*४,१* भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति तत्रेति ॥ तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः । विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः
*4,1* bhinnavākyatvādisiddhaye tṛtīyapādapratipādyamarthaṃ darśayati tatreti // tatrānyatra ca siddhānāṃ liṅganāmnāṃ punarhariḥ / viśeṣānmukhyato vṛttiṃ svasminnevātra vaktayajaḥ
Sanskrit only: no published translation is held for this verse.
॥।अखिलेशत्वाद् भूमा विष्णुः सुखाधिकः
...akhileśatvād bhūmā viṣṇuḥ sukhādhikaḥ
Sanskrit only: no published translation is held for this verse.
अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः । योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम्
ato viruddhavad bhātamapi vyākhyāya tattvataḥ / yojanīyaṃ harau vākyaṃ viruddhairlakṣaṇairyutam
Sanskrit only: no published translation is held for this verse.
ब्रह्मैव ॥। यतो ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवतुउक्तोभयविधविरुद्धार्थप्रतिपादकमिव, भातंउप्रतीतमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजनीयम् योजयितुं शक्यमिति योजना । यतो ऽम्बरान्तधृत्यादिनाक्षरस्य विष्णुत्वं निश्चितमतो विरुद्धवद्भातमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजयितव्यमिति वा । कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बद्धयते । अथवा अत इत्यस्य पूर्वत्र सम्बन्धः । यतः सुखाधिको ऽतो भूमा विष्णुरि(विष्णुरतो भूमे०ति । विरुद्धवदिति प्रतिज्ञायां विरुद्धैरिति हेतुतया सम्बद्धयते । *४,१९* एतदुक्तं भवति । नाक्षरस्य ब्रह्मत्वे ऽस्थूलमित्यदिवाक्यस्यानवकाशः । अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् । नचैवं सति परस्परविरोध इति वाच्यम् । विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति । *४,२५* विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम् । मे माता वन्ध्येतिवद्वयाहतत्वात् । यदि हि महत्त्वाणुत्वादीनि विरुद्धानि । कथं तर्हि तैर्युतमेकं स्यात् । विरोधस्य सहानवस्थानात्मकत्वात् । यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः । सहावस्थानस्याविरोधरूपत्वादित्याशङ्कयोक्तं विवृणोति तानीति ॥ ॥। तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि । अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च
brahmaiva ... yato brahma viruddhairlakṣaṇairyutameva ato, viruddhavatuuktobhayavidhaviruddhārthapratipādakamiva, bhātaṃupratītamapi vākyaṃ tattvato vyākhyāya harau yojanīyam yojayituṃ śakyamiti yojanā / yato 'mbarāntadhṛtyādinākṣarasya viṣṇutvaṃ niścitamato viruddhavadbhātamapi vākyaṃ tattvato vyākhyāya harau yojayitavyamiti vā / kathaṃ tattvato vyākhyānamityapekṣāyāṃ viruddhairiti sambaddhayate / athavā ata ityasya pūrvatra sambandhaḥ / yataḥ sukhādhiko 'to bhūmā viṣṇuri(viṣṇurato bhūme0ti / viruddhavaditi pratijñāyāṃ viruddhairiti hetutayā sambaddhayate / *4,19* etaduktaṃ bhavati / nākṣarasya brahmatve 'sthūlamityadivākyasyānavakāśaḥ / asthūlādipadaistadviparītāṇutvādyabhidhānamiti vyākhyānasyāṅgīkārāt / nacaivaṃ sati parasparavirodha iti vācyam / viruddhadharmāṇāṃ brahmaṇyavasthānasya śrutyādisiddhatvāditi / *4,25* viruddhairlakṣaṇairyutaṃ brahmetyuktam / me mātā vandhyetivadvayāhatatvāt / yadi hi mahattvāṇutvādīni viruddhāni / kathaṃ tarhi tairyutamekaṃ syāt / virodhasya sahānavasthānātmakatvāt / yadi caikaṃ tairyutaṃ kathaṃ tarhi tāni viruddhāni syuḥ / sahāvasthānasyāvirodharūpatvādityāśaṅkayoktaṃ vivṛṇoti tānīti // ... tāni liṅgāni tadanyatra tvasantyapi / avirodhena govinde santyasthūlādikāni ca
Sanskrit only: no published translation is held for this verse.
