्वात् । गह्वरेष्ठं गह्वरे विषमे ऽनेकानर्थसङ्कटे तिष्ठतीति गह्वरेष्ठम् । यत एवं गूढम् अनुप्रविष्टो गुहाहितश् चातो गह्वरेष्ठो ऽतो दुर्दर्शः । तं पुराणं पुरातनम् अध्यात्मयोगाधिगमेन विषयेभ्यः प्रतिसंहृत्य चेतस आत्मनि समाधानम् अध्यात्मयोगस् तस्याधिगमस् तेन मत्वा देवम् आत्मानं धीरो हर्षशोकाव् आत्मन उत्कर्षापकर्षयोर् अभावज् जहाति ॥ कउभ्_२।१२।१,२।१२ ॥
taṃ durdarśaṃ gūḍham anupraviṣṭaṃ guhāhitaṃ gahvareṣṭhaṃ purāṇam /
adhyātmayogādhigamena devaṃ matvā dhīro harṣaśokau jahāti //
yaṃ tvaṃ jñātum icchasy ātmānaṃ taṃ durdarśaṃ duḥkhena darśanam asyeti durdarśo 'tisūkṣmatvāt taṃ gūḍhaṃ gahanam, anupraviṣṭaṃ prākṛtaviṣayavikāravijñānaiḥ pracchannam ity etat / guhāhitaṃ guhāyāṃ buddhau sthitaṃ tatropalabhyamānatvāt / gahvareṣṭhaṃ gahvare viṣame 'nekānarthasaṅkaṭe tiṣṭhatīti gahvareṣṭham / yata evaṃ gūḍham anupraviṣṭo guhāhitaś cāto gahvareṣṭho 'to durdarśaḥ / taṃ purāṇaṃ purātanam adhyātmayogādhigamena viṣayebhyaḥ pratisaṃhṛtya cetasa ātmani samādhānam adhyātmayogas tasyādhigamas tena matvā devam ātmānaṃ dhīro harṣaśokāv ātmana utkarṣāpakarṣayor abhāvaj jahāti // KaUBh_2.12/1,2.12 //
Sanskrit only: no published translation is held for this verse.
एतच् छ्रुत्वा संपरिगृह्य मर्त्यः प्रवृह्य धर्म्यम् अणुम् एतम् आप्य ।
स मोदते मोदनीयं हि लब्ध्वा विवृतं सद्म नचिकेतसं मन्ये ॥
किञ् च, एतद् आत्मतत्त्वं यद् अहं वक्ष्यामि तच् छुत्वाचार्यप्रसादात् सम्यग् आत्मभावेन परिगृह्योपादाय मर्त्यो मरणधर्मा धर्माद् अनुपेतं धर्म्यं प्रवृह्योद्यम्य पृथक् कृत्य शरीरादेर् अणुं सूक्ष्मम् एतम् आत्मानम् आप्य प्राप्य स मर्त्यो विद्वान् मोदते मोदनीयं हर्षणीयम् आत्मानं लब्ध्वा । तद् एतद् एवंविधं ब्रह्म सद्म भवनं नचिकेतसं त्वां प्रत्यपावृतद्वारं विवृतम् अभिमुखीभूतं मन्ये, मोक्षार्हं त्वां मन्य इत्य् अभिप्रायः ॥ कउभ्_२।१३।१,२।१३ ॥
etac chrutvā saṃparigṛhya martyaḥ pravṛhya dharmyam aṇum etam āpya /
sa modate modanīyaṃ hi labdhvā vivṛtaṃ sadma naciketasaṃ manye //
kiñ ca, etad ātmatattvaṃ yad ahaṃ vakṣyāmi tac chutvācāryaprasādāt samyag ātmabhāvena parigṛhyopādāya martyo maraṇadharmā dharmād anupetaṃ dharmyaṃ pravṛhyodyamya pṛthak kṛtya śarīrāder aṇuṃ sūkṣmam etam ātmānam āpya prāpya sa martyo vidvān modate modanīyaṃ harṣaṇīyam ātmānaṃ labdhvā / tad etad evaṃvidhaṃ brahma sadma bhavanaṃ naciketasaṃ tvāṃ pratyapāvṛtadvāraṃ vivṛtam abhimukhībhūtaṃ manye, mokṣārhaṃ tvāṃ manya ity abhiprāyaḥ // KaUBh_2.13/1,2.13 //
Sanskrit only: no published translation is held for this verse.
