Library·Gopatha-Brahmana·2·2.2

Gopatha-Brahmana 2.2

ॐ मांसीयन्ति वा आहिताग्नेर् अग्नयस् त एनम् एवाग्रे ऽभिध्यायन्ति यजमानम् य एतम् ऐन्द्राग्नं पशुं षष्ठे षष्ठे मास आलभते तेनैवेन्द्राग्निभ्यां ग्रसितम् आत्मानं निरवदयते आयुष्काम आलभेत प्राणापानौ वा इन्द्राग्नी प्राणापानाव् एवात्मनि धत्ते आयुष्मान् भवति प्रजाकाम आलभेत प्राणापानौ वा इन्द्राग्नी प्राणापानौ प्रजा अनुप्रजायन्ते प्रजावान् भवति पशुकाम आलभेत प्राणापानौ वा इन्द्राग्नी प्राणापानौ पशवो ऽनुप्रजायन्ते पशुमान् भवति यामं शुकं हारितम् आलभेत शुण्ठं वा यः कामयेतानामयः पितृलोके स्याम् इति [एद्। शुकहरितं, चोर्र्। पत्यल्] एतेन ह वै यमो ऽमुष्मिंल् लोक आर्ध्नोत् पितृलोक एवार्ध्नोति त्वाष्ट्रं वडवम् आलभेत प्रजाकामः प्रजापतिर् वै प्रजाः सिसृक्षमाणः स द्वितीयं मिथुनं नाविन्दत् [एद्। सिसृक्समाणः, चोर्रेच्तेद् प्। ३०२; पत्यल्: रेअद् नाविन्दत?] स त्वाष्ट्रं वडवम् अपश्यत् त्वष्टा हि रूपाणां प्रजनयिता तेन प्रजा असृजत तेन मिथुनम् अविन्दत् प्रजावान् मिथुनवान् भवति य एवं वेद यश् चैवंविद्वान् एतम् आलभते योनीन् वा एष काम्यान् पशून् आलभते यो ऽनिष्ट्वैन्द्राग्नेन काम्यं पशुम् आलभत इष्ट्वालम्भः समृद्ध्यै ॥ १ ॥

oṃ māṃsīyanti vā āhitāgner agnayas ta enam evāgre 'bhidhyāyanti yajamānam ya etam aindrāgnaṃ paśuṃ ṣaṣṭhe ṣaṣṭhe māsa ālabhate tenaivendrāgnibhyāṃ grasitam ātmānaṃ niravadayate āyuṣkāma ālabheta prāṇāpānau vā indrāgnī prāṇāpānāv evātmani dhatte āyuṣmān bhavati prajākāma ālabheta prāṇāpānau vā indrāgnī prāṇāpānau prajā anuprajāyante prajāvān bhavati paśukāma ālabheta prāṇāpānau vā indrāgnī prāṇāpānau paśavo 'nuprajāyante paśumān bhavati yāmaṃ śukaṃ hāritam ālabheta śuṇṭhaṃ vā yaḥ kāmayetānāmayaḥ pitṛloke syām iti [ed. śukaharitaṃ, corr. Patyal] etena ha vai yamo 'muṣmiṃl loka ārdhnot pitṛloka evārdhnoti tvāṣṭraṃ vaḍavam ālabheta prajākāmaḥ prajāpatir vai prajāḥ sisṛkṣamāṇaḥ sa dvitīyaṃ mithunaṃ nāvindat [ed. sisṛksamāṇaḥ, corrected p. 302; Patyal: read nāvindata?] sa tvāṣṭraṃ vaḍavam apaśyat tvaṣṭā hi rūpāṇāṃ prajanayitā tena prajā asṛjata tena mithunam avindat prajāvān mithunavān bhavati ya evaṃ veda yaś caivaṃvidvān etam ālabhate yonīn vā eṣa kāmyān paśūn ālabhate yo 'niṣṭvaindrāgnena kāmyaṃ paśum ālabhata iṣṭvālambhaḥ samṛddhyai || 1 ||

Sanskrit only: no published translation is held for this verse.

पञ्चधा वै देवा व्युदक्रामन्न् अग्निर् वसुभिः सोमो रुद्रैर् इन्द्रो मरुद्भिर् वरुण आदित्यैर् बृहस्पतिर् विश्वैर् देवैस् ते देवा अब्रुवन्न् असुरेभ्यो वा इदं भ्रातृव्येभ्यो रध्यामो यन् मिथो विप्रियाः स्मः या न इमाः प्रियास् तन्वस् ताः समवद्यामहा इति ताः समवाद्यन्त ताभ्यः स निरृच्छाद्यो नः प्रथमो ऽन्यो ऽन्यस्मै द्रुह्याद् इति यत् तन्वः समवाद्यन्त तत् तानूनप्त्रस्य तानूनप्त्रत्वम् ततो देवा अभवन् परासुरास् तस्माद् यः सतानूनप्त्रिणां प्रथमो द्रुह्यति स आर्तिम् आर्छति यत् तानूनप्त्रं समवद्यति भ्रातृव्याभिभूत्यै भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति ॥ २ ॥

pañcadhā vai devā vyudakrāmann agnir vasubhiḥ somo rudrair indro marudbhir varuṇa ādityair bṛhaspatir viśvair devais te devā abruvann asurebhyo vā idaṃ bhrātṛvyebhyo radhyāmo yan mitho vipriyāḥ smaḥ yā na imāḥ priyās tanvas tāḥ samavadyāmahā iti tāḥ samavādyanta tābhyaḥ sa nirṛcchādyo naḥ prathamo 'nyo 'nyasmai druhyād iti yat tanvaḥ samavādyanta tat tānūnaptrasya tānūnaptratvam tato devā abhavan parāsurās tasmād yaḥ satānūnaptriṇāṃ prathamo druhyati sa ārtim ārchati yat tānūnaptraṃ samavadyati bhrātṛvyābhibhūtyai bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati || 2 ||

Sanskrit only: no published translation is held for this verse.

पञ्च कृत्वो ऽवद्यति पाङ्क्तो यज्ञः पञ्चधा हि ते ताः समवाद्यन्त आपतये त्वा गृह्णामीत्य् आह प्राणो वा आपतिः प्राणम् एव तेन प्रीणाति परिपतये त्वेत्य् आह मनो वै परिपतिः मन एव तेन प्रीणाति तनूनप्त्र इत्य् आह तन्वो हि ते ताः समवाद्यन्त शाक्वरायेत्य् आह शक्त्यै हि ते ताः समवाद्यन्त शक्मन ओजिष्ठायेत्य् आह ओजिष्ठं हि ते तद् आत्मनः समवाद्यन्त अनाधृष्टम् इत्य् आह अनाधृष्टं ह्य् एतत् अनाधृष्यम् इत्य् आह अनाधृष्यं ह्य् एतत् देवानाम् ओज इत्य् आह देवानां ह्य् एतद् ओजः अभिशस्तिपा इत्य् आह अभिशस्तिपा ह्य् एतत् अनभिशस्तेन्यम् इत्य् आह अनभिशस्तेन्यं ह्य् एतत् [एद्। अनभिशस्तेनं, चोर्र्। पत्यल्] अनु मे दीक्षां दीक्षापतिर् मन्यताम् अनु तपस् तपस्पतिर् अञ्जसा सत्यम् उप गेषं स्विते मा धा इत्य् आह यथायजुर् एवैतत् ॥ ३ ॥

pañca kṛtvo 'vadyati pāṅkto yajñaḥ pañcadhā hi te tāḥ samavādyanta āpataye tvā gṛhṇāmīty āha prāṇo vā āpatiḥ prāṇam eva tena prīṇāti paripataye tvety āha mano vai paripatiḥ mana eva tena prīṇāti tanūnaptra ity āha tanvo hi te tāḥ samavādyanta śākvarāyety āha śaktyai hi te tāḥ samavādyanta śakmana ojiṣṭhāyety āha ojiṣṭhaṃ hi te tad ātmanaḥ samavādyanta anādhṛṣṭam ity āha anādhṛṣṭaṃ hy etat anādhṛṣyam ity āha anādhṛṣyaṃ hy etat devānām oja ity āha devānāṃ hy etad ojaḥ abhiśastipā ity āha abhiśastipā hy etat anabhiśastenyam ity āha anabhiśastenyaṃ hy etat [ed. anabhiśastenaṃ, corr. Patyal] anu me dīkṣāṃ dīkṣāpatir manyatām anu tapas tapaspatir añjasā satyam upa geṣaṃ svite mā dhā ity āha yathāyajur evaitat || 3 ||

Sanskrit only: no published translation is held for this verse.

घृतं वै देवा वज्रं कृत्वा सोमम् अघ्नन् स्रुचौ बाहू तस्मात् स्रुचौ सौमीम् आहुतिं नाशाते अवधीयेत सोमस् तस्मात् स्रुचौ चाज्यं चान्तिकम् आहार्षीत् अन्तिकम् इव खलु वा अस्यैतत् प्रचरन्ति यत् तानूनप्त्रेण प्रचरन्ति अंशुर् अंशुष् टे देव सोमाप्यायताम् इन्द्रायैकधनविद इत्य् आह यद् एवास्यापवायते यन् मीयते तद् एवास्यैतेनाप्याययन्ति आ तुभ्यम् इन्द्रः प्यायताम् आ त्वम् इन्द्राय प्यायस्वेत्य् आह उभाव् एवेन्द्रं च सोमं चाप्याययन्ति आप्याययास्मान्त् सखीन्त् सन्या मेधया प्रजया धनेनेत्य् आह ऋत्विजो वा एतस्य सखायस् तान् एवास्यैतेनाप्याययन्ति स्वस्ति ते देव सोम सुत्याम् उदृचम् अशीयेत्य् आह आशिषम् एवैताम् आशास्ते प्र वा एतस्माल् लोकाच् च्यवन्ते ये सोमम् आप्याययन्ति अन्तरिक्षदेवत्यो हि सोम आप्यायितः एष्टा राय एष्टा वामानि प्रेषे भगाय ऋतम् ऋतवादिभ्यो नमो दिवे नमः पृथिव्या इति द्यावापृथिवीभ्याम् एव नमस्कृत्यास्मिंल् लोके प्रतितिष्ठति प्रतितिष्ठति ॥ ४ ॥

ghṛtaṃ vai devā vajraṃ kṛtvā somam aghnan srucau bāhū tasmāt srucau saumīm āhutiṃ nāśāte avadhīyeta somas tasmāt srucau cājyaṃ cāntikam āhārṣīt antikam iva khalu vā asyaitat pracaranti yat tānūnaptreṇa pracaranti aṃśur aṃśuṣ ṭe deva somāpyāyatām indrāyaikadhanavida ity āha yad evāsyāpavāyate yan mīyate tad evāsyaitenāpyāyayanti ā tubhyam indraḥ pyāyatām ā tvam indrāya pyāyasvety āha ubhāv evendraṃ ca somaṃ cāpyāyayanti āpyāyayāsmānt sakhīnt sanyā medhayā prajayā dhanenety āha ṛtvijo vā etasya sakhāyas tān evāsyaitenāpyāyayanti svasti te deva soma sutyām udṛcam aśīyety āha āśiṣam evaitām āśāste pra vā etasmāl lokāc cyavante ye somam āpyāyayanti antarikṣadevatyo hi soma āpyāyitaḥ eṣṭā rāya eṣṭā vāmāni preṣe bhagāya ṛtam ṛtavādibhyo namo dive namaḥ pṛthivyā iti dyāvāpṛthivībhyām eva namaskṛtyāsmiṃl loke pratitiṣṭhati pratitiṣṭhati || 4 ||

Sanskrit only: no published translation is held for this verse.

