Library·Taittirīya Saṃhitā (Kṛṣṇa Yajurveda; unaccented text)·2·2.2

Taittirīya Saṃhitā (Kṛṣṇa Yajurveda; unaccented text) 2.2

काम्याः इष्टयः। प्रजाकामादीन्प्रति ऐन्द्राग्नादि काम्येष्टीनां विधिः। प्रजापतिः प्रजा असृजत ताः सृष्टा इन्द्राग्नी अपागूहताम् । सो ऽचायत् प्रजापतिः । इन्द्राग्नी वै मे प्रजा अपाघुक्षताम् इति स एतम् ऐन्द्राग्नम् एकादशकपालम् अपश्यत् तं निर् अवपत् ताव् अस्मै प्रजाः प्रासाधयताम् इन्द्राग्नी वा एतस्य प्रजाम् अप गूहतो यो ऽलम् प्रजायै सन् प्रजां न विन्दते । ऐन्द्राग्नम् एकादशकपालं निर् वपेत् प्रजाकामः । इन्द्राग्नी एव स्वेन भागधेयेनोप धावति ताव् एवास्मै प्रजाम् प्र साधयतः । विन्दते प्रजाम् ऐन्द्राग्नम् एकादशकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा । इन्द्राग्नी एव स्वेन भागधेयेनोप धावति ताभ्याम् एवेन्द्रियं वीर्यम् भ्रातृव्यस्य वृङ्क्ते वि पाप्मना भ्रातृव्येण जयते । अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति यः संग्रामम् उपप्रयाति । ऐन्द्राग्नम् एकादशकपालं निः वपेत् संग्रामम् उपप्रयास्यन् । इन्द्राग्नी एव स्वेन भागधेयेनोप धावति ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः सहेन्द्रियेण वीर्येणोप प्र याति जयति तꣳ संग्रामम् । वि वा एष इन्द्रियेण वीर्येणर्ध्यते यः संग्रामं जयति । ऐन्द्राग्नम् एकादशकपालं निर् वपेत् संग्रामं जित्वा । इन्द्राग्नी एव स्वेन भागधेयेनोप धावति ताव् एवास्मिन्न् इन्द्रियं वीर्यम् 4 धत्तो नेन्द्रियेण वीर्येण व्यृध्यते । अप वा एतस्माद् इन्द्रियं वीर्यं क्रामति य एति जनताम् ऐन्द्राग्नम् एकादशकपालं निर् वपेज् जनताम् एष्यन् । इन्द्राग्नी एव स्वेन भागधेयेनोप धावति ताव् एवास्मिन्न् इन्द्रियं वीर्यं धत्तः सहेन्द्रियेण वीर्येण जनताम् एति पौष्णं चरुम् अनु निर् वपेत् पूषा वा इन्द्रियस्य वीर्यस्यानुप्रदाता पूषणम् एव 5 स्वेन भागधेयेनोप धावति स एवास्मा इन्द्रियं वीर्यम् अनु प्र यच्छति क्षैत्रपत्यं चरुं निर् वपेज् जनताम् आगत्य । इयं वै क्षेत्रस्य पतिः । अस्याम् एव प्रति तिष्ठति । ऐन्द्राग्नम् एकादशकपालम् उपरिष्टान् निर् वपेत् । अस्याम् एव प्रतिष्ठायेन्द्रियं वीर्यम् उपरिष्टाद् आत्मन् धत्ते ॥

kāmyāḥ iṣṭayaḥ| prajākāmādīnprati aindrāgnādi kāmyeṣṭīnāṃ vidhiḥ| prajāpatiḥ prajā asṛjata tāḥ sṛṣṭā indrāgnī apāgūhatām | so 'cāyat prajāpatiḥ | indrāgnī vai me prajā apāghukṣatām iti sa etam aindrāgnam ekādaśakapālam apaśyat taṃ nir avapat tāv asmai prajāḥ prāsādhayatām indrāgnī vā etasya prajām apa gūhato yo 'lam prajāyai san prajāṃ na vindate | aindrāgnam ekādaśakapālaṃ nir vapet prajākāmaḥ | indrāgnī eva svena bhāgadheyenopa dhāvati tāv evāsmai prajām pra sādhayataḥ | vindate prajām aindrāgnam ekādaśakapālaṃ nir vapet spardhamānaḥ kṣetre vā sajāteṣu vā | indrāgnī eva svena bhāgadheyenopa dhāvati tābhyām evendriyaṃ vīryam bhrātṛvyasya vṛṅkte vi pāpmanā bhrātṛvyeṇa jayate | apa vā etasmād indriyaṃ vīryaṃ krāmati yaḥ saṃgrāmam upaprayāti | aindrāgnam ekādaśakapālaṃ niḥ vapet saṃgrāmam upaprayāsyan | indrāgnī eva svena bhāgadheyenopa dhāvati tāv evāsminn indriyaṃ vīryaṃ dhattaḥ sahendriyeṇa vīryeṇopa pra yāti jayati tam̐ saṃgrāmam | vi vā eṣa indriyeṇa vīryeṇardhyate yaḥ saṃgrāmaṃ jayati | aindrāgnam ekādaśakapālaṃ nir vapet saṃgrāmaṃ jitvā | indrāgnī eva svena bhāgadheyenopa dhāvati tāv evāsminn indriyaṃ vīryam 4 dhatto nendriyeṇa vīryeṇa vyṛdhyate | apa vā etasmād indriyaṃ vīryaṃ krāmati ya eti janatām aindrāgnam ekādaśakapālaṃ nir vapej janatām eṣyan | indrāgnī eva svena bhāgadheyenopa dhāvati tāv evāsminn indriyaṃ vīryaṃ dhattaḥ sahendriyeṇa vīryeṇa janatām eti pauṣṇaṃ carum anu nir vapet pūṣā vā indriyasya vīryasyānupradātā pūṣaṇam eva 5 svena bhāgadheyenopa dhāvati sa evāsmā indriyaṃ vīryam anu pra yacchati kṣaitrapatyaṃ caruṃ nir vapej janatām āgatya | iyaṃ vai kṣetrasya patiḥ | asyām eva prati tiṣṭhati | aindrāgnam ekādaśakapālam upariṣṭān nir vapet | asyām eva pratiṣṭhāyendriyaṃ vīryam upariṣṭād ātman dhatte ||

Sanskrit only: no published translation is held for this verse.

अग्नये पथिकृते पुरोडाशम् अष्टाकपालं निर् वपेद् यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयेत् पथो वा एषो ऽध्य् अपथेनैति यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति । अग्निम् एव पथिकृतꣳ स्वेन भागधेयेनोप धावति स एवैनम् अपथात् पन्थाम् अपि नयति । अनड्वान् दक्षिणा वही ह्य् { एष ^ एषस् } समृद्ध्यै । अग्नये व्रतपतये पुरोडाशम् अष्टाकपालं निर् वपेद् य आहिताग्निः सन्न् अव्रत्यम् इव चरेत् । अग्निम् एव व्रतपतिꣳ स्वेन भागधेयेनोप धावति स एवैनं व्रतम् आ लम्भयति व्रत्यो भवति । अग्नये रक्षोघ्ने पुरोडाशम् अष्टाकपालं निर् वपति यꣳ रक्षाꣳसि सचेरन् । अग्निम् एव रक्षोहणꣳ स्वेन भागधेयेनोप धावति स एवास्माद् रक्षाꣳस्य् अप हन्ति । निशितायां निर् वपेत् । निशितायाꣳ हि रक्षाꣳसि प्रेरते । सम्प्रेर्णान्य् एवैनानि हन्ति । परिश्रिते याजयेद् रक्षसाम् अनन्ववचाराय रक्षोघ्नी याज्यानुवाक्ये भवतो रक्षसाꣳ स्तृत्यै । अग्नये रुद्रवते पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचरन् । एषा वा अस्य घोरा तनूर् यद् रुद्रस् तस्मा एवैनम् आ वृश्चति ताजग् आर्तिम् आर्छति । अग्नये सुरभिमते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्य गावो वा पुरुषाः वा प्रमीयेरन् यो वा बिभीयात् । एषा वा अस्य भेषज्या तनूर् यत् सुरभिमती तयैवास्मै भेषजं करोति सुरभिमते भवति पूतीगन्धस्यापहत्यै । अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते भागधेयेनैवैनꣳ शमयित्वा परान् अभि निर् दिशति यम् अवरेषां विध्यन्ति जीवति स यम् परेषाम् प्र स मीयते जयति तꣳ संग्रामम् । अभि वा एष एतान् उच्यति येषाम् पूर्वापरा अन्वञ्चः प्रमीयन्ते पुरुषाहुतिर् ह्य् अस्य प्रियतमाग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् । भागधेयेनैवैनꣳ शमयति नैषाम् पुराऽऽयुषोऽपरः प्र मीयते । अभि वा एष एतस्य गृहान् उच्यति यस्य गृहान् दहति । अग्नये क्षामवते पुरोडाशम् अष्टाकपालं निर् वपेत् । भागधेयेनैवैनꣳ शमयति नास्यापरं गृहान् दहति ॥

agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nir vaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet patho vā eṣo 'dhy apathenaiti yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati | agnim eva pathikṛtam̐ svena bhāgadheyenopa dhāvati sa evainam apathāt panthām api nayati | anaḍvān dakṣiṇā vahī hy { eṣa ^ eṣas } samṛddhyai | agnaye vratapataye puroḍāśam aṣṭākapālaṃ nir vaped ya āhitāgniḥ sann avratyam iva caret | agnim eva vratapatim̐ svena bhāgadheyenopa dhāvati sa evainaṃ vratam ā lambhayati vratyo bhavati | agnaye rakṣoghne puroḍāśam aṣṭākapālaṃ nir vapati yam̐ rakṣām̐si saceran | agnim eva rakṣohaṇam̐ svena bhāgadheyenopa dhāvati sa evāsmād rakṣām̐sy apa hanti | niśitāyāṃ nir vapet | niśitāyām̐ hi rakṣām̐si prerate | samprerṇāny evaināni hanti | pariśrite yājayed rakṣasām ananvavacārāya rakṣoghnī yājyānuvākye bhavato rakṣasām̐ stṛtyai | agnaye rudravate puroḍāśam aṣṭākapālaṃ nir vaped abhicaran | eṣā vā asya ghorā tanūr yad rudras tasmā evainam ā vṛścati tājag ārtim ārchati | agnaye surabhimate puroḍāśam aṣṭākapālaṃ nir vaped yasya gāvo vā puruṣāḥ vā pramīyeran yo vā bibhīyāt | eṣā vā asya bheṣajyā tanūr yat surabhimatī tayaivāsmai bheṣajaṃ karoti surabhimate bhavati pūtīgandhasyāpahatyai | agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nir vapet saṃgrāme saṃyatte bhāgadheyenaivainam̐ śamayitvā parān abhi nir diśati yam avareṣāṃ vidhyanti jīvati sa yam pareṣām pra sa mīyate jayati tam̐ saṃgrāmam | abhi vā eṣa etān ucyati yeṣām pūrvāparā anvañcaḥ pramīyante puruṣāhutir hy asya priyatamāgnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nir vapet | bhāgadheyenaivainam̐ śamayati naiṣām purā''yuṣo'paraḥ pra mīyate | abhi vā eṣa etasya gṛhān ucyati yasya gṛhān dahati | agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nir vapet | bhāgadheyenaivainam̐ śamayati nāsyāparaṃ gṛhān dahati ||

Sanskrit only: no published translation is held for this verse.

अग्नये कामाय पुरोडाशम् अष्टाकपालं निर् वपेद् यं कामो नोपनमेत् । अग्निम् एव कामꣳ स्वेन भागधेयेनोप धावति स एवैनं कामेन सम् अर्धयति । उपैनं कामो नमति । अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेत् स्पर्धमानः क्षेत्रे वा सजातेषु वा । अग्निम् एव यविष्ठꣳ स्वेन भागधेयेनोप धावति तेनैवेन्द्रियं वीर्यम् भ्रातृव्यस्य युवते । वि पाप्मना भ्रातृव्येण जयते । अग्नये यविष्ठाय पुरोडाशम् अष्टाकपालं निर् वपेद् अभिचर्यमाणः । अग्निम् एव यविष्ठꣳ स्वेन भागधेयेनोप धावति स एवास्माद् रक्षाꣳसि यवयति नैनम् अभिचरन्त् स्तृणुते । अग्नय आयुष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत सर्वम् आयुर् इयाम् इति । अग्निम् एवायुष्मन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मिन् आयुर् दधाति । सर्वम् आयुर् एति । अग्नये जातवेदसे पुरोडाशम् अष्टाकपालं निर् वपेद् भूतिकामः । अग्निम् एव जातवेदसꣳ स्वेन भागधेयेनोप धावति स एवैनम् भूतिं गमयति भवत्य् एव । अग्नये रुक्मते पुरोडाशम् अष्टाकपालं निर् वपेद् रुक्कामः । अग्निम् एव रुक्मन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मिन् रुचं दधाति रोचत एव । अग्नये तेजस्वते पुरोडाशम् अष्टाकपालं निर् वपेत् तेजस्कामः । अग्निम् एव तेजस्वन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मिन् तेजो दधाति तेजस्व्य् एव भवति । अग्नये साहन्त्याय पुरोडाशम् अष्टाकपालं निर् वपेत् सीक्षमाणः । अग्निम् एव साहन्त्यꣳ स्वेन भागधेयेनोप धावति तेनैव सहते यꣳ सीक्षते ॥

agnaye kāmāya puroḍāśam aṣṭākapālaṃ nir vaped yaṃ kāmo nopanamet | agnim eva kāmam̐ svena bhāgadheyenopa dhāvati sa evainaṃ kāmena sam ardhayati | upainaṃ kāmo namati | agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nir vapet spardhamānaḥ kṣetre vā sajāteṣu vā | agnim eva yaviṣṭham̐ svena bhāgadheyenopa dhāvati tenaivendriyaṃ vīryam bhrātṛvyasya yuvate | vi pāpmanā bhrātṛvyeṇa jayate | agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nir vaped abhicaryamāṇaḥ | agnim eva yaviṣṭham̐ svena bhāgadheyenopa dhāvati sa evāsmād rakṣām̐si yavayati nainam abhicarant stṛṇute | agnaya āyuṣmate puroḍāśam aṣṭākapālaṃ nir vaped yaḥ kāmayeta sarvam āyur iyām iti | agnim evāyuṣmantam̐ svena bhāgadheyenopa dhāvati sa evāsmin āyur dadhāti | sarvam āyur eti | agnaye jātavedase puroḍāśam aṣṭākapālaṃ nir vaped bhūtikāmaḥ | agnim eva jātavedasam̐ svena bhāgadheyenopa dhāvati sa evainam bhūtiṃ gamayati bhavaty eva | agnaye rukmate puroḍāśam aṣṭākapālaṃ nir vaped rukkāmaḥ | agnim eva rukmantam̐ svena bhāgadheyenopa dhāvati sa evāsmin rucaṃ dadhāti rocata eva | agnaye tejasvate puroḍāśam aṣṭākapālaṃ nir vapet tejaskāmaḥ | agnim eva tejasvantam̐ svena bhāgadheyenopa dhāvati sa evāsmin tejo dadhāti tejasvy eva bhavati | agnaye sāhantyāya puroḍāśam aṣṭākapālaṃ nir vapet sīkṣamāṇaḥ | agnim eva sāhantyam̐ svena bhāgadheyenopa dhāvati tenaiva sahate yam̐ sīkṣate ||

Sanskrit only: no published translation is held for this verse.

अग्नये ऽन्नवते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नवान्त् स्याम् इति । अग्निम् एवान्नवन्तꣳ स्वेन भागधेयेनोप धावति स एवैनम् अन्नवन्तं करोत्य् अन्नवान् एव भवति । अग्नये ऽन्नादाय पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नादः स्याम् इति । अग्निम् एवान्नादꣳ स्वेन भागधेयेनोप धावति स एवैनम् अन्नादं करोत्य् अन्नादः एव भवति । अग्नये ऽन्नपतये पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेतान्नपतिः स्याम् इति । अग्निम् एवान्नपतिꣳ स्वेन भागधेयेनोप धावति स एवैनम् अन्नपतिं करोत्य् अन्नपतिर् एव भवति । अग्नये पवमानाय पुरोडाशम् अष्टाकपालं निर् वपेद् अग्नये पावकायाग्नये शुचये ज्योगामयावी यद् अग्नये पवमानाय निर्वपति प्राणम् एवास्मिन् तेन दधाति यद् अग्नये पावकाय वाचम् एवास्मिन् तेन दधाति यद् अग्नये शुचये । आयुर् एवास्मिन् तेन दधात्य् उत यदीतासुर् भवति जीवत्य् एव । एताम् एव निर् वपेच् चक्षुष्कामो यद् अग्नये पवमानाय निर्वपति प्राणम् एवास्मिन् तेन दधाति यद् अग्नये पावकाय वाचम् एवास्मिन् तेन दधाति यद् अग्नये शुचये चक्षुर् एवास्मिन् तेन दधाति ॥ उत यद्य् अन्धो भवति प्रैव पश्यति । अग्नये पुत्रवते पुरोडाशम् अष्टाकपालं निर् वपेत् । इन्द्राय पुत्रिणे पुरोडाशम् एकादशकपालम् प्रजाकामः । अग्निर् एवास्मै प्रजाम् प्रजनयति वृद्धाम् इन्द्रः प्र यच्छति । अग्नये रसवते ऽजक्षीरे चरुं निर् वपेद् यः कामयेत रसवान्त् स्याम् इति । अग्निम् एव रसवन्तꣳ स्वेन भागधेयेनोप धावति स एवैनꣳ रसवन्तं करोति ॥ रसवान् एव भवत्य् अजक्षीरे भवति । आग्नेयी वा एषा यद् अजा साक्षाद् एव रसम् अव रुन्द्धे । अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेद् यः कामयेत वसुमान्त् स्याम् इति । अग्निम् एव वसुमन्तꣳ स्वेन भागधेयेनोप धावति स एवैनं वसुमन्तं करोति वसुमान् एव भवति । अग्नये वाजसृते पुरोडाशम् अष्टाकपालं निर् वपेत् संग्रामे संयत्ते वाजं वा एष सिसीर्षति यः संग्रामं जिगीषति । अग्निः खलु वै देवानां वाजसृद् अग्निम् एव वाजसृतꣳ स्वेन भागधेयेनोप धावति धावति वाजꣳ हन्ति वृत्रं जयति तꣳ संग्रामम् अथो अग्निर् इव न प्रतिधृषे भवति । अग्नये ऽग्निवते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्नाव् अग्निम् अभ्युद्धरेयुः । निर्दिष्टभागो वा एतयोर् अन्यो ऽनिर्दिष्टभागो ऽन्यस् तौ सम्भवन्तौ यजमानम् अभि सम् भवतः । स ईश्वर आर्तिम् आर्तोर् यद् अग्नये ऽग्निवते निर्वपति भागधेयेनैवैनौ शमयति नार्तिम् आर्छति यजमानः । अग्नये ज्योतिष्मते पुरोडाशम् अष्टाकपालं निर् वपेद् यस्याग्निर् उद्धृतो ऽहुते ऽग्निहोत्र उद्वायेद् अपर आदीप्यानूद्धृत्य इत्य् आहुस् तत् तथा न कार्यं यद् भागधेयम् अभि पूर्व उद्ध्रियते किम् अपरो ऽभ्य् उत् ह्रियेतेति तान्य् एवावक्षाणानि संनिधाय मन्थेत् । इतः प्रथमं जज्ञे अग्निः स्वाद् योनेर् अधि जातवेदाः । स गायत्रिया त्रिष्टुभा जगत्या देवेभ्यो हव्यं वहतु प्रजानन्न् इति छन्दोभिर् एवैनꣳ स्वाद् योनेः प्र जनयत्य् एष वाव सो ऽग्निर् इत्य् आहुर् ज्योतिस् त्वा अस्य परापतितम् इति यद् अग्नये ज्योतिष्मते निर्वपति यद् एवास्य ज्योतिः परापतितं तद् एवाव रुन्द्धे ॥

agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nir vaped yaḥ kāmayetānnavānt syām iti | agnim evānnavantam̐ svena bhāgadheyenopa dhāvati sa evainam annavantaṃ karoty annavān eva bhavati | agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nir vaped yaḥ kāmayetānnādaḥ syām iti | agnim evānnādam̐ svena bhāgadheyenopa dhāvati sa evainam annādaṃ karoty annādaḥ eva bhavati | agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nir vaped yaḥ kāmayetānnapatiḥ syām iti | agnim evānnapatim̐ svena bhāgadheyenopa dhāvati sa evainam annapatiṃ karoty annapatir eva bhavati | agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nir vaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī yad agnaye pavamānāya nirvapati prāṇam evāsmin tena dadhāti yad agnaye pāvakāya vācam evāsmin tena dadhāti yad agnaye śucaye | āyur evāsmin tena dadhāty uta yadītāsur bhavati jīvaty eva | etām eva nir vapec cakṣuṣkāmo yad agnaye pavamānāya nirvapati prāṇam evāsmin tena dadhāti yad agnaye pāvakāya vācam evāsmin tena dadhāti yad agnaye śucaye cakṣur evāsmin tena dadhāti || uta yady andho bhavati praiva paśyati | agnaye putravate puroḍāśam aṣṭākapālaṃ nir vapet | indrāya putriṇe puroḍāśam ekādaśakapālam prajākāmaḥ | agnir evāsmai prajām prajanayati vṛddhām indraḥ pra yacchati | agnaye rasavate 'jakṣīre caruṃ nir vaped yaḥ kāmayeta rasavānt syām iti | agnim eva rasavantam̐ svena bhāgadheyenopa dhāvati sa evainam̐ rasavantaṃ karoti || rasavān eva bhavaty ajakṣīre bhavati | āgneyī vā eṣā yad ajā sākṣād eva rasam ava runddhe | agnaye vasumate puroḍāśam aṣṭākapālaṃ nir vaped yaḥ kāmayeta vasumānt syām iti | agnim eva vasumantam̐ svena bhāgadheyenopa dhāvati sa evainaṃ vasumantaṃ karoti vasumān eva bhavati | agnaye vājasṛte puroḍāśam aṣṭākapālaṃ nir vapet saṃgrāme saṃyatte vājaṃ vā eṣa sisīrṣati yaḥ saṃgrāmaṃ jigīṣati | agniḥ khalu vai devānāṃ vājasṛd agnim eva vājasṛtam̐ svena bhāgadheyenopa dhāvati dhāvati vājam̐ hanti vṛtraṃ jayati tam̐ saṃgrāmam atho agnir iva na pratidhṛṣe bhavati | agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nir vaped yasyāgnāv agnim abhyuddhareyuḥ | nirdiṣṭabhāgo vā etayor anyo 'nirdiṣṭabhāgo 'nyas tau sambhavantau yajamānam abhi sam bhavataḥ | sa īśvara ārtim ārtor yad agnaye 'gnivate nirvapati bhāgadheyenaivainau śamayati nārtim ārchati yajamānaḥ | agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nir vaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut hriyeteti tāny evāvakṣāṇāni saṃnidhāya manthet | itaḥ prathamaṃ jajñe agniḥ svād yoner adhi jātavedāḥ | sa gāyatriyā triṣṭubhā jagatyā devebhyo havyaṃ vahatu prajānann iti chandobhir evainam̐ svād yoneḥ pra janayaty eṣa vāva so 'gnir ity āhur jyotis tvā asya parāpatitam iti yad agnaye jyotiṣmate nirvapati yad evāsya jyotiḥ parāpatitaṃ tad evāva runddhe ||

Sanskrit only: no published translation is held for this verse.

वैश्वानरं द्वादशकपालं निर् वपेद् वारुणं चरुं दधिक्राव्णे चरुम् अभिशस्यमानः । यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरेणैवैनꣳ स्वदयत्य् अप पापं वर्णꣳ हते वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् आद्यम् अस्यान्नम् भवति । एताम् एव निर् वपेत् प्रजाकामः संवत्सरो वा एतस्याशान्तो योनिम् प्रजायै पशूनां निर् दहति यो ऽलम् प्रजायै सन् प्रजां न विन्दते यद् वैश्वानरो द्वादशकपालो भवति संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव भागधेयेन शमयति सो ऽस्मै शान्तः स्वाद् योनेः प्रजाम् प्र जनयति वारुणेनैवैनं वरुणपाशान् मुञ्चति दधिक्राव्णा पुनाति हिरण्यं दक्षिणा पवित्रं वै हिरण्यम् पुनात्य् एवैनम् । विन्दते प्रजाम् । वैश्वानरं द्वादशकपालं निर् वपेत् पुत्रे जाते यद् अष्टाकपालो भवति गायत्रियैवैनम् ब्रह्मवर्चसेन पुनाति यन् नवकपालस् त्रिवृतैवास्मिन् तेजो दधाति यद् दशकपालो विराजैवास्मिन्न् अन्नाद्यं दधाति यद् एकादशकपालस् त्रिष्टुभैवास्मिन्न् इन्द्रियं दधाति यद् द्वादशकपालो जगत्यैवास्मिन् पशून् दधाति यस्मिञ् जात एताम् इष्टिम् निर्वपति पूतः एव तेजस्व्य् अन्नाद इन्द्रियावी पशुमान् भवति । अव वा एष सुवर्गाल् लोकाच् छिद्यते यो दर्शपूर्णमासयाजी सन्न् अमावास्यां वा पौर्णमासीं वातिपादयति सुवर्गाय हि लोकाय दर्शपूर्णमासाव् इज्येते वैश्वानरं द्वादशकपालं निर् वपेद् अमावास्यां वा पौर्णमासीं वातिपाद्य संवत्सरो वा अग्निर् वैश्वानरः संवत्सरम् एव प्रीणात्य् अथो संवत्सरम् एवास्मा उप दधाति सुवर्गस्य लोकस्य समष्ट्यै ॥ अथो देवता एवान्वारभ्य सुवर्गं लोकम् एति वीरहा वा एष देवानां यो ऽग्निम् उद्वासयते न वा एतस्य ब्राह्मणा ऋतायवः पुरान्नम् अक्षन् । आग्नेयम् अष्टाकपालं निर् वपेत् । वैश्वानरं द्वादशकपालम् अग्निम् उद्वासयिष्यन् यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रो ऽग्निर् यावान् एवाग्निस् तस्मा आतिथ्यं करोति । अथो यथा जनं यते ऽवसं करोति तादृक् एव तत् । द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरः खलु वा अग्नेर् योनिः स्वाम् एवैनं योनिं गमयति । आद्यम् अस्यान्नम् भवति वैश्वानरं द्वादशकपालं निर् वपेन् मारुतꣳ सप्तकपालं ग्रामकामः । आहवनीये वैश्वानरम् अधि श्रयति गार्हपत्ये मारुतम् पापवस्यसस्य विधृत्यै द्वादशकपालो वैश्वानरो भवति द्वादश मासाः संवत्सरः संवत्सरेणैवास्मै सजाताꣳश् च्यावयति मारुतो भवति ॥ मरुतो वै देवानां विशो देवविशेनैवास्मै मनुष्यविशम् अव रुन्द्धे सप्तकपालो भवति सप्तगणा वै मरुतो गणश एवास्मै सजातान् अव रुन्द्धे । अनूच्यमान आ सादयति विशम् एवास्मा अनुवर्त्मानं करोति ॥

vaiśvānaraṃ dvādaśakapālaṃ nir vaped vāruṇaṃ caruṃ dadhikrāvṇe carum abhiśasyamānaḥ | yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsareṇaivainam̐ svadayaty apa pāpaṃ varṇam̐ hate vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam ādyam asyānnam bhavati | etām eva nir vapet prajākāmaḥ saṃvatsaro vā etasyāśānto yonim prajāyai paśūnāṃ nir dahati yo 'lam prajāyai san prajāṃ na vindate yad vaiśvānaro dvādaśakapālo bhavati saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva bhāgadheyena śamayati so 'smai śāntaḥ svād yoneḥ prajām pra janayati vāruṇenaivainaṃ varuṇapāśān muñcati dadhikrāvṇā punāti hiraṇyaṃ dakṣiṇā pavitraṃ vai hiraṇyam punāty evainam | vindate prajām | vaiśvānaraṃ dvādaśakapālaṃ nir vapet putre jāte yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti yasmiñ jāta etām iṣṭim nirvapati pūtaḥ eva tejasvy annāda indriyāvī paśumān bhavati | ava vā eṣa suvargāl lokāc chidyate yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayati suvargāya hi lokāya darśapūrṇamāsāv ijyete vaiśvānaraṃ dvādaśakapālaṃ nir vaped amāvāsyāṃ vā paurṇamāsīṃ vātipādya saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaram eva prīṇāty atho saṃvatsaram evāsmā upa dadhāti suvargasya lokasya samaṣṭyai || atho devatā evānvārabhya suvargaṃ lokam eti vīrahā vā eṣa devānāṃ yo 'gnim udvāsayate na vā etasya brāhmaṇā ṛtāyavaḥ purānnam akṣan | āgneyam aṣṭākapālaṃ nir vapet | vaiśvānaraṃ dvādaśakapālam agnim udvāsayiṣyan yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti | atho yathā janaṃ yate 'vasaṃ karoti tādṛk eva tat | dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ khalu vā agner yoniḥ svām evainaṃ yoniṃ gamayati | ādyam asyānnam bhavati vaiśvānaraṃ dvādaśakapālaṃ nir vapen mārutam̐ saptakapālaṃ grāmakāmaḥ | āhavanīye vaiśvānaram adhi śrayati gārhapatye mārutam pāpavasyasasya vidhṛtyai dvādaśakapālo vaiśvānaro bhavati dvādaśa māsāḥ saṃvatsaraḥ saṃvatsareṇaivāsmai sajātām̐ś cyāvayati māruto bhavati || maruto vai devānāṃ viśo devaviśenaivāsmai manuṣyaviśam ava runddhe saptakapālo bhavati saptagaṇā vai maruto gaṇaśa evāsmai sajātān ava runddhe | anūcyamāna ā sādayati viśam evāsmā anuvartmānaṃ karoti ||

Sanskrit only: no published translation is held for this verse.