अनभ्युपगमात् । द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् । आद्यो ऽन्त्ये ऽन्तर्भवति । द्वितीयो ऽप्यभ्युपगमविरुद्धः । औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् । न द्वितीयः । भेरीसंयोगस्यापि तथात्वापत्तेः । तथाच सर्वत्र शब्दोपलब्धिप्रसङ्गात् । अतः परमाणुसंयोगार्थमाकाशो ऽणुरभ्युपगन्तव्य इति व्यभिचारश्च । न द्वितीयः । परस्परविरोधादन्यत्र सर्वत्र । स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः । उत क्वचित् । किं वा विमतिपदादन्यत्र सर्वत्र । नाद्यः । ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् । न द्वितीयः । आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात् । अन्यथा पृथिव्यादौ तदुभयं न स्यात् । न तृतीयः । नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् । *४,३१फ़्।* किञ्च । संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम् । आकाशादीनां तदभावात् । अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमे ऽतिप्रसङ्गाच्च । किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् । तथाच भावाभावयोरन्यत्र सर्वत्र सहानवस्थितं कथं विरोधो न भवेत् । दर्शनादिति चेत्समं प्रकृते ऽपि । तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते । तत्र वस्तुस्वभाव एव तादृश इति परिहारः । न चैवमतिप्रसङ्गः । प्रमाणभावाभावाभ्यां तद्व्युदासात् । एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न । प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् । अत एव न मीमांसावैयर्थ्यमिति । *४,३४* एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् । इदानीं स्थूलत्वादिनिवृत्तिपरत्वे ऽपि न दाष इत्येवंपरतया सूत्रं व्याचष्टे अन्येति ॥ अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् । नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम्
anabhyupagamāt / dvitīye kimasāvākāśasvarūpamevāthārthāntaram / ādyo 'ntye 'ntarbhavati / dvitīyo 'pyabhyupagamaviruddhaḥ / aupādhikāṅgīkāre tvātmāśrayādikam / na dvitīyaḥ / bherīsaṃyogasyāpi tathātvāpatteḥ / tathāca sarvatra śabdopalabdhiprasaṅgāt / ataḥ paramāṇusaṃyogārthamākāśo 'ṇurabhyupagantavya iti vyabhicāraśca / na dvitīyaḥ / parasparavirodhādanyatra sarvatra / sa hi sarvatra sahānavasthānadarśanādvā kalpanīyaḥ / uta kvacit / kiṃ vā vimatipadādanyatra sarvatra / nādyaḥ / brahmaṇi śrutyādinā sahāvasthānasya darśanāt / na dvitīyaḥ / ākāśamanasoḥ parasparaparihāreṇa vartamānayorapi bhūtatvamūrtatvayorvirodhābhāvāt / anyathā pṛthivyādau tadubhayaṃ na syāt / na tṛtīyaḥ / nityatvajñānatvayoraśarīratvakartṛtvayoścānyatra sarvatra sahānavasthitayorīśvarabuddhāvīśvare ca samāveśābhāvaprasaṅgāt / *4,31f.* kiñca / saṃyogādīnāṃ pradeśavṛttitvamaṅgīkurvatā na tāvatpradeśavṛttitvamavayavavṛttitvamaṅgīkartumucitam / ākāśādīnāṃ tadabhāvāt / anyadharmasyānyavṛttitvābhyupagame 'tiprasaṅgācca / kintu svātyantābhāvasamānādhikaraṇatvameva vaktavyam / tathāca bhāvābhāvayoranyatra sarvatra sahānavasthitaṃ kathaṃ virodho na bhavet / darśanāditi cetsamaṃ prakṛte 'pi / tasmādanyatra sarvatra sahānavasthitaṃ kathaṃ nāma sahāvatiṣṭhata ityevaṃ praśnamātramavaśiṣyate / tatra vastusvabhāva eva tādṛśa iti parihāraḥ / na caivamatiprasaṅgaḥ / pramāṇabhāvābhāvābhyāṃ tadvyudāsāt / evaṃ sati vākyavyavasthā na kvāpyāśrayaṇīyeti cenna / pramāṇasvarūpāvadhāraṇe tvevametadityaṅgīkārāt / ata eva na mīmāṃsāvaiyarthyamiti / *4,34* evaṃ tāvadasthūlādipadānāmaṇutvādyabhidhāyakatvapakṣamupādāya śruterbrahmaviṣayatvamupapāditam / idānīṃ sthūlatvādinivṛttiparatve 'pi na dāṣa ityevaṃparatayā sūtraṃ vyācaṣṭe anyeti // anyavastusvabhāvānāṃ sthaulyādīnāmapākṛtim / nārāyaṇe śrutirvakti natu tasyāsvabhāvatām
Sanskrit only: no published translation is held for this verse.
