Library·Taittirīya Brāhmaṇa (unaccented text)·2·2.8

Taittirīya Brāhmaṇa (unaccented text) 2.8

ते शुक्रासः शुचयो रश्मिवन्तः । सीदन्नादित्या अधि बर्हिषि प्रिये । कामेन देवाः सरथं दिवो नः । आयान्तु यज्ञमुप नो जुषाणाः । ते सूनवो अदितेः पीवसामिषम् । घृतं पिन्वत्प्रतिहर्यन्नृतेजाः । प्र यज्ञिया यजमानाय येमुरे । आदित्याः कामं पितुमन्तमस्मे । आ नः पुत्रा अदितेर्यान्तु यज्ञम् । आदित्यासः पथिभिर्देवयानैः १ अस्मे कामं दाशुषे सन्नमन्तः । पुरोडाशं घृतवन्तं जुषन्ताम् । स्कभायत निरृतिꣳ सेधतामतिम् । प्र रशिभिर्यतमाना अमृध्राः । आदित्याः काम प्रयतां वषट्कृतिम् । जुषध्वं नो हव्यदातिं यजत्राः । आदित्यान्काममवसे हुवेम । ये भूतानि जनयन्तो विचिख्युः । सीदन्तु पुत्रा अदितेरुपस्थम् । स्तीर्णं बर्हिर्हविरद्याय देवाः २ स्तीर्णं बर्हिः सीदता यज्ञे अस्मिन् । ध्राजाः सेधन्तो अमतिं दुरेवाम् । अस्मभ्यं पुत्रा अदितेः प्रयꣳ सत । आदित्याः काम हविषो जुषाणाः । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि विद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठां ते नमौक्तिं विधेम । प्र वः शुक्राय भानवे भरध्वम् । हव्यं मतिं चाग्नये सुपूतम् ३ यो दैव्यानि मानुषा जनूꣳ षि । अन्तर्विश्वानि विद्मना जिगाति । अच्छा गिरो मतयो देवयन्तीः । अग्निं यन्ति द्र विणं भिक्षमाणाः । सुसंदृशꣳ सुप्रतीकꣳ स्वञ्चम् । हव्यवाहमरतिं मानुषाणाम् । अग्ने त्वमस्मद्युयोध्यमीवाः । अनग्नित्रा अभ्यमन्त कृष्टीः । पुनरस्मभ्यꣳ सुविताय देव । क्षां विश्वेभिरजरेभिर्यजत्र ४ अग्ने त्वं पारया नव्यो अस्मान् । स्वस्तिभिरति दुर्गाणि विश्वा । पूश्च पृथ्वी बहुला न उर्वी ।भवा तोकाय तनयाय शं योः । प्र कारवो मनना वच्यमानाः । देवद्री चीं नयथ देवयन्तः । दक्षिणावाड्वाजिनी प्राच्येति । हविर्भरन्त्यग्नये घृताची ।इन्द्रं नरो । युजे रथम् । ।जगृभ्णा ते दक्षिणामिन्द्र हस्तम् ५ वसूयवो वसुपते वसूनाम् । विद्मा हि त्वा गोपतिꣳ शूर गोनाम् । अस्मभ्यं चित्रं वृषणꣳ रयिं दाः । तवेदं विश्वमभितः पशव्यम् । यत्पश्यसि चक्षसा सूर्यस्य । गवामसि गोपतिरेक इन्द्र । भक्षीमहि ते प्रयतस्य वस्वः । समिन्द्र णो मनसा नेषि गोभिः । सꣳ सूरिभिर्मघवन्त्सꣳ स्वस्त्या । सं ब्रह्मणा देवकृतं यदस्ति ६ सं देवानाꣳ सुमत्या यज्ञियानाम् । आराच्छत्रुमप बाधस्व दूरम् । उग्रो यः शम्बः पुरुहूत तेन । अस्मे धेहि यवमद्गोमदिन्द्र । कृधी धियं जरित्रे वाजरत्नाम् । आ वेधसꣳ । स हि शुचिः । बृहस्पतिः प्रथमं जायमानः । महो ज्योतिषः परमे व्योमन् । सप्तास्यस्तुविजातो रवेण । वि सप्तरश्मिरधमत्तमाꣳ सि ७ बृहस्पतिः समजयद्वसूनि । महो व्रजान्गोमतो देव एषः । अपः सिषासन्त्सुवरप्रतीत्तः । बृहस्पतिर्हन्त्यमित्रमर्कैः । बृहस्पते परि । एवा पित्रे । आ नो दिवः । पावीरवी । इमा जुह्वाना । यस्ते स्तनः । सरस्वत्यभि नो नेषि । इयꣳ शुष्मेभिर्बिसखा इवारुजत् । सानु गिरीणां तविषेभिरूर्मिभिः । पारावदघ्नीमवसे सुवृक्तिभिः । सरस्वतीमाविवासेम धीतिभिः ८

te śukrāsaḥ śucayo raśmivantaḥ | sīdannādityā adhi barhiṣi priye | kāmena devāḥ sarathaṃ divo naḥ | āyāntu yajñamupa no juṣāṇāḥ | te sūnavo aditeḥ pīvasāmiṣam | ghṛtaṃ pinvatpratiharyannṛtejāḥ | pra yajñiyā yajamānāya yemure | ādityāḥ kāmaṃ pitumantamasme | ā naḥ putrā aditeryāntu yajñam | ādityāsaḥ pathibhirdevayānaiḥ 1 asme kāmaṃ dāśuṣe sannamantaḥ | puroḍāśaṃ ghṛtavantaṃ juṣantām | skabhāyata nirṛtim̐ sedhatāmatim | pra raśibhiryatamānā amṛdhrāḥ | ādityāḥ kāma prayatāṃ vaṣaṭkṛtim | juṣadhvaṃ no havyadātiṃ yajatrāḥ | ādityānkāmamavase huvema | ye bhūtāni janayanto vicikhyuḥ | sīdantu putrā aditerupastham | stīrṇaṃ barhirhaviradyāya devāḥ 2 stīrṇaṃ barhiḥ sīdatā yajñe asmin | dhrājāḥ sedhanto amatiṃ durevām | asmabhyaṃ putrā aditeḥ prayam̐ sata | ādityāḥ kāma haviṣo juṣāṇāḥ | agne naya supathā rāye asmān | viśvāni deva vayunāni vidvān | yuyodhyasmajjuhurāṇamenaḥ | bhūyiṣṭhāṃ te namauktiṃ vidhema | pra vaḥ śukrāya bhānave bharadhvam | havyaṃ matiṃ cāgnaye supūtam 3 yo daivyāni mānuṣā janūm̐ ṣi | antarviśvāni vidmanā jigāti | acchā giro matayo devayantīḥ | agniṃ yanti dra viṇaṃ bhikṣamāṇāḥ | susaṃdṛśam̐ supratīkam̐ svañcam | havyavāhamaratiṃ mānuṣāṇām | agne tvamasmadyuyodhyamīvāḥ | anagnitrā abhyamanta kṛṣṭīḥ | punarasmabhyam̐ suvitāya deva | kṣāṃ viśvebhirajarebhiryajatra 4 agne tvaṃ pārayā navyo asmān | svastibhirati durgāṇi viśvā | pūśca pṛthvī bahulā na urvī |bhavā tokāya tanayāya śaṃ yoḥ | pra kāravo mananā vacyamānāḥ | devadrī cīṃ nayatha devayantaḥ | dakṣiṇāvāḍvājinī prācyeti | havirbharantyagnaye ghṛtācī |indraṃ naro | yuje ratham | |jagṛbhṇā te dakṣiṇāmindra hastam 5 vasūyavo vasupate vasūnām | vidmā hi tvā gopatim̐ śūra gonām | asmabhyaṃ citraṃ vṛṣaṇam̐ rayiṃ dāḥ | tavedaṃ viśvamabhitaḥ paśavyam | yatpaśyasi cakṣasā sūryasya | gavāmasi gopatireka indra | bhakṣīmahi te prayatasya vasvaḥ | samindra ṇo manasā neṣi gobhiḥ | sam̐ sūribhirmaghavantsam̐ svastyā | saṃ brahmaṇā devakṛtaṃ yadasti 6 saṃ devānām̐ sumatyā yajñiyānām | ārācchatrumapa bādhasva dūram | ugro yaḥ śambaḥ puruhūta tena | asme dhehi yavamadgomadindra | kṛdhī dhiyaṃ jaritre vājaratnām | ā vedhasam̐ | sa hi śuciḥ | bṛhaspatiḥ prathamaṃ jāyamānaḥ | maho jyotiṣaḥ parame vyoman | saptāsyastuvijāto raveṇa | vi saptaraśmiradhamattamām̐ si 7 bṛhaspatiḥ samajayadvasūni | maho vrajāngomato deva eṣaḥ | apaḥ siṣāsantsuvarapratīttaḥ | bṛhaspatirhantyamitramarkaiḥ | bṛhaspate pari | evā pitre | ā no divaḥ | pāvīravī | imā juhvānā | yaste stanaḥ | sarasvatyabhi no neṣi | iyam̐ śuṣmebhirbisakhā ivārujat | sānu girīṇāṃ taviṣebhirūrmibhiḥ | pārāvadaghnīmavase suvṛktibhiḥ | sarasvatīmāvivāsema dhītibhiḥ 8

Sanskrit only: no published translation is held for this verse.