अन्यत्र धर्माद् अन्यत्राधर्माद् अन्यत्रास्मात् कृताकृतात् ।
अन्यत्र भूताच् च भव्याच् च यत् तत् पश्यसि तद् वद ॥
एतच् छ्रुत्वा नचिकेताः पुनर् आह -- यद्य् अहं योग्यः, प्रसन्नश् चासि भगवन् मां प्रति, अन्यत्र धर्माच् छास्त्रीयाद् धर्मानुष्ठानात् तत्फलात् तत्कारकेभ्यश् च पृथग् भूतम् इत्य् अर्थः । तथान्यत्राधर्माद् विहिताकरणरूपात् पापात्, तथान्यत्रास्मात् कृताकृतात् । कृतं कार्यम् अकृतं कारणम् अस्माद् अन्यत्र । किञ् चान्यत्र भूताच् चातिक्रान्तात् कालाद् भव्याच् च भविष्यतश् च तथा वर्तमानात् । कालत्रयेण यन् न परिच्छिद्यत इत्य् अर्थः । यद् ईदृशं वस्तु सर्वव्यवहारगोचरातीतं पश्यसि जानासि तद्वद मह्यम् ॥ कउभ्_२।१४।१,२।१४ ॥
anyatra dharmād anyatrādharmād anyatrāsmāt kṛtākṛtāt /
anyatra bhūtāc ca bhavyāc ca yat tat paśyasi tad vada //
etac chrutvā naciketāḥ punar āha -- yady ahaṃ yogyaḥ, prasannaś cāsi bhagavan māṃ prati, anyatra dharmāc chāstrīyād dharmānuṣṭhānāt tatphalāt tatkārakebhyaś ca pṛthag bhūtam ity arthaḥ / tathānyatrādharmād vihitākaraṇarūpāt pāpāt, tathānyatrāsmāt kṛtākṛtāt / kṛtaṃ kāryam akṛtaṃ kāraṇam asmād anyatra / kiñ cānyatra bhūtāc cātikrāntāt kālād bhavyāc ca bhaviṣyataś ca tathā vartamānāt / kālatrayeṇa yan na paricchidyata ity arthaḥ / yad īdṛśaṃ vastu sarvavyavahāragocarātītaṃ paśyasi jānāsi tadvada mahyam // KaUBh_2.14/1,2.14 //
Sanskrit only: no published translation is held for this verse.
सर्वे वेदा यत् पदम् आमनन्ति तपांसि सर्वाणि च यद् वदन्ति ।
यद् इच्छन्तो ब्रह्मचर्यं चरन्ति तत् ते पदं संग्रहेण ब्रवीम्य् ओम् इत्य् एतत् ॥
इत्य् एवं पृष्टवते मृत्युर् उवाच पृष्टं वस्तु विशेषणान्तरं च विवक्षन् -- सर्वे वेदा यत् पदं पदनीयं गमनीयम् अविभागेनाविरोधेनामनन्ति प्रतिपादयन्ति, तपांसि सर्वाणि च यद् वदन्ति यत् प्राप्त्यर्थानीत्य् अर्थः । यद् इच्छन्तो ब्रह्मचर्यं गुरुकुलवासलक्षणम् अन्यद् वा ब्रह्मप्राप्त्यर्थं चरन्ति, तत् ते तुभ्यं पदं यज् ज्ञातुम् इच्छसि सङ्ग्रहेण सङ्क्षेपतो ब्रवीमि, ओम् इत्य् एतत् । तद् एतत् पदं यद् बुभुत्सितं त्वया । यद् एतद् ओम् इत्य् ॐ शब्दवाच्यम् ॐ शब्दप्रतीकं च ॥ कउभ्_२।१५।१,२।१५ ॥
sarve vedā yat padam āmananti tapāṃsi sarvāṇi ca yad vadanti /
yad icchanto brahmacaryaṃ caranti tat te padaṃ saṃgraheṇa bravīmy om ity etat //
ity evaṃ pṛṣṭavate mṛtyur uvāca pṛṣṭaṃ vastu viśeṣaṇāntaraṃ ca vivakṣan -- sarve vedā yat padaṃ padanīyaṃ gamanīyam avibhāgenāvirodhenāmananti pratipādayanti, tapāṃsi sarvāṇi ca yad vadanti yat prāptyarthānīty arthaḥ / yad icchanto brahmacaryaṃ gurukulavāsalakṣaṇam anyad vā brahmaprāptyarthaṃ caranti, tat te tubhyaṃ padaṃ yaj jñātum icchasi saṅgraheṇa saṅkṣepato bravīmi, om ity etat / tad etat padaṃ yad bubhutsitaṃ tvayā / yad etad om ity oṃ śabdavācyam oṃ śabdapratīkaṃ ca // KaUBh_2.15/1,2.15 //
Sanskrit only: no published translation is held for this verse.