ब्रह्मणो ऽन्यानि वस्तूनि घटादीनि । तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च । तथाविधानां स्थौल्यादीनामभावं नारायणे"अस्थूलमनणुःऽ; इत्यादिश्रुतिर्वक्ति । नतु तस्य निःस्वभावत्वं येनोक्तविरोधः स्यादित्यर्थः । कुत एवं श्रुतेरर्थसङ्कोचः क्रियते । निःस्वभावत्वमेवार्थः किं न स्यादित्यत आह सर्वधर्मेति ॥ *४,३५* सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः । दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च
brahmaṇo 'nyāni vastūni ghaṭādīni / tatsvabhāvabhūtāni yāni sthaulyādīni jaḍāni paratantrāṇi kāryāṇi vināśavantyaṇutvādibhiḥ sahānavasthitāni ca / tathāvidhānāṃ sthaulyādīnāmabhāvaṃ nārāyaṇe"asthūlamanaṇuḥ'; ityādiśrutirvakti / natu tasya niḥsvabhāvatvaṃ yenoktavirodhaḥ syādityarthaḥ / kuta evaṃ śruterarthasaṅkocaḥ kriyate / niḥsvabhāvatvamevārthaḥ kiṃ na syādityata āha sarvadharmeti // *4,35* sarvadharmā sarvanāmā sarvakarmā guṇāḥ śrutāḥ / doṣāḥ śrutāśca netyādyā pramāṇaṃ śrutiratra ca
Sanskrit only: no published translation is held for this verse.
अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति । परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम् । तदुभयसिद्धयर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति लिङ्गमिति ॥ लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः । पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह
ataḥparāṇi sūtrāṇi bhāṣya eva spaṣṭārthānīti na tatra vaktavyamasti / paramākhyavidyāvyākhyāṃ karomīti ca pratijñātam / tadubhayasiddhayarthametatpādādhikaraṇaviṣayapūrvapakṣasiddhāntanyāyān saṅgraheṇa darśayati liṅgamiti // liṅgaṃ sādhāraṇaṃ śabdau sthānaṃ liṅgamanugrahaḥ / punaḥ śabdā liṅgaśabdau vicāryā dvisthitā iha
Sanskrit only: no published translation is held for this verse.
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता । अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः
bāhulyaṃ liṅgaśabdānāmanuktiśca viruddhatā / adṛṣṭiranvayābhāvo viparītaśrutibhramaḥ
Sanskrit only: no published translation is held for this verse.
लिङ्गावकाशराहित्यभ्रमस्तादृग् द्वयं तथा । बहुतादृक्तवमुक्तस्य विरोधो ऽर्थात् तथा गतिः । समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः
liṅgāvakāśarāhityabhramastādṛg dvayaṃ tathā / bahutādṛktavamuktasya virodho 'rthāt tathā gatiḥ / samastametadityatra pūrvapakṣeṣu yuktayaḥ
Sanskrit only: no published translation is held for this verse.