सोमो धेनुꣳ सोमो अर्वन्तमाशुम् । सोमो वीरं कर्मण्यं ददातु । सादन्यं विदथ्यꣳ सभेयम् । पितुःश्रवणं यो ददाशदस्मै । अषाढं युत्सु । त्वꣳ सोम क्रतुभिः । ।या ते धामानि हविषा यजन्ति । ।त्वमिमा ओषधीः सोम विश्वाः । त्वमपो अजनयस्त्वं गाः । त्वमाततन्थोर्वन्तरिक्षम् । त्वं ज्योतिषा वि तमो ववर्थ १ या ते धामानि दिवि या पृथिव्याम् । या पर्वतेष्वोषधीष्वप्सु । तेभिर्नो विश्वैः सुमना अहेडन् । राजन्त्सोम प्रति हव्या गृभाय । विष्णोर्नु कं। तदस्य प्रियम् । प्र तद्विणुः । ।परो मात्रया तनुवा वृधान । न ते महित्वमन्व-श्नुवन्ति । उभे ते विद्म रजसी पृथिव्या विष्णो देव त्वम् । परमस्य वित्से २ विचक्रमे । त्रिर्देवः । आ ते महो । यो जात एव । अभि गोत्राणि । आभिः स्पृधो मिथतीररिषण्यन् । अमित्रस्य व्यथया मन्युमिन्द्र आभिर्विश्वा अभियुजो विषूचीः । आर्याय विशोऽवतरीर्दासीः । अयꣳ शृण्वे अध जयन्नुत घ्नन् । अयमुत प्रकृणुते युधा गाः । यदा सत्यं कृणुते मन्युमिन्द्रः ३ विश्वं दृढं भयत एजदस्मात् । अनु स्वधामक्षरन्नापो अस्य । अवर्धत मध्य आ नाव्यानाम् । सध्रीचीनेन मनसा तमिन्द्र ओजिष्ठेन । हन्मनाहन्नभि द्यून् । मरुत्वन्तं वृषभं वावृधानम् । अकवारिं दिव्यꣳ शासमिन्द्र म् । विश्वा-साहमवसे नूतनाय । उग्रꣳ सहोदामिह तꣳ हुवेम । जनिष्ठा उग्रः सहसे तुराय ४ मन्द्र ओजिष्ठो बहुलाभिमानः । अवर्धन्निन्द्रं मरुतश्चिदत्र । माता यद्वीरं दधनद्धनिष्ठा । क्व स्या वो मरुतः स्वधासीत् । यन्मामेकꣳ समधत्ताहिहत्ये । अहꣳ ह्युग्रस्तविषस्तुविष्मान् । विश्वस्य शत्रोरनमं वधस्नैः । वृत्रस्य त्वा श्वसथादीषमाणाः । विश्वे देवा अजहुर्ये सखायः । मरुद्भिरिन्द्र सख्यं ते अस्तु ५ अथेमा विश्वाः पृतना जयासि । वधीं वृत्रं मरुत इन्द्रि येण । स्वेन भामेन तविषो बभूवान् । अहमेता मनवे विश्वश्चन्द्रा ः! । सुगा अपश्चकर वज्रबाहुः । स यो वृषा वृष्णियेभिः समोकाः । महो दिवः पृथिव्याश्च सम्राट् । सतीनसत्त्वा हव्यो भरेषु । मरुत्वान्नो भवत्विन्द्र ऊती । इन्द्रो वृत्रमतरद्वृत्रतूर्ये ६ अनाधृष्यो मघवा शूर इन्द्रः । अन्वेनं विशो अमदन्त पूर्विः । अयꣳ राजा जगतश्चर्षणीनाम् । स एव वीरः स उ वीर्यावान् । स एकराजो जगतः परस्पाः । यदा वृत्रमतरच्छूर इन्द्रः । अथाभवद्दमिताभिक्रतूनाम् । इन्द्रो यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशस्य जुषताꣳ हविर्नः । वृत्रं तीर्त्वा दानवं वज्रबाहुः ७ दिशोऽदृꣳ हद्दृꣳ हिता दृꣳ हणेन । इमं यज्ञं वर्धयन्विश्ववेदाः । पुरोडाशं प्रतिगृभ्णात्विन्द्रः । यदा वृत्रमतर्च्छूर इन्द्रः । अथैकराजो अभवज्जनानाम् । इन्द्रो देवाञ्शम्बरहत्य आवत् । इन्द्रो देवानामभवत्पुरोगाः । इन्द्रो यज्ञे हविषा वावृधानः । वृत्रतूर्णो अभयꣳ शर्म यꣳ सत् । यः सप्त सिन्धूꣳ रदधा-त्पृथिव्याम् । यः सप्त लोकानकृणोद्दिशश । इन्द्रो हविष्मान्त्सगणो मरुद्भिः । वृत्रतूर्णो यज्ञमिहोपयासत् ८

somo dhenum̐ somo arvantamāśum | somo vīraṃ karmaṇyaṃ dadātu | sādanyaṃ vidathyam̐ sabheyam | pituḥśravaṇaṃ yo dadāśadasmai | aṣāḍhaṃ yutsu | tvam̐ soma kratubhiḥ | |yā te dhāmāni haviṣā yajanti | |tvamimā oṣadhīḥ soma viśvāḥ | tvamapo ajanayastvaṃ gāḥ | tvamātatanthorvantarikṣam | tvaṃ jyotiṣā vi tamo vavartha 1 yā te dhāmāni divi yā pṛthivyām | yā parvateṣvoṣadhīṣvapsu | tebhirno viśvaiḥ sumanā aheḍan | rājantsoma prati havyā gṛbhāya | viṣṇornu kaṃ| tadasya priyam | pra tadviṇuḥ | |paro mātrayā tanuvā vṛdhāna | na te mahitvamanva-śnuvanti | ubhe te vidma rajasī pṛthivyā viṣṇo deva tvam | paramasya vitse 2 vicakrame | trirdevaḥ | ā te maho | yo jāta eva | abhi gotrāṇi | ābhiḥ spṛdho mithatīrariṣaṇyan | amitrasya vyathayā manyumindra ābhirviśvā abhiyujo viṣūcīḥ | āryāya viśo'vatarīrdāsīḥ | ayam̐ śṛṇve adha jayannuta ghnan | ayamuta prakṛṇute yudhā gāḥ | yadā satyaṃ kṛṇute manyumindraḥ 3 viśvaṃ dṛḍhaṃ bhayata ejadasmāt | anu svadhāmakṣarannāpo asya | avardhata madhya ā nāvyānām | sadhrīcīnena manasā tamindra ojiṣṭhena | hanmanāhannabhi dyūn | marutvantaṃ vṛṣabhaṃ vāvṛdhānam | akavāriṃ divyam̐ śāsamindra m | viśvā-sāhamavase nūtanāya | ugram̐ sahodāmiha tam̐ huvema | janiṣṭhā ugraḥ sahase turāya 4 mandra ojiṣṭho bahulābhimānaḥ | avardhannindraṃ marutaścidatra | mātā yadvīraṃ dadhanaddhaniṣṭhā | kva syā vo marutaḥ svadhāsīt | yanmāmekam̐ samadhattāhihatye | aham̐ hyugrastaviṣastuviṣmān | viśvasya śatroranamaṃ vadhasnaiḥ | vṛtrasya tvā śvasathādīṣamāṇāḥ | viśve devā ajahurye sakhāyaḥ | marudbhirindra sakhyaṃ te astu 5 athemā viśvāḥ pṛtanā jayāsi | vadhīṃ vṛtraṃ maruta indri yeṇa | svena bhāmena taviṣo babhūvān | ahametā manave viśvaścandrā ḥ! | sugā apaścakara vajrabāhuḥ | sa yo vṛṣā vṛṣṇiyebhiḥ samokāḥ | maho divaḥ pṛthivyāśca samrāṭ | satīnasattvā havyo bhareṣu | marutvānno bhavatvindra ūtī | indro vṛtramataradvṛtratūrye 6 anādhṛṣyo maghavā śūra indraḥ | anvenaṃ viśo amadanta pūrviḥ | ayam̐ rājā jagataścarṣaṇīnām | sa eva vīraḥ sa u vīryāvān | sa ekarājo jagataḥ paraspāḥ | yadā vṛtramataracchūra indraḥ | athābhavaddamitābhikratūnām | indro yajñaṃ vardhayanviśvavedāḥ | puroḍāśasya juṣatām̐ havirnaḥ | vṛtraṃ tīrtvā dānavaṃ vajrabāhuḥ 7 diśo'dṛm̐ haddṛm̐ hitā dṛm̐ haṇena | imaṃ yajñaṃ vardhayanviśvavedāḥ | puroḍāśaṃ pratigṛbhṇātvindraḥ | yadā vṛtramatarcchūra indraḥ | athaikarājo abhavajjanānām | indro devāñśambarahatya āvat | indro devānāmabhavatpurogāḥ | indro yajñe haviṣā vāvṛdhānaḥ | vṛtratūrṇo abhayam̐ śarma yam̐ sat | yaḥ sapta sindhūm̐ radadhā-tpṛthivyām | yaḥ sapta lokānakṛṇoddiśaśa | indro haviṣmāntsagaṇo marudbhiḥ | vṛtratūrṇo yajñamihopayāsat 8

Sanskrit only: no published translation is held for this verse.