एतद् ध्य् एवाक्षरं ब्रह्म एतद् ध्य् एवाक्षरं परम् ।
एतद् ध्य् एवाक्षरं ज्ञात्वा यो यद् इच्छति तस्य तत् ॥
अत एतद् ध्य् एवाक्षरं ब्रह्मापरम् एतद् ध्य् एवाक्षरं परं च । तयोर् हि प्रतीकम् एतद् अक्षरम् । एतद् ध्य् एवाक्षरं ज्ञात्वोपास्य ब्रह्मेति, यो यद् इच्छति परमपरं वा तस्य तद् भवति । परं चेज् ज्ञातव्यम् अपरं चेत् प्राप्तव्यम् ॥ कउभ्_२।१६।१,२।१६ ॥
etad dhy evākṣaraṃ brahma etad dhy evākṣaraṃ param /
etad dhy evākṣaraṃ jñātvā yo yad icchati tasya tat //
ata etad dhy evākṣaraṃ brahmāparam etad dhy evākṣaraṃ paraṃ ca / tayor hi pratīkam etad akṣaram / etad dhy evākṣaraṃ jñātvopāsya brahmeti, yo yad icchati paramaparaṃ vā tasya tad bhavati / paraṃ cej jñātavyam aparaṃ cet prāptavyam // KaUBh_2.16/1,2.16 //
Sanskrit only: no published translation is held for this verse.
एतद् आलम्बनं श्रेष्ठम् एतद् आलम्बनं परम् ।
एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥
यत एवम् अत एव एतद् आलम्बनं ब्रह्मप्राप्त्यालम्बनानां श्रेष्ठं प्रशस्यतमम् । एतद् आलम्बनं परमपरं च परापरब्रह्मविषयत्वात् । एतद् आलम्बनं ज्ञात्वा ब्रह्मलोके महीयते । परस्मिन् ब्रह्मण्य् अपरस्मिंश् च ब्रह्मभूतो ब्रह्मवद् उपास्यो भवतीत्य् अर्थः ॥ कउभ्_२।१७।१,२।१७ ॥
"अन्यत्र धर्मात्" (कउ २।१५) इत्य् आदिना पृष्टस्यात्मनो ऽशेषविशेषरहितस्यालम्बनत्वेन प्रतीकत्वेन चोङ्कारो निर्दिष्टः । अपरस्य च ब्रह्मणो मन्दमध्यमप्रतिपत्तॄन् प्रति ॥ अथेदानीं तस्योङ्कारालम्बनस्यात्मनः साक्षात् स्वरूपनिर्दिधारयिषयेदम् उच्यते --
etad ālambanaṃ śreṣṭham etad ālambanaṃ param /
etad ālambanaṃ jñātvā brahmaloke mahīyate //
yata evam ata eva etad ālambanaṃ brahmaprāptyālambanānāṃ śreṣṭhaṃ praśasyatamam / etad ālambanaṃ paramaparaṃ ca parāparabrahmaviṣayatvāt / etad ālambanaṃ jñātvā brahmaloke mahīyate / parasmin brahmaṇy aparasmiṃś ca brahmabhūto brahmavad upāsyo bhavatīty arthaḥ // KaUBh_2.17/1,2.17 //
"anyatra dharmāt" (KaU 2.15) ity ādinā pṛṣṭasyātmano 'śeṣaviśeṣarahitasyālambanatvena pratīkatvena coṅkāro nirdiṣṭaḥ / aparasya ca brahmaṇo mandamadhyamapratipattṝn prati // athedānīṃ tasyoṅkārālambanasyātmanaḥ sākṣāt svarūpanirdidhārayiṣayedam ucyate --
Sanskrit only: no published translation is held for this verse.
