अग्निर्नः पातु कृत्तिकाः । नक्षत्रं देवमिन्द्रि यम् । इदमासां विचक्षणम् । हविरासं जुहोतन । यस्य भान्ति रश्मयो यस्य केतवः । यस्येमा विश्वा भुवनानि सर्वा । स कृत्तिकाभिरभि संवसानः । अग्निर्नो देवः सुविते दधातु । प्रजापते रोहिणी वेतु पत्नी ।विश्वरूपा बृहती चित्रभानुः १
सा नो यज्ञस्य सुविते दधातु । यथा जीवेम शरदः सवीराः । रोहिणी देव्युदगात्पुरस्तात् । विश्वा रूपाणि प्रतिमोदमाना । प्रजापतिꣳ हविषा वर्धयन्ती ।प्रिया देवानामुपयातु यज्ञम् । सोमो राजा मृगशीर्षेण आगन्न् । शिवं नक्षत्रं प्रियमस्य धाम । आप्यायमानो बहुधा जनेषु । रेतः प्रजां यजमाने दधातु २
यत्ते नक्षत्रं मृगशीर्षमस्ति । प्रियꣳ राजन्प्रियतमं प्रियाणाम् । तस्मै ते सोम हविषा विधेम । शं न एधि द्विपदे शं चतुष्पदे । आर्द्र या रुद्र ः! प्रथमान एति । श्रेष्ठो देवानां पतिरघ्नियानाम् । नक्षत्रमस्य हविषा विधेम । मा नः प्रजाꣳ रीरिषन्मोत वीरान् । हेती रुद्र स्य परि णो वृणक्तु । आर्द्रा नक्षत्रं जुषताꣳ हविर्नः ३
प्रमुञ्चमानौ दुरितानि विश्वा । अपाघशँ सं नुदतामरातिम् । पुनर्नो देव्यदितिः स्पृणोतु । पुनर्वसू नः पुनरेतां यज्ञम् । पुनर्नो देवा अभियन्तु सर्वे । पुनःपुनर्वो हविषा यजामः । एवा न देव्यदितिरनर्वा । विश्वस्य भर्त्री जगतः प्रतिष्ठा । पुनर्वसू हविषा वर्धयन्ती ।प्रियं देवानामप्येतु पाथः ४
बृहस्पतिः प्रथमं जायमानः । तिष्यं नक्षत्रमभि संबभूव । श्रेष्ठो देवानां पृतनासु जिष्णुः । दिशोऽनु सर्वा अभयं नो अस्तु । तिष्यः पुरस्तादुत मध्यतो नः । बृहस्पतिर्नः परिपातु पश्चात् । बाधेतां द्वेषो अभयं कृणुताम् । सुवीर्यस्य पतयः स्याम । इदꣳ सर्पेभ्यो हविरस्तु जुष्टम् । आश्रेषा येषामनुयन्ति चेतः ५
ये अन्तरिक्षं पृथिवीं क्षियन्ति । ते नः सर्पासो हवमागमिष्ठाः । ये रोचने सूर्यस्यापि सर्पाः । ये दिवं देवीमनु संचरन्ति । येषामाश्रेषा अनुयन्ति कामम् । तेभ्यः सर्पेभ्यो मधुमज्जुहोमि । उपहूताः पितरो ये मघासु । मनोजवसः सुकृतः सुकृत्याः । ते नो नक्षत्रे हवमागमिष्ठाः । स्वधाभिर्यज्ञं प्रयतं जुषन्ताम् ६
ये अग्निदग्धा येऽनाग्निदग्धाः । येऽमुं लोकं पितरः क्षियन्ति । याँ श्च विद्म याꣳ उ च न प्रविद्म । मघासु यज्ञꣳ सुकृतं जुषन्ताम् । गवां पतिः फल्गुनीनामसि त्वम् । तदर्यमन्वरुण मित्र चारु । तं त्वा वयꣳ सनितारꣳ सनीनाम् । जीवा जीवन्तमुप संविशेम । येनेमा विश्वा भुवनानि संजिता । यस्य देवा अनुसंयन्ति चेतः ७
अर्यमा राजाजरस्तुविष्मान् । फल्गुनीनामृषभो रोरवीति । श्रेष्ठो देवानां भगवो भगासि । तत्त्वा विदुः फल्गुनीस्तस्य वित्तात् । अस्मभ्यं क्षत्रमजरꣳ सुवीर्यम् । गोमदश्ववदुप संनुदेह । भगो ह दाता भग इत्प्रदाता । भगो देवीः फल्गुनीराविवेश । भगस्येत्तं प्रसवं गमेम । यत्र देवैः सधमादं मदेम ८
आयातु देवः सवितोपयातु । हिरण्ययेन सुवृता रथेन । वहन्हस्तꣳ सुभगं विद्मनापसम् । प्रयच्छन्तं पपुरिं पुण्यमच्छ । हस्तः प्रयच्छत्वमृतं वसीयः । दक्षिणेन प्रतिगृभ्णीम एनत् । दातारमद्य सविता विदेय । यो नो हस्ताय प्रसुवाति यज्ञम् । त्वष्टा नक्षत्रमभ्येति चित्राम् । सुभँ ससं युवतिँ रोचमानाम् ९
निवेशयन्नमृतान्मर्त्याँ श्च । रूपाणि पिँ शन्भुवनानि विश्वा । तन्नस्त्वष्टा तदु चित्रा विचष्टाम् । तन्नक्षत्रं भूरिदा अस्तु मह्यम् । तन्नः प्रजां वीरवतीꣳ सनोतु । गोभिर्नो अश्वैः समनक्तु यज्ञम् । वायुर्नक्षत्रमभ्येति निष्ट्याम् । तिग्मशृङ्गो वृषभो रोरुवाणः । समीरयन्भुवना मातरिश्वा । अप द्वेषाँ सि नुदतामरातीः १०
तन्नो वायुस्तदु निष्ट्या शृणोतु । तन्नक्षत्त्रं भूरिदा अस्तु मह्यम् । तन्नो देवासो अनुजानन्तु कामम् । यथा तरेम दुरितानि विश्वा । दूरमस्मच्छत्रवो यन्तु भीताः । तदिन्द्रा ग्नी कृणुतां तद्विशाखे । तन्नो देवा अनुमदन्तु यज्ञम् । पश्चात्पुरस्तादभयं नो अस्तु । नक्षत्राणामधिपत्नी विशाखे । श्रेष्ठाविन्द्राग्नी भुवनस्य गोपौ ११
विषूचः शत्रूनपबाधमानौ । अप क्षुधं नुदतामरातिम् । पूर्णा पश्चादुत पूर्णा पुरस्तात् । उन्मध्यतः पौर्णमासी जिगाय । तस्यां देवा अधि संवसन्तः । उत्तमे नाक इह मादयन्ताम् । पृथ्वी सुवर्चा युवतिः सजोषाः । पौर्णमास्युदगाच्छोभमाना । आप्याययन्ती दुरितानि विश्वा । उरुं दुहां यजमानाय यज्ञम् १२
agnirnaḥ pātu kṛttikāḥ | nakṣatraṃ devamindri yam | idamāsāṃ vicakṣaṇam | havirāsaṃ juhotana | yasya bhānti raśmayo yasya ketavaḥ | yasyemā viśvā bhuvanāni sarvā | sa kṛttikābhirabhi saṃvasānaḥ | agnirno devaḥ suvite dadhātu | prajāpate rohiṇī vetu patnī |viśvarūpā bṛhatī citrabhānuḥ 1
sā no yajñasya suvite dadhātu | yathā jīvema śaradaḥ savīrāḥ | rohiṇī devyudagātpurastāt | viśvā rūpāṇi pratimodamānā | prajāpatim̐ haviṣā vardhayantī |priyā devānāmupayātu yajñam | somo rājā mṛgaśīrṣeṇa āgann | śivaṃ nakṣatraṃ priyamasya dhāma | āpyāyamāno bahudhā janeṣu | retaḥ prajāṃ yajamāne dadhātu 2
yatte nakṣatraṃ mṛgaśīrṣamasti | priyam̐ rājanpriyatamaṃ priyāṇām | tasmai te soma haviṣā vidhema | śaṃ na edhi dvipade śaṃ catuṣpade | ārdra yā rudra ḥ! prathamāna eti | śreṣṭho devānāṃ patiraghniyānām | nakṣatramasya haviṣā vidhema | mā naḥ prajām̐ rīriṣanmota vīrān | hetī rudra sya pari ṇo vṛṇaktu | ārdrā nakṣatraṃ juṣatām̐ havirnaḥ 3
pramuñcamānau duritāni viśvā | apāghaśa~ saṃ nudatāmarātim | punarno devyaditiḥ spṛṇotu | punarvasū naḥ punaretāṃ yajñam | punarno devā abhiyantu sarve | punaḥpunarvo haviṣā yajāmaḥ | evā na devyaditiranarvā | viśvasya bhartrī jagataḥ pratiṣṭhā | punarvasū haviṣā vardhayantī |priyaṃ devānāmapyetu pāthaḥ 4
bṛhaspatiḥ prathamaṃ jāyamānaḥ | tiṣyaṃ nakṣatramabhi saṃbabhūva | śreṣṭho devānāṃ pṛtanāsu jiṣṇuḥ | diśo'nu sarvā abhayaṃ no astu | tiṣyaḥ purastāduta madhyato naḥ | bṛhaspatirnaḥ paripātu paścāt | bādhetāṃ dveṣo abhayaṃ kṛṇutām | suvīryasya patayaḥ syāma | idam̐ sarpebhyo havirastu juṣṭam | āśreṣā yeṣāmanuyanti cetaḥ 5
ye antarikṣaṃ pṛthivīṃ kṣiyanti | te naḥ sarpāso havamāgamiṣṭhāḥ | ye rocane sūryasyāpi sarpāḥ | ye divaṃ devīmanu saṃcaranti | yeṣāmāśreṣā anuyanti kāmam | tebhyaḥ sarpebhyo madhumajjuhomi | upahūtāḥ pitaro ye maghāsu | manojavasaḥ sukṛtaḥ sukṛtyāḥ | te no nakṣatre havamāgamiṣṭhāḥ | svadhābhiryajñaṃ prayataṃ juṣantām 6
ye agnidagdhā ye'nāgnidagdhāḥ | ye'muṃ lokaṃ pitaraḥ kṣiyanti | yā~ śca vidma yām̐ u ca na pravidma | maghāsu yajñam̐ sukṛtaṃ juṣantām | gavāṃ patiḥ phalgunīnāmasi tvam | tadaryamanvaruṇa mitra cāru | taṃ tvā vayam̐ sanitāram̐ sanīnām | jīvā jīvantamupa saṃviśema | yenemā viśvā bhuvanāni saṃjitā | yasya devā anusaṃyanti cetaḥ 7
aryamā rājājarastuviṣmān | phalgunīnāmṛṣabho roravīti | śreṣṭho devānāṃ bhagavo bhagāsi | tattvā viduḥ phalgunīstasya vittāt | asmabhyaṃ kṣatramajaram̐ suvīryam | gomadaśvavadupa saṃnudeha | bhago ha dātā bhaga itpradātā | bhago devīḥ phalgunīrāviveśa | bhagasyettaṃ prasavaṃ gamema | yatra devaiḥ sadhamādaṃ madema 8
āyātu devaḥ savitopayātu | hiraṇyayena suvṛtā rathena | vahanhastam̐ subhagaṃ vidmanāpasam | prayacchantaṃ papuriṃ puṇyamaccha | hastaḥ prayacchatvamṛtaṃ vasīyaḥ | dakṣiṇena pratigṛbhṇīma enat | dātāramadya savitā videya | yo no hastāya prasuvāti yajñam | tvaṣṭā nakṣatramabhyeti citrām | subha~ sasaṃ yuvati~ rocamānām 9
niveśayannamṛtānmartyā~ śca | rūpāṇi pi~ śanbhuvanāni viśvā | tannastvaṣṭā tadu citrā vicaṣṭām | tannakṣatraṃ bhūridā astu mahyam | tannaḥ prajāṃ vīravatīm̐ sanotu | gobhirno aśvaiḥ samanaktu yajñam | vāyurnakṣatramabhyeti niṣṭyām | tigmaśṛṅgo vṛṣabho roruvāṇaḥ | samīrayanbhuvanā mātariśvā | apa dveṣā~ si nudatāmarātīḥ 10
tanno vāyustadu niṣṭyā śṛṇotu | tannakṣattraṃ bhūridā astu mahyam | tanno devāso anujānantu kāmam | yathā tarema duritāni viśvā | dūramasmacchatravo yantu bhītāḥ | tadindrā gnī kṛṇutāṃ tadviśākhe | tanno devā anumadantu yajñam | paścātpurastādabhayaṃ no astu | nakṣatrāṇāmadhipatnī viśākhe | śreṣṭhāvindrāgnī bhuvanasya gopau 11
viṣūcaḥ śatrūnapabādhamānau | apa kṣudhaṃ nudatāmarātim | pūrṇā paścāduta pūrṇā purastāt | unmadhyataḥ paurṇamāsī jigāya | tasyāṃ devā adhi saṃvasantaḥ | uttame nāka iha mādayantām | pṛthvī suvarcā yuvatiḥ sajoṣāḥ | paurṇamāsyudagācchobhamānā | āpyāyayantī duritāni viśvā | uruṃ duhāṃ yajamānāya yajñam 12
Sanskrit only: no published translation is held for this verse.
ऋध्यास्म हव्यैर्नमसोपसद्य । मित्रं देवं मित्रधेयं नो अस्तु । अनूराधान्हविषा वर्धयन्तः । शतं जीवेम शरदः सवीराः । चित्रं नक्षत्रमुदगात्पुरस्तात् । अनूराधास इति यद्वदन्ति । तन्मित्र एति पथिभिर्देवयानैः । हिरण्ययैर्विततैरन्तरिक्षे । इन्द्रो ज्येष्ठामनु नक्षत्रमेति । यस्मिन्वृत्रं वृत्रतूर्ये ततार १
तस्मिन्वयममृतं दुहानाः । क्षुधं तरेम दुरितिं दुरिष्टिम् । पुरन्दराय वृषभाय धृष्णवे । अषाढाय सहमानाय मीढुषे । इन्द्रा य ज्येष्ठा मधुमद्दुहाना । उरुं कृणोतु यजमानाय लोकम् । मूलं प्रजां वीरवतीं विदेय । पराच्येतु निरृतिः पराचा । गोभिर्नक्षत्रं पशुभिः समक्तम् । अहर्भूयाद्यजमानाय मह्यम् २
अहर्नो अद्य सुविते दधातु । मूलं नक्षत्रमिति यद्वदन्ति । पराचीं वाचा निरृतिं नुदामि । शिवं प्रजायै शिवमस्तु मह्यम् । या दिव्या आपः पयसा संबभूवुः । या अन्तरिक्ष उत पार्थिवीर्याः । यासामषाढा अनुयन्ति कामम् । ता न आपः शꣳ स्योना भवन्तु । याश्च कूप्या याश्च नाद्याः समुद्रि याः । याश्च वैशन्तीरुत प्रासचीर्याः ३
यासामषाढा मधु भक्षयन्ति । ता न आपः शꣳ स्योना भवन्तु । तन्नो विश्वे उपशृण्वन्तु देवाः । तदषाढा अभि संयन्तु यज्ञम् । तन्नक्षत्रं प्रथतां पशुभ्यः । कृषिर्वृष्टिर्यजमानाय कल्पताम् । शुभ्राः कन्या युवतयः सुपेशसः । कर्मकृतः सुकृतो वीर्यावतीः । विश्वान्देवान्हविषा वर्धयन्तीः । अषाढाः काममुपयान्तु यज्ञम् ४
यस्मिन्ब्रह्माभ्यजयत्सर्वमेतत् । अमुं च लोकमिदमू च सर्वम् । तन्नो नक्षत्रमभिजिद्विजित्य । श्रियं दधात्वहृणीयमानम् । उभौ लोकौ ब्रह्मणा संजितेमौ । तन्नो नक्षत्रमभिजिद्विचष्टाम् । तस्मिन्वयं पृतनाः संजयेम । तं नो देवासो अनुजानन्तु कामम् । शृण्वन्ति श्रोणाममृतस्य गोपाम् । पुण्यामस्या उपशृणोमि वाचम् ५
महीं देवीं विष्णुपत्नीमजूर्याम् । प्रतीचीमेनाꣳ हविषा यजामः । त्रेधा विष्णुरुरुगायो विचक्रमे । महीं दिवं पृथिवीमन्तरिक्षम् । तच्छ्रोणैति श्रव इच्छमाना । पुण्यꣳ श्लोकं यजमानाय कृण्वती ।अष्टौ देवा वसवः सोम्यासः । चतस्रो देवीरजराः श्रविष्ठाः । ते यज्ञं पान्तु रजसः परस्तात् । संवत्सरीणममृतꣳ स्वस्ति ६
यज्ञं नः पान्तु वसवः पुरस्तात् । दक्षिणतोऽभियन्तु श्रविष्ठाः । पुण्यं नक्षत्रमभि संविशाम । मा नो अरातिरघशँ सागन्न् । क्षत्रस्य राजा वरुणोऽधिराजः । नक्षत्राणाꣳ शतभिषग्वसिष्ठः । तौ देवेभ्यः कृणुतो दीर्घमायुः । शतꣳ सहस्रा भेषजानि धत्तः । यज्ञं नो राजा वरुण उपयातु । तन्नो विश्वे अभि संयन्तु देवाः ७
तन्नो नक्षत्रꣳ शतभिषग्जुषाणम् । दीर्घमायुः प्रतिरद्भेषजानि । अज एकपादुदगात्पुरस्तात् । विश्वा भूतानि प्रतिमोदमानः । तस्य देवाः प्रसवं यन्ति सर्वे । प्रोष्ठपदासो अमृतस्य गोपाः । विभ्राजमानः समिधान उग्रः । आन्तरिक्षमरुहदगं द्याम् । तꣳ सूर्यं देवमजमेकपादम् । प्रोष्ठपदासो अनुयन्ति सर्वे ८
अहिर्बुध्नियः प्रथमान एति । श्रेष्ठो देवानामुत मानुषाणाम् । तं ब्राह्मणाः सोमपाः सोम्यासः । प्रोष्ठपदासो अभिरक्षन्ति सर्वे । चत्वार एकमभि कर्म देवाः । प्रोष्ठपदास इति यान्वदन्ति । ते बुध्नियं परिषद्यꣳ स्तुवन्तः । अहिꣳ रक्षन्ति नमसोपसद्य । पूषा रेवत्यन्वेति पन्थाम् । पुष्टिपती पशुपा वाजबस्त्यौ ९
इमानि हव्या प्रयता जुषाणा । सुगैर्नो यानैरुपयातां यज्ञम् । क्षुद्रा न्पशून्रक्षतु रेवती नः । गावो नो अश्वाꣳ अन्वेतु पूषा । अन्नꣳ रक्षन्तौ बहुधा विरूपम् । वाजꣳ सनुतां यजमानाय यज्ञम् । तदश्विनावश्वयुजोपयाताम् । शुभं गमिष्ठौ सुयमेभिरश्वैः । स्वं नक्षत्रꣳ हविषा यजन्तौ । मध्वा संपृक्तौ यजुषा समक्तौ १०
यौ देवानां भिषजौ हव्यवाहौ । विश्वस्य दूतावमृतस्य गोपौ । तौ नक्षत्रं जुजुषाणोपयाताम् । नमोऽश्विभ्यां कृणुमोऽश्वयुग्भ्याम् । अप पाप्मानं भरणीर्भरन्तु । तद्यमो राजा भगवान्विचष्टाम् । लोकस्य राजा महतो महान्हि । सुगं नः पन्थामभयं कृणोतु । यस्मिन्नक्षत्रे यम एति राजा । यस्मि-न्नेनमभ्यषिञ्चन्त देवाः । तदस्य चित्रꣳ हविषा यजाम । अप पाप्मानं भरणीर्भरन्तु । निवेशनी यत्ते देवा अदधुः ११
ṛdhyāsma havyairnamasopasadya | mitraṃ devaṃ mitradheyaṃ no astu | anūrādhānhaviṣā vardhayantaḥ | śataṃ jīvema śaradaḥ savīrāḥ | citraṃ nakṣatramudagātpurastāt | anūrādhāsa iti yadvadanti | tanmitra eti pathibhirdevayānaiḥ | hiraṇyayairvitatairantarikṣe | indro jyeṣṭhāmanu nakṣatrameti | yasminvṛtraṃ vṛtratūrye tatāra 1
tasminvayamamṛtaṃ duhānāḥ | kṣudhaṃ tarema duritiṃ duriṣṭim | purandarāya vṛṣabhāya dhṛṣṇave | aṣāḍhāya sahamānāya mīḍhuṣe | indrā ya jyeṣṭhā madhumadduhānā | uruṃ kṛṇotu yajamānāya lokam | mūlaṃ prajāṃ vīravatīṃ videya | parācyetu nirṛtiḥ parācā | gobhirnakṣatraṃ paśubhiḥ samaktam | aharbhūyādyajamānāya mahyam 2
aharno adya suvite dadhātu | mūlaṃ nakṣatramiti yadvadanti | parācīṃ vācā nirṛtiṃ nudāmi | śivaṃ prajāyai śivamastu mahyam | yā divyā āpaḥ payasā saṃbabhūvuḥ | yā antarikṣa uta pārthivīryāḥ | yāsāmaṣāḍhā anuyanti kāmam | tā na āpaḥ śam̐ syonā bhavantu | yāśca kūpyā yāśca nādyāḥ samudri yāḥ | yāśca vaiśantīruta prāsacīryāḥ 3
yāsāmaṣāḍhā madhu bhakṣayanti | tā na āpaḥ śam̐ syonā bhavantu | tanno viśve upaśṛṇvantu devāḥ | tadaṣāḍhā abhi saṃyantu yajñam | tannakṣatraṃ prathatāṃ paśubhyaḥ | kṛṣirvṛṣṭiryajamānāya kalpatām | śubhrāḥ kanyā yuvatayaḥ supeśasaḥ | karmakṛtaḥ sukṛto vīryāvatīḥ | viśvāndevānhaviṣā vardhayantīḥ | aṣāḍhāḥ kāmamupayāntu yajñam 4
yasminbrahmābhyajayatsarvametat | amuṃ ca lokamidamū ca sarvam | tanno nakṣatramabhijidvijitya | śriyaṃ dadhātvahṛṇīyamānam | ubhau lokau brahmaṇā saṃjitemau | tanno nakṣatramabhijidvicaṣṭām | tasminvayaṃ pṛtanāḥ saṃjayema | taṃ no devāso anujānantu kāmam | śṛṇvanti śroṇāmamṛtasya gopām | puṇyāmasyā upaśṛṇomi vācam 5
mahīṃ devīṃ viṣṇupatnīmajūryām | pratīcīmenām̐ haviṣā yajāmaḥ | tredhā viṣṇururugāyo vicakrame | mahīṃ divaṃ pṛthivīmantarikṣam | tacchroṇaiti śrava icchamānā | puṇyam̐ ślokaṃ yajamānāya kṛṇvatī |aṣṭau devā vasavaḥ somyāsaḥ | catasro devīrajarāḥ śraviṣṭhāḥ | te yajñaṃ pāntu rajasaḥ parastāt | saṃvatsarīṇamamṛtam̐ svasti 6
yajñaṃ naḥ pāntu vasavaḥ purastāt | dakṣiṇato'bhiyantu śraviṣṭhāḥ | puṇyaṃ nakṣatramabhi saṃviśāma | mā no arātiraghaśa~ sāgann | kṣatrasya rājā varuṇo'dhirājaḥ | nakṣatrāṇām̐ śatabhiṣagvasiṣṭhaḥ | tau devebhyaḥ kṛṇuto dīrghamāyuḥ | śatam̐ sahasrā bheṣajāni dhattaḥ | yajñaṃ no rājā varuṇa upayātu | tanno viśve abhi saṃyantu devāḥ 7
tanno nakṣatram̐ śatabhiṣagjuṣāṇam | dīrghamāyuḥ pratiradbheṣajāni | aja ekapādudagātpurastāt | viśvā bhūtāni pratimodamānaḥ | tasya devāḥ prasavaṃ yanti sarve | proṣṭhapadāso amṛtasya gopāḥ | vibhrājamānaḥ samidhāna ugraḥ | āntarikṣamaruhadagaṃ dyām | tam̐ sūryaṃ devamajamekapādam | proṣṭhapadāso anuyanti sarve 8
ahirbudhniyaḥ prathamāna eti | śreṣṭho devānāmuta mānuṣāṇām | taṃ brāhmaṇāḥ somapāḥ somyāsaḥ | proṣṭhapadāso abhirakṣanti sarve | catvāra ekamabhi karma devāḥ | proṣṭhapadāsa iti yānvadanti | te budhniyaṃ pariṣadyam̐ stuvantaḥ | ahim̐ rakṣanti namasopasadya | pūṣā revatyanveti panthām | puṣṭipatī paśupā vājabastyau 9
imāni havyā prayatā juṣāṇā | sugairno yānairupayātāṃ yajñam | kṣudrā npaśūnrakṣatu revatī naḥ | gāvo no aśvām̐ anvetu pūṣā | annam̐ rakṣantau bahudhā virūpam | vājam̐ sanutāṃ yajamānāya yajñam | tadaśvināvaśvayujopayātām | śubhaṃ gamiṣṭhau suyamebhiraśvaiḥ | svaṃ nakṣatram̐ haviṣā yajantau | madhvā saṃpṛktau yajuṣā samaktau 10
yau devānāṃ bhiṣajau havyavāhau | viśvasya dūtāvamṛtasya gopau | tau nakṣatraṃ jujuṣāṇopayātām | namo'śvibhyāṃ kṛṇumo'śvayugbhyām | apa pāpmānaṃ bharaṇīrbharantu | tadyamo rājā bhagavānvicaṣṭām | lokasya rājā mahato mahānhi | sugaṃ naḥ panthāmabhayaṃ kṛṇotu | yasminnakṣatre yama eti rājā | yasmi-nnenamabhyaṣiñcanta devāḥ | tadasya citram̐ haviṣā yajāma | apa pāpmānaṃ bharaṇīrbharantu | niveśanī yatte devā adadhuḥ 11
Sanskrit only: no published translation is held for this verse.
नवोनवो भवति जायमानो यमादित्या अँशुमाप्याययन्ति । ये विरूपे समनसा संव्ययन्ती ।समानं तन्तुं परि तातनाते । विभू प्रभू अनुभू विश्वतो हुवे । ते नो नक्षत्रे हवमागमेतम् । वयं देवी ब्रह्मणा संविदानाः । सुरत्नासो देववीतिं दधानाः । अहोरात्रे हविषा वर्धयन्तः । अति पाप्मानमतिमुक्त्या गमेम । प्रत्युवदृश्यायती १
व्युच्छन्ती दुहिता दिवः । अपो मही वृणुते चक्षुषा । तमो ज्योतिष्कृणोति सूनरी ।उदुस्रियाः सचते सूर्यः । सचा उद्यन्नक्षत्रमर्चिमत् । तवेदुषो व्युषि सूर्यस्य च । सं भक्तेन गमेमहि । तन्नो नक्षत्रमर्चिमत् । भानुमत्तेज उच्चरत् । उप यज्ञमिहागमत् २
प्र नक्षत्राय देवाय । इन्द्रा येन्दुꣳ हवामहे । स नः सविता सुवत्सनिम् । पुष्टिदां वीरवत्तमम् । उदु त्यं चित्रम् । अदितिर्न उरुष्यतु महीमू षु मातरम् । इदं विष्णुः प्र तद्विष्णुः । अग्निर्मूर्धा । भुवः । अनु नोऽद्यानुमतिरन्विदनुमते त्वम् । हव्यवाहꣳ स्विष्टम् ३
navonavo bhavati jāyamāno yamādityā a~śumāpyāyayanti | ye virūpe samanasā saṃvyayantī |samānaṃ tantuṃ pari tātanāte | vibhū prabhū anubhū viśvato huve | te no nakṣatre havamāgametam | vayaṃ devī brahmaṇā saṃvidānāḥ | suratnāso devavītiṃ dadhānāḥ | ahorātre haviṣā vardhayantaḥ | ati pāpmānamatimuktyā gamema | pratyuvadṛśyāyatī 1
vyucchantī duhitā divaḥ | apo mahī vṛṇute cakṣuṣā | tamo jyotiṣkṛṇoti sūnarī |udusriyāḥ sacate sūryaḥ | sacā udyannakṣatramarcimat | taveduṣo vyuṣi sūryasya ca | saṃ bhaktena gamemahi | tanno nakṣatramarcimat | bhānumatteja uccarat | upa yajñamihāgamat 2
pra nakṣatrāya devāya | indrā yendum̐ havāmahe | sa naḥ savitā suvatsanim | puṣṭidāṃ vīravattamam | udu tyaṃ citram | aditirna uruṣyatu mahīmū ṣu mātaram | idaṃ viṣṇuḥ pra tadviṣṇuḥ | agnirmūrdhā | bhuvaḥ | anu no'dyānumatiranvidanumate tvam | havyavāham̐ sviṣṭam 3
Sanskrit only: no published translation is held for this verse.
अग्निर्वा अकामयत । अन्नादो देवानाꣳ स्यामिति । स एतमग्नये कृत्तिकाभ्यः पुरोडाशमष्टाकपालं निरवपत् । ततो वै सोऽन्नादो देवानामभवत् । अग्निर्वै देवानामन्नादः । यथा ह वा अग्निर्देवनामन्नादः । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अग्नये स्वाहा कृत्तिकाभ्यः स्वाहा । अम्बायै स्वाहा दुलायै स्वाहा । नितत्न्यै स्वाहाभ्रयन्त्यै स्वाहा । मेघयन्त्यै स्वाहा वर्षयन्त्यै स्वाहा । चुपुणीकायै स्वाहेति १
प्रजापतिः प्रजा असृजत । ता अस्मात्सृष्टाः पराचीरायन्न् । तासाꣳ रोहिणीमभ्यध्यायत् । सोऽकामयत । उप मावर्तेत ।समेनया गच्छेयेति । स एतं प्रजापतये रोहिण्यै चरुं निरवपत् । ततो वै सा तमुपावर्तत । समेनयागच्छत । उप ह वा एनं प्रियमावर्तते । सं प्रियेण गच्छते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । प्रजापतये स्वाहा रोहिण्यै स्वाहा रोचमानायै स्वाहा प्रजाभ्यः स्वाहेति २
सोमो वा अकामयत । ओषधीनाꣳ राज्यमभिजयेयमिति । स एतꣳ सोमाय मृगशीर्षाय श्यामाकं चरुं पयसि निरवपत् । ततो वै स ओषधीनाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सोमाय स्वाहा मृगशीर्षाय स्वाहा । इन्वकाभ्यः स्वाहौषधीभ्यः स्वाहा । राज्याय स्वाहाभिजित्यै स्वाहेति ३
रुद्रो वा अकामयत । पशुमान्त्स्यामिति । स एतꣳ रुद्रायार्द्रायै प्रैयंगवं चरुं पयसि निरवपत् । ततो वै स पशुमानभवत् । पशुमान्ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । रुद्रा य स्वाहाद्रा र्यै! स्वाहा । पिन्वमानायै स्वाहा पशुभ्यः स्वाहेति ४
ऋक्षा वा इयमलोमकासीत् । साकामयत । ओषधीभिर्वनस्पतिभिः प्रजायेयेति । सैतमदित्यै पुनर्वसुभ्यां चरुं निरवपत् । ततो वा इयमोषधीभिर्वनस्पतिभिः प्राजायत । प्रजायते ह वै प्रजया पशुभिः । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति अदित्यै स्वाहा पुनर्वसुभ्याम्स्वाहाभूत्यै स्वाहा प्रजात्यै स्वाहेति ५
बृहस्पतिर्वा अकामयत । ब्रह्मवर्चसी स्यामिति । स एतं बृहस्पतये तिष्याय नैवारं चरुं पयसि निरवपत् । ततो वै स ब्रह्मवर्चस्यभवत् । ब्रह्मवर्चसी ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । बृहस्पतये स्वाहा तिष्याय स्वहा । ब्रह्मवर्चसाय स्वाहेति ६
देवासुराः संयत्ता आसन्न् । ते देवाः सर्पेभ्य आश्रेषाभ्य आज्ये करम्भं निरवपन्न् । तानेताभिरेव देवताभिरुपानयन् । एताभिर्ह वै देवताभिर्द्विषन्तं भ्रा-तृव्यमुपनयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सर्पेभ्यः स्वाहा श्रेषाभ्यः स्वाहा । दन्दशूकेभ्यः स्वाहेति ७
पितरो वा अकामयन्त । पितृलोक ऋध्नुयामेति । त एतं पितृभ्यो मघाभ्यः पुरोडाशꣳ षट्कपालं निरवपन्न् । ततो वै ते पितृलोक आर्ध्नुवन् । पितृलोके ह वा ऋध्नोति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । पितृभ्यः स्वाहा मघाभ्यः स्वाहानघाभ्यः स्वाहागदाभ्यः स्वाहा-रुन्धतीभ्यः स्वाहेति ८
अर्यमा वा अकामयत । पशुमान्त्स्यामिति । स एतमर्यम्णे फल्गुनीभ्यां चरुं निरवपत् । ततो वै स पशुमानभवत् । पशुमान्ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अर्यम्णे स्वाहा फल्गुनीभ्याꣳ स्वाहा । पशुभ्यः स्वाहेति ९
भगो वा अकामयत । भगी श्रेष्ठी देवानाꣳ स्यामिति । स एतं भगाय फल्गुनीभ्यां चरुं निरवपत् । ततो वै स भगी श्रेष्ठी देवानामभवत् । भगी ह वै श्रेष्ठी समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । भगाय स्वाहा फल्गुनीभ्याꣳ स्वाहा । श्रैष्ठ्याय स्वाहेति १०
सविता वा अकामयत श्रन्मे देवा दधीरन्न् । सविता स्यामिति । स एतꣳ सवित्रे हस्ताय पुरोडाशं द्वादशकपालं निरवपदाशूनां व्रीहीणाम् । ततो वै तस्मै श्रद्देवा अदधत । सविताभवत् । श्रद्ध वा अस्मै मनुष्या दधते । सविता समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सवित्रे स्वाहा हस्ताय स्वाहा ददते स्वाहा पृणते स्वाहा प्रयच्छते स्वाहा प्रतिगृभ्णते स्वाहेति ११
त्वष्टा वा अकामयत । चित्रं प्रजां विन्देयेति । स एतं त्वष्ट्रे चित्रायै पुरोडाशमष्टाकपालं निरवपत् । ततो वै स चित्रं प्रजामविन्दत । चित्रꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । त्वष्ट्रे स्वाहा चित्रायै स्वाहा । चैत्राय स्वाहा प्रजायै स्वाहेति १२
वायुर्वा अकामयत । कामचारमेषु लोकेष्वभिजयेयमिति । स एतद्वायवे निष्ट्यायै गृष्ट्यै दुग्धं पयो निरवपत् । ततो वै स कामचारमेषु लोकेष्व-भ्यजयत् । कामचारꣳ ह वा एषु लोकेष्वभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वायवे स्वाहा निष्ट्यायै स्वाहा । कामचाराय स्वाहाभिजित्यै स्वाहेति १३
इन्द्रा ग्नी वा अकामयेताम् । श्रैष्ठ्यं देवानामभिजयेवेति । तावेतमिन्द्रा ग्निभ्यां विशाखाभ्यां पुरोडाशमेकादशकपालं निरवपताम्ततो वै तौ श्रैष्ठ्यं देवानामभ्यजयताम् । श्रैष्ठ्यꣳ ह वै समानानामभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । इन्द्रा ग्निभ्याꣳ स्वाहा विशाखाभ्याꣳ स्वाहा । श्रैष्ठ्याय स्वाहाभिजित्यै स्वाहेति १४
अथैतत्पौर्णमास्या आज्यं निर्वपति । कामो वै पौर्नमासी ।काम आज्यम् । कामेनैव कामꣳ समर्धयति । क्षिप्रमेनꣳ स काम उपनमति । येन कामेन यजते । सोऽत्र जुहोति । पौर्णमास्यै स्वाहा कामाय स्वाहागत्यै स्वाहेति १५
agnirvā akāmayata | annādo devānām̐ syāmiti | sa etamagnaye kṛttikābhyaḥ puroḍāśamaṣṭākapālaṃ niravapat | tato vai so'nnādo devānāmabhavat | agnirvai devānāmannādaḥ | yathā ha vā agnirdevanāmannādaḥ | evam̐ ha vā eṣa manuṣyāṇāṃ bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | agnaye svāhā kṛttikābhyaḥ svāhā | ambāyai svāhā dulāyai svāhā | nitatnyai svāhābhrayantyai svāhā | meghayantyai svāhā varṣayantyai svāhā | cupuṇīkāyai svāheti 1
prajāpatiḥ prajā asṛjata | tā asmātsṛṣṭāḥ parācīrāyann | tāsām̐ rohiṇīmabhyadhyāyat | so'kāmayata | upa māvarteta |samenayā gaccheyeti | sa etaṃ prajāpataye rohiṇyai caruṃ niravapat | tato vai sā tamupāvartata | samenayāgacchata | upa ha vā enaṃ priyamāvartate | saṃ priyeṇa gacchate | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | prajāpataye svāhā rohiṇyai svāhā rocamānāyai svāhā prajābhyaḥ svāheti 2
somo vā akāmayata | oṣadhīnām̐ rājyamabhijayeyamiti | sa etam̐ somāya mṛgaśīrṣāya śyāmākaṃ caruṃ payasi niravapat | tato vai sa oṣadhīnām̐ rājyamabhyajayat | samānānām̐ ha vai rājyamabhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | somāya svāhā mṛgaśīrṣāya svāhā | invakābhyaḥ svāhauṣadhībhyaḥ svāhā | rājyāya svāhābhijityai svāheti 3
rudro vā akāmayata | paśumāntsyāmiti | sa etam̐ rudrāyārdrāyai praiyaṃgavaṃ caruṃ payasi niravapat | tato vai sa paśumānabhavat | paśumānha vai bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | rudrā ya svāhādrā ryai! svāhā | pinvamānāyai svāhā paśubhyaḥ svāheti 4
ṛkṣā vā iyamalomakāsīt | sākāmayata | oṣadhībhirvanaspatibhiḥ prajāyeyeti | saitamadityai punarvasubhyāṃ caruṃ niravapat | tato vā iyamoṣadhībhirvanaspatibhiḥ prājāyata | prajāyate ha vai prajayā paśubhiḥ | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti adityai svāhā punarvasubhyāmsvāhābhūtyai svāhā prajātyai svāheti 5
bṛhaspatirvā akāmayata | brahmavarcasī syāmiti | sa etaṃ bṛhaspataye tiṣyāya naivāraṃ caruṃ payasi niravapat | tato vai sa brahmavarcasyabhavat | brahmavarcasī ha vai bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | bṛhaspataye svāhā tiṣyāya svahā | brahmavarcasāya svāheti 6
devāsurāḥ saṃyattā āsann | te devāḥ sarpebhya āśreṣābhya ājye karambhaṃ niravapann | tānetābhireva devatābhirupānayan | etābhirha vai devatābhirdviṣantaṃ bhrā-tṛvyamupanayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | sarpebhyaḥ svāhā śreṣābhyaḥ svāhā | dandaśūkebhyaḥ svāheti 7
pitaro vā akāmayanta | pitṛloka ṛdhnuyāmeti | ta etaṃ pitṛbhyo maghābhyaḥ puroḍāśam̐ ṣaṭkapālaṃ niravapann | tato vai te pitṛloka ārdhnuvan | pitṛloke ha vā ṛdhnoti | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | pitṛbhyaḥ svāhā maghābhyaḥ svāhānaghābhyaḥ svāhāgadābhyaḥ svāhā-rundhatībhyaḥ svāheti 8
aryamā vā akāmayata | paśumāntsyāmiti | sa etamaryamṇe phalgunībhyāṃ caruṃ niravapat | tato vai sa paśumānabhavat | paśumānha vai bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | aryamṇe svāhā phalgunībhyām̐ svāhā | paśubhyaḥ svāheti 9
bhago vā akāmayata | bhagī śreṣṭhī devānām̐ syāmiti | sa etaṃ bhagāya phalgunībhyāṃ caruṃ niravapat | tato vai sa bhagī śreṣṭhī devānāmabhavat | bhagī ha vai śreṣṭhī samānānāṃ bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | bhagāya svāhā phalgunībhyām̐ svāhā | śraiṣṭhyāya svāheti 10
savitā vā akāmayata śranme devā dadhīrann | savitā syāmiti | sa etam̐ savitre hastāya puroḍāśaṃ dvādaśakapālaṃ niravapadāśūnāṃ vrīhīṇām | tato vai tasmai śraddevā adadhata | savitābhavat | śraddha vā asmai manuṣyā dadhate | savitā samānānāṃ bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | savitre svāhā hastāya svāhā dadate svāhā pṛṇate svāhā prayacchate svāhā pratigṛbhṇate svāheti 11
tvaṣṭā vā akāmayata | citraṃ prajāṃ vindeyeti | sa etaṃ tvaṣṭre citrāyai puroḍāśamaṣṭākapālaṃ niravapat | tato vai sa citraṃ prajāmavindata | citram̐ ha vai prajāṃ vindate | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | tvaṣṭre svāhā citrāyai svāhā | caitrāya svāhā prajāyai svāheti 12
vāyurvā akāmayata | kāmacārameṣu lokeṣvabhijayeyamiti | sa etadvāyave niṣṭyāyai gṛṣṭyai dugdhaṃ payo niravapat | tato vai sa kāmacārameṣu lokeṣva-bhyajayat | kāmacāram̐ ha vā eṣu lokeṣvabhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | vāyave svāhā niṣṭyāyai svāhā | kāmacārāya svāhābhijityai svāheti 13
indrā gnī vā akāmayetām | śraiṣṭhyaṃ devānāmabhijayeveti | tāvetamindrā gnibhyāṃ viśākhābhyāṃ puroḍāśamekādaśakapālaṃ niravapatāmtato vai tau śraiṣṭhyaṃ devānāmabhyajayatām | śraiṣṭhyam̐ ha vai samānānāmabhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | indrā gnibhyām̐ svāhā viśākhābhyām̐ svāhā | śraiṣṭhyāya svāhābhijityai svāheti 14
athaitatpaurṇamāsyā ājyaṃ nirvapati | kāmo vai paurnamāsī |kāma ājyam | kāmenaiva kāmam̐ samardhayati | kṣipramenam̐ sa kāma upanamati | yena kāmena yajate | so'tra juhoti | paurṇamāsyai svāhā kāmāya svāhāgatyai svāheti 15
Sanskrit only: no published translation is held for this verse.
मित्रो वा अकामयत । मित्रधेयमेषु लोकेष्वभिजयेयमिति । स एतं मित्रायानूराधेभ्यश्चरुं निरवपत् । ततो वै स मित्रधेयमेषु लोकेष्वभ्यजयत् । मित्रधेयꣳ ह वा एषु लोकेष्वभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । मित्राय स्वाहानूराधेभ्यः स्वाहा । मित्रधेयाय स्वाहाभिजित्यै स्वाहेति १
इन्द्रो वा अकामयत । ज्यैष्ठ्यं देवानामभिजयेयमिति । स एतमिन्द्रा य ज्येष्ठायै पुरोडाशमेकादशकपालं निरवपन्महाव्रीहीणाम् । ततो वै स ज्यैष्ठ्यं देवानामभ्यजयत् । ज्यैष्ठ्यꣳ ह वै समानानामभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । इन्द्रा य स्वाहा ज्येष्ठायै स्वाहा ज्यैष्ठ्याय स्वाहाभिजित्यै स्वाहेति २
प्रजापतिर्वा अकामयत । मूलं प्रजां विन्देयेति । स एतं प्रजापतये मूलाय चरुं निरवपत् । ततो वै स मूलं प्रजामविन्दत । मूलꣳ ह वै प्रजां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । प्रजापतये स्वाहा मूलाय स्वाहा । प्रजायै स्वाहेति ३
आपो वा अकामयन्त । समुद्रं काममभिजयेमेति । ता एतमद्भ्योऽषाढाभ्यश्चरुं निरवपन्न् । ततो वै ताः समुद्रं काममभ्यजयन् । समुद्रं ह वै काममभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अद्भ्यः स्वाहाऽषाढाभ्यः स्वाहा । समुद्राय स्वाहा कामाय स्वाहा । अभिजित्यै स्वाहेति ४
विश्वे वै देवा अकामयन्त । अनपजय्यं जयेमेति । त एतं विश्वेभ्यो देवेभ्योऽषाढाभ्यश्चरुं निरवपन् । ततो वै तेऽनपजय्यमजयन्न् । अनपजय्यꣳ ह वै जयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । विश्वेभ्यो देवेभ्यः स्वाहाऽषाढाभ्यः स्वाहा । अनपजय्याय स्वाहा जित्यै स्वाहेति ५
ब्रह्म वा अकामयत । ब्रह्मलोकमभिजयेयमिति । तदेतं ब्रह्मणेऽभिजिते चरुं निरवपत् । ततो वै तद्ब्रह्मलोकमभ्यजयत् । ब्रह्मलोकꣳ ह वा अभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । ब्रह्मणे स्वाहाभिजिते स्वाहा । ब्रह्मलोकाय स्वाहाभिजित्यै स्वाहेति ६
विष्णुर्वा अकामयत । पुण्यꣳ श्लोकꣳ शृण्वीय । न मा पापी कीर्तिरागच्छेदिति । स एतं विष्णवे श्रोणायै पुरोडाशं त्रिकपालं निरवपत् । ततो वै स पुण्यꣳ श्लोकमशृणुत । नैनं पापी कीर्तिरागच्छत् । पुण्यꣳ ह वै श्लोकꣳ शृणुते । नैनं पापी कीर्तिरागच्छति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । विष्णवे स्वाहा श्रोणायै स्वाहा । श्लोकाय स्वाहा श्रुताय स्वाहेति ७
वसवो वा अकामयन्त । अग्रं देवतानां परीयामेति । त एतं वसुभ्यः श्रविष्ठाभ्यः पुरोडाशमष्टाकपालं निरवपन् । ततो वै तेऽग्रं देवतानां पर्यायन्न् । अग्रꣳ ह वै समानानां पर्येति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वसुभ्यः स्वाहा श्रविष्ठाभ्यः स्वाहा । अग्राय स्वाहा परीत्यै स्वाहेति ८
इन्द्रो वा अकामयत । दृढोऽशिथिलः स्यामिति । स एतं वरुणाय शतभिषजे भेषजेभ्यः पुरोडाशं दशकपालं निरवपत्कृष्णानां व्रीहीणाम् । ततो वै स दृढोऽशिथिलोऽभवत् । दृढो ह वा अशिथिलो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । वरुणाय स्वाहा शतभिषजे स्वाहा । भेषजेभ्यः स्वाहेति ९
अजो वा एकपादकामयत । तेजस्वी ब्रह्मवर्चसी स्यामिति । स एतमजायैकपदे प्रोष्ठपदेभ्यश्चरुं निरवपत् । ततो वै स तेजस्वी ब्रह्मवर्चस्यभवत् । तेजस्वी ह वै ब्रह्मवर्चसी भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अजायैकपदे स्वाहा प्रोष्ठपदेभ्यः स्वाहा । तेजसे स्वाहा ब्रह्मवर्चसाय स्वाहेति १०
अहिर्वै बुध्नियोऽकामयत । इमां प्रतिष्ठां विन्देयेति । स एतमहये बुध्नियाय प्रोष्ठपदेभ्यः पुरोडाशं भूमिकपालं निरवपत् । ततो वै स इमां प्रतिष्ठामविन्दत । इमाꣳ ह वै प्रतिष्ठां विन्दते । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अहये बुध्नियाय स्वाहा प्रोष्ठपदेभ्यः स्वाहा । प्रतिष्ठायै स्वाहेति ११
पूषा वा अकामयत । पशुमान्त्स्यामिति । स एतं पूष्णे रेवत्यै चरुं निरवपत् । ततो वै स पशुमानभवत् । पशुमान्ह वै भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । पूष्णे स्वाहा रेवत्यै स्वाहा । पशुभ्यः स्वाहेति १२
अश्विनौ वा अकामयेताम् । श्रोत्रस्विनावबधिरौ स्यावेति । तवेतमश्विभ्यामश्वयुग्भ्यां पुरोडाशं द्विकपालं निरवपताम् । ततो वै तौ श्रोत्रस्विनावबधिरावभवताम् । श्रोत्रस्वी ह वा अबधिरो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अश्विभ्याꣳ स्वाहाश्वयुग्भ्याꣳ स्वाहा । श्रोत्राय स्वाहा श्रुत्यै स्वाहेति १३
यमो वा अकामयत । पितृणाꣳ राज्यमभिजयेयमिति । स एतं यमा-यापभरणीभ्यश्चरुं निरवपत् । ततो वै स पितृणाꣳ राज्यमभ्यजयत् । समानानाꣳ ह वै राज्यमभिजयति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । यमाय स्वाहापभरणीभ्यः स्वाहा । राज्याय स्वाहाभिजित्यै स्वाहेति १४
अथैतदमावास्याया आज्यं निर्वपति । कामो वा अमावास्या । काम आज्यम् । कामेनैव कामꣳ समर्धयति । क्षिप्रमेनꣳ स काम उपनमति । येन कामेन यजते । सोऽत्र जुहोति । अमावास्यायै स्वाहा कामाय स्वाहागत्यै स्वाहेति १५
mitro vā akāmayata | mitradheyameṣu lokeṣvabhijayeyamiti | sa etaṃ mitrāyānūrādhebhyaścaruṃ niravapat | tato vai sa mitradheyameṣu lokeṣvabhyajayat | mitradheyam̐ ha vā eṣu lokeṣvabhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | mitrāya svāhānūrādhebhyaḥ svāhā | mitradheyāya svāhābhijityai svāheti 1
indro vā akāmayata | jyaiṣṭhyaṃ devānāmabhijayeyamiti | sa etamindrā ya jyeṣṭhāyai puroḍāśamekādaśakapālaṃ niravapanmahāvrīhīṇām | tato vai sa jyaiṣṭhyaṃ devānāmabhyajayat | jyaiṣṭhyam̐ ha vai samānānāmabhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | indrā ya svāhā jyeṣṭhāyai svāhā jyaiṣṭhyāya svāhābhijityai svāheti 2
prajāpatirvā akāmayata | mūlaṃ prajāṃ vindeyeti | sa etaṃ prajāpataye mūlāya caruṃ niravapat | tato vai sa mūlaṃ prajāmavindata | mūlam̐ ha vai prajāṃ vindate | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | prajāpataye svāhā mūlāya svāhā | prajāyai svāheti 3
āpo vā akāmayanta | samudraṃ kāmamabhijayemeti | tā etamadbhyo'ṣāḍhābhyaścaruṃ niravapann | tato vai tāḥ samudraṃ kāmamabhyajayan | samudraṃ ha vai kāmamabhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | adbhyaḥ svāhā'ṣāḍhābhyaḥ svāhā | samudrāya svāhā kāmāya svāhā | abhijityai svāheti 4
viśve vai devā akāmayanta | anapajayyaṃ jayemeti | ta etaṃ viśvebhyo devebhyo'ṣāḍhābhyaścaruṃ niravapan | tato vai te'napajayyamajayann | anapajayyam̐ ha vai jayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | viśvebhyo devebhyaḥ svāhā'ṣāḍhābhyaḥ svāhā | anapajayyāya svāhā jityai svāheti 5
brahma vā akāmayata | brahmalokamabhijayeyamiti | tadetaṃ brahmaṇe'bhijite caruṃ niravapat | tato vai tadbrahmalokamabhyajayat | brahmalokam̐ ha vā abhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | brahmaṇe svāhābhijite svāhā | brahmalokāya svāhābhijityai svāheti 6
viṣṇurvā akāmayata | puṇyam̐ ślokam̐ śṛṇvīya | na mā pāpī kīrtirāgacchediti | sa etaṃ viṣṇave śroṇāyai puroḍāśaṃ trikapālaṃ niravapat | tato vai sa puṇyam̐ ślokamaśṛṇuta | nainaṃ pāpī kīrtirāgacchat | puṇyam̐ ha vai ślokam̐ śṛṇute | nainaṃ pāpī kīrtirāgacchati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | viṣṇave svāhā śroṇāyai svāhā | ślokāya svāhā śrutāya svāheti 7
vasavo vā akāmayanta | agraṃ devatānāṃ parīyāmeti | ta etaṃ vasubhyaḥ śraviṣṭhābhyaḥ puroḍāśamaṣṭākapālaṃ niravapan | tato vai te'graṃ devatānāṃ paryāyann | agram̐ ha vai samānānāṃ paryeti | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | vasubhyaḥ svāhā śraviṣṭhābhyaḥ svāhā | agrāya svāhā parītyai svāheti 8
indro vā akāmayata | dṛḍho'śithilaḥ syāmiti | sa etaṃ varuṇāya śatabhiṣaje bheṣajebhyaḥ puroḍāśaṃ daśakapālaṃ niravapatkṛṣṇānāṃ vrīhīṇām | tato vai sa dṛḍho'śithilo'bhavat | dṛḍho ha vā aśithilo bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | varuṇāya svāhā śatabhiṣaje svāhā | bheṣajebhyaḥ svāheti 9
ajo vā ekapādakāmayata | tejasvī brahmavarcasī syāmiti | sa etamajāyaikapade proṣṭhapadebhyaścaruṃ niravapat | tato vai sa tejasvī brahmavarcasyabhavat | tejasvī ha vai brahmavarcasī bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | ajāyaikapade svāhā proṣṭhapadebhyaḥ svāhā | tejase svāhā brahmavarcasāya svāheti 10
ahirvai budhniyo'kāmayata | imāṃ pratiṣṭhāṃ vindeyeti | sa etamahaye budhniyāya proṣṭhapadebhyaḥ puroḍāśaṃ bhūmikapālaṃ niravapat | tato vai sa imāṃ pratiṣṭhāmavindata | imām̐ ha vai pratiṣṭhāṃ vindate | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | ahaye budhniyāya svāhā proṣṭhapadebhyaḥ svāhā | pratiṣṭhāyai svāheti 11
pūṣā vā akāmayata | paśumāntsyāmiti | sa etaṃ pūṣṇe revatyai caruṃ niravapat | tato vai sa paśumānabhavat | paśumānha vai bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | pūṣṇe svāhā revatyai svāhā | paśubhyaḥ svāheti 12
aśvinau vā akāmayetām | śrotrasvināvabadhirau syāveti | tavetamaśvibhyāmaśvayugbhyāṃ puroḍāśaṃ dvikapālaṃ niravapatām | tato vai tau śrotrasvināvabadhirāvabhavatām | śrotrasvī ha vā abadhiro bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | aśvibhyām̐ svāhāśvayugbhyām̐ svāhā | śrotrāya svāhā śrutyai svāheti 13
yamo vā akāmayata | pitṛṇām̐ rājyamabhijayeyamiti | sa etaṃ yamā-yāpabharaṇībhyaścaruṃ niravapat | tato vai sa pitṛṇām̐ rājyamabhyajayat | samānānām̐ ha vai rājyamabhijayati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | yamāya svāhāpabharaṇībhyaḥ svāhā | rājyāya svāhābhijityai svāheti 14
athaitadamāvāsyāyā ājyaṃ nirvapati | kāmo vā amāvāsyā | kāma ājyam | kāmenaiva kāmam̐ samardhayati | kṣipramenam̐ sa kāma upanamati | yena kāmena yajate | so'tra juhoti | amāvāsyāyai svāhā kāmāya svāhāgatyai svāheti 15
Sanskrit only: no published translation is held for this verse.