इन्द्र स्तरस्वानभिमातिहोग्रः । हिरण्यवाशीरिषिरः सुवर्षाः । तस्य वयꣳ सुमतौ यज्ञियस्य । अपि भद्रे सौमनसे स्याम । हिरण्यवर्णो अभयं कृणोतु । अभिमातिहेन्द्रः पृतनासु जिष्णुः । स नः शर्म त्रिवरूथं वियꣳ सत् । यूयं पात स्वस्तिभिः सदा नः । इन्द्र ꣳ! स्तुहि वज्रिणꣳ स्तोमपृष्ठम् । पुरोडाशस्य जुषताꣳ हविर्नः १ हत्वाभिमातीः पृतनाः सहस्वान् । अथाभयं कृणुहि विश्वतो नः । स्तुहि शूरं वज्रिणमप्रतीतम् । अभिमातिहनं पुरुहूतमिन्द्र म् । य एक इच्छतपतिर्जनेषु । तस्मा इन्द्रा य हविराजुहोत । इन्द्रो देवानामधिपाः पुरोहितः । दिशां पतिरभवद्वाजिनीवान् । अभिमातिहा तविषस्तुविष्मान् । अस्मभ्यं चित्रं वृषणꣳ रयिं दात् २ य इमे द्यावापृथिवी महित्वा । बलेनादृꣳ हदभिमातिहेन्द्रः । स नो हविः प्रतिगृभ्णातु रातये । देवानां देवो निधिपा नो अव्यात् । अनवस्ते रथं। वृष्णे यत्ते । इन्द्र स्य नु वीर्याण्य् । अहन्नहिम् । ।इन्द्रो यातोऽवसितस्य राजा । शमस्य च शृङ्गिणो वज्रबाहुः । सेदु राजा क्षेति चर्षणीनाम् । अरान्न नेमिः परि ता बभूव ३ अभि सिध्मो अजिगादस्य शत्रून् । वि तिग्मेन वृषभेणा पुरोऽभेत् । सं वज्रेणासृजद्वृत्रमिन्द्रः । प्र स्वां मतिमतिरच्छाशदानः । विष्णुं देवं वरुणमूतये भगम् । मेदसा देवा वपया यजध्वम् । ता नो यज्ञमागतं विश्वधेना । प्रजावदस्मे द्र विणेह धत्तम् । मेदसा देवा वपया यजध्वम् । विष्णुं च देवं वरुणं च रातिम् ४ ता नो अमीवा अपबाधमानौ । इमं यज्ञं जुषमाणावुपेतम् । विष्णूवरुणा युवमध्वराय नः । विशे जनाय महि शर्म यच्छतम् । दीर्घप्रयज्यू हविषा वृधाना । ज्योतिषारातीर्दहतं तमाꣳ सि । ययोरोजसा स्कभिता रजाꣳ सि । वीर्येभिर्वीरतमा शविष्ठा । या पत्येते अप्रतीता शहोभिः । विष्णू अगन्वरुणा पूर्वहूतौ ५ विष्णूवरुणावभिशस्तिपा वाम् । देवा यजन्त हविषा घृतेन । अपामीवाꣳ सेधतꣳ रक्षसश्च । अथा धत्तं यजमानाय शं योः । अꣳ होमुचा वृषभा सुप्रतूर्ती । देवानां देवतमा शविष्ठा । विष्णूवरुणा प्रतिहर्यतं नः । इदं नरा प्रयतमूतये हविः । मही नु द्यावापृथिवी इह ज्येष्ठे । रुचा भवताꣳ शुचयद्भिरर्कैः ६ यत्सीं वरिष्ठे बृहती विमिन्वन् । नृवद्भ्योऽक्षा पप्रथानेभिरेवैः । प्र पूर्वजे पितरा नव्यसीभिः । गीर्भिः कृणुध्वꣳ सदने ऋतस्य । आ नो द्यावापृथिवी दैव्येन । जनेन यातं महि वां वरूथम् । स इत्स्वपा भुवनेष्वास । य इमे द्यावापृथिवी जजान । उर्वी गभीरे रजसी सुमेके । अवꣳ शे धीरः शच्या समैरत् ७ भूरिं द्वे अचरन्ती चरन्तम् । पद्वन्तं गर्भमपदी दधाते । नित्यं न सूनुं पित्रोरुपस्थे । तं पिपृतꣳ रोदसी सत्यवाचम् । इदं द्यावापृथिवी सत्यमस्तु । पितर्मातर्यदिहोपब्रुवे वाम् । भूतं देवानामवमे अवोभिः । विद्यामेषं वृजनं जीरदानुम् । उर्वी पृथ्वी बहुले दूरेऽन्ते । उपब्रुवे नमसा यज्ञे अस्मिन् । दधाते ये सुभगे सुप्रतूर्ती ।द्यावा रक्षतं पृथिवी नो अभ्वात् । या जाता ओषधयो । ऽति विश्वाः परिष्ठाः । ।या ओषधयः सोमराज्ञीर् । अश्वावतीꣳ सोमवतीम् । ओषधीरिति मातरो । अन्या वो अन्यामवतु ८

indra starasvānabhimātihograḥ | hiraṇyavāśīriṣiraḥ suvarṣāḥ | tasya vayam̐ sumatau yajñiyasya | api bhadre saumanase syāma | hiraṇyavarṇo abhayaṃ kṛṇotu | abhimātihendraḥ pṛtanāsu jiṣṇuḥ | sa naḥ śarma trivarūthaṃ viyam̐ sat | yūyaṃ pāta svastibhiḥ sadā naḥ | indra m̐! stuhi vajriṇam̐ stomapṛṣṭham | puroḍāśasya juṣatām̐ havirnaḥ 1 hatvābhimātīḥ pṛtanāḥ sahasvān | athābhayaṃ kṛṇuhi viśvato naḥ | stuhi śūraṃ vajriṇamapratītam | abhimātihanaṃ puruhūtamindra m | ya eka icchatapatirjaneṣu | tasmā indrā ya havirājuhota | indro devānāmadhipāḥ purohitaḥ | diśāṃ patirabhavadvājinīvān | abhimātihā taviṣastuviṣmān | asmabhyaṃ citraṃ vṛṣaṇam̐ rayiṃ dāt 2 ya ime dyāvāpṛthivī mahitvā | balenādṛm̐ hadabhimātihendraḥ | sa no haviḥ pratigṛbhṇātu rātaye | devānāṃ devo nidhipā no avyāt | anavaste rathaṃ| vṛṣṇe yatte | indra sya nu vīryāṇy | ahannahim | |indro yāto'vasitasya rājā | śamasya ca śṛṅgiṇo vajrabāhuḥ | sedu rājā kṣeti carṣaṇīnām | arānna nemiḥ pari tā babhūva 3 abhi sidhmo ajigādasya śatrūn | vi tigmena vṛṣabheṇā puro'bhet | saṃ vajreṇāsṛjadvṛtramindraḥ | pra svāṃ matimatiracchāśadānaḥ | viṣṇuṃ devaṃ varuṇamūtaye bhagam | medasā devā vapayā yajadhvam | tā no yajñamāgataṃ viśvadhenā | prajāvadasme dra viṇeha dhattam | medasā devā vapayā yajadhvam | viṣṇuṃ ca devaṃ varuṇaṃ ca rātim 4 tā no amīvā apabādhamānau | imaṃ yajñaṃ juṣamāṇāvupetam | viṣṇūvaruṇā yuvamadhvarāya naḥ | viśe janāya mahi śarma yacchatam | dīrghaprayajyū haviṣā vṛdhānā | jyotiṣārātīrdahataṃ tamām̐ si | yayorojasā skabhitā rajām̐ si | vīryebhirvīratamā śaviṣṭhā | yā patyete apratītā śahobhiḥ | viṣṇū aganvaruṇā pūrvahūtau 5 viṣṇūvaruṇāvabhiśastipā vām | devā yajanta haviṣā ghṛtena | apāmīvām̐ sedhatam̐ rakṣasaśca | athā dhattaṃ yajamānāya śaṃ yoḥ | am̐ homucā vṛṣabhā supratūrtī | devānāṃ devatamā śaviṣṭhā | viṣṇūvaruṇā pratiharyataṃ naḥ | idaṃ narā prayatamūtaye haviḥ | mahī nu dyāvāpṛthivī iha jyeṣṭhe | rucā bhavatām̐ śucayadbhirarkaiḥ 6 yatsīṃ variṣṭhe bṛhatī viminvan | nṛvadbhyo'kṣā paprathānebhirevaiḥ | pra pūrvaje pitarā navyasībhiḥ | gīrbhiḥ kṛṇudhvam̐ sadane ṛtasya | ā no dyāvāpṛthivī daivyena | janena yātaṃ mahi vāṃ varūtham | sa itsvapā bhuvaneṣvāsa | ya ime dyāvāpṛthivī jajāna | urvī gabhīre rajasī sumeke | avam̐ śe dhīraḥ śacyā samairat 7 bhūriṃ dve acarantī carantam | padvantaṃ garbhamapadī dadhāte | nityaṃ na sūnuṃ pitrorupasthe | taṃ pipṛtam̐ rodasī satyavācam | idaṃ dyāvāpṛthivī satyamastu | pitarmātaryadihopabruve vām | bhūtaṃ devānāmavame avobhiḥ | vidyāmeṣaṃ vṛjanaṃ jīradānum | urvī pṛthvī bahule dūre'nte | upabruve namasā yajñe asmin | dadhāte ye subhage supratūrtī |dyāvā rakṣataṃ pṛthivī no abhvāt | yā jātā oṣadhayo | 'ti viśvāḥ pariṣṭhāḥ | |yā oṣadhayaḥ somarājñīr | aśvāvatīm̐ somavatīm | oṣadhīriti mātaro | anyā vo anyāmavatu 8

Sanskrit only: no published translation is held for this verse.

शुचिं नु स्तोमꣳ । श्नथद्वृत्रम् । ।उभा वामिन्द्रा ग्नी। प्र चर्षणिभ्यः । ।आ वृत्रहणा । गीर्भिर्विप्रः । ।ब्रह्मणस्पते त्वमस्य यन्ता । सूक्तस्य बोधि तनयं च जिन्व । विश्वं तद्भद्रं यदवन्ति देवाः । बृहद्वदेम विदथे सुवीराः । स ईꣳ सत्येभिः सखिभिः शुचद्भिः । गोधायसं वि धनसैरतर्दत् । ब्रह्मणस्पतिर्वृषभिर्वराहैः १ घर्मस्वेदोभिर्द्र विणं व्यानट् । ब्रह्मणस्पतेरभवद्यथावशम् । सत्यो मन्युर्महि कर्मा करिष्यतः । यो गा उदाजत्स दिवे वि चाभजत् । महीव रीतिः शवसा सरत्पृथक् । इन्धानो अग्निं वनवद्वनुष्यतः । कृतब्रह्मा शूशुवद्रा तहव्य इत् । जातेन जातमति सृत्प्रसृꣳ सते । यंयं युजं कृणुते ब्रह्मणस्पतिः । ब्रह्मणस्पते सुयमस्य विश्वहा २ रायः स्याम रथ्यो विवस्वतः । वीरेषु वीराꣳ उपपृङ्ग्धि नस्त्वम् । यदीशानो ब्रह्मणा वेषि मे हवम् । स इज्जनेन स विशा स जन्मना । स पुत्रैर्वाजं भरते धना नृभिः । देवानां यः पितरमाविवासति । श्रद्धामना हविषा ब्रह्मणस्पतिम् । यस्ते पूषन्नावो अन्तः । शुक्रं ते अन्यत् । पूषेमा आशाः । प्रपथे पथामजनिष्ट पूषा ३ प्रपथे दिवः प्रपथे पृथिव्याः । उभे अभि प्रियतमे सधस्थे । आ च परा च चरति प्रजानन् । पूषा सुबन्धुर्दिव आ पृथिव्याः । इडस्पतिर्मघवा दस्मवर्चाः । तं देवासो अददुः सूर्यायै । कामेन कृतं तवसꣳ स्वञ्चम् । अजाश्वः पशुपा वाजवस्त्यः । धियंजिन्वो विश्वे भुवने अर्पितः । अष्ट्रां पूषा शिथि-रामुद्वरीवृजत् ४ संचक्षाणो भुवना देव ईयते । शुची वो हव्या मरुतः शुचीनाम् । शुचिꣳ हिनोम्यध्वरꣳ शुचिभ्यः । ऋतेन सत्यमृतसाप आयन् । शुचिजन्मानः शुचयः पावकाः । प्र चित्रमर्कं गृणते तुराय । मारुताय स्वतवसे भरध्वम् । ये सहाꣳ सि सहसा सहन्ते । रेजते अग्ने पृथिवी मखेभ्यः । अꣳ सेष्वा मरुतः खादयो वः ५ वक्षःसु रुक्मा उपशिश्रियाणाः । वि विद्युतो न व्यृष्टिभी रुचानाः । अनु स्वधामायुधैर्यच्छमानाः । या वः शर्म शशमानाय सन्ति । त्रिधातूनि दाशुषे यच्छताधि । अस्मभ्यं तानि मरुतो वियन्त । रयिं नो धत्त वृषणः सुवीरम् । इमे तुरं मरुतो रामयन्ति । इमे सहः सहस आनमन्ति । इमे शꣳ सं वनुष्यतो निपान्ति ६ गुरु द्वेषो अररुषे दधन्ति । अरा इवेदचरमा अहेव । प्र प्रजायन्ते अकवा महोभिः । पृश्नेः पुत्रा उपमासो रभिष्ठाः । स्वया मत्या मरुतः संमिमिक्षुः । अनु ते दायि मह इन्द्रि याय । सत्रा ते विश्वमनु वृत्रहत्ये । अनु क्षत्त्रमनु सहो यजत्र । इन्द्र देवेभिरनु ते नृषह्ये । य इन्द्र शुष्मो मघवन्ते अस्ति ७ शिक्षा सखिभ्यः पुरुहूत नृभ्यः । त्वꣳ हि दृढा मघवन्विचेताः । अपावृधि परिवृतिं न राधः । इन्द्रो राजा जगतश्चर्षणीनाम् । अधि क्षमि विषुरूपं यदस्ति । ततो ददातु दाशुषे वसूनि । चोदद्रा ध उपस्तुतश्चिदर्वाक् । तमु ष्टुहि यो अभिभूत्योजाः । वन्वन्नवातः पुरुहूत इन्द्रः । अषाढमुग्रꣳ सहमान-माभिः ८ गीर्भिर्वर्ध वृषभं चर्षणीनाम् । स्थूरस्य रायो बृहतो य ईशे । तमु ष्टवाम विदथेष्विन्द्र म् । यो वायुना जयति गोमतीषु । प्र धृष्णुया नयति वस्यो अच्छ । आ ते शुष्मो वृषभ एतु पश्चात् । ओत्तरादधरागा पुरस्तात् । आ विश्वतो अभि समेत्वर्वाङ्।इन्द्र द्युम्नꣳ सुवर्वद्धेह्यस्मे ९

