Library·Taittirīya Āraṇyaka (Kṛṣṇa Yajurveda; unaccented text)·1

Taittirīya Āraṇyaka (Kṛṣṇa Yajurveda; unaccented text) 1

भद्रं कर्णेभिः शृणुयाम देवाः । भद्रं पश्येमाक्षभिर्यजत्राः स्थिरैरङ्गैस्तुष्टुवांसस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः (१ ) । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्यात्मानोऽद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वाः । देवीः पर्जन्यसूवरीः । पुत्रवत्त्वाय मे सुत (२ ) । अपाश्न्युष्णिमपा रक्षः । अपाश्न्युष्णिमपा रघम् । अपाघ्रामप चावर्त्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ३ ) । अमुतः सुतौषधयो द्वे च ।।

bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ | bhadraṃ paśyemākṣabhiryajatrāḥ sthirairaṅgaistuṣṭuvāṃsastanūbhiḥ | vyaśema devahitaṃ yadāyuḥ | svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ | svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu | āpamāpāmapaḥ sarvāḥ | asmādasmādito'mutaḥ (1 ) | agnirvāyuśca sūryaśca | saha saṃcaskararddhiyā | vāyvaśvā raśmipatayaḥ | marīcyātmāno'druhaḥ | devīrbhuvanasūvarīḥ | putravattvāya me suta | mahānāmnīrmahāmānāḥ | mahaso mahasaḥ svāḥ | devīḥ parjanyasūvarīḥ | putravattvāya me suta (2 ) | apāśnyuṣṇimapā rakṣaḥ | apāśnyuṣṇimapā ragham | apāghrāmapa cāvarttim | apa devīrito hita | vajraṃ devīrajītāṃśca | bhuvanaṃ devasūvarīḥ | ādityānaditiṃ devīm | yoninordhvamudīṣata | śivā naḥ śaṃtamā bhavantu | divyā āpa oṣadhayaḥ | sumṛḍīkā sarasvati | mā te vyoma saṃdṛśi ( 3 ) | amutaḥ sutauṣadhayo dve ca ||

Sanskrit only: no published translation is held for this verse.

स्मृतिः प्रत्यक्षमैतिह्यम् । अनुमानश्चतुष्टयम् । एतैरादित्यमण्डलम् । सर्वैरेव विधास्यते । सूर्यो मरीचीमादत्ते । सर्वस्माद्भुवनादधि । तस्याः पाकविशेषेण । स्मृतं कालविशेषणम् । नदीव प्रभवात्काचित् । अक्षय्यात्स्यन्दते यथा (१) । तां नद्योऽभिसमायन्ति । सोरुः सती न निवर्तते । एवं नानासमुत्थानाः । कालाः संवत्सरं श्रिताः । अणुशश्च महशश्च । सर्वे समवयन्त्रि तम् । स तैः सर्वैः समाविष्टः । उरुः सन्न निवर्तते । अधि संवत्सरं विद्यात् । तदेव लक्षणे (२) । अणुभिश्च महद्भिश्च । समारूढः प्रदृश्यते । संवत्सरः प्रत्यक्षेण नाधिसत्त्वः प्रदृश्यते । पटरो विक्लिधः पिङ्गः । एतद्वरुणलक्षणम् । यत्रैतदुपदृश्यते । सहस्रं तत्र नीयते । एकं हि शिरो नाना मुखे । कृत्स्नं तदृतुलक्षणम् ( ३) । उभयतः सप्तेन्द्रियाणि । जल्पितं त्वेव दिह्यते । शुक्लकृष्णे संवत्सरस्य । दक्षिणवामयोः पार्श्वयोः । तस्यैषा भवति । शुक्रं ते अन्यद्यजतं ते अन्यत् । विषुरूपे अहनी द्यौरिवासि । विश्वा हि माया अवसि स्वधावः । भद्रा ते पूषन्निह रातिरस्त्विति । नात्र भुवनम् । न पूषा । न पशवः । नादित्यः संवत्सर एव प्रत्यक्षेण प्रियतमं विद्यात् । एतद्वै संवत्सरस्य प्रियतमं रूपम् । योऽस्य महानर्थ उत्पत्स्यमानो भवति । इदं पुण्यं कुरुष्वेति । तमाहरणं दद्यात् (४) । यथा लक्षण ऋतुलक्षणं भुवनं सप्त च

smṛtiḥ pratyakṣamaitihyam | anumānaścatuṣṭayam | etairādityamaṇḍalam | sarvaireva vidhāsyate | sūryo marīcīmādatte | sarvasmādbhuvanādadhi | tasyāḥ pākaviśeṣeṇa | smṛtaṃ kālaviśeṣaṇam | nadīva prabhavātkācit | akṣayyātsyandate yathā (1) | tāṃ nadyo'bhisamāyanti | soruḥ satī na nivartate | evaṃ nānāsamutthānāḥ | kālāḥ saṃvatsaraṃ śritāḥ | aṇuśaśca mahaśaśca | sarve samavayantri tam | sa taiḥ sarvaiḥ samāviṣṭaḥ | uruḥ sanna nivartate | adhi saṃvatsaraṃ vidyāt | tadeva lakṣaṇe (2) | aṇubhiśca mahadbhiśca | samārūḍhaḥ pradṛśyate | saṃvatsaraḥ pratyakṣeṇa nādhisattvaḥ pradṛśyate | paṭaro viklidhaḥ piṅgaḥ | etadvaruṇalakṣaṇam | yatraitadupadṛśyate | sahasraṃ tatra nīyate | ekaṃ hi śiro nānā mukhe | kṛtsnaṃ tadṛtulakṣaṇam ( 3) | ubhayataḥ saptendriyāṇi | jalpitaṃ tveva dihyate | śuklakṛṣṇe saṃvatsarasya | dakṣiṇavāmayoḥ pārśvayoḥ | tasyaiṣā bhavati | śukraṃ te anyadyajataṃ te anyat | viṣurūpe ahanī dyaurivāsi | viśvā hi māyā avasi svadhāvaḥ | bhadrā te pūṣanniha rātirastviti | nātra bhuvanam | na pūṣā | na paśavaḥ | nādityaḥ saṃvatsara eva pratyakṣeṇa priyatamaṃ vidyāt | etadvai saṃvatsarasya priyatamaṃ rūpam | yo'sya mahānartha utpatsyamāno bhavati | idaṃ puṇyaṃ kuruṣveti | tamāharaṇaṃ dadyāt (4) | yathā lakṣaṇa ṛtulakṣaṇaṃ bhuvanaṃ sapta ca

Sanskrit only: no published translation is held for this verse.

साकंजानां सप्तथमाहुरेकजम् । षडुद्यमा ऋषयो देवजा इति । तेषामिष्टानि विहितानि धामशः । स्थात्रे रेजन्ते विकृतानि रूपशः । को नु मर्या अमिथितः । सखा सखायमब्रवीत् । जहाको अस्मदीषते । यस्तित्याज सखिविदं सखायम् । न तस्य वाच्यपि भोगो अस्ति । यदीं शृणोत्यलकं शृणोति (१) । न हि प्रवेद सुकृतस्य पन्थामिति । ऋतुरृतुना नुद्यमानः । विननादाभिधावः । षष्टिश्च त्रिंशका वल्गाः । शुक्लकृष्णौ च षष्टिकौ । सारागवस्त्रैर्जरदक्षः । वसन्तो वसुभिः सह । संवत्सरस्य सवितुः । प्रैषकृत्प्रथमः स्मृतः । अमूनादयतेत्यन्यान् (२) अमूंश्च परिरक्षतः । एता वाचः प्रयुज्यन्ते । यत्रैतदुपदृश्यते । एतदेव विजानीयात् । प्रमाणं कालपर्यये । विशेषणं तु वक्ष्यामः । ऋतूनां तन्निबोधत । शुक्लवासा रुद्र गणः । ग्रीष्मेणावर्तते सह । निजहन्पृथिवीं सर्वाम् (३) । ज्योतिषाऽप्रतिख्येन सः । विश्वरूपाणि वासांसि । आदित्यानां निबोधत । संवत्सरीणं कर्मफलम् । वर्षाभिर्ददतां सह । अदुःखो दुःखचक्षुरिव । तद्मा पीत इव दृश्यते । शीतेनाव्यथयन्निव । रुरुदक्ष इव दृश्यते । ह्लादयते ज्वलतश्चैव । शाम्यतश्चास्य चक्षुषी । या वै प्रजा भ्रंश्यन्ते । संवत्सरात्ता भ्रंश्यन्ते । याः प्रति तिष्ठन्ति । संवत्सरे ताः प्रति तिष्ठन्ति । वर्षाभ्य इत्यर्थः (४) । शृणोत्यन्यान्सर्वामेव षट्च ।।

sākaṃjānāṃ saptathamāhurekajam | ṣaḍudyamā ṛṣayo devajā iti | teṣāmiṣṭāni vihitāni dhāmaśaḥ | sthātre rejante vikṛtāni rūpaśaḥ | ko nu maryā amithitaḥ | sakhā sakhāyamabravīt | jahāko asmadīṣate | yastityāja sakhividaṃ sakhāyam | na tasya vācyapi bhogo asti | yadīṃ śṛṇotyalakaṃ śṛṇoti (1) | na hi praveda sukṛtasya panthāmiti | ṛturṛtunā nudyamānaḥ | vinanādābhidhāvaḥ | ṣaṣṭiśca triṃśakā valgāḥ | śuklakṛṣṇau ca ṣaṣṭikau | sārāgavastrairjaradakṣaḥ | vasanto vasubhiḥ saha | saṃvatsarasya savituḥ | praiṣakṛtprathamaḥ smṛtaḥ | amūnādayatetyanyān (2) amūṃśca parirakṣataḥ | etā vācaḥ prayujyante | yatraitadupadṛśyate | etadeva vijānīyāt | pramāṇaṃ kālaparyaye | viśeṣaṇaṃ tu vakṣyāmaḥ | ṛtūnāṃ tannibodhata | śuklavāsā rudra gaṇaḥ | grīṣmeṇāvartate saha | nijahanpṛthivīṃ sarvām (3) | jyotiṣā'pratikhyena saḥ | viśvarūpāṇi vāsāṃsi | ādityānāṃ nibodhata | saṃvatsarīṇaṃ karmaphalam | varṣābhirdadatāṃ saha | aduḥkho duḥkhacakṣuriva | tadmā pīta iva dṛśyate | śītenāvyathayanniva | rurudakṣa iva dṛśyate | hlādayate jvalataścaiva | śāmyataścāsya cakṣuṣī | yā vai prajā bhraṃśyante | saṃvatsarāttā bhraṃśyante | yāḥ prati tiṣṭhanti | saṃvatsare tāḥ prati tiṣṭhanti | varṣābhya ityarthaḥ (4) | śṛṇotyanyānsarvāmeva ṣaṭca ||

Sanskrit only: no published translation is held for this verse.

अक्षिदुःखोत्थितस्यैव । विप्रसन्ने कनीनिके । आङ्क्ते चाद्गणं नास्ति । ऋभूणां तन्निबोधत । कनकाभानि वासांसि । अहतानि निबोधत । अन्नमश्नीत मृज्मीत । अहं वो जीवनप्रदः । एता वाचः प्रयुज्यन्ते । शरद्यत्रोपदृश्यते (१) । अभिधून्वन्तोऽभिघ्नन्त इव । वातवन्तो मरुद्गणाः । अमुतो जेतुमिषुमुखमिव । संनद्धाः सह ददृशे ह । अपध्वस्तैर्वस्तिवर्णैरिव । विशिखासः कपर्दिनः । अक्रुद्धस्य योत्स्यमानस्य । क्रुद्धस्येव लोहिनी । हेमतश्चक्षुषी विद्यात् । अक्ष्णयोः क्षिपणोरिव (२) । दुर्भिक्षं देवलोकेषु । मनूनामुदकं गृहे । एता वाचः प्रवदन्तीः । वैद्युतो यान्ति शैशिरीः । ता अग्निः पवमाना अन्वैक्षत । इह जीविकामपरिपश्यन् । तस्यैषा भवति । इहेह वः स्वतपसः । मरुतः सूर्यत्वचः । शर्म सप्रथा आवृणे (३) दृश्यत इवावृणे

akṣiduḥkhotthitasyaiva | viprasanne kanīnike | āṅkte cādgaṇaṃ nāsti | ṛbhūṇāṃ tannibodhata | kanakābhāni vāsāṃsi | ahatāni nibodhata | annamaśnīta mṛjmīta | ahaṃ vo jīvanapradaḥ | etā vācaḥ prayujyante | śaradyatropadṛśyate (1) | abhidhūnvanto'bhighnanta iva | vātavanto marudgaṇāḥ | amuto jetumiṣumukhamiva | saṃnaddhāḥ saha dadṛśe ha | apadhvastairvastivarṇairiva | viśikhāsaḥ kapardinaḥ | akruddhasya yotsyamānasya | kruddhasyeva lohinī | hemataścakṣuṣī vidyāt | akṣṇayoḥ kṣipaṇoriva (2) | durbhikṣaṃ devalokeṣu | manūnāmudakaṃ gṛhe | etā vācaḥ pravadantīḥ | vaidyuto yānti śaiśirīḥ | tā agniḥ pavamānā anvaikṣata | iha jīvikāmaparipaśyan | tasyaiṣā bhavati | iheha vaḥ svatapasaḥ | marutaḥ sūryatvacaḥ | śarma saprathā āvṛṇe (3) dṛśyata ivāvṛṇe

Sanskrit only: no published translation is held for this verse.

अतिताम्राणि वासांसि । अष्टिवज्रिशतघ्नि च । विश्वे देवा विप्रहरन्ति । अग्निजिह्वा असश्चत् । नैव देवो न मर्त्यः । न राजा वरुणो विभुः । नाग्निर्नेन्द्रो न पवमानः । मातृक्कच्चन विद्यते । दिव्यस्यैका धनुरार्त्निः । पृथिव्यामपरा श्रिता (१) । तस्येन्द्रो वम्रिरूपेण । धनुर्ज्यामच्छिनत्स्वयम् । तदिन्द्र धनुरित्यज्यम् । अभ्रवर्णेषु चक्षते । एतदेव शंयोर्बार्हस्पत्यस्य । एतद्रुद्रस्य धनुः । रुद्रस्य त्वेव धनुरार्त्निः । शिर उत्पिपेष । स प्रवर्ग्योऽभवत् । तस्माद्यः सप्रवर्ग्येण यज्ञेन यजते । रुद्रस्य स शिरः प्रतिदधाति । नैनं रुद्र आरुको भवति । य एवं वेद (२) । श्रिता यजते त्रीणि च

atitāmrāṇi vāsāṃsi | aṣṭivajriśataghni ca | viśve devā vipraharanti | agnijihvā asaścat | naiva devo na martyaḥ | na rājā varuṇo vibhuḥ | nāgnirnendro na pavamānaḥ | mātṛkkaccana vidyate | divyasyaikā dhanurārtniḥ | pṛthivyāmaparā śritā (1) | tasyendro vamrirūpeṇa | dhanurjyāmacchinatsvayam | tadindra dhanurityajyam | abhravarṇeṣu cakṣate | etadeva śaṃyorbārhaspatyasya | etadrudrasya dhanuḥ | rudrasya tveva dhanurārtniḥ | śira utpipeṣa | sa pravargyo'bhavat | tasmādyaḥ sapravargyeṇa yajñena yajate | rudrasya sa śiraḥ pratidadhāti | nainaṃ rudra āruko bhavati | ya evaṃ veda (2) | śritā yajate trīṇi ca

Sanskrit only: no published translation is held for this verse.