चन्द्रमा वा अकामयत । अहोरात्रानर्धमासान्मासानृतून्त्संवत्सरमाप्त्वा । चन्द्र मसः सायुज्यꣳ सलोकतामाप्नुयामिति । स एतं चन्द्र मसे प्रतीदृश्यायै पुरोडाशं पञ्चदशकपालं निरवपत् । ततो वै सोऽहोरात्रानर्धमासान्मासानृतून्त्संवत्सरमाप्त्वा । चन्द्र मसः सायुज्यꣳ सलोकतामाप्नोत् । अहोरात्रान्ह वा अर्धमासान्मासानृतून्त्संवत्सरमाप्त्वा । चन्द्र मसः सायुज्यꣳ सलोकतामाप्नोति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । चन्द्र मसे स्वाहा प्रतीदृश्यायै स्वाहा । अहोरात्रेभ्यः स्वाहार्धमासेभ्यः स्वाहा । मासेभ्यः स्वाहर्तुभ्यः स्वाहा । संवत्सराय स्वाहेति १
अहोरात्रे वा अकामयेताम् । अत्यहोरात्रे मुच्येवहि । न नावहोरात्रे आप्नुयातामिति । ते एतमहोरात्राभ्यां चरुं निरवपताम् । द्वयानां व्रीहीणाम् । शुक्लानां च कृष्णानां च । सवात्योर्दुग्धे । श्वेतायै च कृष्णायै च । ततो वै ते अत्यहोरात्रे अमुच्येते । नैने अहोरात्रे आप्नुताम् । अति ह वा अहोरात्रे मुच्यते । नैनमहोरात्रे आप्नुतः । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । अह्ने स्वाहा रात्रियै स्वाहा । अतिमुक्त्यै स्वाहेति २
उषा वा अकामयत । प्रियादित्यस्य सुभगा स्यामिति । सैतमुषसे चरुं निरवपत् । ततो वै सा प्रियादित्यस्य सुभगाभवत् । प्रियो ह वै समानानाꣳ सुभगो भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । उषसे स्वाहा व्युष्ट्यै स्वाहा । व्यूषुष्यै स्वाहा व्युच्छन्त्यै स्वाहा । व्युष्टायै स्वाहेति ३
अथैतस्मै नक्षत्राय चरुं निर्वपति । यथा त्वं देवानामसि । एवमहं मनुष्याणां भूयासमिति । यथा ह वा एतद्देवानाम् । एवꣳ ह वा एष मनुष्याणां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । नक्षत्राय स्वाहोदेष्यते स्वाहा । उद्यते स्वाहोदिताय स्वाहा । हरसे स्वाहा भरसे स्वाहा । भ्राजसे स्वाहा तेजसे स्वाहा । तपसे स्वाहा ब्रह्मवर्चसाय स्वाहेति ४
सूर्यो वा अकामयत । नक्षत्राणां प्रतिष्ठा स्यामिति । स एतꣳ सूर्याय नक्षत्रेभ्यश्चरुं निरवपत् । ततो वै स नक्षत्राणां प्रतिष्ठाभवत् । प्रतिष्ठा ह वै समानानां भवति । य एतेन हविषा यजते । य उ चैनदेवं वेद । सोऽत्र जुहोति । सूर्याय स्वाहा नक्षत्रेभ्यः स्वाहा । प्रतिष्ठायै स्वाहेति ५
अथैतमदित्यै चरुं निर्वपति । इयं वा अदितिः । अस्यामेव प्रतितिष्ठति । सोऽत्र जुहोति । अदित्यै स्वाहा प्रतिष्ठायै स्वाहेति ६
अथैतं विष्णवे चरुं निर्वपति । यज्ञो वै विष्णुः । यज्ञ एवान्ततः प्रतितिष्ठति । सोऽत्र जुहोति । विष्णवे स्वाहा यज्ञाय स्वाहा । प्रतिष्ठायै स्वाहेति ७
candramā vā akāmayata | ahorātrānardhamāsānmāsānṛtūntsaṃvatsaramāptvā | candra masaḥ sāyujyam̐ salokatāmāpnuyāmiti | sa etaṃ candra mase pratīdṛśyāyai puroḍāśaṃ pañcadaśakapālaṃ niravapat | tato vai so'horātrānardhamāsānmāsānṛtūntsaṃvatsaramāptvā | candra masaḥ sāyujyam̐ salokatāmāpnot | ahorātrānha vā ardhamāsānmāsānṛtūntsaṃvatsaramāptvā | candra masaḥ sāyujyam̐ salokatāmāpnoti | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | candra mase svāhā pratīdṛśyāyai svāhā | ahorātrebhyaḥ svāhārdhamāsebhyaḥ svāhā | māsebhyaḥ svāhartubhyaḥ svāhā | saṃvatsarāya svāheti 1
ahorātre vā akāmayetām | atyahorātre mucyevahi | na nāvahorātre āpnuyātāmiti | te etamahorātrābhyāṃ caruṃ niravapatām | dvayānāṃ vrīhīṇām | śuklānāṃ ca kṛṣṇānāṃ ca | savātyordugdhe | śvetāyai ca kṛṣṇāyai ca | tato vai te atyahorātre amucyete | naine ahorātre āpnutām | ati ha vā ahorātre mucyate | nainamahorātre āpnutaḥ | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | ahne svāhā rātriyai svāhā | atimuktyai svāheti 2
uṣā vā akāmayata | priyādityasya subhagā syāmiti | saitamuṣase caruṃ niravapat | tato vai sā priyādityasya subhagābhavat | priyo ha vai samānānām̐ subhago bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | uṣase svāhā vyuṣṭyai svāhā | vyūṣuṣyai svāhā vyucchantyai svāhā | vyuṣṭāyai svāheti 3
athaitasmai nakṣatrāya caruṃ nirvapati | yathā tvaṃ devānāmasi | evamahaṃ manuṣyāṇāṃ bhūyāsamiti | yathā ha vā etaddevānām | evam̐ ha vā eṣa manuṣyāṇāṃ bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | nakṣatrāya svāhodeṣyate svāhā | udyate svāhoditāya svāhā | harase svāhā bharase svāhā | bhrājase svāhā tejase svāhā | tapase svāhā brahmavarcasāya svāheti 4
sūryo vā akāmayata | nakṣatrāṇāṃ pratiṣṭhā syāmiti | sa etam̐ sūryāya nakṣatrebhyaścaruṃ niravapat | tato vai sa nakṣatrāṇāṃ pratiṣṭhābhavat | pratiṣṭhā ha vai samānānāṃ bhavati | ya etena haviṣā yajate | ya u cainadevaṃ veda | so'tra juhoti | sūryāya svāhā nakṣatrebhyaḥ svāhā | pratiṣṭhāyai svāheti 5
athaitamadityai caruṃ nirvapati | iyaṃ vā aditiḥ | asyāmeva pratitiṣṭhati | so'tra juhoti | adityai svāhā pratiṣṭhāyai svāheti 6
athaitaṃ viṣṇave caruṃ nirvapati | yajño vai viṣṇuḥ | yajña evāntataḥ pratitiṣṭhati | so'tra juhoti | viṣṇave svāhā yajñāya svāhā | pratiṣṭhāyai svāheti 7
Sanskrit only: no published translation is held for this verse.
तृतीयस्यामितो दिवि सोम आसीत् । तं गायत्र्याहरत् । तस्य पर्णमच्छिद्यत । तत्पर्णोऽभवत् । तत्पर्णस्य पर्णत्वम् । ब्रह्म वै पर्णः । यत्पर्णशाखया वत्सानपाकरोति । ब्रह्मणैवैनानपाकरोति । गायत्रो वै पर्णः । गायत्राः पशवः १
तस्मात्त्रीणित्रीणि पर्णस्य पलाशानि । त्रिपदा गायत्री ।यत्पर्णशखया गाः प्रार्पयति । स्वयैवैना देवतया प्रार्पयति । यं कामयेतापशुः स्यादिति । अपर्णां तस्मै शुष्काग्रामाहरेत् । अपशुरेव भवति । यं कामयेत पशुमान्त्स्यादिति । बहुपर्णां तस्मै बहुशाखामाहरेत् । पशुमन्तमेवैनं करोति २
यत्प्राचीमाहरेत् । देवलोकमभिजयेत् । यदुदीचीं मनुष्यलोकम् । प्राचीमुदीचीमाहरति । उभयोर्लोकयोरभिजित्यै । इषे त्वोर्जे त्वेत्याह । इषमेवोर्जं यजमाने दधाति । वायवः स्थेत्याह । वायुर्वा अन्तरिक्षस्याध्यक्षाः । अन्तरिक्षदेवत्याः खलु वै पशवः ३
वायव एवैनान्परिददाति । प्र वा एनानेतदाकरोति । यदाह । वायवः स्थेत्युपायवः स्थेत्याह । यजमानायैव पशूनुपह्वयते । देवो वः सविता प्रार्पयत्वित्याह प्रसूत्यै । श्रेष्ठतमाय कर्मण इत्याह । यज्ञो हि श्रेष्ठतमं कर्म । तस्मादेवमाह । आप्यायध्वमघ्निया देवभागमित्याह ४
वत्सेभ्यश्च वा एताः पुरा मौष्येभ्यश्चाप्यायन्त । देवेभ्य एवैना इन्द्रायाप्यायति । ऊर्जस्वतीः पयस्वतीरित्याह । ऊर्जꣳ हि पयः संभरन्ति । प्रजावतीरनमीवा अयक्ष्मा इत्याह प्रजात्यै । मा वः स्तेन ईशत माघशꣳस इत्याह गुप्त्यै । रुद्र स्य हेतिः परि वो वृणक्त्वित्याह । रुद्रा देवैनास्त्रायते । ध्रुवा अस्मिन्गोपतौ स्यात बह्वीरित्याह । ध्रुवा एवास्मिन्बह्वीः करोति ५
यजमानस्य पशून्पाहीत्याह । पशूनां गोपीथाय । तस्मात्सायं पशव उप समावर्तन्ते । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ६
tṛtīyasyāmito divi soma āsīt | taṃ gāyatryāharat | tasya parṇamacchidyata | tatparṇo'bhavat | tatparṇasya parṇatvam | brahma vai parṇaḥ | yatparṇaśākhayā vatsānapākaroti | brahmaṇaivainānapākaroti | gāyatro vai parṇaḥ | gāyatrāḥ paśavaḥ 1
tasmāttrīṇitrīṇi parṇasya palāśāni | tripadā gāyatrī |yatparṇaśakhayā gāḥ prārpayati | svayaivainā devatayā prārpayati | yaṃ kāmayetāpaśuḥ syāditi | aparṇāṃ tasmai śuṣkāgrāmāharet | apaśureva bhavati | yaṃ kāmayeta paśumāntsyāditi | bahuparṇāṃ tasmai bahuśākhāmāharet | paśumantamevainaṃ karoti 2
yatprācīmāharet | devalokamabhijayet | yadudīcīṃ manuṣyalokam | prācīmudīcīmāharati | ubhayorlokayorabhijityai | iṣe tvorje tvetyāha | iṣamevorjaṃ yajamāne dadhāti | vāyavaḥ sthetyāha | vāyurvā antarikṣasyādhyakṣāḥ | antarikṣadevatyāḥ khalu vai paśavaḥ 3
vāyava evainānparidadāti | pra vā enānetadākaroti | yadāha | vāyavaḥ sthetyupāyavaḥ sthetyāha | yajamānāyaiva paśūnupahvayate | devo vaḥ savitā prārpayatvityāha prasūtyai | śreṣṭhatamāya karmaṇa ityāha | yajño hi śreṣṭhatamaṃ karma | tasmādevamāha | āpyāyadhvamaghniyā devabhāgamityāha 4
vatsebhyaśca vā etāḥ purā mauṣyebhyaścāpyāyanta | devebhya evainā indrāyāpyāyati | ūrjasvatīḥ payasvatīrityāha | ūrjam̐ hi payaḥ saṃbharanti | prajāvatīranamīvā ayakṣmā ityāha prajātyai | mā vaḥ stena īśata māghaśam̐sa ityāha guptyai | rudra sya hetiḥ pari vo vṛṇaktvityāha | rudrā devaināstrāyate | dhruvā asmingopatau syāta bahvīrityāha | dhruvā evāsminbahvīḥ karoti 5
yajamānasya paśūnpāhītyāha | paśūnāṃ gopīthāya | tasmātsāyaṃ paśava upa samāvartante | anadhaḥ sādayati | garbhāṇāṃ dhṛtyā aprapādāya | tasmādgarbhāḥ prajānāmaprapādukāḥ | uparīva nidadhāti | uparīva hi suvargo lokaḥ | suvargasya lokasya samaṣṭyai 6
Sanskrit only: no published translation is held for this verse.
देवस्य त्वा सवितुः प्रसव इत्यश्वपर्शुमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । यो वा ओषधीः पर्वशो वेद । नैनाः स हिनस्ति । प्रजापतिर्वा ओषधीः पर्वशो वेद । स एना न हिनस्ति अश्वपर्श्वा बर्हिरच्छैति । प्राजापत्यो वा अश्वः सयोनित्वाय १
ओषधीनामहिꣳसायै । यज्ञस्य घोषदसीत्याह । यजमान एव रयिं दधाति । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । प्रेयमगाद्धिषणा बर्हिरच्छेत्याह । विद्या वै धिषणा । विद्ययैवैनदच्छैति । मनुना कृता स्वधया वितष्टेत्याह । मानवी हि पर्शुः स्वधाकृता २
त आवहन्ति कवयः पुरस्तादित्याह । शुश्रुवाꣳसो वै कवयः । यज्ञः पुरस्तात् । मुखत एव यज्ञमारभते । अथो यदेतदुक्त्वा यतः कुतश्चाहरति । तत्प्राच्या एव दिशो भवति । देवेभ्यो जुष्टमिह बर्हिरासद इत्याह । बर्हिषः समृद्ध्यै । कर्मणोऽनपराधाय । देवानां परिषूतमसीत्याह ३
यद्वा इदं किं च । तद्देवानां परिषूतम् । अथो यथा वस्यसे प्रतिप्रोच्याहेदं करिष्यामीति । एवमेव तदध्वर्युर्देवेभ्यः प्रतिप्रोच्य बर्हिर्दाति । आत्म-नोऽहिꣳसायै । यावतः स्तम्बान्परिदिशेत् । यत्तेषामुच्छिꣳष्यात् । अति तद्य-ज्ञस्य रेचयेत् । एकꣳ ँ! स्तम्बं परिदिशेत् । तꣳ सर्वं दायात् ४
यज्ञस्यानतिरेकाय । वर्षवृद्धमसीत्याह । वर्षवृद्धा वा ओषधयः । देवबर्हिरित्याह । देवेभ्य एवैनत्करोति । मा त्वान्वङ्मा तिर्यगित्याहाहिꣳसायै । पर्व ते राध्यासमित्याहर्ध्यै । आच्छेत्ता ते मा रिषमित्याह । नास्यात्मनो मीयते । य एवं वेद ५
देव बर्हिश्शतवल्शं विरोहेत्याह । प्रजा वै बर्हिः । प्रजानां प्रजननाय । सहस्रवल्शा वि वयꣳ रुहेमेत्याह । आशिषमेवैतामाशास्ते । पृथिव्याः संपृचः पाहीत्याह प्रतिष्ठित्यै । अयुं गायुं गान्मुष्टीꣳल्लुनोति । मिथुनत्वाय प्रजात्यै । सुसंभृता त्वा संभरामीत्याह । ब्रह्मणैवैनत्संभरति ६
अदित्यै रास्नासीत्याह । इयं वा अदितिः । अस्या एवैनद्रा स्नां करोति । इन्द्रा ण्यै संनहनमित्याह । इन्द्रा णी वा अग्रे देवतानाꣳ समनह्यत । सार्ध्नोत् । ऋद्ध्यै संनह्यति । प्रजा वै बर्हिः । प्रजानामपरावापाय । तस्मात्स्नावसंतताः प्रजा जायन्ते ७
पूषा ते ग्रन्थिं ग्रथ्नात्वित्याह । पुष्टिमेव यजमाने दधाति । स ते मा स्थादित्याहाहिꣳसायै । पश्चात्प्राञ्चमुपगूहति । पश्चाद्वै प्राचीनꣳ रेतो धीयते । पश्चादेवास्मै प्राचीनꣳ रेतो दधाति । इन्द्र स्य त्वा बाहुभ्यामुद्यच्छ इत्याह । इन्द्रियमेव यजमाने दधाति । बृहस्पतेर्मूर्ध्ना हरामीत्याह । ब्रह्म वै देवानां बृहस्पतिः ८
ब्रह्मणैवैनद्धरति । उर्वन्तरिक्षमन्विहीत्याह गत्यै । देवंगममसीत्याह । देवानेवैनद्गमयति । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै ९
devasya tvā savituḥ prasava ityaśvaparśumādatte prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | yo vā oṣadhīḥ parvaśo veda | naināḥ sa hinasti | prajāpatirvā oṣadhīḥ parvaśo veda | sa enā na hinasti aśvaparśvā barhiracchaiti | prājāpatyo vā aśvaḥ sayonitvāya 1
oṣadhīnāmahim̐sāyai | yajñasya ghoṣadasītyāha | yajamāna eva rayiṃ dadhāti | pratyuṣṭam̐ rakṣaḥ pratyuṣṭā arātaya ityāha | rakṣasāmapahatyai | preyamagāddhiṣaṇā barhiracchetyāha | vidyā vai dhiṣaṇā | vidyayaivainadacchaiti | manunā kṛtā svadhayā vitaṣṭetyāha | mānavī hi parśuḥ svadhākṛtā 2
ta āvahanti kavayaḥ purastādityāha | śuśruvām̐so vai kavayaḥ | yajñaḥ purastāt | mukhata eva yajñamārabhate | atho yadetaduktvā yataḥ kutaścāharati | tatprācyā eva diśo bhavati | devebhyo juṣṭamiha barhirāsada ityāha | barhiṣaḥ samṛddhyai | karmaṇo'naparādhāya | devānāṃ pariṣūtamasītyāha 3
yadvā idaṃ kiṃ ca | taddevānāṃ pariṣūtam | atho yathā vasyase pratiprocyāhedaṃ kariṣyāmīti | evameva tadadhvaryurdevebhyaḥ pratiprocya barhirdāti | ātma-no'him̐sāyai | yāvataḥ stambānparidiśet | yatteṣāmucchim̐ṣyāt | ati tadya-jñasya recayet | ekam̐ ~! stambaṃ paridiśet | tam̐ sarvaṃ dāyāt 4
yajñasyānatirekāya | varṣavṛddhamasītyāha | varṣavṛddhā vā oṣadhayaḥ | devabarhirityāha | devebhya evainatkaroti | mā tvānvaṅmā tiryagityāhāhim̐sāyai | parva te rādhyāsamityāhardhyai | ācchettā te mā riṣamityāha | nāsyātmano mīyate | ya evaṃ veda 5
deva barhiśśatavalśaṃ virohetyāha | prajā vai barhiḥ | prajānāṃ prajananāya | sahasravalśā vi vayam̐ ruhemetyāha | āśiṣamevaitāmāśāste | pṛthivyāḥ saṃpṛcaḥ pāhītyāha pratiṣṭhityai | ayuṃ gāyuṃ gānmuṣṭīm̐llunoti | mithunatvāya prajātyai | susaṃbhṛtā tvā saṃbharāmītyāha | brahmaṇaivainatsaṃbharati 6
adityai rāsnāsītyāha | iyaṃ vā aditiḥ | asyā evainadrā snāṃ karoti | indrā ṇyai saṃnahanamityāha | indrā ṇī vā agre devatānām̐ samanahyata | sārdhnot | ṛddhyai saṃnahyati | prajā vai barhiḥ | prajānāmaparāvāpāya | tasmātsnāvasaṃtatāḥ prajā jāyante 7
pūṣā te granthiṃ grathnātvityāha | puṣṭimeva yajamāne dadhāti | sa te mā sthādityāhāhim̐sāyai | paścātprāñcamupagūhati | paścādvai prācīnam̐ reto dhīyate | paścādevāsmai prācīnam̐ reto dadhāti | indra sya tvā bāhubhyāmudyaccha ityāha | indriyameva yajamāne dadhāti | bṛhaspatermūrdhnā harāmītyāha | brahma vai devānāṃ bṛhaspatiḥ 8
brahmaṇaivainaddharati | urvantarikṣamanvihītyāha gatyai | devaṃgamamasītyāha | devānevainadgamayati | anadhaḥ sādayati | garbhāṇāṃ dhṛtyā aprapādāya | tasmādgarbhāḥ prajānāmaprapādukāḥ | uparīva nidadhāti | uparīva hi suvargo lokaḥ | suvargasya lokasya samaṣṭyai 9
Sanskrit only: no published translation is held for this verse.
पूर्वेद्युरिध्माबर्हिः करोति । यज्ञमेवारभ्य गृहीत्वोपवसति । प्रजापतिर्यज्ञमसृजत । तस्योखे अस्रꣳसेताम् । यज्ञो वै प्रजापतिः । यत्सांनाय्योखे भवतः । यज्ञस्यैव तदुखे उपदधात्यप्रस्रꣳसाय । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । मातरिश्वनो घर्मोऽसीत्याह १
अन्तरिक्षं वै मातरिश्वनो घर्मः । एषां लोकानं विधृत्यै । द्यौरसि पृथिव्यसीत्याह । दिवश्च ह्येषा पृथिव्याश्च संभृता । यदुखा । तस्मादेवमाह । विश्वधाया असि परमेण धाम्नेत्याह । वृष्टिर्वै विश्वधायाः । वृष्टिमेवावरुन्धे । दृꣳहस्व मा ह्वारित्याह धृत्यै २
वसूनां पवित्रमसीत्याह । प्राणा वै वसवः । तेषां वा एतद्भागधेयम् । यत्पवित्रम् । तेभ्य एवैनत्करोति । शतधारꣳ सहस्रधारमित्याह । प्राणेष्वेवायुर्दधाति सर्वत्वाय । त्रिवृत्पलाशशाखायां दर्भमयं भवति । त्रिवृद्वै प्राणः । त्रिवृतमेव प्राणं मध्यतो यजमाने दधाति ३
सौम्यः पर्णः सयोनित्वाय । साक्षात्पवित्रं दर्भाः । प्राक्सायमधिनिदधाति । तत्प्राणापानयो रूपम् । तिर्यक्प्रातः । तद्दर्शस्य रूपम् । दार्श्यꣳ ह्येतदहः । अन्नं वै चन्द्र माः । अन्नं प्राणाः । उभयमेवोपैत्यजामित्वाय ४
तस्मादयꣳ सर्वतः पवते । हुतः स्तोको हुतो द्र प्स इत्याह प्रतिष्ठित्यै । हविशोऽस्कन्दाय । न हि हुतꣳ स्वाहाकृतꣳ स्कन्दति । दिवि नाको नामाग्निः । तस्य विप्रुषो भागधेयम् । अग्नये बृहते नाकायेत्याह । नाकमेवाग्निं भागधेयेन समर्धयति । स्वाहा द्यावापृथिवीभ्यामित्याह । द्यावापृथि-व्योरेवैनत्प्रतिष्ठापयति ५
पवित्रवत्यानयति । अपां चैवौषधीनां च रसꣳ सꣳसृजति । अथो ओषधीष्वेव पशून्प्रतिष्ठापयति । अन्वारभ्य वाचं यच्छति । यज्ञस्य धृत्यै । धारयन्नास्ते । धारयन्त इव हि दुहन्ति । कामधुक्ष इत्याहा तृतीयस्यै । त्रय इमे लोकाः । इमानेव लोकान्यजमानो दुहे ६
अमूमिति नाम गृह्णाति । भद्र मेवासां कर्माविष्करोति । सा विश्वायुः सा विश्वव्यचाः सा विश्वकर्मेत्याह । इयं वै विश्वायुः । अन्तरिक्षं विश्वव्यचाः । असौ विश्वकर्मा । इमानेवैताभिर्लोकान्यथापूर्वं दुहे । अथो यथा प्रदात्रे पुण्यमाशास्ते । एवमेवैना एतदुपस्तौति । तस्मात्प्रादादित्युन्नीय वन्दमाना उपस्तुवन्तः पशून्दुहन्ति ७
बहु दुग्धीन्द्रा य देवेभ्यो हविरिति वाचं विसृजते । यथादेवतमेव प्रसौति । दैव्यस्य च मानुषस्य च व्यावृत्त्यै । त्रिराह । त्रिषत्या हि देवाः । अवाचंयमोऽनन्वारभ्योत्तराः । अपरिमितमेवावरुन्धे । न दारुपात्रेण दुह्यात् । अग्निवद्वै दारुपात्रम् । यद्दारुपात्रेण दुह्यात् ८
यातयाम्ना हविषा यजेत । अथो खल्वाहुः । पुरोडाशमुखानि वै हवीꣳषि । नेतैतः पुरोडाशꣳ हविषो यामोऽस्तीति । काममेव दारुपात्रेण दुह्यात् । शूद्र एव न दुह्यात् । असतो वा एष संभूतः । यच्छूद्र ः! । अहविरेव तदित्याहुः । यच्छूद्रो दोग्धीति ९
अग्निहोत्रमेव न दुह्याच्छूद्र ः! । तद्धि नोत्पुनन्ति । यदा खलु वै पवित्रमत्येति । अथ तद्धविरिति । संपृच्यध्वमृतावरीरित्याह । अपां चैवौषधीनां च रसꣳ सꣳसृजति । तस्मादपां चौषधीनां च रसमुपजीवामः । मन्द्रा धनस्य सातय इत्याह । पुष्टिमेव यजमाने दधाति । सोमेन त्वातनच्मीन्द्राय दधीत्याह १०
सोममेवैनत्करोति । यो वै सोमं भक्षयित्वा । संवत्सरꣳ सोमं न पिबति । पुनर्भक्ष्योऽस्य सोमपीथो भवति । सोमः खलु वै सांनाय्यम् । य एवं विद्वान्त्सांनाय्यं पिबति । अपुनर्भक्ष्योऽस्य सोमपीथो भवति । न मृन्मयेनापिदध्यात् । यन्मृन्मयेनापिदध्यात् । पितृदेवत्यꣳ स्यात् ११
अयस्पात्रेण वा दारुपात्रेण वापिदधाति । तद्धि सदेवम् । उदन्वद्भवति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अदस्तमसि विष्णवे त्वेत्याह । यज्ञो वै विष्णुः । यज्ञायैवैनददस्तं करोति । विष्णो हव्यꣳ रक्षस्वेत्याह गुप्त्यै । अनधः सादयति । गर्भाणां धृत्या अप्रपादाय । तस्माद्गर्भाः प्रजानामप्रपादुकाः । उपरीव निदधाति । उपरीव हि सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै १२
pūrvedyuridhmābarhiḥ karoti | yajñamevārabhya gṛhītvopavasati | prajāpatiryajñamasṛjata | tasyokhe asram̐setām | yajño vai prajāpatiḥ | yatsāṃnāyyokhe bhavataḥ | yajñasyaiva tadukhe upadadhātyaprasram̐sāya | śundhadhvaṃ daivyāya karmaṇe devayajyāyā ityāha | devayajyāyā evaināni śundhati | mātariśvano gharmo'sītyāha 1
antarikṣaṃ vai mātariśvano gharmaḥ | eṣāṃ lokānaṃ vidhṛtyai | dyaurasi pṛthivyasītyāha | divaśca hyeṣā pṛthivyāśca saṃbhṛtā | yadukhā | tasmādevamāha | viśvadhāyā asi parameṇa dhāmnetyāha | vṛṣṭirvai viśvadhāyāḥ | vṛṣṭimevāvarundhe | dṛm̐hasva mā hvārityāha dhṛtyai 2
vasūnāṃ pavitramasītyāha | prāṇā vai vasavaḥ | teṣāṃ vā etadbhāgadheyam | yatpavitram | tebhya evainatkaroti | śatadhāram̐ sahasradhāramityāha | prāṇeṣvevāyurdadhāti sarvatvāya | trivṛtpalāśaśākhāyāṃ darbhamayaṃ bhavati | trivṛdvai prāṇaḥ | trivṛtameva prāṇaṃ madhyato yajamāne dadhāti 3
saumyaḥ parṇaḥ sayonitvāya | sākṣātpavitraṃ darbhāḥ | prāksāyamadhinidadhāti | tatprāṇāpānayo rūpam | tiryakprātaḥ | taddarśasya rūpam | dārśyam̐ hyetadahaḥ | annaṃ vai candra māḥ | annaṃ prāṇāḥ | ubhayamevopaityajāmitvāya 4
tasmādayam̐ sarvataḥ pavate | hutaḥ stoko huto dra psa ityāha pratiṣṭhityai | haviśo'skandāya | na hi hutam̐ svāhākṛtam̐ skandati | divi nāko nāmāgniḥ | tasya vipruṣo bhāgadheyam | agnaye bṛhate nākāyetyāha | nākamevāgniṃ bhāgadheyena samardhayati | svāhā dyāvāpṛthivībhyāmityāha | dyāvāpṛthi-vyorevainatpratiṣṭhāpayati 5
pavitravatyānayati | apāṃ caivauṣadhīnāṃ ca rasam̐ sam̐sṛjati | atho oṣadhīṣveva paśūnpratiṣṭhāpayati | anvārabhya vācaṃ yacchati | yajñasya dhṛtyai | dhārayannāste | dhārayanta iva hi duhanti | kāmadhukṣa ityāhā tṛtīyasyai | traya ime lokāḥ | imāneva lokānyajamāno duhe 6
amūmiti nāma gṛhṇāti | bhadra mevāsāṃ karmāviṣkaroti | sā viśvāyuḥ sā viśvavyacāḥ sā viśvakarmetyāha | iyaṃ vai viśvāyuḥ | antarikṣaṃ viśvavyacāḥ | asau viśvakarmā | imānevaitābhirlokānyathāpūrvaṃ duhe | atho yathā pradātre puṇyamāśāste | evamevainā etadupastauti | tasmātprādādityunnīya vandamānā upastuvantaḥ paśūnduhanti 7
bahu dugdhīndrā ya devebhyo haviriti vācaṃ visṛjate | yathādevatameva prasauti | daivyasya ca mānuṣasya ca vyāvṛttyai | trirāha | triṣatyā hi devāḥ | avācaṃyamo'nanvārabhyottarāḥ | aparimitamevāvarundhe | na dārupātreṇa duhyāt | agnivadvai dārupātram | yaddārupātreṇa duhyāt 8
yātayāmnā haviṣā yajeta | atho khalvāhuḥ | puroḍāśamukhāni vai havīm̐ṣi | netaitaḥ puroḍāśam̐ haviṣo yāmo'stīti | kāmameva dārupātreṇa duhyāt | śūdra eva na duhyāt | asato vā eṣa saṃbhūtaḥ | yacchūdra ḥ! | ahavireva tadityāhuḥ | yacchūdro dogdhīti 9
agnihotrameva na duhyācchūdra ḥ! | taddhi notpunanti | yadā khalu vai pavitramatyeti | atha taddhaviriti | saṃpṛcyadhvamṛtāvarīrityāha | apāṃ caivauṣadhīnāṃ ca rasam̐ sam̐sṛjati | tasmādapāṃ cauṣadhīnāṃ ca rasamupajīvāmaḥ | mandrā dhanasya sātaya ityāha | puṣṭimeva yajamāne dadhāti | somena tvātanacmīndrāya dadhītyāha 10
somamevainatkaroti | yo vai somaṃ bhakṣayitvā | saṃvatsaram̐ somaṃ na pibati | punarbhakṣyo'sya somapītho bhavati | somaḥ khalu vai sāṃnāyyam | ya evaṃ vidvāntsāṃnāyyaṃ pibati | apunarbhakṣyo'sya somapītho bhavati | na mṛnmayenāpidadhyāt | yanmṛnmayenāpidadhyāt | pitṛdevatyam̐ syāt 11
ayaspātreṇa vā dārupātreṇa vāpidadhāti | taddhi sadevam | udanvadbhavati | āpo vai rakṣoghnīḥ | rakṣasāmapahatyai | adastamasi viṣṇave tvetyāha | yajño vai viṣṇuḥ | yajñāyaivainadadastaṃ karoti | viṣṇo havyam̐ rakṣasvetyāha guptyai | anadhaḥ sādayati | garbhāṇāṃ dhṛtyā aprapādāya | tasmādgarbhāḥ prajānāmaprapādukāḥ | uparīva nidadhāti | uparīva hi suvargo lokaḥ | suvargasya lokasya samaṣṭyai 12
Sanskrit only: no published translation is held for this verse.
कर्मणे वां देवेभ्यश्शकेयमित्याह शक्त्यै । यज्ञस्य वै संततिमनु प्रजाः पशवो यजमानस्य संतायन्ते । यज्ञस्य विच्छित्तिमनु प्रजाः पशवो यजमानस्य विच्छिद्यन्ते । यज्ञस्य संततिरसि यज्ञस्य त्वा संतत्यै स्तृणामि संतत्यै त्वा यज्ञस्येत्याहवनीयात्संतनोति । यजमानस्य प्रजायै पशूनाꣳ संतत्यै । अपः प्रणयति । श्रद्धा वा आपः श्रद्धामेवारब्य प्रणीय प्रचरति । अपः प्रणयति । यज्ञो वा आपः १
यज्ञमेवारभ्य प्रणीय प्रचरति । अपः प्रणयति । वज्रो वा आपः । वज्रमेव भ्रातृव्येभ्यः प्रहृत्य प्रणीय प्रचरति । अपः प्रणयति । आपो वै रक्षोघ्नीः । रक्षसामपहत्यै । अपः प्रणयति । आपो वै देवानां प्रियं धाम । देवानामेव प्रियं धाम प्रणीय प्रचरति २
अपः प्रणयति । आपो वै सर्वा देवताः । देवता एवारभ्य प्रणीय प्रचरति । वेषाय त्वेत्याह । वेषाय ह्येनदादत्ते । प्रत्युष्टꣳ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । धूरसीत्याह । एष वै धुर्योऽग्निः । तं यदनुपस्पृश्यातीयात् ३
अध्वर्युं च यजमानं च प्रदहेत् । उपस्पृश्यात्येति । अध्वर्योश्च यजमानस्य चाप्रदाहाय । धूर्व तं योऽस्मान्धूर्वति तं धूर्व यं वयं धूर्वाम इत्याह । द्वौ वाव पुरुषौ । यं चैव धूर्वति । यश्चैनं धूर्वति । तावुभौ शुचार्पयति । त्वं देवानामसि सस्नितमं पप्रितमं जुष्टतमं वह्नितमं देवहूतममित्याह । यथायजुरेवैतत् ४
अह्रुतमसि हविर्धानमित्याहानार्त्यै । दृꣳहस्व मा ह्वारित्याह धृत्यै । मित्रस्य त्वा चक्षुषा प्रेक्ष इत्याह मित्रत्वाय । मा भेर्मा संविक्था मा त्वा हिꣳसिषमि-त्याहाहिꣳसायै । यद्वै किं च वातो नाभिवाति । तत्सर्वं वरुणदेवत्यम् । उरु वातायेत्याह । अवारुणमेवैनत्करोति । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह ५
अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह । यत्यै । अग्नये जुष्टं निर्वपामीत्याह । अग्नय एवैनाञ्जुष्टं निर्वपति । त्रिर्यजुषा । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । तूष्णीं चतुर्थम् । अपरिमितमेवावरुन्धे । स एवमेवानुपूर्वꣳ हवीꣳषि निर्वपति ६
इदं देवानामिदमु नः सहेत्याह व्यावृत्त्यै । स्फात्यै त्वा नारात्या इत्याह गुप्त्यै । तमसीव वा एषोऽन्तश्चरति । यः परीणहि । सुवरभि विख्येषं वैश्वानरं ज्योतिरित्याह । सुवरेवाभि विपश्यति वैश्वानरं ज्योतिः । द्यावापृथिवी हविषि गृहीत उदवेपेताम् । दृꣳहन्तां दुर्या द्यावापृथिव्योरित्याह । गृहाणां द्यावापृथिव्योर्धृत्यै । उर्वन्तरिक्षमन्विहीत्याह गत्यै । अदित्यास्त्वोपस्थे सादयामीत्याह । इयं वा अदितिः । अस्या एवैनदुपस्थे सादयति । अग्ने हव्यꣳ रक्षस्वेत्याह गुप्त्यै ७
karmaṇe vāṃ devebhyaśśakeyamityāha śaktyai | yajñasya vai saṃtatimanu prajāḥ paśavo yajamānasya saṃtāyante | yajñasya vicchittimanu prajāḥ paśavo yajamānasya vicchidyante | yajñasya saṃtatirasi yajñasya tvā saṃtatyai stṛṇāmi saṃtatyai tvā yajñasyetyāhavanīyātsaṃtanoti | yajamānasya prajāyai paśūnām̐ saṃtatyai | apaḥ praṇayati | śraddhā vā āpaḥ śraddhāmevārabya praṇīya pracarati | apaḥ praṇayati | yajño vā āpaḥ 1
yajñamevārabhya praṇīya pracarati | apaḥ praṇayati | vajro vā āpaḥ | vajrameva bhrātṛvyebhyaḥ prahṛtya praṇīya pracarati | apaḥ praṇayati | āpo vai rakṣoghnīḥ | rakṣasāmapahatyai | apaḥ praṇayati | āpo vai devānāṃ priyaṃ dhāma | devānāmeva priyaṃ dhāma praṇīya pracarati 2
apaḥ praṇayati | āpo vai sarvā devatāḥ | devatā evārabhya praṇīya pracarati | veṣāya tvetyāha | veṣāya hyenadādatte | pratyuṣṭam̐ rakṣaḥ pratyuṣṭā arātaya ityāha | rakṣasāmapahatyai | dhūrasītyāha | eṣa vai dhuryo'gniḥ | taṃ yadanupaspṛśyātīyāt 3
adhvaryuṃ ca yajamānaṃ ca pradahet | upaspṛśyātyeti | adhvaryośca yajamānasya cāpradāhāya | dhūrva taṃ yo'smāndhūrvati taṃ dhūrva yaṃ vayaṃ dhūrvāma ityāha | dvau vāva puruṣau | yaṃ caiva dhūrvati | yaścainaṃ dhūrvati | tāvubhau śucārpayati | tvaṃ devānāmasi sasnitamaṃ papritamaṃ juṣṭatamaṃ vahnitamaṃ devahūtamamityāha | yathāyajurevaitat 4
ahrutamasi havirdhānamityāhānārtyai | dṛm̐hasva mā hvārityāha dhṛtyai | mitrasya tvā cakṣuṣā prekṣa ityāha mitratvāya | mā bhermā saṃvikthā mā tvā him̐siṣami-tyāhāhim̐sāyai | yadvai kiṃ ca vāto nābhivāti | tatsarvaṃ varuṇadevatyam | uru vātāyetyāha | avāruṇamevainatkaroti | devasya tvā savituḥ prasava ityāha prasūtyai | aśvinorbāhubhyāmityāha 5
aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha | yatyai | agnaye juṣṭaṃ nirvapāmītyāha | agnaya evaināñjuṣṭaṃ nirvapati | triryajuṣā | traya ime lokāḥ | eṣāṃ lokānāmāptyai | tūṣṇīṃ caturtham | aparimitamevāvarundhe | sa evamevānupūrvam̐ havīm̐ṣi nirvapati 6
idaṃ devānāmidamu naḥ sahetyāha vyāvṛttyai | sphātyai tvā nārātyā ityāha guptyai | tamasīva vā eṣo'ntaścarati | yaḥ parīṇahi | suvarabhi vikhyeṣaṃ vaiśvānaraṃ jyotirityāha | suvarevābhi vipaśyati vaiśvānaraṃ jyotiḥ | dyāvāpṛthivī haviṣi gṛhīta udavepetām | dṛm̐hantāṃ duryā dyāvāpṛthivyorityāha | gṛhāṇāṃ dyāvāpṛthivyordhṛtyai | urvantarikṣamanvihītyāha gatyai | adityāstvopasthe sādayāmītyāha | iyaṃ vā aditiḥ | asyā evainadupasthe sādayati | agne havyam̐ rakṣasvetyāha guptyai 7
Sanskrit only: no published translation is held for this verse.
इन्द्रो वृत्रमहन्न् । सोऽपः । अभ्यम्रियत । तासां यन्मेध्यं यज्ञियꣳ सदेवमासीत् । तदपोदक्रामत् । ते दर्भा अभवन्न् । यद्दर्भैरप उत्पुनाति । या एव मेध्या यज्ञियाः सदेवा आपः । ताभिरेवैना उत्पुनाति । द्वाभ्यामुत्पुनाति १
द्विपाद्यजमानः प्रतिष्ठित्यै । देवो वः सवितोत्पुनात्वित्याह । सवितृप्रसूत एवैना उत्पुनाति । अच्छिद्रेण पवित्रेणेत्याह । असौ वा आदित्योऽच्छिद्रं पवित्रम् । तेनैवैना उत्पुनाति । वसोः सूर्यस्य रश्मिभिरित्याह । प्राणा वा आपः प्राणा वसवः । प्राणा रश्मयः २
प्राणैरेव प्राणान्त्संपृणक्ति । सावित्रियर्चा । सवितृप्रसूतं मे कर्मासदिति । सवितृप्रसूतमेवास्य कर्म भवति । पच्छो गायत्रिया त्रिष्षमृद्धत्वाय । आपो देवीरग्रेपुवो अग्रेगुव इत्याह । रूपमेवासामेतन्महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह । अग्रे एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् ३
युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य इत्याह । वृत्रꣳ ह हनिष्यन्निन्द्र आपो वव्रे । आपो हेन्द्रं वव्रिरे । संज्ञामेवासामेतत्सामानं व्याचष्टे । प्रोक्षिताः स्थेत्याह । तेनापः प्रोक्षिताः । अग्नये वो जुष्टं प्रोक्षाम्यग्नीषोमाभ्यामित्याह । यथादेवतमेवैनान्प्रोक्षति । त्रिः प्रोक्षति । त्र्यावृद्धि यज्ञः ४
अथो रक्षसामपहत्यै । शुन्धध्वं दैव्याय कर्मणे देवयज्याया इत्याह । देवयज्याया एवैनानि शुन्धति । त्रिः प्रोक्षति । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । अवधूतꣳ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्यास्त्वगसीत्याह । इयं वा अदितिः ५
अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशावो मेधमुपतिष्ठन्ते । तस्मात्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरध्यवहन्ति । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय ६
अधिषवणमसि वानस्पत्यमित्याह । अधिषवणमेवैनत्करोति । प्रति त्वादित्यास्त्वग्वेत्त्वित्याह सयत्वाय । अग्नेस्तनूरसीत्याह । अग्नेर्वा एषा तनूः । यदोषधयः । वाचो विसर्जनमित्याह । यदा हि प्रजा ओषधीनामश्नन्ति । अथ वाचं विसृजन्ते । देववीतये त्वा गृह्णामीत्याह ७
देवताभिरेवैनत्समर्धयति । अद्रि रसि वानस्पत्य इत्याह । ग्रावाणमे-वैनत्करोति । स इदं देवेभ्यो हव्यꣳ सुशमि शमिष्वेत्याह शान्त्यै । हवि-ष्कृदेहीत्याह । य एव देवानाꣳ हविष्कृतः । तान्ह्व्यति । त्रिर्ह्वयति । त्रिषत्या हि देवाः । इषमावदोर्जमावदेत्याह ८
इषमेवोर्जं यजमाने दधाति । द्युमद्वदत वयꣳ संघातं जेष्मेत्याह भ्रातृव्याभिभूत्यै । मनोः श्रद्धादेवस्य यजमानस्यासुरघ्नी वाक् । यज्ञायुधेषु प्रविष्टासीत् । तेऽसुरा यावन्तो यज्ञायुधानामुद्वदतामुपाशृण्वन्न् । ते पराभवन् । तस्मात्स्वा-नां मध्येऽवसाय यजेत । यावन्तोऽस्य भ्रातृव्या यज्ञायुधा-नामुद्वदतामुपशृण्वन्ति । ते पराभवन्ति । उच्चैः समाहन्तवा आह विजित्यै ९
वृङ्क्त एषामिन्द्रियं वीर्यम् । श्रेष्ठ एषां भवति । वर्षवृद्धमसि प्रति त्वा वर्षवृद्धं वेत्त्वित्याह । वर्षवृद्धा वा ओषधयः । वर्षवृद्धा इषीकाः समृद्ध्यै । यज्ञꣳ रक्षाꣳस्यनु प्राविशन् । तान्यस्ना पशुभ्यो निरवादयन्त । तुषैरोषधीभ्यः । परापूतꣳ रक्षः परापूता अरातय इत्याह । रक्षसामपहत्यै १०
रक्षसां भागोऽसीत्याह । तुषैरेव रक्षाꣳसि निरवदयते । अप उपस्पृशति मेध्यत्वाय । वायुर्वो विविनक्त्वित्याह । पवित्रं वै वायुः । पुनात्येवैनान् । अन्तरिक्षादिव वा एते प्रस्कन्दन्ति । ये शूर्पात् । देवो वः सविता हिरण्यपाणिः प्रतिगृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । त्रिष्फलीकर्तवा आह । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय ११
indro vṛtramahann | so'paḥ | abhyamriyata | tāsāṃ yanmedhyaṃ yajñiyam̐ sadevamāsīt | tadapodakrāmat | te darbhā abhavann | yaddarbhairapa utpunāti | yā eva medhyā yajñiyāḥ sadevā āpaḥ | tābhirevainā utpunāti | dvābhyāmutpunāti 1
dvipādyajamānaḥ pratiṣṭhityai | devo vaḥ savitotpunātvityāha | savitṛprasūta evainā utpunāti | acchidreṇa pavitreṇetyāha | asau vā ādityo'cchidraṃ pavitram | tenaivainā utpunāti | vasoḥ sūryasya raśmibhirityāha | prāṇā vā āpaḥ prāṇā vasavaḥ | prāṇā raśmayaḥ 2
prāṇaireva prāṇāntsaṃpṛṇakti | sāvitriyarcā | savitṛprasūtaṃ me karmāsaditi | savitṛprasūtamevāsya karma bhavati | paccho gāyatriyā triṣṣamṛddhatvāya | āpo devīragrepuvo agreguva ityāha | rūpamevāsāmetanmahimānaṃ vyācaṣṭe | agra imaṃ yajñaṃ nayatāgre yajñapatimityāha | agre eva yajñaṃ nayanti | agre yajñapatim 3
yuṣmānindro 'vṛṇīta vṛtratūrye yūyamindra mavṛṇīdhvaṃ vṛtratūrya ityāha | vṛtram̐ ha haniṣyannindra āpo vavre | āpo hendraṃ vavrire | saṃjñāmevāsāmetatsāmānaṃ vyācaṣṭe | prokṣitāḥ sthetyāha | tenāpaḥ prokṣitāḥ | agnaye vo juṣṭaṃ prokṣāmyagnīṣomābhyāmityāha | yathādevatamevainānprokṣati | triḥ prokṣati | tryāvṛddhi yajñaḥ 4
atho rakṣasāmapahatyai | śundhadhvaṃ daivyāya karmaṇe devayajyāyā ityāha | devayajyāyā evaināni śundhati | triḥ prokṣati | tr! yāvṛddhi yajñaḥ | atho medhyatvāya | avadhūtam̐ rakṣo'vadhūtā arātaya ityāha | rakṣasāmapahatyai | adityāstvagasītyāha | iyaṃ vā aditiḥ 5
asyā evainattvacaṃ karoti | prati tvā pṛthivī vettvityāha pratiṣṭhityai | purastātpratīcīnagrīvamuttaralomopastṛṇāti medhyatvāya | tasmātpurastātpratyañcaḥ paśāvo medhamupatiṣṭhante | tasmātprajā mṛgaṃ grāhukāḥ | yajño devebhyo nilāyata | kṛṣṇo rūpaṃ kṛtvā | yatkṛṣṇājine haviradhyavahanti | yajñādeva tadyajñaṃ prayuṅkte | haviṣo'skandāya 6
adhiṣavaṇamasi vānaspatyamityāha | adhiṣavaṇamevainatkaroti | prati tvādityāstvagvettvityāha sayatvāya | agnestanūrasītyāha | agnervā eṣā tanūḥ | yadoṣadhayaḥ | vāco visarjanamityāha | yadā hi prajā oṣadhīnāmaśnanti | atha vācaṃ visṛjante | devavītaye tvā gṛhṇāmītyāha 7
devatābhirevainatsamardhayati | adri rasi vānaspatya ityāha | grāvāṇame-vainatkaroti | sa idaṃ devebhyo havyam̐ suśami śamiṣvetyāha śāntyai | havi-ṣkṛdehītyāha | ya eva devānām̐ haviṣkṛtaḥ | tānhvyati | trirhvayati | triṣatyā hi devāḥ | iṣamāvadorjamāvadetyāha 8
iṣamevorjaṃ yajamāne dadhāti | dyumadvadata vayam̐ saṃghātaṃ jeṣmetyāha bhrātṛvyābhibhūtyai | manoḥ śraddhādevasya yajamānasyāsuraghnī vāk | yajñāyudheṣu praviṣṭāsīt | te'surā yāvanto yajñāyudhānāmudvadatāmupāśṛṇvann | te parābhavan | tasmātsvā-nāṃ madhye'vasāya yajeta | yāvanto'sya bhrātṛvyā yajñāyudhā-nāmudvadatāmupaśṛṇvanti | te parābhavanti | uccaiḥ samāhantavā āha vijityai 9
vṛṅkta eṣāmindriyaṃ vīryam | śreṣṭha eṣāṃ bhavati | varṣavṛddhamasi prati tvā varṣavṛddhaṃ vettvityāha | varṣavṛddhā vā oṣadhayaḥ | varṣavṛddhā iṣīkāḥ samṛddhyai | yajñam̐ rakṣām̐syanu prāviśan | tānyasnā paśubhyo niravādayanta | tuṣairoṣadhībhyaḥ | parāpūtam̐ rakṣaḥ parāpūtā arātaya ityāha | rakṣasāmapahatyai 10
rakṣasāṃ bhāgo'sītyāha | tuṣaireva rakṣām̐si niravadayate | apa upaspṛśati medhyatvāya | vāyurvo vivinaktvityāha | pavitraṃ vai vāyuḥ | punātyevainān | antarikṣādiva vā ete praskandanti | ye śūrpāt | devo vaḥ savitā hiraṇyapāṇiḥ pratigṛhṇātvityāha pratiṣṭhityai | haviṣo'skandāya | triṣphalīkartavā āha | tr! yāvṛddhi yajñaḥ | atho medhyatvāya 11
Sanskrit only: no published translation is held for this verse.
अवधूतꣳ रक्षोऽवधूता अरातय इत्याह । रक्षसामपहत्यै । अदित्यास्त्वगसीत्याह । इयं वा अदितिः । अस्या एवैनत्त्वचं करोति । प्रति त्वा पृथिवी वेत्त्वित्याह प्रतिष्ठित्यै । पुरस्तात्प्रतीचीनग्रीवमुत्तरलोमोपस्तृणाति मेध्यत्वाय । तस्मात्पुरस्तात्प्रत्यञ्चः पशवो मेधमुपतिष्ठन्ते । तस्मा-त्प्रजा मृगं ग्राहुकाः । यज्ञो देवेभ्यो निलायत १
कृष्णो रूपं कृत्वा । यत्कृष्णाजिने हविरधिपिनष्टि । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । हविषोऽस्कन्दाय । द्यावापृथिवी सहास्ताम् । ते शम्यामात्रमेकमहर्व्यैताꣳ शम्यामात्रमेकमहः । दिवः स्कम्भनिरसि प्रति त्वादित्यास्त्वग्वेत्त्वित्याह । द्यावापृथिव्योर्वीत्यै । धिषणासि पर्वत्या प्रति त्वा दिवः स्कम्भनिर्वेत्त्वित्याह । द्यावापृथिव्योर्विधृत्यै २
धिषणासि पार्वतेयी प्रति त्वा पर्वतिर्वेत्त्वित्याह । द्यावापृथिव्योर्धृत्यै । देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । अधिवपामीत्याह । यथादेवतमेवैनानधिवपति । धान्यमसि धिनुहि देवानित्याह । एतस्य यजुषो वीर्येण ३
यावदेका देवता कामयते यावदेका । तावदाहुतिः प्रथते । न हि तदस्ति । यत्तावदेव स्यात् । यावज्जुहोति । प्राणाय त्वापानाय त्वेत्याह । प्राणानेव यजमाने दधाति । दीर्घामनु प्रसितिमायुषे धामित्याह । आयुरेवास्मिन्दधाति । अन्तरिक्षादिव वा एतानि प्रस्कन्दन्ति । यानि दृषदः । देवो वः सविता हिरण्यपाणिः प्रति गृह्णात्वित्याह प्रतिष्ठित्यै । हविषोऽस्कन्दाय । असंवपन्ती पिꣳषाणूनि कुरुतादित्याह मेध्यत्वाय ४
avadhūtam̐ rakṣo'vadhūtā arātaya ityāha | rakṣasāmapahatyai | adityāstvagasītyāha | iyaṃ vā aditiḥ | asyā evainattvacaṃ karoti | prati tvā pṛthivī vettvityāha pratiṣṭhityai | purastātpratīcīnagrīvamuttaralomopastṛṇāti medhyatvāya | tasmātpurastātpratyañcaḥ paśavo medhamupatiṣṭhante | tasmā-tprajā mṛgaṃ grāhukāḥ | yajño devebhyo nilāyata 1
kṛṣṇo rūpaṃ kṛtvā | yatkṛṣṇājine haviradhipinaṣṭi | yajñādeva tadyajñaṃ prayuṅkte | haviṣo'skandāya | dyāvāpṛthivī sahāstām | te śamyāmātramekamaharvyaitām̐ śamyāmātramekamahaḥ | divaḥ skambhanirasi prati tvādityāstvagvettvityāha | dyāvāpṛthivyorvītyai | dhiṣaṇāsi parvatyā prati tvā divaḥ skambhanirvettvityāha | dyāvāpṛthivyorvidhṛtyai 2
dhiṣaṇāsi pārvateyī prati tvā parvatirvettvityāha | dyāvāpṛthivyordhṛtyai | devasya tvā savituḥ prasava ityāha prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | adhivapāmītyāha | yathādevatamevainānadhivapati | dhānyamasi dhinuhi devānityāha | etasya yajuṣo vīryeṇa 3
yāvadekā devatā kāmayate yāvadekā | tāvadāhutiḥ prathate | na hi tadasti | yattāvadeva syāt | yāvajjuhoti | prāṇāya tvāpānāya tvetyāha | prāṇāneva yajamāne dadhāti | dīrghāmanu prasitimāyuṣe dhāmityāha | āyurevāsmindadhāti | antarikṣādiva vā etāni praskandanti | yāni dṛṣadaḥ | devo vaḥ savitā hiraṇyapāṇiḥ prati gṛhṇātvityāha pratiṣṭhityai | haviṣo'skandāya | asaṃvapantī pim̐ṣāṇūni kurutādityāha medhyatvāya 4
Sanskrit only: no published translation is held for this verse.
