तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत्पर्णोऽभवत् । तत्पर्णस्य पर्णत्वम् । ब्रह्म वै पर्णः । यत्पर्णशाखया वत्सानपाकरोति । ब्रह्मणैवैनानपाकरोति । गायत्रो वै पर्णः । गायत्राः पशवः १
तस्मात्त्रीणित्रीणि पर्णस्य पलाशानि । त्रिपदा गायत्री ।यत्पर्णशखया गाः प्रार्पयति । स्वयैवैना देवतया प्रार्पयति । यं कामयेतापशुः स्यादिति । अपर्णां तस्मै शुष्काग्रामाहरेत् । अपशुरेव भवति । यं कामयेत पशुमान्त्स्यादिति । बहुपर्णां तस्मै बहुशाखामाहरेत् । पशुमन्तमेवैनं करोति २
यत्प्राचीमाहरेत् । देवलोकमभिजयेत् । यदुदीचीं मनुष्यलोकम् । प्राचीमुदीचीमाहरति । उभयोर्लोकयोरभिजित्यै । इषे त्वोर्जे त्वेत्याह । इषमेवोर्जं यजमाने दधाति । वायवः स्थेत्याह । वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः ३
वायव एवैनान्परिददाति । प्र वा एनानेतदाकरोति । यदाह । वायवः स्थेत्युपायवः स्थेत्याह । यजमानायैव पशूनुपह्वयते । देवो वः सविता प्रार्पयत्वित्याह प्रसूत्यै । श्रेष्ठतमाय कर्मण इत्याह । यज्ञो हि श्रेष्ठतमं कर्म । तस्मादेवमाह । आप्यायध्वमघ्निया देवभागमित्याह ४
वत्सेभ्यश्च वा एताः पुरा मौष्येभ्यश्चाप्यायन्त । देवेभ्य एवैना इन्द्रायाप्यायति । ऊर्जस्वतीः पयस्वतीरित्याह । ऊर्जꣳ हि पयः संभरन्ति । प्रजावतीरनमीवा अयक्ष्मा इत्याह प्रजात्यै । मा वः स्तेन ईशत माघशꣳस इत्याह गुप्त्यै । रुद्र स्य हेतिः परि वो वृणक्त्वित्याह । रुद्रा देवैनास्त्रायते । ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरित्याह । ध्रुवा एवास्मिन्बह्वीः करोति ५
यजमानस्य पशून्पाहीत्याह । पशूनां गोपीथाय । तस्मात्सायं पशव उप समावर्तन्ते । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ६
tṛtīyasyāmito divi soma āsīt | taṃ gāyatryāharat | tasya parṇamacchidyata | tatparṇo'bhavat | tatparṇasya parṇatvam | brahma vai parṇaḥ | yatparṇaśākhayā vatsānapākaroti | brahmaṇaivainānapākaroti | gāyatro vai parṇaḥ | gāyatrāḥ paśavaḥ 1
tasmāttrīṇitrīṇi parṇasya palāśāni | tripadā gāyatrī |yatparṇaśakhayā gāḥ prārpayati | svayaivainā devatayā prārpayati | yaṃ kāmayetāpaśuḥ syāditi | aparṇāṃ tasmai śuṣkāgrāmāharet | apaśureva bhavati | yaṃ kāmayeta paśumāntsyāditi | bahuparṇāṃ tasmai bahuśākhāmāharet | paśumantamevainaṃ karoti 2
yatprācīmāharet | devalokamabhijayet | yadudīcīṃ manuṣyalokam | prācīmudīcīmāharati | ubhayorlokayorabhijityai | iṣe tvorje tvetyāha | iṣamevorjaṃ yajamāne dadhāti | vāyavaḥ sthetyāha | vāyurvā antarikṣasyādhyakṣāḥ | antarikṣadevatyāḥ khalu vai paśavaḥ 3
vāyava evainānparidadāti | pra vā enānetadākaroti | yadāha | vāyavaḥ sthetyupāyavaḥ sthetyāha | yajamānāyaiva paśūnupahvayate | devo vaḥ savitā prārpayatvityāha prasūtyai | śreṣṭhatamāya karmaṇa ityāha | yajño hi śreṣṭhatamaṃ karma | tasmādevamāha | āpyāyadhvamaghniyā devabhāgamityāha 4
vatsebhyaśca vā etāḥ purā mauṣyebhyaścāpyāyanta | devebhya evainā indrāyāpyāyati | ūrjasvatīḥ payasvatīrityāha | ūrjam̐ hi payaḥ saṃbharanti | prajāvatīranamīvā ayakṣmā ityāha prajātyai | mā vaḥ stena īśata māghaśam̐sa ityāha guptyai | rudra sya hetiḥ pari vo vṛṇaktvityāha | rudrā devaināstrāyate | dhruvā asmingopatau syāta bahvīrityāha | dhruvā evāsminbahvīḥ karoti 5
yajamānasya paśūnpāhītyāha | paśūnāṃ gopīthāya | tasmātsāyaṃ paśava upa samāvartante | anadhaḥ sādayati | garbhāṇāṃ dhṛtyā aprapādāya | tasmādgarbhāḥ prajānāmaprapādukāḥ | uparīva nidadhāti | uparīva hi suvargo lokaḥ | suvargasya lokasya samaṣṭyai 6
Sanskrit only: no published translation is held for this verse.
देवस्य त्वा सवितुः प्रसव इत्यश्वपर्शुमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । यो वा ओषधीः पर्वशो वेद । नैनाः स हिनस्ति । प्रजापतिर्वा ओषधीः पर्वशो वेद । स एना न हिनस्ति अश्वपर्श्वा बर्हिरच्छैति । प्राजापत्यो वा अश्वः सयोनित्वाय १
ओषधीनामहिꣳसायै । यज्ञस्य घोषदसीत्याह । यजमान एव रयिं दधाति । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । प्रेयमगाद्धिषणा बर्हिरच्छेत्याह । विद्या वै धिषणा । विद्ययैवैनदच्छैति । मनुना कृता स्वधया वितष्टेत्याह । मानवी हि पर्शुः स्वधाकृता २
त आवहन्ति कवयः पुरस्तादित्याह । शुश्रुवाꣳसो वै कवयः । यज्ञः पुरस्तात् । मुखत एव यज्ञमारभते । अथो यदेतदुक्त्वा यतः कुतश्चाहरति । तत्प्राच्या एव दिशो भवति । देवेभ्यो जुष्टमिह बर्हिरासद इत्याह । बर्हिषः समृद्ध्यै । कर्मणोऽनपराधाय । देवानां परिषूतमसीत्याह ३
यद्वा इदं किं च । तद्देवानां परिषूतम् । अथो यथा वस्यसे प्रतिप्रोच्याहेदं करिष्यामीति । एवमेव तदध्वर्युर्देवेभ्यः प्रतिप्रोच्य बर्हिर्दाति । आत्म-नोऽहिꣳसायै । यावतः स्तम्बान्परिदिशेत् । यत्तेषामुच्छिꣳष्यात् । अति तद्य-ज्ञस्य रेचयेत् । एकꣳ ँ! स्तम्बं परिदिशेत् । तꣳ सर्वं दायात् ४
यज्ञस्यानतिरेकाय । वर्षवृद्धमसीत्याह । वर्षवृद्धा वा ओषधयः । देवबर्हिरित्याह । देवेभ्य एवैनत्करोति । मा त्वान्वङ्मा तिर्यगित्याहाहिꣳसायै । पर्व ते राध्यासमित्याहर्ध्यै । आच्छेत्ता ते मा रिषमित्याह । नास्यात्मनो मीयते । य एवं वेद ५
देव बर्हिश्शतवल्शं विरोहेत्याह । प्रजा वै बर्हिः । प्रजानां प्रजननाय । सहस्रवल्शा वि वयꣳ रुहेमेत्याह । आशिषमेवैतामाशास्ते । पृथिव्याः संपृचः पाहीत्याह प्रतिष्ठित्यै । अयुं गायुं गान्मुष्टीꣳल्लुनोति । मिथुनत्वाय प्रजात्यै । सुसंभृता त्वा संभरामीत्याह । ब्रह्मणैवैनत्संभरति ६
अदित्यै रास्नासीत्याह । इयं वा अदितिः । अस्या एवैनद्रा स्नां करोति । इन्द्रा ण्यै संनहनमित्याह । इन्द्रा णी वा अग्रे देवतानाꣳ समनह्यत । सार्ध्नोत् । ऋद्ध्यै संनह्यति । प्रजा वै बर्हिः । प्रजानामपरावापाय । तस्मात्स्नावसंतताः प्रजा जायन्ते ७
पूषा ते ग्रन्थिं ग्रथ्नात्वित्याह । पुष्टिमेव यजमाने दधाति । स ते मा स्थादित्याहाहिꣳसायै । पश्चात्प्राञ्चमुपगूहति । पश्चाद्वै प्राचीनꣳ रेतो धीयते । पश्चादेवास्मै प्राचीनꣳ रेतो दधाति । इन्द्र स्य त्वा बाहुभ्यामुद्यच्छ इत्याह । इन्द्रियमेव यजमाने दधाति । बृहस्पतेर्मूर्ध्ना हरामीत्याह । ब्रह्म वै देवानां बृहस्पतिः ८
ब्रह्मणैवैनद्धरति । उर्वन्तरिक्षमन्विहीत्याह गत्यै । देवंगममसीत्याह । देवानेवैनद्गमयति । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ९
devasya tvā savituḥ prasava ityaśvaparśumādatte prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | yo vā oṣadhīḥ parvaśo veda | naināḥ sa hinasti | prajāpatirvā oṣadhīḥ parvaśo veda | sa enā na hinasti aśvaparśvā barhiracchaiti | prājāpatyo vā aśvaḥ sayonitvāya 1
oṣadhīnāmahim̐sāyai | yajñasya ghoṣadasītyāha | yajamāna eva rayiṃ dadhāti | pratyuṣṭam̐ rakṣaḥ pratyuṣṭā arātaya ityāha | rakṣasāmapahatyai | preyamagāddhiṣaṇā barhiracchetyāha | vidyā vai dhiṣaṇā | vidyayaivainadacchaiti | manunā kṛtā svadhayā vitaṣṭetyāha | mānavī hi parśuḥ svadhākṛtā 2
ta āvahanti kavayaḥ purastādityāha | śuśruvām̐so vai kavayaḥ | yajñaḥ purastāt | mukhata eva yajñamārabhate | atho yadetaduktvā yataḥ kutaścāharati | tatprācyā eva diśo bhavati | devebhyo juṣṭamiha barhirāsada ityāha | barhiṣaḥ samṛddhyai | karmaṇo'naparādhāya | devānāṃ pariṣūtamasītyāha 3
yadvā idaṃ kiṃ ca | taddevānāṃ pariṣūtam | atho yathā vasyase pratiprocyāhedaṃ kariṣyāmīti | evameva tadadhvaryurdevebhyaḥ pratiprocya barhirdāti | ātma-no'him̐sāyai | yāvataḥ stambānparidiśet | yatteṣāmucchim̐ṣyāt | ati tadya-jñasya recayet | ekam̐ ~! stambaṃ paridiśet | tam̐ sarvaṃ dāyāt 4
