Library·Madhava: Jaiminiyanyayamalavistara [MJaiNyC]·2·2.3

Madhava: Jaiminiyanyayamalavistara [MJaiNyC] 2.3

------------------ ज्योतिष्टोमप्रकरणे श्रूयते -"यदि रथंतरसामा सोमः स्यादैन्द्रवायबाग्रान्ग्रहान्गृह्णीयात् । यदि बृहत्सामा शुक्राग्रान् । यदि जगत्सामाऽग्रयणाग्रान्"इति । तत्र - सोमशब्देन सोमलतासाधनको यागो ऽऽभिधीयते । तस्मिंश्च यागे बाध्यंदिने सवने पृष्ठस्तोत्रे रथंतरबृहज्जगन्नामकानि सामानि विकल्पेन विहितानि । "अभि त्वा शूर"- इत्येतस्यां योनावुत्पन्नं रथंतरम् । "त्वामिद्धि हवामहे"- इत्येतस्यामुत्पन्नं बृहत् । जगतीछन्दस्कायामृच्युत्पन्नं जगत् । ऐन्द्रमायवः, मैत्रावरुणः, आश्विनः, शुक्रः, मन्थ्याग्रयणः, उक्थ्यः, ध्रुवः, इत्यादिनामका ग्रहाः प्रातःसवने गृह्यन्ते । दारुपात्रेषु सोमरतस्य ग्रहणाद्ग्रहा भवन्ति । सोमयागस्य रथंतरसामोपेतत्वपक्ष एतेषु ग्रहेष्वैन्द्रवायवः प्रथमं ग्रहीतव्यः । बृहत्सामोपेतत्वपक्षे शुक्रः । जगत्सामोपेतत्वपक्ष आग्रयणः प्राथमिकः- इति विषयवाक्यार्थः । तत्र प्रकृतो ज्योतिष्टोमो गायत्रादिसामोपेतः, तद्व्यावृत्त्यर्थमिह रथंतरादयो गुणाः कीर्त्यन्ते । तस्मात् - ऐन्द्रवायवादिगुणोपेतानि कर्मान्तराण्यत्र विधीयन्ते - इति प्राप्ते, ब्रूमः-"यदि रथंतरसामा सोमः स्यात्"इत्युक्तो यः सोमशब्दः, तेन प्रकरणेन चात्र ज्योतिष्टोमः समर्प्यते । समर्पिते तस्मिन्यथोक्तग्रहाग्रत्वं गुणो विधीयते । न च रथंतरादिगुणानुवादेन ज्योतिष्टोमस्य व्यावृत्तिः संभवति । तस्य प्रातः सवनादौ गायत्रादिसामोपेतत्वे ऽपि पृष्ठस्तोत्रे रथंतरादियोगस्यापि सद्भावात् । किं तर्हि व्यावर्त्यत इति चेत् । रथंतरबृहज्जगतां परस्परव्यावृत्तिः- इति वदामः । रथंतरादयः पृष्ठस्तोत्रे विकल्पिताः । तत्र रथंतरानुवादेनेतरौ पक्षौ व्यावर्त्येते । एवमितरत्रापि । तस्मात् - गुणविधिः । ननु यः प्रकृतो ज्योतिष्टोमः सो ऽन्येषां सो ऽन्येषां सोमयागानां प्रकृतिः । नहि प्रकृतौ जगत्यामुत्पन्नं साम विहितमस्ति । अत एव दशमाध्याये पञ्चमपादस्य पञ्चदशाधिकरणे प्रथमवर्णके"यदि जगत्तामा"इति वाक्योक्तमाग्रयणाग्रत्वं विकृतौ विषुवन्नामके मुख्ये ऽहनि व्यवस्थापितम् । षाढम्, तथापि नात्र कश्चिद्विरोधः । आग्रयणाग्रत्ववाक्यं न कर्मान्तरविधायकम्, किंतु ऽअन्येन विहिते सोमयागे यत्र जगत्साम संभवति तत्र गुणविधायकम् - ऽ इत्येतावन्मात्रस्यात्र प्रतिपाद्यत्वात्

------------------ jyotiṣṭomaprakaraṇe śrūyate -"yadi rathaṃtarasāmā somaḥ syādaindravāyabāgrāngrahāngṛhṇīyāt | yadi bṛhatsāmā śukrāgrān | yadi jagatsāmā'grayaṇāgrān"iti | tatra - somaśabdena somalatāsādhanako yāgo ''bhidhīyate | tasmiṃśca yāge bādhyaṃdine savane pṛṣṭhastotre rathaṃtarabṛhajjagannāmakāni sāmāni vikalpena vihitāni | "abhi tvā śūra"- ityetasyāṃ yonāvutpannaṃ rathaṃtaram | "tvāmiddhi havāmahe"- ityetasyāmutpannaṃ bṛhat | jagatīchandaskāyāmṛcyutpannaṃ jagat | aindramāyavaḥ, maitrāvaruṇaḥ, āśvinaḥ, śukraḥ, manthyāgrayaṇaḥ, ukthyaḥ, dhruvaḥ, ityādināmakā grahāḥ prātaḥsavane gṛhyante | dārupātreṣu somaratasya grahaṇādgrahā bhavanti | somayāgasya rathaṃtarasāmopetatvapakṣa eteṣu graheṣvaindravāyavaḥ prathamaṃ grahītavyaḥ | bṛhatsāmopetatvapakṣe śukraḥ | jagatsāmopetatvapakṣa āgrayaṇaḥ prāthamikaḥ- iti viṣayavākyārthaḥ | tatra prakṛto jyotiṣṭomo gāyatrādisāmopetaḥ, tadvyāvṛttyarthamiha rathaṃtarādayo guṇāḥ kīrtyante | tasmāt - aindravāyavādiguṇopetāni karmāntarāṇyatra vidhīyante - iti prāpte, brūmaḥ-"yadi rathaṃtarasāmā somaḥ syāt"ityukto yaḥ somaśabdaḥ, tena prakaraṇena cātra jyotiṣṭomaḥ samarpyate | samarpite tasminyathoktagrahāgratvaṃ guṇo vidhīyate | na ca rathaṃtarādiguṇānuvādena jyotiṣṭomasya vyāvṛttiḥ saṃbhavati | tasya prātaḥ savanādau gāyatrādisāmopetatve 'pi pṛṣṭhastotre rathaṃtarādiyogasyāpi sadbhāvāt | kiṃ tarhi vyāvartyata iti cet | rathaṃtarabṛhajjagatāṃ parasparavyāvṛttiḥ- iti vadāmaḥ | rathaṃtarādayaḥ pṛṣṭhastotre vikalpitāḥ | tatra rathaṃtarānuvādenetarau pakṣau vyāvartyete | evamitaratrāpi | tasmāt - guṇavidhiḥ | nanu yaḥ prakṛto jyotiṣṭomaḥ so 'nyeṣāṃ so 'nyeṣāṃ somayāgānāṃ prakṛtiḥ | nahi prakṛtau jagatyāmutpannaṃ sāma vihitamasti | ata eva daśamādhyāye pañcamapādasya pañcadaśādhikaraṇe prathamavarṇake"yadi jagattāmā"iti vākyoktamāgrayaṇāgratvaṃ vikṛtau viṣuvannāmake mukhye 'hani vyavasthāpitam | ṣāḍham, tathāpi nātra kaścidvirodhaḥ | āgrayaṇāgratvavākyaṃ na karmāntaravidhāyakam, kiṃtu 'anyena vihite somayāge yatra jagatsāma saṃbhavati tatra guṇavidhāyakam - ' ityetāvanmātrasyātra pratipādyatvāt

Sanskrit only: no published translation is held for this verse.

