Library·Brahmasiddhi·2

Brahmasiddhi 2

दृष्टस्मृताविवेकाच्चेदिदमत्र परीक्ष्यताम् । तत्त्वबोधादथातत्त्वाबोधाद्रजतवेदनात्

dṛṣṭasmṛtāvivekāccedidamatra parīkṣyatām / tattvabodhādathātattvābodhādrajatavedanāt

Sanskrit only: no published translation is held for this verse.

दृष्टे प्रवृत्तिः पूर्वस्मिन्विपरीतार्थता मतेः । न दृष्टादृष्टयोर्भेदः परस्मिन्नोपयोगिनी

dṛṣṭe pravṛttiḥ pūrvasminviparītārthatā mateḥ / na dṛṣṭādṛṣṭayorbhedaḥ parasminnopayoginī

Sanskrit only: no published translation is held for this verse.

स्वयोगदर्शने ते हि समारोपोपयोगिनी । नादृष्टे ऽसंप्रयुक्ते वा चाक्षुषः स्याद्विपर्ययः

svayogadarśane te hi samāropopayoginī / nādṛṣṭe 'saṃprayukte vā cākṣuṣaḥ syādviparyayaḥ

Sanskrit only: no published translation is held for this verse.

यदि चक्षुषा संप्रयुक्तं शुक्तिशकलं ‘न रजतम्ऽ; इति प्रतीयात्, रजतं वा तथा, न शुक्तिकाशकल आदित्सया प्रवर्तेत रजतार्थी, तस्य ‘रजतम्ऽ; [क्क्स् १३८] इत्यनवगतेर्लोष्टादिवत् । न च स्मर्यमाणे रजते सा प्रवृत्तिः, तद्देशासंनिधेः । न हि प्रतीतिमुपगते ऽपि वस्तुनि यत्र तस्यासंनिधिस्तत्र तेनार्थी प्रवर्तते । स्यादेतत् -- रजतस्य प्रतीतेरसंनिधेश्चाप्रतीतेस्तत्र प्रवृत्तिः । तन्न, शुक्तिकाशकल एव प्रवृत्तेः । तत्रैव तु प्रवृत्तिस्तत्संनिधिनिबन्धना । रजतमात्रप्रतीतेः स्मृतिविवेकशून्यत्वाच्च प्रवृत्तिरन्यत्रापि स्यात्, असंनिधानाग्रहणस्य तत्राप्यविशेषात् । अथ मतम् -- अन्यदेशेषु वस्तुषु सविशेषप्रत्यक्षावगतेषु रजताद्विवेकग्रहणादप्रवृत्तिः, शुक्तिकाशकले तु रजतसाधारणशुक्लभास्वररूपमात्रप्रतीतेर्विशेषात्प्रत्ययाच्च स्मृतिविपरिवर्तिनो रजताद्विवेकग्रहणात्प्रवृत्तिः । एवमप्यदृष्टेषु लोकादिषु ततो ऽन्यतानवधारणात्प्रवृत्तिः स्यात् । अथ न तेषु रजतावगमः, इतरत्रापि न । भावे वा विपरीता ख्यातिरभ्युपगता स्यात् । अथादृष्टत्वादेवादृष्टेषु न प्रवर्तते, शुक्तावपि न प्रवर्तेत । ननु यत्तु तथा रजतरूपम्, न तेनावगमः । स यथा चक्षुषासंप्रयुक्तस्य नास्ति, तथा संप्रयुक्ताया अपि शुक्तेः । यदि मन्येत -- दृश्यमानस्मर्यमाणयोगविवेकाच्चक्षुःसंप्रयुक्त एव प्रवर्तते, नेतरस्मिन् । तत्रापीदं विचार्यम् -- विवेकग्रहणस्य विवेककृतो ऽभावात्संनिधिप्रतीतेरभेदबोधस्ततो वा प्रवृत्तिः, भेदावबोधाभावमात्राद्वा? पूर्वस्मिन्विपर्ययः, उत्तरस्मिन् दृश्यमानादृश्यमानयोः संप्रयुक्तासंप्रयुक्तयोर्वा न विशेषः, भेदाग्रहणस्य तुल्यत्वात् । न हीन्द्रियसंयोगस्य दर्शनस्य वा कश्चिदग्रह उपयोगः, अभूतसमारोपे त्वस्ति । न कथञ्चिदगृहीते ऽसंप्रयुक्ते वैन्द्रियकः समारोप उपपद्यते । स्मृतं प्रत्यक्षतो भिन्नं स्वज्ञानादेव चेत्कुतः । [क्क्स् १३९] अविवेको ऽन्यथा तु स्यात्सदा सामान्यदर्शने

yadi cakṣuṣā saṃprayuktaṃ śuktiśakalaṃ ‘na rajatam'; iti pratīyāt, rajataṃ vā tathā, na śuktikāśakala āditsayā pravarteta rajatārthī, tasya ‘rajatam'; [KKS 138] ityanavagaterloṣṭādivat / na ca smaryamāṇe rajate sā pravṛttiḥ, taddeśāsaṃnidheḥ / na hi pratītimupagate 'pi vastuni yatra tasyāsaṃnidhistatra tenārthī pravartate / syādetat -- rajatasya pratīterasaṃnidheścāpratītestatra pravṛttiḥ / tanna, śuktikāśakala eva pravṛtteḥ / tatraiva tu pravṛttistatsaṃnidhinibandhanā / rajatamātrapratīteḥ smṛtivivekaśūnyatvācca pravṛttiranyatrāpi syāt, asaṃnidhānāgrahaṇasya tatrāpyaviśeṣāt / atha matam -- anyadeśeṣu vastuṣu saviśeṣapratyakṣāvagateṣu rajatādvivekagrahaṇādapravṛttiḥ, śuktikāśakale tu rajatasādhāraṇaśuklabhāsvararūpamātrapratīterviśeṣātpratyayācca smṛtiviparivartino rajatādvivekagrahaṇātpravṛttiḥ / evamapyadṛṣṭeṣu lokādiṣu tato 'nyatānavadhāraṇātpravṛttiḥ syāt / atha na teṣu rajatāvagamaḥ, itaratrāpi na / bhāve vā viparītā khyātirabhyupagatā syāt / athādṛṣṭatvādevādṛṣṭeṣu na pravartate, śuktāvapi na pravarteta / nanu yattu tathā rajatarūpam, na tenāvagamaḥ / sa yathā cakṣuṣāsaṃprayuktasya nāsti, tathā saṃprayuktāyā api śukteḥ / yadi manyeta -- dṛśyamānasmaryamāṇayogavivekāccakṣuḥsaṃprayukta eva pravartate, netarasmin / tatrāpīdaṃ vicāryam -- vivekagrahaṇasya vivekakṛto 'bhāvātsaṃnidhipratīterabhedabodhastato vā pravṛttiḥ, bhedāvabodhābhāvamātrādvā? pūrvasminviparyayaḥ, uttarasmin dṛśyamānādṛśyamānayoḥ saṃprayuktāsaṃprayuktayorvā na viśeṣaḥ, bhedāgrahaṇasya tulyatvāt / na hīndriyasaṃyogasya darśanasya vā kaścidagraha upayogaḥ, abhūtasamārope tvasti / na kathañcidagṛhīte 'saṃprayukte vaindriyakaḥ samāropa upapadyate / smṛtaṃ pratyakṣato bhinnaṃ svajñānādeva cetkutaḥ / [KKS 139] aviveko 'nyathā tu syātsadā sāmānyadarśane

Sanskrit only: no published translation is held for this verse.

विपर्ययो ऽन्यं स्मरतो न च संशयदर्शनात् । स्मृतद्वयाविवेकोत्थं संशयं यदि मन्यते

viparyayo 'nyaṃ smarato na ca saṃśayadarśanāt / smṛtadvayāvivekotthaṃ saṃśayaṃ yadi manyate

Sanskrit only: no published translation is held for this verse.

तन्नोभयोरपि यतः स्मृतौ दृष्टो विपर्ययः । विशेषज्ञानतो ऽध्यक्षे स्मृतं यदि विविच्यते

tannobhayorapi yataḥ smṛtau dṛṣṭo viparyayaḥ / viśeṣajñānato 'dhyakṣe smṛtaṃ yadi vivicyate

Sanskrit only: no published translation is held for this verse.

न स्वज्ञानादसत्यस्मिन्द्विस्मृतौ कथमेकधीः । एकत्वमेव स्मरतः प्राग्रूपं शशिनि स्फुटम्

na svajñānādasatyasmindvismṛtau kathamekadhīḥ / ekatvameva smarataḥ prāgrūpaṃ śaśini sphuṭam

Sanskrit only: no published translation is held for this verse.

तिमिरादिप्रदोषेण कथं ते द्वित्वविभ्रमः । पिपासतश्च सलिलं शुक्तिकाहितचेतसः

timirādipradoṣeṇa kathaṃ te dvitvavibhramaḥ / pipāsataśca salilaṃ śuktikāhitacetasaḥ

Sanskrit only: no published translation is held for this verse.

न च ज्ञानेन्द्रियवृत्तिभेदाविवेकात्, तयोरप्रत्यक्षत्वात्स्मर्यमाणत्वाच्च । शुक्तिकाहितचेतसश्च सलिलं पिपासतो न स्याद्विपर्ययः । सलिलाभासो वा, स्मर्यमाणस्य स्वज्ञानविवेकात् । न च सर्वा नियोगेन भ्रान्तिः सादृश्यबन्धना

na ca jñānendriyavṛttibhedāvivekāt, tayorapratyakṣatvātsmaryamāṇatvācca / śuktikāhitacetasaśca salilaṃ pipāsato na syādviparyayaḥ / salilābhāso vā, smaryamāṇasya svajñānavivekāt / na ca sarvā niyogena bhrāntiḥ sādṛśyabandhanā

Sanskrit only: no published translation is held for this verse.

श्वेते पीतभ्रमो दृष्टो मधुरे तिक्तविभ्रमः । किञ्चित्सादृश्यतो हि स्यान्न कश्चित्तत्र न भ्रमः

śvete pītabhramo dṛṣṭo madhure tiktavibhramaḥ / kiñcitsādṛśyato hi syānna kaścittatra na bhramaḥ

Sanskrit only: no published translation is held for this verse.