अत्यूर्ध्वाक्षोऽतिरश्चात् । शिशिरः प्रदृश्यते । नैव रूपं न वासांसि । न चक्षुः प्रतिदृश्यते । अन्योन्यं तु न हिंस्रातः । सतस्तद्देवलक्षणम् । लोहितोऽक्ष्णि शार शीर्ष्णिः । सूर्यस्योदयनं प्रति । त्वं करोषि न्यञ्जलिकाम् । त्वं करोषि निजानुकाम् (१) । नि जानुका मे न्यञ्जलिका । अमी वाचमुपासतामिति । तस्मै सर्व ऋतवो नमन्ते । मर्यादाकरत्वात्प्र पुरोधाम् । ब्राह्मण आप्नोति । य एवं वेद । स खलु संवत्सर एतैः सेनानीभिः सह । इन्द्राय सर्वान्कामानभिवहति । स द्रप्सः । तस्यैषा भवति (२) । अव द्र प्सो अंशुमतीमतिष्ठत् । इयानः कृष्णो दशभिः सहस्रैः । आवर्तमिन्द्रः शच्या धमन्तम् । उप स्नुहि तं नृमणामथ द्रामिति । एतयैवेन्द्रः सलावृक्या सह । असुरान्परिवृश्चति । पृथिव्यंशुमती । तामन्ववस्थितः संवत्सरो दिवं च । नैवंविदुषाचार्यान्तेवासिनौ । अन्योन्यस्मै द्रुह्याताम् । यो द्रुह्यति । भ्रश्यते स्वर्गाल्लोकात् । इत्यृतुमण्डलानि । सूर्यमण्डलान्याख्यायिकाः । अत ऊर्ध्वं सनिर्वचनाः (३) । निजानुकां भवति द्रुह्यातां पञ्च च

atyūrdhvākṣo'tiraścāt | śiśiraḥ pradṛśyate | naiva rūpaṃ na vāsāṃsi | na cakṣuḥ pratidṛśyate | anyonyaṃ tu na hiṃsrātaḥ | satastaddevalakṣaṇam | lohito'kṣṇi śāra śīrṣṇiḥ | sūryasyodayanaṃ prati | tvaṃ karoṣi nyañjalikām | tvaṃ karoṣi nijānukām (1) | ni jānukā me nyañjalikā | amī vācamupāsatāmiti | tasmai sarva ṛtavo namante | maryādākaratvātpra purodhām | brāhmaṇa āpnoti | ya evaṃ veda | sa khalu saṃvatsara etaiḥ senānībhiḥ saha | indrāya sarvānkāmānabhivahati | sa drapsaḥ | tasyaiṣā bhavati (2) | ava dra pso aṃśumatīmatiṣṭhat | iyānaḥ kṛṣṇo daśabhiḥ sahasraiḥ | āvartamindraḥ śacyā dhamantam | upa snuhi taṃ nṛmaṇāmatha drāmiti | etayaivendraḥ salāvṛkyā saha | asurānparivṛścati | pṛthivyaṃśumatī | tāmanvavasthitaḥ saṃvatsaro divaṃ ca | naivaṃviduṣācāryāntevāsinau | anyonyasmai druhyātām | yo druhyati | bhraśyate svargāllokāt | ityṛtumaṇḍalāni | sūryamaṇḍalānyākhyāyikāḥ | ata ūrdhvaṃ sanirvacanāḥ (3) | nijānukāṃ bhavati druhyātāṃ pañca ca

Sanskrit only: no published translation is held for this verse.

आरोगो भ्राजः पटरः पतङ्गः । स्वर्णरो ज्योतिषीमान्विभासः । ते अस्मै सर्वे दिवमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति, इति । कश्यपोऽष्टमः । स महामेरुं न जहाति । तस्यैषा भवति, इति । यत्ते शिल्पं कश्यप रोचनावत् । इन्द्रियावत्पुष्कलं चित्रभानु । यस्मिन्त्सूर्या अर्पिताः सप्त साकम्।(१) तस्मिन्नाजानमधिविश्रयेममिति,इति । ते अस्मै सर्वे कश्यपाज्ज्योतिर्लभन्ते । तान्त्सोमः कश्यपादधिनिर्धमति । भ्रस्ताकर्मकृदिवैवम्- इति । प्राणो जीवानीन्द्रियजीवानि । सप्त शीर्षण्याः प्राणाः । सूर्या इत्याचार्याः, इति । अपश्यमहमेतान्त्सप्त सूर्यानिति । पञ्चकर्णो वात्स्यायनः । सप्तकर्णश्च प्ल्राक्षिः ( २) । आनुश्रविकं एव नौ कश्यप इति । उभौ वेदयिते । न हि शेकुमिव महामेरुं गन्तुम्,इति । अपश्यमहमेतत्सूर्यमण्डलं परिवर्तमानम् । गार्ग्यः प्राणत्रातः । गच्छन्त महामेरुम् । एकं चाजहतम्, इति । भ्राजपटरपतङ्गा निहने । तिष्ठन्नातपन्ति । तस्मादिहातप्-त्त्रितपाः ( ३) । अमुत्रेतरे । तस्मादिहातपत्त्रितपाः, इति । तेषामेषा भवति, इति । सप्त सूर्या दिवमनुप्रविष्टाः । तानन्वेति पथिभिर्दक्षिणावान् । ते अस्मै सर्वे घृतमातपन्ति । ऊर्जं दुहाना अनपस्फुरन्त इति, इति । सप्तर्त्विजः सूर्या इत्याचार्याः, इति । तेषामेषा भवति, इति । सप्त दिशो नानासूर्याः ( ४) । सप्त होतार ऋत्विजः । देवा आदित्या ये सप्त । तेभिः सोमाभीरक्ष ण इति, इति । तदप्याम्नायः । दिग्भ्राज ऋतून्करोति, इति । एतयैवाऽऽवृताऽऽ सहस्रसूर्यताया इति वैशम्पायनः, इति । तस्यैषा भवति, इति । यद्द्याव इन्द्र ते शतꣳ शतं भूमीः । उत स्युः । न त्वा वज्रिन्त्सहस्रꣳ सूर्याः ( ५) । अनु न जातमष्ट रोदसी इति, इति । नानालिङ्गत्वादृतूनां नानासूर्यत्वम्, इति । अष्टौ तु व्यवसिता इति, इति । सूर्यमण्डलान्यष्टात ऊर्ध्वम्, इति । तेषामेषा भवति, इति । चित्रं देवानामुदगादनीकम्। । चक्षुर्मित्रस्य वरुणस्याग्नेः । आप्रा द्यावापृथिवी अन्तरिक्षम् । सूर्य आत्मा जगतस्तस्थुषश्चेति(६) इति । साकं प्लाक्षिस्तपत्त्रितपा नानासूर्याः सूर्या नव च ।।

ārogo bhrājaḥ paṭaraḥ pataṅgaḥ | svarṇaro jyotiṣīmānvibhāsaḥ | te asmai sarve divamātapanti | ūrjaṃ duhānā anapasphuranta iti, iti | kaśyapo'ṣṭamaḥ | sa mahāmeruṃ na jahāti | tasyaiṣā bhavati, iti | yatte śilpaṃ kaśyapa rocanāvat | indriyāvatpuṣkalaṃ citrabhānu | yasmintsūryā arpitāḥ sapta sākam|(1) tasminnājānamadhiviśrayemamiti,iti | te asmai sarve kaśyapājjyotirlabhante | tāntsomaḥ kaśyapādadhinirdhamati | bhrastākarmakṛdivaivam- iti | prāṇo jīvānīndriyajīvāni | sapta śīrṣaṇyāḥ prāṇāḥ | sūryā ityācāryāḥ, iti | apaśyamahametāntsapta sūryāniti | pañcakarṇo vātsyāyanaḥ | saptakarṇaśca plrākṣiḥ ( 2) | ānuśravikaṃ eva nau kaśyapa iti | ubhau vedayite | na hi śekumiva mahāmeruṃ gantum,iti | apaśyamahametatsūryamaṇḍalaṃ parivartamānam | gārgyaḥ prāṇatrātaḥ | gacchanta mahāmerum | ekaṃ cājahatam, iti | bhrājapaṭarapataṅgā nihane | tiṣṭhannātapanti | tasmādihātap-ttritapāḥ ( 3) | amutretare | tasmādihātapattritapāḥ, iti | teṣāmeṣā bhavati, iti | sapta sūryā divamanupraviṣṭāḥ | tānanveti pathibhirdakṣiṇāvān | te asmai sarve ghṛtamātapanti | ūrjaṃ duhānā anapasphuranta iti, iti | saptartvijaḥ sūryā ityācāryāḥ, iti | teṣāmeṣā bhavati, iti | sapta diśo nānāsūryāḥ ( 4) | sapta hotāra ṛtvijaḥ | devā ādityā ye sapta | tebhiḥ somābhīrakṣa ṇa iti, iti | tadapyāmnāyaḥ | digbhrāja ṛtūnkaroti, iti | etayaivā''vṛtā'' sahasrasūryatāyā iti vaiśampāyanaḥ, iti | tasyaiṣā bhavati, iti | yaddyāva indra te śatam̐ śataṃ bhūmīḥ | uta syuḥ | na tvā vajrintsahasram̐ sūryāḥ ( 5) | anu na jātamaṣṭa rodasī iti, iti | nānāliṅgatvādṛtūnāṃ nānāsūryatvam, iti | aṣṭau tu vyavasitā iti, iti | sūryamaṇḍalānyaṣṭāta ūrdhvam, iti | teṣāmeṣā bhavati, iti | citraṃ devānāmudagādanīkam| | cakṣurmitrasya varuṇasyāgneḥ | āprā dyāvāpṛthivī antarikṣam | sūrya ātmā jagatastasthuṣaśceti(6) iti | sākaṃ plākṣistapattritapā nānāsūryāḥ sūryā nava ca ||

Sanskrit only: no published translation is held for this verse.

क्वेदमभ्रं निविशते । क्वायꣳ संवत्सरो मिथः । क्वाहः(काहः?) क्वेयं देव रात्री । क्व मासा ऋतवः श्रिताः, इति । अर्धमासा मुहूर्ताः । निमेषास्त्रुटिभिः सह । क्वेमा आपो निविशन्ते ।यदीतो यान्ति संप्रति, इति । काला अप्सु निविशन्ते । आपः सूर्ये समाहिताः ( १) । अभ्राण्यपः प्रपद्यन्ते । विद्युत्सूर्ये समाहिता, इति । अनवर्णे इमे भूमी । इयं चासौ च रोदसी, इति । किꣳस्विदत्रान्तरा भृतम् । येनेमे विधृते उभे । विष्णुना विधृते भूमी । इति वत्सस्य वेदना, इति । इरावती धेनुमती हि भूतम् । सूयवसिनी मनुषे दशस्ये ( २) । व्यष्टभ्नाद्रोदसी विष्णवेते । दाधर्थ पृथिवीमभितो मयूखैः, इति । किं तद्विष्णोर्बलमाहुः । का दीप्तिः किं परायणम् । एको यद्धारयद्देवः । रेजती रोदसी उभे, इति । वाताद्विष्णोर्बलमाहुः । अक्षराद्दीप्तिरुच्यते । त्रिपदाद्धारयद्देवः । यद्विष्णोरेकमुत्तमम् ( ३), इति । अग्नयो वायवश्चैव । एतदस्य परायणम्, इति । पृच्छामि त्वां परं मृत्युम् । अवमं मध्यमं चतुम् । लोकं च पुण्यपापानाम् । एतत्पृच्छामि संप्रति, इति । अमुमाहुः परं मृत्युम् । पवमानं तु मध्यमम् । अग्निरेवावमो मृत्युः । चन्द्रमाश्चतुरुच्यते ( ४), इति । अनाभोगाः परं मृत्युम् । पापाः संयन्ति सर्वदा । आभोगास्त्वेव संयन्ति । यत्र पुण्यकृतो जनाः, इति । ततो मध्यममायन्ति । चतुमग्निं च संप्रति, इति । पृच्छामि त्वा पापकृतः । यत्र यातयते यमः । त्वं नस्तद्ब्रह्मन्प्रब्रूहि । यदि वेत्थासतो गृहान् ( ५), इति । कश्यपादुदिताः सूर्याः । पापान्निर्घ्नन्ति सर्वदा । रोदस्योरन्तर्देशेषु । तत्र न्यस्यन्ते वासवैः, इति । तेऽशरीराः प्रपद्यन्ते । यथाऽपुण्यस्य कर्मणः । अपाण्यपादकेशासः । तत्र तेऽयोनिजा जनाः, इति । मृत्वा पुनर्मृत्युमापद्यन्ते । अद्यमानाः स्वकर्मभिः (६) । आशातिकाः क्रिमय इव । ततः पूयन्ते वासवैः, इति । अपैतं मृत्युं जयति । य एवं वेद । स खल्वैवंविद्ब्राह्मणः । दीर्घश्रुत्तमो भवति । कश्यपस्यातिथिः सिद्धगमनः सिद्धागमनः, इति । तस्यैषा भवति, इति । आ यस्मिन्त्सप्त वासवाः । रोहन्ति पुण्या रुहः ( ७) । ऋषिर्ह दीर्घश्रुत्तमः । इन्द्रस्य घर्मो अतिथिरिति, इति । कश्यपः पश्यको भवति । यत्सर्वं परिपश्यतीति सौक्ष्म्यात्, इति । अथाग्नेरष्टपुरुषस्य । तस्यैषा भवति, इति । अग्ने नय सुपथा राये अस्मान् । विश्वानि देव वयुनानि व्रिद्वान् । युयोध्यस्मज्जुहुराणमेनः । भूयिष्ठा ते नमउक्तिं विधेमेति ( ८), इति । समाहिता दशस्ये उत्तममुच्यते गृहान्त्स्वकर्मभिः पूर्व्या रुह इति ।

kvedamabhraṃ niviśate | kvāyam̐ saṃvatsaro mithaḥ | kvāhaḥ(kāhaḥ?) kveyaṃ deva rātrī | kva māsā ṛtavaḥ śritāḥ, iti | ardhamāsā muhūrtāḥ | nimeṣāstruṭibhiḥ saha | kvemā āpo niviśante |yadīto yānti saṃprati, iti | kālā apsu niviśante | āpaḥ sūrye samāhitāḥ ( 1) | abhrāṇyapaḥ prapadyante | vidyutsūrye samāhitā, iti | anavarṇe ime bhūmī | iyaṃ cāsau ca rodasī, iti | kim̐svidatrāntarā bhṛtam | yeneme vidhṛte ubhe | viṣṇunā vidhṛte bhūmī | iti vatsasya vedanā, iti | irāvatī dhenumatī hi bhūtam | sūyavasinī manuṣe daśasye ( 2) | vyaṣṭabhnādrodasī viṣṇavete | dādhartha pṛthivīmabhito mayūkhaiḥ, iti | kiṃ tadviṣṇorbalamāhuḥ | kā dīptiḥ kiṃ parāyaṇam | eko yaddhārayaddevaḥ | rejatī rodasī ubhe, iti | vātādviṣṇorbalamāhuḥ | akṣarāddīptirucyate | tripadāddhārayaddevaḥ | yadviṣṇorekamuttamam ( 3), iti | agnayo vāyavaścaiva | etadasya parāyaṇam, iti | pṛcchāmi tvāṃ paraṃ mṛtyum | avamaṃ madhyamaṃ catum | lokaṃ ca puṇyapāpānām | etatpṛcchāmi saṃprati, iti | amumāhuḥ paraṃ mṛtyum | pavamānaṃ tu madhyamam | agnirevāvamo mṛtyuḥ | candramāścaturucyate ( 4), iti | anābhogāḥ paraṃ mṛtyum | pāpāḥ saṃyanti sarvadā | ābhogāstveva saṃyanti | yatra puṇyakṛto janāḥ, iti | tato madhyamamāyanti | catumagniṃ ca saṃprati, iti | pṛcchāmi tvā pāpakṛtaḥ | yatra yātayate yamaḥ | tvaṃ nastadbrahmanprabrūhi | yadi vetthāsato gṛhān ( 5), iti | kaśyapāduditāḥ sūryāḥ | pāpānnirghnanti sarvadā | rodasyorantardeśeṣu | tatra nyasyante vāsavaiḥ, iti | te'śarīrāḥ prapadyante | yathā'puṇyasya karmaṇaḥ | apāṇyapādakeśāsaḥ | tatra te'yonijā janāḥ, iti | mṛtvā punarmṛtyumāpadyante | adyamānāḥ svakarmabhiḥ (6) | āśātikāḥ krimaya iva | tataḥ pūyante vāsavaiḥ, iti | apaitaṃ mṛtyuṃ jayati | ya evaṃ veda | sa khalvaivaṃvidbrāhmaṇaḥ | dīrghaśruttamo bhavati | kaśyapasyātithiḥ siddhagamanaḥ siddhāgamanaḥ, iti | tasyaiṣā bhavati, iti | ā yasmintsapta vāsavāḥ | rohanti puṇyā ruhaḥ ( 7) | ṛṣirha dīrghaśruttamaḥ | indrasya gharmo atithiriti, iti | kaśyapaḥ paśyako bhavati | yatsarvaṃ paripaśyatīti saukṣmyāt, iti | athāgneraṣṭapuruṣasya | tasyaiṣā bhavati, iti | agne naya supathā rāye asmān | viśvāni deva vayunāni vridvān | yuyodhyasmajjuhurāṇamenaḥ | bhūyiṣṭhā te namauktiṃ vidhemeti ( 8), iti | samāhitā daśasye uttamamucyate gṛhāntsvakarmabhiḥ pūrvyā ruha iti |

Sanskrit only: no published translation is held for this verse.