------------------ राजसूयप्रकरणे काचिदिष्टिरवेष्टिनामिका श्रूयते - "आग्नेयमष्टाकपालं निर्वपेत् , हिरण्यं दक्षिणा । ऐन्द्रमाकादशकपालम्, ऋषभो दक्षिणा । वैश्वदेवं चरुम् , पिशङ्गी प्रष्ठौही दाक्षिणा । मैत्रावरुणीमामिक्षाम्, वशा दक्षिणा । बार्हस्पत्यं चरुम्, शितिपृष्ठो दिक्षणां"इति । तस्यामेवेष्टौ हविषां क्रमव्यत्ययः श्रूयते -"यदि ब्राह्मणो यजेत, बार्हस्पत्यं मध्ये निधायाऽहुतिं हुत्वा तमभिघारयेत् । यदि राजन्य ऐन्द्रम् । यदि वैश्यो वैश्वदेवम्"इति । तत्र यथा पूर्वाधिकरणे - ऐन्द्रवायवाग्रत्वं व्यवस्थापयितुं यदिशब्दयुक्तेन वाक्येन रथंतरं निमित्तत्वेनानूदितम्, एवमत्रापि पञ्चमस्थाने श्रूयमाणं बार्हस्पत्यं चरुं मध्ये तृतीयस्थाने स्थापयितुं ऽयदि रादन्यःऽ इत्यनुवादः । वैश्वदेवस्य तु स्वत एव तृतीयस्थाने श्रवणात्तत्र मध्ये निधानविधिर्नित्यामुवादः । ननु राजकर्तृके राजसूये ब्राह्मणवैश्ययोः प्राप्त्यभावान्नानुवादो युक्तः- इति चेत् । न । तयोरपि राज्ययोगहेतुराजशब्दार्थत्वात्, इति प्राप्ते, - ब्रूमः- राजशब्दः क्षत्त्रियजातौ रूढः, न तु राज्ययोगस्तस्य प्रवृत्तिनिमित्तम् । प्रत्युत- राज्यशब्दस्य राजयोगः प्रवृत्तिनिमित्तम् । ऽराज्ञः कर्मऽ इति विगृह्य राजप्रातिपदिकस्योपरि । प्रत्ययविशेषविधानात् । ब्राह्यणवैश्ययोः प्रजापालनेन राज्यशब्द उपचरितः । तस्मात् - अवेष्टौ ब्राह्मणवैश्यौ पूर्वमप्राप्तावनेन वचनेन प्राप्येते । ननु राजसूयस्य राजकर्तृकत्वात्तदन्तर्गताया अवेष्टेरपि तथात्वात्तस्यां ब्राह्मणवैश्ययोः प्रापणमयुक्तम् - इति चेत् । मैवम् । अन्तरवेष्टौ तदसंभवे ऽपि राजसूयाद्बहिः प्रयुज्यमानायामवेष्टौ तत्संभवात् । तस्मात् - अत्र ब्राह्मणादिकर्तृकं यथोक्तगुणविशिष्टं कर्मान्तरं विधीयत इति न रथंतरादितुल्यत्वम् । यदिशब्दस्तु निपातत्वादनर्थकोर्ऽथान्तरवाची वेत्युन्नेयम्

------------------ rājasūyaprakaraṇe kācidiṣṭiraveṣṭināmikā śrūyate - "āgneyamaṣṭākapālaṃ nirvapet , hiraṇyaṃ dakṣiṇā | aindramākādaśakapālam, ṛṣabho dakṣiṇā | vaiśvadevaṃ carum , piśaṅgī praṣṭhauhī dākṣiṇā | maitrāvaruṇīmāmikṣām, vaśā dakṣiṇā | bārhaspatyaṃ carum, śitipṛṣṭho dikṣaṇāṃ"iti | tasyāmeveṣṭau haviṣāṃ kramavyatyayaḥ śrūyate -"yadi brāhmaṇo yajeta, bārhaspatyaṃ madhye nidhāyā'hutiṃ hutvā tamabhighārayet | yadi rājanya aindram | yadi vaiśyo vaiśvadevam"iti | tatra yathā pūrvādhikaraṇe - aindravāyavāgratvaṃ vyavasthāpayituṃ yadiśabdayuktena vākyena rathaṃtaraṃ nimittatvenānūditam, evamatrāpi pañcamasthāne śrūyamāṇaṃ bārhaspatyaṃ caruṃ madhye tṛtīyasthāne sthāpayituṃ 'yadi rādanyaḥ' ityanuvādaḥ | vaiśvadevasya tu svata eva tṛtīyasthāne śravaṇāttatra madhye nidhānavidhirnityāmuvādaḥ | nanu rājakartṛke rājasūye brāhmaṇavaiśyayoḥ prāptyabhāvānnānuvādo yuktaḥ- iti cet | na | tayorapi rājyayogaheturājaśabdārthatvāt, iti prāpte, - brūmaḥ- rājaśabdaḥ kṣattriyajātau rūḍhaḥ, na tu rājyayogastasya pravṛttinimittam | pratyuta- rājyaśabdasya rājayogaḥ pravṛttinimittam | 'rājñaḥ karma' iti vigṛhya rājaprātipadikasyopari | pratyayaviśeṣavidhānāt | brāhyaṇavaiśyayoḥ prajāpālanena rājyaśabda upacaritaḥ | tasmāt - aveṣṭau brāhmaṇavaiśyau pūrvamaprāptāvanena vacanena prāpyete | nanu rājasūyasya rājakartṛkatvāttadantargatāyā aveṣṭerapi tathātvāttasyāṃ brāhmaṇavaiśyayoḥ prāpaṇamayuktam - iti cet | maivam | antaraveṣṭau tadasaṃbhave 'pi rājasūyādbahiḥ prayujyamānāyāmaveṣṭau tatsaṃbhavāt | tasmāt - atra brāhmaṇādikartṛkaṃ yathoktaguṇaviśiṣṭaṃ karmāntaraṃ vidhīyata iti na rathaṃtarāditulyatvam | yadiśabdastu nipātatvādanarthakor'thāntaravācī vetyunneyam

Sanskrit only: no published translation is held for this verse.

------------------ "वसन्ते ब्राह्मणो ऽग्नीनादधीत । ग्रीष्मे राजन्यः । शरदि वैश्यः"इति श्रूयते । "वसन्ते ब्राह्मणमुपनयीत । ग्रीष्मे राजन्यम् । शरदि वैश्यम्"इति च । तत्र वसन्तादिकालविशेषं विधातुं ब्राह्मणादयो ऽनूद्यन्ते । न च तेषां प्राप्त्यभावः । क्रत्वनुष्ठानान्यथानुपपत्त्या कॢप्तत्वात् । न ह्याहुत्याधारभूतमग्निम्, अनुष्ठानप्रकारज्ञापिकां विद्यां च विना कर्मानुष्ठानं संभवति । अग्निश्च नाऽधानमन्तरेणास्तीति ब्राह्मणादिकर्तृकमाधानं कल्पयति, विद्या चोपनयनपूर्वकाध्ययनमन्तरेणा संभवन्ती ब्राह्मणाद्युपनयनं कल्पयति - इति तत्र प्राप्तिः- इति चेत् । मैवम् । लौकिकाग्नौ होतुं, पुस्तकपाठेनाधिगन्तुं च शक्यत्वेनाऽधानोपनयनयोरकल्पने ब्राह्मणादीनामप्राप्तेः । तस्मात् - वसन्तादिकालविशिष्टे ब्राह्मणादिकर्तृके आधानोपनयने अत्र विधीयेते