त एव बलवन्तस्तु गत्यन्तरविवर्जिताः । सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः
ta eva balavantastu gatyantaravivarjitāḥ / siddhāntayuktayo jñeyā dṛśyante tāśca sarvaśaḥ
Sanskrit only: no published translation is held for this verse.
एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् । *४,४०* सूत्रसूचितान्सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह मुक्तेति ॥ मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा । वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा
etacca nyāyavivaraṇe svayamevācāryeṇa vyākhyātamiti tatraivāvagantavyam / *4,40* sūtrasūcitānsiddhāntanyāyānabhidhāya sākṣāduktānapyāha mukteti // muktopasṛpyatā prāṇādādhikyaṃ sarvatastathā / vailakṣaṇyaṃ svabhāvasya prekṣāpūrvakriyā tathā
Sanskrit only: no published translation is held for this verse.
अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा । वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता
arasya ṇyasya ceśatvaṃ sūryādyanukṛtistathā / vāmanākhyā sarvakampastacchabdānanyasiddhatā
Sanskrit only: no published translation is held for this verse.
अनामरूपता भेदस्योपजीव्यप्रमाणता । सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः
anāmarūpatā bhedasyopajīvyapramāṇatā / sarvaiśvaryādikādyāstā vedeśena pradarśitāḥ
Sanskrit only: no published translation is held for this verse.
स्वभावस्य सर्वतो वैलक्षण्यं तथाम्बरान्तधृत्यादीति । प्रेक्षापूर्वक्रिया तथेति तथाशब्द उत्तरत्र सम्बध्यते । तेनापहतपाप्मत्वादीनां ग्रहणम् । सूर्याद्यनुकृतिस्तथा सर्वप्रकाशकत्वम् । तच्छब्दानन्यसिद्धतेति ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः । उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव उपजीव्यप्रमाणता । ता इति सिद्धान्तयुक्तयः । *४,४२* नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते । विषयाः पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः न च विषयादिना विनाधिकरणं सम्भवति । तत्कथमेतदिति चेत् । इत्थम् । "तदुपर्यपि बादरायणः सम्भवात्ऽ"शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हिऽ; इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम् । किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम् । द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनाथर्मित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयविषयाद्यनुक्तिः । अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत । *४,४४* नन्वेतद्द्वयमत्र न विचारणीयम् । असङ्गतत्वात् । तथाहि । सङ्गतिस्तावद्द्विविधा भवति । अन्तर्भावलक्षणाऽनन्तर्यलक्षणा च । तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति । समन्वयलक्षणे प्रथमाध्याये ऽनन्तर्भावस्य भवद्भिरेवोक्तत्वात् । अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् । उत्तरापि षोढा भवति । प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् । तत्र न तावत्प्रथमात्रास्ति । स्मारकाभावात् । न द्वितीया । विनैव तेन प्रकृतसिद्धेः । न तृतीया । समन्वयशेषेणावरुद्धत्वात् । न चतुर्थी । उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् । न पञ्चमी । पूर्वप्रबन्धकार्यत्वादर्शनात् । नापि षष्ठी । पूर्वेणानेनोत्तरेण चैकस्याजननात् । तस्मादिदं नेहावकाशमर्हतीत्यत आह अधिकारश्चेति ॥ अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम्"मध्वादिष्वसम्भवादनधिकारं जैमिनिःऽ"ज्योतिषि भावाच्चऽ; इति । तस्यार्थः । न देवा वैदिकोपासनादावधिक्रियन्ते । तान्प्रति वैदिकविधेरभावात् । "आत्मानमुपासीतऽ; इत्यादिविधिरेव तान्विषयीकरोतीति चेन्न । विकल्पानुपपत्तेः । तथाहि । किं तेषां सर्ववेदोक्तोपासनादावधिकारः । किं वा क्वचित् । नाद्यः । सर्वत्र तेषां नियोज्यत्वाभावात् । तत्साध्यफलकामो हि तत्र नियुज्यते । फलं च तदुच्यते । यदप्राप्तमननुष्ठितसाधनं च । नच सर्वोपासनादिफले देवानां कामः सम्भवति । मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात् । तस्य च तैः प्राप्तत्वात् । सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् । अत एव न द्वितीयः । किञ्च जैमिनिरप्येवं मन्यत इति । *४,५९* एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकार इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् । ॐ भावं तु बादरायणो ऽस्ति हीति ॐ ॥ तत्फलाय विधिः सिद्धे चोपासाया निराकृतः
svabhāvasya sarvato vailakṣaṇyaṃ tathāmbarāntadhṛtyādīti / prekṣāpūrvakriyā tatheti tathāśabda uttaratra sambadhyate / tenāpahatapāpmatvādīnāṃ grahaṇam / sūryādyanukṛtistathā sarvaprakāśakatvam / tacchabdānanyasiddhateti jyotiḥśabdasyānyatrāsambhava ityarthaḥ / upajīvyaṃ pramāṇaṃ yasyāsau tathoktastasya bhāva upajīvyapramāṇatā / tā iti siddhāntayuktayaḥ / *4,42* nanvatra pāde caturdaśādhikaraṇāni bhāṣyādavagamyante / viṣayāḥ pūrvapakṣanyāyāḥ siddhāntanyāyāścātra dvādaśaivoktāḥ na ca viṣayādinā vinādhikaraṇaṃ sambhavati / tatkathametaditi cet / ittham / "taduparyapi bādarāyaṇaḥ sambhavāt'"śugasya tadanādaraśravaṇāttadādravaṇātsūcyate hi'; ityetadadhikaraṇadvayaṃ na samanvayasamarthanārtham / kiṃ nāma devādīnāṃ vedavidyādhikārasamarthanārthamādyam / dvitīyaṃ tu traivarṇikavyatiriktānāṃ tadabhāvasamarthanātharmityetajjñāpayitumetadadhikaraṇadvayaviṣayaviṣayādyanuktiḥ / anyathā tatrāpi samanvayasambandhānveṣaṇena śiṣyāṇāṃ vṛthā prayāsaḥ prasajyeta / *4,44* nanvetaddvayamatra na vicāraṇīyam / asaṅgatatvāt / tathāhi / saṅgatistāvaddvividhā bhavati / antarbhāvalakṣaṇā'nantaryalakṣaṇā ca / tatrādyā tāvadanayoradhikaraṇayorna sambhavati / samanvayalakṣaṇe prathamādhyāye 'nantarbhāvasya bhavadbhirevoktatvāt / adhyāyānantarbhūtayośca pādāntarbhāvāsambhavāt / uttarāpi ṣoḍhā bhavati / prasaṅgopodghātāvasaraprāptikāraṇakāryatvaikakāryatvabhedāt / tatra na tāvatprathamātrāsti / smārakābhāvāt / na dvitīyā / vinaiva tena prakṛtasiddheḥ / na tṛtīyā / samanvayaśeṣeṇāvaruddhatvāt / na caturthī / uttaraṃ prabandhaṃ prati kāraṇatvānupalambhāt / na pañcamī / pūrvaprabandhakāryatvādarśanāt / nāpi ṣaṣṭhī / pūrveṇānenottareṇa caikasyājananāt / tasmādidaṃ nehāvakāśamarhatītyata āha adhikāraśceti // adhikāraśca taddhāniḥ prasaṅgādeva cintitau atra devānāṃ vedavidyādhikārākṣepārthaṃ sūtradvayam"madhvādiṣvasambhavādanadhikāraṃ jaiminiḥ'"jyotiṣi bhāvācca'; iti / tasyārthaḥ / na devā vaidikopāsanādāvadhikriyante / tānprati vaidikavidherabhāvāt / "ātmānamupāsīta'; ityādividhireva tānviṣayīkarotīti cenna / vikalpānupapatteḥ / tathāhi / kiṃ teṣāṃ sarvavedoktopāsanādāvadhikāraḥ / kiṃ vā kvacit / nādyaḥ / sarvatra teṣāṃ niyojyatvābhāvāt / tatsādhyaphalakāmo hi tatra niyujyate / phalaṃ ca taducyate / yadaprāptamananuṣṭhitasādhanaṃ ca / naca sarvopāsanādiphale devānāṃ kāmaḥ sambhavati / madhvādyupāsanānāṃ devatāpadaprāptiphalatvāt / tasya ca taiḥ prāptatvāt / sarvajñatvenopāsanāsādhyajñānasyāpi nityasiddhatvāt / ata eva na dvitīyaḥ / kiñca jaiminirapyevaṃ manyata iti / *4,59* evamavāntaraphalasya paramaprayojanasya ca padādeḥ prāptatvena vidherasambhavājjaiminivacanācca devānāmanadhikāra iti prāpte tatpratividhānārthaṃ sūtram / oṃ bhāvaṃ tu bādarāyaṇo 'sti hīti oṃ // tatphalāya vidhiḥ siddhe copāsāyā nirākṛtaḥ
Sanskrit only: no published translation is held for this verse.