धृष्टिरसि ब्रह्म यच्छेत्याह धृत्यै । अपाग्नेऽग्निमामादं जहि निष्क्रव्यादꣳ सेधा देवयजं वहेत्याह । य एवामात्क्रव्यात् । तमपहत्य । मेध्येऽग्नौ कपालमुपदधाति । निर्दग्धꣳ रक्षो निर्दग्धा अरातय इत्याह । रक्षाꣳस्येव निर्दहति । अग्निवत्युपदधाति । अस्मिन्नेव लोके ज्योतिर्धत्ते । अङ्गारमधिवर्तयति १
अन्तरिक्ष एव ज्योतिर्धत्ते । आदित्यमेवामुष्मिन्लोके ज्योतिर्धत्ते । ज्योतिष्मन्तोऽस्मा इमे लोका भवन्ति । य एवं वेद । ध्रुवमसि पृथिवीं दृꣳहेत्याह । पृथिवीमेवैतेन दृꣳहति । धर्त्रमस्यन्तरिक्षं दृꣳहेत्याह । अन्तरि-क्षमेवैतेन दृꣳहति । धरुणमसि दिवं दृꣳहेत्याह । दिवमेवैतेन दृꣳहति २
धर्मासि दिशो दृꣳहेत्याह । दिश एवैतेन दृꣳहति । इमानेवैतैर्लोकान्दृꣳहति । दृꣳहन्तेऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । त्रीण्यग्रे कपालान्युपदधाति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । एकमग्रे कपालमुपदधाति । एकं वा अग्रे कपालं पुरुषस्य संभवति ३
अथ द्वे । अथ त्रीणि । अथ चत्वारि । अथाष्टौ । तस्मादष्टाकपालं पुरुषस्य शिरः । यदेवं कपालान्युपदधाति । यज्ञो वै प्रजापतिः । यज्ञमेव प्रजापतिꣳ सꣳस्करोति । आत्मानमेव तत्सꣳस्करोति । तꣳ सꣳस्कृतमात्मानम् ४
अमुष्मिꣳल्लोकेऽनु परैति । यदष्टावुपदधाति । गायत्रिया तत्संमितम् । यन्नव । त्रिवृता तत् । यद्दश । विराजा तत् । यदेकादश । त्रिष्टुभा तत् । यद्द्वादश ५
जगत्या तत् । छन्दःसंमितानि स उपदधत्कपालानि । इमान्लोकाननुपूर्वं दिशो विधृत्यै दृꣳहति । अथायुः प्राणान्प्रजां पशून्यजमाने दधाति । सजातानस्मा अभितो बहुलान्करोति । चितः स्थेत्याह । यथायजुरेवैतत् । भृगूणामङ्गिरसां तपसा तप्यध्वमित्याह । देवतानामेवैनानि तपसा तपति । तानि ततः सꣳस्थिते । यानि घर्मे कपालान्युपचिन्वन्ति वेधस इति चतुष्पदयर्चा विमुञ्चति । चतुष्पादः पशवः । पशुष्वेवोपरिष्टात्प्रतितिष्ठति ६
dhṛṣṭirasi brahma yacchetyāha dhṛtyai | apāgne'gnimāmādaṃ jahi niṣkravyādam̐ sedhā devayajaṃ vahetyāha | ya evāmātkravyāt | tamapahatya | medhye'gnau kapālamupadadhāti | nirdagdham̐ rakṣo nirdagdhā arātaya ityāha | rakṣām̐syeva nirdahati | agnivatyupadadhāti | asminneva loke jyotirdhatte | aṅgāramadhivartayati 1
antarikṣa eva jyotirdhatte | ādityamevāmuṣminloke jyotirdhatte | jyotiṣmanto'smā ime lokā bhavanti | ya evaṃ veda | dhruvamasi pṛthivīṃ dṛm̐hetyāha | pṛthivīmevaitena dṛm̐hati | dhartramasyantarikṣaṃ dṛm̐hetyāha | antari-kṣamevaitena dṛm̐hati | dharuṇamasi divaṃ dṛm̐hetyāha | divamevaitena dṛm̐hati 2
dharmāsi diśo dṛm̐hetyāha | diśa evaitena dṛm̐hati | imānevaitairlokāndṛm̐hati | dṛm̐hante'smā ime lokāḥ prajayā paśubhiḥ | ya evaṃ veda | trīṇyagre kapālānyupadadhāti | traya ime lokāḥ | eṣāṃ lokānāmāptyai | ekamagre kapālamupadadhāti | ekaṃ vā agre kapālaṃ puruṣasya saṃbhavati 3
atha dve | atha trīṇi | atha catvāri | athāṣṭau | tasmādaṣṭākapālaṃ puruṣasya śiraḥ | yadevaṃ kapālānyupadadhāti | yajño vai prajāpatiḥ | yajñameva prajāpatim̐ sam̐skaroti | ātmānameva tatsam̐skaroti | tam̐ sam̐skṛtamātmānam 4
amuṣmim̐lloke'nu paraiti | yadaṣṭāvupadadhāti | gāyatriyā tatsaṃmitam | yannava | trivṛtā tat | yaddaśa | virājā tat | yadekādaśa | triṣṭubhā tat | yaddvādaśa 5
jagatyā tat | chandaḥsaṃmitāni sa upadadhatkapālāni | imānlokānanupūrvaṃ diśo vidhṛtyai dṛm̐hati | athāyuḥ prāṇānprajāṃ paśūnyajamāne dadhāti | sajātānasmā abhito bahulānkaroti | citaḥ sthetyāha | yathāyajurevaitat | bhṛgūṇāmaṅgirasāṃ tapasā tapyadhvamityāha | devatānāmevaināni tapasā tapati | tāni tataḥ sam̐sthite | yāni gharme kapālānyupacinvanti vedhasa iti catuṣpadayarcā vimuñcati | catuṣpādaḥ paśavaḥ | paśuṣvevopariṣṭātpratitiṣṭhati 6
Sanskrit only: no published translation is held for this verse.
देवस्य त्वा सवितुः प्रसव इत्याह प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । संवपामीत्याह । यथादेवतमेवैनानि संवपति । समापो अद्भिरग्मत समोषधयो रसेनेत्याह । आपो वा ओषधीर्जिन्वन्ति । ओषधयोऽपो जिन्वन्ति । अन्या वा एतासामन्या जिन्वन्ति १
तस्मादेवमाह । सꣳ रेवतीर्जगतीभिर्मधुमतीर्मधुमतीभिः सृज्यध्वमित्याह । आपो वै रेवतीः । पशवो जगतीः । ओषधयो मधुमतीः । आप ओषधीः पशून् । तानेवास्मा एकधा सꣳसृज्य । मधुमतः करोति । अद्भ्यः परि प्रजाताः स्थ समद्भिः पृच्यध्वमिति पर्याप्लावयति । यथा सुवृष्ट इमामनुविसृत्य २
आप ओषधीर्महयन्ति । तादृगेव तत् । जनयत्यै त्वा संयौमीत्याह । प्रजा एवैतेन दाधार । अग्नये त्वाग्नीषोमाभ्यामित्याह व्यावृत्त्यै । मखस्य शिरोऽसीत्याह । यज्ञो वै मखः । तस्यैतच्छिरः । यत्पुरोडाशः । तस्मादेवमाह ३
घर्मोऽसि विश्वायुरित्याह । विश्वमेवायुर्यजमाने दधाति । उरु प्रथस्वोरु ते यज्ञपतिः प्रथतामित्याह । यजमानमेव प्रजया पशुभिः प्रथयति । त्वचं गृह्णीष्वेत्याह । सर्वमेवैनꣳ सतनुं करोति । अथाप आनीय परि मार्ष्टि । माꣳस एव तत्त्वचं दधाति । तस्मात्त्वचा माꣳसं छन्नम् । घर्मो वा एषोऽशान्तः ४
अर्धमासेऽर्धमासे प्रवृज्यते । यत्पुरोडाशः । स ईश्वरो यजमानꣳ शुचा प्रदहः । पर्यग्नि करोति । पशुमेवैनमकः । शान्त्या अप्रदाहाय । त्रिः पर्यग्नि करोति । त्र्यावृद्धि यज्ञः । अथो रक्षसामपहत्यै । अन्तरितꣳ रक्षोऽन्तरिता अरातय इत्याह ५
रक्षसामन्तर्हित्यै । पुरोडाशं वा अधिश्रितꣳ रक्षाꣳस्यजिघाꣳसन् । दिवि नाको नामाग्नी रक्षोहा । स एवास्माद्रक्षाꣳस्यपाहन्न् । देवस्त्वा सविता श्रपयत्वित्याह । सवितृप्रसूत एवैनꣳ श्रपयति । वर्षिष्ठे अधि नाक इत्याह । रक्षसामपहत्यै । अग्निस्ते तनुवं मातिधागित्याहानतिदाहाय । अग्ने हव्यꣳ रक्षस्वेत्याह गुप्त्यै ६
अविदहन्तश्श्रपयतेति वाचं विसृजते । यज्ञमेव हवीꣳश्यभिव्याहृत्य प्रतनुते । पुरोरुचमविदाहाय शृत्यै करोति । मस्तिष्को वै पुरोडाशः । तं यन्नाभिवासयेत् । आविर्मस्तिष्कः स्यात् । अभिवासयति । तस्माद्गुहा मस्तिष्कः । भस्मनाभिवासयति । तस्मान्माꣳसेनास्थि छन्नम् ७
वेदेनाभिवासयति । तस्मात्केशैः शिरश्छन्नम् । अखलतिभावुको भवति । य एवं वेद । पशोर्वै प्रतिमा पुरोडाशः । स नायजुष्कमभिवास्यः । वृथेव स्यात् । ईश्वरा यजमानस्य पशवः प्रमेतोः । सं ब्रह्मणा पृच्यस्वेत्याह । प्राणा वै ब्रह्म ८
प्राणाः पशवः । प्राणैरेव पशून्त्संपृणक्ति । न प्रमायुका भवन्ति । यजमानो वै पुरोडाशः । प्रजा पशवः पुरीषम् । यदेवमभिवासयति । यजमानमेव प्रजया पशुभिः समर्धयति । देवा वै हविर्भृत्वाब्रुवन्न् । कस्मिन्निदं म्रक्ष्यामह इति । सोऽग्निरब्रवीत् ९
मयि तनूः सं निधद्ध्वम् । अहं वस्तं जनयिष्यामि । यस्मिन्म्रक्ष्यध्व इति । ते देवा अग्नौ तनूः सं न्यदधत । तस्मादाहुः । अग्निः सर्वा देवता इति । सोऽङ्गारेणापः । अभ्यपातयत् । तत एकतोऽजायत । स द्वितीयमभ्यपातयत् १०
ततो द्वितोऽजायत । स तृतीयमभ्यपातयत् । ततस्त्रितोऽजायत । यदद्भ्योऽजायन्त । तदाप्यानामाप्यत्वम् । यदात्मभ्योऽजायन्त । तदात्म्यानामात्म्यत्वम् । ते देवा आप्येष्वमृजत । आप्या अमृजत सूर्याभ्युदिते । सूर्याभ्युदितः सूर्याभिनिम्रुक्ते ११
सूर्याभिनिम्रुक्तः कुनखिनि । कुनखी श्यावदति । श्यावदन्नग्रदिधिषौ । अग्रदिधिषुः परिवित्ते । परिवित्तो वीरहणि । वीरहा ब्रह्महणि तद्ब्रह्महणं नात्यच्यवत । अन्तर्वेदि निनयत्यवरुध्यै । उल्मुकेनाभिगृह्णाति शृतत्वाय । शृतकामा इव हि देवाः १२
devasya tvā savituḥ prasava ityāha prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | saṃvapāmītyāha | yathādevatamevaināni saṃvapati | samāpo adbhiragmata samoṣadhayo rasenetyāha | āpo vā oṣadhīrjinvanti | oṣadhayo'po jinvanti | anyā vā etāsāmanyā jinvanti 1
tasmādevamāha | sam̐ revatīrjagatībhirmadhumatīrmadhumatībhiḥ sṛjyadhvamityāha | āpo vai revatīḥ | paśavo jagatīḥ | oṣadhayo madhumatīḥ | āpa oṣadhīḥ paśūn | tānevāsmā ekadhā sam̐sṛjya | madhumataḥ karoti | adbhyaḥ pari prajātāḥ stha samadbhiḥ pṛcyadhvamiti paryāplāvayati | yathā suvṛṣṭa imāmanuvisṛtya 2
āpa oṣadhīrmahayanti | tādṛgeva tat | janayatyai tvā saṃyaumītyāha | prajā evaitena dādhāra | agnaye tvāgnīṣomābhyāmityāha vyāvṛttyai | makhasya śiro'sītyāha | yajño vai makhaḥ | tasyaitacchiraḥ | yatpuroḍāśaḥ | tasmādevamāha 3
gharmo'si viśvāyurityāha | viśvamevāyuryajamāne dadhāti | uru prathasvoru te yajñapatiḥ prathatāmityāha | yajamānameva prajayā paśubhiḥ prathayati | tvacaṃ gṛhṇīṣvetyāha | sarvamevainam̐ satanuṃ karoti | athāpa ānīya pari mārṣṭi | mām̐sa eva tattvacaṃ dadhāti | tasmāttvacā mām̐saṃ channam | gharmo vā eṣo'śāntaḥ 4
ardhamāse'rdhamāse pravṛjyate | yatpuroḍāśaḥ | sa īśvaro yajamānam̐ śucā pradahaḥ | paryagni karoti | paśumevainamakaḥ | śāntyā apradāhāya | triḥ paryagni karoti | tryāvṛddhi yajñaḥ | atho rakṣasāmapahatyai | antaritam̐ rakṣo'ntaritā arātaya ityāha 5
rakṣasāmantarhityai | puroḍāśaṃ vā adhiśritam̐ rakṣām̐syajighām̐san | divi nāko nāmāgnī rakṣohā | sa evāsmādrakṣām̐syapāhann | devastvā savitā śrapayatvityāha | savitṛprasūta evainam̐ śrapayati | varṣiṣṭhe adhi nāka ityāha | rakṣasāmapahatyai | agniste tanuvaṃ mātidhāgityāhānatidāhāya | agne havyam̐ rakṣasvetyāha guptyai 6
avidahantaśśrapayateti vācaṃ visṛjate | yajñameva havīm̐śyabhivyāhṛtya pratanute | purorucamavidāhāya śṛtyai karoti | mastiṣko vai puroḍāśaḥ | taṃ yannābhivāsayet | āvirmastiṣkaḥ syāt | abhivāsayati | tasmādguhā mastiṣkaḥ | bhasmanābhivāsayati | tasmānmām̐senāsthi channam 7
vedenābhivāsayati | tasmātkeśaiḥ śiraśchannam | akhalatibhāvuko bhavati | ya evaṃ veda | paśorvai pratimā puroḍāśaḥ | sa nāyajuṣkamabhivāsyaḥ | vṛtheva syāt | īśvarā yajamānasya paśavaḥ prametoḥ | saṃ brahmaṇā pṛcyasvetyāha | prāṇā vai brahma 8
prāṇāḥ paśavaḥ | prāṇaireva paśūntsaṃpṛṇakti | na pramāyukā bhavanti | yajamāno vai puroḍāśaḥ | prajā paśavaḥ purīṣam | yadevamabhivāsayati | yajamānameva prajayā paśubhiḥ samardhayati | devā vai havirbhṛtvābruvann | kasminnidaṃ mrakṣyāmaha iti | so'gnirabravīt 9
mayi tanūḥ saṃ nidhaddhvam | ahaṃ vastaṃ janayiṣyāmi | yasminmrakṣyadhva iti | te devā agnau tanūḥ saṃ nyadadhata | tasmādāhuḥ | agniḥ sarvā devatā iti | so'ṅgāreṇāpaḥ | abhyapātayat | tata ekato'jāyata | sa dvitīyamabhyapātayat 10
tato dvito'jāyata | sa tṛtīyamabhyapātayat | tatastrito'jāyata | yadadbhyo'jāyanta | tadāpyānāmāpyatvam | yadātmabhyo'jāyanta | tadātmyānāmātmyatvam | te devā āpyeṣvamṛjata | āpyā amṛjata sūryābhyudite | sūryābhyuditaḥ sūryābhinimrukte 11
sūryābhinimruktaḥ kunakhini | kunakhī śyāvadati | śyāvadannagradidhiṣau | agradidhiṣuḥ parivitte | parivitto vīrahaṇi | vīrahā brahmahaṇi tadbrahmahaṇaṃ nātyacyavata | antarvedi ninayatyavarudhyai | ulmukenābhigṛhṇāti śṛtatvāya | śṛtakāmā iva hi devāḥ 12
Sanskrit only: no published translation is held for this verse.
देवस्य त्वा सवितुः प्रसव इति स्फ्यमादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । आदद इन्द्र स्य बाहुरसि दक्षिण इत्याह । इन्द्रि यमेव यजमाने दधाति । सहस्रभृष्टिः शततेजा इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । वायुरसि तिग्मतेजा इत्याह । तेजो वै वायुः १
तेज एवास्मिन्दधाति । विषाद्वै नामासुर आसीत् । सोऽबिभेत् । यज्ञेन मा देवा अभिभविष्यन्तीति । स पृथिवीमभ्यवमीत् । सामेध्याभवत् । अथो यदिन्द्रो वृत्रमहन् । तस्य लोहितं पृथिवीमनु व्यधावत् । सामेध्याभवत् । पृथिवि देवयजनीत्याह २
मेध्यामेवैनां देवयजनीं करोति । ओषध्यास्ते मूलं मा हिꣳसिषमित्याह । ओषधीनामहिꣳसायै । व्रजं गच्छ गोस्थानमित्याह । छन्दाꣳसि वै व्रजो गोस्थानः । छन्दाꣳस्येवास्मै व्रजं गोस्थानं करोति । वर्षतु ते द्यौरित्याह । वृष्टिर्वै द्यौः । वृष्टिमेवावरुन्धे । बधान देव सवितः परमस्यां परावतीत्याह ३
द्वौ वाव पुरुषौ । यं चैव द्वेष्टि । यश्चैनं द्वेष्टि । तावुभौ बध्नाति परमस्यां परावति शतेन पाशैः । योऽस्मान्द्वेष्टि यं च वयं द्विष्मस्तमतो मा मौगित्याहा-निम्रुक्त्यै । अररुर्वै नामासुर आसीत् । स पृथिव्यामुपम्लुप्तोऽशयत् । तं देवा अपहतोऽररुः पृथिव्या इति पृथिव्या अपाघ्नन्न् । भ्रातृव्यो वा अररुः । अपहतोऽररुः पृथिव्या इति यदाह ४
भ्रातृव्यमेव पृथिव्या अपहन्ति । तेऽमन्यन्त । दिवं वा अयमितः पतिष्यतीति । तमररुस्ते दिवं मा स्कानिति दिवः पर्यबाधन्त । भ्रातृव्यो वा अररुः । अररुस्ते दिवं मा स्कानिति यदाह । भ्रातृव्यमेव दिवः परिबाधते । स्तम्बयजुर्हरति । पृथिव्या एव भ्रातृव्यमपहन्ति । द्वितीयꣳ हरति ५
अन्तरिक्षादेवैनमपहन्ति । तृतीयꣳ हरति । दिव एवैनमपहन्ति । तूष्णीं चतुर्थꣳ हरति । अपरिमितादेवैनमपहन्ति । असुराणां वा इयमग्र आसीत् । यावदासीनः परापश्यति । तावद्देवानाम् । ते देवा अब्रुवन् । अस्त्वेव नोऽस्यामपीति ६
क्यन्नो दास्यथेति । यावत्स्वयं परिगृह्णीथेति । ते वसवस्त्वेति दक्षिणतः पर्यगृह्णन्न् । रुद्रास्त्वेति पश्चात् । आदित्यास्त्वेत्युत्तरतः । तेऽग्निना प्राञ्चोऽजयन्न् । वसुभिर्दक्षिणा । रुद्रैः प्रत्यञ्चः । आदित्यैरुदञ्चः । यस्यैवं विदुषो वेदिं परिगृह्णन्ति ७
भवत्यात्मना । परास्य भ्रातृव्यो भवति । देवस्य सवितुः सव इत्याह प्रसूत्यै । कर्म कृण्वन्ति वेधस इत्याह । इषितꣳ हि कर्म क्रियते । पृथिव्यै मेध्यं चामेध्यं च व्युदक्रामताम् । प्राचीनमुदीचीनं मेध्यम् । प्रतीचीनं दक्षिणामेध्यम् । प्राचीमुदीचीं प्रवणां करोति । मेध्यामेवैनां देवयजनीं करोति ८
प्राञ्चौ वेद्याꣳवुन्नयति । आहवनियस्य परिगृहीत्यै । प्रतिची श्रोणी ।गार्हपत्यस्य परिगृहीत्यै । अथो मिथुनत्वाय । उद्धन्ति । यदेवास्या अमेध्यम् । तदपहन्ति । उद्धन्ति तस्मादोषधयः पराभवन्ति ९
मूलं छिनत्ति । भ्रातृव्यस्यैव मूलं छिनत्ति । मूलं वा अतितिष्ठद्र क्षाꣳस्यनूत्पिपते । यद्धस्तेन छिन्द्यात् । कुनखिनीः प्रजाः स्युः । स्फ्येन छिनत्ति । वज्रो वै स्फ्यः । वज्रेणैव यज्ञाद्र क्षाꣳस्यपहन्ति । पितृदेवत्यातिखाता । इयतीं खनति १०
प्रजापतिना यज्ञमुखेन संमिताम् । वेदिर्देवेभ्यो निलायत । तां चतुरङ्गुलेऽन्वविन्दन्न् । तस्माच्चतुरङ्गुलं खेया । चतुरङ्गुलं खनति । चतुरङ्गुले ह्योषधयः प्रतितिष्ठन्ति । आ प्रतिष्ठायै खनति । यजमानमेव प्रतिष्ठां गमयति । दक्षिणतो वर्षीयसीं करोति । देवयजनस्यैव रूपमकः ११
पुरीषवतीं करोति । प्रजा वै पशवः पुरीषम् । प्र्जयैवैनं पशुभिः पुरीषवन्तं करोति । उत्तरं परिग्राहं परिगृह्णाति । एतावती वै पृथिवी ।यावती वेदिः । तस्या एतावत एव भ्रातृव्यं निर्भज्य । आत्मन उत्तरं परिग्राहं परिगृह्णाति । ऋतमस्यृतसदनमस्यृतश्रीरसीत्याह । यथायजुरेवैतत् १२
क्रूरमिव वा एतत्करोति । यद्वेदिं करोति । धा असि स्वधा असीति योयुप्यते शान्त्यै । उर्वी चासि वस्वी चासीत्याह । उर्वीमेवैनां वस्वीं करोति । पुरा क्रूरस्य विसृपो विरप्शिन्नित्याह मेध्यत्वाय । उदादाय पृथिवीं जीरदा-नुर्यामैरयन्चन्द्र मसि स्वधाभिरित्याह । यदेवास्या अमेध्यम् । तदपहत्य । मेध्यां देवयजनीं कृत्वा १३
यददश्चन्द्र मसि मेध्यम् । तदस्यामेरयति । तां धीरासो अनुदृश्य यजन्त इत्याहानुख्यात्यै । प्रोक्षणीरासादय । इध्माबर्हिरुपसादय । स्रुवं च स्रुचश्च संमृड्ढि । पत्नीꣳ संनह्य । आज्येनोदेहीत्याहानुपूर्वतायै । प्रोक्षणी-रासादयति । आपो वै रक्षोघ्नीः १४
रक्षसामपहत्यै । स्फ्यस्य वर्त्मन्त्सादयति । यज्ञस्य संतत्यै । उवाच हासितो दैवलः । एतावतीर्वा अमुष्मिꣳल्लोक आप आसन्न् । यावतीः प्रोक्षणीरिति । तस्माद्बह्वीरासाद्याः । स्फ्यमुदस्यन् । यं द्विष्यात्तं ध्यायेत् । शुचैवैनमर्पयति १५
devasya tvā savituḥ prasava iti sphyamādatte prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | ādada indra sya bāhurasi dakṣiṇa ityāha | indri yameva yajamāne dadhāti | sahasrabhṛṣṭiḥ śatatejā ityāha | rūpamevāsyaitanmahimānaṃ vyācaṣṭe | vāyurasi tigmatejā ityāha | tejo vai vāyuḥ 1
teja evāsmindadhāti | viṣādvai nāmāsura āsīt | so'bibhet | yajñena mā devā abhibhaviṣyantīti | sa pṛthivīmabhyavamīt | sāmedhyābhavat | atho yadindro vṛtramahan | tasya lohitaṃ pṛthivīmanu vyadhāvat | sāmedhyābhavat | pṛthivi devayajanītyāha 2
medhyāmevaināṃ devayajanīṃ karoti | oṣadhyāste mūlaṃ mā him̐siṣamityāha | oṣadhīnāmahim̐sāyai | vrajaṃ gaccha gosthānamityāha | chandām̐si vai vrajo gosthānaḥ | chandām̐syevāsmai vrajaṃ gosthānaṃ karoti | varṣatu te dyaurityāha | vṛṣṭirvai dyauḥ | vṛṣṭimevāvarundhe | badhāna deva savitaḥ paramasyāṃ parāvatītyāha 3
dvau vāva puruṣau | yaṃ caiva dveṣṭi | yaścainaṃ dveṣṭi | tāvubhau badhnāti paramasyāṃ parāvati śatena pāśaiḥ | yo'smāndveṣṭi yaṃ ca vayaṃ dviṣmastamato mā maugityāhā-nimruktyai | ararurvai nāmāsura āsīt | sa pṛthivyāmupamlupto'śayat | taṃ devā apahato'raruḥ pṛthivyā iti pṛthivyā apāghnann | bhrātṛvyo vā araruḥ | apahato'raruḥ pṛthivyā iti yadāha 4
bhrātṛvyameva pṛthivyā apahanti | te'manyanta | divaṃ vā ayamitaḥ patiṣyatīti | tamararuste divaṃ mā skāniti divaḥ paryabādhanta | bhrātṛvyo vā araruḥ | araruste divaṃ mā skāniti yadāha | bhrātṛvyameva divaḥ paribādhate | stambayajurharati | pṛthivyā eva bhrātṛvyamapahanti | dvitīyam̐ harati 5
antarikṣādevainamapahanti | tṛtīyam̐ harati | diva evainamapahanti | tūṣṇīṃ caturtham̐ harati | aparimitādevainamapahanti | asurāṇāṃ vā iyamagra āsīt | yāvadāsīnaḥ parāpaśyati | tāvaddevānām | te devā abruvan | astveva no'syāmapīti 6
kyanno dāsyatheti | yāvatsvayaṃ parigṛhṇītheti | te vasavastveti dakṣiṇataḥ paryagṛhṇann | rudrāstveti paścāt | ādityāstvetyuttarataḥ | te'gninā prāñco'jayann | vasubhirdakṣiṇā | rudraiḥ pratyañcaḥ | ādityairudañcaḥ | yasyaivaṃ viduṣo vediṃ parigṛhṇanti 7
bhavatyātmanā | parāsya bhrātṛvyo bhavati | devasya savituḥ sava ityāha prasūtyai | karma kṛṇvanti vedhasa ityāha | iṣitam̐ hi karma kriyate | pṛthivyai medhyaṃ cāmedhyaṃ ca vyudakrāmatām | prācīnamudīcīnaṃ medhyam | pratīcīnaṃ dakṣiṇāmedhyam | prācīmudīcīṃ pravaṇāṃ karoti | medhyāmevaināṃ devayajanīṃ karoti 8
prāñcau vedyām̐vunnayati | āhavaniyasya parigṛhītyai | praticī śroṇī |gārhapatyasya parigṛhītyai | atho mithunatvāya | uddhanti | yadevāsyā amedhyam | tadapahanti | uddhanti tasmādoṣadhayaḥ parābhavanti 9
mūlaṃ chinatti | bhrātṛvyasyaiva mūlaṃ chinatti | mūlaṃ vā atitiṣṭhadra kṣām̐syanūtpipate | yaddhastena chindyāt | kunakhinīḥ prajāḥ syuḥ | sphyena chinatti | vajro vai sphyaḥ | vajreṇaiva yajñādra kṣām̐syapahanti | pitṛdevatyātikhātā | iyatīṃ khanati 10
prajāpatinā yajñamukhena saṃmitām | vedirdevebhyo nilāyata | tāṃ caturaṅgule'nvavindann | tasmāccaturaṅgulaṃ kheyā | caturaṅgulaṃ khanati | caturaṅgule hyoṣadhayaḥ pratitiṣṭhanti | ā pratiṣṭhāyai khanati | yajamānameva pratiṣṭhāṃ gamayati | dakṣiṇato varṣīyasīṃ karoti | devayajanasyaiva rūpamakaḥ 11
purīṣavatīṃ karoti | prajā vai paśavaḥ purīṣam | prjayaivainaṃ paśubhiḥ purīṣavantaṃ karoti | uttaraṃ parigrāhaṃ parigṛhṇāti | etāvatī vai pṛthivī |yāvatī vediḥ | tasyā etāvata eva bhrātṛvyaṃ nirbhajya | ātmana uttaraṃ parigrāhaṃ parigṛhṇāti | ṛtamasyṛtasadanamasyṛtaśrīrasītyāha | yathāyajurevaitat 12
krūramiva vā etatkaroti | yadvediṃ karoti | dhā asi svadhā asīti yoyupyate śāntyai | urvī cāsi vasvī cāsītyāha | urvīmevaināṃ vasvīṃ karoti | purā krūrasya visṛpo virapśinnityāha medhyatvāya | udādāya pṛthivīṃ jīradā-nuryāmairayancandra masi svadhābhirityāha | yadevāsyā amedhyam | tadapahatya | medhyāṃ devayajanīṃ kṛtvā 13
yadadaścandra masi medhyam | tadasyāmerayati | tāṃ dhīrāso anudṛśya yajanta ityāhānukhyātyai | prokṣaṇīrāsādaya | idhmābarhirupasādaya | sruvaṃ ca srucaśca saṃmṛḍḍhi | patnīm̐ saṃnahya | ājyenodehītyāhānupūrvatāyai | prokṣaṇī-rāsādayati | āpo vai rakṣoghnīḥ 14
rakṣasāmapahatyai | sphyasya vartmantsādayati | yajñasya saṃtatyai | uvāca hāsito daivalaḥ | etāvatīrvā amuṣmim̐lloka āpa āsann | yāvatīḥ prokṣaṇīriti | tasmādbahvīrāsādyāḥ | sphyamudasyan | yaṃ dviṣyāttaṃ dhyāyet | śucaivainamarpayati 15
Sanskrit only: no published translation is held for this verse.
वज्रो वै स्फ्यः । यदन्वञ्चं धारयेत् । वज्रेऽध्वर्युः क्षण्वीत । पुरस्तात्तिर्यञ्चं धारयति । वर्जो वै स्फ्यः । वज्रेणैव यज्ञस्य दक्षिणतो रक्षाꣳस्यपहन्ति । अग्निभ्यां प्राचश्च प्रतीचश्च । स्फ्येनोदीचश्चाध्राचश्च । स्फ्येन वा एष वज्रेणास्यै पाप्मानं भ्रातृव्यमपहत्य । उत्करेऽधि प्रवृश्चति १
यथोपधाय वृश्चन्त्येवम् । हस्ताववनेनिक्ते । आत्मानमेव पवयते । स्फ्यं प्रक्षालयति मेध्यत्वाय । अथो पाप्मन एव भ्रातृव्यस्य न्यङ्गं छिनत्ति । इध्माबर्हिरुपसादयति युक्त्यै । यज्ञस्य मिथुनत्वाय । अथो पुरोरुचमेवैतां दधाति । उत्तरस्य कर्मणोऽनुख्यात्यै । न पुरस्तात्प्रत्यगुपसादयेत् २
यत्पुरस्तात्प्रत्यगुपसादयेत् । अन्यत्राहुतिपथादिध्मं प्रतिपादयेत् । प्रजा वै बर्हिः । अपराध्नुयाद्बर्हिषा प्रजानां प्रजननम् । पश्चात्प्रागुपसादयति । आहुतिपथेनेध्मं प्रतिपादयति । संप्रत्येव बर्हिषा प्रजानां प्रजननमुपैति । दक्षिणमिध्मम् । उत्तरं बर्हिः । आत्मा वा इध्मः । प्रजा बर्हिः । प्रजा ह्यात्मन उत्तरतरा तीर्थे । ततो मेधमुपनीय । यथादेवतमेवैनत्प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ३
vajro vai sphyaḥ | yadanvañcaṃ dhārayet | vajre'dhvaryuḥ kṣaṇvīta | purastāttiryañcaṃ dhārayati | varjo vai sphyaḥ | vajreṇaiva yajñasya dakṣiṇato rakṣām̐syapahanti | agnibhyāṃ prācaśca pratīcaśca | sphyenodīcaścādhrācaśca | sphyena vā eṣa vajreṇāsyai pāpmānaṃ bhrātṛvyamapahatya | utkare'dhi pravṛścati 1
yathopadhāya vṛścantyevam | hastāvavanenikte | ātmānameva pavayate | sphyaṃ prakṣālayati medhyatvāya | atho pāpmana eva bhrātṛvyasya nyaṅgaṃ chinatti | idhmābarhirupasādayati yuktyai | yajñasya mithunatvāya | atho purorucamevaitāṃ dadhāti | uttarasya karmaṇo'nukhyātyai | na purastātpratyagupasādayet 2
yatpurastātpratyagupasādayet | anyatrāhutipathādidhmaṃ pratipādayet | prajā vai barhiḥ | aparādhnuyādbarhiṣā prajānāṃ prajananam | paścātprāgupasādayati | āhutipathenedhmaṃ pratipādayati | saṃpratyeva barhiṣā prajānāṃ prajananamupaiti | dakṣiṇamidhmam | uttaraṃ barhiḥ | ātmā vā idhmaḥ | prajā barhiḥ | prajā hyātmana uttaratarā tīrthe | tato medhamupanīya | yathādevatamevainatpratiṣṭhāpayati | pratitiṣṭhati prajayā paśubhiryajamānaḥ 3
Sanskrit only: no published translation is held for this verse.
प्रत्युष्टँ रक्षः प्रत्युष्टा अरातय इत्याह । रक्षसामपहत्यै । अग्नेर्वस्तेजिष्ठेन तेजसा निष्टपामीत्याह मेध्यत्वाय । स्रुचः संमार्ष्टि । स्रुवमग्रे । पुमाँ समेवाभ्यः सँ श्यति मिथुनत्वाय । अथ जुहूम् । अथोपभृतम् । अथ ध्रुवाम् । असौ वै जुहूः १
अन्तरिक्षमुपभृत् । पृथिवी ध्रुवा । इमे वै लोकाः स्रुचः । वृष्टिः संमार्जनानि । वृष्टिर्वा इमाँ ल्लोकाननुपूर्वं कल्पयति । ते ततः क्ळ्प्ताः समेधन्ते । समेधन्तेऽस्मा इमे लोकाः प्रजया पशुभिः । य एवं वेद । यदि कामयेत वर्षुकः पर्जन्यः स्यादिति । अग्रतः संमृज्यात् २
वृष्टिमेव नियच्छति । अर्वाचीनाग्रा हि वृष्टिः । यदि कामयेतावर्षुकः स्यादिति । मूलतः संमृज्यात् । वृष्टिमेवोद्यच्छति । तदु वा आहुः । अग्रत एवोपरिष्टात्संमृज्यात् । मूलतोऽधस्तात् । तदनुपूर्वं कल्पते । वर्षुको भवतीति ३
प्राचीमभ्याकारम् । अग्रैरन्तरतः । एवमिव ह्यन्नमद्यते । अथो अग्राद्वा ओषधीनामूर्जं प्रजा उपजीवन्ति । ऊर्ज एवान्नाद्यस्यावरुध्यै । अधस्ता-त्प्रतीचीम् । दण्डमुत्तमतः । मूलेन मूलं प्रतिष्ठित्यै । तस्मादरत्नौ प्राञ्च्युप-रिष्टाल्लोमानि । प्रत्यञ्च्यधस्तात् ४
स्रुग्घ्येषा । प्राणो वै स्रुवः । जुहूर्दक्षिणो हस्तः । उपभृत्सव्यः । आत्मा ध्रुवा । अन्नँ संमार्जनानि । मुखतो वै प्राणोऽपानो भूत्वा । आत्मानमन्नं प्रविश्य । बाह्यतस्तनुवँ शुभयति । तस्मात्स्रुवमेवाग्रे संमार्ष्टि । मुखतो हि प्राणोऽपानो भूत्वा । आत्मानमन्नमाविशति । तौ प्राणापाणौ । अव्यर्धुकः प्राणापानाभ्यां भवति । य एवं वेद ५
pratyuṣṭa~ rakṣaḥ pratyuṣṭā arātaya ityāha | rakṣasāmapahatyai | agnervastejiṣṭhena tejasā niṣṭapāmītyāha medhyatvāya | srucaḥ saṃmārṣṭi | sruvamagre | pumā~ samevābhyaḥ sa~ śyati mithunatvāya | atha juhūm | athopabhṛtam | atha dhruvām | asau vai juhūḥ 1
antarikṣamupabhṛt | pṛthivī dhruvā | ime vai lokāḥ srucaḥ | vṛṣṭiḥ saṃmārjanāni | vṛṣṭirvā imā~ llokānanupūrvaṃ kalpayati | te tataḥ kl̤ptāḥ samedhante | samedhante'smā ime lokāḥ prajayā paśubhiḥ | ya evaṃ veda | yadi kāmayeta varṣukaḥ parjanyaḥ syāditi | agrataḥ saṃmṛjyāt 2
vṛṣṭimeva niyacchati | arvācīnāgrā hi vṛṣṭiḥ | yadi kāmayetāvarṣukaḥ syāditi | mūlataḥ saṃmṛjyāt | vṛṣṭimevodyacchati | tadu vā āhuḥ | agrata evopariṣṭātsaṃmṛjyāt | mūlato'dhastāt | tadanupūrvaṃ kalpate | varṣuko bhavatīti 3
prācīmabhyākāram | agrairantarataḥ | evamiva hyannamadyate | atho agrādvā oṣadhīnāmūrjaṃ prajā upajīvanti | ūrja evānnādyasyāvarudhyai | adhastā-tpratīcīm | daṇḍamuttamataḥ | mūlena mūlaṃ pratiṣṭhityai | tasmādaratnau prāñcyupa-riṣṭāllomāni | pratyañcyadhastāt 4
srugghyeṣā | prāṇo vai sruvaḥ | juhūrdakṣiṇo hastaḥ | upabhṛtsavyaḥ | ātmā dhruvā | anna~ saṃmārjanāni | mukhato vai prāṇo'pāno bhūtvā | ātmānamannaṃ praviśya | bāhyatastanuva~ śubhayati | tasmātsruvamevāgre saṃmārṣṭi | mukhato hi prāṇo'pāno bhūtvā | ātmānamannamāviśati | tau prāṇāpāṇau | avyardhukaḥ prāṇāpānābhyāṃ bhavati | ya evaṃ veda 5
Sanskrit only: no published translation is held for this verse.
दिवः शिल्पमवततम् । पृथिव्याः ककुभि श्रितम् । तेन वयँ सहस्रवल्शेन । सपत्नं नाशयामसि स्वाहेति स्रुक्संमार्जनान्यग्नौ प्रहरति । आपो वै दर्भाः । रूपमेवैषामेतन्महिमानं व्याचष्टे । अनुष्टुभर्चा । आनुष्टुभः प्रजापतिः । प्राजापत्यो वेदः । वेदस्याग्रँ स्रुक्संमार्जनानि १
स्वेनैवैनानि छन्दसा । स्वया देवतया समर्धयति । अथो ऋग्वाव योषा । दर्भो वृषा । तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर्यजमानः । तान्येके वृथैवापास्यन्ति । तत्तथा न कार्यम् । आरब्धस्य यज्ञियस्य कर्मणः स विदोहः २
यद्येनानि पशवोऽभितिष्ठेयुः । न तत्पशुभ्यः कम् । अद्भिर्मार्जयित्वोत्करे न्यस्येत् । यद्वै यज्ञियस्य कर्मणोऽन्यत्राहुतीभ्यः संतिष्ठते । उत्करो वाव तस्य प्रतिष्ठा । एताँ हि तस्मै प्रतिष्ठां देवाः समभरन् । यदद्भिर्मार्जयति । तेन शान्तम् । यदुत्करे न्यस्यति । प्रतिष्ठामेवैनानि तद्गमयति ३
प्रतितिष्ठति प्रजया पशुभिर्यजमानः । अथो स्तम्बस्य वा एतद्रू पम् । यत्स्रुक्संमार्जनानि । स्तम्बशो वा ओषधयः । तासां जरत्कक्षे पशवो न रमन्ते । अप्रियो ह्येषां जरत्कक्षः । यावदप्रियो ह वै जरत्कक्षः पशूनाम् । तावदप्रियः पशूनां भवति । यस्यैतान्यन्यत्राग्नेर्दधति । नवदाव्यासु वा ओषधीषु पशवो रमन्ते ४
नवदावो ह्येषां प्रियः । यावत्प्रियो ह वै नवदावः पशूनाम् । तावत्प्रियः पशूनां भवति । यस्यैतान्यग्नौ प्रहरन्ति । तस्मादेतान्यग्नावेव प्रहरेत् । यतरस्मिन्त्संमृज्यात् । पशूनां धृत्यै । यो भूतानामधिपतिः । रुद्र स्तन्तिचरो वृषा । पशूनस्माकं मा हिँ सीः । एतदस्तु हुतं तव स्वाहेत्यग्निसंमार्जनान्यग्नौ प्रहरति । एषा वा एतेषां योनिः । एषा प्रतिष्ठा । स्वामेवैनानि योनिम् । स्वां प्रतिष्ठां गमयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः ५
divaḥ śilpamavatatam | pṛthivyāḥ kakubhi śritam | tena vaya~ sahasravalśena | sapatnaṃ nāśayāmasi svāheti sruksaṃmārjanānyagnau praharati | āpo vai darbhāḥ | rūpamevaiṣāmetanmahimānaṃ vyācaṣṭe | anuṣṭubharcā | ānuṣṭubhaḥ prajāpatiḥ | prājāpatyo vedaḥ | vedasyāgra~ sruksaṃmārjanāni 1
svenaivaināni chandasā | svayā devatayā samardhayati | atho ṛgvāva yoṣā | darbho vṛṣā | tanmithunam | mithunamevāsya tadyajñe karoti prajananāya | prajāyate prajayā paśubhiryajamānaḥ | tānyeke vṛthaivāpāsyanti | tattathā na kāryam | ārabdhasya yajñiyasya karmaṇaḥ sa vidohaḥ 2
yadyenāni paśavo'bhitiṣṭheyuḥ | na tatpaśubhyaḥ kam | adbhirmārjayitvotkare nyasyet | yadvai yajñiyasya karmaṇo'nyatrāhutībhyaḥ saṃtiṣṭhate | utkaro vāva tasya pratiṣṭhā | etā~ hi tasmai pratiṣṭhāṃ devāḥ samabharan | yadadbhirmārjayati | tena śāntam | yadutkare nyasyati | pratiṣṭhāmevaināni tadgamayati 3
pratitiṣṭhati prajayā paśubhiryajamānaḥ | atho stambasya vā etadrū pam | yatsruksaṃmārjanāni | stambaśo vā oṣadhayaḥ | tāsāṃ jaratkakṣe paśavo na ramante | apriyo hyeṣāṃ jaratkakṣaḥ | yāvadapriyo ha vai jaratkakṣaḥ paśūnām | tāvadapriyaḥ paśūnāṃ bhavati | yasyaitānyanyatrāgnerdadhati | navadāvyāsu vā oṣadhīṣu paśavo ramante 4
navadāvo hyeṣāṃ priyaḥ | yāvatpriyo ha vai navadāvaḥ paśūnām | tāvatpriyaḥ paśūnāṃ bhavati | yasyaitānyagnau praharanti | tasmādetānyagnāveva praharet | yatarasmintsaṃmṛjyāt | paśūnāṃ dhṛtyai | yo bhūtānāmadhipatiḥ | rudra stanticaro vṛṣā | paśūnasmākaṃ mā hi~ sīḥ | etadastu hutaṃ tava svāhetyagnisaṃmārjanānyagnau praharati | eṣā vā eteṣāṃ yoniḥ | eṣā pratiṣṭhā | svāmevaināni yonim | svāṃ pratiṣṭhāṃ gamayati | pratitiṣṭhati prajayā paśubhiryajamānaḥ 5
Sanskrit only: no published translation is held for this verse.
अयज्ञो वा एषः । योऽपत्नीकः । न प्रजाः प्रजायेरन् । पत्न्यन्वास्ते । यज्ञमेवाकः । प्रजानां प्रजननाय । यत्तिष्ठन्ती संनह्येत । प्रियं ज्ञातिँ रुन्ध्यात् । आसीना संनह्यते । आसीना ह्येषा वीर्यं करोति १
यत्पश्चात्प्राच्यन्वासीत । अनया समदं दधीत । देवानां पत्निया समदं दधीत । देशाद्दक्षिणत उदीच्यन्वास्ते । आत्मनो गोपीथाय । आशासाना सौमनसमित्याह । मेध्यामेवैनां केवलीं कृत्वा । आशिषा समर्धयति । अग्नेरनुव्रता भूत्वा संनह्ये सुकृताय कमित्याह । एतद्वै पत्नियै व्रतोपनयनम् २
तेनैवैनां व्रतमुपनयति । तस्मादाहुः । यश्चैवं वेद यश्चन । योक्त्रमेव युते । यमन्वास्ते । तस्यामुष्मिँ ल्लोके भवतीति योक्त्रेण । यद्योक्त्रम् । स योगः । यदास्ते । स क्षेमः ३
योगक्षेमस्य क्ळ्प्त्यै । युक्तं क्रियाता आशीः कामे युज्याता इति । आशिषः समृद्ध्यै । ग्रन्थिं ग्रथ्नाति । आशिष एवास्यां परिगृह्णाति । पुमान्वै ग्रन्थिः । स्त्री पत्नी ।तन्मिथुनम् । मिथुनमेवास्य तद्यज्ञे करोति प्रजननाय । प्रजायते प्रजया पशुभिर्यजमानः ४
अथो अर्धो वा एष आत्मनः । यत्पत्नी ।यज्ञस्य धृत्या अशिथिलंभावाय । सुप्रजसस्त्वा वयँ सुपत्नीरुपसेदिमेत्याह । यज्ञमेव तन्मिथुनी करोति । ऊनेऽतिरिक्तं धीयाता इति प्रजात्यै । महीनां पयोऽस्योषधीनाँ रस इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । तस्य तेऽक्षीयमाणस्य निर्वपामि देवय-ज्याया इत्याह । आशिषमेवैतामाशास्ते ५
ayajño vā eṣaḥ | yo'patnīkaḥ | na prajāḥ prajāyeran | patnyanvāste | yajñamevākaḥ | prajānāṃ prajananāya | yattiṣṭhantī saṃnahyeta | priyaṃ jñāti~ rundhyāt | āsīnā saṃnahyate | āsīnā hyeṣā vīryaṃ karoti 1
yatpaścātprācyanvāsīta | anayā samadaṃ dadhīta | devānāṃ patniyā samadaṃ dadhīta | deśāddakṣiṇata udīcyanvāste | ātmano gopīthāya | āśāsānā saumanasamityāha | medhyāmevaināṃ kevalīṃ kṛtvā | āśiṣā samardhayati | agneranuvratā bhūtvā saṃnahye sukṛtāya kamityāha | etadvai patniyai vratopanayanam 2
tenaivaināṃ vratamupanayati | tasmādāhuḥ | yaścaivaṃ veda yaścana | yoktrameva yute | yamanvāste | tasyāmuṣmi~ lloke bhavatīti yoktreṇa | yadyoktram | sa yogaḥ | yadāste | sa kṣemaḥ 3
yogakṣemasya kl̤ptyai | yuktaṃ kriyātā āśīḥ kāme yujyātā iti | āśiṣaḥ samṛddhyai | granthiṃ grathnāti | āśiṣa evāsyāṃ parigṛhṇāti | pumānvai granthiḥ | strī patnī |tanmithunam | mithunamevāsya tadyajñe karoti prajananāya | prajāyate prajayā paśubhiryajamānaḥ 4
atho ardho vā eṣa ātmanaḥ | yatpatnī |yajñasya dhṛtyā aśithilaṃbhāvāya | suprajasastvā vaya~ supatnīrupasedimetyāha | yajñameva tanmithunī karoti | ūne'tiriktaṃ dhīyātā iti prajātyai | mahīnāṃ payo'syoṣadhīnā~ rasa ityāha | rūpamevāsyaitanmahimānaṃ vyācaṣṭe | tasya te'kṣīyamāṇasya nirvapāmi devaya-jyāyā ityāha | āśiṣamevaitāmāśāste 5
Sanskrit only: no published translation is held for this verse.
घृतं च वै मधु च प्रजापतिरासीत् । यतो मध्वासीत् । ततः प्रजा असृजत । तस्मान्मधुषि प्रजननमिवास्ति । तस्मान्मधुषा न प्रचरन्ति । यातयाम हि । आज्येन प्रचरन्ति । यज्ञो वा आज्यम् । यज्ञेनैव यज्ञं प्रचरन्त्ययातयामत्वाय । पत्न्यवेक्षते १
मिथुनत्वाय प्रजात्यै । यद्वै पत्नी यज्ञस्य करोति । मिथुनं तत् । अथो पत्निया एवैष यज्ञस्यान्वारम्भोऽनवच्छित्त्यै । अमेध्यं वा एतत्करोति । यत्पत्न्यवेक्षते । गार्हपत्येऽधिश्रयति मेध्यत्वाय । आहवनीयमभ्युद्द्रवति । यज्ञस्य संतत्यै । तेजोऽसि तेजोऽनु प्रेहीत्याह २
तेजो वा अग्निः । तेज आज्यम् । तेजसैव तेजः समर्धयति । अग्निस्ते तेजो मा विनैदित्याहाहिँ सायै । स्फ्यस्य वर्त्मन्त्सादयति । यज्ञस्य संतत्यै । अग्नेर्जिह्वासि सुभूर्देवानामित्याह । यथायजुरेवैतत् । धाम्नेधाम्ने देवेभ्यो यजुषेयजुषे भवेत्याह । आशिषमेवैतामाशास्ते ३
तद्वा अतः पवित्राभ्यामेवोत्पुनाति । यजमानो वा आज्यम् । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । पुनराहारम् । एवमिव हि प्राणापानौ संचरतः । शुक्रमसि ज्योतिरसि तेजोऽसीत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । त्रिर्यजुषा । त्रय इमे लोकाः ४
एषां लोकानामाप्त्यै । त्रिः । त्र्! यावृद्धि यज्ञः । अथो मेध्यत्वाय । अथाज्यवतीभ्यामपः । रूपमेवासामेतद्वर्णं दधाति । अपि वा उताहुः । यथा ह वै योषा सुवर्णँ हिरण्यं पेशलं बिभ्रती रूपाण्यास्ते । एवमेता एतर्हीति । आपो वै सर्वा देवताः ५
एषा हि विश्वेषां देवानां तनूः । यदाज्यम् । तत्रोभयोर्मीमाँ सा । जामिः स्यात् । यद्यजुषाज्यं यजुषाप उत्पुनीयात् । छन्दसाप उत्पुनात्यजामित्वाय । अथो मिथुनत्वाय । सावित्रियर्चा । सवितृप्रसूतं मे कर्मासदिति । सवितृप्रसूतमेवास्य कर्म भवति । पच्छो गायत्रिया त्रिःषमृद्धत्वाय । अद्भिरेवौषधीः संनयति । ओषधीभिः पशून् । पशुभिर्यजमानम् । शुक्रं त्वा शुक्रायां ज्योतिस्त्वा ज्योतिष्यर्चिस्त्वार्चिषीत्याह सर्वत्वाय । पर्यान्प्त्या अनन्तरायाय ६
ghṛtaṃ ca vai madhu ca prajāpatirāsīt | yato madhvāsīt | tataḥ prajā asṛjata | tasmānmadhuṣi prajananamivāsti | tasmānmadhuṣā na pracaranti | yātayāma hi | ājyena pracaranti | yajño vā ājyam | yajñenaiva yajñaṃ pracarantyayātayāmatvāya | patnyavekṣate 1
mithunatvāya prajātyai | yadvai patnī yajñasya karoti | mithunaṃ tat | atho patniyā evaiṣa yajñasyānvārambho'navacchittyai | amedhyaṃ vā etatkaroti | yatpatnyavekṣate | gārhapatye'dhiśrayati medhyatvāya | āhavanīyamabhyuddravati | yajñasya saṃtatyai | tejo'si tejo'nu prehītyāha 2
tejo vā agniḥ | teja ājyam | tejasaiva tejaḥ samardhayati | agniste tejo mā vinaidityāhāhi~ sāyai | sphyasya vartmantsādayati | yajñasya saṃtatyai | agnerjihvāsi subhūrdevānāmityāha | yathāyajurevaitat | dhāmnedhāmne devebhyo yajuṣeyajuṣe bhavetyāha | āśiṣamevaitāmāśāste 3
tadvā ataḥ pavitrābhyāmevotpunāti | yajamāno vā ājyam | prāṇāpānau pavitre | yajamāna eva prāṇāpānau dadhāti | punarāhāram | evamiva hi prāṇāpānau saṃcarataḥ | śukramasi jyotirasi tejo'sītyāha | rūpamevāsyaitanmahimānaṃ vyācaṣṭe | triryajuṣā | traya ime lokāḥ 4
eṣāṃ lokānāmāptyai | triḥ | tr! yāvṛddhi yajñaḥ | atho medhyatvāya | athājyavatībhyāmapaḥ | rūpamevāsāmetadvarṇaṃ dadhāti | api vā utāhuḥ | yathā ha vai yoṣā suvarṇa~ hiraṇyaṃ peśalaṃ bibhratī rūpāṇyāste | evametā etarhīti | āpo vai sarvā devatāḥ 5
eṣā hi viśveṣāṃ devānāṃ tanūḥ | yadājyam | tatrobhayormīmā~ sā | jāmiḥ syāt | yadyajuṣājyaṃ yajuṣāpa utpunīyāt | chandasāpa utpunātyajāmitvāya | atho mithunatvāya | sāvitriyarcā | savitṛprasūtaṃ me karmāsaditi | savitṛprasūtamevāsya karma bhavati | paccho gāyatriyā triḥṣamṛddhatvāya | adbhirevauṣadhīḥ saṃnayati | oṣadhībhiḥ paśūn | paśubhiryajamānam | śukraṃ tvā śukrāyāṃ jyotistvā jyotiṣyarcistvārciṣītyāha sarvatvāya | paryānptyā anantarāyāya 6
Sanskrit only: no published translation is held for this verse.
देवासुराः संयात्ता आसन् । स एतमिन्द्र आज्यस्यावकाशमपश्यत् । तेनावैक्षत । ततो देवा अभवन् । परासुराः । य एवं विद्वानाज्यमवेक्षते । भवत्यात्मना । परास्य भ्रातृव्यो भवति । ब्रह्मवादिनो वदन्ति । यदाज्येनान्यानि हवीँ ष्यभिघारयति १
अथ केनाज्यमिति । सत्येनेति ब्रूयात् । चक्षुर्वै सत्यम् । सत्येनैवैनदभिघारयति । ईश्वरो वा एषोऽन्धो भवितोः । यश्चक्षुषाज्यमवेक्षते । निमील्यावेक्षेत । दाधारात्मन्चक्षुः । अभ्याज्यं घारयति । आज्यं गृह्णाति २
छन्दाँ सि वा आज्यम् । छन्दाँ स्येव प्रीणाति । चतुर्जुह्वां गृह्णाति । चतुष्पादः पशवः । पशूनेवावरुन्धे । अष्टावुपभृति । अष्टाक्षरा गायत्री ।गायत्रः प्राणः । प्राणमेव पशुषु दधाति । चतुर्ध्रुवायाम् ३
चतुष्पादः पशवः । पशुष्वेवोपरिष्टात्प्रतितिष्ठति । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । चतुर्जुह्वां गृह्णन्भूयो गृह्णीयात् । अष्टावुपभृति गृह्णन्कनीयः । यजमानायैव भ्रातृव्यमुपस्तिं करोति । गौर्वै स्रुवः । चतुर्जुह्वां गृह्णाति । तस्माच्चतुष्पदी ४
अष्टावुपभृति । तस्मादष्टाशफा । चतुर्ध्रुवायाम् । तस्माच्चतुस्तना । गामेव तत्सँ स्करोति । सास्मै सँ स्कृतेषमूर्जं दुहे । यज्जुह्वां गृह्णाति । प्रयाजेभ्यस्तत् । यदुपभृति । प्रयाजानूयाजेभ्यस्तत् । सर्वस्मै वा एतद्यज्ञाय गृह्यते । यद्ध्रुवायामाज्यम् ५
devāsurāḥ saṃyāttā āsan | sa etamindra ājyasyāvakāśamapaśyat | tenāvaikṣata | tato devā abhavan | parāsurāḥ | ya evaṃ vidvānājyamavekṣate | bhavatyātmanā | parāsya bhrātṛvyo bhavati | brahmavādino vadanti | yadājyenānyāni havī~ ṣyabhighārayati 1
atha kenājyamiti | satyeneti brūyāt | cakṣurvai satyam | satyenaivainadabhighārayati | īśvaro vā eṣo'ndho bhavitoḥ | yaścakṣuṣājyamavekṣate | nimīlyāvekṣeta | dādhārātmancakṣuḥ | abhyājyaṃ ghārayati | ājyaṃ gṛhṇāti 2
chandā~ si vā ājyam | chandā~ syeva prīṇāti | caturjuhvāṃ gṛhṇāti | catuṣpādaḥ paśavaḥ | paśūnevāvarundhe | aṣṭāvupabhṛti | aṣṭākṣarā gāyatrī |gāyatraḥ prāṇaḥ | prāṇameva paśuṣu dadhāti | caturdhruvāyām 3
catuṣpādaḥ paśavaḥ | paśuṣvevopariṣṭātpratitiṣṭhati | yajamānadevatyā vai juhūḥ | bhrātṛvyadevatyopabhṛt | caturjuhvāṃ gṛhṇanbhūyo gṛhṇīyāt | aṣṭāvupabhṛti gṛhṇankanīyaḥ | yajamānāyaiva bhrātṛvyamupastiṃ karoti | gaurvai sruvaḥ | caturjuhvāṃ gṛhṇāti | tasmāccatuṣpadī 4
aṣṭāvupabhṛti | tasmādaṣṭāśaphā | caturdhruvāyām | tasmāccatustanā | gāmeva tatsa~ skaroti | sāsmai sa~ skṛteṣamūrjaṃ duhe | yajjuhvāṃ gṛhṇāti | prayājebhyastat | yadupabhṛti | prayājānūyājebhyastat | sarvasmai vā etadyajñāya gṛhyate | yaddhruvāyāmājyam 5
Sanskrit only: no published translation is held for this verse.