मख इत्य् एतद् यज्ञनामधेयं छिद्रप्रतिषेधसामर्थ्यात् छिद्रं खम् इत्य् उक्तम् तस्य मेति प्रतिषेधः मा छिद्रं करिष्यतीति छिद्रो हि यज्ञो भिन्न इवोदधिर् विस्रवति तद् वै खलु छिद्रं भवत्य् ऋत्विग्यजमानविमानाद् वा अपि वैषां व्यपेक्षया मन्त्रकल्पब्राह्मणानाम् अप्रयोगाद् यथोक्तानां वा दक्षिणानाम् अप्रदानाद् धीनाद् वातिरिक्ताद् वोत्पाताद्भुतेषु प्रायश्चित्तव्यतिक्रमाद् इति एतद् वै सर्वं ब्रह्मण्य् अर्पितम् ब्रह्मैव विद्वान् यद् भृग्वङ्गिरोवित् सम्यग् अधीयानश् चरितब्रह्मचर्यो ऽन्यूनानतिरिक्ताङ्गो ऽप्रमत्तो यज्ञं रक्षति तस्य प्रमादाद् यदि वाप्य् असांनिध्याद् यथा भिन्ना नौर् अगाधे महत्य् उदके संप्लवेन् मत्स्यकच्छपशिंशुमारनक्रमकरपुरीकयजषरजसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनाम् एवं खल्व् अपि यज्ञश् छिन्नभिन्नो ऽपध्वस्त उत्पाताद्भुतो बहुलो ऽथर्वभिर् असंस्कृतो ऽसुरगन्धर्वयक्षरक्षसपिशाचानां भागधेयं भवत्य् एवमादीनां चान्येषां विनष्टोपजीविनां तद् अपि श्लोकाः छिन्नभिन्नो ऽपध्वस्तो विश्रुतो बहुधा मखः । इष्टापूर्तद्रविणंगृह्य यजमानस्यावापतत् ॥ ऋत्विजां च विनाशाय राज्ञो जनपदस्य च । संवत्सरविरिष्टं तद् यत्र यज्ञो विरिष्यते ॥ [एद्। विरष्यते, चोर्रेच्तेद् प्। ३०२] दक्षिणाप्रवणीभूतो यज्ञो दक्षिणतः स्मृतः । हीनाङ्गो रक्षसां भागो ब्रह्मवेदाद् असंस्कृतः ॥ चतुष्पात् सकलो यज्ञश् चातुर्हौत्रविनिर्मितः । चतुर्विधै स्थितो मन्त्रैर् ऋत्विग्भिर् वेदपारगैः ॥ प्रायश्चित्तैर् अनुध्यानैर् अनुज्ञानानुमन्त्रणैः । होमैश् च यज्ञविभ्रंशं सर्वं ब्रह्मा प्रपूरयेद् ॥ इति तस्माद् यजमानो भृग्वङ्गिरोविदम् एव तत्र ब्रह्माणं वृणीयात् स हि यज्ञं तारयतीति ब्राह्मणम् ॥ ५ ॥

makha ity etad yajñanāmadheyaṃ chidrapratiṣedhasāmarthyāt chidraṃ kham ity uktam tasya meti pratiṣedhaḥ mā chidraṃ kariṣyatīti chidro hi yajño bhinna ivodadhir visravati tad vai khalu chidraṃ bhavaty ṛtvigyajamānavimānād vā api vaiṣāṃ vyapekṣayā mantrakalpabrāhmaṇānām aprayogād yathoktānāṃ vā dakṣiṇānām apradānād dhīnād vātiriktād votpātādbhuteṣu prāyaścittavyatikramād iti etad vai sarvaṃ brahmaṇy arpitam brahmaiva vidvān yad bhṛgvaṅgirovit samyag adhīyānaś caritabrahmacaryo 'nyūnānatiriktāṅgo 'pramatto yajñaṃ rakṣati tasya pramādād yadi vāpy asāṃnidhyād yathā bhinnā naur agādhe mahaty udake saṃplaven matsyakacchapaśiṃśumāranakramakarapurīkayajaṣarajasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvinām evaṃ khalv api yajñaś chinnabhinno 'padhvasta utpātādbhuto bahulo 'tharvabhir asaṃskṛto 'suragandharvayakṣarakṣasapiśācānāṃ bhāgadheyaṃ bhavaty evamādīnāṃ cānyeṣāṃ vinaṣṭopajīvināṃ tad api ślokāḥ chinnabhinno 'padhvasto viśruto bahudhā makhaḥ | iṣṭāpūrtadraviṇaṃgṛhya yajamānasyāvāpatat || ṛtvijāṃ ca vināśāya rājño janapadasya ca | saṃvatsaraviriṣṭaṃ tad yatra yajño viriṣyate || [ed. viraṣyate, corrected p. 302] dakṣiṇāpravaṇībhūto yajño dakṣiṇataḥ smṛtaḥ | hīnāṅgo rakṣasāṃ bhāgo brahmavedād asaṃskṛtaḥ || catuṣpāt sakalo yajñaś cāturhautravinirmitaḥ | caturvidhai sthito mantrair ṛtvigbhir vedapāragaiḥ || prāyaścittair anudhyānair anujñānānumantraṇaiḥ | homaiś ca yajñavibhraṃśaṃ sarvaṃ brahmā prapūrayed || iti tasmād yajamāno bhṛgvaṅgirovidam eva tatra brahmāṇaṃ vṛṇīyāt sa hi yajñaṃ tārayatīti brāhmaṇam || 5 ||

Sanskrit only: no published translation is held for this verse.

यज्ञो वै देवेभ्य उदक्रामन् न वो ऽहम् अन्नं भविष्यामीति [एद्। उदक्रमन्, चोर्र्। पत्यल्] नेति देवा अब्रुवन्न् अन्नम् एव नो भविष्यसीति तं देवा विमेथिरे स एभ्यो विहृतो न प्रबभूव ते होचुर् देवाः न वै न इत्थं विहृतो ऽलं भविष्यति हन्तेमं संभराम् एति तं संजभ्रुस् तं संभृत्योचुर् अश्विनाव् इमं भिषज्यतम् इति [एद्। अश्विणाव्, चोर्र्। पत्यल्] अश्विनौ वै देवानां भिषजौ अश्विनाव् अध्वर्यू तस्माद् अध्वर्यू घर्मं संभरतस् तं संभृत्योचतुर् ब्रह्मन् घर्मेण प्रचरिष्यामो होतर् घर्मम् अभिष्टुह्य् उद्गातः सामानि गायेति प्रचरत घर्मम् इत्य् अनुजानाति ब्रह्मप्रसूता हि प्रचरन्ति ब्रह्म हेदं प्रसवानाम् ईशे सवितृप्रसूततायै <घर्मं तपामि [प्स् ५।१६।२, सकल अत् वैत्स् १४।१]> <ब्रह्म जज्ञानम् [प्स् ५।२।२, श्स् ४।१।१, वैत्स् १४।१]> <इयं पित्र्या राष्ट्र्य् एत्व् अग्रे [प्स् ५।२।१, श्स् ४।१।२, वैत्स् १४।१]> इति घर्मं ताप्यमानम् उपासीत शस्त्रवद् अर्धर्चश आहावप्रतिगरवर्जं रूपसमृद्धाभिः एतद् वै यज्ञस्य समृद्धं यद् रूपसमृद्धम् यत् कर्म क्रियमाणम् ऋग् यजुर् वाभिवदति स्वस्ति तस्य यज्ञस्य पारम् अश्नुते य एवं वेद देवमिथुनं वा एतद् यद् घर्मस् तस्माद् अन्तर्धाय प्रचरन्ति अन्तर्हिता वै मिथुनं चरन्तीति तद् एतद् देवमिथुनम् इत्य् आचक्षते तस्य यो घर्मस् तच्छिश्नम् यौ शफौ ताव् आण्ड्यौ योपयमनी ते श्रोणिकपाले यत् पयस् तद् रेतस् तद् अग्नौ देवयोन्यां रेतो ब्रह्ममयं धत्ते प्रजननाय सो ऽग्निर् देवयोनिर् ऋङ्मयो यजुर्मयः साममयो ब्रह्ममयो ऽमृतमय आहुतिमयः सर्वेन्द्रियसंपन्नो यजमान ऊर्ध्वः स्वर्गं लोकम् एति तद् आहुर् न प्रथमयज्ञे प्रवर्ग्यं कुर्वीतानुपनामुका ह वा एनम् उत्तरे यज्ञक्रतवो भवन्तीति कामं तु यो ऽनूचानः श्रोत्रियः स्यात् तस्य प्रवृञ्ज्यात् आत्मा वै स यज्ञस्येति विज्ञायते अपशिरसा ह वा एष यज्ञेन यजते यो ऽप्रवर्ग्येण यजते शिरो ह वा एतद् यज्ञस्य यत् प्रवर्ग्यस् तस्मात् प्रवर्ग्यवतैव याजयेन् नाप्रवग्येण तद् अप्य् एषाभ्यनूक्ता <चत्वारि शृङ्गा [प्स् ८।१३।३, सकल अत् ग्ब्र् १,२।१६फ़्]> इति ॥ ६ ॥