न जायते म्रियते वा विपश्चिन् नायं कुतश्चिन् न बभूव कश्चित् ।
अजो नित्यः शाश्वतो ऽयं पुराणो न हन्यते हन्यमाने शरीरे ॥
न जायते नोत्पद्यते म्रियते वा न म्रियते चोत्पत्तिमतो वस्तुनो ऽनित्यस्यानेका विक्रियास् तासाम् आद्यन्ते जन्मविनाशलक्षणे विक्रिय इहात्मनि प्रतिषिध्येते प्रथमं सर्वविक्रियाप्रतिषेधार्थं न जायते म्रियते वेति । विपश्चिन्मेधावी, अविपरिलुप्तचैतन्यस्वभावात् । किञ् च नायम् आत्मा कुतश्चित् कारणान्तराद् बभूव न प्रभूतः । अस्माच् चात्मनो न बभूव कश्चिद् अर्थान्तरभूतः । अतो ऽयम् आत्माजो नित्यः शाश्वतो ऽपक्षयविवर्जितः । यो ह्य् अशाश्वतः सो ऽपक्षीयते, अयं तु शाश्वतो ऽत एव पुराणः पुरापि नव एवेति । यो ह्य् अवयवोपचयद्वारेणाभिनिर्वर्त्यते स इदानीं नवो यथाङ्करादिस् तद्विपरीतस् त्व् आत्मा पुराणो वृद्धिविवर्जित इत्य् अर्थः । यत एवम् अतो न हन्यते न हिंस्यते हन्यमाने शस्त्रादिभिः शरीरे । तत्स्थो ऽप्य् आकाशवद् एव ॥ कउभ्_२।१८।१,२।१८ ॥
na jāyate mriyate vā vipaścin nāyaṃ kutaścin na babhūva kaścit /
ajo nityaḥ śāśvato 'yaṃ purāṇo na hanyate hanyamāne śarīre //
na jāyate notpadyate mriyate vā na mriyate cotpattimato vastuno 'nityasyānekā vikriyās tāsām ādyante janmavināśalakṣaṇe vikriya ihātmani pratiṣidhyete prathamaṃ sarvavikriyāpratiṣedhārthaṃ na jāyate mriyate veti / vipaścinmedhāvī, avipariluptacaitanyasvabhāvāt / kiñ ca nāyam ātmā kutaścit kāraṇāntarād babhūva na prabhūtaḥ / asmāc cātmano na babhūva kaścid arthāntarabhūtaḥ / ato 'yam ātmājo nityaḥ śāśvato 'pakṣayavivarjitaḥ / yo hy aśāśvataḥ so 'pakṣīyate, ayaṃ tu śāśvato 'ta eva purāṇaḥ purāpi nava eveti / yo hy avayavopacayadvāreṇābhinirvartyate sa idānīṃ navo yathāṅkarādis tadviparītas tv ātmā purāṇo vṛddhivivarjita ity arthaḥ / yata evam ato na hanyate na hiṃsyate hanyamāne śastrādibhiḥ śarīre / tatstho 'py ākāśavad eva // KaUBh_2.18/1,2.18 //
Sanskrit only: no published translation is held for this verse.