तस्मादिन्द्रियदोषाणां सामर्थ्यस्य विभागतः । भ्रमेषु नियमो दोषादग्रहे न भ्रमे यमः

tasmādindriyadoṣāṇāṃ sāmarthyasya vibhāgataḥ / bhrameṣu niyamo doṣādagrahe na bhrame yamaḥ

Sanskrit only: no published translation is held for this verse.

यदि च सदृशदर्शनात्सदृशस्मृतेर्भ्रमः, कथं श्वेते पीतभ्रमः मधुरे वा तिक्तभ्रान्तिः? आन्तरपित्तसंवेदने ऽव्यापारयतो ऽपि बहिरिन्द्रियं स्यात्, अञ्जनवच्चाक्षिगतस्य तद्गतकृष्णिमादिवच्चादृश्यत्वात् । किञ्चित्सादृश्ये सर्वप्रकारभ्रमप्रसंगः । तस्मादिन्द्रियदोषसामर्थ्यभेदान्नियता विपर्ययोत्पत्तिः । अग्रहमात्रे तु दोषव्यापारे कामिलादिदोषाद्भ्रान्तिनियमो न स्यात् । न हि सादृश्यनिमित्तः, असदृशे ऽपि भ्रान्तिदर्शनात् । विशेषस्मरणान्नापि स्मृतावपि तदग्रहः । देशकालविशेषाच्च न स्मृतं प्रविविच्यते

yadi ca sadṛśadarśanātsadṛśasmṛterbhramaḥ, kathaṃ śvete pītabhramaḥ madhure vā tiktabhrāntiḥ? āntarapittasaṃvedane 'vyāpārayato 'pi bahirindriyaṃ syāt, añjanavaccākṣigatasya tadgatakṛṣṇimādivaccādṛśyatvāt / kiñcitsādṛśye sarvaprakārabhramaprasaṃgaḥ / tasmādindriyadoṣasāmarthyabhedānniyatā viparyayotpattiḥ / agrahamātre tu doṣavyāpāre kāmilādidoṣādbhrāntiniyamo na syāt / na hi sādṛśyanimittaḥ, asadṛśe 'pi bhrāntidarśanāt / viśeṣasmaraṇānnāpi smṛtāvapi tadagrahaḥ / deśakālaviśeṣācca na smṛtaṃ pravivicyate

Sanskrit only: no published translation is held for this verse.

अनेकदेशाधिगतं विविक्तं न पुनस्ततः । स्मृतिरित्यपि विज्ञानं स्मृतेरन्यदुदाहृतम्

anekadeśādhigataṃ viviktaṃ na punastataḥ / smṛtirityapi vijñānaṃ smṛteranyadudāhṛtam

Sanskrit only: no published translation is held for this verse.

न च मानफलाद्भिन्नात्तत्सिद्ध्यति फलादृते । सति स्मृतिविवेके च प्रत्यभिज्ञानविभ्रमः

na ca mānaphalādbhinnāttatsiddhyati phalādṛte / sati smṛtiviveke ca pratyabhijñānavibhramaḥ

Sanskrit only: no published translation is held for this verse.

अथानसंनिहितो व्यर्थो वेद्यः संनिधिमत्तया । अविविक्तस्मृतेरेवं विपरीतार्थता भवेत्

athānasaṃnihito vyartho vedyaḥ saṃnidhimattayā / aviviktasmṛterevaṃ viparītārthatā bhavet

Sanskrit only: no published translation is held for this verse.

मनसो ऽनुपघाताच्च नासंनिध्यपरिग्रहः । दोषो ह्यग्रहणे हेतुरिन्द्रियाणामुदाहृतः

manaso 'nupaghātācca nāsaṃnidhyaparigrahaḥ / doṣo hyagrahaṇe heturindriyāṇāmudāhṛtaḥ

Sanskrit only: no published translation is held for this verse.

सर्वज्ञानानि मिथ्या च प्रसज्यन्ते ऽत्र कल्पने

sarvajñānāni mithyā ca prasajyante 'tra kalpane

Sanskrit only: no published translation is held for this verse.

सर्वात्मनार्थो ज्ञानेन केनचिन्न हि गृह्यते । तथाज्ञातविवेकस्य द्विचन्द्रादिविपर्ययात्

sarvātmanārtho jñānena kenacinna hi gṛhyate / tathājñātavivekasya dvicandrādiviparyayāt

Sanskrit only: no published translation is held for this verse.

अनुवृत्तिमतः पश्यन् कस्य स्वात्मापनिह्नुते । अथ मतम् -- स्वज्ञानादेव स्मृतं विविच्यते । कदाचित्तु तत्र प्रत्यक्ष इव विशेषाग्रहस्ततो ऽविवेकः । सतो तु विशेषग्रहण इन्द्रियसंयुक्ते सामान्यदर्शने ऽपि नाविवेकः, तत उभयकोटिस्मरणे न संशयः, एकस्मृतौ न संशयो न विपर्ययः । एवमपि द्वयोः स्मरणे न विपर्ययः स्यात् । न च स्मृतौ विशेषग्रहणम्, विशेषस्मरणात् । अथ देशकालविशेषात्स्मर्यमाणं विविच्यते, तत्र देशकालभेदाग्रह इति । तन्न, अनन्तदेशकालभेदावगतं तद्देशावगतं च दृश्यात्स्मर्यमाणं विविक्तं गम्यते । न च देशकालभेदग्रहणात्, अनन्तस्मरणानुपपत्तेः, तद्देशावगते च देशभेदाभावात् । अथ स्मर्यमाणतया अग्रहणादविवेकः स्मर्यमाणताज्ञानाच्च विवेकः, तस्मात् ‘स्मरामिऽ; इति ज्ञानशून्यानि रजतादिज्ञानानि भ्रान्तिहेतवः । परिपूर्णैव तर्हि स्मृतिः, न तया स्वविषयस्य किञ्चिन्न गृहीतम् । स्वयमेव सा स्वविषयं दृश्याद्विविनक्तीति नास्ति दृश्यमानस्मर्यमाणयोरविवेकः । यतः स्मरामि इति ज्ञानमन्यदेव दर्शनस्मरणविवेककारि स्मृतेः । तत्रेदं विचार्यम् -- स्मृतिः स्वविषयं विविनक्ति वा न वा? यदि विविनक्ति, तदा विपर्ययाभावः । अथ न स्मृतिः स्वविषयं विविनक्ति, तदा सामान्यदर्शने चान्यस्मृतौ विपर्ययः स्यादित्युक्तम् । न ‘स्मरामिऽइति विवेकाच्चेत्, स एव स्मृतेः स्वयमविवेचकत्वेन स्यात्, कार्यगम्यस्य हि ज्ञानस्य भेदः कार्यविशेषोन्नेयः । न चेत्स्मृतेः प्रमाणकार्यात्कार्यं विविक्तं स्यात्, केन सा विविक्ता गम्येत? सत्यपि स्मृतिविवेके दृष्टः प्रत्यभिज्ञाभ्रमः ‘स एवऽ; इति न च प्रत्यक्षस्याविवेकः, एकविवेकेनोभयोर्विकारात्स्मृतादविवेकाच्च स्मृतिविभ्रमः स्यात्, न प्रत्यक्षभ्रमः । तस्मान्न ‘स्मरामिऽइति प्रमोषादविवेकः । अथासंनिहितस्य [क्क्स् १४२] संनिहितात्मना प्रतीतिरविवेकः, स्मृतेर्विपरीतार्थत्वप्रसंगः । अथासंनिध्यग्रहणात्, भवतु स स्वप्नज्ञाने, नत्विन्द्रियजायां भ्रान्तौ । मनसो ऽनुपघातादुपघातहेतुत्वाच्चाग्रहणस्य । न चेत्थं प्रवृत्तिनियमः स्यादित्युक्तम् । सति च वस्तुग्रहे कस्यचिदंशस्याग्रहाद्भ्रान्तौ सर्वज्ञानभ्रमत्वम् । न हि कस्यचिज्ज्ञानस्य सर्वात्मना वस्तु विषय इति । सत्यपि च विवेकज्ञाने प्रमाणान्तराद् द्विचन्द्रदिङ्मोहाद्यनुगतिर्दृष्टेति नाग्रहणमात्रं विपर्ययः । प्रसक्तप्रतिषेधात्मा ख्यातिः प्राप्तौ प्रकल्पते

anuvṛttimataḥ paśyan kasya svātmāpanihnute / atha matam -- svajñānādeva smṛtaṃ vivicyate / kadācittu tatra pratyakṣa iva viśeṣāgrahastato 'vivekaḥ / sato tu viśeṣagrahaṇa indriyasaṃyukte sāmānyadarśane 'pi nāvivekaḥ, tata ubhayakoṭismaraṇe na saṃśayaḥ, ekasmṛtau na saṃśayo na viparyayaḥ / evamapi dvayoḥ smaraṇe na viparyayaḥ syāt / na ca smṛtau viśeṣagrahaṇam, viśeṣasmaraṇāt / atha deśakālaviśeṣātsmaryamāṇaṃ vivicyate, tatra deśakālabhedāgraha iti / tanna, anantadeśakālabhedāvagataṃ taddeśāvagataṃ ca dṛśyātsmaryamāṇaṃ viviktaṃ gamyate / na ca deśakālabhedagrahaṇāt, anantasmaraṇānupapatteḥ, taddeśāvagate ca deśabhedābhāvāt / atha smaryamāṇatayā agrahaṇādavivekaḥ smaryamāṇatājñānācca vivekaḥ, tasmāt ‘smarāmi'; iti jñānaśūnyāni rajatādijñānāni bhrāntihetavaḥ / paripūrṇaiva tarhi smṛtiḥ, na tayā svaviṣayasya kiñcinna gṛhītam / svayameva sā svaviṣayaṃ dṛśyādvivinaktīti nāsti dṛśyamānasmaryamāṇayoravivekaḥ / yataḥ smarāmi iti jñānamanyadeva darśanasmaraṇavivekakāri smṛteḥ / tatredaṃ vicāryam -- smṛtiḥ svaviṣayaṃ vivinakti vā na vā? yadi vivinakti, tadā viparyayābhāvaḥ / atha na smṛtiḥ svaviṣayaṃ vivinakti, tadā sāmānyadarśane cānyasmṛtau viparyayaḥ syādityuktam / na ‘smarāmi'iti vivekāccet, sa eva smṛteḥ svayamavivecakatvena syāt, kāryagamyasya hi jñānasya bhedaḥ kāryaviśeṣonneyaḥ / na cetsmṛteḥ pramāṇakāryātkāryaṃ viviktaṃ syāt, kena sā viviktā gamyeta? satyapi smṛtiviveke dṛṣṭaḥ pratyabhijñābhramaḥ ‘sa eva'; iti na ca pratyakṣasyāvivekaḥ, ekavivekenobhayorvikārātsmṛtādavivekācca smṛtivibhramaḥ syāt, na pratyakṣabhramaḥ / tasmānna ‘smarāmi'iti pramoṣādavivekaḥ / athāsaṃnihitasya [KKS 142] saṃnihitātmanā pratītiravivekaḥ, smṛterviparītārthatvaprasaṃgaḥ / athāsaṃnidhyagrahaṇāt, bhavatu sa svapnajñāne, natvindriyajāyāṃ bhrāntau / manaso 'nupaghātādupaghātahetutvāccāgrahaṇasya / na cetthaṃ pravṛttiniyamaḥ syādityuktam / sati ca vastugrahe kasyacidaṃśasyāgrahādbhrāntau sarvajñānabhramatvam / na hi kasyacijjñānasya sarvātmanā vastu viṣaya iti / satyapi ca vivekajñāne pramāṇāntarād dvicandradiṅmohādyanugatirdṛṣṭeti nāgrahaṇamātraṃ viparyayaḥ / prasaktapratiṣedhātmā khyātiḥ prāptau prakalpate

Sanskrit only: no published translation is held for this verse.