yajño vai devebhya udakrāman na vo 'ham annaṃ bhaviṣyāmīti [ed. udakraman, corr. Patyal] neti devā abruvann annam eva no bhaviṣyasīti taṃ devā vimethire sa ebhyo vihṛto na prababhūva te hocur devāḥ na vai na itthaṃ vihṛto 'laṃ bhaviṣyati hantemaṃ saṃbharām eti taṃ saṃjabhrus taṃ saṃbhṛtyocur aśvināv imaṃ bhiṣajyatam iti [ed. aśviṇāv, corr. Patyal] aśvinau vai devānāṃ bhiṣajau aśvināv adhvaryū tasmād adhvaryū gharmaṃ saṃbharatas taṃ saṃbhṛtyocatur brahman gharmeṇa pracariṣyāmo hotar gharmam abhiṣṭuhy udgātaḥ sāmāni gāyeti pracarata gharmam ity anujānāti brahmaprasūtā hi pracaranti brahma hedaṃ prasavānām īśe savitṛprasūtatāyai <gharmaṃ tapāmi [PS 5.16.2, sakala at VaitS 14.1]> <brahma jajñānam [PS 5.2.2, ŚS 4.1.1, VaitS 14.1]> <iyaṃ pitryā rāṣṭry etv agre [PS 5.2.1, ŚS 4.1.2, VaitS 14.1]> iti gharmaṃ tāpyamānam upāsīta śastravad ardharcaśa āhāvapratigaravarjaṃ rūpasamṛddhābhiḥ etad vai yajñasya samṛddhaṃ yad rūpasamṛddham yat karma kriyamāṇam ṛg yajur vābhivadati svasti tasya yajñasya pāram aśnute ya evaṃ veda devamithunaṃ vā etad yad gharmas tasmād antardhāya pracaranti antarhitā vai mithunaṃ carantīti tad etad devamithunam ity ācakṣate tasya yo gharmas tacchiśnam yau śaphau tāv āṇḍyau yopayamanī te śroṇikapāle yat payas tad retas tad agnau devayonyāṃ reto brahmamayaṃ dhatte prajananāya so 'gnir devayonir ṛṅmayo yajurmayaḥ sāmamayo brahmamayo 'mṛtamaya āhutimayaḥ sarvendriyasaṃpanno yajamāna ūrdhvaḥ svargaṃ lokam eti tad āhur na prathamayajñe pravargyaṃ kurvītānupanāmukā ha vā enam uttare yajñakratavo bhavantīti kāmaṃ tu yo 'nūcānaḥ śrotriyaḥ syāt tasya pravṛñjyāt ātmā vai sa yajñasyeti vijñāyate apaśirasā ha vā eṣa yajñena yajate yo 'pravargyeṇa yajate śiro ha vā etad yajñasya yat pravargyas tasmāt pravargyavataiva yājayen nāpravagyeṇa tad apy eṣābhyanūktā <catvāri śṛṅgā [PS 8.13.3, sakala at GBr 1,2.16f]> iti || 6 ||

Sanskrit only: no published translation is held for this verse.

देवाश् च ह वा ऋषयश् चासुरैः संयत्ता आसन् [एद्। चिआसुरैः] तेषाम् असुराणाम् इमाः पुरः प्रत्यभिजिता आसन्न् अयस्मयी पृथिवी रजतान्तरिक्षं हरिणी द्यौस् ते देवाः संघातंसंघातं पराजयन्त ते ऽविदुर् अनायतना हि वै स्मस् तस्मात् पराजयामहा इति [एद्। पराजयामह, चोर्र्। पत्यल्] त एताः पुरः प्रत्यकुर्वत हविर्धानं दिव आग्नीध्रम् अन्तरिक्षात् सदः पृथिव्यास् ते देवा अब्रुवन्न् उपसदम् उपायाम उपसदा वै महापुरं जयन्तीति त एभ्यो लोकेभ्यो निरघ्नन् एकयामुष्माल् लोकाद् एकयान्तरिक्षाद् एकया पृथिव्यास् तस्माद् आहुर् उपसदा वै महापुरं जयन्तीति त एभ्यो लोकेभ्यो निर्हता ऋतून् प्राविशन् ते षड् उपायन् तान् उपसद्भिर् एवर्तुभ्यो निरघ्नन् द्वाभ्याम् अमुष्माल् लोकाद् द्वाभ्याम् अन्तरिक्षाद् द्वाभ्यां पृथिव्यास् त ऋतुभ्यो निर्हताः संवत्सरं प्राविशन् ते द्वादशोपायन् तान् उपसद्भिर् एव संवत्सरान् निरघ्नन् चतसृभिर् अमुष्माल् लोकाच् चतसृभिर् अन्तरिक्षाच् चतसृभिः पृथिव्यास् ते संवत्सरान् निर्हता अहोरात्रे प्राविशन् ते यत् सायम् उपायंस् तेनैनान् रात्र्या अनुदन्त यत् प्रातस् तेनाह्नस् तस्माद् गौः सायं प्रातस्तनम् आप्यायते प्रातः सायन्तनम् तान् उपसद्भिर् एवैभ्यो लोकेभ्यो नुदमाना आयन् ततो देवा अभवन् परासुराः सर्वेभ्य एवैभ्यो लोकेभ्यो भ्रातृव्यं नुदमान एति य एवंविद्वान् उपसदम् उपैति ॥ ७ ॥

devāś ca ha vā ṛṣayaś cāsuraiḥ saṃyattā āsan [ed. ciāsuraiḥ] teṣām asurāṇām imāḥ puraḥ pratyabhijitā āsann ayasmayī pṛthivī rajatāntarikṣaṃ hariṇī dyaus te devāḥ saṃghātaṃsaṃghātaṃ parājayanta te 'vidur anāyatanā hi vai smas tasmāt parājayāmahā iti [ed. parājayāmaha, corr. Patyal] ta etāḥ puraḥ pratyakurvata havirdhānaṃ diva āgnīdhram antarikṣāt sadaḥ pṛthivyās te devā abruvann upasadam upāyāma upasadā vai mahāpuraṃ jayantīti ta ebhyo lokebhyo niraghnan ekayāmuṣmāl lokād ekayāntarikṣād ekayā pṛthivyās tasmād āhur upasadā vai mahāpuraṃ jayantīti ta ebhyo lokebhyo nirhatā ṛtūn prāviśan te ṣaḍ upāyan tān upasadbhir evartubhyo niraghnan dvābhyām amuṣmāl lokād dvābhyām antarikṣād dvābhyāṃ pṛthivyās ta ṛtubhyo nirhatāḥ saṃvatsaraṃ prāviśan te dvādaśopāyan tān upasadbhir eva saṃvatsarān niraghnan catasṛbhir amuṣmāl lokāc catasṛbhir antarikṣāc catasṛbhiḥ pṛthivyās te saṃvatsarān nirhatā ahorātre prāviśan te yat sāyam upāyaṃs tenainān rātryā anudanta yat prātas tenāhnas tasmād gauḥ sāyaṃ prātastanam āpyāyate prātaḥ sāyantanam tān upasadbhir evaibhyo lokebhyo nudamānā āyan tato devā abhavan parāsurāḥ sarvebhya evaibhyo lokebhyo bhrātṛvyaṃ nudamāna eti ya evaṃvidvān upasadam upaiti || 7 ||

Sanskrit only: no published translation is held for this verse.

न द्वादशाग्निष्टोमस्योपसदः स्युः अशान्ता निर्मृज्युर् न तिस्रो ऽहीनस्य उपरिष्टाद् यज्ञक्रतुर् गरीयान् अभिषीदेद् यथा गुरुर् भारो ग्रीवा निःशृणीयाद् आर्तिम् आर्छेत् द्वादशाहीनस्य कुर्यात् प्रत्युत्तब्ध्यै सयत्वाय तिस्रो ऽग्निष्टोमस्योपसदः स्युः शान्त्या अनिर्मार्गाय ते देवा असुर्यान् इमांल् लोकान् नान्ववैतुम् अधृष्णुवन् तान् अग्निना मुखेनान्ववायन् यद् अग्निम् अन्त्य् उपसदां प्रतीकानि भवन्ति यथा क्षेत्रपतिः क्षेत्रे ऽन्ववनयत्य् एवम् एवैतद् अग्निना मुखेनेमांल् लोकान् अभिनयन्तो यन्ति [एद्। ऽन्ववनयन्त्य्, चोर्र्। पत्यल्] यो ह वै देवान् साध्यान् वेद सिध्यत्य् अस्मै इमे वाव लोका यत् साध्या देवाः स य एवम् एतान्त् साध्यान् वेद सिध्यत्य् अस्मै सिध्यत्य् अमुष्मै सिध्यत्य् अस्मै लोकाय य एवंविद्वान् उपसदम् उपैति ॥ ८ ॥

na dvādaśāgniṣṭomasyopasadaḥ syuḥ aśāntā nirmṛjyur na tisro 'hīnasya upariṣṭād yajñakratur garīyān abhiṣīded yathā gurur bhāro grīvā niḥśṛṇīyād ārtim ārchet dvādaśāhīnasya kuryāt pratyuttabdhyai sayatvāya tisro 'gniṣṭomasyopasadaḥ syuḥ śāntyā anirmārgāya te devā asuryān imāṃl lokān nānvavaitum adhṛṣṇuvan tān agninā mukhenānvavāyan yad agnim anty upasadāṃ pratīkāni bhavanti yathā kṣetrapatiḥ kṣetre 'nvavanayaty evam evaitad agninā mukhenemāṃl lokān abhinayanto yanti [ed. 'nvavanayanty, corr. Patyal] yo ha vai devān sādhyān veda sidhyaty asmai ime vāva lokā yat sādhyā devāḥ sa ya evam etānt sādhyān veda sidhyaty asmai sidhyaty amuṣmai sidhyaty asmai lokāya ya evaṃvidvān upasadam upaiti || 8 ||

Sanskrit only: no published translation is held for this verse.