------------------ "vasante brāhmaṇo 'gnīnādadhīta | grīṣme rājanyaḥ | śaradi vaiśyaḥ"iti śrūyate | "vasante brāhmaṇamupanayīta | grīṣme rājanyam | śaradi vaiśyam"iti ca | tatra vasantādikālaviśeṣaṃ vidhātuṃ brāhmaṇādayo 'nūdyante | na ca teṣāṃ prāptyabhāvaḥ | kratvanuṣṭhānānyathānupapattyā kḷptatvāt | na hyāhutyādhārabhūtamagnim, anuṣṭhānaprakārajñāpikāṃ vidyāṃ ca vinā karmānuṣṭhānaṃ saṃbhavati | agniśca nā'dhānamantareṇāstīti brāhmaṇādikartṛkamādhānaṃ kalpayati, vidyā copanayanapūrvakādhyayanamantareṇā saṃbhavantī brāhmaṇādyupanayanaṃ kalpayati - iti tatra prāptiḥ- iti cet | maivam | laukikāgnau hotuṃ, pustakapāṭhenādhigantuṃ ca śakyatvenā'dhānopanayanayorakalpane brāhmaṇādīnāmaprāpteḥ | tasmāt - vasantādikālaviśiṣṭe brāhmaṇādikartṛke ādhānopanayane atra vidhīyete

Sanskrit only: no published translation is held for this verse.

------------------ दर्शपूर्णमासप्रकरणे श्रूयते -"दाक्षायणयज्ञेन स्वर्गकामो यजेत"इति । तत्र - दाक्षायणशब्दवाच्यस्य कस्यचिद्गुणस्य लोके प्रसिद्ध्यभावादुद्भिदादिवद्यणिसामानाधिकरण्येन कर्मनामत्वात् । "अथैष ज्योतिः"इत्यादिवदर्पूवसंज्ञायां कर्मान्तरविधिः- इति चेत् । न । दाक्षायणशब्दस्याऽवृत्तिवाचकत्वात् । तच्च शब्दनिर्वचनाद्वाक्यशेषाद्वावगम्यते । तथा हि - ऽअयनम्ऽ इत्यावृत्तिरुच्यते । ऽदक्षस्येमे दाक्षाः, तेषामयनम्ऽ इति तन्निर्वचनम् । दक्ष उत्साही पुनः पुनरावृत्तावनलस इत्यर्थः । तदीयानां प्रयोगाणामावृत्तिर्दाक्षायणशब्दार्थः । तथा चाऽवृत्त्या युक्तः प्रकृतो दर्शपूर्णमासात्मको यज्ञो दाक्षायणयज्ञः । आवृत्तिप्रकारस्तु"द्वे पौर्णमास्यौ यजेत । द्वे अमावास्ये"इत्यादिवाक्यशेषादवगम्यते । ततो दध्यादिवत्प्रसिद्धार्थत्वाद्दर्शपूर्णमासयोः प्रकृतयोरयं स्वर्गफलसिद्द्यर्थमावृत्त्याख्यगुणविधिः, न तूद्भिदादिवत्कर्मनामधेयम् । एवं"साकंप्रस्थाप्येन यजेत पशुकामः"इत्यत्रापि द्रष्टव्यम् । अमावास्यायागे द्वौ द्वौ दोहौ संपाद्य चतसृणां दधिपयसोः कुम्भीनां सह प्रस्थापनं साकं प्रस्थाप्यः । तद्युक्तो यागः साकंप्रस्थाप्यः । तथासति प्रकृते दर्शयागो पशुफलाय साकंप्रस्थाप्याख्यो गुणो विधीयते

------------------ darśapūrṇamāsaprakaraṇe śrūyate -"dākṣāyaṇayajñena svargakāmo yajeta"iti | tatra - dākṣāyaṇaśabdavācyasya kasyacidguṇasya loke prasiddhyabhāvādudbhidādivadyaṇisāmānādhikaraṇyena karmanāmatvāt | "athaiṣa jyotiḥ"ityādivadarpūvasaṃjñāyāṃ karmāntaravidhiḥ- iti cet | na | dākṣāyaṇaśabdasyā'vṛttivācakatvāt | tacca śabdanirvacanādvākyaśeṣādvāvagamyate | tathā hi - 'ayanam' ityāvṛttirucyate | 'dakṣasyeme dākṣāḥ, teṣāmayanam' iti tannirvacanam | dakṣa utsāhī punaḥ punarāvṛttāvanalasa ityarthaḥ | tadīyānāṃ prayogāṇāmāvṛttirdākṣāyaṇaśabdārthaḥ | tathā cā'vṛttyā yuktaḥ prakṛto darśapūrṇamāsātmako yajño dākṣāyaṇayajñaḥ | āvṛttiprakārastu"dve paurṇamāsyau yajeta | dve amāvāsye"ityādivākyaśeṣādavagamyate | tato dadhyādivatprasiddhārthatvāddarśapūrṇamāsayoḥ prakṛtayorayaṃ svargaphalasiddyarthamāvṛttyākhyaguṇavidhiḥ, na tūdbhidādivatkarmanāmadheyam | evaṃ"sākaṃprasthāpyena yajeta paśukāmaḥ"ityatrāpi draṣṭavyam | amāvāsyāyāge dvau dvau dohau saṃpādya catasṛṇāṃ dadhipayasoḥ kumbhīnāṃ saha prasthāpanaṃ sākaṃ prasthāpyaḥ | tadyukto yāgaḥ sākaṃprasthāpyaḥ | tathāsati prakṛte darśayāgo paśuphalāya sākaṃprasthāpyākhyo guṇo vidhīyate

Sanskrit only: no published translation is held for this verse.

------------------ अनारभ्येदमाम्नायत् - ऽवायव्यं श्वेतमालभेत भूतिकामःऽ इति, ऽसौर्ये चरुं निर्वपेद्ब्रह्मवर्चसकामःऽ इति च । तथा -दर्शपूर्णमासयोरिदमाम्नायतेर् -"इषामालभेत"इति,"चतुरो मुष्टीन्निर्वपति"इति चर् । इषा शकटगतो लाङ्गलदण्डवद्दीर्घः काष्ठविशेषः । तस्या आलम्भः स्पर्शः । तमेतं दर्शपूर्णमासगतमीषालम्भमनूद्य तस्यामालभ्यायामीषायां श्वेतत्वगुणो विधीयते । तस्य च श्वेतकाष्ठस्य वायुना स्पृश्यमानत्वाद्वायव्यता संभवति । तथा - चतुर्मुष्टिनिर्वपणमनूद्य चरुर्गुणत्वेन विधीयते । चरुः स्थाली । सा च निर्वापस्याऽश्रयः । निरुप्तस्य हविष आग्नेयतया सूर्यवत्प्रभासंबन्धात्सौर्यवत् । भूतिब्रह्मवर्चसे फले च सर्वकामिकयोर्दर्शपूर्णमासयोः पूर्वसिद्धे एवानूद्येते । तस्मात् - गुणविधी - इत्येकः पूर्वपक्षः । नहि फलपदयोर्नित्यवच्छ्रुतयोः संभवत्प्रयोजनयोश्च पाक्षिकानुवादत्वम्, आनर्थक्यं वा युक्तम् । तस्मात् --गुणफलविशिष्टे कर्मान्तरे विधीयेते । तदापि यागस्याश्रवणादीलम्भनिर्वापयोरेव श्रवणाद्यावदुक्तकर्मविधिः- इति द्वितीयः पूर्वपक्षः । श्वेतपशुचरुद्रव्ययोः, वायुसूर्यदेवतयोश्च स्पष्टं प्रतीयमानतया रूपवतोर्यागयोरार्थिकयोर्वारयितुमशक्यत्वाद्द्रव्यदेवताविशिष्टयोर्यागयोर्विधिरभ्युपगन्तव्यः । ऽभूतिकामो वायव्येन श्वेतेन पशुना यजेतऽ ऽब्रह्मवर्चसकामः सौर्येण चरुणा यजेतऽ इत्येवंविधोर्ऽथसिद्धो विधिः । द्रव्यदेवतासंबन्धकल्पितस्य यागस्य लिङ्प्रत्ययेन कर्तव्यताविधावालम्भनिर्वापयोर्धात्वर्थयोः का गतिः- इति चेत् । ऽअनुवादःऽ इति ब्रूमः- इति सिद्धान्तः