आदित्यं चरुं निर् वपेत् संग्रामम् उपप्रयास्यन् । इयं वा अदितिः । अस्याम् एव पूर्वे प्रति तिष्ठन्ति वैश्वानरं द्वादशकपालं निर् वपेद् आयतनं गत्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सरः खलु वै देवानाम् आयतनम् एतस्माद् वा आयतनाद् देवा असुरान् अजयन् यद् वैश्वानरं द्वादशकपालं निर्वपति देवानाम् एवायतने यतते जयति तꣳ संग्रामम् । एतस्मिन् वा एतौ मृजाते यो विद्विषाणयोर् अन्नम् अत्ति वैश्वानरं द्वादशकपालं निर् वपेद् विद्विषाणयोर् अन्नं जग्ध्वा संवत्सरो वा अग्निर् वैश्वानरः संवत्सरस्वदितम् एवात्ति नास्मिन् मृजाते संवत्सराय वा एतौ सममाते यौ सममाते तयोर् यः पूर्वो ऽभिद्रुह्यति तं वरुणो गृह्णाति वैश्वानरं द्वादशकपालं निर् वपेत् सममानयोः पूर्वोऽभिद्रुह्य संवत्सरो वा अग्निर् वैश्वानरः । सम्वत्सरम् एवाप्त्वा निर्वरुणम् परस्ताद् अभि द्रुह्यति नैनं वरुणो गृह्णाति । आव्यं वा एष प्रति गृह्णाति यो ऽविम् प्रतिगृह्णाति वैश्वानरं द्वादशकपालं निर् वपेद् अविम् प्रतिगृह्य संवत्सरो वा अग्निर् वैश्वानरः संवत्सरस्वदिताम् एव प्रतिगृह्णाति नाव्यम् प्रति गृह्णाति । आत्मनो वा एष मात्राम् आप्नोति य उभयादत् प्रतिगृह्णात्य् अश्वं वा पुरुषं वा वैश्वानरं द्वादशकपालं निर् वपेद् उभयादत् प्रतिगृह्य । संवत्सरो वा अग्निर् वैश्वानरः संवत्सरस्वदितम् एव प्रति गृह्णाति नात्मनो मात्राम् आप्नोति वैश्वानरं द्वादशकपालं निर् वपेत् सनिम् एष्यन् । संवत्सरो वा अग्निर् वैश्वानरः । यदा खलु वै संवत्सरं जनतायां चरत्य् अथ स धनार्घो भवति यद् वैश्वानरं द्वादशकपालं निर्वपति संवत्सरसाताम् एव सनिम् अभि प्र च्यवते दानकामा अस्मै प्रजा भवन्ति यो वै संवत्सरम् प्रयुज्य न विमुञ्चत्य् अप्रतिष्ठानो वै स भवति । एतम् एव वैश्वानरम् पुनर् आगत्य निर् वपेत् । यम् एव प्रयुङ्क्ते तम् भागधेयेन वि मुञ्चति प्रतिष्ठित्यै यया रज्ज्वोत्तमां गाम् आजेत् ताम् भ्रातृव्याय प्र हिणुयात् । निर्ऋतिम् एवास्मै प्र हिणोति ॥

ādityaṃ caruṃ nir vapet saṃgrāmam upaprayāsyan | iyaṃ vā aditiḥ | asyām eva pūrve prati tiṣṭhanti vaiśvānaraṃ dvādaśakapālaṃ nir vaped āyatanaṃ gatvā saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsaraḥ khalu vai devānām āyatanam etasmād vā āyatanād devā asurān ajayan yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati devānām evāyatane yatate jayati tam̐ saṃgrāmam | etasmin vā etau mṛjāte yo vidviṣāṇayor annam atti vaiśvānaraṃ dvādaśakapālaṃ nir vaped vidviṣāṇayor annaṃ jagdhvā saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarasvaditam evātti nāsmin mṛjāte saṃvatsarāya vā etau samamāte yau samamāte tayor yaḥ pūrvo 'bhidruhyati taṃ varuṇo gṛhṇāti vaiśvānaraṃ dvādaśakapālaṃ nir vapet samamānayoḥ pūrvo'bhidruhya saṃvatsaro vā agnir vaiśvānaraḥ | samvatsaram evāptvā nirvaruṇam parastād abhi druhyati nainaṃ varuṇo gṛhṇāti | āvyaṃ vā eṣa prati gṛhṇāti yo 'vim pratigṛhṇāti vaiśvānaraṃ dvādaśakapālaṃ nir vaped avim pratigṛhya saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarasvaditām eva pratigṛhṇāti nāvyam prati gṛhṇāti | ātmano vā eṣa mātrām āpnoti ya ubhayādat pratigṛhṇāty aśvaṃ vā puruṣaṃ vā vaiśvānaraṃ dvādaśakapālaṃ nir vaped ubhayādat pratigṛhya | saṃvatsaro vā agnir vaiśvānaraḥ saṃvatsarasvaditam eva prati gṛhṇāti nātmano mātrām āpnoti vaiśvānaraṃ dvādaśakapālaṃ nir vapet sanim eṣyan | saṃvatsaro vā agnir vaiśvānaraḥ | yadā khalu vai saṃvatsaraṃ janatāyāṃ caraty atha sa dhanārgho bhavati yad vaiśvānaraṃ dvādaśakapālaṃ nirvapati saṃvatsarasātām eva sanim abhi pra cyavate dānakāmā asmai prajā bhavanti yo vai saṃvatsaram prayujya na vimuñcaty apratiṣṭhāno vai sa bhavati | etam eva vaiśvānaram punar āgatya nir vapet | yam eva prayuṅkte tam bhāgadheyena vi muñcati pratiṣṭhityai yayā rajjvottamāṃ gām ājet tām bhrātṛvyāya pra hiṇuyāt | nirṛtim evāsmai pra hiṇoti ||

Sanskrit only: no published translation is held for this verse.

ऐन्द्रं चरुं निर् वपेत् पशुकामः । ऐन्द्रा वै पशवः । इन्द्रम् एव स्वेन भागधेयेनोप धावति स एवास्मै पशून् प्र यच्छति पशुमान् एव भवति चरुर् भवति स्वाद् एवास्मै योनेः पशून् प्र जनयति । इन्द्रायेन्द्रियावते पुरोडाशम् एकादशकपालं निर् वपेत् पशुकामः । इन्द्रियं वै पशवः । इन्द्रम् एवेन्द्रियावन्तꣳ स्वेन भागधेयेनोप धावति सः एवास्मा इन्द्रियम् पशून् प्र यच्छति। पशुमान् एव भवति । इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् ब्रह्मवर्चसकामः । ब्रह्मवर्चसं वै घर्मः । इन्द्रम् एव घर्मवन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मिन् ब्रह्मवर्चसं दधाति ब्रह्मवर्चस्य् एव भवति । इन्द्रायार्कवते पुरोडाशम् एकादशकपालं निर् वपेद् अन्नकामः । अर्को वै देवानाम् अन्नम् इन्द्रम् एवार्कवन्तꣳ स्वेन भागधेयेन उप धावति स एवास्मा अन्नम् प्र यच्छति । अन्नाद एव भवति । इन्द्राय घर्मवते पुरोडाशम् एकादशकपालं निर् वपेद् इन्द्रायेन्द्रियावत इन्द्रायार्कवते भूतिकामः । यद् इन्द्राय घर्मवते निर्वपति शिर एवास्य तेन करोति यद् इन्द्रायेन्द्रियावत आत्मानम् एवास्य तेन करोति यद् इन्द्रायार्कवते भूत एवान्नाद्ये प्रति तिष्ठति भवत्य् एव । इन्द्राय अ̇ꣳहोमुचे पुरोडाशम् एकादशकपालं निर् वपेद् यः पाप्मना गृहीतः स्यात् पाप्मा वा अꣳहः । इन्द्रम् एवाꣳहोमुचꣳ स्वेन भागधेयेनोप धावति स एवैनम् पाप्मनो ऽꣳहसो मुञ्चति । इन्द्राय वैमृधाय पुरोडाशम् एकादशकपालं निर् वपेद् यम् मृधो ऽभि प्रवेपेरन् राष्ट्राणि वाभि समीयुः । इन्द्रम् एव वैमृधꣳ स्वेन भागधेयेनोप धावति स एवास्मान् मृधः अप हन्ति । इन्द्राय त्रात्रे पुरोडाशम् एकादशकपालं निर् वपेद् बद्धो वा परियत्तो वा । इन्द्रम् एव त्रातारꣳ स्वेन भागधेयेनोप धावति स एवैनं त्रायते । इन्द्रायार्काश्वमेधवते पुरोडाशम् एकादशकपालं निर् वपेद् यम् महायज्ञो नोपनमेत् । एते वै महायज्ञस्यान्त्ये तनू यद् अर्काश्वमेधौ । इन्द्रम् एवार्काश्वमेधवन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मा अन्ततो महायज्ञं च्यावयति । उपैनं महायज्ञो नमति ॥