हन्ता चेन् मन्यते हन्तुं हतश् चेन् मन्यते हतम् ।
उभौ तौ न विजानीतो नायं हन्ति न हन्यते ॥
एवं भूतम् अप्य् आत्मानं शरीरमात्रात्मदृष्टिर् हन्ता चेद् यदि मन्यते चिन्तयति हन्तुं हनिष्याम्य् एनम् इति यो ऽप्य् अन्यो हतः सो ऽपि चेन् मन्यते हतम् आत्मानं हतो ऽहम् इत्य् उभाव् अपि तौ न विजानीतः स्वम् आत्मानम्, यतो नायं हन्त्य् अविक्रियत्वाद् आत्मनस् तथा न हन्यत आकाशवद् अविक्रियत्वाद् एव । अतो ऽनात्मज्ञविषय एव धर्माधर्मादिलक्षणः संसारो नात्मज्ञस्य श्रुतिप्रामाण्यान्न्यायाच्चधर्माधर्माद्यनुपपत्तेः ॥ कउभ्_२।१९।१,२।१९ ॥
hantā cen manyate hantuṃ hataś cen manyate hatam /
ubhau tau na vijānīto nāyaṃ hanti na hanyate //
evaṃ bhūtam apy ātmānaṃ śarīramātrātmadṛṣṭir hantā ced yadi manyate cintayati hantuṃ haniṣyāmy enam iti yo 'py anyo hataḥ so 'pi cen manyate hatam ātmānaṃ hato 'ham ity ubhāv api tau na vijānītaḥ svam ātmānam, yato nāyaṃ hanty avikriyatvād ātmanas tathā na hanyata ākāśavad avikriyatvād eva / ato 'nātmajñaviṣaya eva dharmādharmādilakṣaṇaḥ saṃsāro nātmajñasya śrutiprāmāṇyānnyāyāccadharmādharmādyanupapatteḥ // KaUBh_2.19/1,2.19 //
Sanskrit only: no published translation is held for this verse.
अणोर् अणीयान् महतो महीयान् आत्मास्य जन्तोर् निहितो गुहायाम् ।
तम् अक्रतुः पश्यति वीतशोको धातुप्रसादान् महिमानम् आत्मनः ॥
कथं पुनर् आत्मानं जानातीत्य् उच्यते -- अणोः सूक्ष्माद् अणीयाञ् श्यामाकादेर् अणुतरः । महतो महत्परिमाणान् महीयान् महत्तरः पृथिव्यादेः । अणु महद् वा यद् अस्ति लोके वस्तु तत् तेनैवात्मना नित्येनात्मवत् सम्भवति । तद् आत्मना विनिर्मुक्तम् असत् सम्पद्यते । तस्माद् असाव् एवात्माणोर् अणीयान् महतो महीयान् सर्वनामरूपवस्तूपाधिकत्वात् । स चात्मास्य जन्तोर् ब्रह्मादिस्तम्बपर्यन्तस्य प्राणिजातस्य गुहायां हृदये निहित आत्मभृतः स्थित इत्य् अर्थः । तम् आत्मानं दर्शनश्रवणमननविज्ञानलिङ्गम् अक्रतुर् अकामो, दृष्टादृष्टबाह्यविषयोपरतबुद्धिर् इत्य् अर्थः । यदा चैवं तदा मन आदीनि करणानि धातवः शरीरस्य धारणात् प्रसीदन्तीत्य् एषां धातूनां प्रसादाद् आत्मनो महिमानं कर्मनिमित्तवृद्धिक्षयरहितं पश्यत्य् अयम् अहम् अस्मीति, साक्षाद् विजानाति । ततो वीतशोको भवति ॥ कउभ्_२।२०।१,२।२० ॥
अन्यथा दुर्विज्ञेयो ऽयम् आत्मा कामिभिः प्राकृतपुरुषैः, यस्मात्
aṇor aṇīyān mahato mahīyān ātmāsya jantor nihito guhāyām /
tam akratuḥ paśyati vītaśoko dhātuprasādān mahimānam ātmanaḥ //
kathaṃ punar ātmānaṃ jānātīty ucyate -- aṇoḥ sūkṣmād aṇīyāñ śyāmākāder aṇutaraḥ / mahato mahatparimāṇān mahīyān mahattaraḥ pṛthivyādeḥ / aṇu mahad vā yad asti loke vastu tat tenaivātmanā nityenātmavat sambhavati / tad ātmanā vinirmuktam asat sampadyate / tasmād asāv evātmāṇor aṇīyān mahato mahīyān sarvanāmarūpavastūpādhikatvāt / sa cātmāsya jantor brahmādistambaparyantasya prāṇijātasya guhāyāṃ hṛdaye nihita ātmabhṛtaḥ sthita ity arthaḥ / tam ātmānaṃ darśanaśravaṇamananavijñānaliṅgam akratur akāmo, dṛṣṭādṛṣṭabāhyaviṣayoparatabuddhir ity arthaḥ / yadā caivaṃ tadā mana ādīni karaṇāni dhātavaḥ śarīrasya dhāraṇāt prasīdantīty eṣāṃ dhātūnāṃ prasādād ātmano mahimānaṃ karmanimittavṛddhikṣayarahitaṃ paśyaty ayam aham asmīti, sākṣād vijānāti / tato vītaśoko bhavati // KaUBh_2.20/1,2.20 //
anyathā durvijñeyo 'yam ātmā kāmibhiḥ prākṛtapuruṣaiḥ, yasmāt
Sanskrit only: no published translation is held for this verse.
