ब्रह्मणस् त्वः (*५,१।१३६) इति वक्ष्यति । आ एतस्मात् त्वसंशब्दनाद् यानित ऊर्ध्वम् अनुक्रमिष्यामः, तत्र त्वतलौ प्रत्ययावधिकृतौ वेदितव्यौ । वक्ष्यति - पृथ्वादिभ्य इमनिज् वा (*५,१।१२२) इति । प्रथिमा, पार्थवम्, पृथुत्वम्, पृथुता । म्रदिमा, मार्दवम्, मृदुत्वम्, मृदुता । अपवादैः सह समावेशार्थं वचनम् । कर्मणि च विधानार्थं गुणवचन-ब्राह्मणादिभ्यः कर्मणि च (*५,१।१२४) इति । चकारो नञ्स्नञ्भ्याम् अपि समावेश-अर्थः । स्त्रियाः भावः स्त्रैणम्, स्त्रीत्वम्, स्त्रीता । पुंसो भावः पुंस्त्वम्, पुंस्ता, पौंस्नम् ॥ न नञ्पूर्वात् तत्पुरुषाद् अचतुर-सङ्गतल्-अवण-वट-बुध-कत-रस-लसेभ्यः
brahmaṇas tvaḥ (*5,1.136) iti vakṣyati / ā etasmāt tvasaṃśabdanād yānita ūrdhvam anukramiṣyāmaḥ, tatra tvatalau pratyayāvadhikṛtau veditavyau / vakṣyati - pṛthvādibhya imanij vā (*5,1.122) iti / prathimā, pārthavam, pṛthutvam, pṛthutā / mradimā, mārdavam, mṛdutvam, mṛdutā / apavādaiḥ saha samāveśārthaṃ vacanam / karmaṇi ca vidhānārthaṃ guṇavacana-brāhmaṇādibhyaḥ karmaṇi ca (*5,1.124) iti / cakāro nañsnañbhyām api samāveśa-arthaḥ / striyāḥ bhāvaḥ straiṇam, strītvam, strītā / puṃso bhāvaḥ puṃstvam, puṃstā, pauṃsnam // na nañpūrvāt tatpuruṣād acatura-saṅgatal-avaṇa-vaṭa-budha-kata-rasa-lasebhyaḥ
Sanskrit only: no published translation is held for this verse.