अग्निश्च जातवेदश्च । सहोजा अजिराप्रभुः । वैश्वानरो नर्यापाश्च । पङ्क्तिराधाश्च सप्तमः । विसर्पेवाऽष्टमोऽग्नीनाम् । एतेऽष्टौ वसवः क्षिता इति, इति । यथर्त्वेवाग्नेरर्चिर्वर्णविशेषाः । नीलार्चिश्च पीतकार्चिश्चेति, इति । अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमाना व्यवदाताः ( १) । याश्च वासुकिवैद्युताः । रजताः परुषाः श्यामाः । कपिला अतिलोहिताः । ऊर्ध्वा अवपतन्ताश्च । वैद्युत इत्येकादश, इति । नैनं वैद्युतो हिनस्ति । य एवं वेद, इति । स होवाच व्यासः पाराशर्यः । विद्युद्वधमेवाहं मृत्युमैच्छमिति, इति । न त्वकामꣳ हन्ति ( २) । य एवं वेद, इति । अथ गन्धर्वगणाः, इति । स्वानभ्राट् । अङ्घारिर्बम्भारिः । हस्तः सुहस्तः । कृशानुर्विश्वावसुः । मूर्धन्वानसूर्यवर्चाः । कृतिरित्येकादश गन्धर्वगणाः, इति । देवाश्च महादेवाः । रश्मयश्च देवा गरगिरः ( ३), इति । नैनं गरो हिनस्ति । य एवं वेद, इति । गौरी मिमाय सलिलानि तक्षती । एकपदी द्विपदी सा चतुष्पदी । अष्टापदी नवपदी बभूबुषी । सहस्राक्षरा परमे व्योमन्निति, इति । वाचो विशेषणम्, इति । अथ निगदव्याख्याताः । ताननुक्रमिष्यामः, इति । वराहवः स्वतपसः ( ४) । विद्युन्महसो धूपयः । श्वापयो गृहमेधाश्चेत्येते । ये चेमेऽशिमिविद्विषः, इति । पर्जन्याः सप्त पृथिवीमभिवर्षन्ति । वृष्टिभिरिति । एतयैव विभक्तिविपरीताः । सप्तभिर्वातैरुदीरिताः । अमूँल्लोकानभिवर्षन्ति । तेषामेषा भवति, इति । समानमेतदुदकम् ( ५) । उच्चैत्यव चाहभिः । भूमिं पर्जन्या जिन्वन्ति । दिवं जिन्वन्त्यग्नय इति, इति । यदक्षरं भूतकृतम् । विश्वे देवा उपासते । महर्षिमस्य गोप्तारम् । जमदग्निमकुर्वत, इति । जमदग्निराप्यायते । छन्दोभिश्चतुरुत्तरैः । राज्ञः सोमस्य तृप्तासः ( ६) । ब्रह्मणा वीर्यावता । शिवा नः प्रदिशो दिशः, इति । तच्छं योरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे। शं चतुष्पदे, इति । सोमपा३ असोमपा३ इति निगदव्याख्याताः ( ७), इति । व्यवदाता हन्ति गरगिरस्ततपस उदकं तृप्तासश्चतुष्पद एकं च ।।

agniśca jātavedaśca | sahojā ajirāprabhuḥ | vaiśvānaro naryāpāśca | paṅktirādhāśca saptamaḥ | visarpevā'ṣṭamo'gnīnām | ete'ṣṭau vasavaḥ kṣitā iti, iti | yathartvevāgnerarcirvarṇaviśeṣāḥ | nīlārciśca pītakārciśceti, iti | atha vāyorekādaśapuruṣasyaikādaśastrīkasya, iti | prabhrājamānā vyavadātāḥ ( 1) | yāśca vāsukivaidyutāḥ | rajatāḥ paruṣāḥ śyāmāḥ | kapilā atilohitāḥ | ūrdhvā avapatantāśca | vaidyuta ityekādaśa, iti | nainaṃ vaidyuto hinasti | ya evaṃ veda, iti | sa hovāca vyāsaḥ pārāśaryaḥ | vidyudvadhamevāhaṃ mṛtyumaicchamiti, iti | na tvakāmam̐ hanti ( 2) | ya evaṃ veda, iti | atha gandharvagaṇāḥ, iti | svānabhrāṭ | aṅghārirbambhāriḥ | hastaḥ suhastaḥ | kṛśānurviśvāvasuḥ | mūrdhanvānasūryavarcāḥ | kṛtirityekādaśa gandharvagaṇāḥ, iti | devāśca mahādevāḥ | raśmayaśca devā garagiraḥ ( 3), iti | nainaṃ garo hinasti | ya evaṃ veda, iti | gaurī mimāya salilāni takṣatī | ekapadī dvipadī sā catuṣpadī | aṣṭāpadī navapadī babhūbuṣī | sahasrākṣarā parame vyomanniti, iti | vāco viśeṣaṇam, iti | atha nigadavyākhyātāḥ | tānanukramiṣyāmaḥ, iti | varāhavaḥ svatapasaḥ ( 4) | vidyunmahaso dhūpayaḥ | śvāpayo gṛhamedhāścetyete | ye ceme'śimividviṣaḥ, iti | parjanyāḥ sapta pṛthivīmabhivarṣanti | vṛṣṭibhiriti | etayaiva vibhaktiviparītāḥ | saptabhirvātairudīritāḥ | amū~llokānabhivarṣanti | teṣāmeṣā bhavati, iti | samānametadudakam ( 5) | uccaityava cāhabhiḥ | bhūmiṃ parjanyā jinvanti | divaṃ jinvantyagnaya iti, iti | yadakṣaraṃ bhūtakṛtam | viśve devā upāsate | maharṣimasya goptāram | jamadagnimakurvata, iti | jamadagnirāpyāyate | chandobhiścaturuttaraiḥ | rājñaḥ somasya tṛptāsaḥ ( 6) | brahmaṇā vīryāvatā | śivā naḥ pradiśo diśaḥ, iti | tacchaṃ yorāvṛṇīmahe | gātuṃ yajñāya | gātuṃ yajñapataye | daivī svastirastu naḥ | svastirmānuṣebhyaḥ | ūrdhvaṃ jigātu bheṣajam | śaṃ no astu dvipade| śaṃ catuṣpade, iti | somapā3 asomapā3 iti nigadavyākhyātāḥ ( 7), iti | vyavadātā hanti garagirastatapasa udakaṃ tṛptāsaścatuṣpada ekaṃ ca ||

Sanskrit only: no published translation is held for this verse.

सहस्रवृदियं भूमिः । परं व्योम सहस्रवृत् । अश्विना भुज्यू नासत्या । विश्वस्य जगतस्पती, इति । जाया भूमिः पतिर्व्योम । मिथुनं ता अतुर्यथुः । पुत्रो बृहस्पती रुद्रः । सरमा इति स्त्रीपुमम्, इति । शुक्रं वामन्यद्यजतं वामन्यत् । विषुरूपे अहनी द्यौरिव स्थः (१) । विश्वा हि माया अवथः स्वधावन्तौ । भद्रा वां पूषणाविह रातिरस्तु, इति । वासात्यौ चित्रौ जगतो निधानौ । द्यावाभूमी चरथः सꣳ सखायौ । तावश्विना रासभाश्वा हवं मे । शुभस्पती आगतꣳ सूर्यया सह, इति । त्युग्रो ह भुज्युमश्विनोदमेघे । रुयिं न कश्चिन्ममृवां३ अवाहाः । तमूहथुर्नौभिरात्मन्वतीभिः । अन्तरिक्षप्रुड्भिरपोदकाभिः (२), इति । तिस्रः क्षपस्त्रिरहाऽतिव्रजद्भिः । नासत्या भुज्युमूहथुः पतत्रैः । समुद्रस्य धन्वन्नार्द्रस्य पारे । त्रिभी रथैः शतपद्भिः षडश्वैः, इति । सवितारं वितन्वन्तम् । अनुबध्नाति शाम्बरः । आपपूरु षम्वरश्चैव। सविताऽरेपसो भवत्, इति । त्यꣳ सुतृप्तं विदित्वैव । बहुसोमगिरं वशी ( ३) । अन्वेति तुग्रो वक्रियां तम् । आयसूयान्त्सोमतृप्सुषु, इति । स संग्रामस्तमोद्योऽत्योतः । वाचो गाः पिपाति तत् । स तद्गोभिः स्तवाऽत्येत्यन्ये । रक्षसाऽनन्विताश्च ये, इति । अन्वेति परिवृत्यास्तः । एवमेतौ स्थो अश्विना । ते एते द्युःपृथिव्योः । अहरहर्गर्भं दधाथे ( ४), इति । तयोरेतौ वत्सावहोरात्रे । पृथिव्या अहः । दिवो रात्रिः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । अग्निश्चाऽऽदित्यश्च। रात्रेर्वत्सः । श्वेत आदित्यः । अह्नोऽग्निः । (५) ताम्रो अरुणः । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ । वृत्रश्च वैद्युतश्च । अग्नेर्वृत्रः । वैद्युत आदित्यस्य । ता अविसृष्टौ । दंपती एव भवतः, इति । तयोरेतौ वत्सौ (६) । उष्मा च नीहारश्च । वृत्रस्योष्मा । वैद्युतस्य नीहारः । तौ तावेव प्रतिपद्येते, इति । सेयꣳ रात्री गर्भिणी पुत्रेण संवसति । तस्या वा एतदु-ल्बणम् । यद्रात्रौ रश्मयः । यथा गोर्गर्भिण्या उल्बणम् । एवमेतस्यां उल्बणम्, इति । प्रजयिष्णुः प्रजया च पशुभिश्च भवति । य एवं वेद । एतमुद्यन्तमपियन्तं चेति । आदित्यः पुण्यस्य वत्सः, इति । अथ पवित्राङ्गिरसः ( ७), इति ।। स्थोऽपोदकाभिर्वशी दधाथे अग्निस्तयोरेतौ वत्सौ भवति चत्वारि च ।।

sahasravṛdiyaṃ bhūmiḥ | paraṃ vyoma sahasravṛt | aśvinā bhujyū nāsatyā | viśvasya jagataspatī, iti | jāyā bhūmiḥ patirvyoma | mithunaṃ tā aturyathuḥ | putro bṛhaspatī rudraḥ | saramā iti strīpumam, iti | śukraṃ vāmanyadyajataṃ vāmanyat | viṣurūpe ahanī dyauriva sthaḥ (1) | viśvā hi māyā avathaḥ svadhāvantau | bhadrā vāṃ pūṣaṇāviha rātirastu, iti | vāsātyau citrau jagato nidhānau | dyāvābhūmī carathaḥ sam̐ sakhāyau | tāvaśvinā rāsabhāśvā havaṃ me | śubhaspatī āgatam̐ sūryayā saha, iti | tyugro ha bhujyumaśvinodameghe | ruyiṃ na kaścinmamṛvāṃ3 avāhāḥ | tamūhathurnaubhirātmanvatībhiḥ | antarikṣapruḍbhirapodakābhiḥ (2), iti | tisraḥ kṣapastrirahā'tivrajadbhiḥ | nāsatyā bhujyumūhathuḥ patatraiḥ | samudrasya dhanvannārdrasya pāre | tribhī rathaiḥ śatapadbhiḥ ṣaḍaśvaiḥ, iti | savitāraṃ vitanvantam | anubadhnāti śāmbaraḥ | āpapūru ṣamvaraścaiva| savitā'repaso bhavat, iti | tyam̐ sutṛptaṃ viditvaiva | bahusomagiraṃ vaśī ( 3) | anveti tugro vakriyāṃ tam | āyasūyāntsomatṛpsuṣu, iti | sa saṃgrāmastamodyo'tyotaḥ | vāco gāḥ pipāti tat | sa tadgobhiḥ stavā'tyetyanye | rakṣasā'nanvitāśca ye, iti | anveti parivṛtyāstaḥ | evametau stho aśvinā | te ete dyuḥpṛthivyoḥ | aharahargarbhaṃ dadhāthe ( 4), iti | tayoretau vatsāvahorātre | pṛthivyā ahaḥ | divo rātriḥ | tā avisṛṣṭau | daṃpatī eva bhavataḥ, iti | tayoretau vatsau | agniścā''dityaśca| rātrervatsaḥ | śveta ādityaḥ | ahno'gniḥ | (5) tāmro aruṇaḥ | tā avisṛṣṭau | daṃpatī eva bhavataḥ, iti | tayoretau vatsau | vṛtraśca vaidyutaśca | agnervṛtraḥ | vaidyuta ādityasya | tā avisṛṣṭau | daṃpatī eva bhavataḥ, iti | tayoretau vatsau (6) | uṣmā ca nīhāraśca | vṛtrasyoṣmā | vaidyutasya nīhāraḥ | tau tāveva pratipadyete, iti | seyam̐ rātrī garbhiṇī putreṇa saṃvasati | tasyā vā etadu-lbaṇam | yadrātrau raśmayaḥ | yathā gorgarbhiṇyā ulbaṇam | evametasyāṃ ulbaṇam, iti | prajayiṣṇuḥ prajayā ca paśubhiśca bhavati | ya evaṃ veda | etamudyantamapiyantaṃ ceti | ādityaḥ puṇyasya vatsaḥ, iti | atha pavitrāṅgirasaḥ ( 7), iti || stho'podakābhirvaśī dadhāthe agnistayoretau vatsau bhavati catvāri ca ||

Sanskrit only: no published translation is held for this verse.

पवित्रवन्तः परि वाजमासते । पितैषां प्रत्नो अभिरक्षति व्रतम् । महः समुद्रं वरुणस्तिरोदधे । धीरा इच्छेकुर्धरुणेष्वारभम्, इति । पवित्रं ते विततं ब्रह्मणस्पते । प्रभुर्गात्राणि पर्येषि विश्वतः । अतप्ततनूर्न तदामो अश्नुते । शृतास इद्वहन्तस्तत्समाशत, इति । ब्रह्मा देवानाम्, इति । असतः सद्ये ततक्षुः ( १) । ऋषयः सप्तात्रिश्च यत् । सर्वेऽत्रयो अगस्त्यश्च । नक्षत्रैः शंकृतोऽवसन्, इति । अथ सवितुः श्यावाश्वस्यावर्तिकामस्य, इति । अमी य ऋक्षा निहितास उच्चा । नक्तं ददृश्रे कुहचिद्दिवेयुः । अदब्धानि वरुणस्य व्रतानि । विचाकशच्चन्द्रमा नक्षत्रमेति, इति । तत्सवितुर्वरेण्यम् । भर्गो देवस्य धीमहि ( २) । धियो यो नः प्रचोदयात्, इति । तत्सवितुर्वृणीमहे । वयं देवस्य भोजनम् । श्रेष्ठꣳ सर्वधातमम् । तुरं भगस्य धीमहि, इति । अपागूहत सविता तृभीन् । सर्वान्दिवो अन्धसः । नक्तं तान्यभवन्दृशे । अस्थ्यस्थ्ना संभविष्यामः, इति । नाम नामैव नाम मे ( ३) । नपुꣳसकं पुमाꣳस्त्र्यस्मि(?) । स्थावरोऽस्म्यथ जङ्गमः । यजेऽयक्षि यष्टाहे च, इति । मया भूतान्ययक्षत । पशवो मम भूतानि । अनूबन्ध्योऽस्म्यहं विभुः, इति । स्त्रियः सतीः । ता उ मे पुꣳस आहुः । पश्यदक्षण्वान्न विचेतदन्धः । कविर्यः पुत्रः स इमा चिकेत ( ४) । यस्ता वि'जानात्सवितुः पिता सत्, इति । अन्धो मणिमविन्दत् । तमनङ्गुलिरावयत् । अग्रीवः प्रत्यमुञ्चत् । तमजिह्वा असश्चत, इति । ऊर्ध्वमूलमवाक्छाखम् । वृक्षं यो वेद संप्रति । न स जातु जनः श्रद्दध्यात् । मत्युर्मा मारयादितिः, इति । हसितꣳ रुदितं गीतम् ( ५) । वीणा पणवलासितम् । मृतं जीवं च यत्किंचित् । अङ्गानि स्नेव विद्धि तत्, इति । अतृष्यꣳस्तृष्य ध्यायत् । अस्माज्जाता मे मिथू चरन् । पुत्रो निर्ऋत्या वैदेहः । अचेता यश्च चेतनः, इति । स तं मणिमविन्दत् । सोऽनङ्गुलिरावयत् । सोऽग्रीवः प्रत्यमुञ्चत् ( ६) । सोऽजिह्वो असश्चत, इति । नैतमृषिं विदित्वा नगरं प्रविशेत् । यदि प्रविशेत् । मिथौ चरित्वा प्रविशेत् । तत्संभवस्य व्रतम्, इति । आ तमग्ने रथं तिष्ठ । एकाश्वमेकयोजनम् । एकचक्रमेकधुरम् । वातध्राजिगतिं विभो, इति । न रिष्यति न व्यथते ( ७) । नास्याक्षो यातु सज्जति । यच्छ्वेतान्रोहिताꣳश्चाग्नेः । रथे युक्त्वाऽधितिष्ठति, इति । एकया च दशभिश्च स्वभूते । द्वाभ्यामिष्टये विꣳशत्या च । तिसृभिश्च वहसे त्रिꣳशता च । नियुद्भिर्वायविह ता विमुञ्च ( ८ ) इति ।। ततक्षुर्धीमहि नाम मे चिकेत गीतं प्रत्यमुञ्चद्व्यथते सप्त च ।।