śuciṃ nu stomam̐ | śnathadvṛtram | |ubhā vāmindrā gnī| pra carṣaṇibhyaḥ | |ā vṛtrahaṇā | gīrbhirvipraḥ | |brahmaṇaspate tvamasya yantā | sūktasya bodhi tanayaṃ ca jinva | viśvaṃ tadbhadraṃ yadavanti devāḥ | bṛhadvadema vidathe suvīrāḥ | sa īm̐ satyebhiḥ sakhibhiḥ śucadbhiḥ | godhāyasaṃ vi dhanasairatardat | brahmaṇaspatirvṛṣabhirvarāhaiḥ 1 gharmasvedobhirdra viṇaṃ vyānaṭ | brahmaṇaspaterabhavadyathāvaśam | satyo manyurmahi karmā kariṣyataḥ | yo gā udājatsa dive vi cābhajat | mahīva rītiḥ śavasā saratpṛthak | indhāno agniṃ vanavadvanuṣyataḥ | kṛtabrahmā śūśuvadrā tahavya it | jātena jātamati sṛtprasṛm̐ sate | yaṃyaṃ yujaṃ kṛṇute brahmaṇaspatiḥ | brahmaṇaspate suyamasya viśvahā 2 rāyaḥ syāma rathyo vivasvataḥ | vīreṣu vīrām̐ upapṛṅgdhi nastvam | yadīśāno brahmaṇā veṣi me havam | sa ijjanena sa viśā sa janmanā | sa putrairvājaṃ bharate dhanā nṛbhiḥ | devānāṃ yaḥ pitaramāvivāsati | śraddhāmanā haviṣā brahmaṇaspatim | yaste pūṣannāvo antaḥ | śukraṃ te anyat | pūṣemā āśāḥ | prapathe pathāmajaniṣṭa pūṣā 3 prapathe divaḥ prapathe pṛthivyāḥ | ubhe abhi priyatame sadhasthe | ā ca parā ca carati prajānan | pūṣā subandhurdiva ā pṛthivyāḥ | iḍaspatirmaghavā dasmavarcāḥ | taṃ devāso adaduḥ sūryāyai | kāmena kṛtaṃ tavasam̐ svañcam | ajāśvaḥ paśupā vājavastyaḥ | dhiyaṃjinvo viśve bhuvane arpitaḥ | aṣṭrāṃ pūṣā śithi-rāmudvarīvṛjat 4 saṃcakṣāṇo bhuvanā deva īyate | śucī vo havyā marutaḥ śucīnām | śucim̐ hinomyadhvaram̐ śucibhyaḥ | ṛtena satyamṛtasāpa āyan | śucijanmānaḥ śucayaḥ pāvakāḥ | pra citramarkaṃ gṛṇate turāya | mārutāya svatavase bharadhvam | ye sahām̐ si sahasā sahante | rejate agne pṛthivī makhebhyaḥ | am̐ seṣvā marutaḥ khādayo vaḥ 5 vakṣaḥsu rukmā upaśiśriyāṇāḥ | vi vidyuto na vyṛṣṭibhī rucānāḥ | anu svadhāmāyudhairyacchamānāḥ | yā vaḥ śarma śaśamānāya santi | tridhātūni dāśuṣe yacchatādhi | asmabhyaṃ tāni maruto viyanta | rayiṃ no dhatta vṛṣaṇaḥ suvīram | ime turaṃ maruto rāmayanti | ime sahaḥ sahasa ānamanti | ime śam̐ saṃ vanuṣyato nipānti 6 guru dveṣo araruṣe dadhanti | arā ivedacaramā aheva | pra prajāyante akavā mahobhiḥ | pṛśneḥ putrā upamāso rabhiṣṭhāḥ | svayā matyā marutaḥ saṃmimikṣuḥ | anu te dāyi maha indri yāya | satrā te viśvamanu vṛtrahatye | anu kṣattramanu saho yajatra | indra devebhiranu te nṛṣahye | ya indra śuṣmo maghavante asti 7 śikṣā sakhibhyaḥ puruhūta nṛbhyaḥ | tvam̐ hi dṛḍhā maghavanvicetāḥ | apāvṛdhi parivṛtiṃ na rādhaḥ | indro rājā jagataścarṣaṇīnām | adhi kṣami viṣurūpaṃ yadasti | tato dadātu dāśuṣe vasūni | codadrā dha upastutaścidarvāk | tamu ṣṭuhi yo abhibhūtyojāḥ | vanvannavātaḥ puruhūta indraḥ | aṣāḍhamugram̐ sahamāna-mābhiḥ 8 gīrbhirvardha vṛṣabhaṃ carṣaṇīnām | sthūrasya rāyo bṛhato ya īśe | tamu ṣṭavāma vidatheṣvindra m | yo vāyunā jayati gomatīṣu | pra dhṛṣṇuyā nayati vasyo accha | ā te śuṣmo vṛṣabha etu paścāt | ottarādadharāgā purastāt | ā viśvato abhi sametvarvāṅ|indra dyumnam̐ suvarvaddhehyasme 9

Sanskrit only: no published translation is held for this verse.

आ देवो यातु सविता सुरत्नः । अन्तरिक्षप्रा वहमानो अश्वैः । हस्ते दधानो नर्या पुरूणि । निवेशयन्च प्रसुवन्च भूम । अभीवृतं कृशनैर्विश्वरूपम् । हिरण्यशम्यं यजतो बृहन्तम् । आस्थाद्र थꣳ सविता चित्रभानुः । कृष्णा रजाꣳ सि तविषीं दधानः । स घा नो देवः सविता सवाय । आसाविषद्वसु-पतिर्वसूनि १ विश्रयमाणो अमतिमुरूचीम् । मर्तभोजनमध रासते न । वि जनाञ्श्यावाः शितिपादो अख्यन् । रथꣳ हिरण्यप्रौगं वहन्तः । शश्वद्दिशः सवितुर्दैव्यस्य । उपस्थे विश्वा भुवनानि तस्थुः । वि सुपर्णो अन्तरिक्षाण्यख्यत् । गभीरवेपा असुरः सुनीथः । क्वेदानीꣳ सूर्यः कश्चिकेत । कतमां द्याꣳ रश्मिरस्याततान २ भगं धियं वाजयन्तः पुरन्धिम् । नराशꣳ सो ग्नास्पतिर्नो अव्यात् । आऽये वामस्य संगथे रयीणाम् । प्रिया देवस्य सवितुः स्याम । आ नो विश्वे अस्क्रा गमन्तु देवाः । मित्रो अर्यमा वरुणः सजोषाः । भुवन्यथा नो विश्वे वृधासः । करन्त्सुषहा विथुरं न शवः । शं नो देवा विश्वदेवा भवन्तु । शꣳ सरस्वती सह धीभिरस्तु ३ शमभिषाचः शमु रातिषाचः । शं नो दिव्याः पार्थिवाः शं नो अप्याः । ये सवितुः सत्यसवस्य विश्वे । मित्रस्य व्रते वरुणस्य देवाः । ते सौभगं वीरवद्गोमदप्नः । दधातन द्र विणं चित्रमस्मे । अग्ने याहि दूत्यं वारिषेण्यः । देवाꣳ अच्छा ब्रह्मकृता गणेन । सरस्वतीं मरुतो अश्विनापः । यक्षि देवान्रत्नधेयाय विश्वान् ४ द्यौः पितः पृथिवि मातरध्रुक । अग्ने भ्रातर्वसवो मृडता नः । विश्व आदित्या आदिते सजोषाः । अस्मभ्यꣳ शर्म बहुलं वियन्त । विश्वे देवाः शृणुतेमꣳ हवं मे । ये अन्तरिक्षे य उप द्यवि ष्ठ । ये अग्निजिह्वा उत वा यजत्राः । आसद्यास्मिन्बर्हिषि मादयध्वम् । आ वां मित्रावरुणा हव्यजुष्टिम् । नमसा देवावववसा ववृत्याम् ५ अस्माकं ब्रह्म पृतनासु सह्या अस्माकम् । वृष्टिर्दिव्या सुपारा । युवं वस्त्राणि पीवसा वसाथे । युवोरच्छिद्रा मन्तवो ह सर्गाः । अवातिरतमनृतानि विश्वा । ऋतेन मित्रावरुणा सचेथे । तत्सु वां मित्रावरुणा महित्वम् । ईर्मा तस्थु-षीरहभिर्दुदुह्रे । विश्वाः पिन्वथ स्वसरस्य धेनाः अनु वामेकः पविराववर्ति ६ यद्बꣳ हिष्ठं नातिविदे सुदानू ।अच्छिद्र ꣳ! शर्म भुवनस्य गोपा । ततो नो मित्रा-वरुणाववीष्टम् । सिषासन्तो जीगिवाꣳ सः स्याम । आ नो मित्रावरुणा हव्यदातिम् । घृतैर्गव्यूतिमुक्षतमिडाभिः । प्रति वामत्र वरमा जनाय । पृणीतमुद्गो दिव्यस्यं चारोः । प्र बाहवा सिसृतं जीवसे नः । आ नो गव्यूतिमुक्षतं घृतेन ७ आ नो जने श्रवयतं युवाना । श्रुतं मे मित्रावरुणा हवेमा । इमा रुद्रा य स्थिरधन्वने गिरः । क्षिप्रेषवे देवाय स्वधाम्ने । अषाढाय सहमानाय मीढुषे । तिग्मायुधाय भरता शृणोतन । त्वा दत्तेभी रुद्र शंतमेभिः । शतꣳ हिमा अशीय भेषजेभिः । व्यस्मद्द्वेषो वितरं व्यꣳ हः । व्यमीवाꣳ श्चातयस्वा विषूचीः ८ अर्हन्बिभर्षि । मा नस्तोके । ।आ ते पितर्मरुताꣳ सुम्नमेतु । मा नः सूर्यस्य संदृशो युयोथाः । अभि नो वीरो अर्वति क्षमेत । प्रजायेमहि रुद्र प्रजाभिः । एवा बभ्रो वृषभ चेकितान । यथा देव न हृणीषे न हꣳ सि । हावनश्रूर्नो रुद्रे ह बोधि । बृहद्वदेम विदथे सुवीराः । परि णो रुद्रस्य हेतिः । स्तुहि श्रुतम् ।मीढुष्टमार्हन्बिभर्षि । त्वमग्ने रुद्र । आ वो राजानम् ९