yajñasyānatirekāya | varṣavṛddhamasītyāha | varṣavṛddhā vā oṣadhayaḥ | devabarhirityāha | devebhya evainatkaroti | mā tvānvaṅmā tiryagityāhāhim̐sāyai | parva te rādhyāsamityāhardhyai | ācchettā te mā riṣamityāha | nāsyātmano mīyate | ya evaṃ veda 5
deva barhiśśatavalśaṃ virohetyāha | prajā vai barhiḥ | prajānāṃ prajananāya | sahasravalśā vi vayam̐ ruhemetyāha | āśiṣamevaitāmāśāste | pṛthivyāḥ saṃpṛcaḥ pāhītyāha pratiṣṭhityai | ayuṃ gāyuṃ gānmuṣṭīm̐llunoti | mithunatvāya prajātyai | susaṃbhṛtā tvā saṃbharāmītyāha | brahmaṇaivainatsaṃbharati 6
adityai rāsnāsītyāha | iyaṃ vā aditiḥ | asyā evainadrā snāṃ karoti | indrā ṇyai saṃnahanamityāha | indrā ṇī vā agre devatānām̐ samanahyata | sārdhnot | ṛddhyai saṃnahyati | prajā vai barhiḥ | prajānāmaparāvāpāya | tasmātsnāvasaṃtatāḥ prajā jāyante 7
pūṣā te granthiṃ grathnātvityāha | puṣṭimeva yajamāne dadhāti | sa te mā sthādityāhāhim̐sāyai | paścātprāñcamupagūhati | paścādvai prācīnam̐ reto dhīyate | paścādevāsmai prācīnam̐ reto dadhāti | indra sya tvā bāhubhyāmudyaccha ityāha | indriyameva yajamāne dadhāti | bṛhaspatermūrdhnā harāmītyāha | brahma vai devānāṃ bṛhaspatiḥ 8
brahmaṇaivainaddharati | urvantarikṣamanvihītyāha gatyai | devaṃgamamasītyāha | devānevainadgamayati | anadhaḥ sādayati | garbhāṇāṃ dhṛtyā aprapādāya | tasmādgarbhāḥ prajānāmaprapādukāḥ | uparīva nidadhāti | uparīva hi suvargo lokaḥ | suvargasya lokasya samaṣṭyai 9
Sanskrit only: no published translation is held for this verse.
पूर्वेद्युरिध्माबर्हिः करोति । यज्ञमेवारभ्य गृहीत्वोपवसति । प्रजापतिर्यज्ञमसृजत । तस्योखे अस्रꣳसेताम् । यज्ञो वै प्रजापतिः । यत्सांनाय्योखे भवतः । यज्ञस्यैव तदुखे उपदधात्यप्रस्रꣳसाय । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । मातरिश्वनो घर्मोऽसीत्याह १
अन्तरिक्षं वै मातरिश्वनो घर्मः । एषां लोकानं विधृत्यै । द्यौरसि पृथिव्यसीत्याह । दिवश्च ह्येषा पृथिव्याश्च संभृता । यदुखा । तस्मादेवमाह । विश्वधाया असि परमेण धाम्नेत्याह । वृष्टिर्वै विश्वधायाः । वृष्टिमेवावरुन्धे । दृꣳहस्व मा ह्वारित्याह धृत्यै २
वसूनां पवित्रमसीत्याह । प्राणा वै वसवः । तेषां वा एतद्भागधेयम् । यत्पवित्रम् । तेभ्य एवैनत्करोति । शतधारꣳ सहस्रधारमित्याह । प्राणेष्वेवायुर्दधाति सर्वत्वाय । त्रिवृत्पलाशशाखायां दर्भमयं भवति । त्रिवृद्वै प्राणः । त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति ३
सौम्यः पर्णः सयोनित्वाय । साक्षात्पवित्रं दर्भाः । प्राक्सायमधिनिदधाति । तत्प्राणापानयो रूपम् । तिर्यक्प्रातः । तद्दर्शस्य रूपम् । दार्श्यꣳ ह्येतदहः । अन्नं वै चन्द्र माः । अन्नं प्राणाः । उभयमेवोपैत्यजामित्वाय ४
तस्मादयꣳ सर्वतः पवते । हुतः स्तोको हुतो द्र प्स इत्याह प्रतिष्ठित्यै । हविशोऽस्कन्दाय । न हि हुतꣳ स्वाहाकृतꣳ स्कन्दति । दिवि नाको नामाग्निः । तस्य विप्रुषो भागधेयम् । अग्नये बृहते नाकायेत्याह । नाकमेवाग्निं भागधेयेन समर्धयति । स्वाहा द्यावापृथिवीभ्यामित्याह । द्यावापृथि-व्योरेवैनत्प्रतिष्ठापयति ५
पवित्रवत्यानयति । अपां चैवौषधीनां च रसꣳ सꣳसृजति । अथो ओषधीष्वेव पशून्प्रतिष्ठापयति । अन्वारभ्य वाचं यच्छति । यज्ञस्य धृत्यै । धारयन्नास्ते । धारयन्त इव हि दुहन्ति । कामधुक्ष इत्याहा तृतीयस्यै । त्रय इमे लोकाः । इमानेव लोकान्यजमानो दुहे ६
अमूमिति नाम गृह्णाति । भद्र मेवासां कर्माविष्करोति । सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मेत्याह । इयं वै विश्वायुः । अन्तरिक्षं विश्वव्यचाः । असौ विश्वकर्मा । इमानेवैताभिर्लोकान्यथापूर्वं दुहे । अथो यथा प्रदात्रे पुण्यमाशास्ते । एवमेवैना एतदुपस्तौति । तस्मात्प्रादादित्युन्नीय वन्दमाना उपस्तुवन्तः पशून्दुहन्ति ७
बहु दुग्धीन्द्रा य देवेभ्यो हविरिति वाचं विसृजते । यथादेवतमेव प्रसौति । दैव्यस्य च मानुषस्य च व्यावृत्त्यै । त्रिराह । त्रिषत्या हि देवाः । अवाचंयमोऽनन्वारभ्योत्तराः । अपरिमितमेवावरुन्धे । न दारुपात्रेण दुह्यात् । अग्निवद्वै दारुपात्रम् । यद्दारुपात्रेण दुह्यात् ८
यातयाम्ना हविषा यजेत । अथो खल्वाहुः । पुरोडाशमुखानि वै हवीꣳषि । नेतैतः पुरोडाशꣳ हविषो यामोऽस्तीति । काममेव दारुपात्रेण दुह्यात् । शूद्र एव न दुह्यात् । असतो वा एष संभूतः । यच्छूद्र ः! । अहविरेव तदित्याहुः । यच्छूद्रो दोग्धीति ९
अग्निहोत्रमेव न दुह्याच्छूद्र ः! । तद्धि नोत्पुनन्ति । यदा खलु वै पवित्रमत्येति । अथ तद्धविरिति । संपृच्यध्वमृतावरीरित्याह । अपां चैवौषधीनां च रसꣳ सꣳसृजति । तस्मादपां चौषधीनां च रसमुपजीवामः । मन्द्रा धनस्य सातय इत्याह । पुष्टिमेव यजमाने दधाति । सोमेन त्वातनच्मीन्द्राय दधीत्याह १०
सोममेवैनत्करोति । यो वै सोमं भक्षयित्वा । संवत्सरꣳ सोमं न पिबति । पुनर्भक्ष्योऽस्य सोमपीथो भवति । सोमः खलु वै सांनाय्यम् । य एवं विद्वान्त्सांनाय्यं पिबति । अपुनर्भक्ष्योऽस्य सोमपीथो भवति । न मृन्मयेनापिदध्यात् । यन्मृन्मयेनापिदध्यात् । पितृदेवत्यꣳ स्यात् ११
अयस्पात्रेण वा दारुपात्रेण वापिदधाति । तद्धि सदेवम् । उदन्वद्भवति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अदस्तमसि विष्णवे त्वेत्याह । यज्ञो वै विष्णुः । यज्ञायैवैनददस्तं करोति । विष्णो हव्यꣳ रक्षस्वेत्याह गुप्त्यै । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै १२
pūrvedyuridhmābarhiḥ karoti | yajñamevārabhya gṛhītvopavasati | prajāpatiryajñamasṛjata | tasyokhe asram̐setām | yajño vai prajāpatiḥ | yatsāṃnāyyokhe bhavataḥ | yajñasyaiva tadukhe upadadhātyaprasram̐sāya | śundhadhvaṃ daivyāya karmaṇe devayajyāyā ityāha | devayajyāyā evaināni śundhati | mātariśvano gharmo'sītyāha 1
antarikṣaṃ vai mātariśvano gharmaḥ | eṣāṃ lokānaṃ vidhṛtyai | dyaurasi pṛthivyasītyāha | divaśca hyeṣā pṛthivyāśca saṃbhṛtā | yadukhā | tasmādevamāha | viśvadhāyā asi parameṇa dhāmnetyāha | vṛṣṭirvai viśvadhāyāḥ | vṛṣṭimevāvarundhe | dṛm̐hasva mā hvārityāha dhṛtyai 2
vasūnāṃ pavitramasītyāha | prāṇā vai vasavaḥ | teṣāṃ vā etadbhāgadheyam | yatpavitram | tebhya evainatkaroti | śatadhāram̐ sahasradhāramityāha | prāṇeṣvevāyurdadhāti sarvatvāya | trivṛtpalāśaśākhāyāṃ darbhamayaṃ bhavati | trivṛdvai prāṇaḥ | trivṛtameva prāṇaṃ madhyato yajamāne dadhāti 3
saumyaḥ parṇaḥ sayonitvāya | sākṣātpavitraṃ darbhāḥ | prāksāyamadhinidadhāti | tatprāṇāpānayo rūpam | tiryakprātaḥ | taddarśasya rūpam | dārśyam̐ hyetadahaḥ | annaṃ vai candra māḥ | annaṃ prāṇāḥ | ubhayamevopaityajāmitvāya 4
tasmādayam̐ sarvataḥ pavate | hutaḥ stoko huto dra psa ityāha pratiṣṭhityai | haviśo'skandāya | na hi hutam̐ svāhākṛtam̐ skandati | divi nāko nāmāgniḥ | tasya vipruṣo bhāgadheyam | agnaye bṛhate nākāyetyāha | nākamevāgniṃ bhāgadheyena samardhayati | svāhā dyāvāpṛthivībhyāmityāha | dyāvāpṛthi-vyorevainatpratiṣṭhāpayati 5
pavitravatyānayati | apāṃ caivauṣadhīnāṃ ca rasam̐ sam̐sṛjati | atho oṣadhīṣveva paśūnpratiṣṭhāpayati | anvārabhya vācaṃ yacchati | yajñasya dhṛtyai | dhārayannāste | dhārayanta iva hi duhanti | kāmadhukṣa ityāhā tṛtīyasyai | traya ime lokāḥ | imāneva lokānyajamāno duhe 6