pavitravantaḥ pari vājamāsate | pitaiṣāṃ pratno abhirakṣati vratam | mahaḥ samudraṃ varuṇastirodadhe | dhīrā icchekurdharuṇeṣvārabham, iti | pavitraṃ te vitataṃ brahmaṇaspate | prabhurgātrāṇi paryeṣi viśvataḥ | ataptatanūrna tadāmo aśnute | śṛtāsa idvahantastatsamāśata, iti | brahmā devānām, iti | asataḥ sadye tatakṣuḥ ( 1) | ṛṣayaḥ saptātriśca yat | sarve'trayo agastyaśca | nakṣatraiḥ śaṃkṛto'vasan, iti | atha savituḥ śyāvāśvasyāvartikāmasya, iti | amī ya ṛkṣā nihitāsa uccā | naktaṃ dadṛśre kuhaciddiveyuḥ | adabdhāni varuṇasya vratāni | vicākaśaccandramā nakṣatrameti, iti | tatsaviturvareṇyam | bhargo devasya dhīmahi ( 2) | dhiyo yo naḥ pracodayāt, iti | tatsaviturvṛṇīmahe | vayaṃ devasya bhojanam | śreṣṭham̐ sarvadhātamam | turaṃ bhagasya dhīmahi, iti | apāgūhata savitā tṛbhīn | sarvāndivo andhasaḥ | naktaṃ tānyabhavandṛśe | asthyasthnā saṃbhaviṣyāmaḥ, iti | nāma nāmaiva nāma me ( 3) | napum̐sakaṃ pumām̐stryasmi(?) | sthāvaro'smyatha jaṅgamaḥ | yaje'yakṣi yaṣṭāhe ca, iti | mayā bhūtānyayakṣata | paśavo mama bhūtāni | anūbandhyo'smyahaṃ vibhuḥ, iti | striyaḥ satīḥ | tā u me pum̐sa āhuḥ | paśyadakṣaṇvānna vicetadandhaḥ | kaviryaḥ putraḥ sa imā ciketa ( 4) | yastā vi'jānātsavituḥ pitā sat, iti | andho maṇimavindat | tamanaṅgulirāvayat | agrīvaḥ pratyamuñcat | tamajihvā asaścata, iti | ūrdhvamūlamavākchākham | vṛkṣaṃ yo veda saṃprati | na sa jātu janaḥ śraddadhyāt | matyurmā mārayāditiḥ, iti | hasitam̐ ruditaṃ gītam ( 5) | vīṇā paṇavalāsitam | mṛtaṃ jīvaṃ ca yatkiṃcit | aṅgāni sneva viddhi tat, iti | atṛṣyam̐stṛṣya dhyāyat | asmājjātā me mithū caran | putro nirṛtyā vaidehaḥ | acetā yaśca cetanaḥ, iti | sa taṃ maṇimavindat | so'naṅgulirāvayat | so'grīvaḥ pratyamuñcat ( 6) | so'jihvo asaścata, iti | naitamṛṣiṃ viditvā nagaraṃ praviśet | yadi praviśet | mithau caritvā praviśet | tatsaṃbhavasya vratam, iti | ā tamagne rathaṃ tiṣṭha | ekāśvamekayojanam | ekacakramekadhuram | vātadhrājigatiṃ vibho, iti | na riṣyati na vyathate ( 7) | nāsyākṣo yātu sajjati | yacchvetānrohitām̐ścāgneḥ | rathe yuktvā'dhitiṣṭhati, iti | ekayā ca daśabhiśca svabhūte | dvābhyāmiṣṭaye vim̐śatyā ca | tisṛbhiśca vahase trim̐śatā ca | niyudbhirvāyaviha tā vimuñca ( 8 ) iti || tatakṣurdhīmahi nāma me ciketa gītaṃ pratyamuñcadvyathate sapta ca ||

Sanskrit only: no published translation is held for this verse.

आतनुष्व प्रतनुष्व । उद्धमाऽऽधम संधम । आदित्ये चन्द्रवर्णानाम् । गर्भमाधेहि यः पुमान्, इति । इतः सिक्तꣳ सूर्यगतम् । चन्द्रमसे रसं कृधि । वारादं जनयाग्रेऽग्निम् । य एको रुद्र उच्यते, इति । असंख्याताः सहस्राणि । स्मर्यते न च दृश्यंते ( १) । एवमेतं निबोधत, इति । आ मन्द्रैरिन्द्र हरिभिः । याहि मयूररोमभिः । मा त्वा केचिन्न्येमुरिन्न पाशिनः । दधन्वेव ता इहि, इति । मा मन्द्रैरिन्द्र हरिभिः । यामि मयूररोमभिः । मा मा केचिन्न्येमुरिन्न पाशिनः । निधन्वेव ताँ३ इमि, इति । अणुभिश्च महद्भिश्च ( २) । निघृष्वैरसमायुतैः । कालैर्हरित्वमापन्नैः । इन्द्राऽऽयाहि सहस्रयुक्, इति । अग्निर्विभ्राष्टिवसनः । वायुः श्वेतसिकद्रुकः । संवत्सरो विषूवर्णैः । नित्यास्तेऽनुचरास्तव, इति । सुब्रह्मण्योꣳ सुब्रह्मण्योꣳ । इन्द्राऽऽगच्छ हरिव आगच्छ मेधातिथेः । मेष वृषणश्वस्य मेने ( ३) । गौरावस्क-न्दिन्नहल्यायै जार । कौशिकब्राह्मण गौतमब्रुवाण, इति । अरुणाश्वा इहाऽऽगताः । वसवः पृथिविक्षितः । अष्टौ दिग्वाससोऽग्नयः । अग्निश्च जातवेदाश्चेत्येते, इति । ताम्राश्वास्ताम्ररथाः । ताम्रवर्णास्तथाऽसिताः । दण्डहस्ताः खादग्दतः । इतो रुद्राः परां गताः । ( ४) उक्तꣳ स्थानं प्रमाणं च पुर इत, इति । बृहस्पतिश्च सविता च । विश्वरूपैरिहाऽऽगताम् । रथेनोदकवर्त्मना । अप्सुषा इति तद्द्वयोः, इति । उक्तो वेषो वासाꣳसि च । कालावयवानामितः प्रतीज्या । वासात्या इत्यश्विनोः । कोऽन्त-रिक्षे शब्दं करोतीति । वासिष्ठो रौहिणो मीमाꣳसां चक्रे । तस्यैषा भवति, इति । वाश्रेव विद्युदिति, इति । ब्रह्मण उदरणमसि । ब्रह्मण उदीरणमसि । ब्रह्मण आस्तरणमसि । ब्रह्मण उपस्तरणमसि(५), इति ।। दृश्यते च मेने परां गताश्चक्रे षट् च ।।

ātanuṣva pratanuṣva | uddhamā''dhama saṃdhama | āditye candravarṇānām | garbhamādhehi yaḥ pumān, iti | itaḥ siktam̐ sūryagatam | candramase rasaṃ kṛdhi | vārādaṃ janayāgre'gnim | ya eko rudra ucyate, iti | asaṃkhyātāḥ sahasrāṇi | smaryate na ca dṛśyaṃte ( 1) | evametaṃ nibodhata, iti | ā mandrairindra haribhiḥ | yāhi mayūraromabhiḥ | mā tvā kecinnyemurinna pāśinaḥ | dadhanveva tā ihi, iti | mā mandrairindra haribhiḥ | yāmi mayūraromabhiḥ | mā mā kecinnyemurinna pāśinaḥ | nidhanveva tā~3 imi, iti | aṇubhiśca mahadbhiśca ( 2) | nighṛṣvairasamāyutaiḥ | kālairharitvamāpannaiḥ | indrā''yāhi sahasrayuk, iti | agnirvibhrāṣṭivasanaḥ | vāyuḥ śvetasikadrukaḥ | saṃvatsaro viṣūvarṇaiḥ | nityāste'nucarāstava, iti | subrahmaṇyom̐ subrahmaṇyom̐ | indrā''gaccha hariva āgaccha medhātitheḥ | meṣa vṛṣaṇaśvasya mene ( 3) | gaurāvaska-ndinnahalyāyai jāra | kauśikabrāhmaṇa gautamabruvāṇa, iti | aruṇāśvā ihā''gatāḥ | vasavaḥ pṛthivikṣitaḥ | aṣṭau digvāsaso'gnayaḥ | agniśca jātavedāścetyete, iti | tāmrāśvāstāmrarathāḥ | tāmravarṇāstathā'sitāḥ | daṇḍahastāḥ khādagdataḥ | ito rudrāḥ parāṃ gatāḥ | ( 4) uktam̐ sthānaṃ pramāṇaṃ ca pura ita, iti | bṛhaspatiśca savitā ca | viśvarūpairihā''gatām | rathenodakavartmanā | apsuṣā iti taddvayoḥ, iti | ukto veṣo vāsām̐si ca | kālāvayavānāmitaḥ pratījyā | vāsātyā ityaśvinoḥ | ko'nta-rikṣe śabdaṃ karotīti | vāsiṣṭho rauhiṇo mīmām̐sāṃ cakre | tasyaiṣā bhavati, iti | vāśreva vidyuditi, iti | brahmaṇa udaraṇamasi | brahmaṇa udīraṇamasi | brahmaṇa āstaraṇamasi | brahmaṇa upastaraṇamasi(5), iti || dṛśyate ca mene parāṃ gatāścakre ṣaṭ ca ||

Sanskrit only: no published translation is held for this verse.

अष्टयोनीमष्टपुत्राम् । अष्टपत्नीमिमां महीम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । अष्टयोन्यष्टपुत्राम् । अष्टपदिदमन्तरिक्षम् । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत् । अष्टयोनीमष्टपुत्राम् । अरष्टपत्नीममूं दिवम् (१) । अहं वेद न मे मृत्युः । न चामृत्युरघाऽहरत्, इति । सुत्रामाणं महीमूषु, इति । अदितिर्द्यौरदितिरन्तरिक्षम् । अदितिर्माता स पिता स पुत्रः । विश्वे देवा अदितिः पञ्चजनाः । अदितिर्जातमदितिर्जनित्वम, इति । अष्टौ पुत्रासो अदितेः । ये जातास्तन्वः परि । देवां३ उपप्रैत्सप्तभिः ( २) । परा मार्ताण्डमास्यत्, इति । सप्तभिः पुत्रैरदितिः । उपप्रैत्पूर्व्यं युगम् । प्रजायै मृत्यवे तत् । परा मार्ताण्डमाभरदिति, इति । ताननुक्रमिष्यामः, इति । मित्रश्च वरुणश्च । धाता चार्यमा च । अꣳशश्च भगश्च । इन्द्रश्च विवस्वाꣳश्चेत्येते, इति । हिरण्यगर्भो हꣳसः शुचिषत् । ब्रह्मजज्ञानं तदित्पदमिति, इति । गर्भः प्राजापत्यः । अथ पुरुषः सप्तपुरुषः ( ३), इति ।। अमूं दिवꣳ सप्तभिरेते चत्वारि च ।।

aṣṭayonīmaṣṭaputrām | aṣṭapatnīmimāṃ mahīm | ahaṃ veda na me mṛtyuḥ | na cāmṛtyuraghā'harat, iti | aṣṭayonyaṣṭaputrām | aṣṭapadidamantarikṣam | ahaṃ veda na me mṛtyuḥ | na cāmṛtyuraghā'harat | aṣṭayonīmaṣṭaputrām | araṣṭapatnīmamūṃ divam (1) | ahaṃ veda na me mṛtyuḥ | na cāmṛtyuraghā'harat, iti | sutrāmāṇaṃ mahīmūṣu, iti | aditirdyauraditirantarikṣam | aditirmātā sa pitā sa putraḥ | viśve devā aditiḥ pañcajanāḥ | aditirjātamaditirjanitvama, iti | aṣṭau putrāso aditeḥ | ye jātāstanvaḥ pari | devāṃ3 upapraitsaptabhiḥ ( 2) | parā mārtāṇḍamāsyat, iti | saptabhiḥ putrairaditiḥ | upapraitpūrvyaṃ yugam | prajāyai mṛtyave tat | parā mārtāṇḍamābharaditi, iti | tānanukramiṣyāmaḥ, iti | mitraśca varuṇaśca | dhātā cāryamā ca | am̐śaśca bhagaśca | indraśca vivasvām̐ścetyete, iti | hiraṇyagarbho ham̐saḥ śuciṣat | brahmajajñānaṃ taditpadamiti, iti | garbhaḥ prājāpatyaḥ | atha puruṣaḥ saptapuruṣaḥ ( 3), iti || amūṃ divam̐ saptabhirete catvāri ca ||

Sanskrit only: no published translation is held for this verse.

योऽसौ तपन्नुदेति । स सर्वेषां भूतानां प्राणानादायोदेति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायोदगाः, इति । असौ योऽस्तमेति । स सर्वेषां भूतानां प्राणा-नादायास्तमेतिं । मा मे प्रजाया मा पशूनाम् । मा मम प्राणानादायास्तं गाः, इति । असौ य आपूर्यति । स सर्वेषां भूतानां प्राणैरापूर्यति (१) । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरापूरिष्ठाः, इति । असौ योऽपक्षीयति । स सर्वेषां भूतानां प्राणैरपक्षीयति । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरपक्षेष्ठाः, इति । अमूनि नक्षत्राणि । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ( २), इति । इमे मासाश्चार्धमासाश्च । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत ।। इम ऋतवः । सर्वेषां भूतानां प्राणैरप प्रसर्पन्ति चोत्सर्पन्ति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृपत मोत्सृपत, इति । अयम् संवत्सरः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च (३) । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप, इति । इदमहः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृप मोत्सृप । इयꣳ रात्रिः । सर्वेषां भूतानां प्राणैरप प्रसर्पति चोत्सर्पति च । मा मे प्रजाया मा पशूनाम् । मा मम प्राणैरप प्रसृम् मोत्सृप, इति । ॐ भूर्भुवुः स्वः, इति । एतद्वो मिथुनं मा नो मिथुनꣳ रीढ्वम्, ( ४) इति । प्राणैरापूर्यति मोत्सृपत चोत्सर्पति च मोत्सृप द्वे च ।। उदेत्यस्तमेत्यापूर्यत्यपक्षीयत्यमूनि नक्षत्राणीमे मासा इम ऋतवोऽयꣳ संवत्सर इदमहरियꣳ रात्रिर्दश ।।

yo'sau tapannudeti | sa sarveṣāṃ bhūtānāṃ prāṇānādāyodeti | mā me prajāyā mā paśūnām | mā mama prāṇānādāyodagāḥ, iti | asau yo'stameti | sa sarveṣāṃ bhūtānāṃ prāṇā-nādāyāstametiṃ | mā me prajāyā mā paśūnām | mā mama prāṇānādāyāstaṃ gāḥ, iti | asau ya āpūryati | sa sarveṣāṃ bhūtānāṃ prāṇairāpūryati (1) | mā me prajāyā mā paśūnām | mā mama prāṇairāpūriṣṭhāḥ, iti | asau yo'pakṣīyati | sa sarveṣāṃ bhūtānāṃ prāṇairapakṣīyati | mā me prajāyā mā paśūnām | mā mama prāṇairapakṣeṣṭhāḥ, iti | amūni nakṣatrāṇi | sarveṣāṃ bhūtānāṃ prāṇairapa prasarpanti cotsarpanti ca | mā me prajāyā mā paśūnām | mā mama prāṇairapa prasṛpata motsṛpata ( 2), iti | ime māsāścārdhamāsāśca | sarveṣāṃ bhūtānāṃ prāṇairapa prasarpanti cotsarpanti ca | mā me prajāyā mā paśūnām | mā mama prāṇairapa prasṛpata motsṛpata || ima ṛtavaḥ | sarveṣāṃ bhūtānāṃ prāṇairapa prasarpanti cotsarpanti ca | mā me prajāyā mā paśūnām | mā mama prāṇairapa prasṛpata motsṛpata, iti | ayam saṃvatsaraḥ | sarveṣāṃ bhūtānāṃ prāṇairapa prasarpati cotsarpati ca (3) | mā me prajāyā mā paśūnām | mā mama prāṇairapa prasṛpa motsṛpa, iti | idamahaḥ | sarveṣāṃ bhūtānāṃ prāṇairapa prasarpati cotsarpati ca | mā me prajāyā mā paśūnām | mā mama prāṇairapa prasṛpa motsṛpa | iyam̐ rātriḥ | sarveṣāṃ bhūtānāṃ prāṇairapa prasarpati cotsarpati ca | mā me prajāyā mā paśūnām | mā mama prāṇairapa prasṛm motsṛpa, iti | oṃ bhūrbhuvuḥ svaḥ, iti | etadvo mithunaṃ mā no mithunam̐ rīḍhvam, ( 4) iti | prāṇairāpūryati motsṛpata cotsarpati ca motsṛpa dve ca || udetyastametyāpūryatyapakṣīyatyamūni nakṣatrāṇīme māsā ima ṛtavo'yam̐ saṃvatsara idamahariyam̐ rātrirdaśa ||

Sanskrit only: no published translation is held for this verse.