ā devo yātu savitā suratnaḥ | antarikṣaprā vahamāno aśvaiḥ | haste dadhāno naryā purūṇi | niveśayanca prasuvanca bhūma | abhīvṛtaṃ kṛśanairviśvarūpam | hiraṇyaśamyaṃ yajato bṛhantam | āsthādra tham̐ savitā citrabhānuḥ | kṛṣṇā rajām̐ si taviṣīṃ dadhānaḥ | sa ghā no devaḥ savitā savāya | āsāviṣadvasu-patirvasūni 1 viśrayamāṇo amatimurūcīm | martabhojanamadha rāsate na | vi janāñśyāvāḥ śitipādo akhyan | ratham̐ hiraṇyapraugaṃ vahantaḥ | śaśvaddiśaḥ saviturdaivyasya | upasthe viśvā bhuvanāni tasthuḥ | vi suparṇo antarikṣāṇyakhyat | gabhīravepā asuraḥ sunīthaḥ | kvedānīm̐ sūryaḥ kaściketa | katamāṃ dyām̐ raśmirasyātatāna 2 bhagaṃ dhiyaṃ vājayantaḥ purandhim | narāśam̐ so gnāspatirno avyāt | ā'ye vāmasya saṃgathe rayīṇām | priyā devasya savituḥ syāma | ā no viśve askrā gamantu devāḥ | mitro aryamā varuṇaḥ sajoṣāḥ | bhuvanyathā no viśve vṛdhāsaḥ | karantsuṣahā vithuraṃ na śavaḥ | śaṃ no devā viśvadevā bhavantu | śam̐ sarasvatī saha dhībhirastu 3 śamabhiṣācaḥ śamu rātiṣācaḥ | śaṃ no divyāḥ pārthivāḥ śaṃ no apyāḥ | ye savituḥ satyasavasya viśve | mitrasya vrate varuṇasya devāḥ | te saubhagaṃ vīravadgomadapnaḥ | dadhātana dra viṇaṃ citramasme | agne yāhi dūtyaṃ vāriṣeṇyaḥ | devām̐ acchā brahmakṛtā gaṇena | sarasvatīṃ maruto aśvināpaḥ | yakṣi devānratnadheyāya viśvān 4 dyauḥ pitaḥ pṛthivi mātaradhruka | agne bhrātarvasavo mṛḍatā naḥ | viśva ādityā ādite sajoṣāḥ | asmabhyam̐ śarma bahulaṃ viyanta | viśve devāḥ śṛṇutemam̐ havaṃ me | ye antarikṣe ya upa dyavi ṣṭha | ye agnijihvā uta vā yajatrāḥ | āsadyāsminbarhiṣi mādayadhvam | ā vāṃ mitrāvaruṇā havyajuṣṭim | namasā devāvavavasā vavṛtyām 5 asmākaṃ brahma pṛtanāsu sahyā asmākam | vṛṣṭirdivyā supārā | yuvaṃ vastrāṇi pīvasā vasāthe | yuvoracchidrā mantavo ha sargāḥ | avātiratamanṛtāni viśvā | ṛtena mitrāvaruṇā sacethe | tatsu vāṃ mitrāvaruṇā mahitvam | īrmā tasthu-ṣīrahabhirduduhre | viśvāḥ pinvatha svasarasya dhenāḥ anu vāmekaḥ pavirāvavarti 6 yadbam̐ hiṣṭhaṃ nātivide sudānū |acchidra m̐! śarma bhuvanasya gopā | tato no mitrā-varuṇāvavīṣṭam | siṣāsanto jīgivām̐ saḥ syāma | ā no mitrāvaruṇā havyadātim | ghṛtairgavyūtimukṣatamiḍābhiḥ | prati vāmatra varamā janāya | pṛṇītamudgo divyasyaṃ cāroḥ | pra bāhavā sisṛtaṃ jīvase naḥ | ā no gavyūtimukṣataṃ ghṛtena 7 ā no jane śravayataṃ yuvānā | śrutaṃ me mitrāvaruṇā havemā | imā rudrā ya sthiradhanvane giraḥ | kṣipreṣave devāya svadhāmne | aṣāḍhāya sahamānāya mīḍhuṣe | tigmāyudhāya bharatā śṛṇotana | tvā dattebhī rudra śaṃtamebhiḥ | śatam̐ himā aśīya bheṣajebhiḥ | vyasmaddveṣo vitaraṃ vyam̐ haḥ | vyamīvām̐ ścātayasvā viṣūcīḥ 8 arhanbibharṣi | mā nastoke | |ā te pitarmarutām̐ sumnametu | mā naḥ sūryasya saṃdṛśo yuyothāḥ | abhi no vīro arvati kṣameta | prajāyemahi rudra prajābhiḥ | evā babhro vṛṣabha cekitāna | yathā deva na hṛṇīṣe na ham̐ si | hāvanaśrūrno rudre ha bodhi | bṛhadvadema vidathe suvīrāḥ | pari ṇo rudrasya hetiḥ | stuhi śrutam |mīḍhuṣṭamārhanbibharṣi | tvamagne rudra | ā vo rājānam 9

Sanskrit only: no published translation is held for this verse.