------------------ anārabhyedamāmnāyat - 'vāyavyaṃ śvetamālabheta bhūtikāmaḥ' iti, 'saurye caruṃ nirvapedbrahmavarcasakāmaḥ' iti ca | tathā -darśapūrṇamāsayoridamāmnāyater -"iṣāmālabheta"iti,"caturo muṣṭīnnirvapati"iti car | iṣā śakaṭagato lāṅgaladaṇḍavaddīrghaḥ kāṣṭhaviśeṣaḥ | tasyā ālambhaḥ sparśaḥ | tametaṃ darśapūrṇamāsagatamīṣālambhamanūdya tasyāmālabhyāyāmīṣāyāṃ śvetatvaguṇo vidhīyate | tasya ca śvetakāṣṭhasya vāyunā spṛśyamānatvādvāyavyatā saṃbhavati | tathā - caturmuṣṭinirvapaṇamanūdya carurguṇatvena vidhīyate | caruḥ sthālī | sā ca nirvāpasyā'śrayaḥ | niruptasya haviṣa āgneyatayā sūryavatprabhāsaṃbandhātsauryavat | bhūtibrahmavarcase phale ca sarvakāmikayordarśapūrṇamāsayoḥ pūrvasiddhe evānūdyete | tasmāt - guṇavidhī - ityekaḥ pūrvapakṣaḥ | nahi phalapadayornityavacchrutayoḥ saṃbhavatprayojanayośca pākṣikānuvādatvam, ānarthakyaṃ vā yuktam | tasmāt --guṇaphalaviśiṣṭe karmāntare vidhīyete | tadāpi yāgasyāśravaṇādīlambhanirvāpayoreva śravaṇādyāvaduktakarmavidhiḥ- iti dvitīyaḥ pūrvapakṣaḥ | śvetapaśucarudravyayoḥ, vāyusūryadevatayośca spaṣṭaṃ pratīyamānatayā rūpavatoryāgayorārthikayorvārayitumaśakyatvāddravyadevatāviśiṣṭayoryāgayorvidhirabhyupagantavyaḥ | 'bhūtikāmo vāyavyena śvetena paśunā yajeta' 'brahmavarcasakāmaḥ sauryeṇa caruṇā yajeta' ityevaṃvidhor'thasiddho vidhiḥ | dravyadevatāsaṃbandhakalpitasya yāgasya liṅpratyayena kartavyatāvidhāvālambhanirvāpayordhātvarthayoḥ kā gatiḥ- iti cet | 'anuvādaḥ' iti brūmaḥ- iti siddhāntaḥ

Sanskrit only: no published translation is held for this verse.

------------------ अग्निहोत्रदोहाधिकारे श्रूयते -"वत्समालभेत"इति । तत्र ऽविमतो वत्सालम्भो यजिः स्यात्, प्राणिद्रव्यकालम्भत्वात्, वायव्यालम्भवत्ऽ इति चेत् । न । देवताराहित्येन तद्वैषम्यात् । किंच - ऽअयं वत्सालम्भो ऽग्निहोत्राङ्गसंस्कारः, तत्प्राये पठितत्वात्, इतरसंस्कारवत्ऽ । तस्मात् - अये स्पर्शमात्रविधिः

------------------ agnihotradohādhikāre śrūyate -"vatsamālabheta"iti | tatra 'vimato vatsālambho yajiḥ syāt, prāṇidravyakālambhatvāt, vāyavyālambhavat' iti cet | na | devatārāhityena tadvaiṣamyāt | kiṃca - 'ayaṃ vatsālambho 'gnihotrāṅgasaṃskāraḥ, tatprāye paṭhitatvāt, itarasaṃskāravat' | tasmāt - aye sparśamātravidhiḥ

Sanskrit only: no published translation is held for this verse.

------------------ अग्नौ श्रूयते - ऽनैवारश्चरुर्भवतिऽ इति, ऽचरुमुपदधातिऽ इति च । तत्र - नीवारचरुद्रव्यको यागो विधीयते । न चात्र देवताया अभावः । ऽबृहस्पतेवां एतदन्नं यद्मीवाराःऽ इति वाक्यशेषेण देवतासिद्धेः । उपधानं तु यागोपयुक्तस्य प्रतिपत्तिः स्विष्टकृदादिवत् - इति प्राप्ते, ब्रूमः- ऽयागविधौ निश्चिते सति पश्चाद्देवतायामपेक्षितायां वाक्यशेषबलाद्देवताकॢष्टिः, इह तु देवताकल्पनेन यागविधित्वनिश्चयः । इत्यन्योन्याश्रयः । तस्मात् - इहोपधानमात्रं विधीयते

------------------ agnau śrūyate - 'naivāraścarurbhavati' iti, 'carumupadadhāti' iti ca | tatra - nīvāracarudravyako yāgo vidhīyate | na cātra devatāyā abhāvaḥ | 'bṛhaspatevāṃ etadannaṃ yadmīvārāḥ' iti vākyaśeṣeṇa devatāsiddheḥ | upadhānaṃ tu yāgopayuktasya pratipattiḥ sviṣṭakṛdādivat - iti prāpte, brūmaḥ- 'yāgavidhau niścite sati paścāddevatāyāmapekṣitāyāṃ vākyaśeṣabalāddevatākḷṣṭiḥ, iha tu devatākalpanena yāgavidhitvaniścayaḥ | ityanyonyāśrayaḥ | tasmāt - ihopadhānamātraṃ vidhīyate

Sanskrit only: no published translation is held for this verse.