अथाऽऽदित्यस्याष्टपुरुषस्य, इति । वसूनामादित्यानाँ स्थाने स्वतेजसा भानि, इति । रुद्राणामादित्यानाँ स्थाने स्वतेजसा भानि, इति । सताँ सत्यानाम् । आदित्यानाँ स्थाने स्वतेजसा भानि, इति । अभिधून्वतामभिघ्नताम् । वातवतां मरुताम् । आदित्यानाँ स्थाने स्वतेजसा भानि, इति । ऋभूणामादित्यानाँ स्थाने स्वतेजसा भानि, इति । संवत्सरस्य सवितुः । आदित्यस्य स्थाने स्वतेजसा भानि, इति । ओं भूर्भुवः स्वः । रश्मयो वो मिथुनं मा नो मिथुनँ रीढ्वम्, ( १) इति । ऋभूणामादित्यानाँ स्थाने स्वतेजसा भानि षट् च ।।

athā''dityasyāṣṭapuruṣasya, iti | vasūnāmādityānā~ sthāne svatejasā bhāni, iti | rudrāṇāmādityānā~ sthāne svatejasā bhāni, iti | satā~ satyānām | ādityānā~ sthāne svatejasā bhāni, iti | abhidhūnvatāmabhighnatām | vātavatāṃ marutām | ādityānā~ sthāne svatejasā bhāni, iti | ṛbhūṇāmādityānā~ sthāne svatejasā bhāni, iti | saṃvatsarasya savituḥ | ādityasya sthāne svatejasā bhāni, iti | oṃ bhūrbhuvaḥ svaḥ | raśmayo vo mithunaṃ mā no mithuna~ rīḍhvam, ( 1) iti | ṛbhūṇāmādityānā~ sthāne svatejasā bhāni ṣaṭ ca ||

Sanskrit only: no published translation is held for this verse.

आरोगस्य स्थाने स्वतेजसा भानि । भ्राजस्य स्थाने स्वतेजसा भानि । पटरस्य स्थाने स्वतेजसा भानि । पतङ्गस्य स्थाने स्वतेजसा भानि । स्वर्णरस्य स्थाने स्वतेजसा भानि । ज्योतिषीमतस्य स्थाने स्वतेजसा भानि । विभासस्य स्थाने स्वतेजसा भानि । कश्यपस्य स्थाने स्वतेजसा भानि । ॐ भूर्भुवः स्वः । आपो वो मिथुनं मा नो मिथुनँ रीढ्वम् ( १), इति । आरोगस्य दश ।।

ārogasya sthāne svatejasā bhāni | bhrājasya sthāne svatejasā bhāni | paṭarasya sthāne svatejasā bhāni | pataṅgasya sthāne svatejasā bhāni | svarṇarasya sthāne svatejasā bhāni | jyotiṣīmatasya sthāne svatejasā bhāni | vibhāsasya sthāne svatejasā bhāni | kaśyapasya sthāne svatejasā bhāni | oṃ bhūrbhuvaḥ svaḥ | āpo vo mithunaṃ mā no mithuna~ rīḍhvam ( 1), iti | ārogasya daśa ||

Sanskrit only: no published translation is held for this verse.

अथ वायोरेकादशपुरुषस्यैकादशस्त्रीकस्य, इति । प्रभ्राजमानानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । व्यवदातानाँ रुद्राणाँ स्थाने स्वतेजसा भानि । वासुकिवैद्युतानां रुद्राणां स्थाने स्वतेजसा भ्रानि । रजतानाँ रुद्राणां स्थाने स्वतेजसा भानि । परु- षाणां रुद्राणाँ स्थाने स्वतेजसा भानि । श्यामानां रुद्राणां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणां स्थाने स्वतेजसा भानि । अतिलोहितानाशं रुद्राणां स्थाने स्वतेजसा भानि । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भानि ( १) । अवपतन्तानां रुद्राणां स्थाने स्वतेजसा भानि । वैद्युतानां रुद्राणां स्थाने स्वतेजसा भानि । प्रभ्राजमानीनां रुद्राणीनां स्थाने स्वतेजसा भानि । व्यवदातीनां रुद्राणीनां स्थाने स्वतेजसा भानि । वासुकिवैद्युतीनां रुद्राणीनां स्थाने स्वतेजसा भानि । रजतानां रुद्राणीनां स्थाने स्वतेजसा भानि । परुषाणां रुद्राणीनां स्थाने स्वतेजसा भानि । श्यामानां रुद्राणीनां स्थाने स्वतेजसा भानि । कपिलानां रुद्राणीनां स्थाने स्वतेजसा भानि । अतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भ्रानि । ऊर्ध्वानां रुद्राणीनां स्थाने स्वतेजसा भानि । अवपतन्तीनां रुद्राणीनां स्थाने स्वतेजसा भानि । वैद्युतीनाँ रुद्राणीनां स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । रूपाणि वो मिथुनं मा नो मिथुनं रीढ्वम् ( २), इति । ऊर्ध्वानां रुद्राणां स्थाने स्वतेजसा भान्यतिलोहितीनां रुद्राणीनां स्थाने स्वतेजसा भानि पञ्च च ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके सप्तदशोऽनुवाकः ।। १७ ।। 1.17

atha vāyorekādaśapuruṣasyaikādaśastrīkasya, iti | prabhrājamānānā~ rudrāṇā~ sthāne svatejasā bhāni | vyavadātānā~ rudrāṇā~ sthāne svatejasā bhāni | vāsukivaidyutānāṃ rudrāṇāṃ sthāne svatejasā bhrāni | rajatānā~ rudrāṇāṃ sthāne svatejasā bhāni | paru- ṣāṇāṃ rudrāṇā~ sthāne svatejasā bhāni | śyāmānāṃ rudrāṇāṃ sthāne svatejasā bhāni | kapilānāṃ rudrāṇāṃ sthāne svatejasā bhāni | atilohitānāśaṃ rudrāṇāṃ sthāne svatejasā bhāni | ūrdhvānāṃ rudrāṇāṃ sthāne svatejasā bhāni ( 1) | avapatantānāṃ rudrāṇāṃ sthāne svatejasā bhāni | vaidyutānāṃ rudrāṇāṃ sthāne svatejasā bhāni | prabhrājamānīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | vyavadātīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | vāsukivaidyutīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | rajatānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | paruṣāṇāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | śyāmānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | kapilānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | atilohitīnāṃ rudrāṇīnāṃ sthāne svatejasā bhrāni | ūrdhvānāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | avapatantīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni | vaidyutīnā~ rudrāṇīnāṃ sthāne svatejasā bhāni | oṃ bhūrbhuvaḥ svaḥ | rūpāṇi vo mithunaṃ mā no mithunaṃ rīḍhvam ( 2), iti | ūrdhvānāṃ rudrāṇāṃ sthāne svatejasā bhānyatilohitīnāṃ rudrāṇīnāṃ sthāne svatejasā bhāni pañca ca || iti kṛṣṇayajurvedīyataittirīyāraṇyake prathamaprapāṭhake saptadaśo'nuvākaḥ || 17 || 1.17

Sanskrit only: no published translation is held for this verse.

अथाग्नेरष्टपुरुषस्य, इति । अग्नेः पूर्वदिश्यस्य स्थाने स्वतेजसा भानि । जातवेदस उपदिश्यस्य स्थाने स्वतेजसा भानि । सहोजसो दक्षिणदिश्यस्य स्थाने स्वतेजसा भानि । अजिराप्रभव उपदिश्यस्य स्थाने स्वतेजसा भानि । वैश्वानरस्यापरदिश्यस्य स्थाने स्वतेजसा भानि । नर्यापस उपदिश्यस्य स्थाने स्वतेजसा भानि । पङ्तिरा-धस उदग्दिश्यस्य स्थाने स्वतेजसा भानि । विसर्पिण उपदि श्यस्य स्थाने स्वतेजसा भानि । ओं भूर्भुवः स्वः । दिशो वो मिथुनं मा नो मिथुनꣳ रीढ्वम् ( १), इति ।। स्वरेकं च ।। एतद्रश्मय आपो रूपाणि दिशः पञ्च ।।

athāgneraṣṭapuruṣasya, iti | agneḥ pūrvadiśyasya sthāne svatejasā bhāni | jātavedasa upadiśyasya sthāne svatejasā bhāni | sahojaso dakṣiṇadiśyasya sthāne svatejasā bhāni | ajirāprabhava upadiśyasya sthāne svatejasā bhāni | vaiśvānarasyāparadiśyasya sthāne svatejasā bhāni | naryāpasa upadiśyasya sthāne svatejasā bhāni | paṅtirā-dhasa udagdiśyasya sthāne svatejasā bhāni | visarpiṇa upadi śyasya sthāne svatejasā bhāni | oṃ bhūrbhuvaḥ svaḥ | diśo vo mithunaṃ mā no mithunam̐ rīḍhvam ( 1), iti || svarekaṃ ca || etadraśmaya āpo rūpāṇi diśaḥ pañca ||

Sanskrit only: no published translation is held for this verse.

दक्षिणपूर्वस्यां दिशि विसर्पी नरकः । तस्मान्नः परिपाहि, इति । दक्षिणापरस्यां दिश्यविसर्पी नरकः । तस्मान्नः परिपाहि, इति। उत्तरपूर्वस्यां दिशि विषादी नरकः । तस्मान्नः परिपाहि, इति । उत्तरापरस्यां दिश्यविषादी नरकः । तस्मान्नः परिपाहि, इति । आ यस्मिन्सप्त वासवा इन्द्रियाणि शतक्रतवित्येते ( १), इति ।। दक्षिणपूर्वस्यां नव ।।

dakṣiṇapūrvasyāṃ diśi visarpī narakaḥ | tasmānnaḥ paripāhi, iti | dakṣiṇāparasyāṃ diśyavisarpī narakaḥ | tasmānnaḥ paripāhi, iti| uttarapūrvasyāṃ diśi viṣādī narakaḥ | tasmānnaḥ paripāhi, iti | uttarāparasyāṃ diśyaviṣādī narakaḥ | tasmānnaḥ paripāhi, iti | ā yasminsapta vāsavā indriyāṇi śatakratavityete ( 1), iti || dakṣiṇapūrvasyāṃ nava ||

Sanskrit only: no published translation is held for this verse.

इन्द्रघोषा वो वसुभिः पुरस्तादुपदधताम् । मनोजवसो वः पितृभिर्दक्षिणत उपदधताम् । प्रचेता वो रुद्रैः पश्चादुपदधताम् । विश्वकर्मा व आदित्यैरुत्तरत उपदधताम् । त्वष्टा वो रूपैरुपरिष्टादुपदधताम् । संज्ञानं वः पश्चादिति, इति । आदित्यः सर्वोऽग्निः पृथिव्याम् । वायुरन्तरिक्षे । सूर्यो दिवि । चन्द्रमा दिक्षु । नक्षत्राणि स्वलोके, इति । एवा ह्येव । एवा ह्यग्ने । एवा हि वायो । एवा हीन्द्र । एवा हि पूषन् । एवा हि देवाः ( १), इति । दिक्षु, सप्त च ।।

indraghoṣā vo vasubhiḥ purastādupadadhatām | manojavaso vaḥ pitṛbhirdakṣiṇata upadadhatām | pracetā vo rudraiḥ paścādupadadhatām | viśvakarmā va ādityairuttarata upadadhatām | tvaṣṭā vo rūpairupariṣṭādupadadhatām | saṃjñānaṃ vaḥ paścāditi, iti | ādityaḥ sarvo'gniḥ pṛthivyām | vāyurantarikṣe | sūryo divi | candramā dikṣu | nakṣatrāṇi svaloke, iti | evā hyeva | evā hyagne | evā hi vāyo | evā hīndra | evā hi pūṣan | evā hi devāḥ ( 1), iti | dikṣu, sapta ca ||

Sanskrit only: no published translation is held for this verse.

आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्द्धिया । वाय्वश्वा रश्मिपतयः । मरीच्या त्मानो अद्रुहः । देवीर्भुवनसूवरीः । पुत्रवत्त्वाय मे सुत । महानाम्नीर्महामानाः । महसो महसः स्वः ( १) देवीः पर्जन्यसू वरीः । पुत्रवत्त्वाय मे सुत । अपाश्नुष्णिमपा रक्षः । अपाश्नुष्णिमपारघम् । अपाघ्रामप चावर्तिम् । अप देवीरितो हित । वज्रं देवीरजीतांश्च । भुवनं देवसूवरीः । आदित्यानदितिं देवीम् । योनिनोर्ध्वमुदीषत ( २) भद्रं कर्णेभिः शृणुयामं देवाः । भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवासंस्तनूभिः । व्यशेम देवहितं यदायुः । स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्ववेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ३), इति । स्वरुदीषत वातरशनाः षट्च । ।

āpamāpāmapaḥ sarvāḥ | asmādasmādito'mutaḥ | agnirvāyuśca sūryaśca | saha saṃcaskararddhiyā | vāyvaśvā raśmipatayaḥ | marīcyā tmāno adruhaḥ | devīrbhuvanasūvarīḥ | putravattvāya me suta | mahānāmnīrmahāmānāḥ | mahaso mahasaḥ svaḥ ( 1) devīḥ parjanyasū varīḥ | putravattvāya me suta | apāśnuṣṇimapā rakṣaḥ | apāśnuṣṇimapāragham | apāghrāmapa cāvartim | apa devīrito hita | vajraṃ devīrajītāṃśca | bhuvanaṃ devasūvarīḥ | ādityānaditiṃ devīm | yoninordhvamudīṣata ( 2) bhadraṃ karṇebhiḥ śṛṇuyāmaṃ devāḥ | bhadraṃ paśyemākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvāsaṃstanūbhiḥ | vyaśema devahitaṃ yadāyuḥ | svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśvavedāḥ | svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu | ketavo aruṇāsaśca | ṛṣayo vātaraśanāḥ | pratiṣṭhāṃ śatadhā hi | samāhitāso sahasradhāyasam | śivā naḥ śaṃtamā bhavantu | divyā āpa oṣadhayaḥ | sumṛḍīkā sarasvati | mā te vyoma saṃdṛśi ( 3), iti | svarudīṣata vātaraśanāḥ ṣaṭca | |

Sanskrit only: no published translation is held for this verse.

योऽपां पुष्पं वेद । पुष्पवान्प्रजावान्पशुमान्भवति । चन्द्रमा वा अपां पुष्पम् । पुष्पवान्प्रजावान्पशुमान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । अग्निर्वा अपामायतनम् । आयतनवान्भवति । योऽग्नेरायतनं वेद ( १) । आयतनवान्भवति । आपो वा अग्नेरायतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । वायुर्वा अपामायतनम् । आयतनवान्भवति । यो वायोरायतनं वेद । आयतनवान्भवति ( २) । आपो वै वायोरायतनम् । आयतनान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । असौ वै तपन्नपामायतनम् । आयतनवान्भवति । योऽमुष्य तपत आयतनं वेद । आयनवान्भवति । आपो वा अमुष्य तपत आयतनम् (३) । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । चन्द्रमा वा अपामायतनम् । आयतनवान्भवति । यश्चन्द्रमस आयतनं वेद । आयतवान्भवति । आपो वै चन्द्रमस आयतनम् । आयतनान्भवति ( ४) । य एवं वेद, इति । योऽपामायतनं वेद । आयतनवान्भवति । नक्षत्राणि वा अपामायतनम् । आयतनवान्भवति । यो नक्षत्राणामायतनं वेद । आयतनवान्भवति । आपो वै नक्षत्राणामा यतनम् । आयतनवान्भवति । य एवं वेद ( ५), इति । योऽपामायतनं वेद । आयतनवान्भवति । पर्जन्यो वा अपामायतनम् । आयतनवान्भवति । यः पर्जन्यस्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै पर्जन्यस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽपामायतनं वेद ( ६) । आयतनवान्भवति । संवत्सरो वा अपामायतनम् । आयतनवान्भवति । यः संवत्सर स्याऽऽयतनं वेद । आयतनवान्भवति । आपो वै संवत्सरस्याऽऽयतनम् । आयतनवान्भवति । य एवं वेद, इति । योऽप्सु नावं प्रतिष्ठितां वेद । प्रत्येव तिष्ठति ( ७) । इमे वै लोका अप्सु प्रतिष्ठिताः । तदेषाऽभ्यनूक्ता, इति । अपां रसमुदयं सन् । सूर्ये शुक्रम् समाभृतम् । अपाँ रसस्य यो रसः । तं वो गृह्णाम्युत्तममिति, इति । इमे वै लोका अपाँ रसः । तेऽमुष्मिन्नादित्ये समाभृताः, इति । जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयित्वा गुल्फदघ्नम् । ( ८) । पुष्करपर्णैः पुष्करदण्डैः पुष्करैश्च सँस्तीर्य । तस्मिन्विहायसे । अग्निं प्रणीयोपसमाधाय,, इति । ब्रह्मवादिनो वदन्ति । कस्मात्प्रणीतेऽयमग्निश्चीयते । साप्प्रणीतेऽयमप्सु ह्ययं चीयते । असौ भुवनेऽप्यनाहिताग्निरेताः । तमभित एता अबीष्टका उपदधाति, इति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातुर्मास्येषु । ( ९) अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति । एतद्ध स्म वा आहुः शण्डिलाः । कमग्निं चिनुते । सत्रियमग्निं चिन्वानः । संवत्सरं प्रत्यक्षेण, इति । कमग्निं चिनुते । ( १०) नाचिकेतमग्निं चिन्वानः । प्राणान्प्रत्यक्षेण, इति । कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । ब्रह्म प्रत्यक्षेण, इति । कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । शरीरं प्रत्यक्षेण, इति । कमग्निं चिनुते । उपानुवाक्यमाशुमग्निं चिन्वानः ।( ११) इमाँल्लोकान्प्रत्यक्षेण इति । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति । य एवासौ । इतश्चामुतश्चाव्यतीपाती । तमिति, इति । योऽग्नेर्मिथूया वेद । मिथुनवान्भवति । आपो वा अग्नेर्मिथूयाः । मिथुनवान्भवति । य एवं वेद ( १२), इति । वेद भवत्यायतनमायतनवान्भवति वेद वेद तिष्ठति गुल्फदघ्नं चातुर्मास्येष्वमुमादित्यं प्रत्यक्षेण कमग्निं चिनुत उपानुवाक्यमाशुमग्निं चिन्वानो मिथूया मिथुनवान्भवत्येकं च ।। पुष्पमग्निर्वायुरसौ वै तपन्,चन्द्रमा नक्षत्राणि पर्जन्यः संवत्सरस्तिष्ठति सत्रियँ संवत्सरँ सावित्रममुं नाचिकेतं प्राणाँश्चातुर्होत्रियं ब्रह्म वैश्वसृजँ शरीरमुपानुवाक्यमाशुमिमाँल्लोकानिममारुणकेतुकं य एवासौ ।। इति कृष्णयजुर्वेदीयतैत्तिरीयारण्यके प्रथमप्रपाठके द्वाविंशोऽनुवाकः ।। 1.२२ ।।