अथ यत्राहाध्वर्युर् अग्नीद् देवपत्नीर् व्याचक्ष्व सुब्रह्मण्य सुब्रह्मण्याम् आह्वयेति तद् अपरेण गार्हपत्यं प्राङ्मुखस् तिष्ठन्न् अनवानन्न् आग्नीध्रो देवपत्नीर् व्याचष्टे पृथिव्य् अग्नेः पत्नी वाग् वातस्य पत्नी सेनेन्द्रस्य पत्नी धेना बृहस्पतेः पत्नी पथ्या पूष्णः पत्नी गायत्री पसूनां पत्नी त्रिष्टुब् रुद्राणां पत्नी जगत्य् आदित्यानां पत्नी अनुष्टुम् मित्रस्य पत्नी विराड् वरुणस्य पत्नी पङ्क्तिर् विष्णोः पत्नी दीक्षा सोमस्य राज्ञः पत्नीति अति भ्रातृव्यान् आरोहति नैनं भ्रातृव्या आरोहन्त्य् उपरि भ्रातृव्यान् आरोहति य एवंविद्वान् आग्नीध्रो देवपत्नीर् व्याचष्टे ॥ ९ ॥ [एद्। आरुओहन्त्य्, आरुओहति]

atha yatrāhādhvaryur agnīd devapatnīr vyācakṣva subrahmaṇya subrahmaṇyām āhvayeti tad apareṇa gārhapatyaṃ prāṅmukhas tiṣṭhann anavānann āgnīdhro devapatnīr vyācaṣṭe pṛthivy agneḥ patnī vāg vātasya patnī senendrasya patnī dhenā bṛhaspateḥ patnī pathyā pūṣṇaḥ patnī gāyatrī pasūnāṃ patnī triṣṭub rudrāṇāṃ patnī jagaty ādityānāṃ patnī anuṣṭum mitrasya patnī virāḍ varuṇasya patnī paṅktir viṣṇoḥ patnī dīkṣā somasya rājñaḥ patnīti ati bhrātṛvyān ārohati nainaṃ bhrātṛvyā ārohanty upari bhrātṛvyān ārohati ya evaṃvidvān āgnīdhro devapatnīr vyācaṣṭe || 9 || [ed. āruohanty, āruohati]

Sanskrit only: no published translation is held for this verse.

यथा वै रथ एकैकम् अरम् अभिप्रतितिष्ठन् वर्तत एवं यज्ञ एकैकां तन्वम् अभिप्रतितिष्ठन्न् एति पुरा प्रचरितोर् आग्नीध्रीये होतव्याः एतद् ध वा उवाच वासिष्ठः सात्यहव्यो ऽस्कन् सोम इत्य् उक्ते मा सूर्क्षत प्रचरत प्रातर् वावाद्याहं सोमं समस्थापयम् इति नास्य सोम स्कन्दति य एवंविद्वान्त् सोमं पिबति स ह स्म वै स आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबति अहं वाव सर्वतो यज्ञं वेद य एतान् वेद न माम् एष हिंसिष्यतीति नैनं सोमपीथो न पेयो हिनस्ति य एवंविद्वान्त् सोमं पिबति तं ह स्म यद् आहुः कस्मात् त्वम् इदम् आसन्द्याम् आसीनः सक्तुभिर् उपमथ्य सोमं पिबसीति देवतास्व् एव यज्ञं प्रतिष्ठापयामीत्य् अब्रवीद् ब्राह्मणो यस्यैवंविदुषो यस्यैवंविद्वान् यज्ञार्त्या यज्ञे प्रायश्चित्तं जुहोति [एद् ब्रह्मणो, चोर्र्। पत्यल्] देवतास्व् एव यज्ञं प्रतिष्ठापयति यज्ञार्तिं प्रतिजुहुयात् सयोनित्वाय त्रयस्त्रिंशद् वै यज्ञस्य तन्व इति एकान्नत्रिंशत् स्तोमभागास् त्रीणि सवनानि यज्ञश् चतुर्थः स्तोमभागैर् एवैतत् स्तोमभागान् प्रतिप्रयुङ्क्ते सवनैः सवनानि यज्ञेन यज्ञम् सर्वा ह वा अस्य यज्ञस्य तन्वः प्रयुक्ता भवन्ति सर्वा आप्ताः सर्वा अवरुद्धाः देवस्य सवितुः प्रसवे बृहस्पतये स्तुतेति यद्यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन् सवितृप्रसूता एव स्तुवन्ति ऋध्नुवन्ति ऋध्यन्ते ह वा अस्य स्तोमा यज्ञे ऋध्यते यजमान ऋध्यते प्रजायाः [एद्। ऋध्यते ऋध्यते, चोर्रेच्तेद् प्। ३०२] ऋध्यते पशुभ्यः ऋध्यते ब्रह्मणे यस्यैवंविद्वान् ब्रह्मा भवति ॥ १० ॥

yathā vai ratha ekaikam aram abhipratitiṣṭhan vartata evaṃ yajña ekaikāṃ tanvam abhipratitiṣṭhann eti purā pracaritor āgnīdhrīye hotavyāḥ etad dha vā uvāca vāsiṣṭhaḥ sātyahavyo 'skan soma ity ukte mā sūrkṣata pracarata prātar vāvādyāhaṃ somaṃ samasthāpayam iti nāsya soma skandati ya evaṃvidvānt somaṃ pibati sa ha sma vai sa āsandyām āsīnaḥ saktubhir upamathya somaṃ pibati ahaṃ vāva sarvato yajñaṃ veda ya etān veda na mām eṣa hiṃsiṣyatīti nainaṃ somapītho na peyo hinasti ya evaṃvidvānt somaṃ pibati taṃ ha sma yad āhuḥ kasmāt tvam idam āsandyām āsīnaḥ saktubhir upamathya somaṃ pibasīti devatāsv eva yajñaṃ pratiṣṭhāpayāmīty abravīd brāhmaṇo yasyaivaṃviduṣo yasyaivaṃvidvān yajñārtyā yajñe prāyaścittaṃ juhoti [ed brahmaṇo, corr. Patyal] devatāsv eva yajñaṃ pratiṣṭhāpayati yajñārtiṃ pratijuhuyāt sayonitvāya trayastriṃśad vai yajñasya tanva iti ekānnatriṃśat stomabhāgās trīṇi savanāni yajñaś caturthaḥ stomabhāgair evaitat stomabhāgān pratiprayuṅkte savanaiḥ savanāni yajñena yajñam sarvā ha vā asya yajñasya tanvaḥ prayuktā bhavanti sarvā āptāḥ sarvā avaruddhāḥ devasya savituḥ prasave bṛhaspataye stuteti yadyad vai savitā devebhyaḥ prāsuvat tenārdhnuvan savitṛprasūtā eva stuvanti ṛdhnuvanti ṛdhyante ha vā asya stomā yajñe ṛdhyate yajamāna ṛdhyate prajāyāḥ [ed. ṛdhyate ṛdhyate, corrected p. 302] ṛdhyate paśubhyaḥ ṛdhyate brahmaṇe yasyaivaṃvidvān brahmā bhavati || 10 ||

Sanskrit only: no published translation is held for this verse.

देवाश् च ह वा असुराश् चास्पर्धन्त ते देवाः समावद् एव यज्ञे कुर्वाणा आसन् यद् एव दवा अकुर्वत तद् असुरा अकुर्वत ते न व्यावृतम् अगच्छन् ते देवा अब्रुवन् नयतेमं यज्ञं तिर उपर्य् असुरेभ्यस् तंस्यामह इति तम् एताभिर् आच्छाद्योदक्रामन् यजूंषि यज्ञे समिधः स्वाहेति तं तिर उपर्य् असुरेभ्यो यज्ञम् अतन्वत तम् एषां यज्ञम् असुरा नान्ववायन् ततो देवा अभवन् परासुराः स य एवंविद्वांस् तिर उपर्य् असुरेभ्यो यज्ञं तनुते भवत्य् आत्मना परास्याप्रियो भ्रातृव्यो भवति एतैर् एव जुहुयात् समृतयज्ञे चतुर्भिश् चतुर्भिर् अन्वाख्यायम् पुरस्तात् प्रातरनुवाकस्य जुहुयात् एतावान् वै यज्ञो यावान् एष यज्ञस् तं वृङ्क्ते सयज्ञो भवति अयज्ञ इतरः एतैर् एव जुहुयात् पुरस्ताद् द्वादशाहस्य एष ह वै प्रत्यक्षं द्वादशाहस् तम् एवालभ्यैतैर् एव जुहुयात् पुरस्ताद् दीक्षायाः एषा ह वै प्रत्यक्षं दीक्षा ताम् एवालभ्यैतैर् एवातिथ्यम् अभिमृशेद् <यज्ञेन यज्ञम् अयजन्त देवाः [श्स् ७।५।१, प्स् २०।२।२, वैत्स् १६।१५]> इति ॥ ११ ॥

devāś ca ha vā asurāś cāspardhanta te devāḥ samāvad eva yajñe kurvāṇā āsan yad eva davā akurvata tad asurā akurvata te na vyāvṛtam agacchan te devā abruvan nayatemaṃ yajñaṃ tira upary asurebhyas taṃsyāmaha iti tam etābhir ācchādyodakrāman yajūṃṣi yajñe samidhaḥ svāheti taṃ tira upary asurebhyo yajñam atanvata tam eṣāṃ yajñam asurā nānvavāyan tato devā abhavan parāsurāḥ sa ya evaṃvidvāṃs tira upary asurebhyo yajñaṃ tanute bhavaty ātmanā parāsyāpriyo bhrātṛvyo bhavati etair eva juhuyāt samṛtayajñe caturbhiś caturbhir anvākhyāyam purastāt prātaranuvākasya juhuyāt etāvān vai yajño yāvān eṣa yajñas taṃ vṛṅkte sayajño bhavati ayajña itaraḥ etair eva juhuyāt purastād dvādaśāhasya eṣa ha vai pratyakṣaṃ dvādaśāhas tam evālabhyaitair eva juhuyāt purastād dīkṣāyāḥ eṣā ha vai pratyakṣaṃ dīkṣā tām evālabhyaitair evātithyam abhimṛśed <yajñena yajñam ayajanta devāḥ [ŚS 7.5.1, PS 20.2.2, VaitS 16.15]> iti || 11 ||

Sanskrit only: no published translation is held for this verse.