यतो जैमिनिनान्यार्थमसिद्धे ऽर्थे विधिस्तथा । विद्याधिराजस्य मतमविरोधस्तयोस्ततः
yato jaimininānyārthamasiddhe 'rthe vidhistathā / vidyādhirājasya matamavirodhastayostataḥ
Sanskrit only: no published translation is held for this verse.
तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं तस्य परिहारो नास्ति । तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति । मैवम् । भिन्नविषयत्वेन विरोधाभावादित्याह तत्फलायेति ॥ तदिति "वसूनामेवैको भूत्वाऽ; इत्यादिश्रुतिप्रसिद्धं परामृशति । सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् । उपासाया विधिरिति सम्बन्धः । अन्यार्थं फलान्तरार्थम् । तथा असिद्धे ऽर्थे विधिरुपासाया इत्यत्राप्यनुवर्तते । अत्रेतिशब्दाध्याहारेण मतमिति योज्यम् । तयोमर्तयोः । *४,६१* ननु किं तदन्यफलं कथं च सर्वज्ञानामसिद्धो ऽथर्ः । येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह मोक्ष इति ॥ मोक्षे फलविशेषो ऽस्ति नच सर्वं प्रकाशते । सर्वदा तेन देवानामपि युक्ता ह्युपासना
tatra yatpūrvapakṣiṇodāhṛtaṃ jaiminivacanaṃ tasya parihāro nāsti / tatkiṃ bhagavanmataviruddhatvenāpramāṇameva pratipattavyamiti / maivam / bhinnaviṣayatvena virodhābhāvādityāha tatphalāyeti // taditi "vasūnāmevaiko bhūtvā'; ityādiśrutiprasiddhaṃ parāmṛśati / siddhe jñāte brahmasvarūpe, viṣayasaptamīyam / upāsāyā vidhiriti sambandhaḥ / anyārthaṃ phalāntarārtham / tathā asiddhe 'rthe vidhirupāsāyā ityatrāpyanuvartate / atretiśabdādhyāhāreṇa matamiti yojyam / tayomartayoḥ / *4,61* nanu kiṃ tadanyaphalaṃ kathaṃ ca sarvajñānāmasiddho 'tharḥ / yena devānāmapyupāsanāvidhānopapattirityata āha mokṣa iti // mokṣe phalaviśeṣo 'sti naca sarvaṃ prakāśate / sarvadā tena devānāmapi yuktā hyupāsanā
Sanskrit only: no published translation is held for this verse.