aindraṃ caruṃ nir vapet paśukāmaḥ | aindrā vai paśavaḥ | indram eva svena bhāgadheyenopa dhāvati sa evāsmai paśūn pra yacchati paśumān eva bhavati carur bhavati svād evāsmai yoneḥ paśūn pra janayati | indrāyendriyāvate puroḍāśam ekādaśakapālaṃ nir vapet paśukāmaḥ | indriyaṃ vai paśavaḥ | indram evendriyāvantam̐ svena bhāgadheyenopa dhāvati saḥ evāsmā indriyam paśūn pra yacchati| paśumān eva bhavati | indrāya gharmavate puroḍāśam ekādaśakapālaṃ nir vaped brahmavarcasakāmaḥ | brahmavarcasaṃ vai gharmaḥ | indram eva gharmavantam̐ svena bhāgadheyenopa dhāvati sa evāsmin brahmavarcasaṃ dadhāti brahmavarcasy eva bhavati | indrāyārkavate puroḍāśam ekādaśakapālaṃ nir vaped annakāmaḥ | arko vai devānām annam indram evārkavantam̐ svena bhāgadheyena upa dhāvati sa evāsmā annam pra yacchati | annāda eva bhavati | indrāya gharmavate puroḍāśam ekādaśakapālaṃ nir vaped indrāyendriyāvata indrāyārkavate bhūtikāmaḥ | yad indrāya gharmavate nirvapati śira evāsya tena karoti yad indrāyendriyāvata ātmānam evāsya tena karoti yad indrāyārkavate bhūta evānnādye prati tiṣṭhati bhavaty eva | indrāya ȧm̐homuce puroḍāśam ekādaśakapālaṃ nir vaped yaḥ pāpmanā gṛhītaḥ syāt pāpmā vā am̐haḥ | indram evām̐homucam̐ svena bhāgadheyenopa dhāvati sa evainam pāpmano 'm̐haso muñcati | indrāya vaimṛdhāya puroḍāśam ekādaśakapālaṃ nir vaped yam mṛdho 'bhi praveperan rāṣṭrāṇi vābhi samīyuḥ | indram eva vaimṛdham̐ svena bhāgadheyenopa dhāvati sa evāsmān mṛdhaḥ apa hanti | indrāya trātre puroḍāśam ekādaśakapālaṃ nir vaped baddho vā pariyatto vā | indram eva trātāram̐ svena bhāgadheyenopa dhāvati sa evainaṃ trāyate | indrāyārkāśvamedhavate puroḍāśam ekādaśakapālaṃ nir vaped yam mahāyajño nopanamet | ete vai mahāyajñasyāntye tanū yad arkāśvamedhau | indram evārkāśvamedhavantam̐ svena bhāgadheyenopa dhāvati sa evāsmā antato mahāyajñaṃ cyāvayati | upainaṃ mahāyajño namati ||

Sanskrit only: no published translation is held for this verse.

इन्द्रायान्वृजवे पुरोडाशम् एकादशकपालं निर् वपेद् ग्रामकामः । इन्द्रम् एवान्वृजुꣳ स्वेन भागधेयेनोप धावति स एवास्मै सजातान् अनुकान् करोति ग्राम्य् एव भवति । इन्द्राण्यै चरुं निर् वपेद् यस्य सेनाऽसꣳशितेव स्यात् । इन्द्राणी वै सेनायै देवता । इन्द्राणीं एव स्वेन भागधेयेनोप धावति सैवास्य सेनाꣳ सꣳ श्यति बल्बजान् अपि इध्मे सं नह्येत् । गौर् यत्राधिष्कन्ना न्यमेहत् ततो बल्बजा उद् अतिष्ठन् गवाम् एवैनं न्यायम् अपिनीय गा वेदयति । इन्द्राय मन्युमते मनस्वते पुरोडाशम् एकादशकपालं निर् वपेत् संग्रामे संयत्ते । इन्द्रियेण वै मन्युना मनसा संग्रामं जयति । इन्द्रम् एव मन्युमन्तम् मनस्वन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति जयति तम् संग्रामम् एताम् एव निर् वपेद् यो हतमनाः स्वयम्पाप इव स्यात् । एतानि हि वा एतस्माद् अपक्रान्तानि । अथैष हतमनाः स्वयम्पाप इन्द्रम् एव मन्युमन्तम् मनस्वन्तꣳ स्वेन भागधेयेनोप धावति स एवास्मिन्न् इन्द्रियम् मन्युम् मनो दधाति न हतमनाः स्वयम्पापो भवति । इन्द्राय दात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यः कामयेत दानकामा मे प्रजाः स्युः इति । इन्द्रम् एव दातारꣳ स्वेन भागधेयेनोप धावति स एवास्मै दानकामाः प्रजाः करोति दानकामा अस्मै प्रजा भवन्ति । इन्द्राय प्रदात्रे पुरोडाशम् एकादशकपालं निर् वपेद् यस्मै प्रत्तम् इव सन् न प्रदीयेत । इन्द्रम् एव प्रदातारꣳ स्वेन भागधेयेनोप धावति स एवास्मै प्र दापयति । इन्द्राय सुत्राम्णे पुरोडाशम् एकादशकपालं निर् वपेद् अपरुद्धो वा ॥ अपरुध्यमानो वा । इन्द्रम् एव सुत्रामाणꣳ स्वेन भागधेयेनोप धावति स एवैनं त्रायते । अनपरुध्यो भवति । इन्द्रो वै सदृङ् देवताभिर् आसीत् स न व्यावृतम् अगच्छत् स प्रजापतिम् उपाधावत् तस्मा एतम् ऐन्द्रम् एकादशकपालं निर् अवपत् तेनैवास्मिन्न् इन्द्रियम् अदधात् । शक्वरी याज्यानुवाक्ये अकरोत् । वज्रो वै शक्वरी स एनं वज्रो भूत्या ऐन्द्ध । सो ऽभवत् सो ऽबिभेद् भूतः प्र मा धक्ष्यतीति स प्रजापतिम् पुनर् उपाधावत् स प्रजापतिः शक्वर्या अधि रेवतीं निर् अमिमीत शान्त्या अप्रदाहाय यो ऽलꣳ श्रियै सन्त् सदृङ्क् समानैः स्यात् तस्मा एतमैन्द्रम् एकादशकपालं निर् वपेत् । इन्द्रम् एव स्वेन भागधेयेनोप धावति स एवास्मिन्न् इन्द्रियं दधाति रेवती पुरोऽनुवाक्या भवति शान्त्या अप्रदाहाय 0 शक्वरी याज्या 1 वज्रो वै शक्वरी 2 स एनं वज्रो भूत्या इन्द्धे 3 भवत्य् एव ॥

indrāyānvṛjave puroḍāśam ekādaśakapālaṃ nir vaped grāmakāmaḥ | indram evānvṛjum̐ svena bhāgadheyenopa dhāvati sa evāsmai sajātān anukān karoti grāmy eva bhavati | indrāṇyai caruṃ nir vaped yasya senā'sam̐śiteva syāt | indrāṇī vai senāyai devatā | indrāṇīṃ eva svena bhāgadheyenopa dhāvati saivāsya senām̐ sam̐ śyati balbajān api idhme saṃ nahyet | gaur yatrādhiṣkannā nyamehat tato balbajā ud atiṣṭhan gavām evainaṃ nyāyam apinīya gā vedayati | indrāya manyumate manasvate puroḍāśam ekādaśakapālaṃ nir vapet saṃgrāme saṃyatte | indriyeṇa vai manyunā manasā saṃgrāmaṃ jayati | indram eva manyumantam manasvantam̐ svena bhāgadheyenopa dhāvati sa evāsminn indriyam manyum mano dadhāti jayati tam saṃgrāmam etām eva nir vaped yo hatamanāḥ svayampāpa iva syāt | etāni hi vā etasmād apakrāntāni | athaiṣa hatamanāḥ svayampāpa indram eva manyumantam manasvantam̐ svena bhāgadheyenopa dhāvati sa evāsminn indriyam manyum mano dadhāti na hatamanāḥ svayampāpo bhavati | indrāya dātre puroḍāśam ekādaśakapālaṃ nir vaped yaḥ kāmayeta dānakāmā me prajāḥ syuḥ iti | indram eva dātāram̐ svena bhāgadheyenopa dhāvati sa evāsmai dānakāmāḥ prajāḥ karoti dānakāmā asmai prajā bhavanti | indrāya pradātre puroḍāśam ekādaśakapālaṃ nir vaped yasmai prattam iva san na pradīyeta | indram eva pradātāram̐ svena bhāgadheyenopa dhāvati sa evāsmai pra dāpayati | indrāya sutrāmṇe puroḍāśam ekādaśakapālaṃ nir vaped aparuddho vā || aparudhyamāno vā | indram eva sutrāmāṇam̐ svena bhāgadheyenopa dhāvati sa evainaṃ trāyate | anaparudhyo bhavati | indro vai sadṛṅ devatābhir āsīt sa na vyāvṛtam agacchat sa prajāpatim upādhāvat tasmā etam aindram ekādaśakapālaṃ nir avapat tenaivāsminn indriyam adadhāt | śakvarī yājyānuvākye akarot | vajro vai śakvarī sa enaṃ vajro bhūtyā ainddha | so 'bhavat so 'bibhed bhūtaḥ pra mā dhakṣyatīti sa prajāpatim punar upādhāvat sa prajāpatiḥ śakvaryā adhi revatīṃ nir amimīta śāntyā apradāhāya yo 'lam̐ śriyai sant sadṛṅk samānaiḥ syāt tasmā etamaindram ekādaśakapālaṃ nir vapet | indram eva svena bhāgadheyenopa dhāvati sa evāsminn indriyaṃ dadhāti revatī puro'nuvākyā bhavati śāntyā apradāhāya 0 śakvarī yājyā 1 vajro vai śakvarī 2 sa enaṃ vajro bhūtyā inddhe 3 bhavaty eva ||

Sanskrit only: no published translation is held for this verse.