यत्र विजानाति ब्रह्मन्त् सोमो ऽस्कन्न् इति तम् एतयालभ्याभिमन्त्रयते <अभूद् देवः सविता वन्द्यो नु न इदानीम् अह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः श्रेष्ठं नो अत्र द्रविणं यथा दधत् [ऋव् ४।५४।१]> इति <ये अग्नयो अप्स्व् अन्तर् [श्स् ३।२१।१, वैत्स् १६।१६, च्फ़्। प्स् १०।९।१?]> इति सप्तभिर् अभिजुहोति यद् एवास्यावस्कन्नं भवति तद् एवास्यैतद् अग्नौ स्वगाकरोति अग्निर् हि सुकृतीनां हविषां प्रतिष्ठा अथ विसृप्य वैप्रुषान् होमाञ् जुहोति <द्रप्सश् चस्कन्द [ऋव् १०।१७।११, प्स् २०।१३।७, श्स् १८।४।२८, वैत्स् १६।१७]> इति [एद्। जुह्वति, चोर्र्। पत्यल्] या एवास्याभिषूयमाणस्य विप्रुष स्कन्दन्त्य् अंशुर् वा ता एवास्यैतद् आहवनीये स्वगाकरोति [एद्। आहवणीये] आहवनीयो ह्य् आहुतीनां प्रतिष्ठा <यस् ते द्रप्स स्कन्दति [ऋव् १०।१७।१२अ, प्स् २०।१३।८अ, वैत्स् १६।१७]> इति स्तोको वै द्रप्सः <यस् ते अंशुर् बाहुच्युतो धिषणाया उपस्थात् [ऋव् १०।१७।१२ब्, प्स् २०।१३।८ब्, वैत्स् १६।१७]> इति बाहुभिर् अभिच्युतो ऽंशुर् अधिषवणाभ्याम् अधिस्कन्दति <अध्वर्योर् वा परि यः पवित्रात् तं ते जुहोमि मनसा वषट्कृतम् [प्स् २०।१३।८च्द्, ऋव् १०।१७।१२च्द्, वैत्स् १६।१७]> इति तद् यथा वषट्कृतं स्वाहाकृतं हुतम् एवं भवति ॥ १२ ॥

yatra vijānāti brahmant somo 'skann iti tam etayālabhyābhimantrayate <abhūd devaḥ savitā vandyo nu na idānīm ahna upavācyo nṛbhiḥ | vi yo ratnā bhajati mānavebhyaḥ śreṣṭhaṃ no atra draviṇaṃ yathā dadhat [ṚV 4.54.1]> iti <ye agnayo apsv antar [ŚS 3.21.1, VaitS 16.16, cf. PS 10.9.1?]> iti saptabhir abhijuhoti yad evāsyāvaskannaṃ bhavati tad evāsyaitad agnau svagākaroti agnir hi sukṛtīnāṃ haviṣāṃ pratiṣṭhā atha visṛpya vaipruṣān homāñ juhoti <drapsaś caskanda [ṚV 10.17.11, PS 20.13.7, ŚS 18.4.28, VaitS 16.17]> iti [ed. juhvati, corr. Patyal] yā evāsyābhiṣūyamāṇasya vipruṣa skandanty aṃśur vā tā evāsyaitad āhavanīye svagākaroti [ed. āhavaṇīye] āhavanīyo hy āhutīnāṃ pratiṣṭhā <yas te drapsa skandati [ṚV 10.17.12a, PS 20.13.8a, VaitS 16.17]> iti stoko vai drapsaḥ <yas te aṃśur bāhucyuto dhiṣaṇāyā upasthāt [ṚV 10.17.12b, PS 20.13.8b, VaitS 16.17]> iti bāhubhir abhicyuto 'ṃśur adhiṣavaṇābhyām adhiskandati <adhvaryor vā pari yaḥ pavitrāt taṃ te juhomi manasā vaṣaṭkṛtam [PS 20.13.8cd, ṚV 10.17.12cd, VaitS 16.17]> iti tad yathā vaṣaṭkṛtaṃ svāhākṛtaṃ hutam evaṃ bhavati || 12 ||

Sanskrit only: no published translation is held for this verse.

ऋषयो वा इन्द्रं प्रत्यक्षं नापश्यन् तं वसिष्ठ एव प्रत्यक्षम् अपश्यत् सो ऽबिभेद् इतरेभ्य ऋषिभ्यो मा प्रवोचद् इति सो ऽब्रवीद् ब्राह्मणं ते वक्ष्यामि यथा त्वत्पुरोहिताः प्रजाः प्रजनिष्यन्ते अथेतरेभ्य ऋषिभ्यो मा प्रवोच इति तस्मा एतान् स्तोमभागान् उवाच ततो वसिष्ठपुरोहिताः प्रजाः प्राजायन्त स्तोमो वा एते एतेषां भागस् तत् स्तोमभागानां स्तोमभागत्वम् रश्मिर् असि क्षयाय त्वेति क्षयो वै देवाः देवेभ्य एव यज्ञं प्राह प्रेतिर् असि धर्मणे त्वेति धर्मो मनुष्याः मनुष्येभ्य एव यज्ञं प्राह अन्वितिर् असि संधिर् असि प्रतिधिर् असीति [एद्। अनितिर्, चोर्र्। पत्यल्] त्रयो वै लोकाः लोकेष्व् एव यज्ञं प्रतिष्ठापयति विष्टम्भो ऽसीति वृष्टिम् एवावरुन्द्धे प्रावो ऽस्य् अह्नांसीति मिथुनम् एव करोति उशिग् असि प्रकेतो ऽसि सुदितिर् असीति अष्टौ वसव एकादश रुद्रा द्वादशादित्या वाग् द्वात्रिंशी स्वरस् त्रयस्त्रिंशस्त्रयस्त्रिंशद् देवाः देवेभ्य एव यज्ञं प्राह ओजो ऽसि पितृभ्यस् त्वेति बलम् एव तत्पितॄन् अनुसंतनोति तन्तुर् असि प्रजाभ्यस् त्वेति प्रजा एव पशून् अनुसंतनोति रेवद् अस्य् ओषधीभ्यस् त्वेति ओषधीष्व् एव यज्ञं प्रतिष्ठापयति पृतनाषाड् असि पशुभ्यस् त्वेति प्रजा एव पशून् अनुसंतनोति अभिजिद् असीति वज्रो वै षोडशी व्यावृत्तो ऽसौ वज्रस् तस्माद् एषो ऽन्यैर् व्यावृत्तः नाभुर् असीति प्रजापतिर् वै सप्तदशः प्रजापतिम् एवावरुन्द्धे ॥ १३ ॥

ṛṣayo vā indraṃ pratyakṣaṃ nāpaśyan taṃ vasiṣṭha eva pratyakṣam apaśyat so 'bibhed itarebhya ṛṣibhyo mā pravocad iti so 'bravīd brāhmaṇaṃ te vakṣyāmi yathā tvatpurohitāḥ prajāḥ prajaniṣyante athetarebhya ṛṣibhyo mā pravoca iti tasmā etān stomabhāgān uvāca tato vasiṣṭhapurohitāḥ prajāḥ prājāyanta stomo vā ete eteṣāṃ bhāgas tat stomabhāgānāṃ stomabhāgatvam raśmir asi kṣayāya tveti kṣayo vai devāḥ devebhya eva yajñaṃ prāha pretir asi dharmaṇe tveti dharmo manuṣyāḥ manuṣyebhya eva yajñaṃ prāha anvitir asi saṃdhir asi pratidhir asīti [ed. anitir, corr. Patyal] trayo vai lokāḥ lokeṣv eva yajñaṃ pratiṣṭhāpayati viṣṭambho 'sīti vṛṣṭim evāvarunddhe prāvo 'sy ahnāṃsīti mithunam eva karoti uśig asi praketo 'si suditir asīti aṣṭau vasava ekādaśa rudrā dvādaśādityā vāg dvātriṃśī svaras trayastriṃśastrayastriṃśad devāḥ devebhya eva yajñaṃ prāha ojo 'si pitṛbhyas tveti balam eva tatpitṝn anusaṃtanoti tantur asi prajābhyas tveti prajā eva paśūn anusaṃtanoti revad asy oṣadhībhyas tveti oṣadhīṣv eva yajñaṃ pratiṣṭhāpayati pṛtanāṣāḍ asi paśubhyas tveti prajā eva paśūn anusaṃtanoti abhijid asīti vajro vai ṣoḍaśī vyāvṛtto 'sau vajras tasmād eṣo 'nyair vyāvṛttaḥ nābhur asīti prajāpatir vai saptadaśaḥ prajāpatim evāvarunddhe || 13 ||

Sanskrit only: no published translation is held for this verse.

अधिपतिर् असि धरुणो ऽसि संसर्पो ऽसि वयोधा असीति प्राणो ऽपानश् चक्षुः श्रोत्रम् इत्य् एतानि वै पुरुषम् अकरन् प्रणान् उपैति प्रजात्या एव त्रिवृद् असि प्रवृद् असि स्ववृद् अस्य् अनुवृद् असीति मिथुनम् एव करोति आरोहो ऽसि प्ररोहो ऽसि संरोहो ऽस्य् अनुरोहो ऽसीति [एद्। आरुओहो] प्रजापतिर् एव वसुको ऽसि वस्यष्टिर् असि वेषश्रीर् असीति प्रतिष्ठितिर् एव आक्रमो ऽसि संक्रमो ऽस्य् उत्क्रमो ऽस्य् उत्क्रान्तिर् असीति ऋद्धिर् एव यद् यद् वै सविता देवेभ्यः प्रासुवत् तेनार्ध्नुवन् सवितृप्रसूता एव स्तुवन्ति ऋध्नुवन्ति बृहस्पतये स्तुतेति बृहस्पतिर् वा आङ्गिरसो देवानां ब्रह्मा तद् अनुमत्यैव्ॐ भूर् जनद् इति प्रातःसवने ऋग्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेति एव्ॐ भुवो जनद् इति माध्यंदिने सवने यजुर्भिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तैः स्तुतेत्य् एव्ॐ स्वर् जनद् इति तृतीयसवने सामभिर् एवोभयतो ऽथर्वाङ्गिरोभिर् गुप्ताभिर् गुप्तै स्तुतेत्य् एव अथ यद्य् अहीन उक्थ्यः षोडशी वाजपेयो ऽतिरात्रो ऽप्तोर्यामा वा स्यात् सर्वाभिः सर्वाभिर् अत ऊर्ध्वं व्याहृतिभिर् अनुजानाति ॐ भूर् भुवः स्वर् जनद् वृधत् करद् रुहन् महत् तच् छम् ओम् इन्द्रवन्त स्तुतेति सेन्द्रान् मापगायत सेन्द्रान् स्तुतेत्य् एव इन्द्रियवान् ऋद्धिमान् वशीयान् भवति य एवं वेद यश् चैवंविद्वान्त् स्तोमभागैर् यजते ॥ १४ ॥