सूर्यो देवीमुषसꣳ रोचमाना मर्यः । न योषामभ्येति पश्चात् । यत्रा नरो देवयन्तो युगानि । वितन्वते प्रति भद्राय भद्रम् । भद्रा अश्वा हरितः सूर्यस्य । चित्रा एदग्वा अनुमाद्यासः । नमस्यन्तो दिव आ पृष्ठमस्थुः । परि द्यावापृथिवी यन्ति सद्यः । तत्सूर्यस्य देवत्वं तन्महित्वम् । मध्या कर्तोर्विततꣳ संजभार १ यदेदयुक्त हरितः सधस्थात् । आद्रा त्री वासस्तनुते सिमस्मै । तन्मित्रस्य वरुणस्याभिचक्षे । सूर्यो रूपं कृणुते द्योरुपस्थे । अनन्तमन्यद्द्रुशदस्य पाजः । कृष्णमन्यद्धरितः संभरन्ति । अद्या देवा उदिता सूर्यस्य । निरꣳ हसः पिपृतान्निरवद्यात् । तन्नो मित्रो वरुणो मामहन्ताम् । अदितिः सिन्धुः पृथिवी उत द्यौः २ दिवो रुक्म उरुचक्षा उदेति । दूर अर्थस्तरणिर्भ्राजमानः । नूनं जनाः सूर्येण प्रसूताः । आयन्नर्थानि कृणवन्नपाꣳ सि । शं नो भव चक्षसा शं नो अह्ना । शं भानुना शꣳ हिमा शं घृणेन । यथा शमस्मै शमसद्दुरोणे । तत्सूर्य द्र विणं धेहि चित्रम् । चित्रं देवानामुदगादनीकम् । चक्षुर्मित्रस्य वरुणस्याग्नेः ३ आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्च । त्वष्टा दधत् । तन्नस्तुरीपम् । ।त्वष्टा वीरं। पिशङ्गरूपः । ।दशेमं त्वष्टुर्जनयन्त गर्भम् । अतन्द्रा सो युवतयो बिभर्त्रम् । तिग्मानीकꣳ स्वयशसं जनेषु । विरोचमानं परि षीं नयन्ति । आविष्ट्यो वर्धते चारुरासु । जिह्मानामूर्ध्वः स्वयशा उपस्थे ४ उभे त्वष्टुर्बिभ्यतुर्जायमानात् । प्रतीची सिꣳ हं प्रतिजोषयेते । मित्रो जनान् । प्र स मित्र । ।अयं मित्रो नमस्यः सुशेवः । राजा सुक्षत्रो अजनिष्ट वेधाः । तस्य वयꣳ सुमतौ यज्ञियस्य अपि भद्रे सौमनसे स्याम । अनमीवासं इडया मदन्तः । मितज्मवो वरिमन्ना पृथिव्याः । आदित्यस्य व्रतमुपक्ष्यन्तः ५ वयं मित्रस्य सुमतौ स्याम । मित्रं न ईꣳ शिम्या गोषु गव्यवत् । स्वाधियो विदथे अप्स्वजीजनन् । अरेजयताꣳ रोदसी पाजसा गिरा । प्रति प्रियं यजतं जनुषामवः । महाꣳ आदित्यो नमसोपसद्यः । यातयज्जनो गृणते सुशेवः । तस्मा एतत्पन्यतमाय जुष्टम् । अग्नौ मित्राय हविराजुहोत । आ वाꣳ रथो रोदसी बद्बधानः ६ हिरण्ययो वृषभिर्यात्वश्वैः । घृतवर्तनिः पविभी रुचानः । इषां वोढा नृपतिर्वाजिनीवान् । स पप्रथानो अभि पञ्च भूम । त्रिवन्धुरो मनसायातु युक्तः । विशो येन गच्छथो देवयन्तीः । कुत्राचिद्याममश्विना दधाना । स्वश्वा यशसायातमर्वाक् । दस्रा निधिं मधुमन्तं पिबाथः । वि वाꣳ रथो वध्वा यादमानः ७ अन्तान्दिवो बाधते वर्तनिभ्याम् । युवोः श्रियं परि योषा वृणीत । सूरो दुहिता परितक्मियायाम् । यद्देवयन्तमवथः शचीभिः । परिघ्रꣳ स वां मना वां वयो गाम् । यो ह स्य वाꣳ रथिरा वस्त उस्राः । रथो युजानः परियाति वर्तिः । तेन नः शं योरुषसो व्युष्टौ । न्यश्विना वहतं यज्ञे अस्मिन् । युवं भुज्युमवविद्धꣳ समुद्रे ८ उदूहथुरर्णसो अस्रिधानैः । पतत्रिभिरश्रमैरव्यथिभिः । दꣳ सनाभिरश्विना पारयन्ताम् । अग्नीषोमा यो अद्य वाम् । इदं वचः सपर्यति । तस्मै धत्तꣳ सुवीर्यम् । गवां पोषꣳ स्वश्वियं ।यो अग्नीषोमा हविषा सपर्यात् । देवद्री चा मनसा यो घृतेन । तस्य व्रतꣳ रक्षतं पातमꣳ हसः ९ विशे जनाय महि शर्म यच्छतम् । अग्नीषोमा य आहुतिम् । यो वां दाशाद्धविष्कृतिम् । स प्रजया सुवीर्यम् । विश्वमायुर्व्यश्नवत् । अग्नीषोमा चेति तद्वीर्यं वाम् । यदमुष्णीतमवसं पणिं गोः । अवातिरतं प्रथयस्य शेषः अविन्दतंज्योतिरेकं बहुभ्यः । अग्नीषोमाविमꣳ सु मे । ऽग्नीषोमा हविषः प्रस्थितस्य १०

sūryo devīmuṣasam̐ rocamānā maryaḥ | na yoṣāmabhyeti paścāt | yatrā naro devayanto yugāni | vitanvate prati bhadrāya bhadram | bhadrā aśvā haritaḥ sūryasya | citrā edagvā anumādyāsaḥ | namasyanto diva ā pṛṣṭhamasthuḥ | pari dyāvāpṛthivī yanti sadyaḥ | tatsūryasya devatvaṃ tanmahitvam | madhyā kartorvitatam̐ saṃjabhāra 1 yadedayukta haritaḥ sadhasthāt | ādrā trī vāsastanute simasmai | tanmitrasya varuṇasyābhicakṣe | sūryo rūpaṃ kṛṇute dyorupasthe | anantamanyaddruśadasya pājaḥ | kṛṣṇamanyaddharitaḥ saṃbharanti | adyā devā uditā sūryasya | niram̐ hasaḥ pipṛtānniravadyāt | tanno mitro varuṇo māmahantām | aditiḥ sindhuḥ pṛthivī uta dyauḥ 2 divo rukma urucakṣā udeti | dūra arthastaraṇirbhrājamānaḥ | nūnaṃ janāḥ sūryeṇa prasūtāḥ | āyannarthāni kṛṇavannapām̐ si | śaṃ no bhava cakṣasā śaṃ no ahnā | śaṃ bhānunā śam̐ himā śaṃ ghṛṇena | yathā śamasmai śamasadduroṇe | tatsūrya dra viṇaṃ dhehi citram | citraṃ devānāmudagādanīkam | cakṣurmitrasya varuṇasyāgneḥ 3 āprā dyāvāpṛthivī antarikṣam | sūrya ātmā jagatastasthuṣaśca | tvaṣṭā dadhat | tannasturīpam | |tvaṣṭā vīraṃ| piśaṅgarūpaḥ | |daśemaṃ tvaṣṭurjanayanta garbham | atandrā so yuvatayo bibhartram | tigmānīkam̐ svayaśasaṃ janeṣu | virocamānaṃ pari ṣīṃ nayanti | āviṣṭyo vardhate cārurāsu | jihmānāmūrdhvaḥ svayaśā upasthe 4 ubhe tvaṣṭurbibhyaturjāyamānāt | pratīcī sim̐ haṃ pratijoṣayete | mitro janān | pra sa mitra | |ayaṃ mitro namasyaḥ suśevaḥ | rājā sukṣatro ajaniṣṭa vedhāḥ | tasya vayam̐ sumatau yajñiyasya api bhadre saumanase syāma | anamīvāsaṃ iḍayā madantaḥ | mitajmavo varimannā pṛthivyāḥ | ādityasya vratamupakṣyantaḥ 5 vayaṃ mitrasya sumatau syāma | mitraṃ na īm̐ śimyā goṣu gavyavat | svādhiyo vidathe apsvajījanan | arejayatām̐ rodasī pājasā girā | prati priyaṃ yajataṃ januṣāmavaḥ | mahām̐ ādityo namasopasadyaḥ | yātayajjano gṛṇate suśevaḥ | tasmā etatpanyatamāya juṣṭam | agnau mitrāya havirājuhota | ā vām̐ ratho rodasī badbadhānaḥ 6 hiraṇyayo vṛṣabhiryātvaśvaiḥ | ghṛtavartaniḥ pavibhī rucānaḥ | iṣāṃ voḍhā nṛpatirvājinīvān | sa paprathāno abhi pañca bhūma | trivandhuro manasāyātu yuktaḥ | viśo yena gacchatho devayantīḥ | kutrācidyāmamaśvinā dadhānā | svaśvā yaśasāyātamarvāk | dasrā nidhiṃ madhumantaṃ pibāthaḥ | vi vām̐ ratho vadhvā yādamānaḥ 7 antāndivo bādhate vartanibhyām | yuvoḥ śriyaṃ pari yoṣā vṛṇīta | sūro duhitā paritakmiyāyām | yaddevayantamavathaḥ śacībhiḥ | parighram̐ sa vāṃ manā vāṃ vayo gām | yo ha sya vām̐ rathirā vasta usrāḥ | ratho yujānaḥ pariyāti vartiḥ | tena naḥ śaṃ yoruṣaso vyuṣṭau | nyaśvinā vahataṃ yajñe asmin | yuvaṃ bhujyumavaviddham̐ samudre 8 udūhathurarṇaso asridhānaiḥ | patatribhiraśramairavyathibhiḥ | dam̐ sanābhiraśvinā pārayantām | agnīṣomā yo adya vām | idaṃ vacaḥ saparyati | tasmai dhattam̐ suvīryam | gavāṃ poṣam̐ svaśviyaṃ |yo agnīṣomā haviṣā saparyāt | devadrī cā manasā yo ghṛtena | tasya vratam̐ rakṣataṃ pātamam̐ hasaḥ 9 viśe janāya mahi śarma yacchatam | agnīṣomā ya āhutim | yo vāṃ dāśāddhaviṣkṛtim | sa prajayā suvīryam | viśvamāyurvyaśnavat | agnīṣomā ceti tadvīryaṃ vām | yadamuṣṇītamavasaṃ paṇiṃ goḥ | avātirataṃ prathayasya śeṣaḥ avindataṃjyotirekaṃ bahubhyaḥ | agnīṣomāvimam̐ su me | 'gnīṣomā haviṣaḥ prasthitasya 10

Sanskrit only: no published translation is held for this verse.