amūmiti nāma gṛhṇāti | bhadra mevāsāṃ karmāviṣkaroti | sā viśvāyuḥ sā viśvavyacāḥ sā viśvakarmetyāha | iyaṃ vai viśvāyuḥ | antarikṣaṃ viśvavyacāḥ | asau viśvakarmā | imānevaitābhirlokānyathāpūrvaṃ duhe | atho yathā pradātre puṇyamāśāste | evamevainā etadupastauti | tasmātprādādityunnīya vandamānā upastuvantaḥ paśūnduhanti 7
bahu dugdhīndrā ya devebhyo haviriti vācaṃ visṛjate | yathādevatameva prasauti | daivyasya ca mānuṣasya ca vyāvṛttyai | trirāha | triṣatyā hi devāḥ | avācaṃyamo'nanvārabhyottarāḥ | aparimitamevāvarundhe | na dārupātreṇa duhyāt | agnivadvai dārupātram | yaddārupātreṇa duhyāt 8
yātayāmnā haviṣā yajeta | atho khalvāhuḥ | puroḍāśamukhāni vai havīm̐ṣi | netaitaḥ puroḍāśam̐ haviṣo yāmo'stīti | kāmameva dārupātreṇa duhyāt | śūdra eva na duhyāt | asato vā eṣa saṃbhūtaḥ | yacchūdra ḥ! | ahavireva tadityāhuḥ | yacchūdro dogdhīti 9
agnihotrameva na duhyācchūdra ḥ! | taddhi notpunanti | yadā khalu vai pavitramatyeti | atha taddhaviriti | saṃpṛcyadhvamṛtāvarīrityāha | apāṃ caivauṣadhīnāṃ ca rasam̐ sam̐sṛjati | tasmādapāṃ cauṣadhīnāṃ ca rasamupajīvāmaḥ | mandrā dhanasya sātaya ityāha | puṣṭimeva yajamāne dadhāti | somena tvātanacmīndrāya dadhītyāha 10
somamevainatkaroti | yo vai somaṃ bhakṣayitvā | saṃvatsaram̐ somaṃ na pibati | punarbhakṣyo'sya somapītho bhavati | somaḥ khalu vai sāṃnāyyam | ya evaṃ vidvāntsāṃnāyyaṃ pibati | apunarbhakṣyo'sya somapītho bhavati | na mṛnmayenāpidadhyāt | yanmṛnmayenāpidadhyāt | pitṛdevatyam̐ syāt 11
ayaspātreṇa vā dārupātreṇa vāpidadhāti | taddhi sadevam | udanvadbhavati | āpo vai rakṣoghnīḥ | rakṣasāmapahatyai | adastamasi viṣṇave tvetyāha | yajño vai viṣṇuḥ | yajñāyaivainadadastaṃ karoti | viṣṇo havyam̐ rakṣasvetyāha guptyai | anadhaḥ sādayati | garbhāṇāṃ dhṛtyā aprapādāya | tasmādgarbhāḥ prajānāmaprapādukāḥ | uparīva nidadhāti | uparīva hi suvargo lokaḥ | suvargasya lokasya samaṣṭyai 12
Sanskrit only: no published translation is held for this verse.
कर्मणे वां देवेभ्यश्शकेयमित्याह शक्त्यै । यज्ञस्य वै संततिमनु प्रजाः पशवो यजमानस्य संतायन्ते । यज्ञस्य विच्छित्तिमनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते । यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येत्याहवनीयात्संतनोति । यजमानस्य प्रजायै पशूनाꣳ संतत्यै । अपः प्रणयति । श्रद्धा वा आपः श्रद्धामेवारब्य प्रणीय प्रचरति । अपः प्रणयति । यज्ञो वा आपः १
यज्ञमेवारभ्य प्रणीय प्रचरति । अपः प्रणयति । वज्रो वा आपः । वज्रमेव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति । अपः प्रणयति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अपः प्रणयति । आपो वै देवानां प्रियं धाम । देवानामेव प्रियं धाम प्रणीय प्रचरति २
अपः प्रणयति । आपो वै सर्वा देवताः । देवता एवारभ्य प्रणीय प्रचरति । वेषाय त्वेत्याह । वेषाय ह्येनदादत्ते । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । धूरसीत्याह । एष वै धुर्योऽग्निः । तं यदनुपस्पृश्यातीयात् ३
अध्वर्युं च यजमानं च प्रदहेत् । उपस्पृश्यात्येति । अध्वर्योश्च यजमानस्य चाप्रदाहाय । धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वाम इत्याह । द्वौ वाव पुरुषौ । यं चैव धूर्वति । यश्चैनं धूर्वति । तावुभौ शुचार्पयति । त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममित्याह । यथायजुरेवैतत् ४
अह्रुतमसि हविर्धानमित्याहानार्त्यै । दृꣳहस्व मा ह्वारित्याह धृत्यै । मित्रस्य त्वा चक्षुषा प्रेक्ष इत्याह मित्रत्वाय । मा भेर्मा संविक्था मा त्वा हिꣳसिषमि-त्याहाहिꣳसायै । यद्वै किं च वातो नाभिवाति । तत्सर्वं वरुणदेवत्यम् । उरु वातायेत्याह । अवारुणमेवैनत्करोति । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह ५
अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह । यत्यै । अग्नये जुष्टं निर्वपामीत्याह । अग्नय एवैनाञ्जुष्टं निर्वपति । त्रिर्यजुषा । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । तूष्णीं चतुर्थम् । अपरिमितमेवावरुन्धे । स एवमेवानुपूर्वꣳ हवीꣳषि निर्वपति ६
इदं देवानामिदमु नः सहेत्याह व्यावृत्त्यै । स्फात्यै त्वा नारात्या इत्याह गुप्त्यै । तमसीव वा एषोऽन्तश्चरति । यः परीणहि । सुवरभि विख्येषं वैश्वानरं ज्योतिरित्याह । सुवरेवाभि विपश्यति वैश्वानरं ज्योतिः । द्यावापृथिवी हविषि गृहीत उदवेपेताम् । दृꣳहन्तां दुर्या द्यावापृथिव्योरित्याह । गृहाणां द्यावापृथिव्योर्धृत्यै । उर्वन्तरिक्षमन्विहीत्याह गत्यै । अदित्यास्त्वोपस्थे सादयामीत्याह । इयं वा अदितिः । अस्या एवैनदुपस्थे सादयति । अग्ने हव्यꣳ रक्षस्वेत्याह गुप्त्यै ७
karmaṇe vāṃ devebhyaśśakeyamityāha śaktyai | yajñasya vai saṃtatimanu prajāḥ paśavo yajamānasya saṃtāyante | yajñasya vicchittimanu prajāḥ paśavo yajamānasya vicchidyante | yajñasya saṃtatirasi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasyetyāhavanīyātsaṃtanoti | yajamānasya prajāyai paśūnām̐ saṃtatyai | apaḥ praṇayati | śraddhā vā āpaḥ śraddhāmevārabya praṇīya pracarati | apaḥ praṇayati | yajño vā āpaḥ 1
yajñamevārabhya praṇīya pracarati | apaḥ praṇayati | vajro vā āpaḥ | vajrameva bhrātṛvyebhyaḥ prahṛtya praṇīya pracarati | apaḥ praṇayati | āpo vai rakṣoghnīḥ | rakṣasāmapahatyai | apaḥ praṇayati | āpo vai devānāṃ priyaṃ dhāma | devānāmeva priyaṃ dhāma praṇīya pracarati 2
apaḥ praṇayati | āpo vai sarvā devatāḥ | devatā evārabhya praṇīya pracarati | veṣāya tvetyāha | veṣāya hyenadādatte | pratyuṣṭam̐ rakṣaḥ pratyuṣṭā arātaya ityāha | rakṣasāmapahatyai | dhūrasītyāha | eṣa vai dhuryo'gniḥ | taṃ yadanupaspṛśyātīyāt 3
adhvaryuṃ ca yajamānaṃ ca pradahet | upaspṛśyātyeti | adhvaryośca yajamānasya cāpradāhāya | dhūrva taṃ yo'smāndhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ityāha | dvau vāva puruṣau | yaṃ caiva dhūrvati | yaścainaṃ dhūrvati | tāvubhau śucārpayati | tvaṃ devānāmasi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamamityāha | yathāyajurevaitat 4
ahrutamasi havirdhānamityāhānārtyai | dṛm̐hasva mā hvārityāha dhṛtyai | mitrasya tvā cakṣuṣā prekṣa ityāha mitratvāya | mā bhermā saṃvikthā mā tvā him̐siṣami-tyāhāhim̐sāyai | yadvai kiṃ ca vāto nābhivāti | tatsarvaṃ varuṇadevatyam | uru vātāyetyāha | avāruṇamevainatkaroti | devasya tvā savituḥ prasava ityāha prasūtyai | aśvinorbāhubhyāmityāha 5
aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha | yatyai | agnaye juṣṭaṃ nirvapāmītyāha | agnaya evaināñjuṣṭaṃ nirvapati | triryajuṣā | traya ime lokāḥ | eṣāṃ lokānāmāptyai | tūṣṇīṃ caturtham | aparimitamevāvarundhe | sa evamevānupūrvam̐ havīm̐ṣi nirvapati 6
idaṃ devānāmidamu naḥ sahetyāha vyāvṛttyai | sphātyai tvā nārātyā ityāha guptyai | tamasīva vā eṣo'ntaścarati | yaḥ parīṇahi | suvarabhi vikhyeṣaṃ vaiśvānaraṃ jyotirityāha | suvarevābhi vipaśyati vaiśvānaraṃ jyotiḥ | dyāvāpṛthivī haviṣi gṛhīta udavepetām | dṛm̐hantāṃ duryā dyāvāpṛthivyorityāha | gṛhāṇāṃ dyāvāpṛthivyordhṛtyai | urvantarikṣamanvihītyāha gatyai | adityāstvopasthe sādayāmītyāha | iyaṃ vā aditiḥ | asyā evainadupasthe sādayati | agne havyam̐ rakṣasvetyāha guptyai 7
Sanskrit only: no published translation is held for this verse.