नाग्रहः प्रापको ऽभावः प्रापिका विपरीतधीः । ये च ख्याती तु रजतश्चक्षुःसंयुक्तवस्तुनोः

nāgrahaḥ prāpako 'bhāvaḥ prāpikā viparītadhīḥ / ye ca khyātī tu rajataścakṣuḥsaṃyuktavastunoḥ

Sanskrit only: no published translation is held for this verse.

नायं तदुपनीतार्थप्रतिषेधो ऽवगम्यते । न चाग्रहणमेवैषा प्रतीतिरपबाधते

nāyaṃ tadupanītārthapratiṣedho 'vagamyate / na cāgrahaṇamevaiṣā pratītirapabādhate

Sanskrit only: no published translation is held for this verse.

सर्वा ह्यग्रहबाधेन जन्म न स्यात्तथेदृशी । विवेकविज्ञानमिदं न प्रसक्तनिषेधधीः

sarvā hyagrahabādhena janma na syāttathedṛśī / vivekavijñānamidaṃ na prasaktaniṣedhadhīḥ

Sanskrit only: no published translation is held for this verse.

इति ब्रुवाणो वैयात्यात्स्वां प्रतीतिमपह्नुते । न क्रमे यौगपद्ये वा विवेकमतिरीदृशी

iti bruvāṇo vaiyātyātsvāṃ pratītimapahnute / na krame yaugapadye vā vivekamatirīdṛśī

Sanskrit only: no published translation is held for this verse.

प्राप्ते स्यादैक्यसंवित्तौ न भेदस्यानिरूपणे । रजतस्य स्मरंश्चक्षुःसंयुक्तस्य च वस्तुनः

prāpte syādaikyasaṃvittau na bhedasyānirūpaṇe / rajatasya smaraṃścakṣuḥsaṃyuktasya ca vastunaḥ

Sanskrit only: no published translation is held for this verse.

सामान्यदृष्ट्या रजतादबुद्ध्वा च विविक्तताम् । पश्चाद्विविञ्चन् प्रत्येति नैवं सामान्यदर्शने

sāmānyadṛṣṭyā rajatādabuddhvā ca viviktatām / paścādviviñcan pratyeti naivaṃ sāmānyadarśane

Sanskrit only: no published translation is held for this verse.

कोटिद्वयस्मृत्यभावे संशयो न नियोगतः । विवेकग्रहणाभावात्कालसंनिधिसंविदः

koṭidvayasmṛtyabhāve saṃśayo na niyogataḥ / vivekagrahaṇābhāvātkālasaṃnidhisaṃvidaḥ

Sanskrit only: no published translation is held for this verse.

तद्वदाभासनात्प्राप्ताविष्टः स्यादन्यथाग्रहः । तत्राग्रहो निमित्तं स्यादथवा संनिधिग्रहः

tadvadābhāsanātprāptāviṣṭaḥ syādanyathāgrahaḥ / tatrāgraho nimittaṃ syādathavā saṃnidhigrahaḥ

Sanskrit only: no published translation is held for this verse.

भेदग्रहापवादेन रहितो भावरूपतः । विपर्ययानभ्युपाये भ्रमो ऽग्रहनिबन्धनः

bhedagrahāpavādena rahito bhāvarūpataḥ / viparyayānabhyupāye bhramo 'grahanibandhanaḥ

Sanskrit only: no published translation is held for this verse.

‘नेदं रजतम्ऽइति प्रसक्तप्रतिषेधरूपा प्रतीतिर्नाग्रहणे ऽवकल्पते, प्रसङ्गाभावात् । न खल्वग्रहणं कस्यचित्प्रसञ्जकम् । अभावो हि सः । विपरीता तु ख्यातिः संनिहितस्य रजततामभूतां रजतस्य वा संनिहिततामादर्शयन्ती प्रसञ्जयति । ननु च रजतनयनघटितवस्तुनोः ख्याती स्तः । ते एव प्रसञ्जिके । सत्यम् । न तु तदुपनीतयोरियं निषेधावगतिः । न हि ‘नेदं रजतम्ऽइति रजतमात्रं चक्षुःसंयुक्तवस्तुमात्रं वा निरस्यमानमवस्यामः । किं तु चक्षुःसंयुक्तस्य तु रजततां रजतस्य वा चक्षुसंयुक्ताम् । न चैतयोरग्रहणं प्रापकम्, अग्रहणत्वादेव । तस्मादवश्यं प्रतिषेध्यप्राप्तये विपरीतख्यातिरुपासनीया । न च ‘नेदम्ऽइत्यग्रहणमेव वार्यते, सर्वज्ञानेषु ताद्रूप्यप्रसंगात् । सर्वज्ञानानामग्रहबाधेनोत्पत्तौ च विवेकज्ञानमात्रमिदं न प्रसक्तप्रतिषेधरूपमिति प्रतीत्यनुसारिणो ऽनुरूपम् । न हि रजतशुक्तिकाशकलयोर्युगपद्विविक्तयोर्ग्रहणे ईदृशी प्रतीतिर्न क्रमेण । अविविक्तयोर्ग्रहण ईदृशी स्यादिति चेत् । युक्ता, विविक्तयोर्ग्रहणे ऽविवेकप्रतिषेधरूपत्वात् । विविक्तयोर्ग्रहणे प्राप्त्यभावयुक्ता । अपि च भवति कदाचित् -- यः स्मरति च रजतस्य, चक्षुःसंयुक्तस्य वस्तुनः सामान्यमात्रदर्शी, न रजताद्विवेकं गृह्णाति, पुनश्चक्षुःप्रसादात्प्रत्येति । न च तदा तथा प्रतीतिरविवेकग्रहणाभावात् । ननु सामान्यदर्शने न चेद्विपर्ययः, संशयः स्यात् । तदपनोदि च निर्णयज्ञानमीदृशमेव । नैतत्सारम् । न ह्यसति कोटिद्वयस्मरणे सामान्यदर्शने ऽपि संशयः, न च विपर्ययः । भवति हि पुरो ऽवस्थिते भास्वररूपमात्रप्रतीतिः, रजते च स्मृतिः । न च तयोरन्यत्वं प्रतिपद्यते, नैकत्वं च । तत्र न विवेकज्ञानमेवंरूपम्, एकत्वाप्रतिपत्तेः । अथ मतम् -- विवेकाग्रहणात्कालसंनिधिप्रतीतेश्च रजतं वा चक्षुःसंप्रयुक्तवदवभासते, चक्षुःसंयुक्तं वा रजतवत् । अतः प्राप्तिरिति प्रतिषेधोपपत्तिः । अभ्युपेता तर्हि विपरीतख्यातिः । न ह्यन्या सा, अतदात्मनस्तथावभासनात् । कामं [क्क्स् १४४] तत्त्वाज्ञाननिमित्ता स्यात् । न हि सा तत्त्वज्ञाने सत्युदेति, विरोधादिति । तत्रापि संनिधिख्यातिरेव निबन्धनम् । तस्यास्तु विवेकग्रहो ऽपवादः । अग्रहणे निरपवादा सैव कारणम्, नाभावः । विपरीतख्यात्यनभ्युगमे चाग्रहणनिबन्धनो भ्रम इत्यग्रहणमग्रहणनिबन्धनमिति सुव्याहृतम् । स्वप्ने च द्वितीयाभावात्कुतो ऽविवेकः, स्मृतत्वेनाविविक्तस्य तथा विवेके धर्मिणि प्रतिपन्ने धर्मान्तरप्रतिपन्ने धर्मान्तरप्रतिपत्तेर्बाधकत्वं पूर्वस्याश्च भ्रान्तित्वं स्यातामिति । यः प्रतीतिविरोधस्तु स स्वदोष उदाहृतः