अहमस्मि प्रथमजा ऋतस्य । पूर्वं देवेभ्यो अमृतस्य नाभिः । यो मा ददाति स इदेव मावाः । अहमन्नमन्नमदन्तमद्मि । पूर्वमग्नेरपि दहत्यन्नम् । यत्तौ हासाते अहमुत्तरेषु । व्यात्तमस्य पशवः सुजम्भम् । पश्यन्ति धीराः प्रचरन्ति पाकाः । जहाम्यन्यं न जहाम्यन्यम् । अहमन्नं वशमिच्चरामि १ समानमर्थं पर्येमि भुञ्जत् । को मामन्नं मनुष्यो दयेत । पराके अन्नं निहितं लोक एतत् । विश्वैर्देवैः पितृभिर्गुप्तमन्नम् । यदद्यते लुप्यते यत्परोप्यते । शततमी सा तनूर्मे बभूव । महान्तौ चरू सकृद्दुग्धेन पप्रौ । दिवं च पृश्नि पृथिवीं च साकम् । तत्संपिबन्तो न मिनन्ति वेधसः । नैतद्भूयो भवति नो कनीयः २ अन्नं प्राणमन्नमपानमाहुः । अन्नं मृत्युं तमु जीवातुमाहुः । अन्नं ब्रह्माणो जरसं वदन्ति । अन्नमाहुः प्रजननं प्रजानाम् । मोघमन्नं विन्दते अप्रचेताः । सत्यं ब्रवीमि वध इत्स तस्य । नार्यमणं पुष्यति नो सखायम् । केवलाघो भवति केवलादी ।अहं मेघः स्तनयन्वर्षन्नस्मि । मामदन्त्यहमद्म्यन्यान् ३ अहꣳ सदमृतो भवामि । मदादित्या अधि सर्वे तपन्ति । देवीं वाचमजनयन्त । यद्वाग्वदन्ति । अनन्तामन्तादधि निर्मितां महीम् । यस्यां देवा अद-धुर्भोजनानि । एकाक्षरां द्विपदाꣳ षट्पदां च । वाचं देवा उपजीवन्ति विश्वे । वाचं देवा उपजीवन्ति विश्वे । वाचं गन्धर्वाः पशवो मनुष्याः । वाचीमा विश्वा भुवनान्यर्पिता ४ सा नो हवं जुषतामिन्द्र पत्नी ।वागक्षरं प्रथमजा ऋतस्य । वेदानां मातामृतस्य नाभिः । सा नो जुषाणोऽपयज्ञमागात् । अवन्ती देवी सुहवा मे अस्तु । यामृषयो मन्त्रकृतो मनीषिणः । अन्वैच्छन्देवास्तपसा श्रमेण । तां देवीं वाचꣳ हविषा यजामहे । सा नो दधातु सुकृतस्य लोके । चत्वारि वाक्परि-मिता पदानि ५ तानि विदुर्ब्राह्मणा ये मनीषिणः । गुहा त्रीणि निहिता नेङ्गयन्ति । तुरीयं वाचो मनुष्या वदन्ति । श्रद्धयाग्निः समिध्यते । श्रद्धया विन्दते हविः । श्रद्धां भगस्य मूर्धनि । वचसावेदयामसि । प्रियꣳ श्रद्धे ददतः । प्रियꣳ श्रद्धे दिदासतः । प्रियं भोजेषु यज्वसु ६ इदं म उदितं कृधि । यथा देवा असुरेषु । श्रद्धामुग्रेषु चक्रिरे । एवं भोजेषु यज्वसु । अस्माकमुदितं कृधि । श्रद्धां देवा यजमानाः । वायुगोपा उपासते । श्रद्धाꣳ हृदय्ययाकूत्या । श्रद्धया हूयते हविः । श्रद्धां प्रातर्हवामहे ७ श्रद्धां मध्यंदिनं परि । श्रद्धाꣳ सूर्यस्य निम्रुचि । श्रद्धे श्रद्धापयेह मा । श्रद्धा देवानधिवस्ते । श्रद्धा विश्वमिदं जगत् । श्रद्धां कामस्य मातरम् । हविषा वर्धयामसि । ब्रह्म जज्ञानं प्रथमं पुरस्तात् । वि सीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः ८ सतश्च योनिमसतश्च विवः । पिता विराजामृषभो रयीणाम् । अन्तरिक्षं विश्वरूप आविवेश । तमर्कैरभ्यर्चन्ति वह्सम् । ब्रह्म सन्तं ब्रह्मणा वर्धयन्तः । ब्रह्म देवानजनयत् । ब्रह्म विश्वमिदं जगत् । ब्रह्मणः क्षत्रं निर्मितम् । ब्रह्म ब्राह्मण आत्मना । अन्तरस्मिन्निमे लोकाः ९ अन्तर्विश्वमिदं जगत् । ब्रह्मैव भूतानां ज्येष्ठम् । तेन कोऽर्हति स्पर्धितुम् । ब्रह्मन्देवास्त्रयस्त्रिꣳ शत् । ब्रह्मन्निन्द्र प्रजापती ।ब्रह्मन्ह विश्वा भूतानि । नावीवान्तः समाहिता । चतस्र आशाः प्रचरन्त्वग्नयः । इमं नो यज्ञं नयतु प्रजानन् । घृतं पिन्वन्नजरं सुवीरम् १० ब्रह्म समिद्भवत्याहुतीनाम् । आ गावो अग्मन्नुत भद्र मक्रन् । सीदन्तु गोष्ठे रणयन्त्वस्मे । प्रजावतीः पुरुरूपा इह स्युः । इन्द्रा य पूर्वीरुषसो दुहानाः । इन्द्रो यज्वने पृणते च शिक्षति । उपेद्ददाति न स्वं मुषायति । भूयोभूयो रयिमिदस्य वर्धयन् । अभिन्ने खिल्ले निदधाति देवयुम् । न ता नशन्ति । न ता अर्वा ११ गावो भगो गाव इन्द्रो मे अच्छात् । गावः सोमस्य प्रथमस्य भक्षः । इमा या गावः स जनास इन्द्रः । इच्छामीद्धृदा मनसा चिदिन्द्र म् । यूयं गावो मेदयथा कृशं चित् । अश्लीलं चित्कृणुथा सुप्रतीकम् । भद्रं गृहं कृणुथ भद्र वाचः । बृहद्वो वय उच्यते सभासु । प्रजावतीः सूयवसꣳ रिशन्तीः । शुद्धा अप सुप्रपाणे पिबन्तीः । मा वः स्तेन ईशत माघशꣳ सः । परि वो हेती रुद्र स्य वृञ्ज्यात् । उपेदमुपपर्चनम् । आसु गोषूपपृच्यताम् । उपर्षभस्य रेतसि । उपेन्द्र तव वीर्ये १२

ahamasmi prathamajā ṛtasya | pūrvaṃ devebhyo amṛtasya nābhiḥ | yo mā dadāti sa ideva māvāḥ | ahamannamannamadantamadmi | pūrvamagnerapi dahatyannam | yattau hāsāte ahamuttareṣu | vyāttamasya paśavaḥ sujambham | paśyanti dhīrāḥ pracaranti pākāḥ | jahāmyanyaṃ na jahāmyanyam | ahamannaṃ vaśamiccarāmi 1 samānamarthaṃ paryemi bhuñjat | ko māmannaṃ manuṣyo dayeta | parāke annaṃ nihitaṃ loka etat | viśvairdevaiḥ pitṛbhirguptamannam | yadadyate lupyate yatparopyate | śatatamī sā tanūrme babhūva | mahāntau carū sakṛddugdhena paprau | divaṃ ca pṛśni pṛthivīṃ ca sākam | tatsaṃpibanto na minanti vedhasaḥ | naitadbhūyo bhavati no kanīyaḥ 2 annaṃ prāṇamannamapānamāhuḥ | annaṃ mṛtyuṃ tamu jīvātumāhuḥ | annaṃ brahmāṇo jarasaṃ vadanti | annamāhuḥ prajananaṃ prajānām | moghamannaṃ vindate apracetāḥ | satyaṃ bravīmi vadha itsa tasya | nāryamaṇaṃ puṣyati no sakhāyam | kevalāgho bhavati kevalādī |ahaṃ meghaḥ stanayanvarṣannasmi | māmadantyahamadmyanyān 3 aham̐ sadamṛto bhavāmi | madādityā adhi sarve tapanti | devīṃ vācamajanayanta | yadvāgvadanti | anantāmantādadhi nirmitāṃ mahīm | yasyāṃ devā ada-dhurbhojanāni | ekākṣarāṃ dvipadām̐ ṣaṭpadāṃ ca | vācaṃ devā upajīvanti viśve | vācaṃ devā upajīvanti viśve | vācaṃ gandharvāḥ paśavo manuṣyāḥ | vācīmā viśvā bhuvanānyarpitā 4 sā no havaṃ juṣatāmindra patnī |vāgakṣaraṃ prathamajā ṛtasya | vedānāṃ mātāmṛtasya nābhiḥ | sā no juṣāṇo'payajñamāgāt | avantī devī suhavā me astu | yāmṛṣayo mantrakṛto manīṣiṇaḥ | anvaicchandevāstapasā śrameṇa | tāṃ devīṃ vācam̐ haviṣā yajāmahe | sā no dadhātu sukṛtasya loke | catvāri vākpari-mitā padāni 5 tāni vidurbrāhmaṇā ye manīṣiṇaḥ | guhā trīṇi nihitā neṅgayanti | turīyaṃ vāco manuṣyā vadanti | śraddhayāgniḥ samidhyate | śraddhayā vindate haviḥ | śraddhāṃ bhagasya mūrdhani | vacasāvedayāmasi | priyam̐ śraddhe dadataḥ | priyam̐ śraddhe didāsataḥ | priyaṃ bhojeṣu yajvasu 6 idaṃ ma uditaṃ kṛdhi | yathā devā asureṣu | śraddhāmugreṣu cakrire | evaṃ bhojeṣu yajvasu | asmākamuditaṃ kṛdhi | śraddhāṃ devā yajamānāḥ | vāyugopā upāsate | śraddhām̐ hṛdayyayākūtyā | śraddhayā hūyate haviḥ | śraddhāṃ prātarhavāmahe 7 śraddhāṃ madhyaṃdinaṃ pari | śraddhām̐ sūryasya nimruci | śraddhe śraddhāpayeha mā | śraddhā devānadhivaste | śraddhā viśvamidaṃ jagat | śraddhāṃ kāmasya mātaram | haviṣā vardhayāmasi | brahma jajñānaṃ prathamaṃ purastāt | vi sīmataḥ suruco vena āvaḥ | sa budhniyā upamā asya viṣṭhāḥ 8 sataśca yonimasataśca vivaḥ | pitā virājāmṛṣabho rayīṇām | antarikṣaṃ viśvarūpa āviveśa | tamarkairabhyarcanti vahsam | brahma santaṃ brahmaṇā vardhayantaḥ | brahma devānajanayat | brahma viśvamidaṃ jagat | brahmaṇaḥ kṣatraṃ nirmitam | brahma brāhmaṇa ātmanā | antarasminnime lokāḥ 9 antarviśvamidaṃ jagat | brahmaiva bhūtānāṃ jyeṣṭham | tena ko'rhati spardhitum | brahmandevāstrayastrim̐ śat | brahmannindra prajāpatī |brahmanha viśvā bhūtāni | nāvīvāntaḥ samāhitā | catasra āśāḥ pracarantvagnayaḥ | imaṃ no yajñaṃ nayatu prajānan | ghṛtaṃ pinvannajaraṃ suvīram 10 brahma samidbhavatyāhutīnām | ā gāvo agmannuta bhadra makran | sīdantu goṣṭhe raṇayantvasme | prajāvatīḥ pururūpā iha syuḥ | indrā ya pūrvīruṣaso duhānāḥ | indro yajvane pṛṇate ca śikṣati | upeddadāti na svaṃ muṣāyati | bhūyobhūyo rayimidasya vardhayan | abhinne khille nidadhāti devayum | na tā naśanti | na tā arvā 11 gāvo bhago gāva indro me acchāt | gāvaḥ somasya prathamasya bhakṣaḥ | imā yā gāvaḥ sa janāsa indraḥ | icchāmīddhṛdā manasā cidindra m | yūyaṃ gāvo medayathā kṛśaṃ cit | aślīlaṃ citkṛṇuthā supratīkam | bhadraṃ gṛhaṃ kṛṇutha bhadra vācaḥ | bṛhadvo vaya ucyate sabhāsu | prajāvatīḥ sūyavasam̐ riśantīḥ | śuddhā apa suprapāṇe pibantīḥ | mā vaḥ stena īśata māghaśam̐ saḥ | pari vo hetī rudra sya vṛñjyāt | upedamupaparcanam | āsu goṣūpapṛcyatām | uparṣabhasya retasi | upendra tava vīrye 12

Sanskrit only: no published translation is held for this verse.