------------------ ऽत्वाष्ट्रं पात्नीवतमालभेतऽ इति प्रकृत्येदमाम्नातम्-ऽपर्याग्निकृतं पात्नीवतमुत्सृजन्तिऽ इति । तत्र पर्यग्निकृतशब्देन संस्कृतपशुद्रव्यस्य पात्नीवतशब्देन पत्नीवन्नामकदेवतासंबन्धस्य च प्रतीयमानत्वादमं यागविधिः । एवं सति पर्यग्निकृतपात्नीवतशब्दयोरव्यवहितान्वयो लभ्यते । सिद्धान्ते तु ऽपर्यग्निकृतमुत्सृजन्तिऽ इत्यन्वयं वाञ्छन्ति । तदा व्यवहितान्वयो दुर्वारः । तस्मात्-षायव्यपशुवद्यागविधिः- इति प्राप्ते, ब्रूमः- अनारभ्याधीतत्वान्नास्ति सयव्ये प्रकृतप्रत्यभिज्ञा । इह त्वालभ्यत्वेन प्रकृतः पशुः पात्नीवतशब्देन प्रत्यभिज्ञायते । तमनूद्य पर्यग्निकृतशब्दान्वितेन ऽउत्सृजन्तिऽ इत्याख्यातेन पर्यग्निकरणाख्यो गुणो विधीयते । न च प्रकृतिमतस्य पर्यग्निकरणस्य विकृतौ चोदकेन प्राप्तत्वादनर्थको ऽयं विधिरिधिवाच्यम् । उपरितनाङ्गाननुवृत्तेर्दिधिप्रयोजनत्वात् । नन्वेवं सति परिसंख्या स्यात् । सा च दोषत्रयदुष्टा । स्वार्थत्यागः, अन्यार्थस्वीकारः, प्राप्तवाधश्चेति त्रयो दोषाः । पर्यग्निकरणवाक्ये स्वार्थो बिधिस्त्यज्येत, अन्यार्थे निषेधः स्वी क्रियेत, चोदकप्राप्तान्युपरितनाङ्गानि बाध्येरन् । मैवम् । ऽपर्यग्निकरणोत्तरमावीन्यङ्गानि नानुष्ठेयानिऽ इत्येतस्याः परिसंख्याया अनङ्गीकारात् । कथं तर्हि तन्निवृत्तिः- ऽआर्थिकीऽ इति ब्रूमः । चोदकप्रवृत्तेः प्रागेवायं विधिः प्रवर्तते, प्रत्यक्षोपदेशस्य शीघ्रबुद्धिजनकतया कल्प्यातिदेशात्प्रबलत्वात् । तथासत्युपदिष्टैरेवाङ्गैर्निराकाङ्क्षायां विकृतौ चोदकस्याप्रवृत्यैवोपरितनान्यङ्गानि न प्राप्यन्ते । न चानेन न्यायेन पर्यग्निकरणात्प्राचीनानामप्य प्राप्तिरिति वाच्यम् । विधीयमानस्य पर्याग्निकरणस्य नूतनत्वे सत्युपकारकल्पनापत्त्या प्रकृतौ यत्कॢप्तोपकारं पर्यग्निकरणं, तदवस्थापन्नस्यैवात्र विधेयत्वात् । प्रकृतौ च प्राचीनाङ्गनन्तरमादिन एवोपकारः कॢप्त इत्यत्रापि तादृशस्यैव विधानात्पर्याग्निकरणान्ताङ्गरीतिः सिध्यति । एवं च सति ऽउत्सृजन्तिऽ इत्याख्यातेन यथोक्तपर्यग्निकरणविधावर्थसिद्ध उपरितनाङ्गोत्सर्गो धातुनानूद्यते । तदेग्मत्र गुणविधिः

------------------ 'tvāṣṭraṃ pātnīvatamālabheta' iti prakṛtyedamāmnātam-'paryāgnikṛtaṃ pātnīvatamutsṛjanti' iti | tatra paryagnikṛtaśabdena saṃskṛtapaśudravyasya pātnīvataśabdena patnīvannāmakadevatāsaṃbandhasya ca pratīyamānatvādamaṃ yāgavidhiḥ | evaṃ sati paryagnikṛtapātnīvataśabdayoravyavahitānvayo labhyate | siddhānte tu 'paryagnikṛtamutsṛjanti' ityanvayaṃ vāñchanti | tadā vyavahitānvayo durvāraḥ | tasmāt-ṣāyavyapaśuvadyāgavidhiḥ- iti prāpte, brūmaḥ- anārabhyādhītatvānnāsti sayavye prakṛtapratyabhijñā | iha tvālabhyatvena prakṛtaḥ paśuḥ pātnīvataśabdena pratyabhijñāyate | tamanūdya paryagnikṛtaśabdānvitena 'utsṛjanti' ityākhyātena paryagnikaraṇākhyo guṇo vidhīyate | na ca prakṛtimatasya paryagnikaraṇasya vikṛtau codakena prāptatvādanarthako 'yaṃ vidhiridhivācyam | uparitanāṅgānanuvṛtterdidhiprayojanatvāt | nanvevaṃ sati parisaṃkhyā syāt | sā ca doṣatrayaduṣṭā | svārthatyāgaḥ, anyārthasvīkāraḥ, prāptavādhaśceti trayo doṣāḥ | paryagnikaraṇavākye svārtho bidhistyajyeta, anyārthe niṣedhaḥ svī kriyeta, codakaprāptānyuparitanāṅgāni bādhyeran | maivam | 'paryagnikaraṇottaramāvīnyaṅgāni nānuṣṭheyāni' ityetasyāḥ parisaṃkhyāyā anaṅgīkārāt | kathaṃ tarhi tannivṛttiḥ- 'ārthikī' iti brūmaḥ | codakapravṛtteḥ prāgevāyaṃ vidhiḥ pravartate, pratyakṣopadeśasya śīghrabuddhijanakatayā kalpyātideśātprabalatvāt | tathāsatyupadiṣṭairevāṅgairnirākāṅkṣāyāṃ vikṛtau codakasyāpravṛtyaivoparitanānyaṅgāni na prāpyante | na cānena nyāyena paryagnikaraṇātprācīnānāmapya prāptiriti vācyam | vidhīyamānasya paryāgnikaraṇasya nūtanatve satyupakārakalpanāpattyā prakṛtau yatkḷptopakāraṃ paryagnikaraṇaṃ, tadavasthāpannasyaivātra vidheyatvāt | prakṛtau ca prācīnāṅganantaramādina evopakāraḥ kḷpta ityatrāpi tādṛśasyaiva vidhānātparyāgnikaraṇāntāṅgarītiḥ sidhyati | evaṃ ca sati 'utsṛjanti' ityākhyātena yathoktaparyagnikaraṇavidhāvarthasiddha uparitanāṅgotsargo dhātunānūdyate | tadegmatra guṇavidhiḥ

Sanskrit only: no published translation is held for this verse.

------------------ अमारभ्य श्रूयते - ऽएष वै द्दविषा हविर्यजते, यो ऽदाभ्यं गृहीत्वा सोमाय यजतेऽ इति ऽपरा वा एतस्याऽयुः प्राण एति, य्ॐऽशुं गृह्णातिऽ इति च । तत्र- अदाभ्यशब्दस्य ज्योतिरादिवदपूर्वनामत्वात्तन्नामको यागो ऽयजतेऽ इत्याख्यातेन विधीयते । ऽअंशुमऽ इत्यत्र यजतेरवश्रवणे ऽपि नामविशेषबलादेवापूर्वयागविधिः । न चात्र द्रव्यदेवतयोरभावः । ग्रहणलिङ्गेन ज्योतिष्टोमविकृतित्वादगतौ तदीयविध्यन्तातिदेशेन तत्सिद्धेः - इति प्राप्ते, ब्रूमः- भवत्वदाभ्यांशुशब्दयोर्नामत्वम् । ते च नामनी ग्रहयोरेव स्याताम्, न तु यागयोः । ऽगृहीत्वाऽ इतिशब्दस्यानन्तरमेव पाठात् । यजतिस्तु व्यवहितः । तादृशो ऽपि यजिरंशुवाक्ये नास्ति । तस्माद्ग्रहयोरेवात्र विधिः । ग्रहणं च ज्योतिष्टोमगतस्य सोमरसस्य संस्काररूपो गुणः, ऐन्द्रवायवादिग्रहणसमानत्वात् । यद्यप्यत्र न प्रकृतो ज्योतिष्ठोमः, तथापि तत्संबन्धिग्रहणद्वारा वाक्यस्य ज्योतिष्टोभगामित्वम् । अत एव ऽसोमायादाभ्यं गृहीत्वाऽ इति निर्दिश्यते । अथवा-तैत्तिरीयाणां षष्ठकाण्डे षष्ठे प्रपाठके प्राकरणिकं विनियोजकं वाक्यं द्रष्टव्यम् । तस्मात्-ज्योतिष्टोमे गुणविधिः