‘nedaṃ rajatam'iti prasaktapratiṣedharūpā pratītirnāgrahaṇe 'vakalpate, prasaṅgābhāvāt / na khalvagrahaṇaṃ kasyacitprasañjakam / abhāvo hi saḥ / viparītā tu khyātiḥ saṃnihitasya rajatatāmabhūtāṃ rajatasya vā saṃnihitatāmādarśayantī prasañjayati / nanu ca rajatanayanaghaṭitavastunoḥ khyātī staḥ / te eva prasañjike / satyam / na tu tadupanītayoriyaṃ niṣedhāvagatiḥ / na hi ‘nedaṃ rajatam'iti rajatamātraṃ cakṣuḥsaṃyuktavastumātraṃ vā nirasyamānamavasyāmaḥ / kiṃ tu cakṣuḥsaṃyuktasya tu rajatatāṃ rajatasya vā cakṣusaṃyuktām / na caitayoragrahaṇaṃ prāpakam, agrahaṇatvādeva / tasmādavaśyaṃ pratiṣedhyaprāptaye viparītakhyātirupāsanīyā / na ca ‘nedam'ityagrahaṇameva vāryate, sarvajñāneṣu tādrūpyaprasaṃgāt / sarvajñānānāmagrahabādhenotpattau ca vivekajñānamātramidaṃ na prasaktapratiṣedharūpamiti pratītyanusāriṇo 'nurūpam / na hi rajataśuktikāśakalayoryugapadviviktayorgrahaṇe īdṛśī pratītirna krameṇa / aviviktayorgrahaṇa īdṛśī syāditi cet / yuktā, viviktayorgrahaṇe 'vivekapratiṣedharūpatvāt / viviktayorgrahaṇe prāptyabhāvayuktā / api ca bhavati kadācit -- yaḥ smarati ca rajatasya, cakṣuḥsaṃyuktasya vastunaḥ sāmānyamātradarśī, na rajatādvivekaṃ gṛhṇāti, punaścakṣuḥprasādātpratyeti / na ca tadā tathā pratītiravivekagrahaṇābhāvāt / nanu sāmānyadarśane na cedviparyayaḥ, saṃśayaḥ syāt / tadapanodi ca nirṇayajñānamīdṛśameva / naitatsāram / na hyasati koṭidvayasmaraṇe sāmānyadarśane 'pi saṃśayaḥ, na ca viparyayaḥ / bhavati hi puro 'vasthite bhāsvararūpamātrapratītiḥ, rajate ca smṛtiḥ / na ca tayoranyatvaṃ pratipadyate, naikatvaṃ ca / tatra na vivekajñānamevaṃrūpam, ekatvāpratipatteḥ / atha matam -- vivekāgrahaṇātkālasaṃnidhipratīteśca rajataṃ vā cakṣuḥsaṃprayuktavadavabhāsate, cakṣuḥsaṃyuktaṃ vā rajatavat / ataḥ prāptiriti pratiṣedhopapattiḥ / abhyupetā tarhi viparītakhyātiḥ / na hyanyā sā, atadātmanastathāvabhāsanāt / kāmaṃ [KKS 144] tattvājñānanimittā syāt / na hi sā tattvajñāne satyudeti, virodhāditi / tatrāpi saṃnidhikhyātireva nibandhanam / tasyāstu vivekagraho 'pavādaḥ / agrahaṇe nirapavādā saiva kāraṇam, nābhāvaḥ / viparītakhyātyanabhyugame cāgrahaṇanibandhano bhrama ityagrahaṇamagrahaṇanibandhanamiti suvyāhṛtam / svapne ca dvitīyābhāvātkuto 'vivekaḥ, smṛtatvenāviviktasya tathā viveke dharmiṇi pratipanne dharmāntarapratipanne dharmāntarapratipatterbādhakatvaṃ pūrvasyāśca bhrāntitvaṃ syātāmiti / yaḥ pratītivirodhastu sa svadoṣa udāhṛtaḥ

Sanskrit only: no published translation is held for this verse.

सामानाधिकरण्येन बोधाद्रूप्यमिदं मितम् । ऽइदं शुक्लं रजतम्ऽइति सामानाधिकरण्येन प्रतीतेरात्मोपालम्भः परस्मिन्नासज्यते प्रतीतिविरोधः, ज्ञानभेदकल्पनायाः प्रमाणाभावात् । अनाश्वासो ज्ञायमाने ज्ञानेनैवापबाध्यते

sāmānādhikaraṇyena bodhādrūpyamidaṃ mitam / 'idaṃ śuklaṃ rajatam'iti sāmānādhikaraṇyena pratīterātmopālambhaḥ parasminnāsajyate pratītivirodhaḥ, jñānabhedakalpanāyāḥ pramāṇābhāvāt / anāśvāso jñāyamāne jñānenaivāpabādhyate

Sanskrit only: no published translation is held for this verse.

व्यभिचारादसामर्थ्यं न तत्कार्यस्य लाभतः । व्यभिचारात्प्रमेयत्वे कार्यमेव न लभ्यते

vyabhicārādasāmarthyaṃ na tatkāryasya lābhataḥ / vyabhicārātprameyatve kāryameva na labhyate

Sanskrit only: no published translation is held for this verse.

यो हि ज्ञायमाने ऽर्थे ऽन्यथापि स्यादित्यनाश्वासस्तस्य तेनैव ज्ञानेन तथात्वपरिच्छेदिनोत्पत्तिर्निरुध्यते । तथा हि -- अनाश्वासनिवृत्तये तद्विधं ज्ञानमेवापेक्ष्यते । तच्चास्त्येव । न च व्यभिचारदोषादसमर्थप्रमाणं ज्ञानमिति युज्यते, प्रमाणकार्यस्य परिच्छेदस्य ज्ञानरूपादेव सिद्धत्वात् । परिच्छेदतो हि प्रामाण्यम् । अतन्त्रता तु व्यभिचाराव्यभिचारयोः, असति तस्मिन् धूमादेरव्यभिचारस्याप्यप्रमाणत्वात्, व्यभिचारवतो ऽपि च सितासितादिषु चक्षुषः सति तस्मिन् प्रामाण्यात् । न च व्यभिचारो बाधहेतुर्दोषवत् प्रामाण्योपघाती क्वचिद् दृष्टः, चक्षुरादौ व्यभिचारवति प्रमाणत्वात् । ननु दृष्टो व्यभिचारः प्रामाण्योपघाती प्रमेयत्वोर्ध्वत्वादौ । नैतत्सारम् । न [क्क्स् १४५] तत्र व्यभिचारादप्रामाण्यम्, अपि तु परिच्छेदकार्याभावात् । तदभावश्च हेत्वभावात् । अव्यभिचाराद्धि लिङ्गाल्लिङ्गिपरिच्छेदः । यत्र त्वव्यभिचारो न कारणं तत्र व्यभिचारे ऽपि सति परिच्छेदे प्रामाण्यमविवादम् । अक्षेषु तद्वदेव च ज्ञानं परिच्छेदनिमित्तम्, न लिङ्गवत् । न च संशयोत्पत्त्या व्यभिचारः प्रामाण्यमुपहन्ति, सम्यक्परिच्छिन्ने द्वैविद्ध्यस्यासंशयहेतुत्वात् । न निश्चिते स्थाणावूर्ध्वत्वेन संशेरते । उत्पत्त्यैव ज्ञानमर्थमवधारयति । अनवधारकं तु नैवेहाधिकृतम् । एवं चावधारणादेवानवधारणमिति विप्रतिषिद्धम् । य एव त्वव्यभिचारमर्थयते ज्ञानस्याश्वासार्थं तस्यैवानाश्वासः, अव्यभिचारज्ञाने ऽप्यनाश्वासात् । न हि तदसिद्धव्यभिचारमात्मनि ज्ञानान्तरेषु चाश्वासकारणम् । ज्ञानान्तरात्सिद्धावनवस्था । अपि च ज्ञानरूपाच्चेन्नार्थाश्वासः, तस्यासिद्धौ केन सहाव्यभिचारो ज्ञानस्य गृह्येत? किं च ज्ञानरूपादेवाव्यभिचारो ऽपि कथ्यते, विपरीतख्यातौ तद्विरोधात् । तथा सति तदेव विषयस्य साधकम्, व्यर्थो ऽव्यभिचारः । न च व्यभिचारः प्रामाण्यमुपहन्तीत्युक्तम् । अपि चाग्रहणे ऽभीष्टं यद्विवेकनिबन्धनम् । न पराणुद्यते दण्डैस्तद्विपर्ययदर्शने

yo hi jñāyamāne 'rthe 'nyathāpi syādityanāśvāsastasya tenaiva jñānena tathātvaparicchedinotpattirnirudhyate / tathā hi -- anāśvāsanivṛttaye tadvidhaṃ jñānamevāpekṣyate / taccāstyeva / na ca vyabhicāradoṣādasamarthapramāṇaṃ jñānamiti yujyate, pramāṇakāryasya paricchedasya jñānarūpādeva siddhatvāt / paricchedato hi prāmāṇyam / atantratā tu vyabhicārāvyabhicārayoḥ, asati tasmin dhūmāderavyabhicārasyāpyapramāṇatvāt, vyabhicāravato 'pi ca sitāsitādiṣu cakṣuṣaḥ sati tasmin prāmāṇyāt / na ca vyabhicāro bādhaheturdoṣavat prāmāṇyopaghātī kvacid dṛṣṭaḥ, cakṣurādau vyabhicāravati pramāṇatvāt / nanu dṛṣṭo vyabhicāraḥ prāmāṇyopaghātī prameyatvordhvatvādau / naitatsāram / na [KKS 145] tatra vyabhicārādaprāmāṇyam, api tu paricchedakāryābhāvāt / tadabhāvaśca hetvabhāvāt / avyabhicārāddhi liṅgālliṅgiparicchedaḥ / yatra tvavyabhicāro na kāraṇaṃ tatra vyabhicāre 'pi sati paricchede prāmāṇyamavivādam / akṣeṣu tadvadeva ca jñānaṃ paricchedanimittam, na liṅgavat / na ca saṃśayotpattyā vyabhicāraḥ prāmāṇyamupahanti, samyakparicchinne dvaividdhyasyāsaṃśayahetutvāt / na niścite sthāṇāvūrdhvatvena saṃśerate / utpattyaiva jñānamarthamavadhārayati / anavadhārakaṃ tu naivehādhikṛtam / evaṃ cāvadhāraṇādevānavadhāraṇamiti vipratiṣiddham / ya eva tvavyabhicāramarthayate jñānasyāśvāsārthaṃ tasyaivānāśvāsaḥ, avyabhicārajñāne 'pyanāśvāsāt / na hi tadasiddhavyabhicāramātmani jñānāntareṣu cāśvāsakāraṇam / jñānāntarātsiddhāvanavasthā / api ca jñānarūpāccennārthāśvāsaḥ, tasyāsiddhau kena sahāvyabhicāro jñānasya gṛhyeta? kiṃ ca jñānarūpādevāvyabhicāro 'pi kathyate, viparītakhyātau tadvirodhāt / tathā sati tadeva viṣayasya sādhakam, vyartho 'vyabhicāraḥ / na ca vyabhicāraḥ prāmāṇyamupahantītyuktam / api cāgrahaṇe 'bhīṣṭaṃ yadvivekanibandhanam / na parāṇudyate daṇḍaistadviparyayadarśane

Sanskrit only: no published translation is held for this verse.

नोद्रेकहेतवो दोषाः कार्यसामर्थ्यघातिनः । ग्रहाग्रहविभागः स्यादतस्तत्सदसत्त्वतः

nodrekahetavo doṣāḥ kāryasāmarthyaghātinaḥ / grahāgrahavibhāgaḥ syādatastatsadasattvataḥ

Sanskrit only: no published translation is held for this verse.