यच्च प्रकाशते, न तत्सर्वदा । तेन तदुभयार्थम् । हिशब्दो यस्मादित्यर्थे । ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम् । मैवम् । परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह नित्यमिति ॥ नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् । स्पष्टातिस्पष्टविशदं ब्रह्मणो ऽशेषवस्तुगम्
yacca prakāśate, na tatsarvadā / tena tadubhayārtham / hiśabdo yasmādityarthe / nanu sarvajñānāṃ sarvaṃ na prakāśata iti vipratiṣiddham / maivam / parameśvaravyatiriktānāṃ sarvajñatvāsiddherityāha nityamiti // nityaṃ vṛddhikṣayāpetaṃ viṣṇoḥ pūrṇaṃ tu vedanam / spaṣṭātispaṣṭaviśadaṃ brahmaṇo 'śeṣavastugam
Sanskrit only: no published translation is held for this verse.
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा पूर्णम् अशेषार्थविषयम् । तुशब्दो ऽवधारणे, विष्णोरेवेति सम्बध्यते । स्पष्टातिस्पष्टविषयमिति । निरतिशयस्पष्टमित्यर्थः । ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता । सा च पूर्णमित्यनेनैव गता । मैवम् । अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् । तस्य चानुभवसिद्धत्वात् । ब्रह्मणो हिरण्यगर्भस्य । अशेषवस्तुगं परब्रह्मातिरिक्ताशेषवस्तुविषयम् । अत्राप्येवेति सम्बद्धयते । नतु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः । अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् । विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् । मितवस्तुगतं परमेश्वरातिरिक्तकतिपयार्थविषयम् । एतेन भावमिति सूत्रं व्याख्यातं भवति । अत्र च"यावत्सेवाऽ; इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति । ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् । जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा । आद्ये कथमनधिकारं ब्रूयात् । द्वितीये तु कथं न विरोध इति चेन्न । भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम् । जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्न निराकुवर्न्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह इत्यादय इति ॥ इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि
anyeṣāṃ kramaśo jñānaṃ mitavastugataṃ sadā pūrṇam aśeṣārthaviṣayam / tuśabdo 'vadhāraṇe, viṣṇoreveti sambadhyate / spaṣṭātispaṣṭaviṣayamiti / niratiśayaspaṣṭamityarthaḥ / nanu spaṣṭatā nāma jñānasya viśeṣaviṣayatā / sā ca pūrṇamityanenaiva gatā / maivam / aparokṣatvādivatspaṣṭatāyā viṣayānapekṣajñānadharmatvāṅgīkārāt / tasya cānubhavasiddhatvāt / brahmaṇo hiraṇyagarbhasya / aśeṣavastugaṃ parabrahmātiriktāśeṣavastuviṣayam / atrāpyeveti sambaddhayate / natu sarvārthaviṣayatvādyuktaviśeṣaṇopetamityarthaḥ / atra brahmasaṃvedanasya pṛthaguktiḥ kaimutyārtham / viṣṇusaṃvedanoktistu sarvaviṣayatvasya viṣṇujñānalakṣaṇatvenetareṣāṃ tadasambhāvitamiti sūcayitum / mitavastugataṃ parameśvarātiriktakatipayārthaviṣayam / etena bhāvamiti sūtraṃ vyākhyātaṃ bhavati / atra ca"yāvatsevā'; ityādibhāṣyodāhṛtaṃ vacanaṃ pramāṇamiti / nanu jaiminibhagavanmatayoravirodha iti na yuktam / jaiminirhi śrutaphalādyatiriktaṃ phalādikaṃ vidyānāmastīti vā manyate nāstīti vā / ādye kathamanadhikāraṃ brūyāt / dvitīye tu kathaṃ na virodha iti cenna / bhagavataḥ sūtrakārasyāśeṣaviśeṣajñatvena viśadaṃ vacanam / jaiministu sāmānyavedī phalāntarādikamajānanna nirākuvarnyathāśrutamaṅgīkṛtyānadhikāramuktavānityavirodhopapatterityāha ityādaya iti // ityādayo viśeṣāstu sadā vidyāpaterhṛdi
Sanskrit only: no published translation is held for this verse.
जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत् तथावदन् । विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते
jaiminyādyāstu sāmānyavettṛtvāt tat tathāvadan / vidyeśamatametasmānnaiva sadbhirviruddhayate
Sanskrit only: no published translation is held for this verse.