इन्द्रो वृत्रमहन्न् । सोऽपः । अभ्यम्रियत । तासां यन्मेध्यं यज्ञियꣳ सदेवमासीत् । तदपोदक्रामत् । ते दर्भा अभवन्न् । यद्दर्भैरप उत्पुनाति । या एव मेध्या यज्ञियाः सदेवा आपः । ताभिरेवैना उत्पुनाति । द्वाभ्यामुत्पुनाति १
द्विपाद्यजमानः प्रतिष्ठित्यै । देवो वः सवितोत्पुनात्वित्याह । सवितृप्रसूत एवैना उत्पुनाति । अच्छिद्रेण पवित्रेणेत्याह । असौ वा आदित्योऽच्छिद्रं पवित्रम् । तेनैवैना उत्पुनाति । वसोः सूर्यस्य रश्मिभिरित्याह । प्राणा वा आपः प्राणा वसवः । प्राणा रश्मयः २
प्राणैरेव प्राणान्त्संपृणक्ति । सावित्रियर्चा । सवितृप्रसूतं मे कर्मासदिति । सवितृप्रसूतमेवास्य कर्म भवति । पच्छो गायत्रिया त्रिष्षमृद्धत्वाय । आपो देवीरग्रेपुवो अग्रेगुव इत्याह । रूपमेवासामेतन्महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह । अग्रे एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् ३
युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य इत्याह । वृत्रꣳ ह हनिष्यन्निन्द्र आपो वव्रे । आपो हेन्द्रं वव्रिरे । संज्ञामेवासामेतत्सामानं व्याचष्टे । प्रोक्षिताः स्थेत्याह । तेनापः प्रोक्षिताः । अग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्यामित्याह । यथादेवतमेवैनान्प्रोक्षति । त्रिः प्रोक्षति । त्र्यावृद्धि यज्ञः ४
अथो रक्षसामपहत्यै । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । त्रिः प्रोक्षति । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । अवधूतꣳ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्यास्त्वगसीत्याह । इयं वा अदितिः ५
अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशावो मेधमुपतिष्ठन्ते । तस्मात्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरध्यवहन्ति । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय ६
अधिषवणमसि वानस्पत्यमित्याह । अधिषवणमेवैनत्करोति । प्रति त्वादित्यास्त्वग्वेत्त्वित्याह सयत्वाय । अग्नेस्तनूरसीत्याह । अग्नेर्वा एषा तनूः । यदोषधयः । वाचो विसर्जनमित्याह । यदा हि प्रजा ओषधीनामश्नन्ति । अथ वाचं विसृजन्ते । देववीतये त्वा गृह्णामीत्याह ७
देवताभिरेवैनत्समर्धयति । अद्रि रसि वानस्पत्य इत्याह । ग्रावाणमे-वैनत्करोति । स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्वेत्याह शान्त्यै । हवि-ष्कृदेहीत्याह । य एव देवानाꣳ हविष्कृतः । तान्ह्व्यति । त्रिर्ह्वयति । त्रिषत्या हि देवाः । इषमावदोर्जमावदेत्याह ८
इषमेवोर्जं यजमाने दधाति । द्युमद्वदत वयꣳ संघातं जेष्मेत्याह भ्रातृव्याभिभूत्यै । मनोः श्रद्धादेवस्य यजमानस्यासुरघ्नी वाक् । यज्ञायुधेषु प्रविष्टासीत् । तेऽसुरा यावन्तो यज्ञायुधानामुद्वदतामुपाशृण्वन्न् । ते पराभवन् । तस्मात्स्वा-नां मध्येऽवसाय यजेत । यावन्तोऽस्य भ्रातृव्या यज्ञायुधा-नामुद्वदतामुपशृण्वन्ति । ते पराभवन्ति । उच्चैः समाहन्तवा आह विजित्यै ९
वृङ्क्त एषामिन्द्रियं वीर्यम् । श्रेष्ठ एषां भवति । वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्त्वित्याह । वर्षवृद्धा वा ओषधयः । वर्षवृद्धा इषीकाः समृद्ध्यै । यज्ञꣳ रक्षाꣳस्यनु प्राविशन् । तान्यस्ना पशुभ्यो निरवादयन्त । तुषैरोषधीभ्यः । परापूतꣳ रक्षः परापूता अरातय इत्याह । रक्षसामपहत्यै १०
रक्षसां भागोऽसीत्याह । तुषैरेव रक्षाꣳसि निरवदयते । अप उपस्पृशति मेध्यत्वाय । वायुर्वो विविनक्त्वित्याह । पवित्रं वै वायुः । पुनात्येवैनान् । अन्तरिक्षादिव वा एते प्रस्कन्दन्ति । ये शूर्पात् । देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । त्रिष्फलीकर्तवा आह । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय ११
indro vṛtramahann | so'paḥ | abhyamriyata | tāsāṃ yanmedhyaṃ yajñiyam̐ sadevamāsīt | tadapodakrāmat | te darbhā abhavann | yaddarbhairapa utpunāti | yā eva medhyā yajñiyāḥ sadevā āpaḥ | tābhirevainā utpunāti | dvābhyāmutpunāti 1
dvipādyajamānaḥ pratiṣṭhityai | devo vaḥ savitotpunātvityāha | savitṛprasūta evainā utpunāti | acchidreṇa pavitreṇetyāha | asau vā ādityo'cchidraṃ pavitram | tenaivainā utpunāti | vasoḥ sūryasya raśmibhirityāha | prāṇā vā āpaḥ prāṇā vasavaḥ | prāṇā raśmayaḥ 2
prāṇaireva prāṇāntsaṃpṛṇakti | sāvitriyarcā | savitṛprasūtaṃ me karmāsaditi | savitṛprasūtamevāsya karma bhavati | paccho gāyatriyā triṣṣamṛddhatvāya | āpo devīragrepuvo agreguva ityāha | rūpamevāsāmetanmahimānaṃ vyācaṣṭe | agra imaṃ yajñaṃ nayatāgre yajñapatimityāha | agre eva yajñaṃ nayanti | agre yajñapatim 3
yuṣmānindro 'vṛṇīta vṛtratūrye yūyamindra mavṛṇīdhvaṃ vṛtratūrya ityāha | vṛtram̐ ha haniṣyannindra āpo vavre | āpo hendraṃ vavrire | saṃjñāmevāsāmetatsāmānaṃ vyācaṣṭe | prokṣitāḥ sthetyāha | tenāpaḥ prokṣitāḥ | agnaye vo juṣṭaṃ prokṣāmyagnīṣomābhyāmityāha | yathādevatamevainānprokṣati | triḥ prokṣati | tryāvṛddhi yajñaḥ 4
atho rakṣasāmapahatyai | śundhadhvaṃ daivyāya karmaṇe devayajyāyā ityāha | devayajyāyā evaināni śundhati | triḥ prokṣati | tr! yāvṛddhi yajñaḥ | atho medhyatvāya | avadhūtam̐ rakṣo'vadhūtā arātaya ityāha | rakṣasāmapahatyai | adityāstvagasītyāha | iyaṃ vā aditiḥ 5
asyā evainattvacaṃ karoti | prati tvā pṛthivī vettvityāha pratiṣṭhityai | purastātpratīcīnagrīvamuttaralomopastṛṇāti medhyatvāya | tasmātpurastātpratyañcaḥ paśāvo medhamupatiṣṭhante | tasmātprajā mṛgaṃ grāhukāḥ | yajño devebhyo nilāyata | kṛṣṇo rūpaṃ kṛtvā | yatkṛṣṇājine haviradhyavahanti | yajñādeva tadyajñaṃ prayuṅkte | haviṣo'skandāya 6
adhiṣavaṇamasi vānaspatyamityāha | adhiṣavaṇamevainatkaroti | prati tvādityāstvagvettvityāha sayatvāya | agnestanūrasītyāha | agnervā eṣā tanūḥ | yadoṣadhayaḥ | vāco visarjanamityāha | yadā hi prajā oṣadhīnāmaśnanti | atha vācaṃ visṛjante | devavītaye tvā gṛhṇāmītyāha 7
devatābhirevainatsamardhayati | adri rasi vānaspatya ityāha | grāvāṇame-vainatkaroti | sa idaṃ devebhyo havyam̐ suśami śamiṣvetyāha śāntyai | havi-ṣkṛdehītyāha | ya eva devānām̐ haviṣkṛtaḥ | tānhvyati | trirhvayati | triṣatyā hi devāḥ | iṣamāvadorjamāvadetyāha 8
iṣamevorjaṃ yajamāne dadhāti | dyumadvadata vayam̐ saṃghātaṃ jeṣmetyāha bhrātṛvyābhibhūtyai | manoḥ śraddhādevasya yajamānasyāsuraghnī vāk | yajñāyudheṣu praviṣṭāsīt | te'surā yāvanto yajñāyudhānāmudvadatāmupāśṛṇvann | te parābhavan | tasmātsvā-nāṃ madhye'vasāya yajeta | yāvanto'sya bhrātṛvyā yajñāyudhā-nāmudvadatāmupaśṛṇvanti | te parābhavanti | uccaiḥ samāhantavā āha vijityai 9
vṛṅkta eṣāmindriyaṃ vīryam | śreṣṭha eṣāṃ bhavati | varṣavṛddhamasi prati tvā varṣavṛddhaṃ vettvityāha | varṣavṛddhā vā oṣadhayaḥ | varṣavṛddhā iṣīkāḥ samṛddhyai | yajñam̐ rakṣām̐syanu prāviśan | tānyasnā paśubhyo niravādayanta | tuṣairoṣadhībhyaḥ | parāpūtam̐ rakṣaḥ parāpūtā arātaya ityāha | rakṣasāmapahatyai 10
rakṣasāṃ bhāgo'sītyāha | tuṣaireva rakṣām̐si niravadayate | apa upaspṛśati medhyatvāya | vāyurvo vivinaktvityāha | pavitraṃ vai vāyuḥ | punātyevainān | antarikṣādiva vā ete praskandanti | ye śūrpāt | devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātvityāha pratiṣṭhityai | haviṣo'skandāya | triṣphalīkartavā āha | tr! yāvṛddhi yajñaḥ | atho medhyatvāya 11
Sanskrit only: no published translation is held for this verse.