------------------ amārabhya śrūyate - 'eṣa vai ddaviṣā haviryajate, yo 'dābhyaṃ gṛhītvā somāya yajate' iti 'parā vā etasyā'yuḥ prāṇa eti, yoṃ'śuṃ gṛhṇāti' iti ca | tatra- adābhyaśabdasya jyotirādivadapūrvanāmatvāttannāmako yāgo 'yajate' ityākhyātena vidhīyate | 'aṃśuma' ityatra yajateravaśravaṇe 'pi nāmaviśeṣabalādevāpūrvayāgavidhiḥ | na cātra dravyadevatayorabhāvaḥ | grahaṇaliṅgena jyotiṣṭomavikṛtitvādagatau tadīyavidhyantātideśena tatsiddheḥ - iti prāpte, brūmaḥ- bhavatvadābhyāṃśuśabdayornāmatvam | te ca nāmanī grahayoreva syātām, na tu yāgayoḥ | 'gṛhītvā' itiśabdasyānantarameva pāṭhāt | yajatistu vyavahitaḥ | tādṛśo 'pi yajiraṃśuvākye nāsti | tasmādgrahayorevātra vidhiḥ | grahaṇaṃ ca jyotiṣṭomagatasya somarasasya saṃskārarūpo guṇaḥ, aindravāyavādigrahaṇasamānatvāt | yadyapyatra na prakṛto jyotiṣṭhomaḥ, tathāpi tatsaṃbandhigrahaṇadvārā vākyasya jyotiṣṭobhagāmitvam | ata eva 'somāyādābhyaṃ gṛhītvā' iti nirdiśyate | athavā-taittirīyāṇāṃ ṣaṣṭhakāṇḍe ṣaṣṭhe prapāṭhake prākaraṇikaṃ viniyojakaṃ vākyaṃ draṣṭavyam | tasmāt-jyotiṣṭome guṇavidhiḥ

Sanskrit only: no published translation is held for this verse.

------------------ ऽय एवं विद्वानग्निं चिनुतेऽ इत्येवं विधाय श्रूयते-ऽअथातो ऽग्निमाग्निष्टोमेनानुयजति,तमुक्थ्येन ऽतं षोडशिना, तमतिरात्रेण, इत्यादि । अत्र - अग्निशब्दो यागवाची । स्तोत्रशस्त्रादेः क्रतुलिङ्गस्य श्रूयमाणत्वात् । तच्च लिङ्गमेवं श्रूयते-ऽअग्नेः स्तोत्रं,अग्नेः शस्त्रम्ऽ इति, ऽषडुपसदो ऽग्निश्रित्यस्य भवन्तिऽ इति च । यदि लिङ्गं प्रापकापेक्षम्, तर्हि यजिना तदनुवादः प्रापके ऽस्तु । अग्निमग्निष्टोमेनानुयजतिऽ इत्यतेस्मिन्वाक्ये ऽअग्निं यजतिऽ इति यजिसामानाधिकरण्यात् ऽउपांशु यजतिऽ इतिवद्यागनामत्वम् । अथोच्येत - अनुशब्दस्याग्निशब्देनान्वयाद्यज्यन्वयो ऽग्निष्टोमस्य, इति । तथाप्यग्नेः पुरोयजने सत्यग्निष्टोमस्यानुयजनं संभवति । ऽदेवदत्तमनुगच्छति यज्ञदत्तःऽ इत्यत्र देवदत्ते पुरोगमनदर्शनात् । तस्मात् ऽअग्निं चिनुतेऽ इत्यत्राग्निनामको याग आख्यातेन विधीयते । चिनोतिस्तु ऽइष्टकाभिरग्निं चिनुतेऽ इति वाक्यप्राप्तस्य चयनस्य सोमयागविकृतित्वेन प्राप्तस्य ग्रहसमुदायस्येवानुवादः- इति प्राप्ते, ब्रूमः- अग्निशब्दो रूढ्या बह्निद्रव्यमाचष्टे । रूढिश्च कॢप्ततया लिङ्गादिकल्प्याद्यागवाचित्वा- द्बलीयसीति न यागनामत्वम् । न चात्र षागरुपमस्ति । द्रव्यदेतयोरसिद्धेः । अतः ऽअग्निमादधीतऽ इत्युक्ताधानत्वात् ऽअग्निं चिनुतेऽ इत्युक्तं चयनमग्निद्रव्यसंस्कारः । न च संस्कृतस्य विनियोगाभावः । ऽअग्निमग्निष्टोमेन यजतेऽ इत्यादिवाक्यैरग्निष्टोमादौ विनियोगात् । तस्मात्-संस्कारविधिः

------------------ 'ya evaṃ vidvānagniṃ cinute' ityevaṃ vidhāya śrūyate-'athāto 'gnimāgniṣṭomenānuyajati,tamukthyena 'taṃ ṣoḍaśinā, tamatirātreṇa, ityādi | atra - agniśabdo yāgavācī | stotraśastrādeḥ kratuliṅgasya śrūyamāṇatvāt | tacca liṅgamevaṃ śrūyate-'agneḥ stotraṃ,agneḥ śastram' iti, 'ṣaḍupasado 'gniśrityasya bhavanti' iti ca | yadi liṅgaṃ prāpakāpekṣam, tarhi yajinā tadanuvādaḥ prāpake 'stu | agnimagniṣṭomenānuyajati' ityatesminvākye 'agniṃ yajati' iti yajisāmānādhikaraṇyāt 'upāṃśu yajati' itivadyāganāmatvam | athocyeta - anuśabdasyāgniśabdenānvayādyajyanvayo 'gniṣṭomasya, iti | tathāpyagneḥ puroyajane satyagniṣṭomasyānuyajanaṃ saṃbhavati | 'devadattamanugacchati yajñadattaḥ' ityatra devadatte purogamanadarśanāt | tasmāt 'agniṃ cinute' ityatrāgnināmako yāga ākhyātena vidhīyate | cinotistu 'iṣṭakābhiragniṃ cinute' iti vākyaprāptasya cayanasya somayāgavikṛtitvena prāptasya grahasamudāyasyevānuvādaḥ- iti prāpte, brūmaḥ- agniśabdo rūḍhyā bahnidravyamācaṣṭe | rūḍhiśca kḷptatayā liṅgādikalpyādyāgavācitvā- dbalīyasīti na yāganāmatvam | na cātra ṣāgarupamasti | dravyadetayorasiddheḥ | ataḥ 'agnimādadhīta' ityuktādhānatvāt 'agniṃ cinute' ityuktaṃ cayanamagnidravyasaṃskāraḥ | na ca saṃskṛtasya viniyogābhāvaḥ | 'agnimagniṣṭomena yajate' ityādivākyairagniṣṭomādau viniyogāt | tasmāt-saṃskāravidhiḥ

Sanskrit only: no published translation is held for this verse.