आपो देवीरग्रेपुवो अग्रेगुव इत्याह । रूपमेवासामेतन्महिमानं व्याचष्टे । अग्र इमं यज्ञं नयताग्रे यज्ञपतिमित्याह । अग्र एव यज्ञं नयन्ति । अग्रे यज्ञपतिम् । युष्मानिन्द्रो ऽवृणीत वृत्रतूर्ये यूयमिन्द्र मवृणीध्वं वृत्रतूर्य इत्याह । वृत्रँ ह हनिष्यन्निन्द्र आपो वव्रे । आपो हेन्द्रं वव्रिरे । संज्ञामेवासामेतत्सामानं व्याचष्टे । प्रोक्षिताः स्थेत्याह १
तेनापः प्रोक्षिताः । अग्निर्देवेभ्यो निलायत । कृष्णो रूपं कृत्वा । स वनस्पतीन्प्राविशत् । कृष्णोऽस्याखरेष्ठोऽग्नये त्वा स्वाहेत्याह । अग्नय एवैनं जुष्टं करोति । अथो अग्नेरेव मेधमवरुन्धे । वेदिरसि बर्हिषे त्वा स्वहेत्याह । प्रजा वै बर्हिः । पृथिवी वेदिः २
प्रजा एव पृथिव्यां प्रतिष्ठापयति । बर्हिरसि स्रुग्भ्यस्त्वा स्वाहेत्याह । प्रजा वै बर्हिः । यजमानः स्रुचः । यजमानमेव प्रजासु प्रतिष्ठापयति । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेति बर्हिरासाद्य प्रोक्षति । एभ्य एवैनंलोकेभ्यः प्रोक्षति । अथ ततः सह स्रुचा पुरस्तात्प्रत्यञ्चं ग्रन्थिं प्रत्युक्षति । प्रजा वै बर्हिः । यथा सूत्यै काल आपः पुरस्ताद्यन्ति ३
तादृगेव तत् । स्वधा पितृभ्य इत्याह । स्वधाकारो हि पितृणाम् । ऊर्ग्भव बर्हिषद्भ्य इति दक्षिणायै श्रोणेरोत्तरस्यै निनयति संतत्यै । मासा वै पितरो बर्हिषदः । मासानेव प्रीणाति । मासा वा ओषधीर्वर्धयन्ति । मासाः पचन्ति समृद्ध्यै । अनतिस्कन्दन्ह पर्जन्यो वर्षति । यत्रैतदेवं क्रियते ।४
ऊर्जा पृथिवीं गच्छतेत्याह । पृथिव्यामेवोर्जं दधाति । तस्मात्पृथिव्या ऊर्जा भुञ्जते । ग्रन्थिं विस्रँ सयति । प्रजनयत्येव तत् । ऊर्ध्वं प्राञ्चमुद्गूढं प्रत्यञ्चमायच्छति । तस्मात्प्राचीनँ रेतो धीयते । प्रतीचीः प्रजा जायन्ते । विष्णोः स्तूपोऽसीत्याह । यज्ञो वै विष्णुः ५
यज्ञस्य धृत्यै । पुरस्तात्प्रस्तरं गृह्णाति । मुख्यमेवैनं करोति । इयन्तं गृह्णाति । प्रजापतिना यज्ञमुखेन संमितम् । इयन्तं गृह्णाति । यज्ञपरुषा संमितम् । इयन्तं गृह्णाति । एतावद्वै पुरुषे वीर्यम् । वीर्यसंमितम् ६
अपरिमितं गृह्णाति । अपरिमितस्यावरुद्ध्यै । तस्मिन्पवित्रे अपिसृजति । यजमानो वै प्रस्तरः । प्राणापानौ पवित्रे । यजमान एव प्राणापानौ दधाति । ऊर्णाम्रदसं त्वा स्तृणामीत्याह । यथायजुरेवैतत् । स्वासस्थं देवेभ्य इत्याह । देवेभ्य एवैनत्स्वासस्थं करोति ७
बर्हिः स्तृणाति । प्रजा वै बर्हिः । पृथिवी वेदिः । प्रजा एव पृथिव्यां प्रतिष्ठापयति । अनतिदृश्नँ स्तृणाति । प्रजयैवैनं पशुभिरनतिदृश्नं करोति । धारयन्प्रस्तरं परिधीन्परिदधाति । यजमानो वै प्रस्तरः । यजमान एव तत्स्वयं परिधीन्परिदधाति । गन्धर्वोऽसि विश्वावसुरित्याह ८
विश्वमेवायुर्यजमाने दधाति । इन्द्र स्य बाहुरसि दक्षिण इत्याह । इन्द्रि यमेव यजमाने दधाति । मित्रावरुणौ त्वोत्तरतः परिधत्तामित्याह । प्राणापानौ मित्रावरुणौ । प्राणापानावेवास्मिन्दधाति । सूर्यस्त्वा पुरस्तात्पात्वित्याह । रक्षसामपहत्यै । कस्याश्चिदभिशस्त्या इत्याह । अपरिमितादेवैनं पाति ९
वीतिहोत्रं त्वा कव इत्याह । अग्निमेव होत्रेण समर्धयति । द्युमन्तँ समिधीमहीत्याह समिद्ध्यै । अग्ने बृहन्तमध्वर इत्याह वृद्ध्यै । विशो यन्त्रे स्थ इत्याह । विशां यत्यै । उदीचीनाग्रे निदधाति प्रतिष्ठित्यै । वसूनाँ रुद्रा णामादित्यानाँ सदसि सीदेत्याह । देवतानामेव सदने प्रस्तरँ सादयति । जुहूरसि घृताची नाम्नेत्याह १०
असौ वै जुहूः । अन्तरिक्षमुपभृत् । पृथिवी ध्रुवा । तासामेतदेव प्रियं नाम । यद्घृताचीति । यद्घृताचीत्याह । प्रियेणैवैना नाम्ना सादयति । एता असदन्त्सुकृतस्य लोक इत्याह । सत्यं वै सुकृतस्य लोकः । सत्य एवैनाः सुकृतस्य लोके सादयति । ता विष्णो पाहीत्याह । यज्ञो वै विष्णुः । यज्ञस्य धृत्यै । पाहि यज्ञं पाहि यज्ञपतिं पाहि मां यज्ञनियमित्याह । यज्ञाय यजमानायात्मने । तेभ्य एवाशिषमाशास्तेऽनार्त्यै ११
āpo devīragrepuvo agreguva ityāha | rūpamevāsāmetanmahimānaṃ vyācaṣṭe | agra imaṃ yajñaṃ nayatāgre yajñapatimityāha | agra eva yajñaṃ nayanti | agre yajñapatim | yuṣmānindro 'vṛṇīta vṛtratūrye yūyamindra mavṛṇīdhvaṃ vṛtratūrya ityāha | vṛtra~ ha haniṣyannindra āpo vavre | āpo hendraṃ vavrire | saṃjñāmevāsāmetatsāmānaṃ vyācaṣṭe | prokṣitāḥ sthetyāha 1
tenāpaḥ prokṣitāḥ | agnirdevebhyo nilāyata | kṛṣṇo rūpaṃ kṛtvā | sa vanaspatīnprāviśat | kṛṣṇo'syākhareṣṭho'gnaye tvā svāhetyāha | agnaya evainaṃ juṣṭaṃ karoti | atho agnereva medhamavarundhe | vedirasi barhiṣe tvā svahetyāha | prajā vai barhiḥ | pṛthivī vediḥ 2
prajā eva pṛthivyāṃ pratiṣṭhāpayati | barhirasi srugbhyastvā svāhetyāha | prajā vai barhiḥ | yajamānaḥ srucaḥ | yajamānameva prajāsu pratiṣṭhāpayati | dive tvāntarikṣāya tvā pṛthivyai tveti barhirāsādya prokṣati | ebhya evainaṃlokebhyaḥ prokṣati | atha tataḥ saha srucā purastātpratyañcaṃ granthiṃ pratyukṣati | prajā vai barhiḥ | yathā sūtyai kāla āpaḥ purastādyanti 3
tādṛgeva tat | svadhā pitṛbhya ityāha | svadhākāro hi pitṛṇām | ūrgbhava barhiṣadbhya iti dakṣiṇāyai śroṇerottarasyai ninayati saṃtatyai | māsā vai pitaro barhiṣadaḥ | māsāneva prīṇāti | māsā vā oṣadhīrvardhayanti | māsāḥ pacanti samṛddhyai | anatiskandanha parjanyo varṣati | yatraitadevaṃ kriyate |4
ūrjā pṛthivīṃ gacchatetyāha | pṛthivyāmevorjaṃ dadhāti | tasmātpṛthivyā ūrjā bhuñjate | granthiṃ visra~ sayati | prajanayatyeva tat | ūrdhvaṃ prāñcamudgūḍhaṃ pratyañcamāyacchati | tasmātprācīna~ reto dhīyate | pratīcīḥ prajā jāyante | viṣṇoḥ stūpo'sītyāha | yajño vai viṣṇuḥ 5
yajñasya dhṛtyai | purastātprastaraṃ gṛhṇāti | mukhyamevainaṃ karoti | iyantaṃ gṛhṇāti | prajāpatinā yajñamukhena saṃmitam | iyantaṃ gṛhṇāti | yajñaparuṣā saṃmitam | iyantaṃ gṛhṇāti | etāvadvai puruṣe vīryam | vīryasaṃmitam 6
aparimitaṃ gṛhṇāti | aparimitasyāvaruddhyai | tasminpavitre apisṛjati | yajamāno vai prastaraḥ | prāṇāpānau pavitre | yajamāna eva prāṇāpānau dadhāti | ūrṇāmradasaṃ tvā stṛṇāmītyāha | yathāyajurevaitat | svāsasthaṃ devebhya ityāha | devebhya evainatsvāsasthaṃ karoti 7
barhiḥ stṛṇāti | prajā vai barhiḥ | pṛthivī vediḥ | prajā eva pṛthivyāṃ pratiṣṭhāpayati | anatidṛśna~ stṛṇāti | prajayaivainaṃ paśubhiranatidṛśnaṃ karoti | dhārayanprastaraṃ paridhīnparidadhāti | yajamāno vai prastaraḥ | yajamāna eva tatsvayaṃ paridhīnparidadhāti | gandharvo'si viśvāvasurityāha 8
viśvamevāyuryajamāne dadhāti | indra sya bāhurasi dakṣiṇa ityāha | indri yameva yajamāne dadhāti | mitrāvaruṇau tvottarataḥ paridhattāmityāha | prāṇāpānau mitrāvaruṇau | prāṇāpānāvevāsmindadhāti | sūryastvā purastātpātvityāha | rakṣasāmapahatyai | kasyāścidabhiśastyā ityāha | aparimitādevainaṃ pāti 9
vītihotraṃ tvā kava ityāha | agnimeva hotreṇa samardhayati | dyumanta~ samidhīmahītyāha samiddhyai | agne bṛhantamadhvara ityāha vṛddhyai | viśo yantre stha ityāha | viśāṃ yatyai | udīcīnāgre nidadhāti pratiṣṭhityai | vasūnā~ rudrā ṇāmādityānā~ sadasi sīdetyāha | devatānāmeva sadane prastara~ sādayati | juhūrasi ghṛtācī nāmnetyāha 10
asau vai juhūḥ | antarikṣamupabhṛt | pṛthivī dhruvā | tāsāmetadeva priyaṃ nāma | yadghṛtācīti | yadghṛtācītyāha | priyeṇaivainā nāmnā sādayati | etā asadantsukṛtasya loka ityāha | satyaṃ vai sukṛtasya lokaḥ | satya evaināḥ sukṛtasya loke sādayati | tā viṣṇo pāhītyāha | yajño vai viṣṇuḥ | yajñasya dhṛtyai | pāhi yajñaṃ pāhi yajñapatiṃ pāhi māṃ yajñaniyamityāha | yajñāya yajamānāyātmane | tebhya evāśiṣamāśāste'nārtyai 11
Sanskrit only: no published translation is held for this verse.
अग्निना वै होत्रा । देवा असुरानभ्यभवन् । अग्नये समिध्यमानायानुब्रूहीत्याह भ्रातृव्याभिभूत्यै । एकविँशतिमिध्मदारूणि भवन्ति । एकविँशो वै पुरुषः । पुरुषस्याप्त्यै । पञ्चदशेध्मदारूण्यभ्यादधाति । पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते । त्रीन्परिधीन्परिदधाति १
ऊर्ध्वे समिधावादधाति । अनूयाजेभ्यः समिधमतिशिनष्टि । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । वेदेनोपवाजयति । प्राजापत्यो वै वेदः । प्राजापत्यः प्राणः । यजमान आहवनीयः । यजमान एव प्राणं दधाति २
त्रिरुपवाजयति । त्रयो वै प्राणाः । प्राणानेवास्मिन्दधाति । वेदेनोपयत्य स्रुवेण प्राजापत्यमाघारमाघारयति । यज्ञो वै प्रजापतिः । यज्ञमेव प्रजाप्तिं मुखत आरभते । अथो प्रजापतिः सर्वा देवताः । सर्वा एव देवताः प्रीणाति । अग्निमग्नीत्त्रिस्त्रिः संमृड्ढीत्याह । त्र्! यावृद्धि यज्ञः ३
अथो रक्षसामपहत्यै । परिधीन्त्संमार्ष्टि । पुनात्येवैनान् । त्रिस्त्रिः संमार्ष्टि । त्र्यावृद्धि यज्ञः । अथो मेध्यत्वाय । अथो एते वै देवाश्वाः । देवाश्वानेव तत्संमार्ष्टि । सुवर्गस्य लोकस्य समष्ट्यै । आसीनोऽन्यमाघारमाघारयति ४
तिष्ठन्नन्यम् । यथानो वा रथं वा युञ्ज्यात् । एवमेव तदध्वर्युर्यज्ञं युनक्ति । सुवर्गस्य लोकस्याभ्यूढ्यै । वहन्त्येनं ग्राम्याः पशवः । य एवं वेद । भुवनमसि विप्रथस्वेत्याह । यज्ञो वै भुवनम् । यज्ञ एव यजमानं प्रजया पशुभिः प्रथयति । अग्ने यष्टरिदं नम इत्याह ५
अग्निर्वै देवानां यष्टा । य एव देवानां यष्टा । तस्मा एव नमस्करोति । जुह्वेह्यग्निस्त्वा ह्वयति देवयज्याया उपभृदेहि देवस्त्वा सविता ह्वयति देवयज्याया इत्याह । आग्नेयी वै जुहूः । सावित्र्युपभृत् । ताभ्यामेवैने प्रसूत आदत्ते । अग्नाविष्णू मावामवक्रमिषमित्याह । अग्निः पुरस्तात् । विष्णुर्यज्ञः पश्चात् ६
ताभ्यामेव प्रतिप्रोच्यात्याक्रामति । विजिहाथां मा मा संताप्तमित्याहाहिँसायै । लोकं मे लोककृतौ कृणुतमित्याह । आशिषमेवैतामाशास्ते । विष्णोः स्थानमसीत्याह । यज्ञो वै विष्णुः । एतत्खलु वै देवानामपराजितमायतनम् । यद्यज्ञः । देवानामेवापराजित आयतने तिष्ठति । इत इन्द्रो अकृणोद्वीर्याणीत्याह ७
इन्द्रियमेव यजमाने दधाति । समारभ्योर्ध्वो अध्वरो दिविस्पृशमित्याह वृद्ध्यै । आघारमाघार्यमाणमनु समारभ्य । एतस्मिन्काले देवाः सुवर्गं लोकमायन् । साक्षादेव यजमानः सुवर्गं लोकमेति । अथो समृद्धेनैव यज्ञेन यजमानः सुवर्गं लोकमेति । अह्रुतो यज्ञो यज्ञपतेरित्याहानार्त्यै । इन्द्रा वान्त्स्वाहेत्याह । इन्द्रियमेव यजमाने दधाति । बृहद्भा इत्याह ८
सुवर्गो वै लोको बृहद्भाः । सुवर्गस्य लोकस्य समष्ट्यै यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । प्राण आघारः । यत्सँस्पर्शयेत् । भ्रातृव्येऽस्य प्राणं दध्यात् । असँस्पर्शयन्नत्याक्रामति । यजमान एव प्राणं दधाति । पाहि माग्ने दुश्चरितादा मा सुचरिते भजेत्याह ९
अग्निर्वाव पवित्रम् । वृजिनमनृतं दुश्चरितम् । ऋजुकर्मँ सत्यँ सुचरितम् । अग्निरेवैनं वृजिनादनृताद्दुश्चरितात्पाति । ऋजुकर्मे सत्ये सुचरिते भजति तस्मादेवमाशास्ते । आत्मनो गोपीथाय । शिरो वा एतद्यज्ञस्य । यदाघारः । आत्मा ध्रुवा १०
आघारमाघार्य ध्रुवाँ समनक्ति । आत्मन्नेव यज्ञस्य शिरः प्रतिदधाति । द्विः समनक्ति । द्वौ हि प्राणापानौ । तदाहुः । त्रिरेव समञ्ज्यात् । त्रिधातु हि शिर इति । शिर इवैतद्यज्ञस्य । अथो त्रयो वै प्राणाः । प्राणानेवा-स्मिन्दधाति । मखस्य शिरोऽसि सं ज्योतिषा ज्योतिरङ्क्तामित्याह । ज्योतिरेवास्मा उपरिष्टाद्दधाति । सुवर्गस्य लोकस्यानुख्यात्यै ११
agninā vai hotrā | devā asurānabhyabhavan | agnaye samidhyamānāyānubrūhītyāha bhrātṛvyābhibhūtyai | ekavi~śatimidhmadārūṇi bhavanti | ekavi~śo vai puruṣaḥ | puruṣasyāptyai | pañcadaśedhmadārūṇyabhyādadhāti | pañcadaśa vā ardhamāsasya rātrayaḥ | ardhamāsaśaḥ saṃvatsara āpyate | trīnparidhīnparidadhāti 1
ūrdhve samidhāvādadhāti | anūyājebhyaḥ samidhamatiśinaṣṭi | ṣaṭsaṃpadyante | ṣaḍvā ṛtavaḥ | ṛtūneva prīṇāti | vedenopavājayati | prājāpatyo vai vedaḥ | prājāpatyaḥ prāṇaḥ | yajamāna āhavanīyaḥ | yajamāna eva prāṇaṃ dadhāti 2
trirupavājayati | trayo vai prāṇāḥ | prāṇānevāsmindadhāti | vedenopayatya sruveṇa prājāpatyamāghāramāghārayati | yajño vai prajāpatiḥ | yajñameva prajāptiṃ mukhata ārabhate | atho prajāpatiḥ sarvā devatāḥ | sarvā eva devatāḥ prīṇāti | agnimagnīttristriḥ saṃmṛḍḍhītyāha | tr! yāvṛddhi yajñaḥ 3
atho rakṣasāmapahatyai | paridhīntsaṃmārṣṭi | punātyevainān | tristriḥ saṃmārṣṭi | tryāvṛddhi yajñaḥ | atho medhyatvāya | atho ete vai devāśvāḥ | devāśvāneva tatsaṃmārṣṭi | suvargasya lokasya samaṣṭyai | āsīno'nyamāghāramāghārayati 4
tiṣṭhannanyam | yathāno vā rathaṃ vā yuñjyāt | evameva tadadhvaryuryajñaṃ yunakti | suvargasya lokasyābhyūḍhyai | vahantyenaṃ grāmyāḥ paśavaḥ | ya evaṃ veda | bhuvanamasi viprathasvetyāha | yajño vai bhuvanam | yajña eva yajamānaṃ prajayā paśubhiḥ prathayati | agne yaṣṭaridaṃ nama ityāha 5
agnirvai devānāṃ yaṣṭā | ya eva devānāṃ yaṣṭā | tasmā eva namaskaroti | juhvehyagnistvā hvayati devayajyāyā upabhṛdehi devastvā savitā hvayati devayajyāyā ityāha | āgneyī vai juhūḥ | sāvitryupabhṛt | tābhyāmevaine prasūta ādatte | agnāviṣṇū māvāmavakramiṣamityāha | agniḥ purastāt | viṣṇuryajñaḥ paścāt 6
tābhyāmeva pratiprocyātyākrāmati | vijihāthāṃ mā mā saṃtāptamityāhāhi~sāyai | lokaṃ me lokakṛtau kṛṇutamityāha | āśiṣamevaitāmāśāste | viṣṇoḥ sthānamasītyāha | yajño vai viṣṇuḥ | etatkhalu vai devānāmaparājitamāyatanam | yadyajñaḥ | devānāmevāparājita āyatane tiṣṭhati | ita indro akṛṇodvīryāṇītyāha 7
indriyameva yajamāne dadhāti | samārabhyordhvo adhvaro divispṛśamityāha vṛddhyai | āghāramāghāryamāṇamanu samārabhya | etasminkāle devāḥ suvargaṃ lokamāyan | sākṣādeva yajamānaḥ suvargaṃ lokameti | atho samṛddhenaiva yajñena yajamānaḥ suvargaṃ lokameti | ahruto yajño yajñapaterityāhānārtyai | indrā vāntsvāhetyāha | indriyameva yajamāne dadhāti | bṛhadbhā ityāha 8
suvargo vai loko bṛhadbhāḥ | suvargasya lokasya samaṣṭyai yajamānadevatyā vai juhūḥ | bhrātṛvyadevatyopabhṛt | prāṇa āghāraḥ | yatsa~sparśayet | bhrātṛvye'sya prāṇaṃ dadhyāt | asa~sparśayannatyākrāmati | yajamāna eva prāṇaṃ dadhāti | pāhi māgne duścaritādā mā sucarite bhajetyāha 9
agnirvāva pavitram | vṛjinamanṛtaṃ duścaritam | ṛjukarma~ satya~ sucaritam | agnirevainaṃ vṛjinādanṛtādduścaritātpāti | ṛjukarme satye sucarite bhajati tasmādevamāśāste | ātmano gopīthāya | śiro vā etadyajñasya | yadāghāraḥ | ātmā dhruvā 10
āghāramāghārya dhruvā~ samanakti | ātmanneva yajñasya śiraḥ pratidadhāti | dviḥ samanakti | dvau hi prāṇāpānau | tadāhuḥ | trireva samañjyāt | tridhātu hi śira iti | śira ivaitadyajñasya | atho trayo vai prāṇāḥ | prāṇānevā-smindadhāti | makhasya śiro'si saṃ jyotiṣā jyotiraṅktāmityāha | jyotirevāsmā upariṣṭāddadhāti | suvargasya lokasyānukhyātyai 11
Sanskrit only: no published translation is held for this verse.
धिष्णिया वा एते न्युप्यन्ते । यद्ब्रह्मा । यद्धोता । यदध्वर्युः । यदग्नीत् । यद्यजमानः । तान्यदन्तरेयात् । यजमानस्य प्राणान्त्संकर्षेत् । प्रमायुकः स्यात् । पुरोडाशमपगृह्य संचरत्यध्वर्युः १
यजमानायैव तल्लोकँ शिँषति । नास्य प्राणान्त्संकर्षति । न प्रमायुको भवति । पुरस्तात्प्रत्यङ्ङासीनः । इडाया इडामादधाति । हस्त्याँ होत्रे । पशवो वा इडा । पशवः पुरुषः । पशुष्वेव पशून्प्रतिष्ठापयति । इडायै वा एषा प्रजातिः २
तां प्रजातिं यजमानोऽनु प्रजायते । द्विरङ्गुलावनक्ति पर्वणोः । द्विपाद्यजमानः प्रतिष्ठित्यै । सकृदुपस्तृणाति । द्विरादधाति । सकृदभिघारयति । चतुः संपद्यते । चत्वारि वै पशोः प्रतिष्ठानानि । यावानेव पशुः । तमुपह्वयते ३
मुखमिव प्रत्युपह्वयेत । संमुखानेव पशूनुपह्वयते । पशवो वा इडा । तस्मात्सान्वारभ्या । अध्वर्युणा च यजमानेन च । उपहूतः पशुमानसानीत्याह । उप ह्येनौ ह्वयते होता । इडायै देवतानामुपहवे । उपहूतः पशुमान्भवति । य एवं वेद ४
यां वै हस्त्यामिडामादधाति । वाचः सा भागधेयम् । यामुपह्वयते । प्राणानाँ सा । वाचं चैव प्राणाँ श्चावरुन्धे । अथ वा एतर्ह्युपहूतायामिडायाम् । पुरोडाशस्यैव बर्हिषदो मीमाँसा । यजमानं देवा अब्रुवन् । हविर्नो निर्वपेति । नाहमभागो निर्वप्स्यामीत्यब्रवीत् ५
न मयाभागयानुवक्ष्यथेति वागब्रवीत् । नाहमभागा पुरोऽनुवाक्या भविष्यामीति पुरोऽनुवाक्या । नाहमभागा याज्या भविष्यामीति याज्या । न मयाभागेन वषट्करिष्यथेति वषट्कारः । यद्यजमानभागं निधाय पुरोडाशं बर्हिषदं करोति । तानेव तद्भागिनः करोति । चतुर्धा करोति । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति । बर्हिषदं करोति ६
यजमानो वै पुरोडाशः । प्रजा बर्हिः । यजमानमेव प्रजासु प्रतिष्ठापयति । तस्मादस्थ्नान्याः प्रजाः प्रतितिष्ठन्ति । माँ सेनान्याः । अथो खल्वाहुः । दक्षिणा वा एता हविर्यज्ञस्यान्तर्वेद्यवरुध्यन्ते । यत्पुरोडाशं बर्हिषदं करोतीति । चतुर्धा करोति । चत्वारो ह्येते हविर्यज्ञस्यर्त्विजः ७
ब्रह्मा होताध्वर्युरग्नीत् । तमभिमृशेत् । इदं ब्रह्मणः । इदँ होतुः । इदमध्वर्योः । इदमग्नीध इति । यथैवादः सौम्येऽध्वरे । आदेशमृत्विग्भ्यो दक्षिणा नीयन्ते । तादृगेव तत् । अग्नीधे प्रथमायादधाति ८
अग्निमुखा ह्यृद्धिः । अग्निमुखामेवर्द्धिं यजमान ऋध्नोति । सकृदुपस्तीर्य द्विरादधत् । उपस्तीर्य द्विरभिघारयति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतूनेव प्रीणाति । वेदेन ब्रह्मणे ब्रह्मभागं परिहरति । प्राजापत्यो वै वेदः । प्राजापत्यो ब्रह्मा ९
सविता यज्ञस्य प्रसृूत्यै । अथ काममन्येन । ततो होत्रे । मध्यं वा एतद्यज्ञस्य । यद्धोता । मध्यत एव यज्ञं प्रीणाति । अथाध्वर्यवे । प्रतिष्ठा वा एषा यज्ञस्य । यदध्वर्युः । तस्माद्धविर्यज्ञस्यैतामेवावृतमनु १०
अन्या दक्षिणा नीयन्ते । यज्ञस्य प्रतिष्ठित्यै । अग्निमग्नीत्सकृत्सकृत्संमृड्ढीत्याह । पराङिव ह्येतर्हि यज्ञः । इषिता दैव्या होतार इत्याह । इषितँ हि कर्म क्रियते । भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहीत्याह । आशिषमेवैतामाशास्ते । स्वगा दैव्या होतृभ्य इत्याह । यज्ञमेव तत्स्वगा करोति । स्वस्तिर्मानुषेभ्य इत्याह । आशिषमेवैतामाशास्ते । शंयोर्ब्रूहीत्याह । शंयुमेव बार्हस्पत्यं भागधेयेन समर्धयति ११
dhiṣṇiyā vā ete nyupyante | yadbrahmā | yaddhotā | yadadhvaryuḥ | yadagnīt | yadyajamānaḥ | tānyadantareyāt | yajamānasya prāṇāntsaṃkarṣet | pramāyukaḥ syāt | puroḍāśamapagṛhya saṃcaratyadhvaryuḥ 1
yajamānāyaiva talloka~ śi~ṣati | nāsya prāṇāntsaṃkarṣati | na pramāyuko bhavati | purastātpratyaṅṅāsīnaḥ | iḍāyā iḍāmādadhāti | hastyā~ hotre | paśavo vā iḍā | paśavaḥ puruṣaḥ | paśuṣveva paśūnpratiṣṭhāpayati | iḍāyai vā eṣā prajātiḥ 2
tāṃ prajātiṃ yajamāno'nu prajāyate | dviraṅgulāvanakti parvaṇoḥ | dvipādyajamānaḥ pratiṣṭhityai | sakṛdupastṛṇāti | dvirādadhāti | sakṛdabhighārayati | catuḥ saṃpadyate | catvāri vai paśoḥ pratiṣṭhānāni | yāvāneva paśuḥ | tamupahvayate 3
mukhamiva pratyupahvayeta | saṃmukhāneva paśūnupahvayate | paśavo vā iḍā | tasmātsānvārabhyā | adhvaryuṇā ca yajamānena ca | upahūtaḥ paśumānasānītyāha | upa hyenau hvayate hotā | iḍāyai devatānāmupahave | upahūtaḥ paśumānbhavati | ya evaṃ veda 4
yāṃ vai hastyāmiḍāmādadhāti | vācaḥ sā bhāgadheyam | yāmupahvayate | prāṇānā~ sā | vācaṃ caiva prāṇā~ ścāvarundhe | atha vā etarhyupahūtāyāmiḍāyām | puroḍāśasyaiva barhiṣado mīmā~sā | yajamānaṃ devā abruvan | havirno nirvapeti | nāhamabhāgo nirvapsyāmītyabravīt 5
na mayābhāgayānuvakṣyatheti vāgabravīt | nāhamabhāgā puro'nuvākyā bhaviṣyāmīti puro'nuvākyā | nāhamabhāgā yājyā bhaviṣyāmīti yājyā | na mayābhāgena vaṣaṭkariṣyatheti vaṣaṭkāraḥ | yadyajamānabhāgaṃ nidhāya puroḍāśaṃ barhiṣadaṃ karoti | tāneva tadbhāginaḥ karoti | caturdhā karoti | catasro diśaḥ | dikṣveva pratitiṣṭhati | barhiṣadaṃ karoti 6
yajamāno vai puroḍāśaḥ | prajā barhiḥ | yajamānameva prajāsu pratiṣṭhāpayati | tasmādasthnānyāḥ prajāḥ pratitiṣṭhanti | mā~ senānyāḥ | atho khalvāhuḥ | dakṣiṇā vā etā haviryajñasyāntarvedyavarudhyante | yatpuroḍāśaṃ barhiṣadaṃ karotīti | caturdhā karoti | catvāro hyete haviryajñasyartvijaḥ 7
brahmā hotādhvaryuragnīt | tamabhimṛśet | idaṃ brahmaṇaḥ | ida~ hotuḥ | idamadhvaryoḥ | idamagnīdha iti | yathaivādaḥ saumye'dhvare | ādeśamṛtvigbhyo dakṣiṇā nīyante | tādṛgeva tat | agnīdhe prathamāyādadhāti 8
agnimukhā hyṛddhiḥ | agnimukhāmevarddhiṃ yajamāna ṛdhnoti | sakṛdupastīrya dvirādadhat | upastīrya dvirabhighārayati | ṣaṭsaṃpadyante | ṣaḍvā ṛtavaḥ | ṛtūneva prīṇāti | vedena brahmaṇe brahmabhāgaṃ pariharati | prājāpatyo vai vedaḥ | prājāpatyo brahmā 9
savitā yajñasya prasṛūtyai | atha kāmamanyena | tato hotre | madhyaṃ vā etadyajñasya | yaddhotā | madhyata eva yajñaṃ prīṇāti | athādhvaryave | pratiṣṭhā vā eṣā yajñasya | yadadhvaryuḥ | tasmāddhaviryajñasyaitāmevāvṛtamanu 10
anyā dakṣiṇā nīyante | yajñasya pratiṣṭhityai | agnimagnītsakṛtsakṛtsaṃmṛḍḍhītyāha | parāṅiva hyetarhi yajñaḥ | iṣitā daivyā hotāra ityāha | iṣita~ hi karma kriyate | bhadra vācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhītyāha | āśiṣamevaitāmāśāste | svagā daivyā hotṛbhya ityāha | yajñameva tatsvagā karoti | svastirmānuṣebhya ityāha | āśiṣamevaitāmāśāste | śaṃyorbrūhītyāha | śaṃyumeva bārhaspatyaṃ bhāgadheyena samardhayati 11
Sanskrit only: no published translation is held for this verse.
अथ स्रुचावनुष्टुग्भ्यां वाजवतीभ्यां व्यूहति । प्रतिष्ठा वा अनुष्टुक् । अन्नं वाजः प्रतिष्ठित्यै । अन्नाद्यस्यावरुध्यै । प्राचीं जुहूमूहति । जातानेव भ्रातृव्यान्प्रणुदते । प्रतीचीमुपभृतम् । जनिष्यमाणानेव प्रतिनुदते । स विषूच एवापोह्य सपत्नान्यजमानः । अस्मिन्लोके प्रतितिष्ठति १
द्वाभ्याम् । द्विप्रतिष्ठो हि । वसुभ्यस्त्वा रुद्रे भ्यस्त्वादित्येभ्यस्त्वेत्याह । यथायजुरेवैतत् । स्रुक्षु प्रस्तरमनक्ति । इमे वै लोकाः स्रुचः । यजमानः प्रस्तरः । यजमानमेव तेजसानक्ति । त्रेधानक्ति । त्रय इमे लोकाः २
एभ्य एवैनं लोकेभ्योऽनक्ति । अभिपूर्वमनक्ति । अभिपूर्वमेव यजमानं तेजसानक्ति । अक्तँ रिहाणा इत्याह । तेजो वा आज्यम् । यजमानः प्रस्तरः । यजमानमेव तेजसानक्ति । वियन्तु वय इत्याह । वय एवैनं कृत्वा । सुवर्गं लोकं गमयति ३
प्रजां योनिं मा निर्मृक्षमित्याह । प्रजायै गोपीथाय । आप्यायन्तामाप ओषधय इत्याह । आप एवौषधीराप्याययति । मरुतां पृषतयः स्थेत्याह । मरुतो वै वृष्ट्या ईशते । वृष्टिमेवावरुन्धे । दिवं गच्छ ततो नो वृष्टिमेरयेत्याह । वृष्टिर्वै द्यौः । वृष्टिमेवावरुन्धे ४
यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्यायुर्मीयते । आयुष्पा अग्नेऽस्यायुर्मे पाहीत्याह । आयुरेवात्मन्धत्ते । यावद्वा अध्वर्युः प्रस्तरं प्रहरति । तावदस्य चक्षुर्मीयते । चक्षुष्पा अग्नेऽसि चक्षुर्मे पाहीत्याह । चक्षुरेवात्मन्धत्ते । ध्रुवासीत्याह प्रतिष्ठित्यै । यं परिधिं पर्यधत्था इत्याह ५
यथायजुरेवैतत् । अग्ने देव पणिभिर्वीर्यमाण इत्याह । अग्नय एवैनं जुष्टं करोति । तं त एतमनु जोषं भरामीत्याह । सजातानेवास्मा अनुकान्करोति । नेदेष त्वदपचेतयाता इत्याहानुख्यात्यै । यज्ञस्य पाथ उप समितमित्याह । भूमानमेवोपैति । परिधीन्प्रहरति । यज्ञस्य समिष्ट्यै ६
स्रुचौ संप्रस्रावयति । यदेव तत्र क्रूरम् । तत्तेन शमयति । जुह्वामुपभृतम् । यजमानदेवत्या वै जुहूः । भ्रातृव्यदेवत्योपभृत् । यजमानायैव भ्रातृव्यमुपस्तिं करोति । सँ स्रावभागाः स्थेत्याह । वसवो वै रुद्रा आदित्याः सँ स्रावभागाः । तेषां तद्भागधेयम् ७
तानेव तेन प्रीणाति । वैश्वदेव्यर्चा । एते हि विश्वे देवाः । त्रिष्टुग्भवति । इन्द्रियं वै त्रिष्टुक् । इन्द्रि यमेव यजमाने दधाति । अग्नेर्वामपन्नगृहस्य सदसि सादयामीत्याह । इयं वा अग्निरपन्नगृहः । अस्या एवैने सदने सादयति । सुम्नाय सुम्निनी सुम्ने मा धत्तमित्याह ८
प्रजा वै पशवः सुम्नम् । प्रजामेव पशूनात्मन्धत्ते । धुरि धुर्यौ पातमित्याह । जायापत्योर्गोपीथाय । अग्नेऽदब्धायोऽशीततनो इत्याह । यथायजुरेवैतत् । पाहि माद्य दिवः पाहि प्रसित्यै पाहि दुरिष्ट्यै पाहि दुरद्मन्यै पाहि दुश्चरितादित्याह । आशिषमेवैतामाशास्ते । अविषं नः पितुं कृणु सुषदा योनिँ स्वाहेतीध्मसंवृश्चनान्यन्वाहार्यपचनेऽभ्याधाय फलीकरणहोमं जुहोति । अतिरिक्तानि वा इध्मसंवृश्चनानि ९
अतिरिक्ताः फलीकरणाः । अतिरिक्तमाज्योच्छेषणम् । अतिर्कित एवातिरिक्तं दधाति । अथो अतिरिक्तेनैवातिरिक्तमाप्त्वावरुन्धे । वेदिर्देवेभ्यो निलायत । तां वेदेनान्वविन्दन् । वेदेन वेदिं विविदुः पृथिवीम् । सा पप्रथे पृथिवी पार्थिवानि । गर्भं बिभर्ति भुवनेष्वन्तः । ततो यज्ञो जायते विश्वदानिरिति पुरस्तात्स्तम्बयजुषो वेदेन वेदिँ संमार्ष्ट्यनुवित्त्यै १०
अथो यद्वेदश्च वेदिश्च भवतः । मिथुनत्वाय प्रजात्यै । प्रजापतेर्वा एतानि श्मश्रूणि । यद्वेदः । पत्निया उपस्थ आस्यति । मिथुनमेव करोति । विन्दते प्रजाम् । वेदँ होताहवनीयात्स्तृणन्नेति । यज्ञमेव तत्संतनोत्योत्तर-स्मादर्धमासात् । तँ संततमुत्तरेऽर्धमास आलभते ११
तं कालेकाल आगते यजते । ब्रह्मवादिनो वदन्ति । स त्वा अध्वर्युः स्यात् । यो यतो यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयतीति । वाताद्वा अध्वर्युर्यज्ञं प्रयुङ्क्ते । देवा गातुविदो गातुं वित्त्वा गातुमितेत्याह । यत एव यज्ञं प्रयुङ्क्ते । तदेनं प्रतिष्ठापयति । प्रतितिष्ठति प्रजया पशुभिर्यजमानः १२
atha srucāvanuṣṭugbhyāṃ vājavatībhyāṃ vyūhati | pratiṣṭhā vā anuṣṭuk | annaṃ vājaḥ pratiṣṭhityai | annādyasyāvarudhyai | prācīṃ juhūmūhati | jātāneva bhrātṛvyānpraṇudate | pratīcīmupabhṛtam | janiṣyamāṇāneva pratinudate | sa viṣūca evāpohya sapatnānyajamānaḥ | asminloke pratitiṣṭhati 1
dvābhyām | dvipratiṣṭho hi | vasubhyastvā rudre bhyastvādityebhyastvetyāha | yathāyajurevaitat | srukṣu prastaramanakti | ime vai lokāḥ srucaḥ | yajamānaḥ prastaraḥ | yajamānameva tejasānakti | tredhānakti | traya ime lokāḥ 2
ebhya evainaṃ lokebhyo'nakti | abhipūrvamanakti | abhipūrvameva yajamānaṃ tejasānakti | akta~ rihāṇā ityāha | tejo vā ājyam | yajamānaḥ prastaraḥ | yajamānameva tejasānakti | viyantu vaya ityāha | vaya evainaṃ kṛtvā | suvargaṃ lokaṃ gamayati 3
prajāṃ yoniṃ mā nirmṛkṣamityāha | prajāyai gopīthāya | āpyāyantāmāpa oṣadhaya ityāha | āpa evauṣadhīrāpyāyayati | marutāṃ pṛṣatayaḥ sthetyāha | maruto vai vṛṣṭyā īśate | vṛṣṭimevāvarundhe | divaṃ gaccha tato no vṛṣṭimerayetyāha | vṛṣṭirvai dyauḥ | vṛṣṭimevāvarundhe 4
yāvadvā adhvaryuḥ prastaraṃ praharati | tāvadasyāyurmīyate | āyuṣpā agne'syāyurme pāhītyāha | āyurevātmandhatte | yāvadvā adhvaryuḥ prastaraṃ praharati | tāvadasya cakṣurmīyate | cakṣuṣpā agne'si cakṣurme pāhītyāha | cakṣurevātmandhatte | dhruvāsītyāha pratiṣṭhityai | yaṃ paridhiṃ paryadhatthā ityāha 5
yathāyajurevaitat | agne deva paṇibhirvīryamāṇa ityāha | agnaya evainaṃ juṣṭaṃ karoti | taṃ ta etamanu joṣaṃ bharāmītyāha | sajātānevāsmā anukānkaroti | nedeṣa tvadapacetayātā ityāhānukhyātyai | yajñasya pātha upa samitamityāha | bhūmānamevopaiti | paridhīnpraharati | yajñasya samiṣṭyai 6
srucau saṃprasrāvayati | yadeva tatra krūram | tattena śamayati | juhvāmupabhṛtam | yajamānadevatyā vai juhūḥ | bhrātṛvyadevatyopabhṛt | yajamānāyaiva bhrātṛvyamupastiṃ karoti | sa~ srāvabhāgāḥ sthetyāha | vasavo vai rudrā ādityāḥ sa~ srāvabhāgāḥ | teṣāṃ tadbhāgadheyam 7
tāneva tena prīṇāti | vaiśvadevyarcā | ete hi viśve devāḥ | triṣṭugbhavati | indriyaṃ vai triṣṭuk | indri yameva yajamāne dadhāti | agnervāmapannagṛhasya sadasi sādayāmītyāha | iyaṃ vā agnirapannagṛhaḥ | asyā evaine sadane sādayati | sumnāya sumninī sumne mā dhattamityāha 8
prajā vai paśavaḥ sumnam | prajāmeva paśūnātmandhatte | dhuri dhuryau pātamityāha | jāyāpatyorgopīthāya | agne'dabdhāyo'śītatano ityāha | yathāyajurevaitat | pāhi mādya divaḥ pāhi prasityai pāhi duriṣṭyai pāhi duradmanyai pāhi duścaritādityāha | āśiṣamevaitāmāśāste | aviṣaṃ naḥ pituṃ kṛṇu suṣadā yoni~ svāhetīdhmasaṃvṛścanānyanvāhāryapacane'bhyādhāya phalīkaraṇahomaṃ juhoti | atiriktāni vā idhmasaṃvṛścanāni 9
atiriktāḥ phalīkaraṇāḥ | atiriktamājyoccheṣaṇam | atirkita evātiriktaṃ dadhāti | atho atiriktenaivātiriktamāptvāvarundhe | vedirdevebhyo nilāyata | tāṃ vedenānvavindan | vedena vediṃ vividuḥ pṛthivīm | sā paprathe pṛthivī pārthivāni | garbhaṃ bibharti bhuvaneṣvantaḥ | tato yajño jāyate viśvadāniriti purastātstambayajuṣo vedena vedi~ saṃmārṣṭyanuvittyai 10
atho yadvedaśca vediśca bhavataḥ | mithunatvāya prajātyai | prajāpatervā etāni śmaśrūṇi | yadvedaḥ | patniyā upastha āsyati | mithunameva karoti | vindate prajām | veda~ hotāhavanīyātstṛṇanneti | yajñameva tatsaṃtanotyottara-smādardhamāsāt | ta~ saṃtatamuttare'rdhamāsa ālabhate 11
taṃ kālekāla āgate yajate | brahmavādino vadanti | sa tvā adhvaryuḥ syāt | yo yato yajñaṃ prayuṅkte | tadenaṃ pratiṣṭhāpayatīti | vātādvā adhvaryuryajñaṃ prayuṅkte | devā gātuvido gātuṃ vittvā gātumitetyāha | yata eva yajñaṃ prayuṅkte | tadenaṃ pratiṣṭhāpayati | pratitiṣṭhati prajayā paśubhiryajamānaḥ 12
Sanskrit only: no published translation is held for this verse.
यो वा अयथादेवतं यज्ञमुपचरति । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । यो यथादेवतम् । न देवताभ्य आवृश्च्यते । वसीयान्भवति । वारुणो वै पाशः । इमं विष्यामि वरुणस्य पाशमित्याह । वरुणपाशादेवैनां मुञ्चति । सवितृप्रसूतो यथादेवतम् १
न देवताभ्य आवृश्च्यते । वसीयान्भवति । धातुश्च योनौ सुकृतस्य लोक इत्याह । अग्निर्वै धाता । पुण्यं कर्म सुकृतस्य लोकः । अग्निरेवैनां धाता । पुण्ये कर्मणि सुकृतस्य लोके दधाति । स्योनं मे सह पत्या करोमीत्याह । आत्मनश्च यजमानस्य चानात्यै संत्वाय । समायुषा संप्रजयेत्याह २
आशिषमेवैतामाशास्ते पूर्णपात्रे । अन्ततोऽनुष्टुभा । चतुष्पद्वा एतच्छन्दः प्रतिष्ठितं पत्नियै पूर्णपात्रे भवति । अस्मिँ ल्लोके प्रतितिष्ठानीति । अस्मिन्नेव लोके प्रतितिष्ठति । अथो वाग्वा अनुष्टुक् । वाङ्मिथुनम् । आपो रेतः प्रजननम् । एतस्माद्वै मिथुनाद्विद्योतमानः स्तनयन्वर्षति । रेतः सिञ्चन् ३
प्रजाः प्रजनयन् । यद्वै यज्ञस्य ब्रह्मणा युज्यते । ब्रह्मणा वै तस्य विमोकः । अद्भिः शान्तिः । विमुक्तं वा एतर्हि योक्त्रं ब्रह्मणा । आदायैनत्पत्नी सहाप उपगृह्णीते शान्त्यै । अञ्जलौ पूर्णपात्रमानयति । रेत एवास्यां प्रजां दधाति । प्रजया हि मनुष्यः पूर्णः । मुखं विमृष्टे । अवभृथस्यैव रूपं कृत्वोत्तिष्ठति ४
yo vā ayathādevataṃ yajñamupacarati | ā devatābhyo vṛścyate | pāpīyānbhavati | yo yathādevatam | na devatābhya āvṛścyate | vasīyānbhavati | vāruṇo vai pāśaḥ | imaṃ viṣyāmi varuṇasya pāśamityāha | varuṇapāśādevaināṃ muñcati | savitṛprasūto yathādevatam 1
na devatābhya āvṛścyate | vasīyānbhavati | dhātuśca yonau sukṛtasya loka ityāha | agnirvai dhātā | puṇyaṃ karma sukṛtasya lokaḥ | agnirevaināṃ dhātā | puṇye karmaṇi sukṛtasya loke dadhāti | syonaṃ me saha patyā karomītyāha | ātmanaśca yajamānasya cānātyai saṃtvāya | samāyuṣā saṃprajayetyāha 2
āśiṣamevaitāmāśāste pūrṇapātre | antato'nuṣṭubhā | catuṣpadvā etacchandaḥ pratiṣṭhitaṃ patniyai pūrṇapātre bhavati | asmi~ lloke pratitiṣṭhānīti | asminneva loke pratitiṣṭhati | atho vāgvā anuṣṭuk | vāṅmithunam | āpo retaḥ prajananam | etasmādvai mithunādvidyotamānaḥ stanayanvarṣati | retaḥ siñcan 3
prajāḥ prajanayan | yadvai yajñasya brahmaṇā yujyate | brahmaṇā vai tasya vimokaḥ | adbhiḥ śāntiḥ | vimuktaṃ vā etarhi yoktraṃ brahmaṇā | ādāyainatpatnī sahāpa upagṛhṇīte śāntyai | añjalau pūrṇapātramānayati | reta evāsyāṃ prajāṃ dadhāti | prajayā hi manuṣyaḥ pūrṇaḥ | mukhaṃ vimṛṣṭe | avabhṛthasyaiva rūpaṃ kṛtvottiṣṭhati 4
Sanskrit only: no published translation is held for this verse.
परिवेषो वा एष वनस्पतीनाम् । यदुपवेषः । य एवं वेद । विन्दते परिवेष्टारम् । तमुत्करे । यं देवा मनुष्येषु । उपवेषमधारयन् । ये अस्मदपचेतसः । तानस्मभ्यमिहाकुरु । उपवेषोपविड्ढि नः १
प्रजां पुष्टिमथो धनम् । द्विपदो नश्चतुष्पदः । ध्रुवाननपगान्कुर्विति पुरस्तात्प्रत्यञ्चमुपगूहति । तस्मात्पुरस्तात्प्रत्यञ्चः शूद्रा अवस्यन्ति । स्थविमत उपगूहति । अप्रतिवादिन एवैनान्कुरुते । धृष्टिर्वा उपवेषः । शुचर्तो वज्रो ब्रह्मणा सँ शितः । योपवेषे शुक् । सामुमृच्छतु यं द्विष्म इति २
अथास्मै नामगृह्य प्रहरति । निरमुं नुद ओकसः । सपत्नो यः पृतन्यति । निर्बाध्येन हविषा । इन्द्र एणं पराशरीत् । इहि तिस्रः परावतः । इहि पञ्च जनाँ अति । इहि तिस्रोऽति रोचना । यावत् । सूर्यो असद्दिवि । परमां त्वा परावतम् ३
इन्द्रो नयतु वृत्रहा । यतो न पुनरायसि । शश्वतीभ्यः समाभ्य इति । त्रिवृद्वा एष वज्रो ब्रह्मणा सँ शितः । शुचैवैनं विद्ध्वा । एभ्यो लोकेभ्यो निर्णुद्य । वज्रेण ब्रह्मणा स्तृणुते । हतोऽसाववधिष्मामुमित्याह स्तृत्यै । यं द्विष्यात्तं ध्यायेत् । शुचैवैनमर्पयति ७९ ४
pariveṣo vā eṣa vanaspatīnām | yadupaveṣaḥ | ya evaṃ veda | vindate pariveṣṭāram | tamutkare | yaṃ devā manuṣyeṣu | upaveṣamadhārayan | ye asmadapacetasaḥ | tānasmabhyamihākuru | upaveṣopaviḍḍhi naḥ 1
prajāṃ puṣṭimatho dhanam | dvipado naścatuṣpadaḥ | dhruvānanapagānkurviti purastātpratyañcamupagūhati | tasmātpurastātpratyañcaḥ śūdrā avasyanti | sthavimata upagūhati | aprativādina evainānkurute | dhṛṣṭirvā upaveṣaḥ | śucarto vajro brahmaṇā sa~ śitaḥ | yopaveṣe śuk | sāmumṛcchatu yaṃ dviṣma iti 2
athāsmai nāmagṛhya praharati | niramuṃ nuda okasaḥ | sapatno yaḥ pṛtanyati | nirbādhyena haviṣā | indra eṇaṃ parāśarīt | ihi tisraḥ parāvataḥ | ihi pañca janā~ ati | ihi tisro'ti rocanā | yāvat | sūryo asaddivi | paramāṃ tvā parāvatam 3
indro nayatu vṛtrahā | yato na punarāyasi | śaśvatībhyaḥ samābhya iti | trivṛdvā eṣa vajro brahmaṇā sa~ śitaḥ | śucaivainaṃ viddhvā | ebhyo lokebhyo nirṇudya | vajreṇa brahmaṇā stṛṇute | hato'sāvavadhiṣmāmumityāha stṛtyai | yaṃ dviṣyāttaṃ dhyāyet | śucaivainamarpayati 79 4
Sanskrit only: no published translation is held for this verse.
ब्रह्मणे ब्राह्मणमालभते । क्षत्राय राजन्यम् । मरुद्भ्यो वैश्यम् । तपसे शूद्र म् । तमसे तस्करम् । नारकाय वीरहणम् । पाप्मने क्लीबम् । आक्रया-यायोगूम् । कामाय पुꣳ श्चलूम् । अतिक्रुष्टाय मागधम् १
brahmaṇe brāhmaṇamālabhate | kṣatrāya rājanyam | marudbhyo vaiśyam | tapase śūdra m | tamase taskaram | nārakāya vīrahaṇam | pāpmane klībam | ākrayā-yāyogūm | kāmāya pum̐ ścalūm | atikruṣṭāya māgadham 1
Sanskrit only: no published translation is held for this verse.
गीताय सूतम् । नृत्ताय शैलूषम् । धर्माय सभाचरम् । नर्माय रेभम् । नरिष्ठायै भीमलम् । हसाय कारिम् । आनन्दाय स्त्रीषखम् । प्रमुदे कुमा-रीपुत्रम् । मेधायै रथकारम् । धैर्याय तक्षाणम् १
gītāya sūtam | nṛttāya śailūṣam | dharmāya sabhācaram | narmāya rebham | nariṣṭhāyai bhīmalam | hasāya kārim | ānandāya strīṣakham | pramude kumā-rīputram | medhāyai rathakāram | dhairyāya takṣāṇam 1
Sanskrit only: no published translation is held for this verse.
श्रमाय कौलालम् । मायायै कार्मारम् । रूपाय मणिकारम् । शुभे वपम् । शरव्याया इषुकारम् । हेत्यै धन्वकारम् । कर्मणे ज्याकारम् । दिष्टाय रज्जुसर्गम् । मृत्यवे मृगयुम् । अन्तकाय श्वनितम् १
śramāya kaulālam | māyāyai kārmāram | rūpāya maṇikāram | śubhe vapam | śaravyāyā iṣukāram | hetyai dhanvakāram | karmaṇe jyākāram | diṣṭāya rajjusargam | mṛtyave mṛgayum | antakāya śvanitam 1
Sanskrit only: no published translation is held for this verse.