आसीनो दूरं व्रजति शयानो याति सर्वतः ।
कस् तं मदामदं देवं मद् अन्यो ज्ञातुम् अर्हति ॥
आसीनो ऽवस्थितो ऽचल एव सन् दूरं व्रजति शयानो याति सर्वतः, एवम् असाव् आत्मा देवो मदामदः समदो ऽमदश् च सहर्षो ऽहर्षश् च विरुद्धधर्मवान् अतो ऽशक्यत्वाज् ज्ञातुं कस् तं मदामदं देवं मदन्यो ज्ञातुम् अर्हति । अस्मदादेर् एव सूक्ष्मबुद्धेः पण्डितस्य विज्ञेयो ऽयम् आत्मा स्थितिगतिनित्यानित्यादिविरुद्धानेकधर्मोपाधित्वाद् विरुद्धधर्मवान् विश्वरूप इव चिन्तामणिवत् कस्यचिद् अवभासते । अतो दुर्विज्ञेयत्वं दर्शयति कस् तं मदन्यो ज्ञातुम् अर्हतीति । करणानाम् उपशमः शयनं करणजनितस्यैकदेशविज्ञानस्योपशमः शयानस्य भवति । यदा चैवं केवलसामान्यविज्ञानत्वात् सर्वतो यातीव यदा विशेषविज्ञानस्थः स्वेन रूपेण स्थित एव सन् मन आदिगतिषु तदुपाधिकत्वाद् दूरं व्रजतीव स चेहैव वर्तते ॥ कउभ्_२।२१।१,२।२१ ॥
āsīno dūraṃ vrajati śayāno yāti sarvataḥ /
kas taṃ madāmadaṃ devaṃ mad anyo jñātum arhati //
āsīno 'vasthito 'cala eva san dūraṃ vrajati śayāno yāti sarvataḥ, evam asāv ātmā devo madāmadaḥ samado 'madaś ca saharṣo 'harṣaś ca viruddhadharmavān ato 'śakyatvāj jñātuṃ kas taṃ madāmadaṃ devaṃ madanyo jñātum arhati / asmadāder eva sūkṣmabuddheḥ paṇḍitasya vijñeyo 'yam ātmā sthitigatinityānityādiviruddhānekadharmopādhitvād viruddhadharmavān viśvarūpa iva cintāmaṇivat kasyacid avabhāsate / ato durvijñeyatvaṃ darśayati kas taṃ madanyo jñātum arhatīti / karaṇānām upaśamaḥ śayanaṃ karaṇajanitasyaikadeśavijñānasyopaśamaḥ śayānasya bhavati / yadā caivaṃ kevalasāmānyavijñānatvāt sarvato yātīva yadā viśeṣavijñānasthaḥ svena rūpeṇa sthita eva san mana ādigatiṣu tadupādhikatvād dūraṃ vrajatīva sa cehaiva vartate // KaUBh_2.21/1,2.21 //
Sanskrit only: no published translation is held for this verse.