adhipatir asi dharuṇo 'si saṃsarpo 'si vayodhā asīti prāṇo 'pānaś cakṣuḥ śrotram ity etāni vai puruṣam akaran praṇān upaiti prajātyā eva trivṛd asi pravṛd asi svavṛd asy anuvṛd asīti mithunam eva karoti āroho 'si praroho 'si saṃroho 'sy anuroho 'sīti [ed. āruoho] prajāpatir eva vasuko 'si vasyaṣṭir asi veṣaśrīr asīti pratiṣṭhitir eva ākramo 'si saṃkramo 'sy utkramo 'sy utkrāntir asīti ṛddhir eva yad yad vai savitā devebhyaḥ prāsuvat tenārdhnuvan savitṛprasūtā eva stuvanti ṛdhnuvanti bṛhaspataye stuteti bṛhaspatir vā āṅgiraso devānāṃ brahmā tad anumatyaivoṃ bhūr janad iti prātaḥsavane ṛgbhir evobhayato 'tharvāṅgirobhir guptābhir guptai stuteti evoṃ bhuvo janad iti mādhyaṃdine savane yajurbhir evobhayato 'tharvāṅgirobhir guptābhir guptaiḥ stutety evoṃ svar janad iti tṛtīyasavane sāmabhir evobhayato 'tharvāṅgirobhir guptābhir guptai stutety eva atha yady ahīna ukthyaḥ ṣoḍaśī vājapeyo 'tirātro 'ptoryāmā vā syāt sarvābhiḥ sarvābhir ata ūrdhvaṃ vyāhṛtibhir anujānāti oṃ bhūr bhuvaḥ svar janad vṛdhat karad ruhan mahat tac cham om indravanta stuteti sendrān māpagāyata sendrān stutety eva indriyavān ṛddhimān vaśīyān bhavati ya evaṃ veda yaś caivaṃvidvānt stomabhāgair yajate || 14 ||

Sanskrit only: no published translation is held for this verse.

यो ह वा आयतांश् च प्रतियतांश् च स्तोमभागान् विद्यात् स विष्पर्धमानयोः समृतसोमयोर् ब्रह्मा स्यात् <स्तुतेषे स्तुतोर्जे स्तुत देवस्य सवितुः सवे बृहस्पतिं वः प्रजापतिं वो वसून् वो देवान् रुद्रान् वो देवान् आदित्यान् वो देवान् साध्यान् वो देवान् आप्त्यान् वो देवान् विश्वान् वो देवान् सर्वान् वो देवान् विश्वतस् परि हवामहे [वैत्स् १७।७]> <जनेभ्यो ऽस्माकम् अस्तु केवलः [वैत्स् १७।७ (च्फ़्। प्स् ५।४।९च्)]> <इतः कृणोतु वीर्यम् [वैत्स् १७।७ (प्स् ५।४।९द्)]> इति एते ह वा आयताश् च प्रतियताश् च स्तोमभागास् ताञ् जपन्न् उपर्युपरि परेषां ब्रह्माणम् अवेक्षेत तत एषाम् अधःशिरा ब्रह्मा पतति ततो यज्ञस् ततो यजमानः यजमाने ऽधःशिरसि पतिते स देशो ऽधःशिराः पतति यस्मिन्न् अर्धे यजन्ते देवाश् च ह वा असुराश् च समृतसोमौ यज्ञाव् अतनुताम् अथ बृहस्पतिर् आङ्गिरसो देवानां ब्रह्मा स आयतांश् च प्रतियतांश् च स्तोमभागाञ् जपन्न् उपर्युपर्य् असुराणां ब्रह्माणम् अवैक्षत तत एषाम् अधःशिरा ब्रह्मापतत् ततो यज्ञस् ततो ऽसुरा इति ॥ १५ ॥

yo ha vā āyatāṃś ca pratiyatāṃś ca stomabhāgān vidyāt sa viṣpardhamānayoḥ samṛtasomayor brahmā syāt <stuteṣe stutorje stuta devasya savituḥ save bṛhaspatiṃ vaḥ prajāpatiṃ vo vasūn vo devān rudrān vo devān ādityān vo devān sādhyān vo devān āptyān vo devān viśvān vo devān sarvān vo devān viśvatas pari havāmahe [VaitS 17.7]> <janebhyo 'smākam astu kevalaḥ [VaitS 17.7 (cf. PS 5.4.9c)]> <itaḥ kṛṇotu vīryam [VaitS 17.7 (PS 5.4.9d)]> iti ete ha vā āyatāś ca pratiyatāś ca stomabhāgās tāñ japann uparyupari pareṣāṃ brahmāṇam avekṣeta tata eṣām adhaḥśirā brahmā patati tato yajñas tato yajamānaḥ yajamāne 'dhaḥśirasi patite sa deśo 'dhaḥśirāḥ patati yasminn ardhe yajante devāś ca ha vā asurāś ca samṛtasomau yajñāv atanutām atha bṛhaspatir āṅgiraso devānāṃ brahmā sa āyatāṃś ca pratiyatāṃś ca stomabhāgāñ japann uparyupary asurāṇāṃ brahmāṇam avaikṣata tata eṣām adhaḥśirā brahmāpatat tato yajñas tato 'surā iti || 15 ||

Sanskrit only: no published translation is held for this verse.

देवा यज्ञं पराजयन्त तम् आग्नीध्रात् पुनर् उपाजयन्त तद् एतद् यज्ञस्यापराजितं यद् आग्नीध्रम् यद् आग्नीध्राद् धिष्ण्यान् विहरति तत एवैनं पुनस् तनुते पराजित्यै अप खलु वा एते गच्छन्ति ये बहिष्पवमानं सर्पन्ति बहिष्पवमाने स्तुत आह अग्नीद् अग्नीन् विहर बर्हि स्तृणीहि पुरोडाशान् अलंकुर्व् इति यज्ञम् एवापराजित्य पुनस् तन्वाना आयन्ति अङ्गारैर् द्वे सवने विहरति शलाकाभिस् तृतीयसवनं सश्रुक्रत्वाय अथो संभवत्य् एवम् एवैतत् दक्षिणतो वै देवानां यज्ञं रक्षांस्य् अजिघांसन् [एद्। अजिधांसन्] तान्य् आग्नीध्रेणापाघ्नत तस्माद् दक्षिणामुखस् तिष्ठन्न् अग्नीत् प्रत्याश्रावयति यज्ञस्याभिजित्यै रक्षसाम् अपहत्यै रक्षसाम् अपहत्यै ॥ १६ ॥

devā yajñaṃ parājayanta tam āgnīdhrāt punar upājayanta tad etad yajñasyāparājitaṃ yad āgnīdhram yad āgnīdhrād dhiṣṇyān viharati tata evainaṃ punas tanute parājityai apa khalu vā ete gacchanti ye bahiṣpavamānaṃ sarpanti bahiṣpavamāne stuta āha agnīd agnīn vihara barhi stṛṇīhi puroḍāśān alaṃkurv iti yajñam evāparājitya punas tanvānā āyanti aṅgārair dve savane viharati śalākābhis tṛtīyasavanaṃ saśrukratvāya atho saṃbhavaty evam evaitat dakṣiṇato vai devānāṃ yajñaṃ rakṣāṃsy ajighāṃsan [ed. ajidhāṃsan] tāny āgnīdhreṇāpāghnata tasmād dakṣiṇāmukhas tiṣṭhann agnīt pratyāśrāvayati yajñasyābhijityai rakṣasām apahatyai rakṣasām apahatyai || 16 ||

Sanskrit only: no published translation is held for this verse.

तद् आहुर् अथ कस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति न हविर्यज्ञ इति अकृत्स्ना वा एषा देवयज्या यद् धविर्यज्ञः अथ हैषैव कृत्स्ना देवयज्या यत् सौम्यो ऽध्वरस् तस्मात् सौम्य एवाध्वरे प्रवृताहुतीर् जुह्वति जुष्टो वाचे भूयासं जुष्टो वाचस्पतये देवि वाग् यद् वाचो मधुमत्तमं तस्मिन् मा धाः स्वाहा वाचे स्वाहा वाचपतये स्वाहा सरस्वत्यै स्वाहा सरस्वत्या इति पुरस्तात् स्वाहाकारेण जुहोति [एद्। -स्वाहाकरेण] तस्माद् वाग् अत ऊर्ध्वम् उत्सृष्टा यज्ञं वहति मनसोत्तराम् मनसा हि मनः प्रीतम् तद् उ हैके सप्ताहुतीर् जुह्वति सप्त छन्दांसि प्रवृत्तानि प्रतिमन्त्रम् इति वदन्तः यथा मेखला पर्यस्यते मेध्यस्य चामेध्यस्य च विहृत्या एवं हैवैते न्युप्यन्ते मेधस्य चामेध्यस्य च विहृत्यै यज्ञस्य विहृत्यै प्राचीनं हि धिष्ण्येभ्यो देवानां लोकाः प्रतीचीनं मनुष्याणाम् तस्मात् सोमं पिबता प्राञ्चो धिष्ण्या नोपसर्प्याः जनं ह्य् एतत् देवलोकं ह्य् अध्यारोहन्ति तेषाम् एतद् आयतनं चोदयनं च यद् आग्नीध्रं च सदश् च तद् यो ऽविद्वान्त् संचरत्य् आर्तिम् आर्छत्यि अथ यो विद्वान्त् संचरति न स धिष्णीयाम् आर्तिम् आर्छति ॥ १७ ॥ [एद्। विद्वन्त्]

tad āhur atha kasmāt saumya evādhvare pravṛtāhutīr juhvati na haviryajña iti akṛtsnā vā eṣā devayajyā yad dhaviryajñaḥ atha haiṣaiva kṛtsnā devayajyā yat saumyo 'dhvaras tasmāt saumya evādhvare pravṛtāhutīr juhvati juṣṭo vāce bhūyāsaṃ juṣṭo vācaspataye devi vāg yad vāco madhumattamaṃ tasmin mā dhāḥ svāhā vāce svāhā vācapataye svāhā sarasvatyai svāhā sarasvatyā iti purastāt svāhākāreṇa juhoti [ed. -svāhākareṇa] tasmād vāg ata ūrdhvam utsṛṣṭā yajñaṃ vahati manasottarām manasā hi manaḥ prītam tad u haike saptāhutīr juhvati sapta chandāṃsi pravṛttāni pratimantram iti vadantaḥ yathā mekhalā paryasyate medhyasya cāmedhyasya ca vihṛtyā evaṃ haivaite nyupyante medhasya cāmedhyasya ca vihṛtyai yajñasya vihṛtyai prācīnaṃ hi dhiṣṇyebhyo devānāṃ lokāḥ pratīcīnaṃ manuṣyāṇām tasmāt somaṃ pibatā prāñco dhiṣṇyā nopasarpyāḥ janaṃ hy etat devalokaṃ hy adhyārohanti teṣām etad āyatanaṃ codayanaṃ ca yad āgnīdhraṃ ca sadaś ca tad yo 'vidvānt saṃcaraty ārtim ārchatyi atha yo vidvānt saṃcarati na sa dhiṣṇīyām ārtim ārchati || 17 || [ed. vidvant]

Sanskrit only: no published translation is held for this verse.