विपर्यये हि नितरामुपघातः प्रकल्पते । इष्टकार्योपरोधेन विपरीतोदयेन च

viparyaye hi nitarāmupaghātaḥ prakalpate / iṣṭakāryoparodhena viparītodayena ca

Sanskrit only: no published translation is held for this verse.

तस्मात्तत्सदसत्त्वाभ्यां विवेको ऽत्रापि कल्पते । दोषे ऽसत्यग्रहाशङ्का कथं च विनिवर्तते

tasmāttatsadasattvābhyāṃ viveko 'trāpi kalpate / doṣe 'satyagrahāśaṅkā kathaṃ ca vinivartate

Sanskrit only: no published translation is held for this verse.

प्रत्यक्षं कार्यमेवं च हेतुनानुमितं भवेत्

pratyakṣaṃ kāryamevaṃ ca hetunānumitaṃ bhavet

Sanskrit only: no published translation is held for this verse.

विपर्यये फलाभावो हेत्वभावात्तु युज्यते । विवेकोपायश्च दोषाभावभावौ ग्रहणाग्रहणयोर्न दण्डवारितौ । विपर्यये विपर्ययहेतवो ऽभ्युपघातकाः, सुतरामिष्टकार्योपरोधाद्विपरीतोदयाच्च । न चादुष्टेष्वपीन्द्रियादिषु अग्रहाशङ्कानिवृत्तिः, यतो हेतुभावे ऽपि न नियोगतः कार्यम्, विपर्ययश्च स्यात् । प्रत्यक्षासंवित्तिर्हेतुनानुमीयेत । फलात्तु हेतोर्हेतुभावानुमानम् । दोषाभावात्तु विपर्ययकार्यासत्त्वं युक्तानुमानम्, हेत्वभावे कार्यानुत्पादात् । अनालम्बनतापत्तिर्यथाकारान्तरार्पणम्

viparyaye phalābhāvo hetvabhāvāttu yujyate / vivekopāyaśca doṣābhāvabhāvau grahaṇāgrahaṇayorna daṇḍavāritau / viparyaye viparyayahetavo 'bhyupaghātakāḥ, sutarāmiṣṭakāryoparodhādviparītodayācca / na cāduṣṭeṣvapīndriyādiṣu agrahāśaṅkānivṛttiḥ, yato hetubhāve 'pi na niyogataḥ kāryam, viparyayaśca syāt / pratyakṣāsaṃvittirhetunānumīyeta / phalāttu hetorhetubhāvānumānam / doṣābhāvāttu viparyayakāryāsattvaṃ yuktānumānam, hetvabhāve kāryānutpādāt / anālambanatāpattiryathākārāntarārpaṇam

Sanskrit only: no published translation is held for this verse.

स्वरूपानर्पणादेवं भवेदग्रहणे ऽपि ते । कस्यचित्त्वर्पणं तुल्यमथ तत्र न तत्तथा

svarūpānarpaṇādevaṃ bhavedagrahaṇe 'pi te / kasyacittvarpaṇaṃ tulyamatha tatra na tattathā

Sanskrit only: no published translation is held for this verse.

परस्यापि हि तत्रैवमथ तत्र तथा स्थितेः । सर्वत्र स्यात्तथाभावः स्यादेवं ग्रहणे ऽपि ते

parasyāpi hi tatraivamatha tatra tathā sthiteḥ / sarvatra syāttathābhāvaḥ syādevaṃ grahaṇe 'pi te

Sanskrit only: no published translation is held for this verse.

यथा तत्रानिमित्तत्वात्सम्यज्ञाने ऽनिमित्तता । शङ्क्यते ग्रहणे ऽप्येवमग्रहे सा निरूपिता

yathā tatrānimittatvātsamyajñāne 'nimittatā / śaṅkyate grahaṇe 'pyevamagrahe sā nirūpitā

Sanskrit only: no published translation is held for this verse.

ज्ञानादेव निमित्तत्वमन्येषां न विशिष्यते । आलम्बनत्वहानं च यथाकारान्तरावभासे चक्षुःसंयुक्तस्य तथाग्रहणे ऽपि, स्वरूपानर्पणस्य तुल्यत्वात् । अथ कस्यचित्सामान्यरूपस्य स्वाकारत्वात् -- अथ कानिचिच्चक्षुःसंयुक्तानि वस्तूनि स्वेन रूपेण गृह्यन्त इति कस्यचिदग्रहणे ऽपि नानालम्बनत्वम् -- तुल्यम् । आकारान्तरावभासे ऽपि केषाञ्चित् [क्क्स् १४७] स्वाकाराणामवभासनात् । अथाग्रहणे नैव चक्षुःसंयुक्तस्यालम्बनत्वमिष्यते, परो ऽपि नैव विपर्यय इच्छति । एवं ह्युक्तम् -- ऽतस्माद्यदन्यथा सन्तमन्यथा प्रतिपद्यते । तन्निरालम्बनं ज्ञानमभावालम्बनं च तत्ऽ; ॥ अथ विपर्यये चक्षुःसंयुक्तस्यालम्बनत्वादन्यत्राप्यनालम्बनताशङ्का, अग्रहणे ऽपि तुल्या । यथा खलु विपर्ययज्ञाने चक्षुःसंप्रयुक्तवस्तुस्वभावनिरपेक्षता दृष्टा सम्यग्ज्ञाने ऽपि शङ्क्यते ज्ञानत्वसामान्यात्तथा चक्षुःसंप्रयुक्तमपि वस्तु नाविकलरूपं गृह्यते, तेनानालम्बनं भवति, सदृशस्मृतिहेतुतां च प्रतिपद्यते -- इत्यग्रहणे दृष्टानालम्बनता ग्रहणेष्वपि कस्मान्न शङ्क्यते? दोषाभावादिति चेत्, विपर्यये ऽपि तुल्यम्, न चान्यथालम्बने निरालम्बनत्वम् । चक्षुस्त्वन्यथापि नालम्ब्यते । आलम्बनार्थश्च रजतव्यवहारयोग्यता शुक्तेः, तथा हि रजतार्थी तामादत्ते । घटस्यापि हि नैवान्यत्स्वज्ञानालम्बनत्वमन्यत्र व्यवहारयोग्यतायाः, यतो न विषयाकारं ज्ञानम् । तत्र शुक्तिः स्वरूपेण नालम्बिता रजतज्ञानेन, तन्निबन्धनव्यवहारभावात् । रजतरूपेण तु तन्निबन्धनस्योपादानव्यवहारस्य तत्र भावादिति । क्रियानिष्ठे ऽपि विधौ वस्तुस्वरूपसिद्धये कश्चिदाह -- अवघातप्रोक्षणादेर्यथा द्रव्यार्थता स्थिता

jñānādeva nimittatvamanyeṣāṃ na viśiṣyate / ālambanatvahānaṃ ca yathākārāntarāvabhāse cakṣuḥsaṃyuktasya tathāgrahaṇe 'pi, svarūpānarpaṇasya tulyatvāt / atha kasyacitsāmānyarūpasya svākāratvāt -- atha kāniciccakṣuḥsaṃyuktāni vastūni svena rūpeṇa gṛhyanta iti kasyacidagrahaṇe 'pi nānālambanatvam -- tulyam / ākārāntarāvabhāse 'pi keṣāñcit [KKS 147] svākārāṇāmavabhāsanāt / athāgrahaṇe naiva cakṣuḥsaṃyuktasyālambanatvamiṣyate, paro 'pi naiva viparyaya icchati / evaṃ hyuktam -- 'tasmādyadanyathā santamanyathā pratipadyate / tannirālambanaṃ jñānamabhāvālambanaṃ ca tat'; // atha viparyaye cakṣuḥsaṃyuktasyālambanatvādanyatrāpyanālambanatāśaṅkā, agrahaṇe 'pi tulyā / yathā khalu viparyayajñāne cakṣuḥsaṃprayuktavastusvabhāvanirapekṣatā dṛṣṭā samyagjñāne 'pi śaṅkyate jñānatvasāmānyāttathā cakṣuḥsaṃprayuktamapi vastu nāvikalarūpaṃ gṛhyate, tenānālambanaṃ bhavati, sadṛśasmṛtihetutāṃ ca pratipadyate -- ityagrahaṇe dṛṣṭānālambanatā grahaṇeṣvapi kasmānna śaṅkyate? doṣābhāvāditi cet, viparyaye 'pi tulyam, na cānyathālambane nirālambanatvam / cakṣustvanyathāpi nālambyate / ālambanārthaśca rajatavyavahārayogyatā śukteḥ, tathā hi rajatārthī tāmādatte / ghaṭasyāpi hi naivānyatsvajñānālambanatvamanyatra vyavahārayogyatāyāḥ, yato na viṣayākāraṃ jñānam / tatra śuktiḥ svarūpeṇa nālambitā rajatajñānena, tannibandhanavyavahārabhāvāt / rajatarūpeṇa tu tannibandhanasyopādānavyavahārasya tatra bhāvāditi / kriyāniṣṭhe 'pi vidhau vastusvarūpasiddhaye kaścidāha -- avaghātaprokṣaṇāderyathā dravyārthatā sthitā

Sanskrit only: no published translation is held for this verse.

ज्ञानं स्वभावाद्द्रव्यार्थं कर्मत्वाच्चात्मनस्तथा । भवत्वेवं तथापीष्टरूपसिद्धिः कुतो मता

jñānaṃ svabhāvāddravyārthaṃ karmatvāccātmanastathā / bhavatvevaṃ tathāpīṣṭarūpasiddhiḥ kuto matā

Sanskrit only: no published translation is held for this verse.

शब्दस्तदर्थकार्यत्वे तावज्ञानस्य निष्ठितः । ज्ञानाज्ज्ञेयस्य को ऽन्यो ऽर्थः स्वरूपप्रतिभासनात्

śabdastadarthakāryatve tāvajñānasya niṣṭhitaḥ / jñānājjñeyasya ko 'nyo 'rthaḥ svarūpapratibhāsanāt

Sanskrit only: no published translation is held for this verse.

अदृष्टकल्पना युक्ता न च दृष्टस्य संभवे । [क्क्स् १४८] तस्माद्यथा प्रोक्षणादिविधेर्व्रीहिषु गम्यते

adṛṣṭakalpanā yuktā na ca dṛṣṭasya saṃbhave / [KKS 148] tasmādyathā prokṣaṇādividhervrīhiṣu gamyate

Sanskrit only: no published translation is held for this verse.