अवधूतꣳ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्यास्त्वगसीत्याह । इयं वा अदितिः । अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते । तस्मा-त्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत १
कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरधिपिनष्टि । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय । द्यावापृथिवी सहास्ताम् । ते शम्यामात्रमेकमहर्व्यैताꣳ शम्यामात्रमेकमहः । दिवः स्कम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्त्वित्याह । द्यावापृथिव्योर्वीत्यै । धिषणासि पर्वत्या प्रति त्वा दिवः स्कम्भनिर्वेत्त्वित्याह । द्यावापृथिव्योर्विधृत्यै २
धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्वित्याह । द्यावापृथिव्योर्धृत्यै । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । अधिवपामीत्याह । यथादेवतमेवैनानधिवपति । धान्यमसि धिनुहि देवानित्याह । एतस्य यजुषो वीर्येण ३
यावदेका देवता कामयते यावदेका । तावदाहुतिः प्रथते । न हि तदस्ति । यत्तावदेव स्यात् । यावज्जुहोति । प्राणाय त्वापानाय त्वेत्याह । प्राणानेव यजमाने दधाति । दीर्घामनु प्रसितिमायुषे धामित्याह । आयुरेवास्मिन्दधाति । अन्तरिक्षादिव वा एतानि प्रस्कन्दन्ति । यानि दृषदः । देवो वः सविता हिरण्यपाणिः प्रति गृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । असंवपन्ती पिꣳषाणूनि कुरुतादित्याह मेध्यत्वाय ४
avadhūtam̐ rakṣo'vadhūtā arātaya ityāha | rakṣasāmapahatyai | adityāstvagasītyāha | iyaṃ vā aditiḥ | asyā evainattvacaṃ karoti | prati tvā pṛthivī vettvityāha pratiṣṭhityai | purastātpratīcīnagrīvamuttaralomopastṛṇāti medhyatvāya | tasmātpurastātpratyañcaḥ paśavo medhamupatiṣṭhante | tasmā-tprajā mṛgaṃ grāhukāḥ | yajño devebhyo nilāyata 1
kṛṣṇo rūpaṃ kṛtvā | yatkṛṣṇājine haviradhipinaṣṭi | yajñādeva tadyajñaṃ prayuṅkte | haviṣo'skandāya | dyāvāpṛthivī sahāstām | te śamyāmātramekamaharvyaitām̐ śamyāmātramekamahaḥ | divaḥ skambhanirasi prati tvādityāstvagvettvityāha | dyāvāpṛthivyorvītyai | dhiṣaṇāsi parvatyā prati tvā divaḥ skambhanirvettvityāha | dyāvāpṛthivyorvidhṛtyai 2
dhiṣaṇāsi pārvateyī prati tvā parvatirvettvityāha | dyāvāpṛthivyordhṛtyai | devasya tvā savituḥ prasava ityāha prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | adhivapāmītyāha | yathādevatamevainānadhivapati | dhānyamasi dhinuhi devānityāha | etasya yajuṣo vīryeṇa 3
yāvadekā devatā kāmayate yāvadekā | tāvadāhutiḥ prathate | na hi tadasti | yattāvadeva syāt | yāvajjuhoti | prāṇāya tvāpānāya tvetyāha | prāṇāneva yajamāne dadhāti | dīrghāmanu prasitimāyuṣe dhāmityāha | āyurevāsmindadhāti | antarikṣādiva vā etāni praskandanti | yāni dṛṣadaḥ | devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātvityāha pratiṣṭhityai | haviṣo'skandāya | asaṃvapantī pim̐ṣāṇūni kurutādityāha medhyatvāya 4
Sanskrit only: no published translation is held for this verse.
धृष्टिरसि ब्रह्म यच्छेत्याह धृत्यै । अपाग्नेऽग्निमामादं जहि निष्क्रव्यादꣳ सेधा देवयजं वहेत्याह । य एवामात्क्रव्यात् । तमपहत्य । मेध्येऽग्नौ कपालमुपदधाति । निर्दग्धꣳ रक्षो निर्दग्धा अरातय इत्याह । रक्षाꣳस्येव निर्दहति । अग्निवत्युपदधाति । अस्मिन्नेव लोके ज्योतिर्धत्ते । अङ्गारमधिवर्तयति १
अन्तरिक्ष एव ज्योतिर्धत्ते । आदित्यमेवामुष्मिन्लोके ज्योतिर्धत्ते । ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति । य एवं वेद । ध्रुवमसि पृथिवीं दृꣳहेत्याह । पृथिवीमेवैतेन दृꣳहति । धर्त्रमस्यन्तरिक्षं दृꣳहेत्याह । अन्तरि-क्षमेवैतेन दृꣳहति । धरुणमसि दिवं दृꣳहेत्याह । दिवमेवैतेन दृꣳहति २
धर्मासि दिशो दृꣳहेत्याह । दिश एवैतेन दृꣳहति । इमानेवैतैर्लोकान्दृꣳहति । दृꣳहन्तेऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । त्रीण्यग्रे कपालान्युपदधाति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । एकमग्रे कपालमुपदधाति । एकं वा अग्रे कपालं पुरुषस्य संभवति ३
अथ द्वे । अथ त्रीणि । अथ चत्वारि । अथाष्टौ । तस्मादष्टाकपालं पुरुषस्य शिरः । यदेवं कपालान्युपदधाति । यज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिꣳ सꣳस्करोति । आत्मानमेव तत्सꣳस्करोति । तꣳ सꣳस्कृतमात्मानम् ४
अमुष्मिꣳल्लोकेऽनु परैति । यदष्टावुपदधाति । गायत्रिया तत्संमितम् । यन्नव । त्रिवृता तत् । यद्दश । विराजा तत् । यदेकादश । त्रिष्टुभा तत् । यद्द्वादश ५
जगत्या तत् । छन्दःसंमितानि स उपदधत्कपालानि । इमान्लोकाननुपूर्वं दिशो विधृत्यै दृꣳहति । अथायुः प्राणान्प्रजां पशून्यजमाने दधाति । सजातानस्मा अभितो बहुलान्करोति । चितः स्थेत्याह । यथायजुरेवैतत् । भृगूणामङ्गिरसां तपसा तप्यध्वमित्याह । देवतानामेवैनानि तपसा तपति । तानि ततः सꣳस्थिते । यानि घर्मे कपालान्युपचिन्वन्ति वेधस इति चतुष्पदयर्चा विमुञ्चति । चतुष्पादः पशवः । पशुष्वेवोपरिष्टात्प्रतितिष्ठति ६
dhṛṣṭirasi brahma yacchetyāha dhṛtyai | apāgne'gnimāmādaṃ jahi niṣkravyādam̐ sedhā devayajaṃ vahetyāha | ya evāmātkravyāt | tamapahatya | medhye'gnau kapālamupadadhāti | nirdagdham̐ rakṣo nirdagdhā arātaya ityāha | rakṣām̐syeva nirdahati | agnivatyupadadhāti | asminneva loke jyotirdhatte | aṅgāramadhivartayati 1
antarikṣa eva jyotirdhatte | ādityamevāmuṣminloke jyotirdhatte | jyotiṣmanto'smā ime lokā bhavanti | ya evaṃ veda | dhruvamasi pṛthivīṃ dṛm̐hetyāha | pṛthivīmevaitena dṛm̐hati | dhartramasyantarikṣaṃ dṛm̐hetyāha | antari-kṣamevaitena dṛm̐hati | dharuṇamasi divaṃ dṛm̐hetyāha | divamevaitena dṛm̐hati 2
dharmāsi diśo dṛm̐hetyāha | diśa evaitena dṛm̐hati | imānevaitairlokāndṛm̐hati | dṛm̐hante'smā ime lokāḥ prajayā paśubhiḥ | ya evaṃ veda | trīṇyagre kapālānyupadadhāti | traya ime lokāḥ | eṣāṃ lokānāmāptyai | ekamagre kapālamupadadhāti | ekaṃ vā agre kapālaṃ puruṣasya saṃbhavati 3
atha dve | atha trīṇi | atha catvāri | athāṣṭau | tasmādaṣṭākapālaṃ puruṣasya śiraḥ | yadevaṃ kapālānyupadadhāti | yajño vai prajāpatiḥ | yajñameva prajāpatim̐ sam̐skaroti | ātmānameva tatsam̐skaroti | tam̐ sam̐skṛtamātmānam 4
amuṣmim̐lloke'nu paraiti | yadaṣṭāvupadadhāti | gāyatriyā tatsaṃmitam | yannava | trivṛtā tat | yaddaśa | virājā tat | yadekādaśa | triṣṭubhā tat | yaddvādaśa 5
jagatyā tat | chandaḥsaṃmitāni sa upadadhatkapālāni | imānlokānanupūrvaṃ diśo vidhṛtyai dṛm̐hati | athāyuḥ prāṇānprajāṃ paśūnyajamāne dadhāti | sajātānasmā abhito bahulānkaroti | citaḥ sthetyāha | yathāyajurevaitat | bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamityāha | devatānāmevaināni tapasā tapati | tāni tataḥ sam̐sthite | yāni gharme kapālānyupacinvanti vedhasa iti catuṣpadayarcā vimuñcati | catuṣpādaḥ paśavaḥ | paśuṣvevopariṣṭātpratitiṣṭhati 6
Sanskrit only: no published translation is held for this verse.
देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । संवपामीत्याह । यथादेवतमेवैनानि संवपति । समापो अद्भिरग्मत समोषधयो रसेनेत्याह । आपो वा ओषधीर्जिन्वन्ति । ओषधयोऽपो जिन्वन्ति । अन्या वा एतासामन्या जिन्वन्ति १
तस्मादेवमाह । सꣳ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह । आपो वै रेवतीः । पशवो जगतीः । ओषधयो मधुमतीः । आप ओषधीः पशून् । तानेवास्मा एकधा सꣳसृज्य । मधुमतः करोति । अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्यध्वमिति पर्याप्लावयति । यथा सुवृष्ट इमामनुविसृत्य २
आप ओषधीर्महयन्ति । तादृगेव तत् । जनयत्यै त्वा संयौमीत्याह । प्रजा एवैतेन दाधार । अग्नये त्वाग्नीषोमाभ्यामित्याह व्यावृत्त्यै । मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्पुरोडाशः । तस्मादेवमाह ३
घर्मोऽसि विश्वायुरित्याह । विश्वमेवायुर्यजमाने दधाति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह । यजमानमेव प्रजया पशुभिः प्रथयति । त्वचं गृह्णीष्वेत्याह । सर्वमेवैनꣳ सतनुं करोति । अथाप आनीय परि मार्ष्टि । माꣳस एव तत्त्वचं दधाति । तस्मात्त्वचा माꣳसं छन्नम् । घर्मो वा एषोऽशान्तः ४
अर्धमासेऽर्धमासे प्रवृज्यते । यत्पुरोडाशः । स ईश्वरो यजमानꣳ शुचा प्रदहः । पर्यग्नि करोति । पशुमेवैनमकः । शान्त्या अप्रदाहाय । त्रिः पर्यग्नि करोति । त्र्यावृद्धि यज्ञः । अथो रक्षसामपहत्यै । अन्तरितꣳ रक्षोऽन्तरिता अरातय इत्याह ५
रक्षसामन्तर्हित्यै । पुरोडाशं वा अधिश्रितꣳ रक्षाꣳस्यजिघाꣳसन् । दिवि नाको नामाग्नी रक्षोहा । स एवास्माद्रक्षाꣳस्यपाहन्न् । देवस्त्वा सविता श्रपयत्वित्याह । सवितृप्रसूत एवैनꣳ श्रपयति । वर्षिष्ठे अधि नाक इत्याह । रक्षसामपहत्यै । अग्निस्ते तनुवं मातिधागित्याहानतिदाहाय । अग्ने हव्यꣳ रक्षस्वेत्याह गुप्त्यै ६
अविदहन्तश्श्रपयतेति वाचं विसृजते । यज्ञमेव हवीꣳश्यभिव्याहृत्य प्रतनुते । पुरोरुचमविदाहाय शृत्यै करोति । मस्तिष्को वै पुरोडाशः । तं यन्नाभिवासयेत् । आविर्मस्तिष्कः स्यात् । अभिवासयति । तस्माद्गुहा मस्तिष्कः । भस्मनाभिवासयति । तस्मान्माꣳसेनास्थि छन्नम् ७
वेदेनाभिवासयति । तस्मात्केशैः शिरश्छन्नम् । अखलतिभावुको भवति । य एवं वेद । पशोर्वै प्रतिमा पुरोडाशः । स नायजुष्कमभिवास्यः । वृथेव स्यात् । ईश्वरा यजमानस्य पशवः प्रमेतोः । सं ब्रह्मणा पृच्यस्वेत्याह । प्राणा वै ब्रह्म ८
प्राणाः पशवः । प्राणैरेव पशून्त्संपृणक्ति । न प्रमायुका भवन्ति । यजमानो वै पुरोडाशः । प्रजा पशवः पुरीषम् । यदेवमभिवासयति । यजमानमेव प्रजया पशुभिः समर्धयति । देवा वै हविर्भृत्वाब्रुवन्न् । कस्मिन्निदं म्रक्ष्यामह इति । सोऽग्निरब्रवीत् ९
मयि तनूः सं निधद्ध्वम् । अहं वस्तं जनयिष्यामि । यस्मिन्म्रक्ष्यध्व इति । ते देवा अग्नौ तनूः सं न्यदधत । तस्मादाहुः । अग्निः सर्वा देवता इति । सोऽङ्गारेणापः । अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत् १०
ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत । यदद्भ्योऽजायन्त । तदाप्यानामाप्यत्वम् । यदात्मभ्योऽजायन्त । तदात्म्यानामात्म्यत्वम् । ते देवा आप्येष्वमृजत । आप्या अमृजत सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिम्रुक्ते ११
सूर्याभिनिम्रुक्तः कुनखिनि । कुनखी श्यावदति । श्यावदन्नग्रदिधिषौ । अग्रदिधिषुः परिवित्ते । परिवित्तो वीरहणि । वीरहा ब्रह्महणि तद्ब्रह्महणं नात्यच्यवत । अन्तर्वेदि निनयत्यवरुध्यै । उल्मुकेनाभिगृह्णाति शृतत्वाय । शृतकामा इव हि देवाः १२
devasya tvā savituḥ prasava ityāha prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | saṃvapāmītyāha | yathādevatamevaināni saṃvapati | samāpo adbhiragmata samoṣadhayo rasenetyāha | āpo vā oṣadhīrjinvanti | oṣadhayo'po jinvanti | anyā vā etāsāmanyā jinvanti 1
tasmādevamāha | sam̐ revatīrjagatībhirmadhumatīrmadhumatībhiḥ sṛjyadhvamityāha | āpo vai revatīḥ | paśavo jagatīḥ | oṣadhayo madhumatīḥ | āpa oṣadhīḥ paśūn | tānevāsmā ekadhā sam̐sṛjya | madhumataḥ karoti | adbhyaḥ pari prajātāḥ stha samadbhiḥ pṛcyadhvamiti paryāplāvayati | yathā suvṛṣṭa imāmanuvisṛtya 2
āpa oṣadhīrmahayanti | tādṛgeva tat | janayatyai tvā saṃyaumītyāha | prajā evaitena dādhāra | agnaye tvāgnīṣomābhyāmityāha vyāvṛttyai | makhasya śiro'sītyāha | yajño vai makhaḥ | tasyaitacchiraḥ | yatpuroḍāśaḥ | tasmādevamāha 3
gharmo'si viśvāyurityāha | viśvamevāyuryajamāne dadhāti | uru prathasvoru te yajñapatiḥ prathatāmityāha | yajamānameva prajayā paśubhiḥ prathayati | tvacaṃ gṛhṇīṣvetyāha | sarvamevainam̐ satanuṃ karoti | athāpa ānīya pari mārṣṭi | mām̐sa eva tattvacaṃ dadhāti | tasmāttvacā mām̐saṃ channam | gharmo vā eṣo'śāntaḥ 4
ardhamāse'rdhamāse pravṛjyate | yatpuroḍāśaḥ | sa īśvaro yajamānam̐ śucā pradahaḥ | paryagni karoti | paśumevainamakaḥ | śāntyā apradāhāya | triḥ paryagni karoti | tryāvṛddhi yajñaḥ | atho rakṣasāmapahatyai | antaritam̐ rakṣo'ntaritā arātaya ityāha 5
rakṣasāmantarhityai | puroḍāśaṃ vā adhiśritam̐ rakṣām̐syajighām̐san | divi nāko nāmāgnī rakṣohā | sa evāsmādrakṣām̐syapāhann | devastvā savitā śrapayatvityāha | savitṛprasūta evainam̐ śrapayati | varṣiṣṭhe adhi nāka ityāha | rakṣasāmapahatyai | agniste tanuvaṃ mātidhāgityāhānatidāhāya | agne havyam̐ rakṣasvetyāha guptyai 6
avidahantaśśrapayateti vācaṃ visṛjate | yajñameva havīm̐śyabhivyāhṛtya pratanute | purorucamavidāhāya śṛtyai karoti | mastiṣko vai puroḍāśaḥ | taṃ yannābhivāsayet | āvirmastiṣkaḥ syāt | abhivāsayati | tasmādguhā mastiṣkaḥ | bhasmanābhivāsayati | tasmānmām̐senāsthi channam 7
vedenābhivāsayati | tasmātkeśaiḥ śiraśchannam | akhalatibhāvuko bhavati | ya evaṃ veda | paśorvai pratimā puroḍāśaḥ | sa nāyajuṣkamabhivāsyaḥ | vṛtheva syāt | īśvarā yajamānasya paśavaḥ prametoḥ | saṃ brahmaṇā pṛcyasvetyāha | prāṇā vai brahma 8
prāṇāḥ paśavaḥ | prāṇaireva paśūntsaṃpṛṇakti | na pramāyukā bhavanti | yajamāno vai puroḍāśaḥ | prajā paśavaḥ purīṣam | yadevamabhivāsayati | yajamānameva prajayā paśubhiḥ samardhayati | devā vai havirbhṛtvābruvann | kasminnidaṃ mrakṣyāmaha iti | so'gnirabravīt 9
mayi tanūḥ saṃ nidhaddhvam | ahaṃ vastaṃ janayiṣyāmi | yasminmrakṣyadhva iti | te devā agnau tanūḥ saṃ nyadadhata | tasmādāhuḥ | agniḥ sarvā devatā iti | so'ṅgāreṇāpaḥ | abhyapātayat | tata ekato'jāyata | sa dvitīyamabhyapātayat 10
tato dvito'jāyata | sa tṛtīyamabhyapātayat | tatastrito'jāyata | yadadbhyo'jāyanta | tadāpyānāmāpyatvam | yadātmabhyo'jāyanta | tadātmyānāmātmyatvam | te devā āpyeṣvamṛjata | āpyā amṛjata sūryābhyudite | sūryābhyuditaḥ sūryābhinimrukte 11
sūryābhinimruktaḥ kunakhini | kunakhī śyāvadati | śyāvadannagradidhiṣau | agradidhiṣuḥ parivitte | parivitto vīrahaṇi | vīrahā brahmahaṇi tadbrahmahaṇaṃ nātyacyavata | antarvedi ninayatyavarudhyai | ulmukenābhigṛhṇāti śṛtatvāya | śṛtakāmā iva hi devāḥ 12
Sanskrit only: no published translation is held for this verse.
देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । आदद इन्द्र स्य बाहुरसि दक्षिण इत्याह । इन्द्रि यमेव यजमाने दधाति । सहस्रभृष्टिः शततेजा इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । वायुरसि तिग्मतेजा इत्याह । तेजो वै वायुः १
तेज एवास्मिन्दधाति । विषाद्वै नामासुर आसीत् । सोऽबिभेत् । यज्ञेन मा देवा अभिभविष्यन्तीति । स पृथिवीमभ्यवमीत् । सामेध्याभवत् । अथो यदिन्द्रो वृत्रमहन् । तस्य लोहितं पृथिवीमनु व्यधावत् । सामेध्याभवत् । पृथिवि देवयजनीत्याह २
मेध्यामेवैनां देवयजनीं करोति । ओषध्यास्ते मूलं मा हिꣳसिषमित्याह । ओषधीनामहिꣳसायै । व्रजं गच्छ गोस्थानमित्याह । छन्दाꣳसि वै व्रजो गोस्थानः । छन्दाꣳस्येवास्मै व्रजं गोस्थानं करोति । वर्षतु ते द्यौरित्याह । वृष्टिर्वै द्यौः । वृष्टिमेवावरुन्धे । बधान देव सवितः परमस्यां परावतीत्याह ३
द्वौ वाव पुरुषौ । यं चैव द्वेष्टि । यश्चैनं द्वेष्टि । तावुभौ बध्नाति परमस्यां परावति शतेन पाशैः । योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगित्याहा-निम्रुक्त्यै । अररुर्वै नामासुर आसीत् । स पृथिव्यामुपम्लुप्तोऽशयत् । तं देवा अपहतोऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्न् । भ्रातृव्यो वा अररुः । अपहतोऽररुः पृथिव्या इति यदाह ४
भ्रातृव्यमेव पृथिव्या अपहन्ति । तेऽमन्यन्त । दिवं वा अयमितः पतिष्यतीति । तमररुस्ते दिवं मा स्कानिति दिवः पर्यबाधन्त । भ्रातृव्यो वा अररुः । अररुस्ते दिवं मा स्कानिति यदाह । भ्रातृव्यमेव दिवः परिबाधते । स्तम्बयजुर्हरति । पृथिव्या एव भ्रातृव्यमपहन्ति । द्वितीयꣳ हरति ५
अन्तरिक्षादेवैनमपहन्ति । तृतीयꣳ हरति । दिव एवैनमपहन्ति । तूष्णीं चतुर्थꣳ हरति । अपरिमितादेवैनमपहन्ति । असुराणां वा इयमग्र आसीत् । यावदासीनः परापश्यति । तावद्देवानाम् । ते देवा अब्रुवन् । अस्त्वेव नोऽस्यामपीति ६
क्यन्नो दास्यथेति । यावत्स्वयं परिगृह्णीथेति । ते वसवस्त्वेति दक्षिणतः पर्यगृह्णन्न् । रुद्रास्त्वेति पश्चात् । आदित्यास्त्वेत्युत्तरतः । तेऽग्निना प्राञ्चोऽजयन्न् । वसुभिर्दक्षिणा । रुद्रैः प्रत्यञ्चः । आदित्यैरुदञ्चः । यस्यैवं विदुषो वेदिं परिगृह्णन्ति ७
भवत्यात्मना । परास्य भ्रातृव्यो भवति । देवस्य सवितुः सव इत्याह प्रसूत्यै । कर्म कृण्वन्ति वेधस इत्याह । इषितꣳ हि कर्म क्रियते । पृथिव्यै मेध्यं चामेध्यं च व्युदक्रामताम् । प्राचीनमुदीचीनं मेध्यम् । प्रतीचीनं दक्षिणामेध्यम् । प्राचीमुदीचीं प्रवणां करोति । मेध्यामेवैनां देवयजनीं करोति ८
प्राञ्चौ वेद्याꣳवुन्नयति । आहवनियस्य परिगृहीत्यै । प्रतिची श्रोणी ।गार्हपत्यस्य परिगृहीत्यै । अथो मिथुनत्वाय । उद्धन्ति । यदेवास्या अमेध्यम् । तदपहन्ति । उद्धन्ति तस्मादोषधयः पराभवन्ति ९
मूलं छिनत्ति । भ्रातृव्यस्यैव मूलं छिनत्ति । मूलं वा अतितिष्ठद्र क्षाꣳस्यनूत्पिपते । यद्धस्तेन छिन्द्यात् । कुनखिनीः प्रजाः स्युः । स्फ्येन छिनत्ति । वज्रो वै स्फ्यः । वज्रेणैव यज्ञाद्र क्षाꣳस्यपहन्ति । पितृदेवत्यातिखाता । इयतीं खनति १०
प्रजापतिना यज्ञमुखेन संमिताम् । वेदिर्देवेभ्यो निलायत । तां चतुरङ्गुलेऽन्वविन्दन्न् । तस्माच्चतुरङ्गुलं खेया । चतुरङ्गुलं खनति । चतुरङ्गुले ह्योषधयः प्रतितिष्ठन्ति । आ प्रतिष्ठायै खनति । यजमानमेव प्रतिष्ठां गमयति । दक्षिणतो वर्षीयसीं करोति । देवयजनस्यैव रूपमकः ११
पुरीषवतीं करोति । प्रजा वै पशवः पुरीषम् । प्र्जयैवैनं पशुभिः पुरीषवन्तं करोति । उत्तरं परिग्राहं परिगृह्णाति । एतावती वै पृथिवी ।यावती वेदिः । तस्या एतावत एव भ्रातृव्यं निर्भज्य । आत्मन उत्तरं परिग्राहं परिगृह्णाति । ऋतमस्यृतसदनमस्यृतश्रीरसीत्याह । यथायजुरेवैतत् १२
क्रूरमिव वा एतत्करोति । यद्वेदिं करोति । धा असि स्वधा असीति योयुप्यते शान्त्यै । उर्वी चासि वस्वी चासीत्याह । उर्वीमेवैनां वस्वीं करोति । पुरा क्रूरस्य विसृपो विरप्शिन्नित्याह मेध्यत्वाय । उदादाय पृथिवीं जीरदा-नुर्यामैरयन्चन्द्र मसि स्वधाभिरित्याह । यदेवास्या अमेध्यम् । तदपहत्य । मेध्यां देवयजनीं कृत्वा १३
यददश्चन्द्र मसि मेध्यम् । तदस्यामेरयति । तां धीरासो अनुदृश्य यजन्त इत्याहानुख्यात्यै । प्रोक्षणीरासादय । इध्माबर्हिरुपसादय । स्रुवं च स्रुचश्च संमृड्ढि । पत्नीꣳ संनह्य । आज्येनोदेहीत्याहानुपूर्वतायै । प्रोक्षणी-रासादयति । आपो वै रक्षोघ्नीः १४
रक्षसामपहत्यै । स्फ्यस्य वर्त्मन्त्सादयति । यज्ञस्य संतत्यै । उवाच हासितो दैवलः । एतावतीर्वा अमुष्मिꣳल्लोक आप आसन्न् । यावतीः प्रोक्षणीरिति । तस्माद्बह्वीरासाद्याः । स्फ्यमुदस्यन् । यं द्विष्यात्तं ध्यायेत् । शुचैवैनमर्पयति १५
devasya tvā savituḥ prasava iti sphyamādatte prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | ādada indra sya bāhurasi dakṣiṇa ityāha | indri yameva yajamāne dadhāti | sahasrabhṛṣṭiḥ śatatejā ityāha | rūpamevāsyaitanmahimānaṃ vyācaṣṭe | vāyurasi tigmatejā ityāha | tejo vai vāyuḥ 1
teja evāsmindadhāti | viṣādvai nāmāsura āsīt | so'bibhet | yajñena mā devā abhibhaviṣyantīti | sa pṛthivīmabhyavamīt | sāmedhyābhavat | atho yadindro vṛtramahan | tasya lohitaṃ pṛthivīmanu vyadhāvat | sāmedhyābhavat | pṛthivi devayajanītyāha 2
medhyāmevaināṃ devayajanīṃ karoti | oṣadhyāste mūlaṃ mā him̐siṣamityāha | oṣadhīnāmahim̐sāyai | vrajaṃ gaccha gosthānamityāha | chandām̐si vai vrajo gosthānaḥ | chandām̐syevāsmai vrajaṃ gosthānaṃ karoti | varṣatu te dyaurityāha | vṛṣṭirvai dyauḥ | vṛṣṭimevāvarundhe | badhāna deva savitaḥ paramasyāṃ parāvatītyāha 3
dvau vāva puruṣau | yaṃ caiva dveṣṭi | yaścainaṃ dveṣṭi | tāvubhau badhnāti paramasyāṃ parāvati śatena pāśaiḥ | yo'smāndveṣṭi yaṃ ca vayaṃ dviṣmastamato mā maugityāhā-nimruktyai | ararurvai nāmāsura āsīt | sa pṛthivyāmupamlupto'śayat | taṃ devā apahato'raruḥ pṛthivyā iti pṛthivyā apāghnann | bhrātṛvyo vā araruḥ | apahato'raruḥ pṛthivyā iti yadāha 4