अशरीरं शरीरेषु अनवस्थेष्व् अवस्थितम् ।
महान्तं विभुम् आत्मानं मत्वा धीरो न शोचति ॥
तद्विज्ञानाच् च शोकात्यय इत्य् अपि दर्शयति -- अशरीरः स्वेन रूपेणाकाशकल्प आत्मा तम् अशरीरं शरीरेषु देवपितृमनुष्यादिशरीरेष्व् अनवस्थेष्व् अवस्थितिर् अहितेष्व् अनित्येष्व् अवस्थितं नित्यम् अविकृतम् इत्य् एतत् । महान्तं महत्त्वस्योपेक्षिकत्वसङ्कायाम् आह विभुं व्यापिनम् आत्मानम् । आत्मग्रहणं स्वतो ऽनन्यत्वप्रदर्शनार्थम् । आत्मशब्दः प्रत्यगात्मविषय एव मुख्यस् तम् ईदृशम् आत्मानं मत्वायम् अहम् इति, धीरो धीमान् न शोचति । न ह्य् एवंविधस्यात्मविदः शोकोपपत्तिः ॥ कउभ्_२।२२।१,२।२२ ॥
aśarīraṃ śarīreṣu anavastheṣv avasthitam /
mahāntaṃ vibhum ātmānaṃ matvā dhīro na śocati //
tadvijñānāc ca śokātyaya ity api darśayati -- aśarīraḥ svena rūpeṇākāśakalpa ātmā tam aśarīraṃ śarīreṣu devapitṛmanuṣyādiśarīreṣv anavastheṣv avasthitir ahiteṣv anityeṣv avasthitaṃ nityam avikṛtam ity etat / mahāntaṃ mahattvasyopekṣikatvasaṅkāyām āha vibhuṃ vyāpinam ātmānam / ātmagrahaṇaṃ svato 'nanyatvapradarśanārtham / ātmaśabdaḥ pratyagātmaviṣaya eva mukhyas tam īdṛśam ātmānaṃ matvāyam aham iti, dhīro dhīmān na śocati / na hy evaṃvidhasyātmavidaḥ śokopapattiḥ // KaUBh_2.22/1,2.22 //
Sanskrit only: no published translation is held for this verse.
नायम् आत्मा प्रवचनेन लभ्यो न मेधया न बहुना श्रुतेन ।
यम् एवैष वृणुते तेन लभ्यस् तस्यैष आत्मा विवृणुते तनूं स्वाम् ॥
यद्य् अपि दुर्विज्ञेयो ऽयम् आत्मा तथाप्य् उपायेन सुविज्ञेय एवेत्य् आह नायम् आत्मा प्रवचनेनानेकवेदस्वीकरणेन लभ्यो ज्ञेयो, नापि मेधया ग्रन्थार्थधारणशक्त्या, न बहुना श्रुतेन केवलेन । केन तर्हि लभ्य इत्य् उच्यते -- यम् एव स्वात्मानम् एष साधको वृणुते प्रार्थयते तेनैवात्मना वरित्रा स्वयम् आत्मा लभ्यो ज्ञायत इत्य् एतत् । निष्कामश् चात्मानम् एव प्रार्थयते, आत्मनैवात्मा लभ्यत इत्य् अर्थः । कथं लभ्यत इत्य् उच्यते -- तस्यात्मकामस्यैष आत्मा विवृणुते प्रकाशयति पारमार्थिकीं तनूं स्वां स्वकीयां स्वयाथात्म्यम् इत्य् अर्थः ॥ कउभ्_२।२३।१,२।२३ ॥
nāyam ātmā pravacanena labhyo na medhayā na bahunā śrutena /
yam evaiṣa vṛṇute tena labhyas tasyaiṣa ātmā vivṛṇute tanūṃ svām //
yady api durvijñeyo 'yam ātmā tathāpy upāyena suvijñeya evety āha nāyam ātmā pravacanenānekavedasvīkaraṇena labhyo jñeyo, nāpi medhayā granthārthadhāraṇaśaktyā, na bahunā śrutena kevalena / kena tarhi labhya ity ucyate -- yam eva svātmānam eṣa sādhako vṛṇute prārthayate tenaivātmanā varitrā svayam ātmā labhyo jñāyata ity etat / niṣkāmaś cātmānam eva prārthayate, ātmanaivātmā labhyata ity arthaḥ / kathaṃ labhyata ity ucyate -- tasyātmakāmasyaiṣa ātmā vivṛṇute prakāśayati pāramārthikīṃ tanūṃ svāṃ svakīyāṃ svayāthātmyam ity arthaḥ // KaUBh_2.23/1,2.23 //
Sanskrit only: no published translation is held for this verse.