आग्नावैष्णवम् एकादशकपालं निर् वपेद् अभिचरन्त् सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः । यद् आग्नावैष्णव एकादशकपालो भवति । अग्निः सर्वा देवता विष्णुर् यज्ञो देवताभिश् चैवैनं यज्ञेन चाभि चरति सरस्वत्य् आज्यभागा भवति वाग् वै सरस्वती वाचैवैनम् अभि चरति बार्हस्पत्यश् चरुर् भवति ब्रह्म वै देवानाम् बृहस्पतिर् ब्रह्मणैवैनम् अभि चरति ॥ प्रति वै परस्ताद् अभिचरन्तम् अभि चरन्ति द्वेद्वे पुरोऽनुवाक्ये कुर्याद् अति प्रयुक्त्यै । एतयैव यजेताभिचर्यमाणो देवताभिर् एव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म स देवताश् चैव यज्ञं च मध्यतो व्यवसर्पति तस्य न कुतश् चनोपाव्याधो भवति नैनम् अभिचरन्त् स्तृणुते । आग्नावैष्णवम् एकादशकपालं निर् वपेद् यं यज्ञो न उपनमेत् । अग्निः सर्वा देवता विष्णुर् यज्ञो ऽग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति ताव् एवास्मै यज्ञम् प्र यच्छत उपैनं यज्ञो नमति । आग्नावैष्णवं घृते चरुं निर् वपेच् चक्षुष्कामः । अग्नेर् वै चक्षुषा मनुष्या वि पश्यन्ति यज्ञस्य देवा अग्निं चैव विष्णुं च स्वेन भागधेयेनोप धावति ताव् एव अस्मिञ् चक्षुर् धत्तश् चक्षुष्मान् एव भवति धेन्वै वा एतद् रेतो यद् आज्यम् अनडुहस् तण्डुला मिथुनाद् एवास्मै चक्षुः प्र जनयति घृते भवति तेजो वै घृतं तेजश् चक्षुस् तेजसैवास्मै तेजश् चक्षुर् अव रुन्द्धे । इन्द्रियं वै वीर्यं वृङ्क्ते भ्रातृव्यो यजमानो ऽयजमानस्याध्वरकल्पाम् प्रति निर् वपेद् भ्रातृव्ये यजमाने नास्येन्द्रियं वीर्यं वृङ्क्ते पुरा वाचः प्रवदितोर् निर् वपेद् यावत्य् एव वाक् ताम् अप्रोदिताम् भ्रातृव्यस्य वृङ्क्ते ताम् अस्य वाचम् प्रवदन्तीम् अन्या वाचो ऽनु प्र वदन्ति ता इन्द्रियं वीर्यं यजमाने दधति । आग्नावैष्णवम् अष्टाकपालं निर् वपेद् प्रातःसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः । यद् अष्टाकपालो भवत्य् अष्टाक्षरा गायत्री गायत्रम् प्रातःसवनम् प्रातःसवनम् एव तेनाप्नोति ॥ आग्नावैष्णवम् एकादशकपालं निर् वपेन् माध्यंदिनस्य सवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः । यद् एकादशकपालो भवत्य् एकादशाक्षरा त्रिष्टुप् त्रैष्टुभम् माध्यंदिनꣳ सवनम् माध्यंदिनम् एव सवनं तेनाऽऽप्नोति । आग्नावैष्णवं द्वादशकपालं निर् वपेद् तृतीयसवनस्याऽऽकाले सरस्वत्य् आज्यभागा स्याद् बार्हस्पत्यश् चरुः । यद् द्वादशकपालो भवति द्वादशाक्षरा जगती जागतं तृतीयसवनं तृतीयसवनम् एव तेनाऽऽप्नोति देवताभिर् एव देवताः प्रतिचरति यज्ञेन यज्ञं वाचा वाचम् ब्रह्मणा ब्रह्म कपालैर् एव छन्दाꣳस्य् आप्नोति पुरोडाशैः सवनानि मैत्रावरुणम् एककपालं निर् वपेद् वशायै काले यैवासौ भ्रातृव्यस्य वशानुबन्ध्या सो एवैषैतस्यैककपालो भवति न हि कपालैः पशुम् अर्हत्य् आप्तुम् ॥

āgnāvaiṣṇavam ekādaśakapālaṃ nir vaped abhicarant sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ | yad āgnāvaiṣṇava ekādaśakapālo bhavati | agniḥ sarvā devatā viṣṇur yajño devatābhiś caivainaṃ yajñena cābhi carati sarasvaty ājyabhāgā bhavati vāg vai sarasvatī vācaivainam abhi carati bārhaspatyaś carur bhavati brahma vai devānām bṛhaspatir brahmaṇaivainam abhi carati || prati vai parastād abhicarantam abhi caranti dvedve puro'nuvākye kuryād ati prayuktyai | etayaiva yajetābhicaryamāṇo devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma sa devatāś caiva yajñaṃ ca madhyato vyavasarpati tasya na kutaś canopāvyādho bhavati nainam abhicarant stṛṇute | āgnāvaiṣṇavam ekādaśakapālaṃ nir vaped yaṃ yajño na upanamet | agniḥ sarvā devatā viṣṇur yajño 'gniṃ caiva viṣṇuṃ ca svena bhāgadheyenopa dhāvati tāv evāsmai yajñam pra yacchata upainaṃ yajño namati | āgnāvaiṣṇavaṃ ghṛte caruṃ nir vapec cakṣuṣkāmaḥ | agner vai cakṣuṣā manuṣyā vi paśyanti yajñasya devā agniṃ caiva viṣṇuṃ ca svena bhāgadheyenopa dhāvati tāv eva asmiñ cakṣur dhattaś cakṣuṣmān eva bhavati dhenvai vā etad reto yad ājyam anaḍuhas taṇḍulā mithunād evāsmai cakṣuḥ pra janayati ghṛte bhavati tejo vai ghṛtaṃ tejaś cakṣus tejasaivāsmai tejaś cakṣur ava runddhe | indriyaṃ vai vīryaṃ vṛṅkte bhrātṛvyo yajamāno 'yajamānasyādhvarakalpām prati nir vaped bhrātṛvye yajamāne nāsyendriyaṃ vīryaṃ vṛṅkte purā vācaḥ pravaditor nir vaped yāvaty eva vāk tām aproditām bhrātṛvyasya vṛṅkte tām asya vācam pravadantīm anyā vāco 'nu pra vadanti tā indriyaṃ vīryaṃ yajamāne dadhati | āgnāvaiṣṇavam aṣṭākapālaṃ nir vaped prātaḥsavanasyā''kāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ | yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti || āgnāvaiṣṇavam ekādaśakapālaṃ nir vapen mādhyaṃdinasya savanasyā''kāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ | yad ekādaśakapālo bhavaty ekādaśākṣarā triṣṭup traiṣṭubham mādhyaṃdinam̐ savanam mādhyaṃdinam eva savanaṃ tenā''pnoti | āgnāvaiṣṇavaṃ dvādaśakapālaṃ nir vaped tṛtīyasavanasyā''kāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ | yad dvādaśakapālo bhavati dvādaśākṣarā jagatī jāgataṃ tṛtīyasavanaṃ tṛtīyasavanam eva tenā''pnoti devatābhir eva devatāḥ praticarati yajñena yajñaṃ vācā vācam brahmaṇā brahma kapālair eva chandām̐sy āpnoti puroḍāśaiḥ savanāni maitrāvaruṇam ekakapālaṃ nir vaped vaśāyai kāle yaivāsau bhrātṛvyasya vaśānubandhyā so evaiṣaitasyaikakapālo bhavati na hi kapālaiḥ paśum arhaty āptum ||

Sanskrit only: no published translation is held for this verse.

असाव् आदित्यो न व्यरोचत तस्मै देवाः प्रायश्चित्तिम् ऐच्छन् तस्मा एतꣳ सोमारौद्रं चरुं निर् अवपन् तेनैवास्मिन् रुचम् अदधुः । यो ब्रह्मवर्चसकामः स्यात् तस्मा एतꣳ सोमारौद्रं चरुं निर् वपेत् सोमं चैव रुद्रं च स्वेन भागधेयेनोप धावति ताव् एवास्मिन् ब्रह्मवर्चसं धत्तो ब्रह्मवर्चस्य् एव भवति तिष्यापूर्णमासे निर् वपेद् रुद्रो वै तिष्यः सोमः पूर्णमासः साक्षाद् एव ब्रह्मवर्चसम् अव रुन्द्धे परिश्रिते याजयति ब्रह्मवर्चसस्य परिगृहीत्यै श्वेतायै श्वेतवत्सायै दुग्धम् मथितम् आज्यम् अभवत्य् आज्यम् प्रोक्षणम् आज्येन मार्जयन्ते यावद् एव ब्रह्मवर्चसं तत् सर्वं करोत्य् अति ब्रह्मवर्चसं क्रियत इत्य् आहुः । ईश्वरो दुश्चर्मा भवितोर् इति मानवी ऋचौ धाय्ये कुर्याद् यद् वै किं च मनुर् अवदत् तद् भेषजम् । भेषजम् एवास्मै करोति यदि बिभीयाद् दुश्चर्मा भविष्यामीति सोमापौष्णं चरुं निर् वपेत् सौम्यो वै देवतया पुरुषः पौष्णाः पशवः स्वयैवास्मै देवतया पशुभिस् त्वचं करोति न दुश्चर्मा भवति सोमारौद्रं चरुं निर् वपेत् प्रजाकामः सोमो वै रेतोधा अग्निः प्रजानाम् प्रजनयिता सोम एवास्मै रेतो दधात्यग्निः प्रजाम् प्र जनयति विन्दते प्रजाम् । सोमारौद्रं चरुं निर् वपेद् अभिचरन्त् सौम्यो वै देवतया पुरुष एष रुद्रो यद् अग्निः स्वाया एवैनं देवतायै निष्क्रीय रुद्रायापि दधाति ताजग् आर्तिम् आर्छति सोमारौद्रं चरुं निर् वपेज् ज्योगामयावी सोमं वा एतस्य रसो गच्छत्य् अग्निꣳ शरीरं यस्य ज्योग् आमयति सोमाद् एवास्य रसं निष्क्रीणात्य् अग्नेः शरीरम् उत यदि इतासुर् भवति जीवत्य् एव सोमारुद्रयोर् वा एतं ग्रसितꣳ होता निष् खिदति स ईश्वर आर्तिम् आर्तोर् अनड्वान् होत्रा देयो वह्निर् वा अनड्वान् वह्निर् होता वह्निनैव वह्निम् आत्मानꣳ स्पृणोति सोमारौद्रं चरुं निर् वपेद् यः कामयेत स्वे ऽस्मा आयतने भ्रातृव्यं जनयेयम् इति वेदिम् परिगृह्यार्धम् उद्धन्याद् अर्धं नार्धम् बर्हिष स्तृणीयाद् अर्धं नार्धम् इध्मस्याभ्यादध्याद् अर्धं न स्व एवास्मा आयतने भ्रातृव्यं जनयति ॥