प्रजापतिर् वै यज्ञस् तस्मिन्त् सर्वे कामाः सर्वा इष्टीः सर्वम् अमृतत्वम् तस्य हैते गोप्तारो यद् धिष्ण्यास् तान्त् सदः प्रस्रप्स्यन् नमस्करोति नमो नम इति न हि नमस्कारम् अति देवास् ते ह नमसिताः कर्तारम् अतिसृजन्तीति तत एतं प्रजापतिं यज्ञं प्रपद्यते नमो नम इति न हि नमस्कारम् अति देवाः स तत्रैव यजमानः सर्वान् कामान् आप्नोति सर्वान् कामान् आप्नोति ॥ १८ ॥

prajāpatir vai yajñas tasmint sarve kāmāḥ sarvā iṣṭīḥ sarvam amṛtatvam tasya haite goptāro yad dhiṣṇyās tānt sadaḥ prasrapsyan namaskaroti namo nama iti na hi namaskāram ati devās te ha namasitāḥ kartāram atisṛjantīti tata etaṃ prajāpatiṃ yajñaṃ prapadyate namo nama iti na hi namaskāram ati devāḥ sa tatraiva yajamānaḥ sarvān kāmān āpnoti sarvān kāmān āpnoti || 18 ||

Sanskrit only: no published translation is held for this verse.

यो वै सदस्यान् गन्धर्वान् वेद न सदस्याम् आर्तिम् आर्छति सदः प्रस्रप्स्यन् ब्रूयाद् उपद्रष्ट्रे नम इति अग्निर् वै द्रष्टा तस्मा उ एवात्मानं परिददाति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद सदः प्रसृप्य ब्रूयाद् उपश्रोत्रे नम इति वायुर् वा उपश्रोता तस्मा उ एवात्मानं परिददाति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद सदः प्रसर्पन् ब्रूयाद् अनुख्यात्रे नम इति आदित्यो वा अनुख्याता तस्मा उ एवात्मानं परिददाति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद सदः प्रसृप्तो ब्रूयाद् उपद्रष्ट्रे नम इति ब्राह्मणो वा उपद्रष्टा तस्मा उ एवात्मानं परिददाति सर्वम् आयुर् एति न पुरा जरसः प्रमीयते य एवं वेद ते वै सदस्या गन्धर्वाः स य एवम् एतान्त् सदस्यान् गन्धर्वान् अविद्वान्त् सदः प्रसर्पति स सदस्याम् आर्तिम् आर्छति अथ यो विद्वान्त् संचरति न सदस्याम् आर्तिम् आर्छति एतेन ह स्म वा अङ्गिरसः सर्वं सदः पर्याहुस् ते न सदस्याम् आर्तिम् आर्छन्ति अथ यान् कामयेत न सदस्याम् आर्तिम् आर्छेयुर् इति तेभ्य एतेन सर्वं सदः परिब्रूयात् ते न सदस्याम् आर्तिम् आर्छन्ति अथ यं कामयेत प्रमीयतेति तम् एतेभ्य आवृश्चेत् प्रमीयते ॥ १९ ॥

yo vai sadasyān gandharvān veda na sadasyām ārtim ārchati sadaḥ prasrapsyan brūyād upadraṣṭre nama iti agnir vai draṣṭā tasmā u evātmānaṃ paridadāti sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda sadaḥ prasṛpya brūyād upaśrotre nama iti vāyur vā upaśrotā tasmā u evātmānaṃ paridadāti sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda sadaḥ prasarpan brūyād anukhyātre nama iti ādityo vā anukhyātā tasmā u evātmānaṃ paridadāti sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda sadaḥ prasṛpto brūyād upadraṣṭre nama iti brāhmaṇo vā upadraṣṭā tasmā u evātmānaṃ paridadāti sarvam āyur eti na purā jarasaḥ pramīyate ya evaṃ veda te vai sadasyā gandharvāḥ sa ya evam etānt sadasyān gandharvān avidvānt sadaḥ prasarpati sa sadasyām ārtim ārchati atha yo vidvānt saṃcarati na sadasyām ārtim ārchati etena ha sma vā aṅgirasaḥ sarvaṃ sadaḥ paryāhus te na sadasyām ārtim ārchanti atha yān kāmayeta na sadasyām ārtim ārcheyur iti tebhya etena sarvaṃ sadaḥ paribrūyāt te na sadasyām ārtim ārchanti atha yaṃ kāmayeta pramīyateti tam etebhya āvṛścet pramīyate || 19 ||

Sanskrit only: no published translation is held for this verse.

तद् आहुर् यद् ऐन्द्रो यज्ञो ऽथ कस्माद् द्वाव् एव प्रातःसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभ्यां यजतो होता चैव ब्राह्मणाच्छंसी च [एद्। ऐद्रीभ्यां] <इदं ते सोम्यं मधु [ऋव् ८।६५।८]> इति होता यजति <इन्द्र त्वा वृषभं वयम् [ऋव् ३।४०।१, वैत्स् १९।६]> इति ब्राह्मणाच्छंसी नानादेवत्याभिर् इतरे कथं तेषाम् ऐन्द्र्यो भवन्ति <मित्रं वयं हवामहे [ऋव् १।२३।४अ]> इति मैत्रावरुणो यजति <वरुणं सोमपीतये [ऋव् १।२३।४ब्]> इति यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम् तेनेन्द्रं प्रीणाति <मरुतो यस्य हि क्षये [ऋव् १।८६।१अ, श्स् २०।१।२अ]> इति पोता यजति <स सुगोपातमो जनः [ऋव् १।८६।१च्, श्स् २०।१।२च्]> इति [एद्। सुगोपतमो, चोर्रेच्तेद् प्। ३०२] इन्द्रो वै गोपास् तद् ऐन्द्रं रूपम् तेनेन्द्रं प्रीणाति <अग्ने पत्नीर् इहा वह [ऋव् १।२२।९अ]> इति नेष्टा यजति <त्वष्टारं सोमपीतये [ऋव् १।२२।९च्]> इति यद् वै किं च पीतवत् तद् ऐन्द्रं रूपम् तेनेन्द्रं प्रीणाति <उक्षान्नाय वशान्नाय [ऋव् ८।४३।११अ, प्स् ३।१२।६अ, श्स् ३।२१।६अ।२०।१।३अ]> इत्य् आग्नीध्रो यजति <सोमपृष्ठाय वेधसे [ऋव् ८।४३।११ब्, प्स् ३।१२।६ब्, श्स् ३।२१।६ब्।२०।१।३ब्]> इति इन्द्रो वै वेधास् तद् ऐन्द्रं रूपम् तेनेन्द्रं प्रीणाति <प्रातर्यावभिर् आ गतं देवेभिर् जेन्यावसू इन्द्राग्नी सोमपीतये [ऋव् ८।३८।७]> इति स्वयंसमृद्धा अच्छावाकस्य एवम् उ हैता ऐन्द्र्यो भवन्ति यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति यद् गायत्र्यस् तेनाग्नेय्यस् तस्माद् एताभिस् त्रयम् अवाप्तं भवति ॥ २० ॥

tad āhur yad aindro yajño 'tha kasmād dvāv eva prātaḥsavane prasthitānāṃ pratyakṣād aindrībhyāṃ yajato hotā caiva brāhmaṇācchaṃsī ca [ed. aidrībhyāṃ] <idaṃ te somyaṃ madhu [ṚV 8.65.8]> iti hotā yajati <indra tvā vṛṣabhaṃ vayam [ṚV 3.40.1, VaitS 19.6]> iti brāhmaṇācchaṃsī nānādevatyābhir itare kathaṃ teṣām aindryo bhavanti <mitraṃ vayaṃ havāmahe [ṚV 1.23.4a]> iti maitrāvaruṇo yajati <varuṇaṃ somapītaye [ṚV 1.23.4b]> iti yad vai kiṃ ca pītavat tad aindraṃ rūpam tenendraṃ prīṇāti <maruto yasya hi kṣaye [ṚV 1.86.1a, ŚS 20.1.2a]> iti potā yajati <sa sugopātamo janaḥ [ṚV 1.86.1c, ŚS 20.1.2c]> iti [ed. sugopatamo, corrected p. 302] indro vai gopās tad aindraṃ rūpam tenendraṃ prīṇāti <agne patnīr ihā vaha [ṚV 1.22.9a]> iti neṣṭā yajati <tvaṣṭāraṃ somapītaye [ṚV 1.22.9c]> iti yad vai kiṃ ca pītavat tad aindraṃ rūpam tenendraṃ prīṇāti <ukṣānnāya vaśānnāya [ṚV 8.43.11a, PS 3.12.6a, ŚS 3.21.6a/20.1.3a]> ity āgnīdhro yajati <somapṛṣṭhāya vedhase [ṚV 8.43.11b, PS 3.12.6b, ŚS 3.21.6b/20.1.3b]> iti indro vai vedhās tad aindraṃ rūpam tenendraṃ prīṇāti <prātaryāvabhir ā gataṃ devebhir jenyāvasū indrāgnī somapītaye [ṚV 8.38.7]> iti svayaṃsamṛddhā acchāvākasya evam u haitā aindryo bhavanti yan nānādevatyās tenānyā devatāḥ prīṇāti yad gāyatryas tenāgneyyas tasmād etābhis trayam avāptaṃ bhavati || 20 ||

Sanskrit only: no published translation is held for this verse.