ता सूर्याचन्द्र मसा विश्वभृत्तमा महत् । तेजो वसुमद्रा जतो दिवि । सामात्माना चरतः सामचारिणा । ययोर्व्रतं न ममे जातु देवयोः । उभावन्तौ परियात अर्म्या । दिवो न रश्मीꣳ स्तनुतो व्यर्णवे । उभा भुवन्ती भुवना कविक्रतू ।सूर्या न चन्द्रा चरतो हतामती ।पती द्युमद्विश्वविदा उभा दिवः । सूर्या उभा चन्द्र मसा विचक्षणा १ विश्ववारा विरिवोभा वरेण्या । ता नोऽवतं मतिमन्ता महिव्रता । विश्ववपरी प्रतरणा तरन्ता । सुवर्विदा दृशये भूरिरश्मी ।सूर्या हि चन्द्रा वसु त्वेष दर्शता । मनस्विनोभानुचरतो नु सं दिवम् । अस्य श्रवो नद्यः सप्त बिभ्रति । द्यावाक्षामा पृथिवी दर्शतं वपुः । अस्मे सूर्याचन्द्र मसाभिचक्षे । श्रद्धे कमिन्द्र चरतो विचर्तुरम् २ पूर्वापरं चरतो माययैतौ । शिशू क्रीडन्तौ परियातो अध्वरम् । विश्वान्यन्यो भुवनाभिचष्टे । ऋतूनन्यो विदधज्जायते पुनः । हिरण्यवर्णाः शुचयः पावका । यासाꣳ राजा । ।यासां देवाः । शिवेन मा चक्षुषा पश्यत । ।आपो भद्रा । आदित्पश्यामि । ।नासदासीन्नो सदासीत्तदानीम् । नासीद्र जो नो व्योमापरो यत् । किमावरीवः कुह कस्य शर्मन् ३ अम्भः किमासीद्गहनं गभीरम् । न मृत्युरमृतं तर्हि न रात्रिया अह्न आसीत्प्रकेतः । आनीदवातꣳ स्वधया तदेकम् । तस्माद्धान्यं न परः किं चनास । तम आसीत्तमसा गूढमग्रे प्रकेतम् । सलिलꣳ सर्वमा इदम् । तुच्छेनाभ्वपिहितं यदासीत् । तमसस्तन्महिनाजायतैकम् । कामस्तदग्रे समवर्तताधि ४ मनसो रेतः प्रथमं यदासीत् । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषा । तिरश्चीनो विततो रश्मिरेषाम् । अधः स्विदासी३दुपरि स्विदासी३त् । रेतोधा आसन्महिमान आसन् । स्वधा अवस्तात्प्रयतिः परस्तात् । को अद्धा वेद क इह प्रवोचत् । कुत आजाता कुत इयं विसृष्टिः । अर्वाग्देवा अस्य विसर्जनाय ५ अथा को वेद यत आबभूव । इयं विसृष्टिर्यत आबभूव । यदि वा दधे यदि वा न । यो अस्याध्यक्षः परमे व्योमन् । सो अङ्ग वेद यदि वा न वेद । किꣳ स्विद्वनं क उ स वृक्ष आसीत् । यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा पृच्छतेदु तत् । यदध्यतिष्ठद्भुवनानि धारयन् । ब्रह्म वनं ब्रह्म स वृक्ष आसीत् ६ यतो द्यावापृथिवी निष्टतक्षुः । मनीषिणो मनसा विब्रवीमि वः । ब्रह्माध्य-तिष्ठद्भुवनानि धारयन् । प्रातरग्निं प्रातरिन्द्र ꣳ! हवामहे । प्रातर्मित्रावरुणा प्रातरश्विना । प्रातर्भगं पूषणं ब्रह्मणस्पतिम् । प्रातः सोममुत रुद्र ꣳ! हुवेम । प्रातर्जितं भगमुग्रꣳ हुवेम । वयं पुत्रमदितेर्यो विधर्ता । आध्रश्चिद्यं मन्यमानस्तुरश्चित् ७ राजा चिद्यं भगं भक्षीत्याह । भग प्रणेतर्भग सत्यराधः । भगेमां धियमुदव ददन्नः । भग प्र णो जनय गोभिरश्वैः । भग प्र नृभिर्नृवन्तः स्याम । उतेदानीं भगवन्तः स्याम । उत प्रपित्व उत मध्ये अह्नाम् । उतोदिता मघवन्त्सूर्यस्य । वयं देवानाꣳ सुमतौ स्याम । भग एव भगवाꣳ अस्तु देवाः ८ तेन वयं भगवन्तः स्याम । तं त्वा भग सर्व इज्जोहवीमि । स नो भग पुर एता भवेह । समध्वरायोषसो नमन्त । दधिक्रावेव शुचये पदाय । अर्वाचीनं वसुविदं भगं नः । रथमिवाश्वा वाजिन आवहन्तु । अश्वावतीर्गोमतीर्न उषासः । वीरवतीः सदमुच्छन्तु भद्रा ः! । घृतं दुहाना विश्वतः प्रपीनाः । यूयं पात स्वस्तिभिः सदा नः ९

tā sūryācandra masā viśvabhṛttamā mahat | tejo vasumadrā jato divi | sāmātmānā carataḥ sāmacāriṇā | yayorvrataṃ na mame jātu devayoḥ | ubhāvantau pariyāta armyā | divo na raśmīm̐ stanuto vyarṇave | ubhā bhuvantī bhuvanā kavikratū |sūryā na candrā carato hatāmatī |patī dyumadviśvavidā ubhā divaḥ | sūryā ubhā candra masā vicakṣaṇā 1 viśvavārā virivobhā vareṇyā | tā no'vataṃ matimantā mahivratā | viśvavaparī prataraṇā tarantā | suvarvidā dṛśaye bhūriraśmī |sūryā hi candrā vasu tveṣa darśatā | manasvinobhānucarato nu saṃ divam | asya śravo nadyaḥ sapta bibhrati | dyāvākṣāmā pṛthivī darśataṃ vapuḥ | asme sūryācandra masābhicakṣe | śraddhe kamindra carato vicarturam 2 pūrvāparaṃ carato māyayaitau | śiśū krīḍantau pariyāto adhvaram | viśvānyanyo bhuvanābhicaṣṭe | ṛtūnanyo vidadhajjāyate punaḥ | hiraṇyavarṇāḥ śucayaḥ pāvakā | yāsām̐ rājā | |yāsāṃ devāḥ | śivena mā cakṣuṣā paśyata | |āpo bhadrā | āditpaśyāmi | |nāsadāsīnno sadāsīttadānīm | nāsīdra jo no vyomāparo yat | kimāvarīvaḥ kuha kasya śarman 3 ambhaḥ kimāsīdgahanaṃ gabhīram | na mṛtyuramṛtaṃ tarhi na rātriyā ahna āsītpraketaḥ | ānīdavātam̐ svadhayā tadekam | tasmāddhānyaṃ na paraḥ kiṃ canāsa | tama āsīttamasā gūḍhamagre praketam | salilam̐ sarvamā idam | tucchenābhvapihitaṃ yadāsīt | tamasastanmahinājāyataikam | kāmastadagre samavartatādhi 4 manaso retaḥ prathamaṃ yadāsīt | sato bandhumasati niravindan | hṛdi pratīṣyā kavayo manīṣā | tiraścīno vitato raśmireṣām | adhaḥ svidāsī3dupari svidāsī3t | retodhā āsanmahimāna āsan | svadhā avastātprayatiḥ parastāt | ko addhā veda ka iha pravocat | kuta ājātā kuta iyaṃ visṛṣṭiḥ | arvāgdevā asya visarjanāya 5 athā ko veda yata ābabhūva | iyaṃ visṛṣṭiryata ābabhūva | yadi vā dadhe yadi vā na | yo asyādhyakṣaḥ parame vyoman | so aṅga veda yadi vā na veda | kim̐ svidvanaṃ ka u sa vṛkṣa āsīt | yato dyāvāpṛthivī niṣṭatakṣuḥ | manīṣiṇo manasā pṛcchatedu tat | yadadhyatiṣṭhadbhuvanāni dhārayan | brahma vanaṃ brahma sa vṛkṣa āsīt 6 yato dyāvāpṛthivī niṣṭatakṣuḥ | manīṣiṇo manasā vibravīmi vaḥ | brahmādhya-tiṣṭhadbhuvanāni dhārayan | prātaragniṃ prātarindra m̐! havāmahe | prātarmitrāvaruṇā prātaraśvinā | prātarbhagaṃ pūṣaṇaṃ brahmaṇaspatim | prātaḥ somamuta rudra m̐! huvema | prātarjitaṃ bhagamugram̐ huvema | vayaṃ putramaditeryo vidhartā | ādhraścidyaṃ manyamānasturaścit 7 rājā cidyaṃ bhagaṃ bhakṣītyāha | bhaga praṇetarbhaga satyarādhaḥ | bhagemāṃ dhiyamudava dadannaḥ | bhaga pra ṇo janaya gobhiraśvaiḥ | bhaga pra nṛbhirnṛvantaḥ syāma | utedānīṃ bhagavantaḥ syāma | uta prapitva uta madhye ahnām | utoditā maghavantsūryasya | vayaṃ devānām̐ sumatau syāma | bhaga eva bhagavām̐ astu devāḥ 8 tena vayaṃ bhagavantaḥ syāma | taṃ tvā bhaga sarva ijjohavīmi | sa no bhaga pura etā bhaveha | samadhvarāyoṣaso namanta | dadhikrāveva śucaye padāya | arvācīnaṃ vasuvidaṃ bhagaṃ naḥ | rathamivāśvā vājina āvahantu | aśvāvatīrgomatīrna uṣāsaḥ | vīravatīḥ sadamucchantu bhadrā ḥ! | ghṛtaṃ duhānā viśvataḥ prapīnāḥ | yūyaṃ pāta svastibhiḥ sadā naḥ 9

Sanskrit only: no published translation is held for this verse.