asāv ādityo na vyarocata tasmai devāḥ prāyaścittim aicchan tasmā etam̐ somāraudraṃ caruṃ nir avapan tenaivāsmin rucam adadhuḥ | yo brahmavarcasakāmaḥ syāt tasmā etam̐ somāraudraṃ caruṃ nir vapet somaṃ caiva rudraṃ ca svena bhāgadheyenopa dhāvati tāv evāsmin brahmavarcasaṃ dhatto brahmavarcasy eva bhavati tiṣyāpūrṇamāse nir vaped rudro vai tiṣyaḥ somaḥ pūrṇamāsaḥ sākṣād eva brahmavarcasam ava runddhe pariśrite yājayati brahmavarcasasya parigṛhītyai śvetāyai śvetavatsāyai dugdham mathitam ājyam abhavaty ājyam prokṣaṇam ājyena mārjayante yāvad eva brahmavarcasaṃ tat sarvaṃ karoty ati brahmavarcasaṃ kriyata ity āhuḥ | īśvaro duścarmā bhavitor iti mānavī ṛcau dhāyye kuryād yad vai kiṃ ca manur avadat tad bheṣajam | bheṣajam evāsmai karoti yadi bibhīyād duścarmā bhaviṣyāmīti somāpauṣṇaṃ caruṃ nir vapet saumyo vai devatayā puruṣaḥ pauṣṇāḥ paśavaḥ svayaivāsmai devatayā paśubhis tvacaṃ karoti na duścarmā bhavati somāraudraṃ caruṃ nir vapet prajākāmaḥ somo vai retodhā agniḥ prajānām prajanayitā soma evāsmai reto dadhātyagniḥ prajām pra janayati vindate prajām | somāraudraṃ caruṃ nir vaped abhicarant saumyo vai devatayā puruṣa eṣa rudro yad agniḥ svāyā evainaṃ devatāyai niṣkrīya rudrāyāpi dadhāti tājag ārtim ārchati somāraudraṃ caruṃ nir vapej jyogāmayāvī somaṃ vā etasya raso gacchaty agnim̐ śarīraṃ yasya jyog āmayati somād evāsya rasaṃ niṣkrīṇāty agneḥ śarīram uta yadi itāsur bhavati jīvaty eva somārudrayor vā etaṃ grasitam̐ hotā niṣ khidati sa īśvara ārtim ārtor anaḍvān hotrā deyo vahnir vā anaḍvān vahnir hotā vahninaiva vahnim ātmānam̐ spṛṇoti somāraudraṃ caruṃ nir vaped yaḥ kāmayeta sve 'smā āyatane bhrātṛvyaṃ janayeyam iti vedim parigṛhyārdham uddhanyād ardhaṃ nārdham barhiṣa stṛṇīyād ardhaṃ nārdham idhmasyābhyādadhyād ardhaṃ na sva evāsmā āyatane bhrātṛvyaṃ janayati ||

Sanskrit only: no published translation is held for this verse.

ऐन्द्रम् एकादशकपालं निर् वपेन् मारुतꣳ सप्तकपालं ग्रामकामः । इन्द्रं चैव मरुतश् च स्वेन भागधेयेनोप धावति त एवास्मै सजातान् प्र यच्छन्ति ग्राम्य् एव भवति । आहवनीय ऐन्द्रम् अधि श्रयति गार्हपत्ये मारुतम् पापवस्यसस्य विधृत्यै सप्तकपालो मारुतो भवति सप्तगणा वै मरुतः । गणश एवास्मै सजातान् अव रुन्द्धे । अनूच्यमान आ सादयति विशम् एव अस्मा अनुवर्त्मानं करोति । एताम् एव निर् वपेद् यः कामयेत क्षत्राय च विशे च समदं दध्याम् इति । ऐन्द्रस्यावद्यन् ब्रूयात् । इन्द्रायानु ब्रूहीत्य् आश्राव्य ब्रूयात् । मरुतो यजेति मारुतस्यावद्यन् ब्रूयात् । मरुद्भ्यो ऽनु ब्रूहीत्य् आश्राव्य ब्रूयात् । इन्द्रं यजेति स्व एवैभ्यो भागधेये समदं दधाति वितृꣳहाणास् तिष्ठन्ति । एताम् एव निर् वपेद् यः कामयेत कल्पेरन्न् इति यथादेवतम् अवदाय यथादेवतं यजेत् । भागधेयेनैवैनान् यथायथं कल्पयति कल्पन्त एव । ऐन्द्रम् एकादशकपालं निर् वपेद् वैश्वदेवं द्वादशकपालं ग्रामकामः । इन्द्रं चैव विश्वाꣳश् च देवान्त् स्वेन भागधेयेनोप धावति त एवास्मै सजातान् प्र यच्छन्ति ग्राम्य् एव भवति । ऐन्द्रस्यावदाय वैश्वदेवस्याव द्येद् अथैन्द्रस्य उपरिष्टात् । इन्द्रियेणैवास्मा उभयतः सजातान् परि गृह्णाति । उपाधाय्यपूर्वयं वासो दक्षिणा सजातानाम् उपहित्यै पृश्नियै दुग्धे प्रैयंगवं चरुं निर् वपेन् मरुद्भ्यो ग्रामकामः पृश्नियै वै पयसो मरुतो जाताः पृश्नियै प्रियंगवः । मारुताः खलु वै देवतया सजाताः । मरुत एव स्वेन भागधेयेनोप धावति त एवास्मै सजातान् प्र यच्छन्ति ग्राम्य् एव भवति प्रियवती याज्यानुवाक्ये भवतः प्रियम् एवैनꣳ समानानां करोति द्विपदा पुरोऽनुवाक्या भवति द्विपद एवाव रुन्द्धे चतुष्पदा याज्या चतुष्पद एव पशून् अव रुन्द्धे देवासुराः संयत्ता आसन् ते देवा मिथो विप्रिया आसन् ते ऽन्योऽन्यस्मै ज्यैष्ठ्यायातिष्ठमानाश् चतुर्धा व्यक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैः स इन्द्रः प्रजापतिम् उपाधावत् तम् एतया संज्ञान्याऽयाजयत् । अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् अवपत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम् । ततो वा इन्द्रं देवा ज्यैष्ठ्यायाभि सम् अजानत यः समानैर् मिथो विप्रियः स्यात् तम् एतया संज्ञान्या याजयेत् । अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेत् सोमाय रुद्रवते चरुम् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वरुणायादित्यवते चरुम् इन्द्रम् एवैनम् भूतं ज्यैष्ठ्याय समाना अभि सं जानते वसिष्ठः समानानाम् भवति ॥

aindram ekādaśakapālaṃ nir vapen mārutam̐ saptakapālaṃ grāmakāmaḥ | indraṃ caiva marutaś ca svena bhāgadheyenopa dhāvati ta evāsmai sajātān pra yacchanti grāmy eva bhavati | āhavanīya aindram adhi śrayati gārhapatye mārutam pāpavasyasasya vidhṛtyai saptakapālo māruto bhavati saptagaṇā vai marutaḥ | gaṇaśa evāsmai sajātān ava runddhe | anūcyamāna ā sādayati viśam eva asmā anuvartmānaṃ karoti | etām eva nir vaped yaḥ kāmayeta kṣatrāya ca viśe ca samadaṃ dadhyām iti | aindrasyāvadyan brūyāt | indrāyānu brūhīty āśrāvya brūyāt | maruto yajeti mārutasyāvadyan brūyāt | marudbhyo 'nu brūhīty āśrāvya brūyāt | indraṃ yajeti sva evaibhyo bhāgadheye samadaṃ dadhāti vitṛm̐hāṇās tiṣṭhanti | etām eva nir vaped yaḥ kāmayeta kalperann iti yathādevatam avadāya yathādevataṃ yajet | bhāgadheyenaivainān yathāyathaṃ kalpayati kalpanta eva | aindram ekādaśakapālaṃ nir vaped vaiśvadevaṃ dvādaśakapālaṃ grāmakāmaḥ | indraṃ caiva viśvām̐ś ca devānt svena bhāgadheyenopa dhāvati ta evāsmai sajātān pra yacchanti grāmy eva bhavati | aindrasyāvadāya vaiśvadevasyāva dyed athaindrasya upariṣṭāt | indriyeṇaivāsmā ubhayataḥ sajātān pari gṛhṇāti | upādhāyyapūrvayaṃ vāso dakṣiṇā sajātānām upahityai pṛśniyai dugdhe praiyaṃgavaṃ caruṃ nir vapen marudbhyo grāmakāmaḥ pṛśniyai vai payaso maruto jātāḥ pṛśniyai priyaṃgavaḥ | mārutāḥ khalu vai devatayā sajātāḥ | maruta eva svena bhāgadheyenopa dhāvati ta evāsmai sajātān pra yacchanti grāmy eva bhavati priyavatī yājyānuvākye bhavataḥ priyam evainam̐ samānānāṃ karoti dvipadā puro'nuvākyā bhavati dvipada evāva runddhe catuṣpadā yājyā catuṣpada eva paśūn ava runddhe devāsurāḥ saṃyattā āsan te devā mitho vipriyā āsan te 'nyo'nyasmai jyaiṣṭhyāyātiṣṭhamānāś caturdhā vyakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityaiḥ sa indraḥ prajāpatim upādhāvat tam etayā saṃjñānyā'yājayat | agnaye vasumate puroḍāśam aṣṭākapālaṃ nir avapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum | tato vā indraṃ devā jyaiṣṭhyāyābhi sam ajānata yaḥ samānair mitho vipriyaḥ syāt tam etayā saṃjñānyā yājayet | agnaye vasumate puroḍāśam aṣṭākapālaṃ nir vapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum indram evainam bhūtaṃ jyaiṣṭhyāya samānā abhi saṃ jānate vasiṣṭhaḥ samānānām bhavati ||

Sanskrit only: no published translation is held for this verse.