------------------ कुण्डपायिनामयने श्रूयते-ऽउपसद्भिश्चरित्वाऽ ऽमासमग्निहोत्रं जुहोतिऽ ऽमासं दर्शपूर्णमासाभ्यां यजेतऽ इति । अत्र- प्राप्तं नित्याग्निहोत्रमनूद्य मासलक्षणो गुणो ऽप्राप्तत्वाद्विधीयते - इति चेत् । मैवम् । किं मास एव विधीयते,ऽउपसद्भिश्चरित्वाऽ इत्युक्तोपसदो ऽपि । नाऽद्यः । उपसदामपि नित्याग्निहोत्रप्राप्तिरहितानां त्वन्मते विधातव्यत्वात् । न द्वितीयः । प्राप्ते कर्मण्यनेकगुणविधौ वाक्यभेदापत्तेः । ननु मा भूत्तर्हि गुणविधिः । कर्मान्तरत्वे किं प्रमाणम् - इति चेत् । ऽप्रकरणान्तरम्ऽ- इति ब्रूमः । न सेतग्नित्याग्निहोत्रस्य प्रकरणम् । असंनिहितत्वात् । अयनस्य ह्येतत्प्रकरणम् । अयनमारभ्याधीतत्वात् । का तर्हि नित्याग्निहोत्रे गुणविधिशङ्का - इति चेत् । प्रकरणस्यासमर्पकत्वे ऽप्यग्निहोत्रशब्देनैतत्समर्पणादेषा शङ्का भवति । सा च वाक्यभेदापत्त्या निराकृता । तथा सति स्वतःसिद्धं प्रकरणभेदं निराकृत्य प्रकरणैक्यापादनेन गुणं विधापयितुं प्रवृत्तस्याग्निहोत्रशब्दस्य शक्तौ निरूद्धायां तदवस्थः प्रकरणभेदो नित्याग्निहोत्रादिदं कर्म भिनत्ति । अग्निहोत्रशब्दौ धर्मातिदेशार्थ इति सप्तमे वक्ष्यते । ननूपसन्मासाभ्यां विशिष्टमिदं कर्म विधीयते । ततो वाजिनन्यायेन गुणभेदात्कर्मभेदः, न प्रकरणभेदादिति चेत् । न । वैषम्यात् । ऽउपादेयतया विधेयो गुणो वाजिनम् । मासो न तथा इत्यपरं वैषम्यम् । परमार्थतस्त्वत्र प्रथमतरप्रतीतेन प्रकरणभेदेन सिद्धं कर्मभेदं गुणभेद उपोद्बलयति । ततः प्रकरणान्तरमेवात्र भेदहेतुः

------------------ kuṇḍapāyināmayane śrūyate-'upasadbhiścaritvā' 'māsamagnihotraṃ juhoti' 'māsaṃ darśapūrṇamāsābhyāṃ yajeta' iti | atra- prāptaṃ nityāgnihotramanūdya māsalakṣaṇo guṇo 'prāptatvādvidhīyate - iti cet | maivam | kiṃ māsa eva vidhīyate,'upasadbhiścaritvā' ityuktopasado 'pi | nā'dyaḥ | upasadāmapi nityāgnihotraprāptirahitānāṃ tvanmate vidhātavyatvāt | na dvitīyaḥ | prāpte karmaṇyanekaguṇavidhau vākyabhedāpatteḥ | nanu mā bhūttarhi guṇavidhiḥ | karmāntaratve kiṃ pramāṇam - iti cet | 'prakaraṇāntaram'- iti brūmaḥ | na setagnityāgnihotrasya prakaraṇam | asaṃnihitatvāt | ayanasya hyetatprakaraṇam | ayanamārabhyādhītatvāt | kā tarhi nityāgnihotre guṇavidhiśaṅkā - iti cet | prakaraṇasyāsamarpakatve 'pyagnihotraśabdenaitatsamarpaṇādeṣā śaṅkā bhavati | sā ca vākyabhedāpattyā nirākṛtā | tathā sati svataḥsiddhaṃ prakaraṇabhedaṃ nirākṛtya prakaraṇaikyāpādanena guṇaṃ vidhāpayituṃ pravṛttasyāgnihotraśabdasya śaktau nirūddhāyāṃ tadavasthaḥ prakaraṇabhedo nityāgnihotrādidaṃ karma bhinatti | agnihotraśabdau dharmātideśārtha iti saptame vakṣyate | nanūpasanmāsābhyāṃ viśiṣṭamidaṃ karma vidhīyate | tato vājinanyāyena guṇabhedātkarmabhedaḥ, na prakaraṇabhedāditi cet | na | vaiṣamyāt | 'upādeyatayā vidheyo guṇo vājinam | māso na tathā ityaparaṃ vaiṣamyam | paramārthatastvatra prathamatarapratītena prakaraṇabhedena siddhaṃ karmabhedaṃ guṇabheda upodbalayati | tataḥ prakaraṇāntaramevātra bhedahetuḥ

Sanskrit only: no published translation is held for this verse.

------------------ अनारभ्य श्रूयते- ऽआग्नेयमष्टाकपालं निर्वपेद्रुक्कामःऽ इति । रुक्कामस्तेजस्कामः । अत्र - इष्टीनां प्रकृतिभूतदर्शपूर्णमासगतमाग्नेययागमनूद्य तत्र तेजस्कामरूपं फलं विधीयते । कुतः । वाक्येनाऽग्नेयफलसंबन्धस्य मासमानत्वात् । न च पूर्वोक्तमासाग्निहोत्रन्यायेन कर्मान्तरत्वम् । वैषम्यात् । तत्रायनमारभ्याधीतत्वादस्ति प्रकरणान्तरत्वम् । इह त्वनारभ्याधीतत्वेन प्रकरणमेव तावन्नास्ति, कुतो ऽत्र प्रकरणान्तरत्वम् । किंच मासो ऽनुपादेयः । अग्निहोत्रानुसारेण संपादयितुमशक्यत्वात् । फलं तूपादेयम्, दार्शपौर्णमासिकाग्नेयानुसारेण तेजसः कामयितुं शक्यत्वात् । तस्मात्-फलविधिः- इति प्राप्ते, ब्रूमः- प्रकरणान्तरत्वाभावे ऽप्यनारभ्याधीतत्वादसंनिधिरस्त्येव । स एवात्र कर्म भिनत्ति । न चात्र वाजिनन्यायेन कर्मभेदः, अष्टाकपालद्रव्याग्निदेवतात्मनो रूपस्योभयत्रैकविधत्वात् । यदि प्रकरणान्तरत्वमप्यसंनिधिकृतमित्यसंनिधिरेव मासाग्निहोत्रकर्मभेदहेतुः, तर्हि तस्यैवायं प्रपञ्चो ऽस्तु । फलं च मासवदनुपादेयम् । अन्यथा साधनवदफलत्वप्रसङ्गात् । कामना च विषयसौन्दर्यज्ञानात्स्वत एवोत्पद्यते । न तु विधिश्रवणात्संपद्यते । यद्यधिकरणयोर्न्यायभेदः, यदि वा न्यायैक्यम् । सर्वथा तेजस्कामेष्टिः कर्मान्तरम् । काम्येष्टिकाण्डपठितेषु ऽऐन्द्राग्नमेकादशकपालं निर्वपेत्प्रजाकामःऽ इत्यादिष्वयमेव न्यायो द्रष्टव्यः

------------------ anārabhya śrūyate- 'āgneyamaṣṭākapālaṃ nirvapedrukkāmaḥ' iti | rukkāmastejaskāmaḥ | atra - iṣṭīnāṃ prakṛtibhūtadarśapūrṇamāsagatamāgneyayāgamanūdya tatra tejaskāmarūpaṃ phalaṃ vidhīyate | kutaḥ | vākyenā'gneyaphalasaṃbandhasya māsamānatvāt | na ca pūrvoktamāsāgnihotranyāyena karmāntaratvam | vaiṣamyāt | tatrāyanamārabhyādhītatvādasti prakaraṇāntaratvam | iha tvanārabhyādhītatvena prakaraṇameva tāvannāsti, kuto 'tra prakaraṇāntaratvam | kiṃca māso 'nupādeyaḥ | agnihotrānusāreṇa saṃpādayitumaśakyatvāt | phalaṃ tūpādeyam, dārśapaurṇamāsikāgneyānusāreṇa tejasaḥ kāmayituṃ śakyatvāt | tasmāt-phalavidhiḥ- iti prāpte, brūmaḥ- prakaraṇāntaratvābhāve 'pyanārabhyādhītatvādasaṃnidhirastyeva | sa evātra karma bhinatti | na cātra vājinanyāyena karmabhedaḥ, aṣṭākapāladravyāgnidevatātmano rūpasyobhayatraikavidhatvāt | yadi prakaraṇāntaratvamapyasaṃnidhikṛtamityasaṃnidhireva māsāgnihotrakarmabhedahetuḥ, tarhi tasyaivāyaṃ prapañco 'stu | phalaṃ ca māsavadanupādeyam | anyathā sādhanavadaphalatvaprasaṅgāt | kāmanā ca viṣayasaundaryajñānātsvata evotpadyate | na tu vidhiśravaṇātsaṃpadyate | yadyadhikaraṇayornyāyabhedaḥ, yadi vā nyāyaikyam | sarvathā tejaskāmeṣṭiḥ karmāntaram | kāmyeṣṭikāṇḍapaṭhiteṣu 'aindrāgnamekādaśakapālaṃ nirvapetprajākāmaḥ' ityādiṣvayameva nyāyo draṣṭavyaḥ

Sanskrit only: no published translation is held for this verse.