yo'pāṃ puṣpaṃ veda | puṣpavānprajāvānpaśumānbhavati | candramā vā apāṃ puṣpam | puṣpavānprajāvānpaśumānbhavati | ya evaṃ veda, iti | yo'pāmāyatanaṃ veda | āyatanavānbhavati | agnirvā apāmāyatanam | āyatanavānbhavati | yo'gnerāyatanaṃ veda ( 1) | āyatanavānbhavati | āpo vā agnerāyatanam | āyatanavānbhavati | ya evaṃ veda, iti | yo'pāmāyatanaṃ veda | āyatanavānbhavati | vāyurvā apāmāyatanam | āyatanavānbhavati | yo vāyorāyatanaṃ veda | āyatanavānbhavati ( 2) | āpo vai vāyorāyatanam | āyatanānbhavati | ya evaṃ veda, iti | yo'pāmāyatanaṃ veda | āyatanavānbhavati | asau vai tapannapāmāyatanam | āyatanavānbhavati | yo'muṣya tapata āyatanaṃ veda | āyanavānbhavati | āpo vā amuṣya tapata āyatanam (3) | āyatanavānbhavati | ya evaṃ veda, iti | yo'pāmāyatanaṃ veda | āyatanavānbhavati | candramā vā apāmāyatanam | āyatanavānbhavati | yaścandramasa āyatanaṃ veda | āyatavānbhavati | āpo vai candramasa āyatanam | āyatanānbhavati ( 4) | ya evaṃ veda, iti | yo'pāmāyatanaṃ veda | āyatanavānbhavati | nakṣatrāṇi vā apāmāyatanam | āyatanavānbhavati | yo nakṣatrāṇāmāyatanaṃ veda | āyatanavānbhavati | āpo vai nakṣatrāṇāmā yatanam | āyatanavānbhavati | ya evaṃ veda ( 5), iti | yo'pāmāyatanaṃ veda | āyatanavānbhavati | parjanyo vā apāmāyatanam | āyatanavānbhavati | yaḥ parjanyasyā''yatanaṃ veda | āyatanavānbhavati | āpo vai parjanyasyā''yatanam | āyatanavānbhavati | ya evaṃ veda, iti | yo'pāmāyatanaṃ veda ( 6) | āyatanavānbhavati | saṃvatsaro vā apāmāyatanam | āyatanavānbhavati | yaḥ saṃvatsara syā''yatanaṃ veda | āyatanavānbhavati | āpo vai saṃvatsarasyā''yatanam | āyatanavānbhavati | ya evaṃ veda, iti | yo'psu nāvaṃ pratiṣṭhitāṃ veda | pratyeva tiṣṭhati ( 7) | ime vai lokā apsu pratiṣṭhitāḥ | tadeṣā'bhyanūktā, iti | apāṃ rasamudayaṃ san | sūrye śukram samābhṛtam | apā~ rasasya yo rasaḥ | taṃ vo gṛhṇāmyuttamamiti, iti | ime vai lokā apā~ rasaḥ | te'muṣminnāditye samābhṛtāḥ, iti | jānudaghnīmuttaravedīṃ khātvā | apāṃ pūrayitvā gulphadaghnam | ( 8) | puṣkaraparṇaiḥ puṣkaradaṇḍaiḥ puṣkaraiśca sa~stīrya | tasminvihāyase | agniṃ praṇīyopasamādhāya,, iti | brahmavādino vadanti | kasmātpraṇīte'yamagniścīyate | sāppraṇīte'yamapsu hyayaṃ cīyate | asau bhuvane'pyanāhitāgniretāḥ | tamabhita etā abīṣṭakā upadadhāti, iti | agnihotre darśapūrṇamāsayoḥ | paśubandhe cāturmāsyeṣu | ( 9) atho āhuḥ | sarveṣu yajñakratuṣviti, iti | etaddha sma vā āhuḥ śaṇḍilāḥ | kamagniṃ cinute | satriyamagniṃ cinvānaḥ | saṃvatsaraṃ pratyakṣeṇa, iti | kamagniṃ cinute | ( 10) nāciketamagniṃ cinvānaḥ | prāṇānpratyakṣeṇa, iti | kamagniṃ cinute | cāturhotriyamagniṃ cinvānaḥ | brahma pratyakṣeṇa, iti | kamagniṃ cinute | vaiśvasṛjamagniṃ cinvānaḥ | śarīraṃ pratyakṣeṇa, iti | kamagniṃ cinute | upānuvākyamāśumagniṃ cinvānaḥ |( 11) imā~llokānpratyakṣeṇa iti | kamagniṃ cinute | imamāruṇaketukamagniṃ cinvāna iti | ya evāsau | itaścāmutaścāvyatīpātī | tamiti, iti | yo'gnermithūyā veda | mithunavānbhavati | āpo vā agnermithūyāḥ | mithunavānbhavati | ya evaṃ veda ( 12), iti | veda bhavatyāyatanamāyatanavānbhavati veda veda tiṣṭhati gulphadaghnaṃ cāturmāsyeṣvamumādityaṃ pratyakṣeṇa kamagniṃ cinuta upānuvākyamāśumagniṃ cinvāno mithūyā mithunavānbhavatyekaṃ ca || puṣpamagnirvāyurasau vai tapan,candramā nakṣatrāṇi parjanyaḥ saṃvatsarastiṣṭhati satriya~ saṃvatsara~ sāvitramamuṃ nāciketaṃ prāṇā~ścāturhotriyaṃ brahma vaiśvasṛja~ śarīramupānuvākyamāśumimā~llokānimamāruṇaketukaṃ ya evāsau || iti kṛṣṇayajurvedīyataittirīyāraṇyake prathamaprapāṭhake dvāviṃśo'nuvākaḥ || 1.22 ||

Sanskrit only: no published translation is held for this verse.

आपो वा इदमासन्त्सलिलमेव । स प्रजापतिरेकः पुष्करपर्णे समभवत् । तस्यान्तर्मनसि कामः समवर्तत । इदँ सृजेयमिति । तस्माद्यत्पुरुषो मनसाऽभिगच्छति । तद्वाचा वदति । तत्कर्मणा करोति । तदेषाऽभ्यनूक्ता, इति । कामस्तदग्रे समवर्तताधि । मनसो रेतः प्रथमं यदासीत् ( १) । सतो बन्धुमसति निरविन्दन् । हृदि प्रतीष्या कवयो मनीषेति, इति । उपैनं तदुपनमति । यत्कामो भवति । य एवं वेद, इति । स तपोऽतप्यत । स तपस्तप्त्वा । शरीरमधूनुत । तस्य यन्माँसमासीत् । ततोऽरुणाः केतवो वातरशना ऋषय उदतिष्ठन् (२) । ये नखाः । ते वैखानसाः । ये वालाः । ते वालखिल्याः । यो रसः । सोऽपाम्, इति । अन्तरतः कूर्मं भूतँ सर्पन्तम् । तमब्रवीत् । मम वै त्वङ्माँसा । समभूत् ( ३ । नेत्यब्रवीत् । पूर्वमेवाहमिहाऽऽसमिति । तत्पुरुषस्य पुरुषत्वम् । स सहस्रशीर्षा पुरुषः । सहस्राक्षः सहस्रपात् । भूत्वोदतिष्ठत् । तमब्रवीत् । त्वं वै पूर्वँ समभूः । त्वमिदं पूर्वः कुरुष्वेति, इति । स इत आदायापः ( ४) । अञ्जलिना पुरस्तादुपादधात् । एवा ह्येवेति । तत आदित्य उदतिष्ठत् । सा प्राची दिक्, इति । अथाऽऽरुणः केतुर्दक्षिणत उपादधात् । एवा ह्यग्न इति । ततो वा अग्निरुदतिष्ठत् । सा दक्षिणा दिक् । अथाऽऽरुणः केतुः पश्चादुपादधात् । एवा हि वायो इति । ( ५) ततो वायुरुदतिष्ठत् । सा प्रतीची दिक् । अथाऽऽरुणः केतुरुत्तरत उपादधात् । एवा हीन्द्रेति । ततो वा इन्द्र उदतिष्ठत् । सोदीची दिक् । अथाऽऽरुणः केतुर्मध्य उपादधात् । एवा हि पूषन्निति । ततो वै पूषोदतिष्ठत् । सेयं दिक् । ( ६) अथाऽऽरुणः केतुरुपरिष्टादुपादधात् । एवा हि देवा इति । ततो देवमनुष्याः पितरः । गन्धर्वाप्सश्चोदतिष्ठन् । सोर्ध्वा दिक्, इति । या विप्रुषो वि परापतन् । ताभ्योऽसुरा रक्षांसि पिशाचाश्चोदतिष्ठन् । तस्मात्ते पराभवन् । विप्रुड्भ्यो हि ते समभवन्, इति । तदेषाऽभ्यनूक्ता ( ७), इति । आपो ह यद्बृहतीर्गर्भमायन् । दक्षं दधाना जनयन्तीः स्वयंभुम् । तत इमेऽध्यसृज्यन्त सर्गाः । अद्भ्यो वा इदं समभूत् । तस्मादिदं सर्वं ब्रह्म स्वयंभ्विति, इति । तस्मादिदं सर्वं शिथिलमिवाध्रुवमिवाभवत्, इति । प्रजापतिर्वाव तत् । आत्मनाऽऽत्मानं विधाय । तदेवानुप्राविशत्, इति । तदेषाऽभ्यनूक्ता ( ८) इति । विधाय लोकान्विधाय भूतानि । विधाय सर्वाः प्रदिशो दिशश्च । प्रजापतिः प्रथमजा ऋतस्य । आत्मनाऽऽत्मानमभिसंविवेशेति, इति । सर्वमेवेदमाप्त्वा । सर्वमवरुध्य । तदेवानुप्रविशति । य एवं वेद ( ९) इति ।।

āpo vā idamāsantsalilameva | sa prajāpatirekaḥ puṣkaraparṇe samabhavat | tasyāntarmanasi kāmaḥ samavartata | ida~ sṛjeyamiti | tasmādyatpuruṣo manasā'bhigacchati | tadvācā vadati | tatkarmaṇā karoti | tadeṣā'bhyanūktā, iti | kāmastadagre samavartatādhi | manaso retaḥ prathamaṃ yadāsīt ( 1) | sato bandhumasati niravindan | hṛdi pratīṣyā kavayo manīṣeti, iti | upainaṃ tadupanamati | yatkāmo bhavati | ya evaṃ veda, iti | sa tapo'tapyata | sa tapastaptvā | śarīramadhūnuta | tasya yanmā~samāsīt | tato'ruṇāḥ ketavo vātaraśanā ṛṣaya udatiṣṭhan (2) | ye nakhāḥ | te vaikhānasāḥ | ye vālāḥ | te vālakhilyāḥ | yo rasaḥ | so'pām, iti | antarataḥ kūrmaṃ bhūta~ sarpantam | tamabravīt | mama vai tvaṅmā~sā | samabhūt ( 3 | netyabravīt | pūrvamevāhamihā''samiti | tatpuruṣasya puruṣatvam | sa sahasraśīrṣā puruṣaḥ | sahasrākṣaḥ sahasrapāt | bhūtvodatiṣṭhat | tamabravīt | tvaṃ vai pūrva~ samabhūḥ | tvamidaṃ pūrvaḥ kuruṣveti, iti | sa ita ādāyāpaḥ ( 4) | añjalinā purastādupādadhāt | evā hyeveti | tata āditya udatiṣṭhat | sā prācī dik, iti | athā''ruṇaḥ keturdakṣiṇata upādadhāt | evā hyagna iti | tato vā agnirudatiṣṭhat | sā dakṣiṇā dik | athā''ruṇaḥ ketuḥ paścādupādadhāt | evā hi vāyo iti | ( 5) tato vāyurudatiṣṭhat | sā pratīcī dik | athā''ruṇaḥ keturuttarata upādadhāt | evā hīndreti | tato vā indra udatiṣṭhat | sodīcī dik | athā''ruṇaḥ keturmadhya upādadhāt | evā hi pūṣanniti | tato vai pūṣodatiṣṭhat | seyaṃ dik | ( 6) athā''ruṇaḥ keturupariṣṭādupādadhāt | evā hi devā iti | tato devamanuṣyāḥ pitaraḥ | gandharvāpsaścodatiṣṭhan | sordhvā dik, iti | yā vipruṣo vi parāpatan | tābhyo'surā rakṣāṃsi piśācāścodatiṣṭhan | tasmātte parābhavan | vipruḍbhyo hi te samabhavan, iti | tadeṣā'bhyanūktā ( 7), iti | āpo ha yadbṛhatīrgarbhamāyan | dakṣaṃ dadhānā janayantīḥ svayaṃbhum | tata ime'dhyasṛjyanta sargāḥ | adbhyo vā idaṃ samabhūt | tasmādidaṃ sarvaṃ brahma svayaṃbhviti, iti | tasmādidaṃ sarvaṃ śithilamivādhruvamivābhavat, iti | prajāpatirvāva tat | ātmanā''tmānaṃ vidhāya | tadevānuprāviśat, iti | tadeṣā'bhyanūktā ( 8) iti | vidhāya lokānvidhāya bhūtāni | vidhāya sarvāḥ pradiśo diśaśca | prajāpatiḥ prathamajā ṛtasya | ātmanā''tmānamabhisaṃviveśeti, iti | sarvamevedamāptvā | sarvamavarudhya | tadevānupraviśati | ya evaṃ veda ( 9) iti ||

Sanskrit only: no published translation is held for this verse.