हिरण्यगर्भः । आपो ह यत् प्रजापते। स वेद पुत्रः पितरꣳ स मातरꣳ स सूनुर् भुवत् स भुवत् पुनर्मघः । स द्याम् और्णोद् अन्तरिक्षꣳ स सुवः स विश्वा भुवो अभवत् स आऽभवत् ॥ उद् उ त्यम् चित्रम् । स प्रत्नवन् नवीयसाऽग्ने द्युम्नेन संयता । बृहत् ततन्थ भानुना ॥ नि काव्या वेधसः शश्वतस्कर्हस्ते दधानः नर्या पुरूणि । अग्निर् भुवद् रयिपती रयीणाꣳ सत्रा चक्राणो अमृतानि विश्वा ॥ हिरण्यपाणिमूतये सवितारम् उप ह्वये । स चेत्ता देवता पदम् ॥ वामम् अद्य सवितर् वामम् उ श्वो दिवेदिवे वामम् अस्मभ्यꣳ सावीः । वामस्य हि क्षयस्य देव भूरेर् अया धिया वामभाजः स्याम ॥ बड् इत्था पर्वतानां खिद्रम् बिभर्षि पृथिवि । प्र या भूमि प्रवत्वति मह्ना जिनोषि महिनि । स्तोमासस् त्वा विचारिणि प्रति ष्टोभन्त्य् अक्तुभिः । प्र या वाजं न हेषन्तम् प्रेरुम् अस्यस्य् अर्जुनि ॥ ऋदूदरेण सख्या सचेय यो मा न रिष्येद्धर्यश्व पीतः । अयं यः सोमो न्यधाय्य् अस्मे तस्मा इन्द्रम् प्रतिरम् एम्य् अच्छ ॥ आपान्तमन्युस् तृपलप्रभर्मा धुनिः शिमीवाञ् छरुमाꣳ ऋजीषी । सोमो विश्वान्य् अतसा वनानि नार्वाग् इन्द्रम् प्रतिमानानि देभुः ॥ प्र सुवानः सोम ऋतयुश् चिकेतेन्द्राय ब्रह्म जमदग्निर् अर्चन् । वृषा यन्तासि शवसस् तुरस्यान्तर् यच्छ गृणते धर्त्रं दृꣳह ॥ सबाधस् ते मदं च शुष्मयं च ब्रह्म नरो ब्रह्मकृतः सपर्यन् । अर्को वा यत् तुरते सोमचक्षास् तत्रेद् इन्द्रो दधते पृत्सु तुर्याम् ॥ वषट् ते विष्णवास आ कृणोमि तन् मे जुषस्व शिपिविष्ट हव्यम् । वर्धन्तु त्वा सुष्टुतयो गिरो मे यूयम् पात स्वस्तिभिः सदा नः ॥ प्र तत् ते अद्य शिपिविष्ट नामार्यः शꣳसामि वयुनानि विद्वान् । तं त्वा गृणामि तवसम् अतवीयान् क्षयन्तम् अस्य रजसः पराके ॥ किम् इत् ते विष्णो परिचक्ष्यम् भूत् प्र यद् ववक्षे शिपिविष्टो अस्मि । मा वर्पो अस्मद् अप गूह एतद् यद् अन्यरूपः समिथे बभूथ ॥ अग्ने दा दाशुषे रयिं वीरवन्तम् परीणसम् । शिशीहि नः सूनुमतः ॥ दा नो अग्ने शतिनो दाः सहस्रिणो दुरो न वाजꣳ श्रुत्या अपा वृधि । प्राची द्यावापृथिवी ब्रह्मणा कृधि सुवर् ण शुक्रम् उषसो वि दिद्युतुः ॥ अग्निर् दा द्रविणं वीरपेशा अग्निर् ऋषिं यः सहस्रा सनोति । अग्निर् दिवि हव्यम् आ ततानाग्नेर् धामानि विभृता पुरुत्रा ॥ मा नो मर्धीः । आ तू भर घृतं न पूतं तनूर् अरेपाः शुचि हिरण्यम् । तत् ते रुक्मो न रोचत स्वधावः उभे सुश्चन्द्र सर्पिषो दर्वी श्रीणीष आसनि । उतो न उत् पुपूर्या उक्थेषु शवसस् पत इषꣳ स्तोतृभ्य आ भर ॥ वायो शतꣳ हरीणां युवस्व पोष्याणाम् । उत वा ते सहस्रिणो रथ आ यातु पाजसा ॥ प्र याभिः 8 यासि दाश्वाꣳसम् अच्छा नियुद्भिर् वायव् इष्टये दुरोणे । नि नो रयिꣳ सुभोजसं युवेह नि वीरवद् गव्यम् अश्वियं च राधः ॥ रेवतीर् नः सधमाद इन्द्रे सन्तु तुविवाजाः । क्षुमन्तो याभिर् मदेम ॥ रेवाꣳ इद् रेवतः स्तोता स्यात् त्वावतो मघोनः । प्रेद् उ हरिवः श्रुतस्य ॥ 2.2 प्रपाठक: 2 काम्येष्टिविधानम्

hiraṇyagarbhaḥ | āpo ha yat prajāpate| sa veda putraḥ pitaram̐ sa mātaram̐ sa sūnur bhuvat sa bhuvat punarmaghaḥ | sa dyām aurṇod antarikṣam̐ sa suvaḥ sa viśvā bhuvo abhavat sa ā'bhavat || ud u tyam citram | sa pratnavan navīyasā'gne dyumnena saṃyatā | bṛhat tatantha bhānunā || ni kāvyā vedhasaḥ śaśvataskarhaste dadhānaḥ naryā purūṇi | agnir bhuvad rayipatī rayīṇām̐ satrā cakrāṇo amṛtāni viśvā || hiraṇyapāṇimūtaye savitāram upa hvaye | sa cettā devatā padam || vāmam adya savitar vāmam u śvo divedive vāmam asmabhyam̐ sāvīḥ | vāmasya hi kṣayasya deva bhūrer ayā dhiyā vāmabhājaḥ syāma || baḍ itthā parvatānāṃ khidram bibharṣi pṛthivi | pra yā bhūmi pravatvati mahnā jinoṣi mahini | stomāsas tvā vicāriṇi prati ṣṭobhanty aktubhiḥ | pra yā vājaṃ na heṣantam prerum asyasy arjuni || ṛdūdareṇa sakhyā saceya yo mā na riṣyeddharyaśva pītaḥ | ayaṃ yaḥ somo nyadhāyy asme tasmā indram pratiram emy accha || āpāntamanyus tṛpalaprabharmā dhuniḥ śimīvāñ charumām̐ ṛjīṣī | somo viśvāny atasā vanāni nārvāg indram pratimānāni debhuḥ || pra suvānaḥ soma ṛtayuś ciketendrāya brahma jamadagnir arcan | vṛṣā yantāsi śavasas turasyāntar yaccha gṛṇate dhartraṃ dṛm̐ha || sabādhas te madaṃ ca śuṣmayaṃ ca brahma naro brahmakṛtaḥ saparyan | arko vā yat turate somacakṣās tatred indro dadhate pṛtsu turyām || vaṣaṭ te viṣṇavāsa ā kṛṇomi tan me juṣasva śipiviṣṭa havyam | vardhantu tvā suṣṭutayo giro me yūyam pāta svastibhiḥ sadā naḥ || pra tat te adya śipiviṣṭa nāmāryaḥ śam̐sāmi vayunāni vidvān | taṃ tvā gṛṇāmi tavasam atavīyān kṣayantam asya rajasaḥ parāke || kim it te viṣṇo paricakṣyam bhūt pra yad vavakṣe śipiviṣṭo asmi | mā varpo asmad apa gūha etad yad anyarūpaḥ samithe babhūtha || agne dā dāśuṣe rayiṃ vīravantam parīṇasam | śiśīhi naḥ sūnumataḥ || dā no agne śatino dāḥ sahasriṇo duro na vājam̐ śrutyā apā vṛdhi | prācī dyāvāpṛthivī brahmaṇā kṛdhi suvar ṇa śukram uṣaso vi didyutuḥ || agnir dā draviṇaṃ vīrapeśā agnir ṛṣiṃ yaḥ sahasrā sanoti | agnir divi havyam ā tatānāgner dhāmāni vibhṛtā purutrā || mā no mardhīḥ | ā tū bhara ghṛtaṃ na pūtaṃ tanūr arepāḥ śuci hiraṇyam | tat te rukmo na rocata svadhāvaḥ ubhe suścandra sarpiṣo darvī śrīṇīṣa āsani | uto na ut pupūryā uktheṣu śavasas pata iṣam̐ stotṛbhya ā bhara || vāyo śatam̐ harīṇāṃ yuvasva poṣyāṇām | uta vā te sahasriṇo ratha ā yātu pājasā || pra yābhiḥ 8 yāsi dāśvām̐sam acchā niyudbhir vāyav iṣṭaye duroṇe | ni no rayim̐ subhojasaṃ yuveha ni vīravad gavyam aśviyaṃ ca rādhaḥ || revatīr naḥ sadhamāda indre santu tuvivājāḥ | kṣumanto yābhir madema || revām̐ id revataḥ stotā syāt tvāvato maghonaḥ | pred u harivaḥ śrutasya || 2.2 prapāṭhaka: 2 kāmyeṣṭividhānam

Sanskrit only: no published translation is held for this verse.