संधये जारम् । गेहायोपपतिम् । निर्ऋत्यै परिवित्तम् । आर्त्यै परिविविदानम् । अराध्यै दिधिषूपतिम् । पवित्राय भिषजम् । प्रज्ञानाय नक्षत्रदर्शम् । निष्कृत्यै पेशस्कारीम् । बलायोपदाम् । वर्णायानूरुधम् १
saṃdhaye jāram | gehāyopapatim | nirṛtyai parivittam | ārtyai parivividānam | arādhyai didhiṣūpatim | pavitrāya bhiṣajam | prajñānāya nakṣatradarśam | niṣkṛtyai peśaskārīm | balāyopadām | varṇāyānūrudham 1
Sanskrit only: no published translation is held for this verse.
नदीभ्यः पौञ्जिष्टम् । ऋक्षीकाभ्यो नैषादम् । पुरुषव्याघ्राय दुर्मदम् । प्रयुद्भ्य उन्मत्तम् । गन्धर्वाप्सराभ्यो व्रात्यम् । सर्पदेवजनेभ्योऽप्रतिपदम् । अवेभ्यः कितवम् । इर्यताया अकितवम् । पिशाचेभ्यो बिदलकारम् । यातुधानेभ्यः कण्टककारम् १
nadībhyaḥ pauñjiṣṭam | ṛkṣīkābhyo naiṣādam | puruṣavyāghrāya durmadam | prayudbhya unmattam | gandharvāpsarābhyo vrātyam | sarpadevajanebhyo'pratipadam | avebhyaḥ kitavam | iryatāyā akitavam | piśācebhyo bidalakāram | yātudhānebhyaḥ kaṇṭakakāram 1
Sanskrit only: no published translation is held for this verse.
उत्सादेभ्यः कुब्जम् । प्रमुदे वामनम् । द्वार्भ्यः स्रामम् । स्वप्नायान्धम् । अधर्माय बधिरम् । संज्ञानाय स्मरकारीम् । प्रकामोद्यायोपसदम् । आशिक्षायै प्रश्निनम् । उपशिक्षाया अभिप्रश्निनम् । मर्यादायै प्रश्न-विवाकम् १
utsādebhyaḥ kubjam | pramude vāmanam | dvārbhyaḥ srāmam | svapnāyāndham | adharmāya badhiram | saṃjñānāya smarakārīm | prakāmodyāyopasadam | āśikṣāyai praśninam | upaśikṣāyā abhipraśninam | maryādāyai praśna-vivākam 1
Sanskrit only: no published translation is held for this verse.
ऋत्यै स्तेनहृदयम् । वैरहत्याय पिशुनम् । विवित्त्यै क्षत्तारम् । औपद्र ष्टाय संग्रहीतारम् । बलायानुचरम् । भूम्ने परिष्कन्दम् । प्रियाय प्रियवादिनम् । अरिष्ट्या अश्वसादम् । मेधाय वासःपल्पूलीम् । प्रकामाय रजयित्रीम् १
ṛtyai stenahṛdayam | vairahatyāya piśunam | vivittyai kṣattāram | aupadra ṣṭāya saṃgrahītāram | balāyānucaram | bhūmne pariṣkandam | priyāya priyavādinam | ariṣṭyā aśvasādam | medhāya vāsaḥpalpūlīm | prakāmāya rajayitrīm 1
Sanskrit only: no published translation is held for this verse.
भायै दार्वाहारम् । प्रभाया आग्नेन्धम् । नाकस्य पृष्ठायाभिषेक्तारम् । ब्रध्नस्य विष्टपाय पात्रनिर्णेगम् । देवलोकाय पेशितारम् । मनुष्यलोकाय प्रकरितारम् । सर्वेभ्यो लोकेभ्योपसेक्तारम् । अवर्त्यै वधायोपमन्थितारम् । सुवर्गाय लोकाय भागदुघम् । वर्षिष्ठाय नाकाय परिवेष्टारम् १
bhāyai dārvāhāram | prabhāyā āgnendham | nākasya pṛṣṭhāyābhiṣektāram | bradhnasya viṣṭapāya pātranirṇegam | devalokāya peśitāram | manuṣyalokāya prakaritāram | sarvebhyo lokebhyopasektāram | avartyai vadhāyopamanthitāram | suvargāya lokāya bhāgadugham | varṣiṣṭhāya nākāya pariveṣṭāram 1
Sanskrit only: no published translation is held for this verse.
अर्मेभ्यो हस्तिपम् । जवायाश्वपम् । पुष्ट्यै गोपालम् । तेजसेऽजपालम् । वीर्यायाविपालम् । इरायै कीनाशम् । किलालाय सुराकारम् । भद्राय गृहपम् । श्रेयसे वित्तपम् । अध्यक्षायानुक्षत्तारम् १
armebhyo hastipam | javāyāśvapam | puṣṭyai gopālam | tejase'japālam | vīryāyāvipālam | irāyai kīnāśam | kilālāya surākāram | bhadrāya gṛhapam | śreyase vittapam | adhyakṣāyānukṣattāram 1
Sanskrit only: no published translation is held for this verse.
मन्यवेऽयस्तापम् । क्रोधाय निसरम् । शोकायाभिसरम् । उत्कूलविकूला-भ्यां त्रिस्थिनम् । योगाय योक्तारम् । क्षेमाय विमोक्तारम् । वपुषे मान-स्कृतम् । शीलायाञ्जनीकारम् । निर्ऋत्यै कोशकारीम् । यमायासूम् १
manyave'yastāpam | krodhāya nisaram | śokāyābhisaram | utkūlavikūlā-bhyāṃ tristhinam | yogāya yoktāram | kṣemāya vimoktāram | vapuṣe māna-skṛtam | śīlāyāñjanīkāram | nirṛtyai kośakārīm | yamāyāsūm 1
Sanskrit only: no published translation is held for this verse.
यम्यै यमसूम् । अथर्वभ्योऽवतोकाम् । संवत्सराय पर्यारिणीम् । परिवत्सरायाविजाताम् । इदावत्सरायापस्कद्वरीम् । इद्वत्सरायातीत्वरीम् । वत्सराय विजर्जराम् । सर्वंत्सराय पलिक्नीम् । वनाय वनपम् । अन्यतोऽरण्याय दावपम् १
yamyai yamasūm | atharvabhyo'vatokām | saṃvatsarāya paryāriṇīm | parivatsarāyāvijātām | idāvatsarāyāpaskadvarīm | idvatsarāyātītvarīm | vatsarāya vijarjarām | sarvaṃtsarāya paliknīm | vanāya vanapam | anyato'raṇyāya dāvapam 1
Sanskrit only: no published translation is held for this verse.
सरोभ्यो धैवरम् । वेशन्ताभ्यो दाशम् । उपस्थावरीभ्यो बैन्दम् । नड्वलाभ्यः शौष्कलम् । पार्याय कैवर्तम् । अवार्याय मार्गारम् । तीर्थेभ्य आन्दम् । विषमेभ्यो मैनालम् । स्वनेभ्यः पर्णकम् । गुहाभ्यः किरातम् । सानुभ्यो जम्भकम् । पर्वतेभ्यः किंपूरुषम् १
sarobhyo dhaivaram | veśantābhyo dāśam | upasthāvarībhyo baindam | naḍvalābhyaḥ śauṣkalam | pāryāya kaivartam | avāryāya mārgāram | tīrthebhya āndam | viṣamebhyo mainālam | svanebhyaḥ parṇakam | guhābhyaḥ kirātam | sānubhyo jambhakam | parvatebhyaḥ kiṃpūruṣam 1
Sanskrit only: no published translation is held for this verse.
प्रतिश्रुत्काया ऋतुलम् । घोषाय भषम् । अन्ताय बहुवादिनम् । अनन्ताय मूकम् । महसे वीणावादम् । क्रोशाय तूणवध्मम् । आक्रन्दाय दुन्दुभ्याघातम् । अवरस्पराय शङ्खध्मम् । ऋभुभ्योऽजिनसंधायम् । सा-ध्येभ्यश्चर्मम्णम् १
pratiśrutkāyā ṛtulam | ghoṣāya bhaṣam | antāya bahuvādinam | anantāya mūkam | mahase vīṇāvādam | krośāya tūṇavadhmam | ākrandāya dundubhyāghātam | avarasparāya śaṅkhadhmam | ṛbhubhyo'jinasaṃdhāyam | sā-dhyebhyaścarmamṇam 1
Sanskrit only: no published translation is held for this verse.
बीभत्सायै पौल्कसम् । भूत्यै जागरणम् । अभूत्यै स्वपनम् । तुलायै वाणिजम् । वर्णाय हिरण्यकारम् । विश्वेभ्यो देवेभ्यः सिध्मलम् । पश्चाद्दोषाय ग्लावम् । ऋत्यै जनवादिनम् । व्यृद्ध्या अपगल्भम् । सꣳ शराय प्रच्छिदम् १
bībhatsāyai paulkasam | bhūtyai jāgaraṇam | abhūtyai svapanam | tulāyai vāṇijam | varṇāya hiraṇyakāram | viśvebhyo devebhyaḥ sidhmalam | paścāddoṣāya glāvam | ṛtyai janavādinam | vyṛddhyā apagalbham | sam̐ śarāya pracchidam 1
Sanskrit only: no published translation is held for this verse.
हसाय पुꣳ श्चलूमालभते । वीणावादं गणकं गीताय । यादसे शाबुल्याम् । नर्माय भद्र वतीम् । तूणवध्मं ग्रामण्यं पाणिसंघातं नृत्ताय । मोदाया-नुक्रोशकम् । आनन्दाय तलवम् १
hasāya pum̐ ścalūmālabhate | vīṇāvādaṃ gaṇakaṃ gītāya | yādase śābulyām | narmāya bhadra vatīm | tūṇavadhmaṃ grāmaṇyaṃ pāṇisaṃghātaṃ nṛttāya | modāyā-nukrośakam | ānandāya talavam 1
Sanskrit only: no published translation is held for this verse.
अक्षराजाय कितवम् । कृताय सभाविनम् । त्रेताया आदिनवदर्शम् । द्वापराय बहिःसदम् । कलये सभास्थाणुम् । दुष्कृताय चरकाचार्यम् । अध्वने ब्रह्मचारिणम् । पिशाचेभ्यः सैलगम् । पिपासायै गोव्यच्छम् । निर्ऋत्यै गोघातम् । क्षुधे गोविकर्तम् । क्षुत्तृष्णाभ्यां तम् । यो गां विकृन्तन्तं माꣳ सं भिक्षमाण उपतिष्ठते १
akṣarājāya kitavam | kṛtāya sabhāvinam | tretāyā ādinavadarśam | dvāparāya bahiḥsadam | kalaye sabhāsthāṇum | duṣkṛtāya carakācāryam | adhvane brahmacāriṇam | piśācebhyaḥ sailagam | pipāsāyai govyaccham | nirṛtyai goghātam | kṣudhe govikartam | kṣuttṛṣṇābhyāṃ tam | yo gāṃ vikṛntantaṃ mām̐ saṃ bhikṣamāṇa upatiṣṭhate 1
Sanskrit only: no published translation is held for this verse.
भूम्यै पीठसर्पिणमालभते । अग्नयेऽꣳ! सलम् । वायवे चाण्डालम् । अन्तरिक्षाय वꣳ शनर्तिनम् । दिवे खलतिम् । सूर्याय हर्यक्षम् । चन्द्र मसे मिर्मिरम् । नक्षत्त्रेभ्यः किलासम् । अह्ने शुक्लं पिङ्गलम् । रात्रियै कृष्णं पिङ्गाक्षम् १
bhūmyai pīṭhasarpiṇamālabhate | agnaye'm̐! salam | vāyave cāṇḍālam | antarikṣāya vam̐ śanartinam | dive khalatim | sūryāya haryakṣam | candra mase mirmiram | nakṣattrebhyaḥ kilāsam | ahne śuklaṃ piṅgalam | rātriyai kṛṣṇaṃ piṅgākṣam 1
Sanskrit only: no published translation is held for this verse.
वाचे पुरुषमालभते । प्राणमपानम्व्यानमुदानꣳ समानं तान्वायवे । सूर्याय चक्षुरालभते । मनश्चन्द्र मसे । दिग्म्यः श्रोत्रम् । प्रजापतये पुरुषम् १
vāce puruṣamālabhate | prāṇamapānamvyānamudānam̐ samānaṃ tānvāyave | sūryāya cakṣurālabhate | manaścandra mase | digmyaḥ śrotram | prajāpataye puruṣam 1
Sanskrit only: no published translation is held for this verse.
अथैतानरूपेभ्य आलभते । अतिह्रस्वमतिदीर्घम् । अतिकृशमत्यꣳ सलम् । अतिशुक्लमतिकृष्णम् । अतिश्लक्ष्णमतिलोमशम् । अतिकिरिटमतिदन्तुरम् । अतिमिर्मिरमतिमेमिषम् । आशायै जामिम् । प्रतीक्षायै कुमारीम् १
athaitānarūpebhya ālabhate | atihrasvamatidīrgham | atikṛśamatyam̐ salam | atiśuklamatikṛṣṇam | atiślakṣṇamatilomaśam | atikiriṭamatidanturam | atimirmiramatimemiṣam | āśāyai jāmim | pratīkṣāyai kumārīm 1
Sanskrit only: no published translation is held for this verse.
सत्यं प्रपद्ये । ऋतं प्रपद्ये । अमृतं प्रपद्ये । प्रजापतेः प्रियां तनुवमनार्तां प्रपद्ये । इदमहं पञ्चदशेन वज्रेण । द्विषन्तं भ्रातृव्यमवक्रामामि । योऽस्मान्द्वेष्टि । यं च वयं द्विष्मः । भूर्भुवः सुवः । हिम् १
satyaṃ prapadye | ṛtaṃ prapadye | amṛtaṃ prapadye | prajāpateḥ priyāṃ tanuvamanārtāṃ prapadye | idamahaṃ pañcadaśena vajreṇa | dviṣantaṃ bhrātṛvyamavakrāmāmi | yo'smāndveṣṭi | yaṃ ca vayaṃ dviṣmaḥ | bhūrbhuvaḥ suvaḥ | him 1
Sanskrit only: no published translation is held for this verse.
प्र वो वाजा अभिद्यवः । हविष्मन्तो घृताच्या । देवाञ्जिगाति सुम्नयुः । अग्न आयाहि वीतये । गृणानो हव्यदातये । नि होता सत्सि बर्हिषि । तं त्वा समिद्भिरङ्गिरः । घृतेन वर्धयामसि । बृहच्छोचा यविष्ठ्य । स नः पृथु श्रवाय्यम् १
अच्छा देव विवाससि । बृहदग्ने सुवीर्यम् । ईडेन्यो नमस्यस् । तिरः । तमाꣳ सि दर्शतः । समग्निरिध्यते वृषा । वृषो अग्निः समिध्यते । अश्वो न देववाहनः । तꣳ हविश्मन्त ईडते । वृषणं त्वा वयं वृषन् । वृषाणः समिधीमहि २
अग्ने दीद्यतं बृहत् । अग्निं दूतं वृणीमहे । होतारं विश्ववेदसम् । अस्य यज्ञस्य सुक्रतुम् । समिध्यमानो अध्वरे । अग्निः पावक ईड्यः । शोचिष्केशस्तमीमहे । समिद्धो अग्न आहुत । देवान्यक्षि स्वध्वर । त्वꣳ हि हव्यवाडसि । आजुहोत दुवस्यत । अग्निं प्रयत्यध्वरे । वृणीध्वꣳ हव्यवाहनम् । त्वं वरुण उत मित्रो अग्ने । त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु । यूयं पात स्वस्तिभिः सदा नः ३
pra vo vājā abhidyavaḥ | haviṣmanto ghṛtācyā | devāñjigāti sumnayuḥ | agna āyāhi vītaye | gṛṇāno havyadātaye | ni hotā satsi barhiṣi | taṃ tvā samidbhiraṅgiraḥ | ghṛtena vardhayāmasi | bṛhacchocā yaviṣṭhya | sa naḥ pṛthu śravāyyam 1
acchā deva vivāsasi | bṛhadagne suvīryam | īḍenyo namasyas | tiraḥ | tamām̐ si darśataḥ | samagniridhyate vṛṣā | vṛṣo agniḥ samidhyate | aśvo na devavāhanaḥ | tam̐ haviśmanta īḍate | vṛṣaṇaṃ tvā vayaṃ vṛṣan | vṛṣāṇaḥ samidhīmahi 2
agne dīdyataṃ bṛhat | agniṃ dūtaṃ vṛṇīmahe | hotāraṃ viśvavedasam | asya yajñasya sukratum | samidhyamāno adhvare | agniḥ pāvaka īḍyaḥ | śociṣkeśastamīmahe | samiddho agna āhuta | devānyakṣi svadhvara | tvam̐ hi havyavāḍasi | ājuhota duvasyata | agniṃ prayatyadhvare | vṛṇīdhvam̐ havyavāhanam | tvaṃ varuṇa uta mitro agne | tvāṃ vardhanti matibhirvasiṣṭhāḥ | tve vasu suṣaṇanāni santu | yūyaṃ pāta svastibhiḥ sadā naḥ 3
Sanskrit only: no published translation is held for this verse.
अग्ने महाꣳ असि ब्राह्मण भारत । असावसौ । देवेद्धो मन्विद्धः । ऋषिष्टुतो विप्रानुमदितः । कविशस्तो ब्रह्मसꣳ शितो घृताहवनः । प्रणीर्यज्ञानाम् । रथीरध्वराणाम् । अतूर्तो होता । तूर्णिर्हव्यवाट् । आस्पात्रं जुहूर्देवानाम् १
चमसो देवपानः । अराꣳ इवाग्ने नेमिर्देवाꣳ स्त्वं परिभूरसि । आवह देवान्यजमानाय । अग्निमग्न आवह । सोममावह । अग्निमावह । प्रजापतिमावह । अग्नीषोमावावह । इन्द्रा ग्नी आवह । इन्द्र मावह । महेन्द्र मावह । देवाꣳ आज्यपाꣳ आवह । अग्निꣳ होत्रायावह । स्वं महिमानमावह । आ चाग्ने देवान्वह । सुयजा च यज जातवेदः २
agne mahām̐ asi brāhmaṇa bhārata | asāvasau | deveddho manviddhaḥ | ṛṣiṣṭuto viprānumaditaḥ | kaviśasto brahmasam̐ śito ghṛtāhavanaḥ | praṇīryajñānām | rathīradhvarāṇām | atūrto hotā | tūrṇirhavyavāṭ | āspātraṃ juhūrdevānām 1
camaso devapānaḥ | arām̐ ivāgne nemirdevām̐ stvaṃ paribhūrasi | āvaha devānyajamānāya | agnimagna āvaha | somamāvaha | agnimāvaha | prajāpatimāvaha | agnīṣomāvāvaha | indrā gnī āvaha | indra māvaha | mahendra māvaha | devām̐ ājyapām̐ āvaha | agnim̐ hotrāyāvaha | svaṃ mahimānamāvaha | ā cāgne devānvaha | suyajā ca yaja jātavedaḥ 2
Sanskrit only: no published translation is held for this verse.
अग्निर्होता । वेत्वग्निः । होत्रं वेत्वप्रावित्रम् । स्मो वयम् । साधु ते यजमान देवता । घृतवतीमध्वर्यो स्रुचमास्यस्व । देवायुवं विश्ववाराम् । ईडामहै देवाꣳ ईडेन्यान् । नमस्याम नमस्यान् । यजाम यज्ञियान् १
agnirhotā | vetvagniḥ | hotraṃ vetvaprāvitram | smo vayam | sādhu te yajamāna devatā | ghṛtavatīmadhvaryo srucamāsyasva | devāyuvaṃ viśvavārām | īḍāmahai devām̐ īḍenyān | namasyāma namasyān | yajāma yajñiyān 1
Sanskrit only: no published translation is held for this verse.
समिधो अग्न आज्यस्य वियन्तु । तनूनपादग्न आज्यस्य वेतु । इडो अग्न आज्यस्य वियन्तु । बर्हिरग्न आज्यस्य वेतु । स्वाहाग्निम् । स्वाहा सोमम् । स्वाहाग्निम् । प्रजापतिम् । स्वाहाग्नीषोमौ । स्वाहेन्द्रा ग्नी ।स्वाहेन्द्र म् । स्वाहा महेन्द्र म् । स्वाहा देवाꣳ आज्यपान् । स्वाहाग्निꣳ होत्राज्जुषाणाः । अग्न आज्यस्य वियन्तु १
samidho agna ājyasya viyantu | tanūnapādagna ājyasya vetu | iḍo agna ājyasya viyantu | barhiragna ājyasya vetu | svāhāgnim | svāhā somam | svāhāgnim | prajāpatim | svāhāgnīṣomau | svāhendrā gnī |svāhendra m | svāhā mahendra m | svāhā devām̐ ājyapān | svāhāgnim̐ hotrājjuṣāṇāḥ | agna ājyasya viyantu 1
Sanskrit only: no published translation is held for this verse.
अग्निर्वृत्राणि जङ्घनत् । द्र विणस्युर्विपन्यया । समिद्धः शुक्र आहुतः । जुषाणो अग्निराज्यस्य वेतु । त्वꣳ सोमासि सत्पतिः । त्वꣳ राजोत वृत्रहा । त्वं भद्रो असि क्रतुः । जुषाणः सोम आज्यस्य हविषो वेतु । अग्निः प्रत्नेन जन्मना । शुम्भानस्तनुवꣳ स्वाम् । कविर्विप्रेण वावृधे । जुषाणो अग्निराज्यस्य वेतु । सोम गीर्भिष्ट्वा वयम् । वर्धयामो वचोविदः । सुमृडीको न आविश । जुषाणः सोम आज्यस्य हविषो वेतु १
agnirvṛtrāṇi jaṅghanat | dra viṇasyurvipanyayā | samiddhaḥ śukra āhutaḥ | juṣāṇo agnirājyasya vetu | tvam̐ somāsi satpatiḥ | tvam̐ rājota vṛtrahā | tvaṃ bhadro asi kratuḥ | juṣāṇaḥ soma ājyasya haviṣo vetu | agniḥ pratnena janmanā | śumbhānastanuvam̐ svām | kavirvipreṇa vāvṛdhe | juṣāṇo agnirājyasya vetu | soma gīrbhiṣṭvā vayam | vardhayāmo vacovidaḥ | sumṛḍīko na āviśa | juṣāṇaḥ soma ājyasya haviṣo vetu 1
Sanskrit only: no published translation is held for this verse.
अग्निर्मूर्धा दिवः ककुत् । पतिः पृथिव्या अयम् । अपाꣳ रेताꣳ सि जिन्वति । भुवो यज्ञस्य रजसश्च नेता । यत्रा नियुद्भिः सचसे शिवाभिः । दिवि मूर्धानं दधिषे सुवर्षाम् । जिह्वामग्ने चकृषे हव्यवाहम् । प्रजापते न त्वदेतान्यन्यः । विश्वा जातानि परि ता बभूव । यत्कामास्ते जुहुमस्तन्नो अस्तु १
वयꣳ स्याम पतयो रयीणाम् । स वेद पुत्रः पितरꣳ स मातरम् । स सूनुर्भुवत्स भुवत्पुनर्मघः । स द्यामौर्णोदन्तरिक्षꣳ स सुवः । स विश्वा भुवो अभवत्स आभवत् । अग्नीषोमा सवेदसा । सहूती वनतं गिरः । सं देवत्रा बभूवथुः । युवमेतानि दिवि रोचनानि । अग्निश्च सोम सक्रतू अधत्तम् २
युवꣳ सिन्धूꣳ रभिशस्तेरवद्यात् । अग्नीषोमावमुञ्चतं गृभीतान् । इन्द्रा ग्नी रोचना दिवः । परि वाजेषु भूषथः । तद्वां चेति प्र वीर्यम् । श्नथद्वृत्रमुत सनोति वाजम् । इन्द्रा यो अग्नी सहुरी सपर्यात् । इरज्यन्ता वसव्यस्य भूरेः । सहस्तमा सहसा वाजयन्ता । एन्द्र सानसिꣳ रयिम् ३
सजित्वानꣳ सदासहम् । वर्षिष्ठमूतये भर । प्र ससाहिषे पुरुहूत शत्रून् । ज्येष्ठस्ते शुष्म इह रातिरस्तु । इन्द्रा भर दक्षिणेना वसूनि । पतिः सिन्धूनामसि रेवतीनाम् । महाꣳ इन्द्रो य ओजसा । पर्जन्यो वृष्टिमाꣳ इव । स्तोमैर्वत्सस्य वावृधे । महाꣳ इन्द्रो नृवदा चर्षणिप्राः ४
उत द्विबर्हा अमिनः सहोभिः । अस्मद्रि यग्वावृधे वीर्याय । उरुः पृथुः सुकृतः कर्तृभिर्भूत् । पिप्रीहि देवाꣳ उशतो यविष्ठ । विद्वाꣳ ऋतूꣳ रृतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने । त्वꣳ होतॄणामस्यायजिष्ठः । अग्निꣳ स्विष्टकृतम् । अयाडग्निरग्नेः प्रियाधामानि । अयाट्सोमस्य प्रिया धामानि ५
अयाडग्नेः प्रिया धामानि । अयाट्प्रजापतेः प्रिया धामानि । अयाडग्नीषोमयोः प्रिया धामानि । अयाडिन्द्रा ग्नियोः प्रिया धामानि । अयाडिन्द्र स्य प्रिया धामानि । अयाण्महेन्द्र स्य प्रिया धामानि । अयाड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर्होतुः प्रिया धामानि । यक्षत्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । अग्ने यदद्य विशो अध्वरस्य होतः । पावकशोचे वेष्ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद्भूः । हव्या वह यविष्ठ या ते अद्य ६
agnirmūrdhā divaḥ kakut | patiḥ pṛthivyā ayam | apām̐ retām̐ si jinvati | bhuvo yajñasya rajasaśca netā | yatrā niyudbhiḥ sacase śivābhiḥ | divi mūrdhānaṃ dadhiṣe suvarṣām | jihvāmagne cakṛṣe havyavāham | prajāpate na tvadetānyanyaḥ | viśvā jātāni pari tā babhūva | yatkāmāste juhumastanno astu 1
vayam̐ syāma patayo rayīṇām | sa veda putraḥ pitaram̐ sa mātaram | sa sūnurbhuvatsa bhuvatpunarmaghaḥ | sa dyāmaurṇodantarikṣam̐ sa suvaḥ | sa viśvā bhuvo abhavatsa ābhavat | agnīṣomā savedasā | sahūtī vanataṃ giraḥ | saṃ devatrā babhūvathuḥ | yuvametāni divi rocanāni | agniśca soma sakratū adhattam 2
yuvam̐ sindhūm̐ rabhiśasteravadyāt | agnīṣomāvamuñcataṃ gṛbhītān | indrā gnī rocanā divaḥ | pari vājeṣu bhūṣathaḥ | tadvāṃ ceti pra vīryam | śnathadvṛtramuta sanoti vājam | indrā yo agnī sahurī saparyāt | irajyantā vasavyasya bhūreḥ | sahastamā sahasā vājayantā | endra sānasim̐ rayim 3
sajitvānam̐ sadāsaham | varṣiṣṭhamūtaye bhara | pra sasāhiṣe puruhūta śatrūn | jyeṣṭhaste śuṣma iha rātirastu | indrā bhara dakṣiṇenā vasūni | patiḥ sindhūnāmasi revatīnām | mahām̐ indro ya ojasā | parjanyo vṛṣṭimām̐ iva | stomairvatsasya vāvṛdhe | mahām̐ indro nṛvadā carṣaṇiprāḥ 4
uta dvibarhā aminaḥ sahobhiḥ | asmadri yagvāvṛdhe vīryāya | uruḥ pṛthuḥ sukṛtaḥ kartṛbhirbhūt | piprīhi devām̐ uśato yaviṣṭha | vidvām̐ ṛtūm̐ rṛtupate yajeha | ye daivyā ṛtvijastebhiragne | tvam̐ hotṝṇāmasyāyajiṣṭhaḥ | agnim̐ sviṣṭakṛtam | ayāḍagniragneḥ priyādhāmāni | ayāṭsomasya priyā dhāmāni 5
ayāḍagneḥ priyā dhāmāni | ayāṭprajāpateḥ priyā dhāmāni | ayāḍagnīṣomayoḥ priyā dhāmāni | ayāḍindrā gniyoḥ priyā dhāmāni | ayāḍindra sya priyā dhāmāni | ayāṇmahendra sya priyā dhāmāni | ayāḍdevānāmājyapānāṃ priyā dhāmāni | yakṣadagnerhotuḥ priyā dhāmāni | yakṣatsvaṃ mahimānam | āyajatāmejyā iṣaḥ | kṛṇotu so adhvarā jātavedāḥ | juṣatām̐ haviḥ | agne yadadya viśo adhvarasya hotaḥ | pāvakaśoce veṣṭvam̐ hi yajvā | ṛtā yajāsi mahinā vi yadbhūḥ | havyā vaha yaviṣṭha yā te adya 6
Sanskrit only: no published translation is held for this verse.
उपहूतꣳ रथंतरꣳ सह पृथिव्या । उप मा रथंतरꣳ सह पृथिव्या ह्वयताम् । उपहूतं वामदेव्यꣳ सहान्तरिक्षेण । उप मा वामदेव्यꣳ सहान्तरिक्षेण ह्वयताम् । उपहूतं बृहत्सह दिवा । उप मा बृहत्सह दिवा ह्वयताम् । उपहूताः सप्त होत्राः । उप मा सप्त होत्रा ह्वयन्ताम् । उपहूता धेनुः सहर्षभा । उप मा धेनुः सहर्षभा ह्वयताम् १
उपहूतो भक्षः सखा । उप मा भक्षः सखा ह्वयताम् । उपहूता३ं! हो । इडोपहूता । उपहूतेडा । उपो अस्माꣳ इडा ह्वयताम् । इडोपहूता । उपहूतेडा मानवी घृतपदी मैत्रावरुणी । ब्रह्म देवकृतमुपहूतम् २
दैव्या अध्वर्यव उपहूताः । उपहूता मनुष्याः । य इमं यज्ञमवान् । ये यज्ञपतिं वर्धान् । उपहूते द्यावापृथिवी ।पूर्वजे ऋतावरी ।देवी देवपुत्रे । उपहूतोऽयं यजमानः । उत्तरस्यां देवयज्यायामुपहूतः । भूयसि हविष्करण उपहूतः । दिव्ये धामन्नुपहूतः । इदं मे देवा हविर्जुषन्तामिति तस्मिन्नुपहूतः । विश्वमस्य प्रियमुपहूतम् । विश्वस्य प्रियस्योपहूतस्योपहूतः ३
upahūtam̐ rathaṃtaram̐ saha pṛthivyā | upa mā rathaṃtaram̐ saha pṛthivyā hvayatām | upahūtaṃ vāmadevyam̐ sahāntarikṣeṇa | upa mā vāmadevyam̐ sahāntarikṣeṇa hvayatām | upahūtaṃ bṛhatsaha divā | upa mā bṛhatsaha divā hvayatām | upahūtāḥ sapta hotrāḥ | upa mā sapta hotrā hvayantām | upahūtā dhenuḥ saharṣabhā | upa mā dhenuḥ saharṣabhā hvayatām 1
upahūto bhakṣaḥ sakhā | upa mā bhakṣaḥ sakhā hvayatām | upahūtā3ṃ! ho | iḍopahūtā | upahūteḍā | upo asmām̐ iḍā hvayatām | iḍopahūtā | upahūteḍā mānavī ghṛtapadī maitrāvaruṇī | brahma devakṛtamupahūtam 2
daivyā adhvaryava upahūtāḥ | upahūtā manuṣyāḥ | ya imaṃ yajñamavān | ye yajñapatiṃ vardhān | upahūte dyāvāpṛthivī |pūrvaje ṛtāvarī |devī devaputre | upahūto'yaṃ yajamānaḥ | uttarasyāṃ devayajyāyāmupahūtaḥ | bhūyasi haviṣkaraṇa upahūtaḥ | divye dhāmannupahūtaḥ | idaṃ me devā havirjuṣantāmiti tasminnupahūtaḥ | viśvamasya priyamupahūtam | viśvasya priyasyopahūtasyopahūtaḥ 3
Sanskrit only: no published translation is held for this verse.
देवं बर्हिः । वसुवने वसुधेयस्य वेतु । देवो नराशꣳ सः । वसुवने वसुधेयस्य वेतु । देवो अग्निः स्विष्टकृत् । सुद्र विणा मन्द्रः कविः । सत्यमन्मायजी होता । होतुर्होतुरायजीयान् । अग्ने यान्देवानयाट् । याꣳ अपिप्रेः । ये ते होत्रे अमत्सत । ताꣳ ससनुषीꣳ होत्रां देवंगमाम् । दिवि देवेषु यज्ञमेरयेमम् । स्विष्टकृच्चाग्ने होताभुः । वसुवने वसुधेयस्य नमोवाके वीहि १
devaṃ barhiḥ | vasuvane vasudheyasya vetu | devo narāśam̐ saḥ | vasuvane vasudheyasya vetu | devo agniḥ sviṣṭakṛt | sudra viṇā mandraḥ kaviḥ | satyamanmāyajī hotā | hoturhoturāyajīyān | agne yāndevānayāṭ | yām̐ apipreḥ | ye te hotre amatsata | tām̐ sasanuṣīm̐ hotrāṃ devaṃgamām | divi deveṣu yajñamerayemam | sviṣṭakṛccāgne hotābhuḥ | vasuvane vasudheyasya namovāke vīhi 1
Sanskrit only: no published translation is held for this verse.
इदं द्यावापृथिवी भद्र मभूत् । आर्ध्म सूक्तवाकम् । उत नमोवाकम् । ऋध्यास्म सूक्तोच्यमग्ने । त्वꣳ सूक्तवागसि । उपश्रितो दिवःपृथिव्योः । ओमन्वती तेऽस्मिन्यज्ञे यजमान द्यावापृथिवी स्ताम् । शंगये जीरदानू ।अत्रस्नू अप्रवेदे । उरुगव्यूती अभयंकृतौ १
वृष्टिद्यावा रीत्यापा । शम्भुवौ मयोभुवौ । ऊर्जस्वती च पयस्वती च । सूपचरणा च स्वधिचरणा च । तयोराविदि । अग्निरिदꣳ हविरजुषत । अवीवृधत महो ज्यायोऽकृत । सोम इदꣳ हविरजुषत । अवीवृधत महो ज्यायोऽकृत । अग्निरिदꣳ हविरजुषत २
अवीवृधत महो ज्यायोऽकृत । प्रजापतिरिदꣳ हविरजुषत । अवीवृधत महो ज्यायोऽकृत । अग्नीषोमाविदꣳ हविरजुषेताम् । अवीवृधेतां महो ज्यायो-ऽक्राताम् । इन्द्रा ग्नी इदꣳ हविरजुषेताम् । अवीवृधेतां महो ज्यायोऽक्राताम् । इन्द्र इदꣳ हविरजुषत । अवीवृधत महो ज्यायोऽकृत । महेन्द्र इदꣳ हविरजुषत ३
अवीवृधत महो ज्यायोऽकृत । देवा आज्यपा आज्यमजुषन्त । अवीवृधन्त महो ज्यायोऽक्रत । अग्निर्होत्रेणेदꣳ हविरजुषत । अवीवृधत महो ज्यायोऽकृत । अस्यामृधद्धोत्रायां देवंगमायाम् । आशास्तेऽयं यजमानोऽसौ । आयुराशास्ते । सुप्रजास्त्वमाशास्ते । सजातवनस्यामाशास्ते ४
उत्तरां देवयज्यामाशास्ते । भूयो हविष्करणमाशास्ते । दिव्यं धामाशास्ते । विश्वं प्रियमाशास्ते । यदनेन हविषाशास्ते । तदश्यात्तदृध्यात् । तदस्मै देवा रासन्ताम् । तदग्निर्देवो देवेभ्यो वनते । वयमग्नेर्मानुषाः । इष्टं च वीतं च । उभे च नो द्यावापृथिवी अꣳ हसः पाताम् । इह गतिर्वामस्येदं च । नमो देवेभ्यः ५
idaṃ dyāvāpṛthivī bhadra mabhūt | ārdhma sūktavākam | uta namovākam | ṛdhyāsma sūktocyamagne | tvam̐ sūktavāgasi | upaśrito divaḥpṛthivyoḥ | omanvatī te'sminyajñe yajamāna dyāvāpṛthivī stām | śaṃgaye jīradānū |atrasnū apravede | urugavyūtī abhayaṃkṛtau 1
vṛṣṭidyāvā rītyāpā | śambhuvau mayobhuvau | ūrjasvatī ca payasvatī ca | sūpacaraṇā ca svadhicaraṇā ca | tayorāvidi | agniridam̐ havirajuṣata | avīvṛdhata maho jyāyo'kṛta | soma idam̐ havirajuṣata | avīvṛdhata maho jyāyo'kṛta | agniridam̐ havirajuṣata 2
avīvṛdhata maho jyāyo'kṛta | prajāpatiridam̐ havirajuṣata | avīvṛdhata maho jyāyo'kṛta | agnīṣomāvidam̐ havirajuṣetām | avīvṛdhetāṃ maho jyāyo-'krātām | indrā gnī idam̐ havirajuṣetām | avīvṛdhetāṃ maho jyāyo'krātām | indra idam̐ havirajuṣata | avīvṛdhata maho jyāyo'kṛta | mahendra idam̐ havirajuṣata 3
avīvṛdhata maho jyāyo'kṛta | devā ājyapā ājyamajuṣanta | avīvṛdhanta maho jyāyo'krata | agnirhotreṇedam̐ havirajuṣata | avīvṛdhata maho jyāyo'kṛta | asyāmṛdhaddhotrāyāṃ devaṃgamāyām | āśāste'yaṃ yajamāno'sau | āyurāśāste | suprajāstvamāśāste | sajātavanasyāmāśāste 4
uttarāṃ devayajyāmāśāste | bhūyo haviṣkaraṇamāśāste | divyaṃ dhāmāśāste | viśvaṃ priyamāśāste | yadanena haviṣāśāste | tadaśyāttadṛdhyāt | tadasmai devā rāsantām | tadagnirdevo devebhyo vanate | vayamagnermānuṣāḥ | iṣṭaṃ ca vītaṃ ca | ubhe ca no dyāvāpṛthivī am̐ hasaḥ pātām | iha gatirvāmasyedaṃ ca | namo devebhyaḥ 5
Sanskrit only: no published translation is held for this verse.
तच्छंयोरावृणीमहे । गातुं यज्ञाय । गातुं यज्ञपतये । दैवी स्वस्तिरस्तु नः । स्वस्तिर्मानुषेभ्यः । ऊर्ध्वं जिगातु भेषजम् । शं नो अस्तु द्विपदे । शं चतुष्पदे १
tacchaṃyorāvṛṇīmahe | gātuṃ yajñāya | gātuṃ yajñapataye | daivī svastirastu naḥ | svastirmānuṣebhyaḥ | ūrdhvaṃ jigātu bheṣajam | śaṃ no astu dvipade | śaṃ catuṣpade 1
Sanskrit only: no published translation is held for this verse.
आप्यायस्व । सं ते । ।इह त्वष्टारमग्रियं। तन्नस्तुरीपम् । ।देवानां पत्नीरुशतीरवन्तु नः । प्रावन्तु नस्तुजये वाजसातये । याः पार्थिवासो या अपामपि व्रते । ता नो देवीः सुहवाः शर्म यच्छत । उत ग्ना वियन्तु देवपत्नीः । इन्द्रा ण्यग्नाय्यश्विनी राट् । आ रोदसी वरुणानी शृणोतु । वियन्तु देवीर्य ऋतुर्जनीनाम् १
अग्निर्होता गृहपतिः स राजा । विश्वा वेद जनिमा जातवेदाः । देवानामुत यो मर्त्यानाम् । यजिष्ठः स प्रयजतामृतावा । वयमु त्वा गृहपते जनानाम् । अग्ने अकर्म समिधा बृहन्तम् । अस्थूरिणो गार्हपत्यानि सन्तु । तिग्मेन नस्तेजसा सꣳ शिशाधि २
āpyāyasva | saṃ te | |iha tvaṣṭāramagriyaṃ| tannasturīpam | |devānāṃ patnīruśatīravantu naḥ | prāvantu nastujaye vājasātaye | yāḥ pārthivāso yā apāmapi vrate | tā no devīḥ suhavāḥ śarma yacchata | uta gnā viyantu devapatnīḥ | indrā ṇyagnāyyaśvinī rāṭ | ā rodasī varuṇānī śṛṇotu | viyantu devīrya ṛturjanīnām 1
agnirhotā gṛhapatiḥ sa rājā | viśvā veda janimā jātavedāḥ | devānāmuta yo martyānām | yajiṣṭhaḥ sa prayajatāmṛtāvā | vayamu tvā gṛhapate janānām | agne akarma samidhā bṛhantam | asthūriṇo gārhapatyāni santu | tigmena nastejasā sam̐ śiśādhi 2
Sanskrit only: no published translation is held for this verse.
अञ्जन्ति त्वामध्वरे देवयन्तः । वनस्पते मधुना दैव्येन । यदूर्ध्वस्तिष्ठाद्द्रविणेह धत्तात् । यद्वा क्षयो मातुरस्या उपस्थे । उच्छ्रयस्व वनस्पते । वर्षमन्पृथिव्या अधि । सुमिती मीयमानः । वर्चो धा यज्ञवाहसे । समिद्धस्य श्रयमाणः पुरस्तात् । ब्रह्म वन्वानो अजरꣳ सुवीरम् १
आरे अस्मदमतिं बाधमानः । उच्छ्रयस्व महते सौभगाय । ऊर्ध्व ऊ षु ण ऊतये । तिष्ठा देवो न सविता । ऊर्ध्वो वाजस्य सनिता यदञ्जिभिः । वाघद्भिर्विह्वयामहे । ऊर्ध्वो नः पाह्यꣳहसो निकेतुना । विश्वꣳ समत्त्रिणं दह । कृधी न ऊर्ध्वान्च रथाय जीवसे । विदा देवेषु नो दुवः २
जातो जायते सुदिनत्वे अह्नाम् । स मर्य आ विदथे वर्धमानः । पुनन्ति धीरा अपसो मनीषा । देवया विप्र उदिर्यति वाचम् । युवा सुवासाः परिवीत आगात् । स उ श्रेयान्भवति जायमानः । तं धीरासः कवय उन्नयन्ति । स्वाधियो मनसा देवयन्तः । पृथुपाजा अमर्त्यः । घृतनिर्णिक्स्वाहुतः । अग्निर्यज्ञस्य हव्यवाट् । तꣳ सबाधो यतस्रुचः । इत्था धिया यज्ञवन्तः । आचक्रुरग्निमूतये । त्वं वरुण उत मित्रो अग्ने । त्वां वर्धन्ति मतिभिर्वसिष्ठाः । त्वे वसु सुषणनानि सन्तु । यूयं पात स्वस्तिभिः सदा नः ३
añjanti tvāmadhvare devayantaḥ | vanaspate madhunā daivyena | yadūrdhvastiṣṭhāddraviṇeha dhattāt | yadvā kṣayo māturasyā upasthe | ucchrayasva vanaspate | varṣamanpṛthivyā adhi | sumitī mīyamānaḥ | varco dhā yajñavāhase | samiddhasya śrayamāṇaḥ purastāt | brahma vanvāno ajaram̐ suvīram 1
āre asmadamatiṃ bādhamānaḥ | ucchrayasva mahate saubhagāya | ūrdhva ū ṣu ṇa ūtaye | tiṣṭhā devo na savitā | ūrdhvo vājasya sanitā yadañjibhiḥ | vāghadbhirvihvayāmahe | ūrdhvo naḥ pāhyam̐haso niketunā | viśvam̐ samattriṇaṃ daha | kṛdhī na ūrdhvānca rathāya jīvase | vidā deveṣu no duvaḥ 2
jāto jāyate sudinatve ahnām | sa marya ā vidathe vardhamānaḥ | punanti dhīrā apaso manīṣā | devayā vipra udiryati vācam | yuvā suvāsāḥ parivīta āgāt | sa u śreyānbhavati jāyamānaḥ | taṃ dhīrāsaḥ kavaya unnayanti | svādhiyo manasā devayantaḥ | pṛthupājā amartyaḥ | ghṛtanirṇiksvāhutaḥ | agniryajñasya havyavāṭ | tam̐ sabādho yatasrucaḥ | itthā dhiyā yajñavantaḥ | ācakruragnimūtaye | tvaṃ varuṇa uta mitro agne | tvāṃ vardhanti matibhirvasiṣṭhāḥ | tve vasu suṣaṇanāni santu | yūyaṃ pāta svastibhiḥ sadā naḥ 3
Sanskrit only: no published translation is held for this verse.
होता यक्षदग्निꣳ समिधा सुषमिधा समिद्धं नाभा पृथिव्याः संगथे वामस्य । वर्ष्मन्दिव इडस्पदे वेत्वाज्यस्य होतर्यज । होता यक्षत्तनूनपातमदितेर्गर्भं भुवनस्य गोपाम् । मध्वाद्य देवो देवेभ्यो देवयानान्पथो अनक्तु वेत्वाज्यस्य होतर्यज । होता यक्षन्नराशꣳसं नृशस्त्रं नॄꣳक्त्रणेत्रम् । गोभिर्वपावान्त्स्याद्वीरैः शक्तीवान्रथैः प्रथमयावा हिरण्यैश्चन्द्री वेत्वाज्यस्य होतर्यज । होता यक्षदग्निमिड ईडितो देवो देवाꣳ आवक्षद्दूतो हव्यवाडमूरः । उपेमं यज्ञमुपेमां देवो देवहूतिमवतु वेत्वाज्यस्य होतर्यज । होता यक्षद्बर्हिः सुष्टरीमोर्णम्रदा अस्मिन्यज्ञे वि च प्र च प्रथताꣳ स्वासस्थं देवेभ्यः । एमेनदद्य वसवो रुद्रा आदित्याः सदन्तु प्रियमिन्द्र स्यास्तु वेत्वाज्यस्य होतर्यज १
होता यक्षद्दुर ऋष्वाः कवष्योऽकोषधावनीरुदाताभिर्जिहतां वि पक्षोभिः श्रयन्ताम् । सुप्रायणा अस्मिन्यज्ञे विश्रयन्तामृतावृधो वियन्त्वाज्यस्य होतर्यज । होता यक्षदुषासानक्ता बृहती सुपेशसा नॄꣳक्त्!अतिभ्यो योनिं कृण्वाने । सꣳस्मयमाने इन्द्रे ण देवैरेदं बर्हिः सीदतां वीतामाज्यस्य होतर्यज । होता यक्षद्दैव्या होतारा मन्द्रा पोतारा कवी प्रचेतसा । स्विष्टमद्यान्यः करदिषा स्वभिगूर्तमन्य ऊर्जा सतवसेमं यज्ञं दिवि देवेषु धत्तां वीतामाज्यस्य होतर्यज २
होता यक्षत्तिस्रो देवीरपसामपस्तमा अच्छिद्र मद्येदमपस्तन्वताम् । देवेभ्यो देवीर्देवमपो वियन्त्वाज्यस्य होतर्यज । होता यक्षत्त्वष्टारमचिष्टुमपाकꣳ रेतोधां विश्रवसं यशोधाम् । पुरुरूपमकामकर्शनꣳ सुपोषः पोषैः स्यात्सुवीरो वीरैर्वेत्वाज्यस्य होतर्यज । होता यक्षद्वनस्पतिमुपावस्रक्षद्धियो जोष्टारꣳ शशमन्नरः । स्वदात्स्वधितिरृतुथाद्य देवो देवेभ्यो हव्यावाड्वेत्वाज्यस्य होतर्यज । होता यक्षदग्निꣳ स्वाहाज्यस्य स्वाहा मेदसः स्वाहा स्तोकानाꣳ स्वाहा स्वाहाकृतीनाꣳ स्वाहा हव्यसूक्तीनाम् । स्वाहा देवाꣳ आज्यपान्त्स्वा-हाग्निꣳ होत्राज्जुषाणा अग्न अज्यस्य वियन्तु होतर्यज ३
hotā yakṣadagnim̐ samidhā suṣamidhā samiddhaṃ nābhā pṛthivyāḥ saṃgathe vāmasya | varṣmandiva iḍaspade vetvājyasya hotaryaja | hotā yakṣattanūnapātamaditergarbhaṃ bhuvanasya gopām | madhvādya devo devebhyo devayānānpatho anaktu vetvājyasya hotaryaja | hotā yakṣannarāśam̐saṃ nṛśastraṃ nṝm̐ktraṇetram | gobhirvapāvāntsyādvīraiḥ śaktīvānrathaiḥ prathamayāvā hiraṇyaiścandrī vetvājyasya hotaryaja | hotā yakṣadagnimiḍa īḍito devo devām̐ āvakṣaddūto havyavāḍamūraḥ | upemaṃ yajñamupemāṃ devo devahūtimavatu vetvājyasya hotaryaja | hotā yakṣadbarhiḥ suṣṭarīmorṇamradā asminyajñe vi ca pra ca prathatām̐ svāsasthaṃ devebhyaḥ | emenadadya vasavo rudrā ādityāḥ sadantu priyamindra syāstu vetvājyasya hotaryaja 1
hotā yakṣaddura ṛṣvāḥ kavaṣyo'koṣadhāvanīrudātābhirjihatāṃ vi pakṣobhiḥ śrayantām | suprāyaṇā asminyajñe viśrayantāmṛtāvṛdho viyantvājyasya hotaryaja | hotā yakṣaduṣāsānaktā bṛhatī supeśasā nṝm̐kt!atibhyo yoniṃ kṛṇvāne | sam̐smayamāne indre ṇa devairedaṃ barhiḥ sīdatāṃ vītāmājyasya hotaryaja | hotā yakṣaddaivyā hotārā mandrā potārā kavī pracetasā | sviṣṭamadyānyaḥ karadiṣā svabhigūrtamanya ūrjā satavasemaṃ yajñaṃ divi deveṣu dhattāṃ vītāmājyasya hotaryaja 2
hotā yakṣattisro devīrapasāmapastamā acchidra madyedamapastanvatām | devebhyo devīrdevamapo viyantvājyasya hotaryaja | hotā yakṣattvaṣṭāramaciṣṭumapākam̐ retodhāṃ viśravasaṃ yaśodhām | pururūpamakāmakarśanam̐ supoṣaḥ poṣaiḥ syātsuvīro vīrairvetvājyasya hotaryaja | hotā yakṣadvanaspatimupāvasrakṣaddhiyo joṣṭāram̐ śaśamannaraḥ | svadātsvadhitirṛtuthādya devo devebhyo havyāvāḍvetvājyasya hotaryaja | hotā yakṣadagnim̐ svāhājyasya svāhā medasaḥ svāhā stokānām̐ svāhā svāhākṛtīnām̐ svāhā havyasūktīnām | svāhā devām̐ ājyapāntsvā-hāgnim̐ hotrājjuṣāṇā agna ajyasya viyantu hotaryaja 3
Sanskrit only: no published translation is held for this verse.
समिद्धो अद्य मनुषो दुरोणे । देवो देवान्यजसि जातवेदः । आ च वह मित्रमहश्चिकित्वान् । त्वं दूतः कविरसि प्रचेताः । तनूनपात्पथ ऋतस्य यानान् । मध्वा समञ्जन्त्स्वदया सुजिह्व । मन्मानि धीभिरुत यज्ञमृन्धन् । देवत्रा च कृणुह्यध्वरं नः । नराशꣳसस्य महिमानमेषाम् । उपस्तोषाम यजतस्य यज्ञैः १
ते सुक्रतवः शुचयो धियंधाः । स्वदन्तु देवा उभयानि हव्या । आजुह्वान ईड्यो वन्द्यश्च । आयाह्यग्ने वसुभिः सजोषाः । त्वं देवानामसि यह्व होता । स एनान्यक्षीषितो यजीयान् । प्राचीनं बर्हिः प्रदिशा पृथिव्याः । वस्तोरस्या वृज्यते अग्रे अह्नाम् । व्यु प्रथते वितरं वरीयः । देवेभ्यो अदितये स्योनम् २
व्यचस्वतीरुर्विया विश्रयन्ताम् । पतिभ्यो न जनयः शुम्भमानाः । देवीर्द्वारो बृहतीर्विश्वमिन्वाः । देवेभ्यो भवथ सुप्रायणाः । आ सुष्वयन्ती यजते उपाके । उषासानक्ता सदतां नि योनौ । दिव्ये योषणे बृहती सुरुक्मे । अधि श्रियꣳ शुक्रपिशं दधाने । दैव्या होतारा प्रथमा सुवाचा । मिमाना यज्ञं मनुषो यजध्यै ३
प्रचोदयन्ता विदथेषु कारू ।प्राचीनं ज्योतिः प्रदिशा दिशन्ता । आ नो यज्ञं भारती तूयमेतु । इडा मनुष्वदिह चेतयन्ती ।तिस्रो देवीर्बर्हिरेदꣳ स्योनम् । सरस्वतीः स्वपसः सदन्तु । य इमे द्यावापृथिवी जनित्री ।रूपैरपिꣳशद्भुवनानि विश्वा । तमद्य होतरिषितो यजीयान् । देवं त्वष्टारमिह यक्षि विद्वान् ४
उपावसृजत्त्मन्या समञ्जन् । देवानां पाथ ऋतुथा हवीꣳषि । वनस्पतिः शमिता देवो अग्निः । स्वदन्तु हव्यं मधुना घृतेन । सद्यो जातो व्यमिमीत यज्ञम् । अग्निर्देवानामभवत्पुरोगाः । अस्य होतुः प्रदिश्यृतस्य वाचि । स्वाहाकृतꣳ हविरदन्तु देवाः ५
samiddho adya manuṣo duroṇe | devo devānyajasi jātavedaḥ | ā ca vaha mitramahaścikitvān | tvaṃ dūtaḥ kavirasi pracetāḥ | tanūnapātpatha ṛtasya yānān | madhvā samañjantsvadayā sujihva | manmāni dhībhiruta yajñamṛndhan | devatrā ca kṛṇuhyadhvaraṃ naḥ | narāśam̐sasya mahimānameṣām | upastoṣāma yajatasya yajñaiḥ 1
te sukratavaḥ śucayo dhiyaṃdhāḥ | svadantu devā ubhayāni havyā | ājuhvāna īḍyo vandyaśca | āyāhyagne vasubhiḥ sajoṣāḥ | tvaṃ devānāmasi yahva hotā | sa enānyakṣīṣito yajīyān | prācīnaṃ barhiḥ pradiśā pṛthivyāḥ | vastorasyā vṛjyate agre ahnām | vyu prathate vitaraṃ varīyaḥ | devebhyo aditaye syonam 2
vyacasvatīrurviyā viśrayantām | patibhyo na janayaḥ śumbhamānāḥ | devīrdvāro bṛhatīrviśvaminvāḥ | devebhyo bhavatha suprāyaṇāḥ | ā suṣvayantī yajate upāke | uṣāsānaktā sadatāṃ ni yonau | divye yoṣaṇe bṛhatī surukme | adhi śriyam̐ śukrapiśaṃ dadhāne | daivyā hotārā prathamā suvācā | mimānā yajñaṃ manuṣo yajadhyai 3
pracodayantā vidatheṣu kārū |prācīnaṃ jyotiḥ pradiśā diśantā | ā no yajñaṃ bhāratī tūyametu | iḍā manuṣvadiha cetayantī |tisro devīrbarhiredam̐ syonam | sarasvatīḥ svapasaḥ sadantu | ya ime dyāvāpṛthivī janitrī |rūpairapim̐śadbhuvanāni viśvā | tamadya hotariṣito yajīyān | devaṃ tvaṣṭāramiha yakṣi vidvān 4
upāvasṛjattmanyā samañjan | devānāṃ pātha ṛtuthā havīm̐ṣi | vanaspatiḥ śamitā devo agniḥ | svadantu havyaṃ madhunā ghṛtena | sadyo jāto vyamimīta yajñam | agnirdevānāmabhavatpurogāḥ | asya hotuḥ pradiśyṛtasya vāci | svāhākṛtam̐ haviradantu devāḥ 5
Sanskrit only: no published translation is held for this verse.
अग्निर्होता नो अध्वरे । वाजी सन्परिणीयते । देवो देवेषु यज्ञियः । परि त्रिविष्ट्यध्वरम् । यात्यग्नी रथीरिव । आ देवेषु प्रयो दधत् । परि वाजपतिः कविः । अग्निर्हव्यान्यक्रमीत् । दधद्र त्नानि दाशुषे १
agnirhotā no adhvare | vājī sanpariṇīyate | devo deveṣu yajñiyaḥ | pari triviṣṭyadhvaram | yātyagnī rathīriva | ā deveṣu prayo dadhat | pari vājapatiḥ kaviḥ | agnirhavyānyakramīt | dadhadra tnāni dāśuṣe 1
Sanskrit only: no published translation is held for this verse.
अजैदग्निः । असनद्वाजं नि । देवो देवेभ्यो हव्या वाट् । प्राञ्जोभिर्हिन्वानः । धेनाभिः कल्पमानः । यज्ञस्यायुः प्रतिरन् । उपप्रेष्य होतः । हव्या देवेभ्यः १
ajaidagniḥ | asanadvājaṃ ni | devo devebhyo havyā vāṭ | prāñjobhirhinvānaḥ | dhenābhiḥ kalpamānaḥ | yajñasyāyuḥ pratiran | upapreṣya hotaḥ | havyā devebhyaḥ 1
Sanskrit only: no published translation is held for this verse.
दैव्याः शमितार उत मनुष्या आरभध्वम् । उपनयत मेध्या दुरः । आशासाना मेधपतिभ्यां मेधम् । प्रास्मा अग्निं भरत । स्तृणीत बर्हिः । अन्वेनं माता मन्यताम् । अनु पिता । अनु भ्राता सगर्भ्यः । अनु सखा सयूथ्यः । उदीचीनाꣳ अस्य पदो निधत्तात् १
सूर्यं चक्षुर्गमयतात् । वातं प्राणमन्ववसृजतात् । दिशः श्रोत्रम् । अन्तरि-क्षमसुम् । पृथिवीꣳ शरीरम् । एकधास्य त्वचमाच्छ्यतात् । पुरा नाभ्या अपिशसो वपामुत्खिदतात् । अन्तरेवोष्माणं वारयतात् । श्येनमस्य वक्षः कृणुतात् । प्रशसा बाहू २
शला दोषणी ।कश्यपेवाꣳसा अच्छिद्रे श्रोणी ।कवषोरू स्रेकपर्णाष्ठीवन्ता । षड्विꣳशतिरस्य वङ्क्रयः । ता अनुष्ठ्योच्च्यावयतात् । गात्रंगात्रमस्यानूनं कृणुतात् । ऊवध्यगूहं पार्थिवं खनतात् । अस्ना रक्षः सꣳसृजतात् । वनिष्ठुमस्य मा राविष्ट ३
उरूकं मन्यमानाः । नेद्वस्तोके तनये । रविता रवच्छमितारः । अध्रिगो शमीध्वम् । सुशमि शमीध्वम् । शमीध्वमध्रिगो । अध्रिगुश्चापापश्च । उभौ देवानाꣳ शमितारौ । ताविमं पशुꣳ श्रपयतां प्रविद्वाꣳसौ । यथायथास्य श्रपणं तथातथा ४
daivyāḥ śamitāra uta manuṣyā ārabhadhvam | upanayata medhyā duraḥ | āśāsānā medhapatibhyāṃ medham | prāsmā agniṃ bharata | stṛṇīta barhiḥ | anvenaṃ mātā manyatām | anu pitā | anu bhrātā sagarbhyaḥ | anu sakhā sayūthyaḥ | udīcīnām̐ asya pado nidhattāt 1
sūryaṃ cakṣurgamayatāt | vātaṃ prāṇamanvavasṛjatāt | diśaḥ śrotram | antari-kṣamasum | pṛthivīm̐ śarīram | ekadhāsya tvacamācchyatāt | purā nābhyā apiśaso vapāmutkhidatāt | antarevoṣmāṇaṃ vārayatāt | śyenamasya vakṣaḥ kṛṇutāt | praśasā bāhū 2
śalā doṣaṇī |kaśyapevām̐sā acchidre śroṇī |kavaṣorū srekaparṇāṣṭhīvantā | ṣaḍvim̐śatirasya vaṅkrayaḥ | tā anuṣṭhyoccyāvayatāt | gātraṃgātramasyānūnaṃ kṛṇutāt | ūvadhyagūhaṃ pārthivaṃ khanatāt | asnā rakṣaḥ sam̐sṛjatāt | vaniṣṭhumasya mā rāviṣṭa 3
urūkaṃ manyamānāḥ | nedvastoke tanaye | ravitā ravacchamitāraḥ | adhrigo śamīdhvam | suśami śamīdhvam | śamīdhvamadhrigo | adhriguścāpāpaśca | ubhau devānām̐ śamitārau | tāvimaṃ paśum̐ śrapayatāṃ pravidvām̐sau | yathāyathāsya śrapaṇaṃ tathātathā 4
Sanskrit only: no published translation is held for this verse.
जुषस्व सप्रथस्तमम् । वचो देवप्सरस्तमम् । हव्या जुह्वान आसनि । इमं नो यज्ञममृतेषु धेहि । इमा हव्या जातवेदो जुषस्व । स्तोकानामग्ने मेदसो घृतस्य । होतः प्राशान प्रथमो निषद्य । घृतवन्तः पावक ते । स्तोकाः श्चोतन्ति मेदसः । स्वधर्मं देववीतये १
श्रेष्ठं नो धेहि वार्यम् । तुभ्यꣳ स्तोका घृतश्चुतः । अग्ने विप्राय सन्त्य । ऋषिः श्रेष्ठः समिध्यसे । यज्ञस्य प्राविता भव । तुभ्यꣳ श्चोतन्त्यध्रिगो शचीवः । स्तोकासो अग्ने मेदसो घृतस्य । कविशस्तो बृहता भानुनागाः । हव्या जुषस्व मेधिर । ओजिष्ठं ते मध्यतो मेद उद्भृतम् । प्र ते वयं ददामहे । श्चोतन्ति ते वसो स्तोका अधि त्वचि । प्रति तान्देवशो विहि २
juṣasva saprathastamam | vaco devapsarastamam | havyā juhvāna āsani | imaṃ no yajñamamṛteṣu dhehi | imā havyā jātavedo juṣasva | stokānāmagne medaso ghṛtasya | hotaḥ prāśāna prathamo niṣadya | ghṛtavantaḥ pāvaka te | stokāḥ ścotanti medasaḥ | svadharmaṃ devavītaye 1
śreṣṭhaṃ no dhehi vāryam | tubhyam̐ stokā ghṛtaścutaḥ | agne viprāya santya | ṛṣiḥ śreṣṭhaḥ samidhyase | yajñasya prāvitā bhava | tubhyam̐ ścotantyadhrigo śacīvaḥ | stokāso agne medaso ghṛtasya | kaviśasto bṛhatā bhānunāgāḥ | havyā juṣasva medhira | ojiṣṭhaṃ te madhyato meda udbhṛtam | pra te vayaṃ dadāmahe | ścotanti te vaso stokā adhi tvaci | prati tāndevaśo vihi 2
Sanskrit only: no published translation is held for this verse.
आ वृत्रहणा वृत्रहभिः शुष्मैः । इन्द्र यातं नमोभिरग्ने अर्वाक् । युवꣳ राधोभिरकवेभिरिन्द्र । अग्ने अस्मे भवतमुत्तमेभिः । होता यक्षदिन्द्रा ग्नी ।छागस्य वपाया मेदसः । जुषेताꣳ हविः । होतर्यज । वि ह्यख्यन्मनसा वस्य इच्छन् । इन्द्रा ग्नी ज्ञास उत वा सजातान् १
नान्या युवत्प्रमतिरस्ति मह्यम् । स वां धियं वाजयन्तीमतक्षम् । होता यक्षदिन्द्रा ग्नी ।पुरोडाशस्य जुषेताꣳ हविः । होतर्यज । त्वामीडते अजिरं दूत्याय । हविष्मन्तः सदमिन्मानुषासः । यस्य देवैरासदो बर्हिरग्ने । अहान्यस्मै सुदिना भवन्तु । होता यक्षदग्निम् । पुरोडाशस्य जुषताꣳ हविः । होतर्यज २
ā vṛtrahaṇā vṛtrahabhiḥ śuṣmaiḥ | indra yātaṃ namobhiragne arvāk | yuvam̐ rādhobhirakavebhirindra | agne asme bhavatamuttamebhiḥ | hotā yakṣadindrā gnī |chāgasya vapāyā medasaḥ | juṣetām̐ haviḥ | hotaryaja | vi hyakhyanmanasā vasya icchan | indrā gnī jñāsa uta vā sajātān 1
nānyā yuvatpramatirasti mahyam | sa vāṃ dhiyaṃ vājayantīmatakṣam | hotā yakṣadindrā gnī |puroḍāśasya juṣetām̐ haviḥ | hotaryaja | tvāmīḍate ajiraṃ dūtyāya | haviṣmantaḥ sadaminmānuṣāsaḥ | yasya devairāsado barhiragne | ahānyasmai sudinā bhavantu | hotā yakṣadagnim | puroḍāśasya juṣatām̐ haviḥ | hotaryaja 2
Sanskrit only: no published translation is held for this verse.
गीर्भिर्विप्रः प्रमतिमिच्छमानः । ईट्टे रयिं यशसं पूर्वभाजम् । इन्द्रा ग्नी वृत्रहणा सुवज्रा । प्र णो नव्येभिस्तिरतं देष्णैः । मा च्छेद्म रश्मीꣳरिति नाधमानाः । पितृणाꣳ शक्तीरनुयच्छमानाः । इन्द्रा ग्निभ्यां कं वृषणो मदन्ति । ता ह्यद्री धिषणाया उपस्थे । अग्निꣳ सुदीतिꣳ सुदृशं गृणन्तः । नमस्यामस्त्वेड्यं जातवेदः । त्वां दूतमरतिꣳ हव्यवाहम् । देवा अकृण्वन्नमृतस्य नाभिम् १
gīrbhirvipraḥ pramatimicchamānaḥ | īṭṭe rayiṃ yaśasaṃ pūrvabhājam | indrā gnī vṛtrahaṇā suvajrā | pra ṇo navyebhistirataṃ deṣṇaiḥ | mā cchedma raśmīm̐riti nādhamānāḥ | pitṛṇām̐ śaktīranuyacchamānāḥ | indrā gnibhyāṃ kaṃ vṛṣaṇo madanti | tā hyadrī dhiṣaṇāyā upasthe | agnim̐ sudītim̐ sudṛśaṃ gṛṇantaḥ | namasyāmastveḍyaṃ jātavedaḥ | tvāṃ dūtamaratim̐ havyavāham | devā akṛṇvannamṛtasya nābhim 1
Sanskrit only: no published translation is held for this verse.
त्वꣳ ह्यग्ने प्रथमो मनोता । अस्या धियो अभवो दस्म होता । त्वꣳ सीं वृषन्नकृणोर्दुष्टरीतु । सहो विश्वस्मै सहसे सहध्यै । अधा होता न्यसीदो यजीयान् । इडस्पद इषयन्नीड्यः सन् । तं त्वा नरः प्रथमं देवयन्तः । महो राये चितयन्तो अनुग्मन् । वृतेव यन्तं बहुभिर्वसव्यैः । त्वे रयिं जागृवाꣳसो अनुग्मन् १
रुशन्तमग्निं दर्शतं बृहन्तम् । वपावन्तं विश्वहा दीदिवाꣳसम् । पदं देवस्य नमसा वियन्तः । श्रवस्यवः श्रव आपन्नमृक्तम् । नामानि चिद्दधिरे यज्ञियानि । भद्रा यां ते रणयन्त संदृष्टौ । त्वां वर्धन्ति क्षितयः पृथिव्याम् । त्वꣳ राय उभयासो जनानाम् । त्वं त्राता तरणे चेत्योऽभूः । पिता माता सदमि-न्मानुषाणाम् २
स पर्येण्यः स प्रियो विक्ष्वग्निः । होता मन्द्रो निषसादा यजीयान् । तं त्वा वयं दम आ दीदिवाꣳसम् । उप ज्ञुबाधो नमसा सदेम । तं त्वा वयꣳ सुधियो नव्यमग्ने । सुम्नायव ईमहे देवयन्तः । त्वं विशो अनयो दीद्यानः । दिवो अग्ने बृहता रोचनेन । विशां कविं विश्पतिꣳ शश्वतीनाम् । नितोशनं वृषभं चर्षणीनाम् ३
प्रेतीषणिमिषयन्तं पावकम् । राजन्तमग्निं यजतꣳ रयीणाम् । सो अग्न ईजे शशमे च मर्तः । यस्त आनट्समिधा हव्यदातिम् । य आहुतिं परि वेदा नमोभिः । विश्वेत्स वामा दधते त्वोतः । अस्मा उ ते महि महे विधेम । नमोभिरग्ने समिधोत हव्यैः । वेदी सूनो सहसो गीर्भिरुक्थैः । आ ते भद्रा याꣳ सुमतौ यतेम ४
आ यस्ततन्थ रोदसी वि भासा । श्रवोभिश्च श्रवस्यस्तरुत्रः । बृहद्भिर्वाजैः स्थविरेभिरस्मे । रेवद्भिरग्ने वितरं विभाहि । नृवद्वसो सदमिद्धेह्यस्मे । भूरि तोकाय तनयाय पश्वः । पूर्वीरिषो बृहतीरारे अघाः । अस्मे भद्रा सौश्रवसानि सन्तु । पुरूण्यग्ने पुरुधा त्वाया । वसूनि राजन्वसुता ते अश्याम् । पुरूणि हि त्वे पुरुवार सन्ति । अग्ने वसु विधते राजनि त्वे ५
tvam̐ hyagne prathamo manotā | asyā dhiyo abhavo dasma hotā | tvam̐ sīṃ vṛṣannakṛṇorduṣṭarītu | saho viśvasmai sahase sahadhyai | adhā hotā nyasīdo yajīyān | iḍaspada iṣayannīḍyaḥ san | taṃ tvā naraḥ prathamaṃ devayantaḥ | maho rāye citayanto anugman | vṛteva yantaṃ bahubhirvasavyaiḥ | tve rayiṃ jāgṛvām̐so anugman 1
ruśantamagniṃ darśataṃ bṛhantam | vapāvantaṃ viśvahā dīdivām̐sam | padaṃ devasya namasā viyantaḥ | śravasyavaḥ śrava āpannamṛktam | nāmāni ciddadhire yajñiyāni | bhadrā yāṃ te raṇayanta saṃdṛṣṭau | tvāṃ vardhanti kṣitayaḥ pṛthivyām | tvam̐ rāya ubhayāso janānām | tvaṃ trātā taraṇe cetyo'bhūḥ | pitā mātā sadami-nmānuṣāṇām 2
sa paryeṇyaḥ sa priyo vikṣvagniḥ | hotā mandro niṣasādā yajīyān | taṃ tvā vayaṃ dama ā dīdivām̐sam | upa jñubādho namasā sadema | taṃ tvā vayam̐ sudhiyo navyamagne | sumnāyava īmahe devayantaḥ | tvaṃ viśo anayo dīdyānaḥ | divo agne bṛhatā rocanena | viśāṃ kaviṃ viśpatim̐ śaśvatīnām | nitośanaṃ vṛṣabhaṃ carṣaṇīnām 3
pretīṣaṇimiṣayantaṃ pāvakam | rājantamagniṃ yajatam̐ rayīṇām | so agna īje śaśame ca martaḥ | yasta ānaṭsamidhā havyadātim | ya āhutiṃ pari vedā namobhiḥ | viśvetsa vāmā dadhate tvotaḥ | asmā u te mahi mahe vidhema | namobhiragne samidhota havyaiḥ | vedī sūno sahaso gīrbhirukthaiḥ | ā te bhadrā yām̐ sumatau yatema 4
ā yastatantha rodasī vi bhāsā | śravobhiśca śravasyastarutraḥ | bṛhadbhirvājaiḥ sthavirebhirasme | revadbhiragne vitaraṃ vibhāhi | nṛvadvaso sadamiddhehyasme | bhūri tokāya tanayāya paśvaḥ | pūrvīriṣo bṛhatīrāre aghāḥ | asme bhadrā sauśravasāni santu | purūṇyagne purudhā tvāyā | vasūni rājanvasutā te aśyām | purūṇi hi tve puruvāra santi | agne vasu vidhate rājani tve 5
Sanskrit only: no published translation is held for this verse.
आ भरतꣳ शिक्षतं वज्रबाहू ।अस्माꣳ इन्द्रा ग्नी अवतꣳ शचीभिः । इमे नु ते रश्मयः सूर्यस्य । येभिः सपित्वं पितरो न आयन् । होता यक्षदिन्द्रा ग्नी ।छागस्य हविष आत्तामद्य । मध्यतो मेद उद्भृतम् । पुरा द्वेषोभ्यः । पुरा पौरुषेय्या गृभः । घस्तां नूनम् १
घासेऽज्राणां यवसप्रथमानाम् । सुमत्क्षराणाꣳ शतरुद्रि याणाम् । अग्निष्वात्तानां पीवोपवसनानाम् । पार्श्वतः श्रोणितः शितामत उत्सादतः । अङ्गाद-ङ्गादवत्तानाम् । करत एवेन्द्र ग्नी ।जुषेताꣳ हविः । होतर्यज । देवेभ्यो वनस्पते हवीꣳषि । हिरण्यपर्ण प्रदिवस्ते अर्थम् २
प्रदक्षिणिद्र शनया नियूय । ऋतस्य वक्षि पथिभी रजिष्ठैः । होता यक्षद्वन-स्पतिम् । अभि हि । पिष्टतमया रभिष्ठया रशनयाधित । यत्रेन्द्रा ग्नियोश्छा-गस्य हविषः प्रिया धामानि । यत्र वनस्पतेः प्रिया पाथाꣳसि । यत्र देवाना-माज्यपानां प्रिया धामानि । यत्राग्नेर्होतुः प्रिया धामानि । तत्रैतं प्रस्तुत्ये-वोपस्तुत्येवोपावस्रक्षत् । रभीयाꣳसमिव कृत्वी ३
करदेवं देवो वनस्पतिः । जुषताꣳ हविः । होतर्यज । पिप्रीहि देवाꣳ उशतो यविष्ठ । विद्वाꣳ ऋतूꣳ ऋतुपते यजेह । ये दैव्या ऋत्विजस्तेभिरग्ने । त्वꣳ होतॄणामस्यायजिष्ठाः । होता यक्षदग्निꣳ स्विष्टकृतम् । अयाडग्निरिन्द्रा ग्नियो-श्छागस्य हविषः प्रिया धामानि । अयाड्वनस्पतेः प्रिया पाथाꣳसि । अया-ड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर्होतुः प्रिया धामानि । यक्षत्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । होतर्यज ४
ā bharatam̐ śikṣataṃ vajrabāhū |asmām̐ indrā gnī avatam̐ śacībhiḥ | ime nu te raśmayaḥ sūryasya | yebhiḥ sapitvaṃ pitaro na āyan | hotā yakṣadindrā gnī |chāgasya haviṣa āttāmadya | madhyato meda udbhṛtam | purā dveṣobhyaḥ | purā pauruṣeyyā gṛbhaḥ | ghastāṃ nūnam 1
ghāse'jrāṇāṃ yavasaprathamānām | sumatkṣarāṇām̐ śatarudri yāṇām | agniṣvāttānāṃ pīvopavasanānām | pārśvataḥ śroṇitaḥ śitāmata utsādataḥ | aṅgāda-ṅgādavattānām | karata evendra gnī |juṣetām̐ haviḥ | hotaryaja | devebhyo vanaspate havīm̐ṣi | hiraṇyaparṇa pradivaste artham 2
pradakṣiṇidra śanayā niyūya | ṛtasya vakṣi pathibhī rajiṣṭhaiḥ | hotā yakṣadvana-spatim | abhi hi | piṣṭatamayā rabhiṣṭhayā raśanayādhita | yatrendrā gniyośchā-gasya haviṣaḥ priyā dhāmāni | yatra vanaspateḥ priyā pāthām̐si | yatra devānā-mājyapānāṃ priyā dhāmāni | yatrāgnerhotuḥ priyā dhāmāni | tatraitaṃ prastutye-vopastutyevopāvasrakṣat | rabhīyām̐samiva kṛtvī 3
karadevaṃ devo vanaspatiḥ | juṣatām̐ haviḥ | hotaryaja | piprīhi devām̐ uśato yaviṣṭha | vidvām̐ ṛtūm̐ ṛtupate yajeha | ye daivyā ṛtvijastebhiragne | tvam̐ hotṝṇāmasyāyajiṣṭhāḥ | hotā yakṣadagnim̐ sviṣṭakṛtam | ayāḍagnirindrā gniyo-śchāgasya haviṣaḥ priyā dhāmāni | ayāḍvanaspateḥ priyā pāthām̐si | ayā-ḍdevānāmājyapānāṃ priyā dhāmāni | yakṣadagnerhotuḥ priyā dhāmāni | yakṣatsvaṃ mahimānam | āyajatāmejyā iṣaḥ | kṛṇotu so adhvarā jātavedāḥ | juṣatām̐ haviḥ | hotaryaja 4
Sanskrit only: no published translation is held for this verse.
उपो ह यद्विदथं वाजिनो गूः । गीर्भिर्विप्राः प्रमतिमिच्छमानाः । अर्वन्तो न काष्ठां नक्षमाणाः । इन्द्रा ग्नी जोहुवतो नरस्ते । वनसपते रशनयाभिधाय । पिष्टतमया वयुनानि विद्वान् । वह देवत्रा दिधिषो हवीꣳषि । प्र च दातारममृतेषु वोचः । अग्निꣳ स्विष्टकृतम् । अयाडग्निरिन्द्रा ग्नियोश्छागस्य हविषः प्रिया धामानि १
अयाड्वनस्पतेः प्रिया पाथाꣳसि । अयाड्देवानामाज्यपानां प्रिया धामानि । यक्षदग्नेर्होतुः । प्रिया धामानि । यक्षत्स्वं महिमानम् । आयजतामेज्या इषः । कृणोतु सो अध्वरा जातवेदाः । जुषताꣳ हविः । अग्ने यदद्य विशो अध्वरस्य होतः । पावकशोचे वेष्ट्वꣳ हि यज्वा । ऋता यजासि महिना वि यद्भूः । हव्या वह यविष्ठ या ते अद्य २
upo ha yadvidathaṃ vājino gūḥ | gīrbhirviprāḥ pramatimicchamānāḥ | arvanto na kāṣṭhāṃ nakṣamāṇāḥ | indrā gnī johuvato naraste | vanasapate raśanayābhidhāya | piṣṭatamayā vayunāni vidvān | vaha devatrā didhiṣo havīm̐ṣi | pra ca dātāramamṛteṣu vocaḥ | agnim̐ sviṣṭakṛtam | ayāḍagnirindrā gniyośchāgasya haviṣaḥ priyā dhāmāni 1
ayāḍvanaspateḥ priyā pāthām̐si | ayāḍdevānāmājyapānāṃ priyā dhāmāni | yakṣadagnerhotuḥ | priyā dhāmāni | yakṣatsvaṃ mahimānam | āyajatāmejyā iṣaḥ | kṛṇotu so adhvarā jātavedāḥ | juṣatām̐ haviḥ | agne yadadya viśo adhvarasya hotaḥ | pāvakaśoce veṣṭvam̐ hi yajvā | ṛtā yajāsi mahinā vi yadbhūḥ | havyā vaha yaviṣṭha yā te adya 2
Sanskrit only: no published translation is held for this verse.
देवं बर्हिः सुदेवं देवैः स्यात्सुवीरं वीरैर्वस्तोर्वृज्येताक्तोः प्रभ्रियेतात्यन्यान्राया बर्हिष्मतो मदेम वसुवने वसुधेयस्य वेतु यज । देवीर्द्वारः संघाते विड्वीर्यामञ्शिथिरा ध्रुवा देवहूतौ वत्स ईमेनास्तरुण आमिमीयात्कुमारो वा नवजातो मैना अर्वा रेणुककाटः पृणग् । वसुवने वसुधेयस्य वियन्तु यज । देवी उषासानक्ताद्यास्मिन्यज्ञे प्रयत्यह्वेतामपि नूनं दैवीर्विशः प्रायासिष्टाꣳ सुप्रीते सुधिते वसुवने वसुधेयस्य वीतां यज । देवी जोष्ट्री वसुधिती ययोरन्याघा द्वेषाꣳसि युयवदान्या वक्षद्वसु वार्याणि यजमानाय वसुवने वसुधेयस्य वीतां यज । देवी ऊर्जाहुती इषमूर्जमन्यावक्षत्सग्धिꣳ सपीतिमन्या नवेन पूर्वं दयमानाः स्याम पुराणेन नवं तामूर्जमूर्जाहुती ऊर्जयमाने अदःतां वसुवने वसुधेयस्य वीतां यज । देवा दैव्या होतारा नेष्टारा पोतारा हताघशꣳसावाभरद्वसू वसुवने वसुधेयस्य वीतां यज । देवीस्तिस्रस्तिस्रो देवीरिडा सरस्वती भारती द्यां भारत्यादित्यैरस्पृक्षत्सरस्वतीमꣳ रुद्रै र्यज्ञमावीदिहैवेडया वसुमत्या सधमादं मदेम वसुवने वसुधेयस्य वियन्तु यज । देवो नराशꣳसस्त्रिशीर्षा षडक्षः शतमिदेनꣳ शितिपृष्ठा आदधति सहस्रमीं प्रवहन्ति मित्रावरुणेदस्य होत्रमर्हतो बृहस्पतिः स्तोत्रमश्विनाध्वर्यवं वसुवने वसुधेयस्य वेतु यज । देवो वनस्पतिर्वर्षप्रावा घृतनिर्णिग्द्यामग्रेणास्पृक्ष-दान्तरिक्षं मध्येनाप्राः पृथिवीमुपरेणादृꣳहीद्वसुवने वसुधेयस्य वेतु यज । देवं बर्हिर्वारितीनां निधे धासि प्रच्युतीनामप्रच्युतं निकामधरणं पुरुस्पार्हं यशस्वदेना बर्हिषान्या बर्हीꣳष्यभिष्याम वसुवने वसुधेयस्य वेतु यज । देवो अग्निः स्विष्टकृत्सुद्र विणा मन्द्रः कविः सत्यमन्मायजी होता होतुर्होतुरा-यजीयानग्ने यान्देवानयाड्याꣳ अपिप्रेर्ये ते होत्रे अमत्सत ताꣳ ससनुषीꣳ होत्रां देवंगमां दिवि देवेषु यज्ञमेरयेमꣳ स्विष्टकृच्चाग्ने होताभूर्वसुवने वसुधेयस्य नमोवाके वीहि यज १
devaṃ barhiḥ sudevaṃ devaiḥ syātsuvīraṃ vīrairvastorvṛjyetāktoḥ prabhriyetātyanyānrāyā barhiṣmato madema vasuvane vasudheyasya vetu yaja | devīrdvāraḥ saṃghāte viḍvīryāmañśithirā dhruvā devahūtau vatsa īmenāstaruṇa āmimīyātkumāro vā navajāto mainā arvā reṇukakāṭaḥ pṛṇag | vasuvane vasudheyasya viyantu yaja | devī uṣāsānaktādyāsminyajñe prayatyahvetāmapi nūnaṃ daivīrviśaḥ prāyāsiṣṭām̐ suprīte sudhite vasuvane vasudheyasya vītāṃ yaja | devī joṣṭrī vasudhitī yayoranyāghā dveṣām̐si yuyavadānyā vakṣadvasu vāryāṇi yajamānāya vasuvane vasudheyasya vītāṃ yaja | devī ūrjāhutī iṣamūrjamanyāvakṣatsagdhim̐ sapītimanyā navena pūrvaṃ dayamānāḥ syāma purāṇena navaṃ tāmūrjamūrjāhutī ūrjayamāne adaḥtāṃ vasuvane vasudheyasya vītāṃ yaja | devā daivyā hotārā neṣṭārā potārā hatāghaśam̐sāvābharadvasū vasuvane vasudheyasya vītāṃ yaja | devīstisrastisro devīriḍā sarasvatī bhāratī dyāṃ bhāratyādityairaspṛkṣatsarasvatīmam̐ rudrai ryajñamāvīdihaiveḍayā vasumatyā sadhamādaṃ madema vasuvane vasudheyasya viyantu yaja | devo narāśam̐sastriśīrṣā ṣaḍakṣaḥ śatamidenam̐ śitipṛṣṭhā ādadhati sahasramīṃ pravahanti mitrāvaruṇedasya hotramarhato bṛhaspatiḥ stotramaśvinādhvaryavaṃ vasuvane vasudheyasya vetu yaja | devo vanaspatirvarṣaprāvā ghṛtanirṇigdyāmagreṇāspṛkṣa-dāntarikṣaṃ madhyenāprāḥ pṛthivīmupareṇādṛm̐hīdvasuvane vasudheyasya vetu yaja | devaṃ barhirvāritīnāṃ nidhe dhāsi pracyutīnāmapracyutaṃ nikāmadharaṇaṃ puruspārhaṃ yaśasvadenā barhiṣānyā barhīm̐ṣyabhiṣyāma vasuvane vasudheyasya vetu yaja | devo agniḥ sviṣṭakṛtsudra viṇā mandraḥ kaviḥ satyamanmāyajī hotā hoturhoturā-yajīyānagne yāndevānayāḍyām̐ apiprerye te hotre amatsata tām̐ sasanuṣīm̐ hotrāṃ devaṃgamāṃ divi deveṣu yajñamerayemam̐ sviṣṭakṛccāgne hotābhūrvasuvane vasudheyasya namovāke vīhi yaja 1
Sanskrit only: no published translation is held for this verse.
देवं बर्हिः । वसुवने वसुधेयस्य वेतु । देवीर्द्वारः । वसुवने वसुधेयस्य वियन्तु । देवी उषासानक्ता । वसुवने वसुधेयस्य वीताम् । देवी जोष्ट्री ।वसुवने वसुधेयस्य वीताम् । देवी ऊर्जाहुती ।वसुवने वसुधेयस्य वीताम् १
देवा दैव्या होतारा । वसुवने वसुधेयस्य वीताम् । देवीस्तिस्रस्तिस्रो देवीः । वसुवने वसुधेयस्य वियन्तु । देवो नराशꣳसः । वसुवने वसुधेयस्य वेतु । देवो वनस्पतिः । वसुवने वसुधेयस्य वेतु । देवं बर्हिर्वारितीनाम् । वसुवने वसुधेयस्य वेतु २
देवो अग्निर्स्विष्टकृत् । सुद्र विणा मन्द्रः कविः । सत्यमन्मायजी होता । होतुर्होतुरायजीयान् । अग्ने यान्देवानयाट् । याꣳ अपिप्रेः । ये ते होत्रे अमत्सत । ताꣳ ससनुषीꣳ होत्रां देवंगमाम् । दिवि देवेषु यज्ञमेरयेमम् । स्विष्टकृच्चाग्ने होताभुः । वसुवने वसुधेयस्य नमोवाके वीहि ३
devaṃ barhiḥ | vasuvane vasudheyasya vetu | devīrdvāraḥ | vasuvane vasudheyasya viyantu | devī uṣāsānaktā | vasuvane vasudheyasya vītām | devī joṣṭrī |vasuvane vasudheyasya vītām | devī ūrjāhutī |vasuvane vasudheyasya vītām 1
devā daivyā hotārā | vasuvane vasudheyasya vītām | devīstisrastisro devīḥ | vasuvane vasudheyasya viyantu | devo narāśam̐saḥ | vasuvane vasudheyasya vetu | devo vanaspatiḥ | vasuvane vasudheyasya vetu | devaṃ barhirvāritīnām | vasuvane vasudheyasya vetu 2
devo agnirsviṣṭakṛt | sudra viṇā mandraḥ kaviḥ | satyamanmāyajī hotā | hoturhoturāyajīyān | agne yāndevānayāṭ | yām̐ apipreḥ | ye te hotre amatsata | tām̐ sasanuṣīm̐ hotrāṃ devaṃgamām | divi deveṣu yajñamerayemam | sviṣṭakṛccāgne hotābhuḥ | vasuvane vasudheyasya namovāke vīhi 3
Sanskrit only: no published translation is held for this verse.
अग्निमद्य होतारमवृणीतायं यजमानः पचन्पक्तीः पचन्पुरोडाशं बध्नन्निन्द्रा ग्निभ्यां छागꣳ। सूपस्था अद्य देवो वनस्पतिरभवदिन्द्रा ग्निभ्यां छागेनाघस्तां तं मेदस्तः प्रति पचताग्रभीष्टामवीवृधेतां पुरोडाशेन त्वामद्य ऋष आर्षेय ऋषीणां नपादवृणीतायं यजमानो बहुभ्य आ संगतेभ्य एष मे देवेषु वसु वार्यायक्ष्यत इति । ता या देवा देवदानान्यदुस्तान्यस्मा आ च शास्स्वा च गुरस्वेषितश्च होतरसि भद्र वाच्याय प्रेषितो मानुषः सूक्तवाकाय सूक्ता ब्रूहि १
agnimadya hotāramavṛṇītāyaṃ yajamānaḥ pacanpaktīḥ pacanpuroḍāśaṃ badhnannindrā gnibhyāṃ chāgam̐| sūpasthā adya devo vanaspatirabhavadindrā gnibhyāṃ chāgenāghastāṃ taṃ medastaḥ prati pacatāgrabhīṣṭāmavīvṛdhetāṃ puroḍāśena tvāmadya ṛṣa ārṣeya ṛṣīṇāṃ napādavṛṇītāyaṃ yajamāno bahubhya ā saṃgatebhya eṣa me deveṣu vasu vāryāyakṣyata iti | tā yā devā devadānānyadustānyasmā ā ca śāssvā ca gurasveṣitaśca hotarasi bhadra vācyāya preṣito mānuṣaḥ sūktavākāya sūktā brūhi 1
Sanskrit only: no published translation is held for this verse.
सर्वान्वा एषोऽग्नौ कामान्प्रवेशयति । योऽग्नीनन्वाधाय व्रतमुपैति । स यदनिष्ट्वा प्रयायात् । अकामप्रीता एनं कामा नानु प्रयायुः । अतेजा अवीर्यः स्यात् । स जुहुयात् । तुभ्यं ता अङ्गिरस्तम । विश्वाः सुक्षितयः पृथक् । अग्ने कामाय येमिर इति । कामानेवास्मिन्दधाति १
कामप्रीता एनं कामा अनु प्रयान्ति । तेजस्वी वीर्यावान्भवति । संततिर्वा एषा यज्ञस्य । योऽग्नीनन्वाधाय व्रतमुपैति । स यदुद्वायति । विच्छि-त्तिरेवास्य सा । तं प्राञ्चमुद्धृत्य । मनसोपतिष्ठेत । मनो वै प्रजापतिः । प्राजापत्यो यज्ञः २
मनसैव यज्ञꣳ संतनोति । भूरित्याह । भूतो वै प्रजापतिः । भूतिमेवोपैति । वि वा एष इन्द्रि येण वीर्येणर्ध्यते । यस्याहिताग्नेरग्निरपक्षायति । यावच्छम्यया प्रविध्येत् । यदि तावदपक्षायेत् । तꣳ संभरेत् । इदं त एकं पर उत एकम् ३
तृतीयेन ज्योतिषा संविशस्व । संवेशनस्तनुवै चारुरेधि । प्रिये देवानां परमे जनित्र इति । ब्रह्मणैवैनꣳ संभरति । सैव ततः प्रायश्चित्तिः । यदि परस्तरामपक्षायेत् । अनुप्रयायावस्येत् । सो एव ततः प्रायश्चित्तिः । ओषधीर्वा एतस्य पशून्पयः प्रविशति । यस्य हविषे वत्सा अपाकृता धयन्ति ४
तान्यद्दुह्यात् । यातयाम्ना हविषा यजेत । यन्न दुह्यात् । यज्ञपरुरन्तरियात् । वायव्यां यवागूं निर्वपेत् । वायुर्वै पयसः प्रदापयिता । स एवास्मै पयः प्रदापयति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे ५
अथोत्तरस्मै हविषे वत्सानपाकुर्यात् । सैव ततः प्रायश्चित्तिः । अन्यतरान्वा एष देवान्भागधेयेन व्यर्धयति । ये यजमानस्य सायं गृहमागच्छन्ति । यस्य सायंदुग्धꣳ हविरार्तिमार्च्छति । इन्द्रा य व्रीहीन्निरुप्योपवसेत् । पयो वा ओषधयः । पय एवारभ्य गृहीत्वोपवसति । यत्प्रातः स्यात् । तच्छृतं कुर्यात् ६
अथेतर ऐन्द्रः पुरोडाशः स्यात् । इन्द्रि ये एवास्मै समीची दधाति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे । अथोत्तरस्मै हविषे वत्सानपाकुर्यात् । सैव ततः प्रायश्चित्तिः । उभयान्वा एष देवान्भागधेयेन व्यर्धयति । ये यजमानस्य सायं च प्रातश्च गृहमागच्छन्ति । यस्योभयꣳ हविरार्तिमार्छति ७
न्द्रैं! पञ्चशरावमोदनं निर्वपेत् । अग्निं देवतानां प्रथमं यजेत् । अग्निमुखा एव देवताः प्रीणाति । अग्निं वा अन्वन्या देवताः । इन्द्र मन्वन्याः । ता एवोभयीः प्रीणाति । पयो वा ओषधयः । पयः पयः । पयसैवास्मै पयोऽवरुन्धे । अथोत्तरस्मै हविषे वत्सानपाकुर्यात् ८
सैव ततः प्रायश्चित्तिः । अर्धो वा एतस्य यज्ञस्य मीयते । यस्य व्रत्येऽहन्पत्न्यनालम्भुका भवति । तामपरुध्य यजेत । सर्वेणैव यज्ञेन यजते । तामिष्ट्वोपह्वयेत । अमू हमस्मि । सा त्वम् । द्यौरहम् । पृथिवी त्वम् । सामाहम् । ऋक्त्वम् । तावेहि संभवाव । सह रेतो दधावहै । पुꣳ से पुत्राय वेत्तवै । रायस्पोषाय सुप्रजास्त्वाय सुवीर्यायेति । अर्ध एवैनामुपह्वयते । सैव ततः प्रायश्चित्तिः ९
sarvānvā eṣo'gnau kāmānpraveśayati | yo'gnīnanvādhāya vratamupaiti | sa yadaniṣṭvā prayāyāt | akāmaprītā enaṃ kāmā nānu prayāyuḥ | atejā avīryaḥ syāt | sa juhuyāt | tubhyaṃ tā aṅgirastama | viśvāḥ sukṣitayaḥ pṛthak | agne kāmāya yemira iti | kāmānevāsmindadhāti 1
kāmaprītā enaṃ kāmā anu prayānti | tejasvī vīryāvānbhavati | saṃtatirvā eṣā yajñasya | yo'gnīnanvādhāya vratamupaiti | sa yadudvāyati | vicchi-ttirevāsya sā | taṃ prāñcamuddhṛtya | manasopatiṣṭheta | mano vai prajāpatiḥ | prājāpatyo yajñaḥ 2
manasaiva yajñam̐ saṃtanoti | bhūrityāha | bhūto vai prajāpatiḥ | bhūtimevopaiti | vi vā eṣa indri yeṇa vīryeṇardhyate | yasyāhitāgneragnirapakṣāyati | yāvacchamyayā pravidhyet | yadi tāvadapakṣāyet | tam̐ saṃbharet | idaṃ ta ekaṃ para uta ekam 3
tṛtīyena jyotiṣā saṃviśasva | saṃveśanastanuvai cāruredhi | priye devānāṃ parame janitra iti | brahmaṇaivainam̐ saṃbharati | saiva tataḥ prāyaścittiḥ | yadi parastarāmapakṣāyet | anuprayāyāvasyet | so eva tataḥ prāyaścittiḥ | oṣadhīrvā etasya paśūnpayaḥ praviśati | yasya haviṣe vatsā apākṛtā dhayanti 4
tānyadduhyāt | yātayāmnā haviṣā yajeta | yanna duhyāt | yajñaparurantariyāt | vāyavyāṃ yavāgūṃ nirvapet | vāyurvai payasaḥ pradāpayitā | sa evāsmai payaḥ pradāpayati | payo vā oṣadhayaḥ | payaḥ payaḥ | payasaivāsmai payo'varundhe 5
athottarasmai haviṣe vatsānapākuryāt | saiva tataḥ prāyaścittiḥ | anyatarānvā eṣa devānbhāgadheyena vyardhayati | ye yajamānasya sāyaṃ gṛhamāgacchanti | yasya sāyaṃdugdham̐ havirārtimārcchati | indrā ya vrīhīnnirupyopavaset | payo vā oṣadhayaḥ | paya evārabhya gṛhītvopavasati | yatprātaḥ syāt | tacchṛtaṃ kuryāt 6
athetara aindraḥ puroḍāśaḥ syāt | indri ye evāsmai samīcī dadhāti | payo vā oṣadhayaḥ | payaḥ payaḥ | payasaivāsmai payo'varundhe | athottarasmai haviṣe vatsānapākuryāt | saiva tataḥ prāyaścittiḥ | ubhayānvā eṣa devānbhāgadheyena vyardhayati | ye yajamānasya sāyaṃ ca prātaśca gṛhamāgacchanti | yasyobhayam̐ havirārtimārchati 7
ndraiṃ! pañcaśarāvamodanaṃ nirvapet | agniṃ devatānāṃ prathamaṃ yajet | agnimukhā eva devatāḥ prīṇāti | agniṃ vā anvanyā devatāḥ | indra manvanyāḥ | tā evobhayīḥ prīṇāti | payo vā oṣadhayaḥ | payaḥ payaḥ | payasaivāsmai payo'varundhe | athottarasmai haviṣe vatsānapākuryāt 8
saiva tataḥ prāyaścittiḥ | ardho vā etasya yajñasya mīyate | yasya vratye'hanpatnyanālambhukā bhavati | tāmaparudhya yajeta | sarveṇaiva yajñena yajate | tāmiṣṭvopahvayeta | amū hamasmi | sā tvam | dyauraham | pṛthivī tvam | sāmāham | ṛktvam | tāvehi saṃbhavāva | saha reto dadhāvahai | pum̐ se putrāya vettavai | rāyaspoṣāya suprajāstvāya suvīryāyeti | ardha evaināmupahvayate | saiva tataḥ prāyaścittiḥ 9
Sanskrit only: no published translation is held for this verse.
यद्विष्षण्णेन जुहुयात् । अप्रजा अपशुर्यजमानः स्यात् । यदनायतने निनयेत् । अनायतनः स्यात् । प्राजापत्ययर्चा वल्मीकवपायामवनयेत् । प्राजापत्यो वै वल्मीकः । यज्ञः प्रजापतिः । प्रजापतावेव यज्ञं प्रतिष्ठापयति । भूरित्याह । भूतो वै प्रजापतिः १
भूतिमेवोपैति । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्कीटावपन्नेन जुहुयात् । अप्रजा अपशुर्यजमानः स्यात् । यदनायतने निनयेत् । अनायतनः स्यात् । मध्यमेन पर्णेन द्यावापृथिव्य-यर्चान्तःपरिधि निनयेत् । द्यावापृथिव्योरेवैनत्प्रतिष्ठापयति २
तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यदववृष्टेन जुहुयात् । अपरूपमस्यात्मन्जायेत । किलासो वा स्यादर्शसो वा । यत्प्रत्येयात् । यज्ञं विच्छिन्द्यात् । स जुहुयात् । मित्रो जनान्कल्पयति प्रजानन् ३
मित्रो दाधार पृथिवीमुत द्याम् । मित्रः कृष्टीरनिमिषाभिचष्टे । सत्याय हव्यं घृतवज्जुहोतेति । मित्रेणैवैनत्कल्पयति । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्पूर्वस्यामाहुत्याꣳ हुतायामुत्तराहुतिः स्कन्देत् । द्विपाद्भिः पशुभिर्यजमानो व्यृध्येत । यदुत्तरयाभिजुहुयात् ४
चतुष्पाद्भिः पशुभिर्यजमानो व्यृध्येत । यत्र वेत्थ वनस्पते देवानां गुह्या नामानि । तत्र हव्यानि गामयेति वानस्पत्ययर्चा समिधमाधाय । तूष्णीमेव पुनर्जुहुयात् । वनस्पतिनैव यज्ञस्यार्तां चानार्तां चाहुती विदाधार । तत्कृत्वा । अन्यां दुग्ध्वा पुनर्होतव्यम् । सैव ततः प्रायश्चित्तिः । यत्पुरा प्रयाजेभ्यः प्राङङ्गारः स्कन्देत् । अध्वर्यवे च यजमानाय चाकꣳ स्यात् ५
यद्दक्षिणा । ब्रह्मणे च यजमानाय चाकꣳ स्यात् । यत्प्रत्यक् । होत्रे च पत्नियै च यजमानाय चाकꣳ स्यात् । यदुदङ्।अग्नीधे च पशुभ्यश्च यजमानाय चाकꣳ स्यात् । यदभि जुहुयात् । रुद्रो ऽस्य पशून्घातुकः स्यात् । यन्नाभिजुहुयात् । अशान्तः प्रह्रियेत ६
स्रुवस्य बुध्नेनाभिनिदध्यात् । मा तमो मा यज्ञस्तमन्मा यजमानस्तमत् । नमस्ते अस्त्वायते । नमो रुद्र परायते । नमो यत्र निषीदसि । अमुं मा हिꣳ सीरमुं मा हिꣳ सीरिति येन स्कन्देत् । तं प्रहरेत् । सहस्रशृङ्गो वृषभो जातवेदाः । स्तोमपृष्ठो घृतवान्त्सुप्रतीकः । मा नो हासीन्मेत्थितो नेत्त्वा जहाम । गोपोषं नो वीरपोषं च यच्छेति । ब्रह्मणैवैनं प्रहरति । सैव ततः प्रायश्चित्तिः ७
yadviṣṣaṇṇena juhuyāt | aprajā apaśuryajamānaḥ syāt | yadanāyatane ninayet | anāyatanaḥ syāt | prājāpatyayarcā valmīkavapāyāmavanayet | prājāpatyo vai valmīkaḥ | yajñaḥ prajāpatiḥ | prajāpatāveva yajñaṃ pratiṣṭhāpayati | bhūrityāha | bhūto vai prajāpatiḥ 1
bhūtimevopaiti | tatkṛtvā | anyāṃ dugdhvā punarhotavyam | saiva tataḥ prāyaścittiḥ | yatkīṭāvapannena juhuyāt | aprajā apaśuryajamānaḥ syāt | yadanāyatane ninayet | anāyatanaḥ syāt | madhyamena parṇena dyāvāpṛthivya-yarcāntaḥparidhi ninayet | dyāvāpṛthivyorevainatpratiṣṭhāpayati 2
tatkṛtvā | anyāṃ dugdhvā punarhotavyam | saiva tataḥ prāyaścittiḥ | yadavavṛṣṭena juhuyāt | aparūpamasyātmanjāyeta | kilāso vā syādarśaso vā | yatpratyeyāt | yajñaṃ vicchindyāt | sa juhuyāt | mitro janānkalpayati prajānan 3
mitro dādhāra pṛthivīmuta dyām | mitraḥ kṛṣṭīranimiṣābhicaṣṭe | satyāya havyaṃ ghṛtavajjuhoteti | mitreṇaivainatkalpayati | tatkṛtvā | anyāṃ dugdhvā punarhotavyam | saiva tataḥ prāyaścittiḥ | yatpūrvasyāmāhutyām̐ hutāyāmuttarāhutiḥ skandet | dvipādbhiḥ paśubhiryajamāno vyṛdhyeta | yaduttarayābhijuhuyāt 4
catuṣpādbhiḥ paśubhiryajamāno vyṛdhyeta | yatra vettha vanaspate devānāṃ guhyā nāmāni | tatra havyāni gāmayeti vānaspatyayarcā samidhamādhāya | tūṣṇīmeva punarjuhuyāt | vanaspatinaiva yajñasyārtāṃ cānārtāṃ cāhutī vidādhāra | tatkṛtvā | anyāṃ dugdhvā punarhotavyam | saiva tataḥ prāyaścittiḥ | yatpurā prayājebhyaḥ prāṅaṅgāraḥ skandet | adhvaryave ca yajamānāya cākam̐ syāt 5
yaddakṣiṇā | brahmaṇe ca yajamānāya cākam̐ syāt | yatpratyak | hotre ca patniyai ca yajamānāya cākam̐ syāt | yadudaṅ|agnīdhe ca paśubhyaśca yajamānāya cākam̐ syāt | yadabhi juhuyāt | rudro 'sya paśūnghātukaḥ syāt | yannābhijuhuyāt | aśāntaḥ prahriyeta 6
sruvasya budhnenābhinidadhyāt | mā tamo mā yajñastamanmā yajamānastamat | namaste astvāyate | namo rudra parāyate | namo yatra niṣīdasi | amuṃ mā him̐ sīramuṃ mā him̐ sīriti yena skandet | taṃ praharet | sahasraśṛṅgo vṛṣabho jātavedāḥ | stomapṛṣṭho ghṛtavāntsupratīkaḥ | mā no hāsīnmetthito nettvā jahāma | gopoṣaṃ no vīrapoṣaṃ ca yaccheti | brahmaṇaivainaṃ praharati | saiva tataḥ prāyaścittiḥ 7
Sanskrit only: no published translation is held for this verse.
वि वा एष इन्द्रियेण वीर्येणर्ध्यते । यस्याहिताग्नेरग्निर्मथ्यमानो न जायते । यत्रान्यं पश्येत् । तत आहृत्य होतव्यम् । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति । यद्यन्यं न विन्देत् । अजायाꣳ होतव्यम् । आग्नेयी वा एषा । यदजा । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति १
अजस्य तु नाश्नीयात् । यदजस्याश्नीयात् । यामेवाग्नावाहुतिं जुहुयात् । तामद्यात् । तस्मादजस्य नाश्यम् । यद्यजां न विन्देत् । ब्राह्मणस्य दक्षिणे हस्ते होतव्यम् । एष वा अग्निर्वैश्वानरः । यद्ब्राह्मणः । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति २
ब्राह्मणं तु वसत्यै नापरुन्ध्यात् । यद्ब्राह्मणं वसत्या अपरुन्ध्यात् । यस्मिन्नेवाग्नावाहुतिं जुहुयात् । तं भागधेयेन व्यर्धयेत् । तस्माद्ब्राह्मणो वसत्यै नापरुध्यः । यदि ब्राह्मणं न विन्देत् । दर्भस्तम्बे होतव्यम् । अग्निवान्वै दर्भस्तम्बः । अग्नावेवास्याग्निहोत्रꣳ हुतं भवति । दर्भाꣳ स्तु नाध्यासीत ३
यद्दर्भानध्यासीत । यामेवाग्नावाहुतिं जुहुयात् । तामध्यासीत । तस्माद्दर्भा नाध्यासितव्याः । यदि दर्भान्न विन्देत् । अप्सु होतव्यम् । आपो वै सर्वा देवताः । देवतास्वेवास्याग्निहोत्रꣳ हुतं भवति । आपस्तु न परिचक्षीत । यदापः परिचक्षीत ४
यामेवाप्स्वाहुतिं जुहुयात् । तां परिचक्षीत । तस्मादापो न परिचक्ष्याः । मेध्या च वा एतस्यामेध्या च तनुवौ सꣳ सृज्येते । यस्याहिताग्नेरन्यैरग्निभिरग्नयः सꣳ सृज्यन्ते । अग्नये विविचये पुरोडाशमष्टाकपालं निर्वपेत् । मेध्यां चैवास्यामेध्यां च तनुवौ व्यावर्तयति । अग्नये व्रतपतये पुरोडाशमष्टाकपालं निर्वपेत् । अग्निमेव व्रतपतिꣳ स्वेन भागधेयेनोपधावति । स एवैनं व्रतमालम्भयति ५
गर्भꣳ स्रवन्तमगदमकः । अग्निरिन्द्र स्त्वष्टा बृहस्पतिः । पृथिव्यामवचुश्चोतैतत् । नाभि प्राप्नोति निरृतिं पराचैः । रेतो वा एतद्वाजिनमाहिताग्नेः । यदग्नि-होत्रम् । तद्यत्स्रवेत् । रेतोऽस्य वाजिनꣳ स्रवेत् । गर्भꣳ स्रवन्तमगदमकरित्याह । रेत एवास्मिन्वाजिनं दधाति ६
अग्निरित्याह । अग्निर्वै रेतोधाः । रेत एव तद्दधाति । इन्द्र इत्याह । इन्द्रि यमेवास्मिन्दधाति । त्वष्टेत्याह । त्वष्टा वै पशूनाम्मिथुनानाꣳ रूपकृत् । रूपमेव पशुषु दधाति । बृहस्पतिरित्याह । ब्रह्म वै देवानां बृहस्पतिः । ब्रह्मणैवास्मै प्रजाः प्रजनयति । पृथिव्यामवचुश्चोतैतदित्याह । अस्यामे-वैनत्प्रतिष्ठापयति नाभि प्राप्नोति निरृतिं पराचैरित्याह । रक्षसामपहत्यै ७
vi vā eṣa indriyeṇa vīryeṇardhyate | yasyāhitāgneragnirmathyamāno na jāyate | yatrānyaṃ paśyet | tata āhṛtya hotavyam | agnāvevāsyāgnihotram̐ hutaṃ bhavati | yadyanyaṃ na vindet | ajāyām̐ hotavyam | āgneyī vā eṣā | yadajā | agnāvevāsyāgnihotram̐ hutaṃ bhavati 1
ajasya tu nāśnīyāt | yadajasyāśnīyāt | yāmevāgnāvāhutiṃ juhuyāt | tāmadyāt | tasmādajasya nāśyam | yadyajāṃ na vindet | brāhmaṇasya dakṣiṇe haste hotavyam | eṣa vā agnirvaiśvānaraḥ | yadbrāhmaṇaḥ | agnāvevāsyāgnihotram̐ hutaṃ bhavati 2
brāhmaṇaṃ tu vasatyai nāparundhyāt | yadbrāhmaṇaṃ vasatyā aparundhyāt | yasminnevāgnāvāhutiṃ juhuyāt | taṃ bhāgadheyena vyardhayet | tasmādbrāhmaṇo vasatyai nāparudhyaḥ | yadi brāhmaṇaṃ na vindet | darbhastambe hotavyam | agnivānvai darbhastambaḥ | agnāvevāsyāgnihotram̐ hutaṃ bhavati | darbhām̐ stu nādhyāsīta 3
yaddarbhānadhyāsīta | yāmevāgnāvāhutiṃ juhuyāt | tāmadhyāsīta | tasmāddarbhā nādhyāsitavyāḥ | yadi darbhānna vindet | apsu hotavyam | āpo vai sarvā devatāḥ | devatāsvevāsyāgnihotram̐ hutaṃ bhavati | āpastu na paricakṣīta | yadāpaḥ paricakṣīta 4
yāmevāpsvāhutiṃ juhuyāt | tāṃ paricakṣīta | tasmādāpo na paricakṣyāḥ | medhyā ca vā etasyāmedhyā ca tanuvau sam̐ sṛjyete | yasyāhitāgneranyairagnibhiragnayaḥ sam̐ sṛjyante | agnaye vivicaye puroḍāśamaṣṭākapālaṃ nirvapet | medhyāṃ caivāsyāmedhyāṃ ca tanuvau vyāvartayati | agnaye vratapataye puroḍāśamaṣṭākapālaṃ nirvapet | agnimeva vratapatim̐ svena bhāgadheyenopadhāvati | sa evainaṃ vratamālambhayati 5
garbham̐ sravantamagadamakaḥ | agnirindra stvaṣṭā bṛhaspatiḥ | pṛthivyāmavacuścotaitat | nābhi prāpnoti nirṛtiṃ parācaiḥ | reto vā etadvājinamāhitāgneḥ | yadagni-hotram | tadyatsravet | reto'sya vājinam̐ sravet | garbham̐ sravantamagadamakarityāha | reta evāsminvājinaṃ dadhāti 6
agnirityāha | agnirvai retodhāḥ | reta eva taddadhāti | indra ityāha | indri yamevāsmindadhāti | tvaṣṭetyāha | tvaṣṭā vai paśūnāmmithunānām̐ rūpakṛt | rūpameva paśuṣu dadhāti | bṛhaspatirityāha | brahma vai devānāṃ bṛhaspatiḥ | brahmaṇaivāsmai prajāḥ prajanayati | pṛthivyāmavacuścotaitadityāha | asyāme-vainatpratiṣṭhāpayati nābhi prāpnoti nirṛtiṃ parācairityāha | rakṣasāmapahatyai 7
Sanskrit only: no published translation is held for this verse.