चतुष्टय्य आपो गृह्णाति । चत्वारि वा अपां रूपाणि । मेघो विद्युत् । स्तनयित्नुर्वृष्टिः । तान्येवावरुन्धे, इति । आतपति वर्ष्यां गृह्णाति । ताः पुरस्तादुपदधाति । एता वै ब्रह्मवर्चस्या आपः । मुखत एव ब्रह्मवर्चसमवरुन्धे । तस्मान्मुखतो ब्रह्मवर्चसितरः ( १), इति । कूप्या गृह्णाति । ता दक्षिणत उपदधाति । एता वै तेजस्वनीरापः । तेज एवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धस्तेजस्वितरः,इति । स्थावरा गृह्णाति । ताः पश्चादुपदधाति । प्रतिष्ठिता वै स्थावराः । पश्चादेव प्रतितिष्ठति, इति । वहन्तीर्गृह्णाति २) । ता उत्तरत उपदधाति । ओजसा वा एता वहन्तीरिवोद्गतीरिव आकूजतीरिव धावन्तीः । ओज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्ध ओजस्वितरः, इति । संभार्या गृह्णाति । ता मध्य उपदधाति । इयं वै संभार्याः । अस्यामेव प्रतितिष्ठति, इति । पल्वल्या गृह्णाति । ता उपरिष्टादुपादधाति ( ३) । असौ वै पल्वल्याः । अमुष्यामेव प्रतितिष्ठति, इति । दिक्षूपदधाति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे, इति । तं वा एतमरुणाः केतवो वातरशना ऋषयोऽचिन्वन् । तस्मादारुणकेतुकः, इति । तदेषाऽभ्यनूक्ता, इति । कैतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठां शतधा हि । समाहितासो सहस्रधायसमिति, इति । शतशश्चैव सहस्रशश्च प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद, इति ।। व्रह्मवर्चसितरो वहन्तीर्गृह्णाति ता उपरिष्टादुपादधात्यारुणकेतुकोऽष्टौ च ।।

catuṣṭayya āpo gṛhṇāti | catvāri vā apāṃ rūpāṇi | megho vidyut | stanayitnurvṛṣṭiḥ | tānyevāvarundhe, iti | ātapati varṣyāṃ gṛhṇāti | tāḥ purastādupadadhāti | etā vai brahmavarcasyā āpaḥ | mukhata eva brahmavarcasamavarundhe | tasmānmukhato brahmavarcasitaraḥ ( 1), iti | kūpyā gṛhṇāti | tā dakṣiṇata upadadhāti | etā vai tejasvanīrāpaḥ | teja evāsya dakṣiṇato dadhāti | tasmāddakṣiṇo'rdhastejasvitaraḥ,iti | sthāvarā gṛhṇāti | tāḥ paścādupadadhāti | pratiṣṭhitā vai sthāvarāḥ | paścādeva pratitiṣṭhati, iti | vahantīrgṛhṇāti 2) | tā uttarata upadadhāti | ojasā vā etā vahantīrivodgatīriva ākūjatīriva dhāvantīḥ | oja evāsyottarato dadhāti | tasmāduttaro'rdha ojasvitaraḥ, iti | saṃbhāryā gṛhṇāti | tā madhya upadadhāti | iyaṃ vai saṃbhāryāḥ | asyāmeva pratitiṣṭhati, iti | palvalyā gṛhṇāti | tā upariṣṭādupādadhāti ( 3) | asau vai palvalyāḥ | amuṣyāmeva pratitiṣṭhati, iti | dikṣūpadadhāti | dikṣu vā āpaḥ | annaṃ vā āpaḥ | adbhyo vā annaṃ jāyate | yadevādbhyo'nnaṃ jāyate | tadavarundhe, iti | taṃ vā etamaruṇāḥ ketavo vātaraśanā ṛṣayo'cinvan | tasmādāruṇaketukaḥ, iti | tadeṣā'bhyanūktā, iti | kaitavo aruṇāsaśca | ṛṣayo vātaraśanāḥ | pratiṣṭhāṃ śatadhā hi | samāhitāso sahasradhāyasamiti, iti | śataśaścaiva sahasraśaśca pratitiṣṭhati | ya etamagniṃ cinute | ya u cainamevaṃ veda, iti || vrahmavarcasitaro vahantīrgṛhṇāti tā upariṣṭādupādadhātyāruṇaketuko'ṣṭau ca ||

Sanskrit only: no published translation is held for this verse.

जानुदघ्नीमुत्तरवेदीं खात्वा । अपां पूरयति । अपां सर्वत्वाय, इति । पुष्करपर्णं रुक्मं पुरुषमित्युपदधाति । तपो वै पुष्करपर्णम् । सत्यं रुक्मः। । अमृतं पुरुषः । एतावद्वावास्ति । यावदेतत् । यावदेवास्ति ( १) । तदवरुन्धे, इति । कूर्ममुपदधाति । अपामेव मेधमवरुन्धे । अथो स्वर्गस्य लोकस्य समष्ट्यै, इति । आपमापामपः सर्वाः । अस्मादस्मादितोऽमुतः । अग्निर्वायुश्च सूर्यश्च । सह संचस्करर्धिया इति । वाय्वश्वा रश्मिपतयः, हति । लोकं पृण च्छिद्रं पृण ( २ । यास्तिस्रः परमजाः, इति । इन्द्रघोषा वो वसुभिरेवा ह्येवेति, इति । पञ्च चितय उपदधाति । पाङ्क्तोऽग्निः। यावानेवाग्निः । तं चिनुते, इति । लोकंपृणया द्वितीयामुपदधाति । पञ्चपदा वै विराट् । तस्या वा इयं पादः । अन्तरिक्षं पादः । द्यौः पादः । दिशः पादः । परोरजाः पादः, इति । विराज्येव प्रतितिष्ठति । य एतमग्निं चिनुते । य उ चैनमेवं वेद ( ३), इति ।। अस्ति पृणान्तरिक्षं पादः षट्च ।।

jānudaghnīmuttaravedīṃ khātvā | apāṃ pūrayati | apāṃ sarvatvāya, iti | puṣkaraparṇaṃ rukmaṃ puruṣamityupadadhāti | tapo vai puṣkaraparṇam | satyaṃ rukmaḥ| | amṛtaṃ puruṣaḥ | etāvadvāvāsti | yāvadetat | yāvadevāsti ( 1) | tadavarundhe, iti | kūrmamupadadhāti | apāmeva medhamavarundhe | atho svargasya lokasya samaṣṭyai, iti | āpamāpāmapaḥ sarvāḥ | asmādasmādito'mutaḥ | agnirvāyuśca sūryaśca | saha saṃcaskarardhiyā iti | vāyvaśvā raśmipatayaḥ, hati | lokaṃ pṛṇa cchidraṃ pṛṇa ( 2 | yāstisraḥ paramajāḥ, iti | indraghoṣā vo vasubhirevā hyeveti, iti | pañca citaya upadadhāti | pāṅkto'gniḥ| yāvānevāgniḥ | taṃ cinute, iti | lokaṃpṛṇayā dvitīyāmupadadhāti | pañcapadā vai virāṭ | tasyā vā iyaṃ pādaḥ | antarikṣaṃ pādaḥ | dyauḥ pādaḥ | diśaḥ pādaḥ | parorajāḥ pādaḥ, iti | virājyeva pratitiṣṭhati | ya etamagniṃ cinute | ya u cainamevaṃ veda ( 3), iti || asti pṛṇāntarikṣaṃ pādaḥ ṣaṭca ||

Sanskrit only: no published translation is held for this verse.

अग्निं प्रणीयोपसमाधाय । तमभित एता अबीष्टका उपदधाति । अग्निहोत्रे दर्शपूर्णमासयोः । पशुबन्धे चातु र्मास्येषु । अथो आहुः । सर्वेषु यज्ञक्रतुष्विति, इति । अथ ह स्माऽऽहारुणः स्वायंभुवः । सावित्रः सर्वोऽग्निरित्यननुषङ्गं मन्यामहे । नाना वा एतेषां वीर्याणि,इति । कमग्निं चिनुते ( १) । सत्रियमग्निं चिन्वानः । कमग्निं चिनुते । सावित्रमग्निं चिन्वानः । कमग्निं चिनुते । नाचिकेतमग्निं चिन्वानः । कमग्निं चिनुते । चातुर्होत्रियमग्निं चिन्वानः । कमग्निं चिनुते । वैश्वसृजमग्निं चिन्वानः । कमग्निं चिनुते ( २) । उपानुवाक्यमाशुमग्निं चिन्वानः । कमग्निं चिनुते । इममारुणकेतुकमग्निं चिन्वान इति, इति । वृषा वा अग्निः । वृषाणौ सँस्फालयेत् । हन्येतास्य यज्ञः । तस्मान्नानुषज्यः, इति । सोत्तरवेदिषु क्रतुषु चिन्वीत । उत्तरवेद्यां ह्यग्निश्चीयते, इति । प्रजाकामश्चिन्वीत ( ३) । प्राजापत्यो वा एषोऽग्निः । प्राजापत्याः प्रजाः । प्रजावान्भवति । य एवं वेद, इति । पशुकामश्चिन्वीत । संज्ञानं वा एतत्पशूनाम् । यदापः । पशूनामेव संज्ञानेऽग्निं चिनुते । पशु मान्भवति । य एवं वेद ( ४), इति । वृष्टिकामश्चिन्वीत । आपो वै वृष्टिः । पर्जन्यो वर्षुको भवति । य एवं वेद, इति । आमयावी चिन्वीत । आपो वै भेषजम् । भेषजमेवास्मै करोति । सर्वमायुरेति, इति । अभिचरँश्चिन्वीत । वज्रो वा आपः ( ५) । वज्रमेव भ्रातृव्येभ्यः प्रहरति । स्तृणुत एनम्, इति । तेजस्काम्रो यशस्कामः । ब्रह्मवर्चसकामः स्वर्गकामश्चिन्वीत । एतावद्वावास्ति । यावदेतत् । यावदेवास्ति । तदवरुन्धे, इति । तस्यैतद्व्रतम् । वर्षति न धावेत् (६) अमृतं वा आपः । अमृतस्यानन्तरित्यै, इति । नाप्सु मूत्रपुरीषं कुर्यात् । न निष्ठीवेत् । न विवसनः स्नायात् । गुह्यो वा एषोऽग्निः । एतस्याग्नेरनतिदाहाय, इति । न पुष्करपर्णानि हिरण्यं वाऽधितिष्ठेत् । एतस्याग्नेरनभ्यारोहाय, इति । न कूर्मस्याश्नीयात् । नोदकस्याघातुकान्येन मोदकानि भवन्ति । अघातुका आपः । य एतमग्निं चिनुते । य उ चैनमेवं वेद (७), इति । चिनुते चिनुते प्रजाकामश्चिन्वीत य एवं वेदाऽऽपो धावेदश्नीयाच्चत्वारि च ।।

agniṃ praṇīyopasamādhāya | tamabhita etā abīṣṭakā upadadhāti | agnihotre darśapūrṇamāsayoḥ | paśubandhe cātu rmāsyeṣu | atho āhuḥ | sarveṣu yajñakratuṣviti, iti | atha ha smā''hāruṇaḥ svāyaṃbhuvaḥ | sāvitraḥ sarvo'gnirityananuṣaṅgaṃ manyāmahe | nānā vā eteṣāṃ vīryāṇi,iti | kamagniṃ cinute ( 1) | satriyamagniṃ cinvānaḥ | kamagniṃ cinute | sāvitramagniṃ cinvānaḥ | kamagniṃ cinute | nāciketamagniṃ cinvānaḥ | kamagniṃ cinute | cāturhotriyamagniṃ cinvānaḥ | kamagniṃ cinute | vaiśvasṛjamagniṃ cinvānaḥ | kamagniṃ cinute ( 2) | upānuvākyamāśumagniṃ cinvānaḥ | kamagniṃ cinute | imamāruṇaketukamagniṃ cinvāna iti, iti | vṛṣā vā agniḥ | vṛṣāṇau sa~sphālayet | hanyetāsya yajñaḥ | tasmānnānuṣajyaḥ, iti | sottaravediṣu kratuṣu cinvīta | uttaravedyāṃ hyagniścīyate, iti | prajākāmaścinvīta ( 3) | prājāpatyo vā eṣo'gniḥ | prājāpatyāḥ prajāḥ | prajāvānbhavati | ya evaṃ veda, iti | paśukāmaścinvīta | saṃjñānaṃ vā etatpaśūnām | yadāpaḥ | paśūnāmeva saṃjñāne'gniṃ cinute | paśu mānbhavati | ya evaṃ veda ( 4), iti | vṛṣṭikāmaścinvīta | āpo vai vṛṣṭiḥ | parjanyo varṣuko bhavati | ya evaṃ veda, iti | āmayāvī cinvīta | āpo vai bheṣajam | bheṣajamevāsmai karoti | sarvamāyureti, iti | abhicara~ścinvīta | vajro vā āpaḥ ( 5) | vajrameva bhrātṛvyebhyaḥ praharati | stṛṇuta enam, iti | tejaskāmro yaśaskāmaḥ | brahmavarcasakāmaḥ svargakāmaścinvīta | etāvadvāvāsti | yāvadetat | yāvadevāsti | tadavarundhe, iti | tasyaitadvratam | varṣati na dhāvet (6) amṛtaṃ vā āpaḥ | amṛtasyānantarityai, iti | nāpsu mūtrapurīṣaṃ kuryāt | na niṣṭhīvet | na vivasanaḥ snāyāt | guhyo vā eṣo'gniḥ | etasyāgneranatidāhāya, iti | na puṣkaraparṇāni hiraṇyaṃ vā'dhitiṣṭhet | etasyāgneranabhyārohāya, iti | na kūrmasyāśnīyāt | nodakasyāghātukānyena modakāni bhavanti | aghātukā āpaḥ | ya etamagniṃ cinute | ya u cainamevaṃ veda (7), iti | cinute cinute prajākāmaścinvīta ya evaṃ vedā''po dhāvedaśnīyāccatvāri ca ||

Sanskrit only: no published translation is held for this verse.

इमा नु कं भुवना सीषधेम । इन्द्रश्च विश्वे च देवाः इति । यज्ञं च नः स्तन्व च प्रजां च । आदित्यैरिन्द्रः सह सीषधातु, इति । आदिरत्यैरिन्द्रः सगणो मरुद्भिः । अस्माकं भूत्वविता तनूनाम्, इति । आप्लवस्व प्रप्लवस्व । आण्डी भव ज मा मुहुः । सुखादीं दुःखनिधनाम् । प्रतिमुञ्चस्व स्वां पुरम् ( १) इति । मरीचयः स्वायंभुवाः । ये शरीराण्यकल्पयन् । ते ते देहं कल्पयन्तु । मा च ते ख्या स्म तीरिषत्, इति । उत्तिष्ठत मा स्वप्त । अग्निमिच्छध्वं भारताः । राज्ञः सोमस्य तृप्तासः । सूर्येण सुयुजोषसः इति । युवा सुवासाः, इति । अष्टाचक्रा नवद्वारा ( २) । देवानां पूर-योध्या । तस्याँ हिरण्मयः कोशः । स्वर्गो लोको ज्योतिषाऽऽवृतः, इति । यो वै तां ब्रह्मणो वेद । अमृतेनाऽऽवृतां पुरीम् । तस्मै ब्रह्म च ब्रह्मा च । आयुः कीर्तिं प्रजां ददुः, इति । विभ्राजमानाँ हरिणीम् । यशसा संपरीवृताम् । पुरँ हिरण्मयीं ब्रह्मा ( ३) । विवेशापराजिता, इति । पराङेत्यज्यामयी । पराङेत्यनाशकी । इह चामुत्र चान्वेति । विद्वान्देवासुरानुभयान्, इति । यत्कुमारी मन्द्रयते । यद्योषिद्यत्पतिव्रता । अरिष्टं यत्किंच क्रियते । अग्निस्तदनुवेधति, इति । अशृतासः शृतासश्च ( ४) । यज्वानो येऽप्ययज्वनः । स्वर्यन्तो नापेक्षन्ते । इन्द्रमग्निं च ये विदुः, इति । सिकता इव संयन्ति । रश्मिभिः समुदीरिताः । अस्माल्लोकादमुष्माच्च । ऋषिभिरदात्पृश्निभिः, इति । अपेत वीत वि च सर्पतातः । येऽत्र स्थ पुराणा ये च नूतनाः । अहोभिरद्भिरक्तुभिर्व्यक्तम् । ( ५) । यमो ददात्ववसानमस्मै, इति । नृ मुणन्तु नृ पात्वर्यः । अक्रृष्टा ये च कृष्टजाः । कुमारीषु कनीनीषु । जारिणीषु च ये हिताः, इति । रेतःपीता आण्डपीताः । अङ्गारेषु च ये हुताः । उभयान्पुत्रपौत्रकान् । युवेऽहं यमराजगान्, इति । शतमिन्नु शरदः, इति अदो यद्ब्रह्म विलबम् । पितृणां च यमस्य च । वरुणस्याश्विनोरग्नेः । मरुतां च विहायसाम्, इति । कामप्रयवणं मे अस्तु । स ह्येवास्मि सनातनः । इति नाको ब्रह्मिश्रवो रायो धनम । पुत्रानापो देवीरिहाऽऽहिता ( ६), इति ।। पुरं नवद्वारा ब्रह्मा च व्यक्तँ शरदोऽष्टौ च ।।

imā nu kaṃ bhuvanā sīṣadhema | indraśca viśve ca devāḥ iti | yajñaṃ ca naḥ stanva ca prajāṃ ca | ādityairindraḥ saha sīṣadhātu, iti | ādiratyairindraḥ sagaṇo marudbhiḥ | asmākaṃ bhūtvavitā tanūnām, iti | āplavasva praplavasva | āṇḍī bhava ja mā muhuḥ | sukhādīṃ duḥkhanidhanām | pratimuñcasva svāṃ puram ( 1) iti | marīcayaḥ svāyaṃbhuvāḥ | ye śarīrāṇyakalpayan | te te dehaṃ kalpayantu | mā ca te khyā sma tīriṣat, iti | uttiṣṭhata mā svapta | agnimicchadhvaṃ bhāratāḥ | rājñaḥ somasya tṛptāsaḥ | sūryeṇa suyujoṣasaḥ iti | yuvā suvāsāḥ, iti | aṣṭācakrā navadvārā ( 2) | devānāṃ pūra-yodhyā | tasyā~ hiraṇmayaḥ kośaḥ | svargo loko jyotiṣā''vṛtaḥ, iti | yo vai tāṃ brahmaṇo veda | amṛtenā''vṛtāṃ purīm | tasmai brahma ca brahmā ca | āyuḥ kīrtiṃ prajāṃ daduḥ, iti | vibhrājamānā~ hariṇīm | yaśasā saṃparīvṛtām | pura~ hiraṇmayīṃ brahmā ( 3) | viveśāparājitā, iti | parāṅetyajyāmayī | parāṅetyanāśakī | iha cāmutra cānveti | vidvāndevāsurānubhayān, iti | yatkumārī mandrayate | yadyoṣidyatpativratā | ariṣṭaṃ yatkiṃca kriyate | agnistadanuvedhati, iti | aśṛtāsaḥ śṛtāsaśca ( 4) | yajvāno ye'pyayajvanaḥ | svaryanto nāpekṣante | indramagniṃ ca ye viduḥ, iti | sikatā iva saṃyanti | raśmibhiḥ samudīritāḥ | asmāllokādamuṣmācca | ṛṣibhiradātpṛśnibhiḥ, iti | apeta vīta vi ca sarpatātaḥ | ye'tra stha purāṇā ye ca nūtanāḥ | ahobhiradbhiraktubhirvyaktam | ( 5) | yamo dadātvavasānamasmai, iti | nṛ muṇantu nṛ pātvaryaḥ | akrṛṣṭā ye ca kṛṣṭajāḥ | kumārīṣu kanīnīṣu | jāriṇīṣu ca ye hitāḥ, iti | retaḥpītā āṇḍapītāḥ | aṅgāreṣu ca ye hutāḥ | ubhayānputrapautrakān | yuve'haṃ yamarājagān, iti | śataminnu śaradaḥ, iti ado yadbrahma vilabam | pitṛṇāṃ ca yamasya ca | varuṇasyāśvinoragneḥ | marutāṃ ca vihāyasām, iti | kāmaprayavaṇaṃ me astu | sa hyevāsmi sanātanaḥ | iti nāko brahmiśravo rāyo dhanama | putrānāpo devīrihā''hitā ( 6), iti || puraṃ navadvārā brahmā ca vyakta~ śarado'ṣṭau ca ||

Sanskrit only: no published translation is held for this verse.