अदृष्टा संस्कृतिर्ज्ञानविधे रूपं तथात्मनः । यथा अवघातप्रोक्षणादयः स्वरूपेणैव द्रव्यार्थाः, द्वितीयया च द्रव्यस्य कर्मत्वेन निर्देशात्, तथा ज्ञानमपि स्वरूपेण परार्थम् । कर्मत्वेन चात्मनो निर्देशात्तदर्थम् । अतो ज्ञानविषयो ऽपि विधिरात्मरूपं संस्पृशति, न ज्ञानमात्रे पर्यवस्यति, ज्ञानस्यात्मरूपार्थत्वेन कर्तव्यतावगमाज्ज्ञाननियोगेनैवात्मरूपस्याक्षेपात् । स्यादेतत् -- भवतु ज्ञानस्यात्मार्थताभिप्रेता । अपहतपाप्मादिरूपात्मप्रतीतौ तु प्रमाणं वाच्यम् । शब्दस्तावदेवंविधात्मज्ञानकर्तव्यतायां पर्यवसितः -- ‘एवंविधात्मोद्देशेन ज्ञानं कुर्यात्ऽ; न तु ‘एवंविध आत्माऽ; इति । तत्रोच्यते -- न हि तत्राकिञ्चित्करस्य तादर्थ्येन कर्तव्यता युज्यते । ज्ञानस्य च कर्मणि नान्यत्फलं तद्रूपसंवित्तेः, न हि तस्यां दृष्टायामन्यस्यादृष्टस्य कल्पना । तत्र यथा ‘व्रीहीन् प्रोक्षतिऽइति प्रोक्षणविधेरेव व्रीहिष्वदृष्टसंस्कारावगमः प्रोक्षणविषयादपि । नान्यथा व्रीह्यर्थे प्रोक्षणे कर्तव्यता युज्यते । न हि तत्र किञ्चिदकुर्वत्प्रोक्षणं तदर्थं कृतं स्यादित्येवं विधेरेवादृष्टसंस्कारसद्भावसिद्धिः, यथा ‘स्वर्गकामो यजेतऽ; इति । नान्यथा स्वर्गकामस्य यागकर्तव्यताप्रतीतिर्युज्यते यदि न स्वर्गोपायो यागः । अनुपाये चेन्नियुज्यते, न स्वर्गकामो नियुक्तो भवति । अनुष्ठितो ऽपि न स्वर्गकामेनानुष्ठितो भवतीति क्रियाविषयादपि विधेः साध्यसाधनभावावगमः शाब्दः -- तथा ज्ञानविषयादपि विधेरात्मरूपबोधः । न हि तद्विधमात्मानमुद्दिश्यज्ञाननियोगो युज्यते, अतद्विधश्चेदात्मा तेन ज्ञानेन प्रतीयत इति । उक्तोत्तरमिदं यस्मादरूपेणापि भासकम्

adṛṣṭā saṃskṛtirjñānavidhe rūpaṃ tathātmanaḥ / yathā avaghātaprokṣaṇādayaḥ svarūpeṇaiva dravyārthāḥ, dvitīyayā ca dravyasya karmatvena nirdeśāt, tathā jñānamapi svarūpeṇa parārtham / karmatvena cātmano nirdeśāttadartham / ato jñānaviṣayo 'pi vidhirātmarūpaṃ saṃspṛśati, na jñānamātre paryavasyati, jñānasyātmarūpārthatvena kartavyatāvagamājjñānaniyogenaivātmarūpasyākṣepāt / syādetat -- bhavatu jñānasyātmārthatābhipretā / apahatapāpmādirūpātmapratītau tu pramāṇaṃ vācyam / śabdastāvadevaṃvidhātmajñānakartavyatāyāṃ paryavasitaḥ -- ‘evaṃvidhātmoddeśena jñānaṃ kuryāt'; na tu ‘evaṃvidha ātmā'; iti / tatrocyate -- na hi tatrākiñcitkarasya tādarthyena kartavyatā yujyate / jñānasya ca karmaṇi nānyatphalaṃ tadrūpasaṃvitteḥ, na hi tasyāṃ dṛṣṭāyāmanyasyādṛṣṭasya kalpanā / tatra yathā ‘vrīhīn prokṣati'iti prokṣaṇavidhereva vrīhiṣvadṛṣṭasaṃskārāvagamaḥ prokṣaṇaviṣayādapi / nānyathā vrīhyarthe prokṣaṇe kartavyatā yujyate / na hi tatra kiñcidakurvatprokṣaṇaṃ tadarthaṃ kṛtaṃ syādityevaṃ vidherevādṛṣṭasaṃskārasadbhāvasiddhiḥ, yathā ‘svargakāmo yajeta'; iti / nānyathā svargakāmasya yāgakartavyatāpratītiryujyate yadi na svargopāyo yāgaḥ / anupāye cenniyujyate, na svargakāmo niyukto bhavati / anuṣṭhito 'pi na svargakāmenānuṣṭhito bhavatīti kriyāviṣayādapi vidheḥ sādhyasādhanabhāvāvagamaḥ śābdaḥ -- tathā jñānaviṣayādapi vidherātmarūpabodhaḥ / na hi tadvidhamātmānamuddiśyajñānaniyogo yujyate, atadvidhaścedātmā tena jñānena pratīyata iti / uktottaramidaṃ yasmādarūpeṇāpi bhāsakam

Sanskrit only: no published translation is held for this verse.

ज्ञानं प्रदर्शितं न स्यादन्यथा तद्विधेः फलम् । लयो निवर्त्यो न तथा विक्षेपो हि यथासुखः

jñānaṃ pradarśitaṃ na syādanyathā tadvidheḥ phalam / layo nivartyo na tathā vikṣepo hi yathāsukhaḥ

Sanskrit only: no published translation is held for this verse.

नन्वरूपावभासे स्याददृष्टफलकल्पना

nanvarūpāvabhāse syādadṛṣṭaphalakalpanā

Sanskrit only: no published translation is held for this verse.

रूपावभासे दृष्टं तु फलं तत्सिद्धिलक्षणम् । न दृष्टमात्राद् दृष्टार्थं पुरुषार्थानुगं तु तत्

rūpāvabhāse dṛṣṭaṃ tu phalaṃ tatsiddhilakṣaṇam / na dṛṣṭamātrād dṛṣṭārthaṃ puruṣārthānugaṃ tu tat

Sanskrit only: no published translation is held for this verse.

न भिद्यते च तद्भावो रूपारूपावभासयोः । यथा प्रपञ्चशून्यत्वे तत्त्वे ज्ञानावभासिते

na bhidyate ca tadbhāvo rūpārūpāvabhāsayoḥ / yathā prapañcaśūnyatve tattve jñānāvabhāsite

Sanskrit only: no published translation is held for this verse.

दुःखकर्मक्लेशहानमतत्त्वे ऽपि तथा भवेत् । एतच्चात्र भवेद्युक्तं प्रत्यक्षाद्यविरोधतः

duḥkhakarmakleśahānamatattve 'pi tathā bhavet / etaccātra bhavedyuktaṃ pratyakṣādyavirodhataḥ

Sanskrit only: no published translation is held for this verse.

तत्रादृष्टकल्पना स्यात् । आत्मरूपप्रतिपत्तेस्तु दृष्टं फलं तत्स्वरूपसिद्धिः । उच्यते -- न यस्य कस्यचिद्दर्शनाद् दृष्टार्थता, किं तु पुरुषार्थसंस्पर्शिनः । तेन हि तद्विधिर्निराकाङ्क्षा भवति । न च पुरुषार्र्हभेदस्तत्त्वातत्त्वप्रतिपत्त्योः । यथा हि विशुद्धमद्वैतमात्मानं प्रतिपद्यमानस्तथाभूतो न शोकेन संस्पृश्यते, शोचनीयाभावात् । न कर्माशयमुपचिनोति, कर्तव्याभावात् । न क्वचिद्द्रज्यति किञ्चिद् द्वेष्टि वा, विषयाभावात् । ‘एवं जीवन्नेव विद्वान्विमुक्तो भवति । तथा अतथाभूतमपि तथाभावनापुरःसरं साक्षादिव प्रतिपद्यमानः । अभूतो ऽप्यर्थः परिभावनातिशयाद्भूतव्यवहारहेतुर्भवति । इदमेव चात्र युज्यते, प्रत्यक्षादीनामविरोधात्, कर्मविधीनां च भूतार्थत्वात् । परमार्थे हि प्रपञ्चशून्यत्वे प्रत्यक्षादीनि प्रमाणानि बाध्येरन् । कर्मविधयश्चाभूतकल्पनोपादानव्यवहारसिद्धार्थगोचराः स्युः । तस्मादपरमार्थेनैवाद्वैतात्मज्ञानविधिर्युज्यते । जानातिस्तत्त्वबोधे चेन्न मिथ्यादिविशेषणात्

tatrādṛṣṭakalpanā syāt / ātmarūpapratipattestu dṛṣṭaṃ phalaṃ tatsvarūpasiddhiḥ / ucyate -- na yasya kasyaciddarśanād dṛṣṭārthatā, kiṃ tu puruṣārthasaṃsparśinaḥ / tena hi tadvidhirnirākāṅkṣā bhavati / na ca puruṣārrhabhedastattvātattvapratipattyoḥ / yathā hi viśuddhamadvaitamātmānaṃ pratipadyamānastathābhūto na śokena saṃspṛśyate, śocanīyābhāvāt / na karmāśayamupacinoti, kartavyābhāvāt / na kvaciddrajyati kiñcid dveṣṭi vā, viṣayābhāvāt / ‘evaṃ jīvanneva vidvānvimukto bhavati / tathā atathābhūtamapi tathābhāvanāpuraḥsaraṃ sākṣādiva pratipadyamānaḥ / abhūto 'pyarthaḥ paribhāvanātiśayādbhūtavyavahāraheturbhavati / idameva cātra yujyate, pratyakṣādīnāmavirodhāt, karmavidhīnāṃ ca bhūtārthatvāt / paramārthe hi prapañcaśūnyatve pratyakṣādīni pramāṇāni bādhyeran / karmavidhayaścābhūtakalpanopādānavyavahārasiddhārthagocarāḥ syuḥ / tasmādaparamārthenaivādvaitātmajñānavidhiryujyate / jānātistattvabodhe cenna mithyādiviśeṣaṇāt

Sanskrit only: no published translation is held for this verse.