याः पुरस्तात्प्रस्रवन्ति । उपरिष्टात्सर्वतश्च याः । ताभी रश्मिपवित्राभिः । श्रद्धां यज्ञमारभे । देवा गातुविदः । गातुं यज्ञाय विन्दत । मनसस्पतिना देवेन । वाताद्यज्ञः प्रयुज्यताम् । तृतीयस्यै दिवः । गायत्रिया सोम आभृतः १
सोमपीथाय संनयितुम् । वकलमन्तरमाददे । आपो देवीः शुद्धाः स्थ । इमा पात्राणि शुन्धत । उपातङ्क्याय देवानाम् । पर्णवल्कमुत शुन्धत । पयो गृहेषु पयो अघ्नियासु । पयो वत्सेषु पय इन्द्रा य हविषे ध्रियस्व । गायत्री पर्णवल्केन । पयः सोमं करोत्विमम् २
अग्निं गृह्णामि सुरथं यो मयोभूः । य उद्यन्तमारोहति सूर्यमह्ने । आदित्यं ज्योतिषां ज्योतिरुत्तमम् । श्वो यज्ञाय रमतां देवताभ्यः । वसून्रुद्रा नादित्यान् । इन्द्रे ण सह देवताः । ताः पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इमामूर्जं पञ्चदशीं ये प्रविष्टाः । तान्देवान्परिगृह्णामि पूर्वाः ३
अग्निर्हव्यवाडिह तानावहतु । पौर्णमासꣳ हविरिदमेषां मयि । आमावास्यꣳ हविरिदमेषां मयि । अन्तराग्नी पशवः । देवसꣳ सदमागमन् । तान्पूर्वः परिगृह्णामि । स्व आयतने मनीषया । इह प्रजा विश्वरूपा रमन्ताम् । अग्निं गृहपतिमभि संवसानाः । ताः पूर्वः परिगृह्णामि ४
स्व आयतने मनीषया । इह पशवो विश्वरूपा रमन्ताम् । अग्निं गृहपतिमभि संवसानाः । तान्पूर्वः परिगृह्णामि । स्व आयतने मनीषया । अयं पितृणामग्निः । अवाड्ढव्या पितृभ्य आ । तं पूर्वः परिगृह्णामि । अविषं नः पितुं करत् । अजस्रं त्वाꣳ सभापालाः ५
विजयभागꣳ समिन्धताम् । अग्ने दीदाय मे सभ्य । विजित्यै शरदः शतम् । अन्नमावसथीयम् । अभिहराणि शरदः शतम् । आवसथे श्रियं मन्त्रम् । अहिर्बुध्नियो नियच्छतु । इदमहमग्निज्येष्ठेभ्यः । वसुभ्यो यज्ञं प्रब्रवीमि । इदमहमिन्द्र ज्येष्ठेभ्यः ६
रुद्रे भ्यो यज्ञं प्रब्रवीमि । इदमहं वरुणज्येष्ठेभ्यः । आदित्येभ्यो यज्ञं प्रब्रवीमि । पयस्वतीरोषधयः । पयस्वद्वीरुधां पयः । अपां पयसो यत्पयः । तेन मामिन्द्र सꣳ सृज । अग्ने व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । वायो व्रतपत आदित्य व्रतपते ७
व्रतानां व्रतपते व्रतं चरिष्यामि । तच्छकेयं तन्मे राध्यताम् । इमां प्राचीमुदीचीम् । इषमूर्जमभि सꣳ स्कृताम् । बहुपर्णामशुष्काग्राम् । हरामि पशुपामहम् । यत्कृष्णो रूपं कृत्वा । प्राविशस्त्वं वनस्पतीन् । ततस्त्वामेकविꣳ शतिधा । संभरामि सुसंभृता ८
त्रीन्परिधीꣳ स्तिस्रः समिधः । यज्ञायुरनुसंचरान् । उपवेषं मेक्षणं धृष्टिम् । संभरामि सुसंभृता । या जाता ओषधयः । देवेभ्यस्त्रियुगं पुरा । तासां पर्व राध्यासम् । परिस्तरमाहरन् । अपां मेध्यं यज्ञियम् । सदेवꣳ शिवमस्तु मे ९
आच्छेत्ता वो मा रिषम् । जीवानि शरदः शतम् । अपरिमितानां परिमिताः । संनह्ये सुकृताय कम् । एनो मा निगां कतमच्चनाहम् । पुनरुत्थाय बहुला भवन्तु । सकृदाच्छिन्नं बर्हिरूर्णामृदु । स्योनं पितृभ्यस्त्वा भराम्यहम् । अस्मिन्त्सीदन्तु मे पितरः सोम्याः । पितामहाः प्रपितामहाश्चानुगैः सह १०
त्रिवृत्पलाशे दर्भः । इयान्प्रादेशसंमितः । यज्ञे पवित्रं पोतृतमम् । पयो हव्यं करोतु मे । इमौ प्राणापानौ । यज्ञस्याङ्गानि सर्वशः । आप्याययन्तौ संचरताम् । पवित्रे हव्यशोधने । पवित्रे स्थो वैष्णवी ।वायुर्वां मनसा पुनातु ११
अयं प्राणश्चापानश्च । यजमानमपिगच्छताम् । यज्ञे ह्यभूतां पोतारौ । पवित्रे हव्यशोधने । त्वया वेदिं विविदुः पृथिवीम् । त्वया यज्ञो जायते विश्वदानिः । अच्छिद्रं यज्ञमन्वेषि विद्वान् । त्वया होता संतनोत्यर्धमसान् । त्रयस्त्रिꣳ शोऽसि तन्तूनाम् । पवित्रेण सहागहि १२
शिवेऽयꣳ रज्जुरभिधानी ।अघ्नियामुपसेवताम् । अप्रस्रꣳ साय यज्ञस्य । उखे उपदधाम्यहम् । पशुभिः संनीतं बिभृताम् । इन्द्रा य शृतं दधि । उपवेषोऽसि यज्ञाय । त्वां परिवेषमधारयन् । इन्द्रा य हविः कृण्वन्तः । शिवः शग्मो भवासि नः १३
अमृण्मयं देवपात्रम् । यज्ञस्यायुषि प्रयुज्यताम् । तिरःपवित्रमतिनीताः । आपो धारय मातिगुः । देवेन सवित्रोत्पूताः । वसोः सूर्यस्य रश्मिभिः । गां दोहपवित्रे रज्जुम् । सर्वा पात्राणि शुन्धत । एता आचरन्ति मधुमद्दुहानाः । प्रजावतीर्यशसो विश्वरूपाः १४
बह्वीर्भवन्तीरुप जायमानाः । इह व इन्द्रो रमयतु गावः । पूषा स्थ । अयक्ष्मा वः प्रजया सꣳ सृजामि । रायस्पोषेण बहुला भवन्तीः । ऊर्जं पयः पिन्वमाना घृतं च । जीवो जीवन्तीरुप वः सदेयम् । द्यौश्चेमं यज्ञं पृथिवी च संदुहाताम् । धाता सोमेन सह वातेन वायुः । यजमानाय द्र विणं दधातु १५
उत्सं दुहन्ति कलशं चतुर्बिलम् । इडां देवीं मधुमतीꣳ सुवर्विदम् । तदिन्द्रा ग्नी जिन्वतꣳ सूनृतावत् । तद्यजमानममृतत्वे दधातु । कामधुक्षः प्र णो ब्रूहि । इन्द्रा य हविरिन्द्रि यम् । अमूं यस्यां देवानाम् । मनुष्याणां पयो हितम् । बहु दुग्धीन्द्रा य देवेभ्यः । हव्यमाप्यायतां पुनः १६
वत्सेभ्यो मनुष्येभ्यः । पुनर्दोहाय कल्पताम् । यज्ञस्य संततिरसि । यज्ञस्य त्वा संततिमनु संतनोमि । अदस्तमसि विष्णवे त्वा । यज्ञायापिदधाम्यहम् । अद्भिररिक्तेन पात्रेण । याः पूताः परिशेरते । अयं पयः सोमं कृत्वा । स्वां योनिमपिगच्छतु १७
पर्णवल्कः पवित्रम् । सौम्यः सोमाद्धि निर्मितः । इमौ पर्णं च दर्भं च । देवानाꣳ हव्यशोधनौ । प्रातर्वेषाय गोपाय विष्णो हव्यꣳ हि रक्षसि । उभावग्नी उपस्तृणते । देवता उपवसन्तु मे । अहं ग्राम्यानुपवसामि । मह्यं गोपतये पशून् १८
yāḥ purastātprasravanti | upariṣṭātsarvataśca yāḥ | tābhī raśmipavitrābhiḥ | śraddhāṃ yajñamārabhe | devā gātuvidaḥ | gātuṃ yajñāya vindata | manasaspatinā devena | vātādyajñaḥ prayujyatām | tṛtīyasyai divaḥ | gāyatriyā soma ābhṛtaḥ 1
somapīthāya saṃnayitum | vakalamantaramādade | āpo devīḥ śuddhāḥ stha | imā pātrāṇi śundhata | upātaṅkyāya devānām | parṇavalkamuta śundhata | payo gṛheṣu payo aghniyāsu | payo vatseṣu paya indrā ya haviṣe dhriyasva | gāyatrī parṇavalkena | payaḥ somaṃ karotvimam 2
agniṃ gṛhṇāmi surathaṃ yo mayobhūḥ | ya udyantamārohati sūryamahne | ādityaṃ jyotiṣāṃ jyotiruttamam | śvo yajñāya ramatāṃ devatābhyaḥ | vasūnrudrā nādityān | indre ṇa saha devatāḥ | tāḥ pūrvaḥ parigṛhṇāmi | sva āyatane manīṣayā | imāmūrjaṃ pañcadaśīṃ ye praviṣṭāḥ | tāndevānparigṛhṇāmi pūrvāḥ 3
agnirhavyavāḍiha tānāvahatu | paurṇamāsam̐ haviridameṣāṃ mayi | āmāvāsyam̐ haviridameṣāṃ mayi | antarāgnī paśavaḥ | devasam̐ sadamāgaman | tānpūrvaḥ parigṛhṇāmi | sva āyatane manīṣayā | iha prajā viśvarūpā ramantām | agniṃ gṛhapatimabhi saṃvasānāḥ | tāḥ pūrvaḥ parigṛhṇāmi 4
sva āyatane manīṣayā | iha paśavo viśvarūpā ramantām | agniṃ gṛhapatimabhi saṃvasānāḥ | tānpūrvaḥ parigṛhṇāmi | sva āyatane manīṣayā | ayaṃ pitṛṇāmagniḥ | avāḍḍhavyā pitṛbhya ā | taṃ pūrvaḥ parigṛhṇāmi | aviṣaṃ naḥ pituṃ karat | ajasraṃ tvām̐ sabhāpālāḥ 5
vijayabhāgam̐ samindhatām | agne dīdāya me sabhya | vijityai śaradaḥ śatam | annamāvasathīyam | abhiharāṇi śaradaḥ śatam | āvasathe śriyaṃ mantram | ahirbudhniyo niyacchatu | idamahamagnijyeṣṭhebhyaḥ | vasubhyo yajñaṃ prabravīmi | idamahamindra jyeṣṭhebhyaḥ 6
rudre bhyo yajñaṃ prabravīmi | idamahaṃ varuṇajyeṣṭhebhyaḥ | ādityebhyo yajñaṃ prabravīmi | payasvatīroṣadhayaḥ | payasvadvīrudhāṃ payaḥ | apāṃ payaso yatpayaḥ | tena māmindra sam̐ sṛja | agne vratapate vrataṃ cariṣyāmi | tacchakeyaṃ tanme rādhyatām | vāyo vratapata āditya vratapate 7
vratānāṃ vratapate vrataṃ cariṣyāmi | tacchakeyaṃ tanme rādhyatām | imāṃ prācīmudīcīm | iṣamūrjamabhi sam̐ skṛtām | bahuparṇāmaśuṣkāgrām | harāmi paśupāmaham | yatkṛṣṇo rūpaṃ kṛtvā | prāviśastvaṃ vanaspatīn | tatastvāmekavim̐ śatidhā | saṃbharāmi susaṃbhṛtā 8
trīnparidhīm̐ stisraḥ samidhaḥ | yajñāyuranusaṃcarān | upaveṣaṃ mekṣaṇaṃ dhṛṣṭim | saṃbharāmi susaṃbhṛtā | yā jātā oṣadhayaḥ | devebhyastriyugaṃ purā | tāsāṃ parva rādhyāsam | paristaramāharan | apāṃ medhyaṃ yajñiyam | sadevam̐ śivamastu me 9
ācchettā vo mā riṣam | jīvāni śaradaḥ śatam | aparimitānāṃ parimitāḥ | saṃnahye sukṛtāya kam | eno mā nigāṃ katamaccanāham | punarutthāya bahulā bhavantu | sakṛdācchinnaṃ barhirūrṇāmṛdu | syonaṃ pitṛbhyastvā bharāmyaham | asmintsīdantu me pitaraḥ somyāḥ | pitāmahāḥ prapitāmahāścānugaiḥ saha 10
trivṛtpalāśe darbhaḥ | iyānprādeśasaṃmitaḥ | yajñe pavitraṃ potṛtamam | payo havyaṃ karotu me | imau prāṇāpānau | yajñasyāṅgāni sarvaśaḥ | āpyāyayantau saṃcaratām | pavitre havyaśodhane | pavitre stho vaiṣṇavī |vāyurvāṃ manasā punātu 11
ayaṃ prāṇaścāpānaśca | yajamānamapigacchatām | yajñe hyabhūtāṃ potārau | pavitre havyaśodhane | tvayā vediṃ vividuḥ pṛthivīm | tvayā yajño jāyate viśvadāniḥ | acchidraṃ yajñamanveṣi vidvān | tvayā hotā saṃtanotyardhamasān | trayastrim̐ śo'si tantūnām | pavitreṇa sahāgahi 12
śive'yam̐ rajjurabhidhānī |aghniyāmupasevatām | aprasram̐ sāya yajñasya | ukhe upadadhāmyaham | paśubhiḥ saṃnītaṃ bibhṛtām | indrā ya śṛtaṃ dadhi | upaveṣo'si yajñāya | tvāṃ pariveṣamadhārayan | indrā ya haviḥ kṛṇvantaḥ | śivaḥ śagmo bhavāsi naḥ 13
amṛṇmayaṃ devapātram | yajñasyāyuṣi prayujyatām | tiraḥpavitramatinītāḥ | āpo dhāraya mātiguḥ | devena savitrotpūtāḥ | vasoḥ sūryasya raśmibhiḥ | gāṃ dohapavitre rajjum | sarvā pātrāṇi śundhata | etā ācaranti madhumadduhānāḥ | prajāvatīryaśaso viśvarūpāḥ 14
bahvīrbhavantīrupa jāyamānāḥ | iha va indro ramayatu gāvaḥ | pūṣā stha | ayakṣmā vaḥ prajayā sam̐ sṛjāmi | rāyaspoṣeṇa bahulā bhavantīḥ | ūrjaṃ payaḥ pinvamānā ghṛtaṃ ca | jīvo jīvantīrupa vaḥ sadeyam | dyauścemaṃ yajñaṃ pṛthivī ca saṃduhātām | dhātā somena saha vātena vāyuḥ | yajamānāya dra viṇaṃ dadhātu 15
utsaṃ duhanti kalaśaṃ caturbilam | iḍāṃ devīṃ madhumatīm̐ suvarvidam | tadindrā gnī jinvatam̐ sūnṛtāvat | tadyajamānamamṛtatve dadhātu | kāmadhukṣaḥ pra ṇo brūhi | indrā ya havirindri yam | amūṃ yasyāṃ devānām | manuṣyāṇāṃ payo hitam | bahu dugdhīndrā ya devebhyaḥ | havyamāpyāyatāṃ punaḥ 16
vatsebhyo manuṣyebhyaḥ | punardohāya kalpatām | yajñasya saṃtatirasi | yajñasya tvā saṃtatimanu saṃtanomi | adastamasi viṣṇave tvā | yajñāyāpidadhāmyaham | adbhirariktena pātreṇa | yāḥ pūtāḥ pariśerate | ayaṃ payaḥ somaṃ kṛtvā | svāṃ yonimapigacchatu 17
parṇavalkaḥ pavitram | saumyaḥ somāddhi nirmitaḥ | imau parṇaṃ ca darbhaṃ ca | devānām̐ havyaśodhanau | prātarveṣāya gopāya viṣṇo havyam̐ hi rakṣasi | ubhāvagnī upastṛṇate | devatā upavasantu me | ahaṃ grāmyānupavasāmi | mahyaṃ gopataye paśūn 18
Sanskrit only: no published translation is held for this verse.
देवा देवेषु पराक्रमध्वम् । प्रथमा द्वितीयेषु । द्वितीयास्तृतीयेषु । त्रिरेकादशा इह मावत । इदꣳ शकेयं यदिदं करोमि । आत्मा करोत्वात्मने । इदं करिष्ये भेषजम् । इदं मे विश्वभेषजा । अश्विना प्रावतं युवम् । इदमहꣳ सेनाया अभीत्वर्यै १
मुखमपोहामि । सूर्यज्योतिर्विभाहि । महत इन्द्रि याय । आप्यायतां घृतयोनिः । अग्निर्हव्यानुमन्यताम् । खमङ्क्ष्व त्वचमङ्क्ष्व । सुरूपं त्वा वसुविदम् । पशूनां तेजसा । अग्नये जुष्टमभिघारयामि । स्योनं ते सदनं करोमि २
घृतस्य धारया सुशेवं कल्पयामि । तस्मिन्त्सीदामृते प्रतितिष्ठ । व्रीहीणां मेध सुमनस्यमानः । आर्द्र ः! प्रथस्नुर्भुवनस्य गोपाः । शृत उत्स्नाति जनिता मतीनाम् । यस्त आत्मा पशुषु प्रविष्टः । देवानां विष्ठामनु यो वितस्थे । आत्मन्वान्त्सोम घृतवान्हि भूत्वा । देवान्गच्छ सुवर्विद यजमानाय मह्यम् । इरा भूतिः पृथिव्यै रसो मोत्क्रमीत् ३
देवाः पितरः पितरो देवाः । योऽहमस्मि स सन्यजे । यस्यास्मि न तमन्तरेमि । स्वं म इष्टꣳ स्वं दत्तम् । स्वं पूर्तꣳ स्वꣳ श्रान्तम् । स्वꣳ हुतम् । तस्य मेऽग्निरुपद्र ष्टा । वायुरुपश्रोता । आदित्योऽनुख्याता । द्यौः पिता ४
पृथिवी माता । प्रजापतिर्बन्धुः । य एवास्मि स सन्यजे । मा भेर्मा संविक्था मा त्वा हिꣳ सिषम् । मा ते तेजोऽपक्रमीत् । भरतमुद्धरेमनुसिञ्च । अवदानानि ते प्रत्यवदास्यामि । नमस्ते अस्तु मा मा हिꣳ सीः । यदवदानानि तेऽवद्यन् । विलोमाकार्षमात्मनः ५
आज्येन प्रत्यनज्म्येनत् । तत्त आप्यायतां पुनः । अज्यायो यवमात्रात् । आव्याधात्कृत्यतामिदम् । मा रूरुपाम यज्ञस्य । शुद्धꣳ स्विष्टमिदꣳ हविः । मनुना दृष्टां घृतपदीम् । मित्रावरुणसमीरिताम् । दक्षिणार्धादसंभिन्दन् । अवद्याम्येकतोमुखाम् ६
इडे भागं जुषस्व नः । जिन्व गा जिन्वार्वतः । तस्यास्ते भक्षिवाणः स्याम । सर्वात्मानः सर्वगणाः । ब्रध्न पिन्वस्व । ददतो मे मा क्षायि । कुर्वतो मे मोपदसत् । दिशां क्ळ्प्तिरसि । दिशो मे कल्पन्ताम् । कल्पन्तां मे दिशः ७
दैवीश्च मानुषीश्च । अहोरात्रे मे कल्पेताम् । अर्धमासा मे कल्पन्ताम् । मासा मे कल्पन्ताम् । ऋतवो मे कल्पन्ताम् । संवत्सरो मे कल्पताम् । क्ळ्प्तिरसि कल्पतां मे । आशानां त्वाशापालेभ्यः । चतुर्भ्यो अमृतेभ्यः । इदं भूतस्याध्यक्षेभ्यः ८
विधेम हविषा वयम् । भजतां भागी भागम् । माभागो भक्त । निरभागं भजामः । अपस्पिन्व । ओषधीर्जिन्व । द्विपात्पाहि । चतुष्पादव । दिवो वृष्टिमेरय । ब्राह्मणानामिदꣳ हविः ९
सोम्यानाꣳ सोमपीथिनाम् । निर्भक्तोऽब्राह्मणः । नेहाब्राह्मणस्यास्ति । समङ्क्तां बर्हिर्हविषा घृतेन । समादित्यैर्वसुभिः सं मरुद्भिः । समिन्द्रे ण विश्वेभिर्देवेभिरङ्क्ताम् । दिव्यं नभो गच्छतु यत्स्वाहा । इन्द्रा णीवाविधवा भूयासम् । अदितिरिव सुपुत्रा । अस्थूरि त्वा गार्हपत्य १०
उप निषदे सुप्रजास्त्वाय । सं पत्नी पत्या सुकृतेन गच्छताम् । यज्ञस्य युक्तौ धुर्यावभूताम् । संजानानौ विजहतामरातीः । दिवि ज्योतिरजरमारभेताम् । दश ते तनुवो यज्ञ यज्ञियाः । ताः प्रीणातु यजमानो घृतेन । नारिष्ठयोः प्रशिषमीडमानः । देवानां दैव्येऽपि यजमानोऽमृतोऽभूत् । यं वां देवा अकल्पयन् ११
ऊर्जो भागꣳ शतक्रतू ।एतद्वां तेन प्रीणानि । तेन तृप्यतमꣳ हहौ । अहं देवानाꣳ सुकृतामस्मि लोके । ममेदमिष्टं न मिथुर्भवाति । अहं नारिष्ठावनुयजामि विद्वान् । यदाभ्यामिन्द्रो अदधाद्भागधेयम् । अदारसृद्भवत देव सोम । अस्मिन्यज्ञे मरुतो मृडता नः । मा नो विददभि भामो अशस्तिः १२
मा नो विदद्वृजना द्वेष्या या । ऋषभं वाजिनं वयम् । पूर्णमासं यजामहे । स नो दोहताꣳ सुवीर्यम् । रायस्पोषꣳ सहस्रिणम् । प्राणाय सुराधसे । पूर्णमासाय स्वाहा । अमावास्या सुभगा सुशेवा । धेनुरिव भूय आप्यायमाना । सा नो दोहताꣳ सुवीर्यम् । रायस्पोषꣳ सहस्रिणम् । अपानाय सुराधसे । अमावास्यायै स्वाहा । अभिस्तृणीहि परिधेहि वेदिम् । जामिं मा हिꣳ सीरमुया शयाना । होतृषदना हरिताः सुवर्णाः । निष्का इमे यजमानस्य ब्रध्ने १३
devā deveṣu parākramadhvam | prathamā dvitīyeṣu | dvitīyāstṛtīyeṣu | trirekādaśā iha māvata | idam̐ śakeyaṃ yadidaṃ karomi | ātmā karotvātmane | idaṃ kariṣye bheṣajam | idaṃ me viśvabheṣajā | aśvinā prāvataṃ yuvam | idamaham̐ senāyā abhītvaryai 1
mukhamapohāmi | sūryajyotirvibhāhi | mahata indri yāya | āpyāyatāṃ ghṛtayoniḥ | agnirhavyānumanyatām | khamaṅkṣva tvacamaṅkṣva | surūpaṃ tvā vasuvidam | paśūnāṃ tejasā | agnaye juṣṭamabhighārayāmi | syonaṃ te sadanaṃ karomi 2
ghṛtasya dhārayā suśevaṃ kalpayāmi | tasmintsīdāmṛte pratitiṣṭha | vrīhīṇāṃ medha sumanasyamānaḥ | ārdra ḥ! prathasnurbhuvanasya gopāḥ | śṛta utsnāti janitā matīnām | yasta ātmā paśuṣu praviṣṭaḥ | devānāṃ viṣṭhāmanu yo vitasthe | ātmanvāntsoma ghṛtavānhi bhūtvā | devāngaccha suvarvida yajamānāya mahyam | irā bhūtiḥ pṛthivyai raso motkramīt 3
devāḥ pitaraḥ pitaro devāḥ | yo'hamasmi sa sanyaje | yasyāsmi na tamantaremi | svaṃ ma iṣṭam̐ svaṃ dattam | svaṃ pūrtam̐ svam̐ śrāntam | svam̐ hutam | tasya me'gnirupadra ṣṭā | vāyurupaśrotā | ādityo'nukhyātā | dyauḥ pitā 4
pṛthivī mātā | prajāpatirbandhuḥ | ya evāsmi sa sanyaje | mā bhermā saṃvikthā mā tvā him̐ siṣam | mā te tejo'pakramīt | bharatamuddharemanusiñca | avadānāni te pratyavadāsyāmi | namaste astu mā mā him̐ sīḥ | yadavadānāni te'vadyan | vilomākārṣamātmanaḥ 5
ājyena pratyanajmyenat | tatta āpyāyatāṃ punaḥ | ajyāyo yavamātrāt | āvyādhātkṛtyatāmidam | mā rūrupāma yajñasya | śuddham̐ sviṣṭamidam̐ haviḥ | manunā dṛṣṭāṃ ghṛtapadīm | mitrāvaruṇasamīritām | dakṣiṇārdhādasaṃbhindan | avadyāmyekatomukhām 6
iḍe bhāgaṃ juṣasva naḥ | jinva gā jinvārvataḥ | tasyāste bhakṣivāṇaḥ syāma | sarvātmānaḥ sarvagaṇāḥ | bradhna pinvasva | dadato me mā kṣāyi | kurvato me mopadasat | diśāṃ kl̤ptirasi | diśo me kalpantām | kalpantāṃ me diśaḥ 7
daivīśca mānuṣīśca | ahorātre me kalpetām | ardhamāsā me kalpantām | māsā me kalpantām | ṛtavo me kalpantām | saṃvatsaro me kalpatām | kl̤ptirasi kalpatāṃ me | āśānāṃ tvāśāpālebhyaḥ | caturbhyo amṛtebhyaḥ | idaṃ bhūtasyādhyakṣebhyaḥ 8
vidhema haviṣā vayam | bhajatāṃ bhāgī bhāgam | mābhāgo bhakta | nirabhāgaṃ bhajāmaḥ | apaspinva | oṣadhīrjinva | dvipātpāhi | catuṣpādava | divo vṛṣṭimeraya | brāhmaṇānāmidam̐ haviḥ 9
somyānām̐ somapīthinām | nirbhakto'brāhmaṇaḥ | nehābrāhmaṇasyāsti | samaṅktāṃ barhirhaviṣā ghṛtena | samādityairvasubhiḥ saṃ marudbhiḥ | samindre ṇa viśvebhirdevebhiraṅktām | divyaṃ nabho gacchatu yatsvāhā | indrā ṇīvāvidhavā bhūyāsam | aditiriva suputrā | asthūri tvā gārhapatya 10
upa niṣade suprajāstvāya | saṃ patnī patyā sukṛtena gacchatām | yajñasya yuktau dhuryāvabhūtām | saṃjānānau vijahatāmarātīḥ | divi jyotirajaramārabhetām | daśa te tanuvo yajña yajñiyāḥ | tāḥ prīṇātu yajamāno ghṛtena | nāriṣṭhayoḥ praśiṣamīḍamānaḥ | devānāṃ daivye'pi yajamāno'mṛto'bhūt | yaṃ vāṃ devā akalpayan 11
ūrjo bhāgam̐ śatakratū |etadvāṃ tena prīṇāni | tena tṛpyatamam̐ hahau | ahaṃ devānām̐ sukṛtāmasmi loke | mamedamiṣṭaṃ na mithurbhavāti | ahaṃ nāriṣṭhāvanuyajāmi vidvān | yadābhyāmindro adadhādbhāgadheyam | adārasṛdbhavata deva soma | asminyajñe maruto mṛḍatā naḥ | mā no vidadabhi bhāmo aśastiḥ 12
mā no vidadvṛjanā dveṣyā yā | ṛṣabhaṃ vājinaṃ vayam | pūrṇamāsaṃ yajāmahe | sa no dohatām̐ suvīryam | rāyaspoṣam̐ sahasriṇam | prāṇāya surādhase | pūrṇamāsāya svāhā | amāvāsyā subhagā suśevā | dhenuriva bhūya āpyāyamānā | sā no dohatām̐ suvīryam | rāyaspoṣam̐ sahasriṇam | apānāya surādhase | amāvāsyāyai svāhā | abhistṛṇīhi paridhehi vedim | jāmiṃ mā him̐ sīramuyā śayānā | hotṛṣadanā haritāḥ suvarṇāḥ | niṣkā ime yajamānasya bradhne 13
Sanskrit only: no published translation is held for this verse.
परिस्तृणीत परिधत्ताग्निम् । परिहितोऽग्निर्यजमानं भुनक्तु । अपाꣳ रस ओषधीनाꣳ सुवर्णः । निष्का इमे यजमानस्य सन्तु कामदुघाः । अमुत्रामुष्मिꣳ ल्लोके । भूपते भुवनपते । महतो भूतस्य पते । ब्रह्माणं त्वा वृणीमहे । अहं भूपतिरहं भुवनपतिः । अहं महतो भूतस्य पतिः १
देवेन सवित्रा प्रसूत आर्त्विज्यं करिष्यामि । देव सवितरेतं त्वा वृणते । बृहस्पतिं दैव्यं ब्रह्माणम् । तदहं मनसे प्रब्रवीमि । मनो गायत्रियै । गायत्री त्रिष्टुभे । त्रिष्टुब्जगत्यै । जगत्यनुष्टुभे । अनुष्टुक्पङ्क्त्यै । पङ्क्तिः प्रजापतये २
प्रजापतिर्विश्वेभ्यो देवेभ्यः । विश्वे देवा बृहस्पतये । बृहस्पतिर्ब्रह्मणे । ब्रह्म भूर्भुवः सुवः । बृहस्पतिर्देवानां ब्रह्मा । अहं मनुष्याणाम् । बृहस्पते यज्ञं गोपाय । इदं तस्मै हर्म्यं करोमि । यो वो देवाश्चरति ब्रह्मचर्यम् । मेधावी दिक्षु मनसा तपस्वी ३
अन्तर्दूतश्चरति मानुषीषु । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । मर्मृज्यमाना महते सौभगाय । मह्यं धुक्ष्व यजमानाय कामान् । भूमिर्भूत्वा महिमानं पुपोष । ततो देवी वर्धयते पयाꣳ सि । यज्ञिया यज्ञं वि च यन्ति सꣳ च । ओषधीराप इह शक्वरीश्च । यो मा हृदा मनसा यश्च वाचा ४
यो ब्रह्मणा कर्मणा द्वेष्ति देवाः । यः श्रुतेन हृदयेनेष्णता च । तस्येन्द्र वज्रेण शिरश्छिनद्मि । ऊर्णामृदु प्रथमानꣳ स्योनम् । देवेभ्यो जुष्टꣳ सदनाय बर्हिः । सुवर्गे लोके यजमानꣳ हि धेहि । मां नाकस्य पृष्ठे परमे व्योमन् । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका वयुनानि वस्ते । सा स्तीर्यमाणा महते सौभगाय ५
सा मे धुक्ष्व यजमानाय कामान् । शिवा च मे शग्मा चैधि । स्योना च मे सुषदा चैधि । ऊर्जस्वती च मे पयस्वती चैधि । इषमूर्जं मे पिन्वस्व । ब्रह्म तेजो मे पिन्वस्व । क्षत्रमोजो मे पिन्वस्व । विशं पुष्टिं मे पिन्वस्व । आयुरन्नाद्यं मे पिन्वस्व । प्रजां पशून्मे पिन्वस्व ६
अस्मिन्यज्ञ उप भूय इन्नु मे । अविक्षोभाय परिधीन्दधामि । धर्ता धरुणो धरीयान् । अग्निर्द्वेषाꣳ सि निरितो नुदातै । विच्छिनद्मि विधृतीभ्याꣳ सपत्नान् । जातान्भ्रातृब्यान्ये च जनिष्यमानाः । विशो यन्त्राभ्यां विधमाम्येनान् । अहꣳ स्वानामुत्तमोऽसानि देवाः । विशो यन्त्रे नुदमाने अरातिम् । विश्वं पाप्मानममतिं दुर्मरायुम् ७
सीदन्ती देवी सुकृतस्य लोके । धृती स्थो विधृती स्वधृती ।प्राणान्मयि धारयतम् । प्रजां मयि धारयतम् । पशून्मयि धारयतम् । अयं प्रस्तर उभयस्य धर्ता । धर्ता प्रयाजानामुतानूयाजानाम् । स दाधार समिधो विश्वरूपाः । तस्मिन्त्स्रुचो अध्यासादयामि । आरोह पथो जुहु देवयानान् ८
यत्रर्षयः प्रथमजा ये पुराणाः । हिरण्यपक्षाजिरा सम्भृताङ्गा । वहासि मा सुकृतां यत्र लोकाः । अवाहं बाध उपभृता सपत्नान् । जातान्भ्रातृव्यान्ये च जनिष्यमाणाः । दोहं यज्ञꣳ सुदुघामिव धेनुम् । अहमुत्तरो भूयासम् । अधरे मत्सपत्नाः । यो मा वाचा मनसा दुर्मरायुः । हृदारातीयादभिदासदग्ने ९
इदमस्य चित्तमधरं ध्रुवायाः । अहमुत्तरो भूयासम् । अधरे मत्सपत्नाः । ऋषभोऽसि शाक्वरः । घृताचीनाꣳ सूनुः । प्रियेण नाम्ना प्रिये सदसि सीद । स्योनो मे सीद सुषदः पृथिव्याम् । प्रथयि प्रजया पशुभिः सुवर्गे लोके । दिवि सीद पृथिव्यामन्तरिक्षे । अहमुत्तरो भूयासम् १०
अधरे मत्सपत्नाः । इयꣳ स्थाली घृतस्य पूर्णा । अच्छिन्नपयाः शतधार उत्सः । मारुतेन शर्मणा दैव्येन । यज्ञोऽसि सर्वतः श्रितः । सर्वतो मां भूतं भवैष्यच्छ्रयताम् । शतं मे सन्त्वाशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । प्रजापतिरसि सर्वतः श्रितः ११
सर्वतो मां भूतं भविष्यच्छ्रयताम् । शतं मे सन्त्वाशिषः । सहस्रं मे सन्तु सूनृताः । इरावतीः पशुमतीः । इदमिन्द्रि यममृतं वीर्यम् । अनेनेन्द्रा य पशवोऽचिकित्सन् । तेन देवा अवतोऽप माम् । इहेषमूर्जं यशः सह ओजः सनेयम् । शृतं मयि श्रयताम् । यत्पृथिवीमचरत्तत्प्रविष्टम् १२
येनासिञ्चद्बलमिन्द्रे प्रजापतिः । इदं तच्छुक्रं मधु वाजिनीवत् । येनोपरिष्टा-दधिनोन्महेन्द्र म् । दधि मां धिनोतु । अयं वेदः पृथिवीमन्वविन्दत् । गुहा सतीं गहने गह्वरेषु । स विन्दतु यजमानाय लोकम् । अच्छिद्रं यज्ञं भूरिकर्मा करोतु । अयं यज्ञः समसदद्धविष्मान् । ऋचा साम्ना यजुषा देवताभिः १३
तेन लोकान्त्सूर्यवतो जयेम । इन्द्र स्य सख्यममृतत्वमश्याम् । यो नः कनीय इह कामयातै । अस्मिन्यज्ञे यजमानाय मह्यम् । अप तमिन्द्रा ग्नी भुवनान्नुदेताम् । अहं प्रजां वीरवतीं विदेय । अग्ने वाजजित् । वाजं त्वा सरिष्यन्तं ।वाजं जेष्यन्तम् । वाजिनं वाजजितम् १४
वाजजित्यायै संमार्ज्मि । अग्निमन्नादमन्नाद्याय । उपहूतो द्यौः पिता । उप मां द्यौः पिता ह्वयताम् । अग्निराग्नीध्रात् । आयुषे वर्चसे जीवात्वै पुण्याय । उपहूता पृथिवी माता । उप मां माता पृथिवी ह्वयताम् । अग्निराग्नीध्रात् १५
आयुषे वर्चसे । जीवात्वै पुण्याय । मनो ज्योतिर्जुषतामाज्यम् । विच्छिन्नं यज्ञꣳ समिमं दधातु । बृहस्पतिस्तनुतामिमं नः । विश्वे देवा इह मादयन्ताम् । यं ते अग्न आवृश्चामि । अहं वा क्षिपितश्चरन् । प्रजां च तस्य मूलं च । नीचैर्देवा निवृश्चत १६
अग्ने यो नोऽभिदासति । समानो यश्च निष्ट्यः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किंचन । यो मां द्वेष्टि जातवेदः । यं चाहं द्वेष्मि यश्च माम् । सर्वाꣳ स्तानग्ने संदह । याꣳ श्चाहं द्वेष्मि ये च माम् । अग्ने वाजजित् । वाजं त्वा ससृवाꣳ सम् १७
वाजं जिगिवाꣳ सम् । वाजिनं वाजजितम् । वाजजित्यायै संमार्ज्मि । अग्निमन्नादमन्नाद्याय । वेदिर्बर्हिः शृतꣳ हविः । इध्मः परिधयः स्रुचः । आज्यं यज्ञ ऋचो यजुः । याज्याश्च वषट्काराः । सं मे संनतयो नमन्ताम् । इध्मसंनहने हुते १८
दिवः खीलोऽवततः । पृथिव्या अध्युत्थितः । तेना सहस्रकाण्डेन । द्विषन्तꣳ शोचयामसि । द्विषन्मे बहु शोचतु । ओषधे मो अहꣳ शुचम् । यज्ञ नमस्ते यज्ञ । नमो नमश्च ते यज्ञ । शिवेन मे संतिष्ठस्व । स्योनेन मे संतिष्ठस्व १९
सुभूतेन मे संतिष्ठस्व । ब्रह्मवर्चसेन मे संतिष्ठस्व । यज्ञस्यर्द्धिमनु संतिष्ठस्व । उप ते यज्ञ नमः । उप ते नमः । उप ते नमः । त्रिष्फलीक्रियमाणानाम् । यो न्यङ्गो अवशिष्यते । रक्षसां भागधेयम् । आपस्तत्प्रवहतादितः २०
उलूखले मुसले यच्च शूर्पे । आशिश्लेष दृषदि यत्कपाले । अवप्रुषो विप्रुषः संयजामि । विश्वे देवा हविरिदं जुषन्ताम् । यज्ञे या विप्रुषः सन्ति बह्वीः । अग्नौ ताः सर्वाः स्विष्टाः सुहुता जुहोमि । उद्यन्नद्य मित्रमहः । सपत्नान्मे अनीनशः । दिवैनान्विद्युता जहि । निम्रोचन्नधरान्कृधि २१
उद्यन्नद्य वि नो भज । पिता पुत्रेभ्यो यथा । दीर्घायुत्वस्य हेशिषे । तस्य नो देहि सूर्य । उद्यन्नद्य मित्रमहः । आरोहन्नुत्तरां दिवम् । हृद्रो गं मम सूर्य । हरिमाणं च नाशय । शुकेषु मे हरिमाणम् । रोपणाकासु दध्मसि २२
अथो हारिद्र वेषु मे । हरिमाणं निदध्मसि । उदगादयमादित्यः । विश्वेन सहसा सह । द्विषन्तं मम रन्धयन् । मो अहं द्विषतो रधम् । यो नः शपादशपतः । यश्च नः शपतः शपात् । उषाश्च तस्मै निम्रुक्च । सर्वं पापꣳ समूहताम् ७७यो नः सपत्नो यो रणः । मर्तोऽभिदासति देवाः । इध्मस्येव प्रक्षायतः । मा तस्योच्छेषि किं चन । अवसृष्टः परापत । शरो ब्रह्मसꣳ शितः । गच्छामित्रान्प्रविश । मैषां कं चनोच्छिषः २३
paristṛṇīta paridhattāgnim | parihito'gniryajamānaṃ bhunaktu | apām̐ rasa oṣadhīnām̐ suvarṇaḥ | niṣkā ime yajamānasya santu kāmadughāḥ | amutrāmuṣmim̐ lloke | bhūpate bhuvanapate | mahato bhūtasya pate | brahmāṇaṃ tvā vṛṇīmahe | ahaṃ bhūpatirahaṃ bhuvanapatiḥ | ahaṃ mahato bhūtasya patiḥ 1
devena savitrā prasūta ārtvijyaṃ kariṣyāmi | deva savitaretaṃ tvā vṛṇate | bṛhaspatiṃ daivyaṃ brahmāṇam | tadahaṃ manase prabravīmi | mano gāyatriyai | gāyatrī triṣṭubhe | triṣṭubjagatyai | jagatyanuṣṭubhe | anuṣṭukpaṅktyai | paṅktiḥ prajāpataye 2
prajāpatirviśvebhyo devebhyaḥ | viśve devā bṛhaspataye | bṛhaspatirbrahmaṇe | brahma bhūrbhuvaḥ suvaḥ | bṛhaspatirdevānāṃ brahmā | ahaṃ manuṣyāṇām | bṛhaspate yajñaṃ gopāya | idaṃ tasmai harmyaṃ karomi | yo vo devāścarati brahmacaryam | medhāvī dikṣu manasā tapasvī 3
antardūtaścarati mānuṣīṣu | catuḥśikhaṇḍā yuvatiḥ supeśāḥ | ghṛtapratīkā bhuvanasya madhye | marmṛjyamānā mahate saubhagāya | mahyaṃ dhukṣva yajamānāya kāmān | bhūmirbhūtvā mahimānaṃ pupoṣa | tato devī vardhayate payām̐ si | yajñiyā yajñaṃ vi ca yanti sam̐ ca | oṣadhīrāpa iha śakvarīśca | yo mā hṛdā manasā yaśca vācā 4
yo brahmaṇā karmaṇā dveṣti devāḥ | yaḥ śrutena hṛdayeneṣṇatā ca | tasyendra vajreṇa śiraśchinadmi | ūrṇāmṛdu prathamānam̐ syonam | devebhyo juṣṭam̐ sadanāya barhiḥ | suvarge loke yajamānam̐ hi dhehi | māṃ nākasya pṛṣṭhe parame vyoman | catuḥśikhaṇḍā yuvatiḥ supeśāḥ | ghṛtapratīkā vayunāni vaste | sā stīryamāṇā mahate saubhagāya 5
sā me dhukṣva yajamānāya kāmān | śivā ca me śagmā caidhi | syonā ca me suṣadā caidhi | ūrjasvatī ca me payasvatī caidhi | iṣamūrjaṃ me pinvasva | brahma tejo me pinvasva | kṣatramojo me pinvasva | viśaṃ puṣṭiṃ me pinvasva | āyurannādyaṃ me pinvasva | prajāṃ paśūnme pinvasva 6
asminyajña upa bhūya innu me | avikṣobhāya paridhīndadhāmi | dhartā dharuṇo dharīyān | agnirdveṣām̐ si nirito nudātai | vicchinadmi vidhṛtībhyām̐ sapatnān | jātānbhrātṛbyānye ca janiṣyamānāḥ | viśo yantrābhyāṃ vidhamāmyenān | aham̐ svānāmuttamo'sāni devāḥ | viśo yantre nudamāne arātim | viśvaṃ pāpmānamamatiṃ durmarāyum 7
sīdantī devī sukṛtasya loke | dhṛtī stho vidhṛtī svadhṛtī |prāṇānmayi dhārayatam | prajāṃ mayi dhārayatam | paśūnmayi dhārayatam | ayaṃ prastara ubhayasya dhartā | dhartā prayājānāmutānūyājānām | sa dādhāra samidho viśvarūpāḥ | tasmintsruco adhyāsādayāmi | āroha patho juhu devayānān 8
yatrarṣayaḥ prathamajā ye purāṇāḥ | hiraṇyapakṣājirā sambhṛtāṅgā | vahāsi mā sukṛtāṃ yatra lokāḥ | avāhaṃ bādha upabhṛtā sapatnān | jātānbhrātṛvyānye ca janiṣyamāṇāḥ | dohaṃ yajñam̐ sudughāmiva dhenum | ahamuttaro bhūyāsam | adhare matsapatnāḥ | yo mā vācā manasā durmarāyuḥ | hṛdārātīyādabhidāsadagne 9
idamasya cittamadharaṃ dhruvāyāḥ | ahamuttaro bhūyāsam | adhare matsapatnāḥ | ṛṣabho'si śākvaraḥ | ghṛtācīnām̐ sūnuḥ | priyeṇa nāmnā priye sadasi sīda | syono me sīda suṣadaḥ pṛthivyām | prathayi prajayā paśubhiḥ suvarge loke | divi sīda pṛthivyāmantarikṣe | ahamuttaro bhūyāsam 10
adhare matsapatnāḥ | iyam̐ sthālī ghṛtasya pūrṇā | acchinnapayāḥ śatadhāra utsaḥ | mārutena śarmaṇā daivyena | yajño'si sarvataḥ śritaḥ | sarvato māṃ bhūtaṃ bhavaiṣyacchrayatām | śataṃ me santvāśiṣaḥ | sahasraṃ me santu sūnṛtāḥ | irāvatīḥ paśumatīḥ | prajāpatirasi sarvataḥ śritaḥ 11
sarvato māṃ bhūtaṃ bhaviṣyacchrayatām | śataṃ me santvāśiṣaḥ | sahasraṃ me santu sūnṛtāḥ | irāvatīḥ paśumatīḥ | idamindri yamamṛtaṃ vīryam | anenendrā ya paśavo'cikitsan | tena devā avato'pa mām | iheṣamūrjaṃ yaśaḥ saha ojaḥ saneyam | śṛtaṃ mayi śrayatām | yatpṛthivīmacarattatpraviṣṭam 12
yenāsiñcadbalamindre prajāpatiḥ | idaṃ tacchukraṃ madhu vājinīvat | yenopariṣṭā-dadhinonmahendra m | dadhi māṃ dhinotu | ayaṃ vedaḥ pṛthivīmanvavindat | guhā satīṃ gahane gahvareṣu | sa vindatu yajamānāya lokam | acchidraṃ yajñaṃ bhūrikarmā karotu | ayaṃ yajñaḥ samasadaddhaviṣmān | ṛcā sāmnā yajuṣā devatābhiḥ 13
tena lokāntsūryavato jayema | indra sya sakhyamamṛtatvamaśyām | yo naḥ kanīya iha kāmayātai | asminyajñe yajamānāya mahyam | apa tamindrā gnī bhuvanānnudetām | ahaṃ prajāṃ vīravatīṃ videya | agne vājajit | vājaṃ tvā sariṣyantaṃ |vājaṃ jeṣyantam | vājinaṃ vājajitam 14
vājajityāyai saṃmārjmi | agnimannādamannādyāya | upahūto dyauḥ pitā | upa māṃ dyauḥ pitā hvayatām | agnirāgnīdhrāt | āyuṣe varcase jīvātvai puṇyāya | upahūtā pṛthivī mātā | upa māṃ mātā pṛthivī hvayatām | agnirāgnīdhrāt 15
āyuṣe varcase | jīvātvai puṇyāya | mano jyotirjuṣatāmājyam | vicchinnaṃ yajñam̐ samimaṃ dadhātu | bṛhaspatistanutāmimaṃ naḥ | viśve devā iha mādayantām | yaṃ te agna āvṛścāmi | ahaṃ vā kṣipitaścaran | prajāṃ ca tasya mūlaṃ ca | nīcairdevā nivṛścata 16
agne yo no'bhidāsati | samāno yaśca niṣṭyaḥ | idhmasyeva prakṣāyataḥ | mā tasyoccheṣi kiṃcana | yo māṃ dveṣṭi jātavedaḥ | yaṃ cāhaṃ dveṣmi yaśca mām | sarvām̐ stānagne saṃdaha | yām̐ ścāhaṃ dveṣmi ye ca mām | agne vājajit | vājaṃ tvā sasṛvām̐ sam 17
vājaṃ jigivām̐ sam | vājinaṃ vājajitam | vājajityāyai saṃmārjmi | agnimannādamannādyāya | vedirbarhiḥ śṛtam̐ haviḥ | idhmaḥ paridhayaḥ srucaḥ | ājyaṃ yajña ṛco yajuḥ | yājyāśca vaṣaṭkārāḥ | saṃ me saṃnatayo namantām | idhmasaṃnahane hute 18
divaḥ khīlo'vatataḥ | pṛthivyā adhyutthitaḥ | tenā sahasrakāṇḍena | dviṣantam̐ śocayāmasi | dviṣanme bahu śocatu | oṣadhe mo aham̐ śucam | yajña namaste yajña | namo namaśca te yajña | śivena me saṃtiṣṭhasva | syonena me saṃtiṣṭhasva 19
subhūtena me saṃtiṣṭhasva | brahmavarcasena me saṃtiṣṭhasva | yajñasyarddhimanu saṃtiṣṭhasva | upa te yajña namaḥ | upa te namaḥ | upa te namaḥ | triṣphalīkriyamāṇānām | yo nyaṅgo avaśiṣyate | rakṣasāṃ bhāgadheyam | āpastatpravahatāditaḥ 20
ulūkhale musale yacca śūrpe | āśiśleṣa dṛṣadi yatkapāle | avapruṣo vipruṣaḥ saṃyajāmi | viśve devā haviridaṃ juṣantām | yajñe yā vipruṣaḥ santi bahvīḥ | agnau tāḥ sarvāḥ sviṣṭāḥ suhutā juhomi | udyannadya mitramahaḥ | sapatnānme anīnaśaḥ | divainānvidyutā jahi | nimrocannadharānkṛdhi 21
udyannadya vi no bhaja | pitā putrebhyo yathā | dīrghāyutvasya heśiṣe | tasya no dehi sūrya | udyannadya mitramahaḥ | ārohannuttarāṃ divam | hṛdro gaṃ mama sūrya | harimāṇaṃ ca nāśaya | śukeṣu me harimāṇam | ropaṇākāsu dadhmasi 22
atho hāridra veṣu me | harimāṇaṃ nidadhmasi | udagādayamādityaḥ | viśvena sahasā saha | dviṣantaṃ mama randhayan | mo ahaṃ dviṣato radham | yo naḥ śapādaśapataḥ | yaśca naḥ śapataḥ śapāt | uṣāśca tasmai nimrukca | sarvaṃ pāpam̐ samūhatām 77yo naḥ sapatno yo raṇaḥ | marto'bhidāsati devāḥ | idhmasyeva prakṣāyataḥ | mā tasyoccheṣi kiṃ cana | avasṛṣṭaḥ parāpata | śaro brahmasam̐ śitaḥ | gacchāmitrānpraviśa | maiṣāṃ kaṃ canocchiṣaḥ 23
Sanskrit only: no published translation is held for this verse.