------------------ दर्शपूर्णमासप्रकरणे देशकालनिमित्तान्याम्नायन्ते- ऽसमे यजेतऽ पौर्णमास्यां यजेतऽ ऽयावज्जीवं दर्शपूर्णमासाभ्यां यजेतऽ इति । अवेष्टिप्रकरणे फलमाम्नातम्-ऽएतयान्नाद्यकामं याजयंत्ऽ इति । आदिशब्देन संस्कारो गृहीतः । स च दर्शपूर्णमासप्रकरणे समाम्नातः-ऽशेषं स्विष्टकृते समवद्यतिऽ इति । तत्र-देशकालनिमित्तफलसंस्कारा अननुष्ठेयत्वादनुपादेयाः । अत एव न विधेयाः । उपादानविधिशब्दयोः पर्यायत्वात् । ततः-कर्मविधिः - इत्यवश्यमभ्युपेयम् । तत्र-प्रकरणिनो दर्शादेः पूर्वविहितस्यैवैभिर्वाक्यैः पुनर्विधाने ऽसमिधो यजतिऽ इत्यादिवदभ्यासादेव कर्मभेदः - इति प्राप्ते, ब्रूमः- देशादीनामविधेयत्वे ऽपि विहितकर्मणा सह तेषां संबन्धो विधीयताम् । स च कर्मवत्पूर्वे न विहित इत्यप्राप्तत्वाद्विधिमर्हति । यदुक्तम- उपादानविधिशब्दौ पर्यायौ - इति । तदसत् । ऽअप्रवृत्तप्रवर्तनं विधानम, तच्च पुरुषविषयः शब्दव्यापारः । अननुष्ठितस्यानुष्ठानमुपादानम, तच्च कर्माविषयः पुरुषव्यापारःऽ इति महान्भेदः । यो ऽपि-दर्शादीनां पुनर्विधिः सो ऽपि देशादिसंबन्धं विधातुं कर्मानुवादः - इति न कर्मभेदमावहति । समिधो ऽयजतिऽ इत्यादौ विधेयगुणान्तराभावेनानुवादांसभवात्पुनर्विधानं भेदहोतुः- इति वैषम्यम्

------------------ darśapūrṇamāsaprakaraṇe deśakālanimittānyāmnāyante- 'same yajeta' paurṇamāsyāṃ yajeta' 'yāvajjīvaṃ darśapūrṇamāsābhyāṃ yajeta' iti | aveṣṭiprakaraṇe phalamāmnātam-'etayānnādyakāmaṃ yājayaṃt' iti | ādiśabdena saṃskāro gṛhītaḥ | sa ca darśapūrṇamāsaprakaraṇe samāmnātaḥ-'śeṣaṃ sviṣṭakṛte samavadyati' iti | tatra-deśakālanimittaphalasaṃskārā ananuṣṭheyatvādanupādeyāḥ | ata eva na vidheyāḥ | upādānavidhiśabdayoḥ paryāyatvāt | tataḥ-karmavidhiḥ - ityavaśyamabhyupeyam | tatra-prakaraṇino darśādeḥ pūrvavihitasyaivaibhirvākyaiḥ punarvidhāne 'samidho yajati' ityādivadabhyāsādeva karmabhedaḥ - iti prāpte, brūmaḥ- deśādīnāmavidheyatve 'pi vihitakarmaṇā saha teṣāṃ saṃbandho vidhīyatām | sa ca karmavatpūrve na vihita ityaprāptatvādvidhimarhati | yaduktama- upādānavidhiśabdau paryāyau - iti | tadasat | 'apravṛttapravartanaṃ vidhānama, tacca puruṣaviṣayaḥ śabdavyāpāraḥ | ananuṣṭhitasyānuṣṭhānamupādānama, tacca karmāviṣayaḥ puruṣavyāpāraḥ' iti mahānbhedaḥ | yo 'pi-darśādīnāṃ punarvidhiḥ so 'pi deśādisaṃbandhaṃ vidhātuṃ karmānuvādaḥ - iti na karmabhedamāvahati | samidho 'yajati' ityādau vidheyaguṇāntarābhāvenānuvādāṃsabhavātpunarvidhānaṃ bhedahotuḥ- iti vaiṣamyam

Sanskrit only: no published translation is held for this verse.

------------------ यदाग्नेयो ऽष्टाकपालो ऽमावस्यायां पौर्णमास्यां चाच्युतो भवति । इति कालद्वये विहितम् । ऽयदाग्नेयो ऽष्टाकपालो ऽमावास्यायां भवतिऽ इत्येकस्मिन्काले पुनर्विहितम् । तत्र - अविशेषपुनःश्रुतिलक्षणेनाभ्यासेन प्रयाजानामिव भेदः । तथा सत्याग्नेययागस्य दर्शकाले द्विःप्रयोगः- इति चेत् । न । प्रत्यभिज्ञानादाग्नेयस्यैकत्वे सत्येककालवाक्यस्यानुवादकत्वात् । न चानुवादो व्यर्थः । विधेयैन्द्राग्नस्तुत्यर्थत्वात् । यद्यप्याग्नेयो ऽष्टाकपालो ऽमावास्यायां भवति, तथापि न केवलेनाग्निना साधुर्भवति । इन्द्रसहितो ऽग्निः समीचीनतरः । तस्मात्--- ऽऐन्द्राग्नः कर्तव्यःऽ इति विधेयस्तुतिः । प्रयाजवैषम्यं तूक्तमेवानुसंधेयम्

------------------ yadāgneyo 'ṣṭākapālo 'māvasyāyāṃ paurṇamāsyāṃ cācyuto bhavati | iti kāladvaye vihitam | 'yadāgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavati' ityekasminkāle punarvihitam | tatra - aviśeṣapunaḥśrutilakṣaṇenābhyāsena prayājānāmiva bhedaḥ | tathā satyāgneyayāgasya darśakāle dviḥprayogaḥ- iti cet | na | pratyabhijñānādāgneyasyaikatve satyekakālavākyasyānuvādakatvāt | na cānuvādo vyarthaḥ | vidheyaindrāgnastutyarthatvāt | yadyapyāgneyo 'ṣṭākapālo 'māvāsyāyāṃ bhavati, tathāpi na kevalenāgninā sādhurbhavati | indrasahito 'gniḥ samīcīnataraḥ | tasmāt--- 'aindrāgnaḥ kartavyaḥ' iti vidheyastutiḥ | prayājavaiṣamyaṃ tūktamevānusaṃdheyam

Sanskrit only: no published translation is held for this verse.