नाविरतो दुश्चरितान् नाशान्तो नासमाहितः ।
नाशान्तमानसो वापि प्रज्ञानेनैनम् आप्नुयात् ॥
किञ् चान्यत् । न दुश्चरितात् प्रतिषिद्धाच् छ्रुतिस्मृत्यविहितात् पापकर्मणो ऽविरतो ऽनुपरतः । नापीन्द्रियलौल्याद् अशान्तो ऽनुपरतः । नाप्य् असमाहितो ऽनेकाग्रमना विक्षिप्तचित्तः । समाहितचित्तो ऽपि सन् समाधानफलार्थित्वान् नाप्य् अशान्तमानसो व्यापृतचित्तो वा । प्रज्ञानेन ब्रह्मविज्ञानेनैनं प्रकृतम् आत्मानम् आप्नुयात् । यस् तु दुश्चरिताद् विरत इन्द्रियलौल्याच् च, समाहितचित्तः समाधानफलाद् अप्य् उपशान्तमानसश् चाचार्यवान् प्रज्ञानेन यथोक्तम् आत्मानं प्राप्नोतीत्य् अर्थः ॥ कउभ्_२।२४।१,२।२४ ॥
nāvirato duścaritān nāśānto nāsamāhitaḥ /
nāśāntamānaso vāpi prajñānenainam āpnuyāt //
kiñ cānyat / na duścaritāt pratiṣiddhāc chrutismṛtyavihitāt pāpakarmaṇo 'virato 'nuparataḥ / nāpīndriyalaulyād aśānto 'nuparataḥ / nāpy asamāhito 'nekāgramanā vikṣiptacittaḥ / samāhitacitto 'pi san samādhānaphalārthitvān nāpy aśāntamānaso vyāpṛtacitto vā / prajñānena brahmavijñānenainaṃ prakṛtam ātmānam āpnuyāt / yas tu duścaritād virata indriyalaulyāc ca, samāhitacittaḥ samādhānaphalād apy upaśāntamānasaś cācāryavān prajñānena yathoktam ātmānaṃ prāpnotīty arthaḥ // KaUBh_2.24/1,2.24 //
Sanskrit only: no published translation is held for this verse.
यस्य ब्रह्म च क्षत्रं च उभे भवत ओदनः ।
मृत्युर् यस्योपसेचनं क इत्था वेद यत्र सः ॥
इति काठकोपनिषदि इति द्वितीया वल्ली ॥ २ ॥
यस् त्व् अनेवं भूतः -- यस्यात्मनो ब्रह्म च क्षत्रं च ब्रह्मक्षत्रे सर्वधर्मविधारक अपि सर्वत्राणभूत उभ आदनो ऽशनं भवतः स्याताम् । सर्वहरो ऽपि मृत्युर् यस्योपसेचनम् इवौदनस्य, अशनत्वे ऽप्य् अपर्याप्तः, तं प्राकृतबुद्धिर् यथोक्तसाधनरहितः सन् क इत्था इत्थम् एवं यथोक्तसाधनवानिवेत्य् अर्थः । वेद विजानाति यत्र स आत्मेति ॥ कउभ्_२।२५।१,२।२५ ॥
इति काठवल्ल्यां द्वितीयवल्लीभाष्यम् ॥ २ ॥
अथ तृतीया वल्ली ।
yasya brahma ca kṣatraṃ ca ubhe bhavata odanaḥ /
mṛtyur yasyopasecanaṃ ka itthā veda yatra saḥ //
iti kāṭhakopaniṣadi iti dvitīyā vallī // 2 //
yas tv anevaṃ bhūtaḥ -- yasyātmano brahma ca kṣatraṃ ca brahmakṣatre sarvadharmavidhāraka api sarvatrāṇabhūta ubha ādano 'śanaṃ bhavataḥ syātām / sarvaharo 'pi mṛtyur yasyopasecanam ivaudanasya, aśanatve 'py aparyāptaḥ, taṃ prākṛtabuddhir yathoktasādhanarahitaḥ san ka itthā ittham evaṃ yathoktasādhanavānivety arthaḥ / veda vijānāti yatra sa ātmeti // KaUBh_2.25/1,2.25 //
iti kāṭhavallyāṃ dvitīyavallībhāṣyam // 2 //
atha tṛtīyā vallī /
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.