नात्मा ज्ञातस्तथा स्याच्चेन्न तद्रूपाविधानतः । प्रमाणान्तरसिद्धत्वे नतरामन्यथा यदि

nātmā jñātastathā syāccenna tadrūpāvidhānataḥ / pramāṇāntarasiddhatve natarāmanyathā yadi

Sanskrit only: no published translation is held for this verse.

शब्दार्पितेन रूपेण तस्य ज्ञानं विधीयते । अतत्त्वेनापि तेनास्य विज्ञानमवकल्पते

śabdārpitena rūpeṇa tasya jñānaṃ vidhīyate / atattvenāpi tenāsya vijñānamavakalpate

Sanskrit only: no published translation is held for this verse.

तच्च न, उभयथानुपपत्तेः । प्रमाणान्तरसिद्धं चेदात्मरूपं न तज्ज्ञानं विधेयम् । अथासिद्धम्, अशक्यमेव तत् । स्यादेतत् -- ‘अपहतपाप्मा विजरो विमृत्युःऽ; ‘इदं सर्वं यदयमात्माऽइति शब्दसमर्पितरूपस्य तस्य ज्ञानं विधीयते, तेन च तत्त्वेनापि तत्संभवति समारोपितेनापि, तेन न नियोगतस्तथाभूतज्ञानविधेस्तथाभावो ऽस्य प्रतीयते । ज्ञानं यदि च दृष्टार्थं प्राप्तं दृष्टत एव तत् । आत्मरूपविजिज्ञासोरजिज्ञासोर्वृथैव तत्

tacca na, ubhayathānupapatteḥ / pramāṇāntarasiddhaṃ cedātmarūpaṃ na tajjñānaṃ vidheyam / athāsiddham, aśakyameva tat / syādetat -- ‘apahatapāpmā vijaro vimṛtyuḥ'; ‘idaṃ sarvaṃ yadayamātmā'iti śabdasamarpitarūpasya tasya jñānaṃ vidhīyate, tena ca tattvenāpi tatsaṃbhavati samāropitenāpi, tena na niyogatastathābhūtajñānavidhestathābhāvo 'sya pratīyate / jñānaṃ yadi ca dṛṣṭārthaṃ prāptaṃ dṛṣṭata eva tat / ātmarūpavijijñāsorajijñāsorvṛthaiva tat

Sanskrit only: no published translation is held for this verse.

तदुपायो न चेज्ज्ञातस्तस्यैवास्तु विधिस्ततः । अवघातादिविधयो नादृष्टस्पर्शवर्जिताः

tadupāyo na cejjñātastasyaivāstu vidhistataḥ / avaghātādividhayo nādṛṣṭasparśavarjitāḥ

Sanskrit only: no published translation is held for this verse.

अलौकिकमिदं ज्ञानमतो यदि विधीयते । न रूपसिद्धये तावद्यतः कर्तव्यता विधेः

alaukikamidaṃ jñānamato yadi vidhīyate / na rūpasiddhaye tāvadyataḥ kartavyatā vidheḥ

Sanskrit only: no published translation is held for this verse.

कर्तव्यता च दृष्टार्थे दृष्टादेव प्रसिद्ध्यति । अलौकिके ऽर्थरूपे ऽतः शब्देन प्रतिपादिते

kartavyatā ca dṛṣṭārthe dṛṣṭādeva prasiddhyati / alaukike 'rtharūpe 'taḥ śabdena pratipādite

Sanskrit only: no published translation is held for this verse.

ज्ञाने ज्ञेयाभ्युपायत्वात्स्वयमेवोन्मुखः पुमान् । तदुपाये त्वविज्ञाते विधिना स प्रवर्त्यताम्

jñāne jñeyābhyupāyatvātsvayamevonmukhaḥ pumān / tadupāye tvavijñāte vidhinā sa pravartyatām

Sanskrit only: no published translation is held for this verse.

नियोगानुप्रवेशो ऽतो विहन्त्येव प्रमाणताम् । भूतर्थ इति नोपास्यो भूतार्थगतिमिच्छता

niyogānupraveśo 'to vihantyeva pramāṇatām / bhūtartha iti nopāsyo bhūtārthagatimicchatā

Sanskrit only: no published translation is held for this verse.

यदि च ज्ञानस्य दृष्टं फलम्, तत एव प्रवृत्तिसिद्धे व्यर्थो विधिः । यो ह्यात्मरूपमनुभवितुकामः, स तस्य ज्ञाने स्वयमेव यतते । यस्तु न तथा, तस्य तद्व्यर्थमिति विधिशतेनापि स न प्रवर्त्यते । अथोपायाज्ञानाद्दृष्टफले ऽपि न प्रवर्तते स्वयम्, अतो विधीयत इति । तच्च वार्तम् । यतः स एवोपायो विधीयताम्, यत्रायमज्ञानान्न प्रवृत्तः । ज्ञाने तु दृष्टफलत्वात्प्रवर्तत [क्क्स् १५३] एव । स्यादेतत्, अवघातादिषु दृष्टफलेष्वपि दृष्टो विधिः । सत्यम्, न त्वदृष्टसंस्पर्शरहितः । तत्रापि हि नियमादृष्टं फलं तण्डुलेषु तत्प्रणाड्या वा प्रधानपूर्वसिद्धिरदृष्टैव । अथ मतम् -- अद्वैतात्मज्ञानमदृष्टपूर्वमलौकिकम् । अतो ऽनन्तरफलमपि विधीयत इति । तत्रोच्यते -- किमर्थं विधीयते । प्रमाणान्तरागोचरस्य स्वरूपप्रतिपत्त्यर्थम्, आहोस्विदनुष्ठानार्थम्? तत्र न स्वरूपसिद्ध्यर्थम्, अनुष्ठानफलो हि विधिर्नानुष्ठानाय, दृष्टार्थत्वादेव तत्सिद्धेः । तस्मादलौकिके ऽपहतपाप्मादिरूप आत्मतत्त्वे शब्दात्प्रतिपन्ने तस्य साक्षाज्ज्ञानं प्रति तदनुभवोपायत्वात्स्वयमेव पुरुषस्याभिमुख्यं भवतीति व्यर्थं तद्विधानम्, यथाश्चर्यभूते कस्मिंश्चिदर्थे आगमात्प्रतिपन्ने तस्य साक्षात्करणे स्वयमेवोन्मुखत्वं भवति । तदुपायेषु त्वज्ञातेषूपायत्वज्ञापनाय विधानं युज्यते । तदेवं ज्ञाने नियोगानुपपत्तेर्नियोगे च वस्तुरूपावगमे प्रामाण्यायोगाद्व्यवस्थितात्मतत्त्वप्रतिपत्तिमिच्छता शब्दान्न तस्य नियोगानुप्रवेशो ऽभ्युपगन्तव्य इति । इदानीं द्वितीयप्रतिपत्तिविधिनिरासायाह -- अत एव न विज्ञानसंतानविधिनिष्ठता । तत्रापि पूर्ववन्न स्यात्स्वरूपावगतिप्रमा

yadi ca jñānasya dṛṣṭaṃ phalam, tata eva pravṛttisiddhe vyartho vidhiḥ / yo hyātmarūpamanubhavitukāmaḥ, sa tasya jñāne svayameva yatate / yastu na tathā, tasya tadvyarthamiti vidhiśatenāpi sa na pravartyate / athopāyājñānāddṛṣṭaphale 'pi na pravartate svayam, ato vidhīyata iti / tacca vārtam / yataḥ sa evopāyo vidhīyatām, yatrāyamajñānānna pravṛttaḥ / jñāne tu dṛṣṭaphalatvātpravartata [KKS 153] eva / syādetat, avaghātādiṣu dṛṣṭaphaleṣvapi dṛṣṭo vidhiḥ / satyam, na tvadṛṣṭasaṃsparśarahitaḥ / tatrāpi hi niyamādṛṣṭaṃ phalaṃ taṇḍuleṣu tatpraṇāḍyā vā pradhānapūrvasiddhiradṛṣṭaiva / atha matam -- advaitātmajñānamadṛṣṭapūrvamalaukikam / ato 'nantaraphalamapi vidhīyata iti / tatrocyate -- kimarthaṃ vidhīyate / pramāṇāntarāgocarasya svarūpapratipattyartham, āhosvidanuṣṭhānārtham? tatra na svarūpasiddhyartham, anuṣṭhānaphalo hi vidhirnānuṣṭhānāya, dṛṣṭārthatvādeva tatsiddheḥ / tasmādalaukike 'pahatapāpmādirūpa ātmatattve śabdātpratipanne tasya sākṣājjñānaṃ prati tadanubhavopāyatvātsvayameva puruṣasyābhimukhyaṃ bhavatīti vyarthaṃ tadvidhānam, yathāścaryabhūte kasmiṃścidarthe āgamātpratipanne tasya sākṣātkaraṇe svayamevonmukhatvaṃ bhavati / tadupāyeṣu tvajñāteṣūpāyatvajñāpanāya vidhānaṃ yujyate / tadevaṃ jñāne niyogānupapatterniyoge ca vasturūpāvagame prāmāṇyāyogādvyavasthitātmatattvapratipattimicchatā śabdānna tasya niyogānupraveśo 'bhyupagantavya iti / idānīṃ dvitīyapratipattividhinirāsāyāha -- ata eva na vijñānasaṃtānavidhiniṣṭhatā / tatrāpi pūrvavanna syātsvarūpāvagatipramā

Sanskrit only: no published translation is held for this verse.

स्वरूपनिष्ठाच्छब्दात्तु प्रमितस्य वचो ऽन्तरात् । उपासनविधानं स्यात्प्राप्तेस्तदपि वा वृथा

svarūpaniṣṭhācchabdāttu pramitasya vaco 'ntarāt / upāsanavidhānaṃ syātprāptestadapi vā vṛthā

Sanskrit only: no published translation is held for this verse.

अभ्यासेन प्रत्ययस्य प्रकर्षस्याभिवीक्षणात् । तस्माद्भवत्यकार्ये ऽर्थे वेदान्तानां प्रमाणता

abhyāsena pratyayasya prakarṣasyābhivīkṣaṇāt / tasmādbhavatyakārye 'rthe vedāntānāṃ pramāṇatā

Sanskrit only: no published translation is held for this verse.