bhrātṛvyameva pṛthivyā apahanti | te'manyanta | divaṃ vā ayamitaḥ patiṣyatīti | tamararuste divaṃ mā skāniti divaḥ paryabādhanta | bhrātṛvyo vā araruḥ | araruste divaṃ mā skāniti yadāha | bhrātṛvyameva divaḥ paribādhate | stambayajurharati | pṛthivyā eva bhrātṛvyamapahanti | dvitīyam̐ harati 5
antarikṣādevainamapahanti | tṛtīyam̐ harati | diva evainamapahanti | tūṣṇīṃ caturtham̐ harati | aparimitādevainamapahanti | asurāṇāṃ vā iyamagra āsīt | yāvadāsīnaḥ parāpaśyati | tāvaddevānām | te devā abruvan | astveva no'syāmapīti 6
kyanno dāsyatheti | yāvatsvayaṃ parigṛhṇītheti | te vasavastveti dakṣiṇataḥ paryagṛhṇann | rudrāstveti paścāt | ādityāstvetyuttarataḥ | te'gninā prāñco'jayann | vasubhirdakṣiṇā | rudraiḥ pratyañcaḥ | ādityairudañcaḥ | yasyaivaṃ viduṣo vediṃ parigṛhṇanti 7
bhavatyātmanā | parāsya bhrātṛvyo bhavati | devasya savituḥ sava ityāha prasūtyai | karma kṛṇvanti vedhasa ityāha | iṣitam̐ hi karma kriyate | pṛthivyai medhyaṃ cāmedhyaṃ ca vyudakrāmatām | prācīnamudīcīnaṃ medhyam | pratīcīnaṃ dakṣiṇāmedhyam | prācīmudīcīṃ pravaṇāṃ karoti | medhyāmevaināṃ devayajanīṃ karoti 8
prāñcau vedyām̐vunnayati | āhavaniyasya parigṛhītyai | praticī śroṇī |gārhapatyasya parigṛhītyai | atho mithunatvāya | uddhanti | yadevāsyā amedhyam | tadapahanti | uddhanti tasmādoṣadhayaḥ parābhavanti 9
mūlaṃ chinatti | bhrātṛvyasyaiva mūlaṃ chinatti | mūlaṃ vā atitiṣṭhadra kṣām̐syanūtpipate | yaddhastena chindyāt | kunakhinīḥ prajāḥ syuḥ | sphyena chinatti | vajro vai sphyaḥ | vajreṇaiva yajñādra kṣām̐syapahanti | pitṛdevatyātikhātā | iyatīṃ khanati 10
prajāpatinā yajñamukhena saṃmitām | vedirdevebhyo nilāyata | tāṃ caturaṅgule'nvavindann | tasmāccaturaṅgulaṃ kheyā | caturaṅgulaṃ khanati | caturaṅgule hyoṣadhayaḥ pratitiṣṭhanti | ā pratiṣṭhāyai khanati | yajamānameva pratiṣṭhāṃ gamayati | dakṣiṇato varṣīyasīṃ karoti | devayajanasyaiva rūpamakaḥ 11
purīṣavatīṃ karoti | prajā vai paśavaḥ purīṣam | prjayaivainaṃ paśubhiḥ purīṣavantaṃ karoti | uttaraṃ parigrāhaṃ parigṛhṇāti | etāvatī vai pṛthivī |yāvatī vediḥ | tasyā etāvata eva bhrātṛvyaṃ nirbhajya | ātmana uttaraṃ parigrāhaṃ parigṛhṇāti | ṛtamasyṛtasadanamasyṛtaśrīrasītyāha | yathāyajurevaitat 12
krūramiva vā etatkaroti | yadvediṃ karoti | dhā asi svadhā asīti yoyupyate śāntyai | urvī cāsi vasvī cāsītyāha | urvīmevaināṃ vasvīṃ karoti | purā krūrasya visṛpo virapśinnityāha medhyatvāya | udādāya pṛthivīṃ jīradā-nuryāmairayancandra masi svadhābhirityāha | yadevāsyā amedhyam | tadapahatya | medhyāṃ devayajanīṃ kṛtvā 13
yadadaścandra masi medhyam | tadasyāmerayati | tāṃ dhīrāso anudṛśya yajanta ityāhānukhyātyai | prokṣaṇīrāsādaya | idhmābarhirupasādaya | sruvaṃ ca srucaśca saṃmṛḍḍhi | patnīm̐ saṃnahya | ājyenodehītyāhānupūrvatāyai | prokṣaṇī-rāsādayati | āpo vai rakṣoghnīḥ 14
rakṣasāmapahatyai | sphyasya vartmantsādayati | yajñasya saṃtatyai | uvāca hāsito daivalaḥ | etāvatīrvā amuṣmim̐lloka āpa āsann | yāvatīḥ prokṣaṇīriti | tasmādbahvīrāsādyāḥ | sphyamudasyan | yaṃ dviṣyāttaṃ dhyāyet | śucaivainamarpayati 15
Sanskrit only: no published translation is held for this verse.
वज्रो वै स्फ्यः । यदन्वञ्चं धारयेत् । वज्रेऽध्वर्युः क्षण्वीत । पुरस्तात्तिर्यञ्चं धारयति । वर्जो वै स्फ्यः । वज्रेणैव यज्ञस्य दक्षिणतो रक्षाꣳस्यपहन्ति । अग्निभ्यां प्राचश्च प्रतीचश्च । स्फ्येनोदीचश्चाध्राचश्च । स्फ्येन वा एष वज्रेणास्यै पाप्मानं भ्रातृव्यमपहत्य । उत्करेऽधि प्रवृश्चति १
यथोपधाय वृश्चन्त्येवम् । हस्ताववनेनिक्ते । आत्मानमेव पवयते । स्फ्यं प्रक्षालयति मेध्यत्वाय । अथो पाप्मन एव भ्रातृव्यस्य न्यङ्गं छिनत्ति । इध्माबर्हिरुपसादयति युक्त्यै । यज्ञस्य मिथुनत्वाय । अथो पुरोरुचमेवैतां दधाति । उत्तरस्य कर्मणोऽनुख्यात्यै । न पुरस्तात्प्रत्यगुपसादयेत् २
यत्पुरस्तात्प्रत्यगुपसादयेत् । अन्यत्राहुतिपथादिध्मं प्रतिपादयेत् । प्रजा वै बर्हिः । अपराध्नुयाद्बर्हिषा प्रजानां प्रजननम् । पश्चात्प्रागुपसादयति । आहुतिपथेनेध्मं प्रतिपादयति । संप्रत्येव बर्हिषा प्रजानां प्रजननमुपैति । दक्षिणमिध्मम् । उत्तरं बर्हिः । आत्मा वा इध्मः । प्रजा बर्हिः । प्रजा ह्यात्मन उत्तरतरा तीर्थे । ततो मेधमुपनीय । यथादेवतमेवैनत्प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ३
vajro vai sphyaḥ | yadanvañcaṃ dhārayet | vajre'dhvaryuḥ kṣaṇvīta | purastāttiryañcaṃ dhārayati | varjo vai sphyaḥ | vajreṇaiva yajñasya dakṣiṇato rakṣām̐syapahanti | agnibhyāṃ prācaśca pratīcaśca | sphyenodīcaścādhrācaśca | sphyena vā eṣa vajreṇāsyai pāpmānaṃ bhrātṛvyamapahatya | utkare'dhi pravṛścati 1
yathopadhāya vṛścantyevam | hastāvavanenikte | ātmānameva pavayate | sphyaṃ prakṣālayati medhyatvāya | atho pāpmana eva bhrātṛvyasya nyaṅgaṃ chinatti | idhmābarhirupasādayati yuktyai | yajñasya mithunatvāya | atho purorucamevaitāṃ dadhāti | uttarasya karmaṇo'nukhyātyai | na purastātpratyagupasādayet 2
yatpurastātpratyagupasādayet | anyatrāhutipathādidhmaṃ pratipādayet | prajā vai barhiḥ | aparādhnuyādbarhiṣā prajānāṃ prajananam | paścātprāgupasādayati | āhutipathenedhmaṃ pratipādayati | saṃpratyeva barhiṣā prajānāṃ prajananamupaiti | dakṣiṇamidhmam | uttaraṃ barhiḥ | ātmā vā idhmaḥ | prajā barhiḥ | prajā hyātmana uttaratarā tīrthe | tato medhamupanīya | yathādevatamevainatpratiṣṭhāpayati | pratitiṣṭhati prajayā paśubhiryajamānaḥ 3
Sanskrit only: no published translation is held for this verse.