विशीर्ष्णी गृध्रशीर्ष्णी च । अपेतो निर्ऋतिँ हथः । परिबाधँ श्वेतकुक्षम् । निजङ्घँ शबलोदरम्,इति । स तान्वाच्यायया सह । अग्ने नाशय संदृशः । ईर्ष्यासूये बुभुक्षाम् । मन्युं कृत्यां च दीधिरे । रथेन किँक्षुकावता । अग्ने नाशय संदृशः ( १), इति । इति कृष्णयजुर्वेदीय तैत्तिरीयारण्यके प्रथमप्रपाठकेऽष्टाविंशोऽनुवाकः ।। २८ ।। 1.28

viśīrṣṇī gṛdhraśīrṣṇī ca | apeto nirṛti~ hathaḥ | paribādha~ śvetakukṣam | nijaṅgha~ śabalodaram,iti | sa tānvācyāyayā saha | agne nāśaya saṃdṛśaḥ | īrṣyāsūye bubhukṣām | manyuṃ kṛtyāṃ ca dīdhire | rathena ki~kṣukāvatā | agne nāśaya saṃdṛśaḥ ( 1), iti | iti kṛṣṇayajurvedīya taittirīyāraṇyake prathamaprapāṭhake'ṣṭāviṃśo'nuvākaḥ || 28 || 1.28

Sanskrit only: no published translation is held for this verse.

पर्जन्याय प्रगायत । दिवस्पुत्राय मीढुषे । स नो यवसमिच्छतु, इति । इदं वचः पर्जन्याय स्वराजे । हृदो अस्त्वन्तरं तद्युयोत । मयोभूर्वातो विश्वकृष्टयः सन्त्वस्मे । सुपिप्पला ओषधीर्देवगोपाः,इति । यो गर्भमोषधीनाम् । गवां कृणोत्यर्वताम् । पर्जन्यः पुरुषीणाम् ( १), इति ।। विशीर्ष्णी पर्जन्याय दश दश ।।

parjanyāya pragāyata | divasputrāya mīḍhuṣe | sa no yavasamicchatu, iti | idaṃ vacaḥ parjanyāya svarāje | hṛdo astvantaraṃ tadyuyota | mayobhūrvāto viśvakṛṣṭayaḥ santvasme | supippalā oṣadhīrdevagopāḥ,iti | yo garbhamoṣadhīnām | gavāṃ kṛṇotyarvatām | parjanyaḥ puruṣīṇām ( 1), iti || viśīrṣṇī parjanyāya daśa daśa ||

Sanskrit only: no published translation is held for this verse.

पुनर्मामैत्विन्द्रियम् । पुनरायुः पुनर्भगः । पुनर्ब्राह्मणमैतु मा । पुनर्द्रविणमैतु मा, इति । यन्मेऽद्य रेतः पृथिवीमस्कान् । यदोषधीरप्यसरद्यदापः । इदं तत्पुनराददे । दीर्घायुत्वाय वर्चसे, इति । यन्मे रेतः प्रसिच्यते । यन्म आजायते पुनः । तेन माममृतं कुरु । तेन सुप्रजसं कुरु (१), इति । पुनर्द्वे च ।।

punarmāmaitvindriyam | punarāyuḥ punarbhagaḥ | punarbrāhmaṇamaitu mā | punardraviṇamaitu mā, iti | yanme'dya retaḥ pṛthivīmaskān | yadoṣadhīrapyasaradyadāpaḥ | idaṃ tatpunarādade | dīrghāyutvāya varcase, iti | yanme retaḥ prasicyate | yanma ājāyate punaḥ | tena māmamṛtaṃ kuru | tena suprajasaṃ kuru (1), iti | punardve ca ||

Sanskrit only: no published translation is held for this verse.

अद्भ्यस्तिरोधाऽजायत । तव वैश्रवणः सदा । तिरो धेहि सपत्नान्नः । ये अपोऽश्नन्ति केचन, इति । त्वाष्ट्री मायां वैश्रवणः । रथँ सहस्रवन्धुरम् । पुरश्चक्रँ सहस्राश्वम् । आस्थायाऽऽयाहि नो बलिम्, इति । यस्मै भूतानि बलिमावहन्ति । धनं गावो हस्तिहिण्यमश्वान् ( १) । असाम सुमतौ यज्ञियस्य । श्रियं बिभ्रतोऽन्नमुखीं विराजम्, इति । सुदर्शने च क्रौञ्चे च। मैनागे च महागिरौ । सतद्वाट्टारगमन्ता । सँहार्यं नगरं तव, इति । इति मन्त्राः । कल्पोऽत ऊर्ध्वम्, इति । यदि बलिँ हरेत् । हिरण्यनाभये वितुदये कौबेरायायं बलिः(२)। सर्वभूताधिपतये नम इति । अथ बलिँ हृत्वोपतिष्ठेत, इति । क्षत्त्रं क्षत्त्रं वैश्रवणः । ब्राह्मणा वयँ स्मः । नमस्ते अस्तु मा मा हिँसीः । अस्मात्प्रविश्यान्नमद्धीति, इति । अथ तमग्निमादधीत । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः । तिरोधा भुवः ( ३) । तिरोधा स्वः । तिरोधा भूर्भुवः स्वः । सर्वेषां लोकानामाधिपत्ये सीदेति, इति । अथ तमग्निमिन्धति । यस्मिन्नेतत्कर्म प्रयुञ्जीत, इति । तिरोधा भूः स्वाहा । तिरोधा भुवः स्वाहा । तिरोधा स्वः स्वाहा । तिरोधा भूर्भुवः स्वः स्वाहा, इति । यस्मिन्नस्य काले सर्वा आहुतीर्हुता भवेयुः (४) । अपि ब्राह्मणमुखीनाः । तस्मिन्नह्नः काले प्रयुञ्जीत । परः सुप्तजनाद्वेपि, इति । मा स्म प्रमाद्यन्तमाध्यापयेत् । सर्वार्थाः सिध्यन्ते । य एवं वेद् । क्षुध्यन्निदमजानताम् । सर्वार्था न सिध्यन्ते, इति । यस्ते विघातुको भ्राता । ममान्तर्हृदय्रे श्रितः ( ५) । तस्मा इममग्रपिण्डं जुहोमि । स मेऽर्थान्मा विवधीत् । मयि स्वाहा, इति । राजाधिराजाय प्रसह्यसाहिने । नमो वयं वैश्रवणाय कुर्महे । स मे कामान्कामकामाय मह्यम् । कामेश्वरो वैश्रवणो ददातु । कुबेराय वैश्रवणाय । महाराजाय नमः । केतवो अरुणासश्च । ऋषयो वातरशनाः । प्रतिष्ठाँ शतधा हि । समाहितासो सहस्र- धायसम् । शिवा नः शंतमा भवन्तु । दिव्या आप ओषधयः । सुमृडीका सरस्वति । मा ते व्योम संदृशि ( ६) इति ।। अश्वान्बलिर्भुवो भवेयुः श्रितश्च सप्त च ।।

adbhyastirodhā'jāyata | tava vaiśravaṇaḥ sadā | tiro dhehi sapatnānnaḥ | ye apo'śnanti kecana, iti | tvāṣṭrī māyāṃ vaiśravaṇaḥ | ratha~ sahasravandhuram | puraścakra~ sahasrāśvam | āsthāyā''yāhi no balim, iti | yasmai bhūtāni balimāvahanti | dhanaṃ gāvo hastihiṇyamaśvān ( 1) | asāma sumatau yajñiyasya | śriyaṃ bibhrato'nnamukhīṃ virājam, iti | sudarśane ca krauñce ca| maināge ca mahāgirau | satadvāṭṭāragamantā | sa~hāryaṃ nagaraṃ tava, iti | iti mantrāḥ | kalpo'ta ūrdhvam, iti | yadi bali~ haret | hiraṇyanābhaye vitudaye kauberāyāyaṃ baliḥ(2)| sarvabhūtādhipataye nama iti | atha bali~ hṛtvopatiṣṭheta, iti | kṣattraṃ kṣattraṃ vaiśravaṇaḥ | brāhmaṇā vaya~ smaḥ | namaste astu mā mā hi~sīḥ | asmātpraviśyānnamaddhīti, iti | atha tamagnimādadhīta | yasminnetatkarma prayuñjīta, iti | tirodhā bhūḥ | tirodhā bhuvaḥ ( 3) | tirodhā svaḥ | tirodhā bhūrbhuvaḥ svaḥ | sarveṣāṃ lokānāmādhipatye sīdeti, iti | atha tamagnimindhati | yasminnetatkarma prayuñjīta, iti | tirodhā bhūḥ svāhā | tirodhā bhuvaḥ svāhā | tirodhā svaḥ svāhā | tirodhā bhūrbhuvaḥ svaḥ svāhā, iti | yasminnasya kāle sarvā āhutīrhutā bhaveyuḥ (4) | api brāhmaṇamukhīnāḥ | tasminnahnaḥ kāle prayuñjīta | paraḥ suptajanādvepi, iti | mā sma pramādyantamādhyāpayet | sarvārthāḥ sidhyante | ya evaṃ ved | kṣudhyannidamajānatām | sarvārthā na sidhyante, iti | yaste vighātuko bhrātā | mamāntarhṛdayre śritaḥ ( 5) | tasmā imamagrapiṇḍaṃ juhomi | sa me'rthānmā vivadhīt | mayi svāhā, iti | rājādhirājāya prasahyasāhine | namo vayaṃ vaiśravaṇāya kurmahe | sa me kāmānkāmakāmāya mahyam | kāmeśvaro vaiśravaṇo dadātu | kuberāya vaiśravaṇāya | mahārājāya namaḥ | ketavo aruṇāsaśca | ṛṣayo vātaraśanāḥ | pratiṣṭhā~ śatadhā hi | samāhitāso sahasra- dhāyasam | śivā naḥ śaṃtamā bhavantu | divyā āpa oṣadhayaḥ | sumṛḍīkā sarasvati | mā te vyoma saṃdṛśi ( 6) iti || aśvānbalirbhuvo bhaveyuḥ śritaśca sapta ca ||

Sanskrit only: no published translation is held for this verse.

संवत्सरमेतद्व्रतं चरेत् । द्वौ वा मासौ, इति । नियमः समासेन, इति । तस्मिन्नियमविशेषाः । त्रिषवणमुदकोपस्पर्शी । चतुर्थकालपानभक्तः स्यात् । अहरहर्वा भैक्षमश्नीयात् । औदुम्बरीभिः समिद्भिरग्निं परिचरेत् । पुनर्मा मैत्विन्द्रियमित्येतेनानुवाकेन । उद्धृतपरिपूताभिरद्भिः कार्यं कुर्वीत ( १) । असंचयवान् । अग्नये वायवे सूर्याय । ब्रह्मणे प्रजापतये । चन्द्रमसे नक्षत्रेभ्यः । ऋतुभ्यः संवत्सराय । वरुणायारुणायेति व्रतहोमाः । प्रवर्ग्यवदादेशः । अरुणाः काण्ड ऋषयः, इति । अरण्येऽधीयीरन् । भद्रं कर्णेभिरिति द्वे जपित्वा ( २) । महानाम्नीभिरुदकँ सँस्पर्श्य । तमाचार्यो दद्यात् । शिवा नः शंतमेत्योषधीरालभते । सुमृडीकेति भूमिम् । एवमपवर्गे । धेनुर्दक्षिणा । कँसं वासश्च क्षौमम् । अन्यद्वा शुक्लम् । यथाशक्ति वा । एवँ स्वाध्यायधर्मेण । अरण्येऽधीयीत । तपस्वी पुण्यो भवति तपस्वी पुण्यो भवति ( ३), इति ।। कुर्वीत जपित्वा स्वाध्यायधर्मेण द्वे च ।। अथ शान्तिः भद्रं कर्णेभिः शृणुयाम देवाः। भद्रं पश्येमाक्षभिर्यजत्राः । स्थिरैरङ्गैस्तुष्टुवाँसस्तनूभिः । व्यशेम देव हितं यदायुः ।। स्वस्ति न इन्द्रो वृद्धश्रवाः । स्वस्ति नः पूषा विश्व-वेदाः । स्वस्ति नस्तार्क्ष्यो अरिष्टनेमिः । स्वस्ति नो बृहस्पतिर्दधातु ।। ॐ शान्तिः शान्तिः शान्तिः । अथ कृष्णयजुर्वेदीय तैत्तिरीयारण्यके द्वितीयः प्रपाठकः । हरिः ॐ । नमो ब्रह्मणे नमो अस्त्वग्नये नमः पृथिव्यै नम ओषधीभ्यः । नमो वाचे नमो वाचस्पतये नमो विष्णवे बृहते करोमि ।। ॐ शान्तिः शान्तिः शान्तिः ।।

saṃvatsarametadvrataṃ caret | dvau vā māsau, iti | niyamaḥ samāsena, iti | tasminniyamaviśeṣāḥ | triṣavaṇamudakopasparśī | caturthakālapānabhaktaḥ syāt | aharaharvā bhaikṣamaśnīyāt | audumbarībhiḥ samidbhiragniṃ paricaret | punarmā maitvindriyamityetenānuvākena | uddhṛtaparipūtābhiradbhiḥ kāryaṃ kurvīta ( 1) | asaṃcayavān | agnaye vāyave sūryāya | brahmaṇe prajāpataye | candramase nakṣatrebhyaḥ | ṛtubhyaḥ saṃvatsarāya | varuṇāyāruṇāyeti vratahomāḥ | pravargyavadādeśaḥ | aruṇāḥ kāṇḍa ṛṣayaḥ, iti | araṇye'dhīyīran | bhadraṃ karṇebhiriti dve japitvā ( 2) | mahānāmnībhirudaka~ sa~sparśya | tamācāryo dadyāt | śivā naḥ śaṃtametyoṣadhīrālabhate | sumṛḍīketi bhūmim | evamapavarge | dhenurdakṣiṇā | ka~saṃ vāsaśca kṣaumam | anyadvā śuklam | yathāśakti vā | eva~ svādhyāyadharmeṇa | araṇye'dhīyīta | tapasvī puṇyo bhavati tapasvī puṇyo bhavati ( 3), iti || kurvīta japitvā svādhyāyadharmeṇa dve ca || atha śāntiḥ bhadraṃ karṇebhiḥ śṛṇuyāma devāḥ| bhadraṃ paśyemākṣabhiryajatrāḥ | sthirairaṅgaistuṣṭuvā~sastanūbhiḥ | vyaśema deva hitaṃ yadāyuḥ || svasti na indro vṛddhaśravāḥ | svasti naḥ pūṣā viśva-vedāḥ | svasti nastārkṣyo ariṣṭanemiḥ | svasti no bṛhaspatirdadhātu || oṃ śāntiḥ śāntiḥ śāntiḥ | atha kṛṣṇayajurvedīya taittirīyāraṇyake dvitīyaḥ prapāṭhakaḥ | hariḥ oṃ | namo brahmaṇe namo astvagnaye namaḥ pṛthivyai nama oṣadhībhyaḥ | namo vāce namo vācaspataye namo viṣṇave bṛhate karomi || oṃ śāntiḥ śāntiḥ śāntiḥ ||

Sanskrit only: no published translation is held for this verse.