अथ तु वाक्यान्तरात्तत्त्वनिष्ठादधिगते तद्विषयप्रत्ययप्रवाहविधानमिष्यते । भवतु । न कश्चिद्दोषः । तथा च ‘विज्ञाय प्रज्ञां कुर्वीतऽइत्यात्मतत्त्वविज्ञानस्य सिद्धतां दर्शयति । तदपि वा व्यर्थमेव, प्राप्तार्थत्वात् । साक्षात्करणफलं हि तत्तदनुचिन्तनं दृष्टार्थम्, न ततो ऽन्यत्फलमाकाङ्क्ष्यते । अमृतत्वं हि न स्वरूपाविर्भावादन्यदिति प्राग्वर्णितम् । दृष्टा च ज्ञानाभ्यासस्य सम्यग्ज्ञानप्रसादहेतुता लोके । भावनाविशेषाद्धि अभूतमप्यनुभवमापद्यते, किं पुनर्भूतम् । ‘स क्रतुं कुर्वीतऽ; इति तु न सकलविशेषातिगात्मतत्त्वानुचिन्तनं विधीयते तद्भावफलम्, अपि तु नामरूपोपाधिमनोमयप्राणशरीरादिरूपानुध्यानमैश्वर्यफलम्, क्रमेण वा साक्षात्करणफलम् । ‘तमेव धीरो विज्ञायऽ; इति न प्रज्ञाकरणविधिः । ‘तमेवऽइत्यन्यनिवृत्तेः श्रुतत्त्वान्निवृत्तौ तात्पर्यं गम्यते, ‘रक्तः पटो भवतिऽइति तया रक्तपरत्वं वाक्यस्य । अत्र आकाशादितत्त्वभेदपूर्वमविभागः प्रतिपादितः, तत्र तथैव प्रज्ञाकरणप्रसङ्गे ‘तमेवऽ; इति विधीयते । तथा च पूर्वार्धे -- ‘विरजः पर आकाशादज आत्मा महान् ध्रुवःऽ; । इत्याकाशादिभ्यः परत्वेनात्मतत्त्वं दर्शितम् । तस्य तथैव प्रज्ञाकरणप्रसङ्गे तन्निवृत्तये ‘तमेवऽ; इत्युच्यते । अन्यथा न एवशब्दस्य फलम्, न च निवर्त्यं विज्ञायेत । तथा च तदेवोत्तरेण प्रपञ्च्यते ‘नानुध्यायाद्बहूञ्छब्दान्ऽ; इत्येकवाक्यता । अन्यथा वाक्यं भिद्येत । शब्दमात्रे चानुध्यानाप्रसङ्गात् शब्दपूर्वत्त्वात्तस्य शब्दार्थविषयमेवेदमिति । एवम् ‘आत्मेत्येवोपासीतऽइत्येवकारश्रुतेस्तदर्थविधिः । ‘निदिध्यासितव्यःऽ; इत्यपि ‘आत्मनस्तु कामायऽ; इत्युपक्रमात् ‘इदं सर्वं [क्क्स् १५५] यदयमात्माऽइत्युपसंहारादात्मस्वरूपपरमेकं वाक्यम् । तदन्तर्गताः ‘द्रष्टव्यः श्रोतव्यो निदिध्यासितव्यःऽ; इति न पृथग्विधयः कृत्यप्रत्यययोगे ऽपि । कृत्यप्रत्ययस्यार्थान्तरे ऽपि स्मरणादर्हादौ स्तुत्यर्थाः यथोपांशुयाजवाक्यान्तर्गताः ‘विष्णुरुपांशु यष्टव्यःऽइत्येवमादयः । ‘ऐतदात्म्यमिदं सर्वं तत्सत्यं स आत्मा तत्त्वमसिऽइति भूत एव पर्यवसितं वाक्यम् । तत्र ‘सदस्मि -- इति धारयेत्ऽ; इति कल्पनेयम् । तस्मात्त्रिविधस्यापि ज्ञानस्य विधेयत्वायोगात्, विना च विधेर्वाक्यार्थप्रतिपत्तेः, अपौरुषेयत्वेन निरपेक्षत्वाद्भूते ऽप्यर्थे वेदान्तानां प्रामाण्यसिद्धिः । तथा च ‘तत्तु समन्वयात्ऽइति चोदनालक्षणाद्धर्मात्तुशब्देन विशेष्यं ब्रह्म समन्वयगम्यमुक्तम् । समन्वयो हि पदार्थानां संसर्गो विनियोगस्ततो ब्रह्म गम्यते, न चोदनात इत्यर्थः । नन्वविशेषेण कार्ये ऽर्थे वेदस्य प्रामाण्यं वर्णितम् -- ‘चोदनालक्षणो ऽर्थो धर्मःऽ; इति । चोदनालक्षणो वेदार्थ इत्यर्थः । नैतत्सारम् । एवं हि सिद्धप्रामाण्यवेदार्थविचारो ऽयं स्यात्तदुत्तरलक्षणवत् । तत्रानन्तरं प्रामाण्यप्रतिपादनं न युज्येत, ‘वृत्तं प्रमाणलक्षणम्ऽ; इति च । मन्त्रार्थवादेषु च कार्यार्थत्वेन विप्रतिपत्तिर्न स्यात् । सा चोपरिष्टादेव निरसिष्यते बहु चात्र वक्तव्यमित्यलं प्रसङ्गेन । यथान्यमानव्यतिभेदमुक्ता मतिः प्रमाणत्वमुपैति कार्ये । अपौरुषेयागमलब्धजन्मा तथैव सिद्धे निरपेक्षभावात्

atha tu vākyāntarāttattvaniṣṭhādadhigate tadviṣayapratyayapravāhavidhānamiṣyate / bhavatu / na kaściddoṣaḥ / tathā ca ‘vijñāya prajñāṃ kurvīta'ityātmatattvavijñānasya siddhatāṃ darśayati / tadapi vā vyarthameva, prāptārthatvāt / sākṣātkaraṇaphalaṃ hi tattadanucintanaṃ dṛṣṭārtham, na tato 'nyatphalamākāṅkṣyate / amṛtatvaṃ hi na svarūpāvirbhāvādanyaditi prāgvarṇitam / dṛṣṭā ca jñānābhyāsasya samyagjñānaprasādahetutā loke / bhāvanāviśeṣāddhi abhūtamapyanubhavamāpadyate, kiṃ punarbhūtam / ‘sa kratuṃ kurvīta'; iti tu na sakalaviśeṣātigātmatattvānucintanaṃ vidhīyate tadbhāvaphalam, api tu nāmarūpopādhimanomayaprāṇaśarīrādirūpānudhyānamaiśvaryaphalam, krameṇa vā sākṣātkaraṇaphalam / ‘tameva dhīro vijñāya'; iti na prajñākaraṇavidhiḥ / ‘tameva'ityanyanivṛtteḥ śrutattvānnivṛttau tātparyaṃ gamyate, ‘raktaḥ paṭo bhavati'iti tayā raktaparatvaṃ vākyasya / atra ākāśāditattvabhedapūrvamavibhāgaḥ pratipāditaḥ, tatra tathaiva prajñākaraṇaprasaṅge ‘tameva'; iti vidhīyate / tathā ca pūrvārdhe -- ‘virajaḥ para ākāśādaja ātmā mahān dhruvaḥ'; / ityākāśādibhyaḥ paratvenātmatattvaṃ darśitam / tasya tathaiva prajñākaraṇaprasaṅge tannivṛttaye ‘tameva'; ityucyate / anyathā na evaśabdasya phalam, na ca nivartyaṃ vijñāyeta / tathā ca tadevottareṇa prapañcyate ‘nānudhyāyādbahūñchabdān'; ityekavākyatā / anyathā vākyaṃ bhidyeta / śabdamātre cānudhyānāprasaṅgāt śabdapūrvattvāttasya śabdārthaviṣayamevedamiti / evam ‘ātmetyevopāsīta'ityevakāraśrutestadarthavidhiḥ / ‘nididhyāsitavyaḥ'; ityapi ‘ātmanastu kāmāya'; ityupakramāt ‘idaṃ sarvaṃ [KKS 155] yadayamātmā'ityupasaṃhārādātmasvarūpaparamekaṃ vākyam / tadantargatāḥ ‘draṣṭavyaḥ śrotavyo nididhyāsitavyaḥ'; iti na pṛthagvidhayaḥ kṛtyapratyayayoge 'pi / kṛtyapratyayasyārthāntare 'pi smaraṇādarhādau stutyarthāḥ yathopāṃśuyājavākyāntargatāḥ ‘viṣṇurupāṃśu yaṣṭavyaḥ'ityevamādayaḥ / ‘aitadātmyamidaṃ sarvaṃ tatsatyaṃ sa ātmā tattvamasi'iti bhūta eva paryavasitaṃ vākyam / tatra ‘sadasmi -- iti dhārayet'; iti kalpaneyam / tasmāttrividhasyāpi jñānasya vidheyatvāyogāt, vinā ca vidhervākyārthapratipatteḥ, apauruṣeyatvena nirapekṣatvādbhūte 'pyarthe vedāntānāṃ prāmāṇyasiddhiḥ / tathā ca ‘tattu samanvayāt'iti codanālakṣaṇāddharmāttuśabdena viśeṣyaṃ brahma samanvayagamyamuktam / samanvayo hi padārthānāṃ saṃsargo viniyogastato brahma gamyate, na codanāta ityarthaḥ / nanvaviśeṣeṇa kārye 'rthe vedasya prāmāṇyaṃ varṇitam -- ‘codanālakṣaṇo 'rtho dharmaḥ'; iti / codanālakṣaṇo vedārtha ityarthaḥ / naitatsāram / evaṃ hi siddhaprāmāṇyavedārthavicāro 'yaṃ syāttaduttaralakṣaṇavat / tatrānantaraṃ prāmāṇyapratipādanaṃ na yujyeta, ‘vṛttaṃ pramāṇalakṣaṇam'; iti ca / mantrārthavādeṣu ca kāryārthatvena vipratipattirna syāt / sā copariṣṭādeva nirasiṣyate bahu cātra vaktavyamityalaṃ prasaṅgena / yathānyamānavyatibhedamuktā matiḥ pramāṇatvamupaiti kārye / apauruṣeyāgamalabdhajanmā tathaiva siddhe nirapekṣabhāvāt

Sanskrit only: no published translation is held for this verse.