ते वै खलु सर्व एव माध्यंदिने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रीभिर् यजन्ति अभितृणवतीभिर् एके <पिबा सोमम् अभि यम् उग्र तर्दः [ऋव् ६।१७।१]> इति होता यजति <स ईं पाहि य ऋजीषी तरुत्रः [ऋव् ६।१७।२]> इति मैत्रावरुणः <एवा पाहि प्रत्नथा मन्दतु त्वा [ऋव् ६।१७।३]> इति ब्राह्मणाच्छंसी <अर्वाङ् एहि सोमकामं त्वाहुः [ऋव् १।१०४।९]> इति पोता <तवायं सोमस् त्वम् एह्य् अर्वाङ् [ऋव् ३।३५।६]> इति नेष्टा <इन्द्राय सोमाः प्रदिवो विदानाः [ऋव् ३।३६।२]> इत्य् अच्छावाकः <आपूर्णो अस्य कलशः स्वाहा [ऋव् ३।३२।१५]> इत्य् आग्नीध्रः [एद्। स्वहोत्य्] एवम् उ हैता अभितृणवत्यो भवन्ति इन्द्रो वै प्रातःसवनं नाभ्यजयत् स एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् तद् यद् एताभिर् माध्यंदिनं सवनम् अभ्यतृणत् तस्माद् एता अभितृणवत्यो भवन्ति ॥ २१ ॥

te vai khalu sarva eva mādhyaṃdine prasthitānāṃ pratyakṣād aindrībhir yajanti abhitṛṇavatībhir eke <pibā somam abhi yam ugra tardaḥ [ṚV 6.17.1]> iti hotā yajati <sa īṃ pāhi ya ṛjīṣī tarutraḥ [ṚV 6.17.2]> iti maitrāvaruṇaḥ <evā pāhi pratnathā mandatu tvā [ṚV 6.17.3]> iti brāhmaṇācchaṃsī <arvāṅ ehi somakāmaṃ tvāhuḥ [ṚV 1.104.9]> iti potā <tavāyaṃ somas tvam ehy arvāṅ [ṚV 3.35.6]> iti neṣṭā <indrāya somāḥ pradivo vidānāḥ [ṚV 3.36.2]> ity acchāvākaḥ <āpūrṇo asya kalaśaḥ svāhā [ṚV 3.32.15]> ity āgnīdhraḥ [ed. svahoty] evam u haitā abhitṛṇavatyo bhavanti indro vai prātaḥsavanaṃ nābhyajayat sa etābhir mādhyaṃdinaṃ savanam abhyatṛṇat tad yad etābhir mādhyaṃdinaṃ savanam abhyatṛṇat tasmād etā abhitṛṇavatyo bhavanti || 21 ||

Sanskrit only: no published translation is held for this verse.

तद् आहुर् यद् ऐन्द्रार्भवं तृतीयसवनम् अथ कस्माद् एक एव तृतीयसवने प्रस्थितानां प्रत्यक्षाद् ऐन्द्रार्भव्या यजति <इन्द्र ऋभुभिर् वाजवद्भिः समुक्षितम् [ऋव् ३।६०।५]> इति होतैव नानादेवत्याभिर् इतरे कथं तेषाम् ऐन्द्रार्भव्यो भवन्ति <इन्द्रावरुणा सुतपाव् इमं सुतम् [ऋव् ६।६८।१०, प्स् २०।७।५अ, श्स् ७।५८।१अ]> इति मैत्रावरुणो यजति [एद्। सतम्, चोर्रेच्तेद् प्। ३०२] <युवो रथो अध्वरो देववीतये [प्स् २०।७।५च्, श्स् ७।५८।१च्, ऋव् ६।६८।१०च्]> इति बहूनि वाह तद् ऋभूणां रूपम् <इन्द्रश् च सोमं पिबतं बृहस्पतये [ऋव् ४।५०।१०अ, वैत्स् २२।११]> इति ब्राह्मणाच्छंसी यजति <आ वां विशन्त्व् इन्दवः स्वाभुवः [ऋव् ४।५०।१०च्]> इति बहूनि वाह तद् ऋभूणां रूपम् <आ वो वहन्तु सप्तयो रघुष्यदः [ऋव् १।८५।६अ]> इति पोता यजति <रघुपत्वानः प्र जिगात बाहुभिः [ऋव् १।८५।६ब्]> इति बहूनि वाह तद् ऋभूणां रूपम् <अमेव नः सुहवा आ हि गन्तन [ऋव् २।३६।३]> इति नेष्टा यजति गन्तनेति बहूनि वाह तद् ऋभूणां रूपम् <इन्द्राविष्णू पिबतं मध्वो अस्य [ऋव् ६।६९।७अ]> इत्य् अच्छावाको यजति <आ वाम् अन्धांसि मदिराण्य् अग्मन् [ऋव् ६।६९।७च्]> इति बहूनि वाह तद् ऋभूणां रूपम् <इमं स्तोमम् अर्हते जातवेदसे [ऋव् १।९४।१अ]> इत्य् आग्नीध्रो यजति <रथम् इव सं महेमा मनीषया [ऋव् १।९४।१ब्]> इति बहूनि वाह तद् ऋभूणां रूपम् एवम् उ हैता ऐन्द्रार्भव्यो भवन्ति यन् नानादेवत्यास् तेनान्या देवताः प्रीणाति यद् उ जगत्प्रासाहा जागतम् उ वै तृतीयसवनम् तृतीयसवनस्य समष्ट्यै ॥ २२ ॥

tad āhur yad aindrārbhavaṃ tṛtīyasavanam atha kasmād eka eva tṛtīyasavane prasthitānāṃ pratyakṣād aindrārbhavyā yajati <indra ṛbhubhir vājavadbhiḥ samukṣitam [ṚV 3.60.5]> iti hotaiva nānādevatyābhir itare kathaṃ teṣām aindrārbhavyo bhavanti <indrāvaruṇā sutapāv imaṃ sutam [ṚV 6.68.10, PS 20.7.5a, ŚS 7.58.1a]> iti maitrāvaruṇo yajati [ed. satam, corrected p. 302] <yuvo ratho adhvaro devavītaye [PS 20.7.5c, ŚS 7.58.1c, ṚV 6.68.10c]> iti bahūni vāha tad ṛbhūṇāṃ rūpam <indraś ca somaṃ pibataṃ bṛhaspataye [ṚV 4.50.10a, VaitS 22.11]> iti brāhmaṇācchaṃsī yajati <ā vāṃ viśantv indavaḥ svābhuvaḥ [ṚV 4.50.10c]> iti bahūni vāha tad ṛbhūṇāṃ rūpam <ā vo vahantu saptayo raghuṣyadaḥ [ṚV 1.85.6a]> iti potā yajati <raghupatvānaḥ pra jigāta bāhubhiḥ [ṚV 1.85.6b]> iti bahūni vāha tad ṛbhūṇāṃ rūpam <ameva naḥ suhavā ā hi gantana [ṚV 2.36.3]> iti neṣṭā yajati gantaneti bahūni vāha tad ṛbhūṇāṃ rūpam <indrāviṣṇū pibataṃ madhvo asya [ṚV 6.69.7a]> ity acchāvāko yajati <ā vām andhāṃsi madirāṇy agman [ṚV 6.69.7c]> iti bahūni vāha tad ṛbhūṇāṃ rūpam <imaṃ stomam arhate jātavedase [ṚV 1.94.1a]> ity āgnīdhro yajati <ratham iva saṃ mahemā manīṣayā [ṚV 1.94.1b]> iti bahūni vāha tad ṛbhūṇāṃ rūpam evam u haitā aindrārbhavyo bhavanti yan nānādevatyās tenānyā devatāḥ prīṇāti yad u jagatprāsāhā jāgatam u vai tṛtīyasavanam tṛtīyasavanasya samaṣṭyai || 22 ||

Sanskrit only: no published translation is held for this verse.

विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् विचक्षयन्ति ब्राह्मणम् चनसयन्ति प्राजापत्यम् सत्यं वदन्ति एतद् वै मनुष्येषु सत्यं यच् चक्षुस् तस्माद् आहुर् आचक्षाणम् अद्राग् इति स यद् आहाद्राक्षम् इति तथाहास्य श्रद्दधति यद्य् उ वै स्वयं वै दृष्टं भवति न बहूनां जनानाम् एष श्रद्दधाति तस्माद् विचक्षणवतीं वाचं भाषन्ते चनसितवतीम् सत्योत्तरा हैवैषां वाग् उदिता भवति ॥ २३ ॥

vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm vicakṣayanti brāhmaṇam canasayanti prājāpatyam satyaṃ vadanti etad vai manuṣyeṣu satyaṃ yac cakṣus tasmād āhur ācakṣāṇam adrāg iti sa yad āhādrākṣam iti tathāhāsya śraddadhati yady u vai svayaṃ vai dṛṣṭaṃ bhavati na bahūnāṃ janānām eṣa śraddadhāti tasmād vicakṣaṇavatīṃ vācaṃ bhāṣante canasitavatīm satyottarā haivaiṣāṃ vāg uditā bhavati || 23 ||

Sanskrit only: no published translation is held for this verse.

समृतयज्ञो वा एष यद् दर्शपूर्णमासौ कस्य वाव देवा यज्ञम् आगच्छन्ति कस्य वा न बहूनां वा एतद् यजमानानां सामान्यम् अहस् तस्मात् पूर्वेद्युर् देवताः परिगृह्णीयात् यो ह वै पूर्वेद्युर् देवताः परिगृह्णाति तस्य श्वो भूते यज्ञम् आगच्छन्ति तस्माद् विहव्यस्य चतस्र ऋचो जपेत् यज्ञविदो हि मन्यन्ते एव सोम एव समृत इति यज्ञो यज्ञेन समृतः ॥ २४ ॥

samṛtayajño vā eṣa yad darśapūrṇamāsau kasya vāva devā yajñam āgacchanti kasya vā na bahūnāṃ vā etad yajamānānāṃ sāmānyam ahas tasmāt pūrvedyur devatāḥ parigṛhṇīyāt yo ha vai pūrvedyur devatāḥ parigṛhṇāti tasya śvo bhūte yajñam āgacchanti tasmād vihavyasya catasra ṛco japet yajñavido hi manyante eva soma eva samṛta iti yajño yajñena samṛtaḥ || 24 ||

Sanskrit only: no published translation is held for this verse.