सक्षेदं पश्य । विधर्तरिदं पश्य । नाकेदं पश्य । रमतिः पनिष्ठा । ऋतं वर्षिष्ठम् । अमृता यान्याहुः । सूर्यो वरिष्ठो अक्षभिर्विभाति । अनु द्यावा-पृथिवी देवपुत्रे । दीक्षासि तपसो योनिः । तपोऽसि ब्रह्मणो योनिः १
ब्रह्मासि क्षत्रस्य योनिः । क्षत्रमस्यृतस्य योनिः । ऋतमसि भूर् । आरभे । श्रद्धां मनसा । दीक्षां तपसा । विश्वस्य भुवनस्याधिपत्नीम् । सर्वे कामा यजमानस्य सन्तु । वातं प्राणं मनसान्वारभामहे । प्रजापतिं यो भुवनस्य गोपाः । स नो मृत्योस्त्रायतां पात्वꣳ हसः २
ज्योग्जीवा जरामशीमहि । इन्द्र शाक्वर गायत्रीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर त्रिष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर जगतीं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वरानुष्टुभं प्रपद्ये । तां ते युनज्मि । इन्द्र शाक्वर पङ्क्तिं प्रपद्ये ३
तां ते युनज्मि । आहं दीक्षामरुहमृतस्य पत्नीम् । गायत्त्रेण छन्दसा ब्रह्मणा च । ऋतꣳ सत्येऽधायि । सत्यमृतेऽधायि । ऋतं च मे सत्यं चाभूताम् । ज्योतिरभूवꣳ सुवरगमम् । सुवर्गं लोकं नाकस्य पृष्ठम् । ब्रध्नस्य विष्टपमगमम् । पृथिवी दीक्षा ४
तयाग्निर्दीक्षया दीक्षितः । ययाग्निर्दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । अन्तरिक्षं दीक्षा । तया वायुर्दीक्षया दीक्षितः । यया वायुर्दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । द्यौर्दीक्षा । तयादित्यो दीक्षया दीक्षितः । ययादित्यो दीक्षया दीक्षितः ५
तया त्वा दीक्षया दीक्षयामि । दिशो दीक्षा । तया चन्द्र मा दीक्षया दीक्षितः । यया चन्द्र मा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । आपो दीक्षा । तया वरुणो राजा दीक्षया दीक्षितः । यया वरुणो राजा दीक्षया दीक्षितः । आ त्वा दीक्षया दीक्षयामि । ओषधयो दीक्षा ६
तया सोमो राजा दीक्षया दीक्षितः । यया सोमो राजा दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । वाग्दीक्षा । तया प्राणो दीक्षया दीक्षितः । यया प्राणो दीक्षया दीक्षितः । तया त्वा दीक्षया दीक्षयामि । पृथिवी त्वा दीक्षमाणमनु दीक्षताम् । अन्तरिक्षं त्वा दीक्षमाणमनु दीक्षताम् । द्यौस्त्वा दीक्षमाणमनु दीक्षताम् ७
दिशस्त्वा दीक्षमाणमनु दीक्षन्ताम् । आपस्त्वा दीक्षमाणमनु दीक्षन्ताम् । ओषधयस्त्वा दीक्षमाणमनु दीक्षन्ताम् । वाक्त्वा दीक्षमाणमनु दीक्षताम् । ऋचस्त्वा दीक्षमाणमनु दीक्षन्ताम् । सामानि त्वा दीक्षमाणमनु दीक्षन्ताम् । यजूꣳ षि त्वा दीक्षमाणमनु दीक्षन्ताम् । अहश्च रात्रिश्च । कृषिश्च वृष्टिश्च । त्विषिश्चापचितिश्च ८
आपश्चौषधयश्च । ऊर्क्च सूनृता च । तास्त्वा दीक्षमाणमनु दीक्षन्ताम् । स्वे दक्षे दक्षपितेह सीद । देवानाꣳ सुम्नो महते रणाय । स्वासस्थस्तनुवा संविशस्व । पितेवैधि सूनव आसुशेवः । शिवो मा शिवमाविश । सत्यं म आत्मा । श्रद्धा मेऽक्षितिः ९
तपो मे प्रतिष्ठा । सवितृप्रसूता मा दिशो दीक्षयन्तु । सत्यमस्मि । अहं त्वदस्मि मदसि त्वमेतत् । ममासि योनिस्तव योनिरस्मि । ममैव सन्वह हव्यान्यग्ने । पुत्त्रः पित्रे लोककृज्जातवेदः । आजुह्वानः सुप्रतीकः पुरस्तात् । अग्ने स्वां योनिमासीद साध्या । अस्मिन्त्सधस्थे अध्युत्तरस्मिन् १०
विश्वे देवा यजमानश्च सीदत । एकमिषे विष्णुस्त्वान्वेतु । द्वे ऊर्जे विष्णुस्त्वान्वेतु । त्रीणि व्रताय विष्णुस्त्वान्वेतु । चत्वारि मायोभवाय विष्णुस्त्वान्वेतु । पञ्च पशुभ्यो विष्णुस्त्वान्वेतु । षड्रायस्पोषाय विष्णुस्त्वान्वेतु । सप्त सप्तभ्यो होत्राभ्यो विष्णुस्त्वान्वेतु । सखायः सप्तपदा अभूम । सख्यं ते गमेयम् ११
सख्यात्ते मा योषम् । सख्यान्मे मा योष्ठाः । सासि सुब्रह्मण्ये । तस्यास्ते पृथिवी पादः । सासि सुब्रह्मण्ये । तस्यास्तेऽन्तरिक्षं पादः । सासि सुब्रह्मण्ये । तस्यास्ते द्यौः पादः । सासि सुब्रह्मण्ये । तस्यास्ते दिशः पादः १२
परोरजास्ते पञ्चमः पादः । सा न इषमूर्जं धुक्ष्व । तेज इन्द्रियम् । ब्रह्म-वर्चसमन्नाद्यम् । विमिमे त्वा पयस्वतीम् । देवानां धेनुꣳ सुदुघामनपस्फुरन्तीम् । इन्द्रः सोमं पिबतु । क्षेमो अस्तु नः । इमां नराः कृणुत वेदिमेत्य । वसुमतीꣳ रुद्रवतीमादित्यवतीम् १३
वर्ष्मन्दिवः । नाभा पृथिव्याः । यथायं यजमानो न रिष्येत् । देवस्य सवितुः सवे । चतुःशिखण्डा युवतिः सुपेशाः । घृतप्रतीका भुवनस्य मध्ये । तस्याꣳ सुपर्णावधि यौ निविष्टौ । तयोर्देवानामधि भागधेयम् । अप जन्यं भयं नुद । अप चक्राणि वर्तय । गृहꣳ सोमस्य गच्छतम् । न वा उवेतन्म्रियसे न रिष्यसि । देवाꣳ इदेषि पथिभिः सुगेभिः । यत्र यन्ति सुकृतो नापि दुष्कृतः । तत्र त्वा देवः सविता दधातु १४
sakṣedaṃ paśya | vidhartaridaṃ paśya | nākedaṃ paśya | ramatiḥ paniṣṭhā | ṛtaṃ varṣiṣṭham | amṛtā yānyāhuḥ | sūryo variṣṭho akṣabhirvibhāti | anu dyāvā-pṛthivī devaputre | dīkṣāsi tapaso yoniḥ | tapo'si brahmaṇo yoniḥ 1
brahmāsi kṣatrasya yoniḥ | kṣatramasyṛtasya yoniḥ | ṛtamasi bhūr | ārabhe | śraddhāṃ manasā | dīkṣāṃ tapasā | viśvasya bhuvanasyādhipatnīm | sarve kāmā yajamānasya santu | vātaṃ prāṇaṃ manasānvārabhāmahe | prajāpatiṃ yo bhuvanasya gopāḥ | sa no mṛtyostrāyatāṃ pātvam̐ hasaḥ 2
jyogjīvā jarāmaśīmahi | indra śākvara gāyatrīṃ prapadye | tāṃ te yunajmi | indra śākvara triṣṭubhaṃ prapadye | tāṃ te yunajmi | indra śākvara jagatīṃ prapadye | tāṃ te yunajmi | indra śākvarānuṣṭubhaṃ prapadye | tāṃ te yunajmi | indra śākvara paṅktiṃ prapadye 3
tāṃ te yunajmi | āhaṃ dīkṣāmaruhamṛtasya patnīm | gāyattreṇa chandasā brahmaṇā ca | ṛtam̐ satye'dhāyi | satyamṛte'dhāyi | ṛtaṃ ca me satyaṃ cābhūtām | jyotirabhūvam̐ suvaragamam | suvargaṃ lokaṃ nākasya pṛṣṭham | bradhnasya viṣṭapamagamam | pṛthivī dīkṣā 4
tayāgnirdīkṣayā dīkṣitaḥ | yayāgnirdīkṣayā dīkṣitaḥ | tayā tvā dīkṣayā dīkṣayāmi | antarikṣaṃ dīkṣā | tayā vāyurdīkṣayā dīkṣitaḥ | yayā vāyurdīkṣayā dīkṣitaḥ | tayā tvā dīkṣayā dīkṣayāmi | dyaurdīkṣā | tayādityo dīkṣayā dīkṣitaḥ | yayādityo dīkṣayā dīkṣitaḥ 5
tayā tvā dīkṣayā dīkṣayāmi | diśo dīkṣā | tayā candra mā dīkṣayā dīkṣitaḥ | yayā candra mā dīkṣayā dīkṣitaḥ | tayā tvā dīkṣayā dīkṣayāmi | āpo dīkṣā | tayā varuṇo rājā dīkṣayā dīkṣitaḥ | yayā varuṇo rājā dīkṣayā dīkṣitaḥ | ā tvā dīkṣayā dīkṣayāmi | oṣadhayo dīkṣā 6
tayā somo rājā dīkṣayā dīkṣitaḥ | yayā somo rājā dīkṣayā dīkṣitaḥ | tayā tvā dīkṣayā dīkṣayāmi | vāgdīkṣā | tayā prāṇo dīkṣayā dīkṣitaḥ | yayā prāṇo dīkṣayā dīkṣitaḥ | tayā tvā dīkṣayā dīkṣayāmi | pṛthivī tvā dīkṣamāṇamanu dīkṣatām | antarikṣaṃ tvā dīkṣamāṇamanu dīkṣatām | dyaustvā dīkṣamāṇamanu dīkṣatām 7
diśastvā dīkṣamāṇamanu dīkṣantām | āpastvā dīkṣamāṇamanu dīkṣantām | oṣadhayastvā dīkṣamāṇamanu dīkṣantām | vāktvā dīkṣamāṇamanu dīkṣatām | ṛcastvā dīkṣamāṇamanu dīkṣantām | sāmāni tvā dīkṣamāṇamanu dīkṣantām | yajūm̐ ṣi tvā dīkṣamāṇamanu dīkṣantām | ahaśca rātriśca | kṛṣiśca vṛṣṭiśca | tviṣiścāpacitiśca 8
āpaścauṣadhayaśca | ūrkca sūnṛtā ca | tāstvā dīkṣamāṇamanu dīkṣantām | sve dakṣe dakṣapiteha sīda | devānām̐ sumno mahate raṇāya | svāsasthastanuvā saṃviśasva | pitevaidhi sūnava āsuśevaḥ | śivo mā śivamāviśa | satyaṃ ma ātmā | śraddhā me'kṣitiḥ 9
tapo me pratiṣṭhā | savitṛprasūtā mā diśo dīkṣayantu | satyamasmi | ahaṃ tvadasmi madasi tvametat | mamāsi yonistava yonirasmi | mamaiva sanvaha havyānyagne | puttraḥ pitre lokakṛjjātavedaḥ | ājuhvānaḥ supratīkaḥ purastāt | agne svāṃ yonimāsīda sādhyā | asmintsadhasthe adhyuttarasmin 10
viśve devā yajamānaśca sīdata | ekamiṣe viṣṇustvānvetu | dve ūrje viṣṇustvānvetu | trīṇi vratāya viṣṇustvānvetu | catvāri māyobhavāya viṣṇustvānvetu | pañca paśubhyo viṣṇustvānvetu | ṣaḍrāyaspoṣāya viṣṇustvānvetu | sapta saptabhyo hotrābhyo viṣṇustvānvetu | sakhāyaḥ saptapadā abhūma | sakhyaṃ te gameyam 11
sakhyātte mā yoṣam | sakhyānme mā yoṣṭhāḥ | sāsi subrahmaṇye | tasyāste pṛthivī pādaḥ | sāsi subrahmaṇye | tasyāste'ntarikṣaṃ pādaḥ | sāsi subrahmaṇye | tasyāste dyauḥ pādaḥ | sāsi subrahmaṇye | tasyāste diśaḥ pādaḥ 12
parorajāste pañcamaḥ pādaḥ | sā na iṣamūrjaṃ dhukṣva | teja indriyam | brahma-varcasamannādyam | vimime tvā payasvatīm | devānāṃ dhenum̐ sudughāmanapasphurantīm | indraḥ somaṃ pibatu | kṣemo astu naḥ | imāṃ narāḥ kṛṇuta vedimetya | vasumatīm̐ rudravatīmādityavatīm 13
varṣmandivaḥ | nābhā pṛthivyāḥ | yathāyaṃ yajamāno na riṣyet | devasya savituḥ save | catuḥśikhaṇḍā yuvatiḥ supeśāḥ | ghṛtapratīkā bhuvanasya madhye | tasyām̐ suparṇāvadhi yau niviṣṭau | tayordevānāmadhi bhāgadheyam | apa janyaṃ bhayaṃ nuda | apa cakrāṇi vartaya | gṛham̐ somasya gacchatam | na vā uvetanmriyase na riṣyasi | devām̐ ideṣi pathibhiḥ sugebhiḥ | yatra yanti sukṛto nāpi duṣkṛtaḥ | tatra tvā devaḥ savitā dadhātu 14
Sanskrit only: no published translation is held for this verse.
यदस्य पारे रजसः । शुक्रं ज्योतिरजायत । तन्नः पर्षदति द्विषः । अग्ने वैश्वानर स्वाहा । यस्माद्भीषावाशिष्ठाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्रा य मीढुषे । यस्माद्भीषा न्यषदः । ततो नो अभयं कृधि १
प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्रा य मीढुषे । उदुस्र तिष्ठ प्रतितिष्ठ मा रिषः । मेमं यज्ञं यजमानं च रीरिषः । सुवर्गे लोके यजमानꣳ हि धेहि । शं न एधि द्विपदे शं चतुष्पदे । यस्माद्भीषावेपिष्ठाः पलायिष्ठाः समज्ञास्थाः । ततो नो अभयं कृधि । प्रजाभ्यः सर्वाभ्यो मृड । नमो रुद्रा य मीढुषे २
य इदमकः । तस्मै नमः । तस्मै स्वाहा । न वा उवेतन्म्रियसे । ।आशानां त्वा । विश्वा आशाः । यज्ञस्य हि स्थ ऋत्वियौ । इन्द्रा ग्नी चेतनस्य च । हुताहुतस्य तृप्यतम् । अहुतस्य हुतस्य च । हुतस्य चाहुतस्य च । अहुतस्य हुतस्य च । इन्द्रा ग्नी अस्य सोमस्य । वीतं पिबतं जुषेथाम् । मा यजमानं तमो विदत् । मर्त्विजो मो इमाः प्रजाः । मा यः सोममिमं पिबात् । सꣳ सृष्टमुभयं कृतम् ३
yadasya pāre rajasaḥ | śukraṃ jyotirajāyata | tannaḥ parṣadati dviṣaḥ | agne vaiśvānara svāhā | yasmādbhīṣāvāśiṣṭhāḥ | tato no abhayaṃ kṛdhi | prajābhyaḥ sarvābhyo mṛḍa | namo rudrā ya mīḍhuṣe | yasmādbhīṣā nyaṣadaḥ | tato no abhayaṃ kṛdhi 1
prajābhyaḥ sarvābhyo mṛḍa | namo rudrā ya mīḍhuṣe | udusra tiṣṭha pratitiṣṭha mā riṣaḥ | memaṃ yajñaṃ yajamānaṃ ca rīriṣaḥ | suvarge loke yajamānam̐ hi dhehi | śaṃ na edhi dvipade śaṃ catuṣpade | yasmādbhīṣāvepiṣṭhāḥ palāyiṣṭhāḥ samajñāsthāḥ | tato no abhayaṃ kṛdhi | prajābhyaḥ sarvābhyo mṛḍa | namo rudrā ya mīḍhuṣe 2
ya idamakaḥ | tasmai namaḥ | tasmai svāhā | na vā uvetanmriyase | |āśānāṃ tvā | viśvā āśāḥ | yajñasya hi stha ṛtviyau | indrā gnī cetanasya ca | hutāhutasya tṛpyatam | ahutasya hutasya ca | hutasya cāhutasya ca | ahutasya hutasya ca | indrā gnī asya somasya | vītaṃ pibataṃ juṣethām | mā yajamānaṃ tamo vidat | martvijo mo imāḥ prajāḥ | mā yaḥ somamimaṃ pibāt | sam̐ sṛṣṭamubhayaṃ kṛtam 3
Sanskrit only: no published translation is held for this verse.
अनागसस्त्वा वयम् । इन्द्रे ण प्रेषिता उप । वायुष्टे अस्त्वꣳ शभूः । मित्रस्ते अस्त्वꣳ शभूः । वरुणस्ते अस्त्वꣳ शभूः । अपां क्षया ऋतस्य गर्भाः । भुवनस्य गोपाः श्येना अतिथयः । पर्वतानां ककुभः प्रयुतो नपातारः । वग्नुनेन्द्र ँ! ह्वयत । घोषेणामीवाꣳ श्चातयत १
युक्ताः स्थ वहत । देवा ग्रावाण इन्दुरिन्द्र इत्यवादिषुः । एन्द्र मचुच्यवुः परमस्याः परावतः । आस्मात्सधस्थात् । ओरोरन्तरिक्षात् । आ सुभूतमसुषवुः । ब्रह्मवर्चसं म आसुषवुः । समरे रक्षाꣳ स्यवधिषुः । अपहतं ब्रह्मज्यस्य । वाक्च त्वा मनश्च श्रिणीताम् २
प्राणश्च त्वापानश्च श्रीणीताम् । चक्षुश्च त्वा श्रोत्रं च श्रीणीताम् । दक्षश्च त्वा बलं च श्रीणीताम् । ओजश्च त्वा सहश्च श्रीणीताम् । आयुश्च त्वा जरा च श्रीणीताम् । आत्मा च त्वा तनूश्च श्रीणीताम् । शृतोऽसि शृतंकृतः । शृताय त्वा शृतेभ्यस्त्वा । यमिन्द्र माहुर्वरुणं यमाहुः । यं मित्रमाहुर्यमु सत्यमाहुः ३
यो देवानां देवतमस्तपोजाः । तस्मै त्वा तेभ्यस्त्वा । मयि त्यदिन्द्रि यं महत् । मयि दक्षो मयि क्रतुः । मयि धायि सुवीर्यम् । त्रिशुग्घर्मो विभातु मे । आकूत्या मनसा सह । विराजा ज्योतिषा सह । यज्ञेन पयसा सह । तस्य दोहमशीमहि ४
तस्य सुम्नमशीमहि । तस्य भक्षमशीमहि । वाग्जुषाणा सोमस्य तृप्यतु । मित्रो जनान् । प्र स मित्र । ।यस्मान्न जातः परो अन्यो अस्ति । य आविवेश भुवनानि विश्वा । प्रजापतिः प्रजया संविदानः । त्रीणि ज्योतीꣳ षि सचते स षोडशी ।एष ब्रह्मा य ऋत्वियः । इन्द्रो नाम श्रुतो गणे ५
प्र ते महे विदथेऽशꣳ सिषꣳ हरी ।य ऋत्वियः प्र ते वन्वे । वनुषो हर्यतं मदम् । इन्द्रो नाम घृतं न यः । हरिभिश्चारु सेचते । श्रुतो गण आ त्वा विशन्तु । हरिवर्पसं गिरः । इन्द्रा धिपतेऽधिपतिस्त्वं देवानामसि । अधिपतिं माम् । आयुष्मन्तं वर्चस्वन्तं मनुष्येषु कुरु ६
इन्द्र श्च सम्राड्वरुणश्च राजा । तौ ते भक्षं चक्रतुरग्र एतम् । तयोरनु भक्षं भक्षयामि । वाग्जुषाणा सोमस्य तृप्यतु । प्रजापतिर्विश्वकर्मा । तस्य मनो देवं यज्ञेन राध्यासम् । अर्थेगा अस्यजहितः । अवसानपतेऽवसानं मे विन्द । नमो रुद्रा य वास्तोष्पतये । आयने विद्र वणे ७
उद्याने यत्परायणे । आवर्तने विवर्तने । यो गोपायति तꣳ हुवे । यान्यपामित्यान्यप्रतीत्तान्यस्मि । यमस्य बलिना चरामि । इहैव सन्तः प्रति तद्यातयामः । जीवा जीवेभ्यो निहराम एनत् । अनृणा अस्मिन्ननृणाः परस्मिन् । तृतीये लोके अनृणाः स्याम । ये देवयाना उत पितृयाणाः ८
सर्वान्पथो अनृणा आक्षीयेम । इदमू नु श्रेयोऽवसानमागन्म । शिवे नो द्यावापृथिवी उभे इमे । गोमद्धनवदश्ववदूर्जस्वत् । सुवीरा वीरैरनु संचरेम । अर्कः पवित्रꣳ रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । द्यावापृथिवी पयसा संविदाने । घृतं दुहाते अमृतं प्रपीने । पवित्रमर्को रजसो विमानः । पुनाति देवानां भुवनानि विश्वा । सुवर्ज्योतिर्यशो महत् । अशीमहि गाधमुत प्रतिष्ठाम् ९
anāgasastvā vayam | indre ṇa preṣitā upa | vāyuṣṭe astvam̐ śabhūḥ | mitraste astvam̐ śabhūḥ | varuṇaste astvam̐ śabhūḥ | apāṃ kṣayā ṛtasya garbhāḥ | bhuvanasya gopāḥ śyenā atithayaḥ | parvatānāṃ kakubhaḥ prayuto napātāraḥ | vagnunendra ~! hvayata | ghoṣeṇāmīvām̐ ścātayata 1
yuktāḥ stha vahata | devā grāvāṇa indurindra ityavādiṣuḥ | endra macucyavuḥ paramasyāḥ parāvataḥ | āsmātsadhasthāt | ororantarikṣāt | ā subhūtamasuṣavuḥ | brahmavarcasaṃ ma āsuṣavuḥ | samare rakṣām̐ syavadhiṣuḥ | apahataṃ brahmajyasya | vākca tvā manaśca śriṇītām 2
prāṇaśca tvāpānaśca śrīṇītām | cakṣuśca tvā śrotraṃ ca śrīṇītām | dakṣaśca tvā balaṃ ca śrīṇītām | ojaśca tvā sahaśca śrīṇītām | āyuśca tvā jarā ca śrīṇītām | ātmā ca tvā tanūśca śrīṇītām | śṛto'si śṛtaṃkṛtaḥ | śṛtāya tvā śṛtebhyastvā | yamindra māhurvaruṇaṃ yamāhuḥ | yaṃ mitramāhuryamu satyamāhuḥ 3
yo devānāṃ devatamastapojāḥ | tasmai tvā tebhyastvā | mayi tyadindri yaṃ mahat | mayi dakṣo mayi kratuḥ | mayi dhāyi suvīryam | triśuggharmo vibhātu me | ākūtyā manasā saha | virājā jyotiṣā saha | yajñena payasā saha | tasya dohamaśīmahi 4
tasya sumnamaśīmahi | tasya bhakṣamaśīmahi | vāgjuṣāṇā somasya tṛpyatu | mitro janān | pra sa mitra | |yasmānna jātaḥ paro anyo asti | ya āviveśa bhuvanāni viśvā | prajāpatiḥ prajayā saṃvidānaḥ | trīṇi jyotīm̐ ṣi sacate sa ṣoḍaśī |eṣa brahmā ya ṛtviyaḥ | indro nāma śruto gaṇe 5
pra te mahe vidathe'śam̐ siṣam̐ harī |ya ṛtviyaḥ pra te vanve | vanuṣo haryataṃ madam | indro nāma ghṛtaṃ na yaḥ | haribhiścāru secate | śruto gaṇa ā tvā viśantu | harivarpasaṃ giraḥ | indrā dhipate'dhipatistvaṃ devānāmasi | adhipatiṃ mām | āyuṣmantaṃ varcasvantaṃ manuṣyeṣu kuru 6
indra śca samrāḍvaruṇaśca rājā | tau te bhakṣaṃ cakraturagra etam | tayoranu bhakṣaṃ bhakṣayāmi | vāgjuṣāṇā somasya tṛpyatu | prajāpatirviśvakarmā | tasya mano devaṃ yajñena rādhyāsam | arthegā asyajahitaḥ | avasānapate'vasānaṃ me vinda | namo rudrā ya vāstoṣpataye | āyane vidra vaṇe 7
udyāne yatparāyaṇe | āvartane vivartane | yo gopāyati tam̐ huve | yānyapāmityānyapratīttānyasmi | yamasya balinā carāmi | ihaiva santaḥ prati tadyātayāmaḥ | jīvā jīvebhyo niharāma enat | anṛṇā asminnanṛṇāḥ parasmin | tṛtīye loke anṛṇāḥ syāma | ye devayānā uta pitṛyāṇāḥ 8
sarvānpatho anṛṇā ākṣīyema | idamū nu śreyo'vasānamāganma | śive no dyāvāpṛthivī ubhe ime | gomaddhanavadaśvavadūrjasvat | suvīrā vīrairanu saṃcarema | arkaḥ pavitram̐ rajaso vimānaḥ | punāti devānāṃ bhuvanāni viśvā | dyāvāpṛthivī payasā saṃvidāne | ghṛtaṃ duhāte amṛtaṃ prapīne | pavitramarko rajaso vimānaḥ | punāti devānāṃ bhuvanāni viśvā | suvarjyotiryaśo mahat | aśīmahi gādhamuta pratiṣṭhām 9
Sanskrit only: no published translation is held for this verse.
उदस्तांप्सीत्सविता मित्रो अर्यमा । सर्वानमित्रानवधीद्युगेन । बृहन्तं मामकरद्वीरवन्तम् । रथंतरे श्रयस्व स्वाहा पृथिव्याम् । वामदेव्ये श्रयस्व स्वाहान्तरिक्षे । बृहति श्रयस्व स्वाहा दिवि । बृहता त्वोपस्तभ्नोमि । आ त्वा ददे यशसे वीर्याय च । अस्मास्वघ्निया यूयं दधाथेन्द्रि यं पयः । यस्ते द्र प्सो यस्त उदर्षः १
दैव्यः केतुर्विश्वं भुवनमाविवेश । स नः पाह्यरिष्ट्यै स्वाहा । अनु मा सर्वो यज्ञोऽयमेतु । विश्वे देवा मरुतः सामार्कः । आप्रियश्छन्दाꣳ सि निविदो यजूꣳ षि । अस्यै पृथिव्यै यद्यज्ञियम् । प्रजापतेर्वर्तनिमनुवर्तस्व । अनु वीरैरनुराध्याम गोभिः । अन्वश्वैरनु सर्वैरु पुष्टैः । अनु प्रजयान्विन्द्रि येण २
देवा नो यज्ञमृजुधा नयन्तु । प्रति क्षत्रे प्रति तिष्ठामि राष्ट्रे । प्रत्यश्वेषु प्रतितिष्ठामि गोषु । प्रति प्रजायां प्रतितिष्ठामि भव्ये । विश्वमन्याभिवावृधे । तदन्यस्यामधि श्रितम् । दिवे च विश्वकर्मणे । पृथिव्यै चाकरं नमः । अस्कान्द्यौः पृथिवीम् । अस्कानृषभो युवा गाः ३
स्कन्नेमा विश्वा भुवना । स्कन्नो यज्ञः प्रजनयतु । अस्कानजनि प्राजनि । आ स्कन्नाज्जायते वृषा । स्कन्नात्प्रजनिषीमहि । ये देवा येषामिदं भागधेयं बभूव । येषां प्रयाजा उतानूयाजाः । इन्द्र ज्येष्ठेभ्यो वरुणराजभ्यः । अग्निहोतृभ्यो देवेभ्यः स्वाहा । उत त्या नो दिवा मतिः ४
अदितिरूत्यागमत् । सा शन्ताची मयस्करत् । अप स्रिधः । उत त्या दैव्या भिषजा । शं नस्करतो अश्विना । यूयातामस्मद्र पः । अप स्रिधः । शमग्निरग्निभिस्करत् । शं नस्तपतु सूर्यः । शं वातो वात्वरपाः ५
अप स्रिधः । तदित्पदं न विचिकेत विद्वान् । यन्मृतः पुनरप्येति जीवान् । त्रिवृद्यद्भुवनस्य रथवृत् । जीवो गर्भो न मृतः स जीवात् । प्रत्यस्मै पिपीषते । विश्वानि विदुषे भर । अरंगमाय जग्मवे । अपश्चाद्दध्वने नरे । इन्दुरिन्दुमवागात् । इन्दोरिन्द्रो ऽपात् । तस्य त इन्दविन्द्र पीतस्य मधुमतः । उपहूतस्योपहूतो भक्षयामि ६
udastāṃpsītsavitā mitro aryamā | sarvānamitrānavadhīdyugena | bṛhantaṃ māmakaradvīravantam | rathaṃtare śrayasva svāhā pṛthivyām | vāmadevye śrayasva svāhāntarikṣe | bṛhati śrayasva svāhā divi | bṛhatā tvopastabhnomi | ā tvā dade yaśase vīryāya ca | asmāsvaghniyā yūyaṃ dadhāthendri yaṃ payaḥ | yaste dra pso yasta udarṣaḥ 1
daivyaḥ keturviśvaṃ bhuvanamāviveśa | sa naḥ pāhyariṣṭyai svāhā | anu mā sarvo yajño'yametu | viśve devā marutaḥ sāmārkaḥ | āpriyaśchandām̐ si nivido yajūm̐ ṣi | asyai pṛthivyai yadyajñiyam | prajāpatervartanimanuvartasva | anu vīrairanurādhyāma gobhiḥ | anvaśvairanu sarvairu puṣṭaiḥ | anu prajayānvindri yeṇa 2
devā no yajñamṛjudhā nayantu | prati kṣatre prati tiṣṭhāmi rāṣṭre | pratyaśveṣu pratitiṣṭhāmi goṣu | prati prajāyāṃ pratitiṣṭhāmi bhavye | viśvamanyābhivāvṛdhe | tadanyasyāmadhi śritam | dive ca viśvakarmaṇe | pṛthivyai cākaraṃ namaḥ | askāndyauḥ pṛthivīm | askānṛṣabho yuvā gāḥ 3
skannemā viśvā bhuvanā | skanno yajñaḥ prajanayatu | askānajani prājani | ā skannājjāyate vṛṣā | skannātprajaniṣīmahi | ye devā yeṣāmidaṃ bhāgadheyaṃ babhūva | yeṣāṃ prayājā utānūyājāḥ | indra jyeṣṭhebhyo varuṇarājabhyaḥ | agnihotṛbhyo devebhyaḥ svāhā | uta tyā no divā matiḥ 4
aditirūtyāgamat | sā śantācī mayaskarat | apa sridhaḥ | uta tyā daivyā bhiṣajā | śaṃ naskarato aśvinā | yūyātāmasmadra paḥ | apa sridhaḥ | śamagniragnibhiskarat | śaṃ nastapatu sūryaḥ | śaṃ vāto vātvarapāḥ 5
apa sridhaḥ | taditpadaṃ na viciketa vidvān | yanmṛtaḥ punarapyeti jīvān | trivṛdyadbhuvanasya rathavṛt | jīvo garbho na mṛtaḥ sa jīvāt | pratyasmai pipīṣate | viśvāni viduṣe bhara | araṃgamāya jagmave | apaścāddadhvane nare | indurindumavāgāt | indorindro 'pāt | tasya ta indavindra pītasya madhumataḥ | upahūtasyopahūto bhakṣayāmi 6
Sanskrit only: no published translation is held for this verse.
ब्रह्म प्रतिष्ठा मनसो ब्रह्म वाचः । ब्रह्म यज्ञानाꣳ हविषामाज्यस्य । अतिरिक्तं कर्मणो यच्च हीनम् । यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् । आश्रावितमत्याश्रावितम् । वषट्कृतमत्यनूक्तं च यज्ञे । अतिरिक्तं कर्मणो यच्च हीनम् । यज्ञः पर्वाणि प्रतिरन्नेति कल्पयन् । स्वाहाकृताहुतिरेतु देवान् १
यद्वो देवा अतिपादयानि । वाचा चित्प्रयतं देवहेडनम् । अरायो अस्माꣳ अभि दुच्छुनायते । अन्यत्रास्मन्मरुतस्तन्निधेतन । ततं म आपस्तदु तायते पुनः । स्वादिष्ठा धीतिरुचथाय शस्यते । अयꣳ समुद्र उत विश्वभेषजः । स्वाहाकृतस्य समु तृप्णुतर्भुवः । उद्वयं तमसस्परि । ।उदु त्यं। चित्रम् २
इमं मे वरुण । तत्त्वा यामि । ।त्वं नो अग्ने । स त्वं नो अग्ने । ।त्वमग्ने अयासि । प्रजापते । ।इमं जीवेभ्यः परिधिं दधामि । मैषां नु गादपरो अर्धमेतम् । शतं जीवन्तु शरदः पुरूचीः । तिरो मृत्युं दधतां पर्वतेन । इष्टेभ्यः स्वाहा वषडनिष्टेभ्यः स्वाहा । भेषजं दुरिष्ट्यै स्वाहा निष्कृत्यै स्वाहा । दौरार्द्ध्यै स्वाहा दैवीभ्यस्तनूभ्यः स्वाहा ३
ऋद्ध्यै स्वाहा समृद्ध्यै स्वाहा । यत इन्द्र भयामहे । ततो नो अभयं कृधि । मघवञ्शग्धि तव तन्न ऊतये । वि द्विषो वि मृधो जहि । स्वस्तिदा विशस्पतिः । वृत्रहा विमृधो वशी । वृषेन्द्रः पुर एतु नः । स्वस्तिदा अभयंकरः । आभिर्गीर्भिर्यदतो न ऊनम् ४
आप्यायय हरिवो वर्धमानः । यदा स्तोतृभ्यो महि गोत्रा रुजासि । भूयिष्ठभाजो अध ते स्याम । अनाज्ञातं यदाज्ञातम् । यज्ञस्य क्रियते मिथु । अग्ने तदस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । पुरुषसंमितो यज्ञः । यज्ञः पुरुषसंमितः । अग्ने तदस्य कल्पय । त्वꣳ हि वेत्थ यथातथम् । यत्पाकत्रा मनसा दीनदक्षा न । यज्ञस्य मन्वते मर्तासः । अग्निष्टद्धोता क्रतुविद्विजानन् । यजिष्ठो देवाꣳ ऋतुशो यजाति ५
brahma pratiṣṭhā manaso brahma vācaḥ | brahma yajñānām̐ haviṣāmājyasya | atiriktaṃ karmaṇo yacca hīnam | yajñaḥ parvāṇi pratiranneti kalpayan | svāhākṛtāhutiretu devān | āśrāvitamatyāśrāvitam | vaṣaṭkṛtamatyanūktaṃ ca yajñe | atiriktaṃ karmaṇo yacca hīnam | yajñaḥ parvāṇi pratiranneti kalpayan | svāhākṛtāhutiretu devān 1
yadvo devā atipādayāni | vācā citprayataṃ devaheḍanam | arāyo asmām̐ abhi ducchunāyate | anyatrāsmanmarutastannidhetana | tataṃ ma āpastadu tāyate punaḥ | svādiṣṭhā dhītirucathāya śasyate | ayam̐ samudra uta viśvabheṣajaḥ | svāhākṛtasya samu tṛpṇutarbhuvaḥ | udvayaṃ tamasaspari | |udu tyaṃ| citram 2
imaṃ me varuṇa | tattvā yāmi | |tvaṃ no agne | sa tvaṃ no agne | |tvamagne ayāsi | prajāpate | |imaṃ jīvebhyaḥ paridhiṃ dadhāmi | maiṣāṃ nu gādaparo ardhametam | śataṃ jīvantu śaradaḥ purūcīḥ | tiro mṛtyuṃ dadhatāṃ parvatena | iṣṭebhyaḥ svāhā vaṣaḍaniṣṭebhyaḥ svāhā | bheṣajaṃ duriṣṭyai svāhā niṣkṛtyai svāhā | daurārddhyai svāhā daivībhyastanūbhyaḥ svāhā 3
ṛddhyai svāhā samṛddhyai svāhā | yata indra bhayāmahe | tato no abhayaṃ kṛdhi | maghavañśagdhi tava tanna ūtaye | vi dviṣo vi mṛdho jahi | svastidā viśaspatiḥ | vṛtrahā vimṛdho vaśī | vṛṣendraḥ pura etu naḥ | svastidā abhayaṃkaraḥ | ābhirgīrbhiryadato na ūnam 4
āpyāyaya harivo vardhamānaḥ | yadā stotṛbhyo mahi gotrā rujāsi | bhūyiṣṭhabhājo adha te syāma | anājñātaṃ yadājñātam | yajñasya kriyate mithu | agne tadasya kalpaya | tvam̐ hi vettha yathātatham | puruṣasaṃmito yajñaḥ | yajñaḥ puruṣasaṃmitaḥ | agne tadasya kalpaya | tvam̐ hi vettha yathātatham | yatpākatrā manasā dīnadakṣā na | yajñasya manvate martāsaḥ | agniṣṭaddhotā kratuvidvijānan | yajiṣṭho devām̐ ṛtuśo yajāti 5
Sanskrit only: no published translation is held for this verse.
यद्देवा देवहेडनम् । देवासश्चकृमा वयम् । आदित्यास्तस्मान्मा मुञ्चत । ऋतस्यर्तेन मामुत । देवा जीवनकाम्या यत् । वाचानृतमूदिम । अग्निर्मा तस्मादेनसः । गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु मामनेनसम् १
ऋतेन द्यावापृथिवी ।ऋतेन त्वꣳ सरस्वति । ऋतान्मा मुञ्चताꣳ हसः । यदन्यकृतमारिम । सजातशꣳ सादुत वा जामिशꣳ सात् । ज्यायसः शꣳ सादुत वा कनीयसः । अनाज्ञातं देवकृतं यदेनः । तस्मात्त्वमस्मान्जातवेदो मुमुग्धि । यद्वाचा यन्मनसा । बाहुभ्यामूरुभ्यामष्ठीवद्भ्याम् २
शिश्नैर्यदनृतं चकृमा वयम् । अग्निर्मा तस्मादेनसः । यद्धस्ताभ्यां चकर किल्बिषाणि । अक्षाणां वग्नुमुपजिघ्नमानः । दूरेपश्या च राष्ट्रभृच्च । तान्यप्सरसावनुदत्तामृणानि । अदीव्यन्नृणं यदहं चकार । यद्वादास्यन्त्संजगारा जनेभ्यः । अग्निर्मा तस्मादेनसः । यन्मयि माता गर्भे सति ३
एनश्चकार यत्पिता । अग्निर्मा तस्मादेनसः । यदापिपेष मातरं पितरम् । पुत्रः प्रमुदितो धयन् । अहिꣳ सितौ पितरौ मया तत् । तदग्ने अनृणो भवामि । यदन्तरिक्षं पृथिवीमुत द्याम् । यन्मातरं पितरं वा जिहिꣳ सिम । अगिर्मा तस्मादेनसः । यदाशसा निशसा यत्पराशसा ४
यदेनश्चकृमा नूतनं यत्पुराणम् । अग्निर्मा तस्मादेनसः । अतिक्रामामि दुरितं यदेनः । जहामि रिप्रं परमे सधस्थे । यत्र यन्ति सुकृतो नापि दुष्कृतः । तमारोहामि सुकृतां नु लोकम् । त्रिते देवा अमृजतैतदेनः । त्रित एतन्मनुष्येषु मामृजे । ततो मा यदि किं चिदानशे । अग्निर्मा तस्मादेनसः ५
गार्हपत्यः प्रमुञ्चतु । दुरिता यानि चकृम । करोतु मामनेनसम् । दिवि जाता अप्सु जाताः । या जाता ओषधीभ्यः । अथो या अग्निजा आपः । ता नः शुन्धन्तु शुन्धनीः । यदापो नक्तं दुरितं चराम । यद्वा दिवा नूतनं यत्पुराणम् । हिरण्यवर्णास्तत उत्पुनीत नः । इमं मे वरुण । तत्त्वा यामि । ।त्वं नो अग्ने । स त्वं नो अग्ने । त्वमग्ने अयासि ६
yaddevā devaheḍanam | devāsaścakṛmā vayam | ādityāstasmānmā muñcata | ṛtasyartena māmuta | devā jīvanakāmyā yat | vācānṛtamūdima | agnirmā tasmādenasaḥ | gārhapatyaḥ pramuñcatu | duritā yāni cakṛma | karotu māmanenasam 1
ṛtena dyāvāpṛthivī |ṛtena tvam̐ sarasvati | ṛtānmā muñcatām̐ hasaḥ | yadanyakṛtamārima | sajātaśam̐ sāduta vā jāmiśam̐ sāt | jyāyasaḥ śam̐ sāduta vā kanīyasaḥ | anājñātaṃ devakṛtaṃ yadenaḥ | tasmāttvamasmānjātavedo mumugdhi | yadvācā yanmanasā | bāhubhyāmūrubhyāmaṣṭhīvadbhyām 2
śiśnairyadanṛtaṃ cakṛmā vayam | agnirmā tasmādenasaḥ | yaddhastābhyāṃ cakara kilbiṣāṇi | akṣāṇāṃ vagnumupajighnamānaḥ | dūrepaśyā ca rāṣṭrabhṛcca | tānyapsarasāvanudattāmṛṇāni | adīvyannṛṇaṃ yadahaṃ cakāra | yadvādāsyantsaṃjagārā janebhyaḥ | agnirmā tasmādenasaḥ | yanmayi mātā garbhe sati 3
enaścakāra yatpitā | agnirmā tasmādenasaḥ | yadāpipeṣa mātaraṃ pitaram | putraḥ pramudito dhayan | ahim̐ sitau pitarau mayā tat | tadagne anṛṇo bhavāmi | yadantarikṣaṃ pṛthivīmuta dyām | yanmātaraṃ pitaraṃ vā jihim̐ sima | agirmā tasmādenasaḥ | yadāśasā niśasā yatparāśasā 4
yadenaścakṛmā nūtanaṃ yatpurāṇam | agnirmā tasmādenasaḥ | atikrāmāmi duritaṃ yadenaḥ | jahāmi ripraṃ parame sadhasthe | yatra yanti sukṛto nāpi duṣkṛtaḥ | tamārohāmi sukṛtāṃ nu lokam | trite devā amṛjataitadenaḥ | trita etanmanuṣyeṣu māmṛje | tato mā yadi kiṃ cidānaśe | agnirmā tasmādenasaḥ 5
gārhapatyaḥ pramuñcatu | duritā yāni cakṛma | karotu māmanenasam | divi jātā apsu jātāḥ | yā jātā oṣadhībhyaḥ | atho yā agnijā āpaḥ | tā naḥ śundhantu śundhanīḥ | yadāpo naktaṃ duritaṃ carāma | yadvā divā nūtanaṃ yatpurāṇam | hiraṇyavarṇāstata utpunīta naḥ | imaṃ me varuṇa | tattvā yāmi | |tvaṃ no agne | sa tvaṃ no agne | tvamagne ayāsi 6
Sanskrit only: no published translation is held for this verse.
यत्ते ग्राव्णा चिच्छिदुः सोम राजन् । प्रियाण्यङ्गानि स्वधिता परूꣳ षि । तत्संधत्स्वाज्येनोत वर्धयस्व । अनागसो अधमित्संक्षयेम । यत्ते ग्रावा बाहुच्युतो अचुच्यवुः । नरो यत्ते दुदुहुर्दक्षिणेन । तत्त आप्यायतां तत्ते । निष्ट्यायतां देव सोम । यत्ते त्वचं बिभिदुर्यच्च योनिम् । यदास्थानात्प्रच्युतो वेनसि त्मना १
त्वया तत्सोम गुप्तमस्तु नः । सा नः संधाऽसत्परमे व्योमन् । अहाच्छरीरं पयसा समेत्य । अन्योऽन्यो भवति वर्णो अस्य । तस्मिन्वयमुपहूतास्तव स्मः । आ नो भज सदसि विश्वरूपे । नृचक्षाः सोम उत शुश्रुगस्तु । मा नो विहासीद्गिर आवृणानः । अनागास्तनुवो वावृधानः । आ नो रूपं वहतु जायमानः २
उपक्षरन्ति जुह्वो घृतेन । प्रियाण्यङ्गानि तव वर्धयन्तीः । तस्मै ते सोम नम इद्वषट्च । उप मा राजन्त्सुकृते ह्वयस्व । सं प्राणापानाभ्याꣳ समु चक्षुषा त्वम् । सꣳ श्रोत्रेण गच्छस्व सोम राजन् । यत्त आस्थितꣳ शमु तत्ते अस्तु । जानीतान्नः संगमने पथीनाम् । एतं जानीतात्परमे व्योमन् । वृकाः सधस्था विद रूपमस्य ३
यदागच्छात्पथिभिर्देवयानैः । इष्टापूर्ते कृणुतादाविरस्मै । अरिष्टो राजन्नगदः परेहि । नमस्ते अस्तु चक्षसे रघूयते । नाकमारोह सह यजमानेन । सूर्यं गच्छतात्परमे व्योमन् । अभूद्देवः सविता वन्द्यो नु नः । इदानीमह्न उपवाच्यो नृभिः । वि यो रत्ना भजति मानवेभ्यः । श्रेष्ठं नो अत्र द्र विणं यथा दधत् । उप नो मित्रावरुणाविहावतम् । अन्वादीध्याथामिह नः सखाया । आदित्यानां प्रसितिर्हेतिः । उग्रा शतापाष्ठा घ विषा परि णो वृणक्तु । आप्यायस्व । सं ते ४
yatte grāvṇā cicchiduḥ soma rājan | priyāṇyaṅgāni svadhitā parūm̐ ṣi | tatsaṃdhatsvājyenota vardhayasva | anāgaso adhamitsaṃkṣayema | yatte grāvā bāhucyuto acucyavuḥ | naro yatte duduhurdakṣiṇena | tatta āpyāyatāṃ tatte | niṣṭyāyatāṃ deva soma | yatte tvacaṃ bibhiduryacca yonim | yadāsthānātpracyuto venasi tmanā 1
tvayā tatsoma guptamastu naḥ | sā naḥ saṃdhā'satparame vyoman | ahāccharīraṃ payasā sametya | anyo'nyo bhavati varṇo asya | tasminvayamupahūtāstava smaḥ | ā no bhaja sadasi viśvarūpe | nṛcakṣāḥ soma uta śuśrugastu | mā no vihāsīdgira āvṛṇānaḥ | anāgāstanuvo vāvṛdhānaḥ | ā no rūpaṃ vahatu jāyamānaḥ 2
upakṣaranti juhvo ghṛtena | priyāṇyaṅgāni tava vardhayantīḥ | tasmai te soma nama idvaṣaṭca | upa mā rājantsukṛte hvayasva | saṃ prāṇāpānābhyām̐ samu cakṣuṣā tvam | sam̐ śrotreṇa gacchasva soma rājan | yatta āsthitam̐ śamu tatte astu | jānītānnaḥ saṃgamane pathīnām | etaṃ jānītātparame vyoman | vṛkāḥ sadhasthā vida rūpamasya 3
yadāgacchātpathibhirdevayānaiḥ | iṣṭāpūrte kṛṇutādāvirasmai | ariṣṭo rājannagadaḥ parehi | namaste astu cakṣase raghūyate | nākamāroha saha yajamānena | sūryaṃ gacchatātparame vyoman | abhūddevaḥ savitā vandyo nu naḥ | idānīmahna upavācyo nṛbhiḥ | vi yo ratnā bhajati mānavebhyaḥ | śreṣṭhaṃ no atra dra viṇaṃ yathā dadhat | upa no mitrāvaruṇāvihāvatam | anvādīdhyāthāmiha naḥ sakhāyā | ādityānāṃ prasitirhetiḥ | ugrā śatāpāṣṭhā gha viṣā pari ṇo vṛṇaktu | āpyāyasva | saṃ te 4
Sanskrit only: no published translation is held for this verse.
यद्दिदीक्षे मनसा यच्च वाचा । यद्वा प्राणैश्चक्षुषा यच्च श्रोत्रेण । यद्रे तसा मिथुनेनाप्यात्मना । अद्भ्यो लोका दधिरे तेज इन्द्रि यम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रि यम् । यदृचा साम्ना यजुषा । पशूनां चर्मन्हविषा दिदीक्षे । यच्छन्दोभिरोषधीभिर्वनस्पतौ । अद्भ्यो लोका दधिरे तेज इन्द्रि यम् १
शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रि यम् । येन ब्रह्म येन क्षत्रम् । येनेन्द्रा ग्नी प्रजापतिः सोमो वरुणो येन राजा । विश्वे देवा ऋषयो येन प्राणाः । अद्भ्यो लोका दधिरे तेज इन्द्रि यम् । शुक्रा दीक्षायै तपसो विमोचनीः । आपो विमोक्त्रीर्मयि तेज इन्द्रि यम् । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम २
अग्नेः प्रियतमꣳ हविः स्वाहा । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम । इन्द्र स्य प्रियतमꣳ हविः स्वाहा । अपां पुष्पमस्योषधीनाꣳ रसः । सोमस्य प्रियं धाम । विश्वेषां देवानां प्रियतमꣳ हविः स्वाहा । वयꣳ सोम व्रते तव । मनस्तनूषु पिप्रतः । प्रजावन्तो अशीमहि ३
देवेभ्यः पितृभ्यः स्वाहा । सोम्येभ्यः पितृभ्यः स्वाहा । कव्येभ्यः पितृभ्यः स्वाहा । देवास इह मादयध्वम् । सोम्यास इह मादयध्वम् । कव्यास इह मादयध्वम् । अनन्तरिताः पितरः सोम्याः सोमपीथात् । अपैतु मृत्युरमृतं न आगन् । वैवस्वतो नो अभयं कृणोतु । पर्णं वनस्पतेरिव ४
अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः । परं मृत्यो अनु परेहि पन्थाम् । यस्ते स्व इतरो देवयानात् । चक्षुष्मते शृण्वते ते ब्रवीमि । मा नः प्रजाꣳ रीरिषो मोत वीरान् । इदमू नु श्रेयोऽवसानमागन्म । यद्गोजिद्धनजिदश्वजिद्यत् । पर्णं वनस्पतेरिव । अभि नः शीयताꣳ रयिः । सचतां नः शचीपतिः ५
yaddidīkṣe manasā yacca vācā | yadvā prāṇaiścakṣuṣā yacca śrotreṇa | yadre tasā mithunenāpyātmanā | adbhyo lokā dadhire teja indri yam | śukrā dīkṣāyai tapaso vimocanīḥ | āpo vimoktrīrmayi teja indri yam | yadṛcā sāmnā yajuṣā | paśūnāṃ carmanhaviṣā didīkṣe | yacchandobhiroṣadhībhirvanaspatau | adbhyo lokā dadhire teja indri yam 1
śukrā dīkṣāyai tapaso vimocanīḥ | āpo vimoktrīrmayi teja indri yam | yena brahma yena kṣatram | yenendrā gnī prajāpatiḥ somo varuṇo yena rājā | viśve devā ṛṣayo yena prāṇāḥ | adbhyo lokā dadhire teja indri yam | śukrā dīkṣāyai tapaso vimocanīḥ | āpo vimoktrīrmayi teja indri yam | apāṃ puṣpamasyoṣadhīnām̐ rasaḥ | somasya priyaṃ dhāma 2
agneḥ priyatamam̐ haviḥ svāhā | apāṃ puṣpamasyoṣadhīnām̐ rasaḥ | somasya priyaṃ dhāma | indra sya priyatamam̐ haviḥ svāhā | apāṃ puṣpamasyoṣadhīnām̐ rasaḥ | somasya priyaṃ dhāma | viśveṣāṃ devānāṃ priyatamam̐ haviḥ svāhā | vayam̐ soma vrate tava | manastanūṣu piprataḥ | prajāvanto aśīmahi 3
devebhyaḥ pitṛbhyaḥ svāhā | somyebhyaḥ pitṛbhyaḥ svāhā | kavyebhyaḥ pitṛbhyaḥ svāhā | devāsa iha mādayadhvam | somyāsa iha mādayadhvam | kavyāsa iha mādayadhvam | anantaritāḥ pitaraḥ somyāḥ somapīthāt | apaitu mṛtyuramṛtaṃ na āgan | vaivasvato no abhayaṃ kṛṇotu | parṇaṃ vanaspateriva 4
abhi naḥ śīyatām̐ rayiḥ | sacatāṃ naḥ śacīpatiḥ | paraṃ mṛtyo anu parehi panthām | yaste sva itaro devayānāt | cakṣuṣmate śṛṇvate te bravīmi | mā naḥ prajām̐ rīriṣo mota vīrān | idamū nu śreyo'vasānamāganma | yadgojiddhanajidaśvajidyat | parṇaṃ vanaspateriva | abhi naḥ śīyatām̐ rayiḥ | sacatāṃ naḥ śacīpatiḥ 5
Sanskrit only: no published translation is held for this verse.
सांग्रहण्येष्ट्या यजते । इमां जनताꣳ संगृह्णानीति । द्वादशारत्नी रशना भवति । द्वादश मासाः संवत्सरः । संवत्सरमेवावरुन्धे । मौञ्जी भवति । ऊर्ग्वै मुञ्जाः । ऊर्जमेवावरुन्धे । चित्रा नक्षत्रं भवति । चित्रं वा एतत्कर्म १
यदश्वमेधः समृद्ध्यै । पुण्यनाम देवयजनमध्यवस्यति । पुण्यामेव तेन कीर्तिमभिजयति । अपदातीनृत्विजः समावहन्त्या सुब्रह्मण्यायाः । सुवर्गस्य लोकस्य समष्ट्यै । केशश्मश्रु वपते । नखानि निकृन्तते । दतो धावते । स्नाति । अहतं वासः परिधत्ते । पाप्मनोऽपहत्यै । वाचं यत्वोपवसति । सुवर्गस्य लोकस्य गुप्त्यै । रात्रिं जागरयन्त आसते । सुवर्गस्य लोकस्य समष्ट्यै २
sāṃgrahaṇyeṣṭyā yajate | imāṃ janatām̐ saṃgṛhṇānīti | dvādaśāratnī raśanā bhavati | dvādaśa māsāḥ saṃvatsaraḥ | saṃvatsaramevāvarundhe | mauñjī bhavati | ūrgvai muñjāḥ | ūrjamevāvarundhe | citrā nakṣatraṃ bhavati | citraṃ vā etatkarma 1
yadaśvamedhaḥ samṛddhyai | puṇyanāma devayajanamadhyavasyati | puṇyāmeva tena kīrtimabhijayati | apadātīnṛtvijaḥ samāvahantyā subrahmaṇyāyāḥ | suvargasya lokasya samaṣṭyai | keśaśmaśru vapate | nakhāni nikṛntate | dato dhāvate | snāti | ahataṃ vāsaḥ paridhatte | pāpmano'pahatyai | vācaṃ yatvopavasati | suvargasya lokasya guptyai | rātriṃ jāgarayanta āsate | suvargasya lokasya samaṣṭyai 2
Sanskrit only: no published translation is held for this verse.
चतुष्टय्य आपो भवन्ति । चतुःशफो वा अश्वः प्राजापत्यः समृद्ध्यै । ता दिग्भ्यः समाभृता भवन्ति । दिक्षु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे । तासु ब्रह्मौदनं पचति । रेत एव तद्दधाति १
चतुःशरावो भवति । दिक्ष्वेव प्रति तिष्ठति । उभयतो रुक्मौ भवतः । उभयत एवास्मिन्रुचं दधाति । उद्धरति शृतत्वाय । सर्पिष्वान्भवति मेध्य-त्वाय । चत्वार आर्षेयाः प्राश्नन्ति । दिशामेव ज्योतिषि जुहोति । चत्वारि हिरण्यानि ददाति । दिशामेव ज्योतीꣳ ष्यवरुन्धे २
यदाज्यमुच्छिष्यते । तस्मिन्रशनां न्युनत्ति । प्रजापतिर्वा ओदनः । रेत आज्यम् । यदाज्ये रशनां न्युनत्ति । प्रजापतिमेव रेतसा समर्धयति । दर्भमयी रशना भवति । बहु वा एष कुचरोऽमेध्यमुपगच्छति । यदश्वः । पवित्रं वै दर्भाः ३
यद्दर्भमयी रशणा भवति । पुनात्येवैनम् । पूतमेनं मेध्यमालभते । अश्वस्य वा आलब्धस्य महिमोदक्रामत् । स महर्त्विजः प्राविशत् । तन्महर्त्विजां महर्त्विक्त्वम् । यन्महर्त्विजः प्राश्नन्ति । महिमानमेवास्मिन्तद्दधति । अश्वस्य वा आलब्धस्य रेत उदक्रामत् । तत्सुवर्णꣳ हिरण्यमभवत् । यत्सुवर्णꣳ हिरण्यं ददाति । रेत एव तद्दधाति । ओदने ददाति । रेतो वा ओदनः । रेतो हिरण्यम् । रेतसैवास्मिन्रेतो दधाति ६
catuṣṭayya āpo bhavanti | catuḥśapho vā aśvaḥ prājāpatyaḥ samṛddhyai | tā digbhyaḥ samābhṛtā bhavanti | dikṣu vā āpaḥ | annaṃ vā āpaḥ | adbhyo vā annaṃ jāyate | yadevādbhyo'nnaṃ jāyate | tadavarundhe | tāsu brahmaudanaṃ pacati | reta eva taddadhāti 1
catuḥśarāvo bhavati | dikṣveva prati tiṣṭhati | ubhayato rukmau bhavataḥ | ubhayata evāsminrucaṃ dadhāti | uddharati śṛtatvāya | sarpiṣvānbhavati medhya-tvāya | catvāra ārṣeyāḥ prāśnanti | diśāmeva jyotiṣi juhoti | catvāri hiraṇyāni dadāti | diśāmeva jyotīm̐ ṣyavarundhe 2
yadājyamucchiṣyate | tasminraśanāṃ nyunatti | prajāpatirvā odanaḥ | reta ājyam | yadājye raśanāṃ nyunatti | prajāpatimeva retasā samardhayati | darbhamayī raśanā bhavati | bahu vā eṣa kucaro'medhyamupagacchati | yadaśvaḥ | pavitraṃ vai darbhāḥ 3
yaddarbhamayī raśaṇā bhavati | punātyevainam | pūtamenaṃ medhyamālabhate | aśvasya vā ālabdhasya mahimodakrāmat | sa mahartvijaḥ prāviśat | tanmahartvijāṃ mahartviktvam | yanmahartvijaḥ prāśnanti | mahimānamevāsmintaddadhati | aśvasya vā ālabdhasya reta udakrāmat | tatsuvarṇam̐ hiraṇyamabhavat | yatsuvarṇam̐ hiraṇyaṃ dadāti | reta eva taddadhāti | odane dadāti | reto vā odanaḥ | reto hiraṇyam | retasaivāsminreto dadhāti 6
Sanskrit only: no published translation is held for this verse.
यो वै ब्रह्मणे देवेभ्यः प्रजापतयेऽप्रतिप्रोच्याश्वं मेध्यं बध्नाति । आ देवताभ्यो वृश्च्यते । पापीयान्भवति । यः प्रतिप्रोच्य । न देवताभ्य आवृश्च्यते । वसीयान्भवति । यदाह । ब्रह्मन्नश्वं मेध्यं भन्त्स्यामि देवेभ्यः प्रजापतये तेन राध्यासमिति । ब्रह्म वै ब्रह्मा । ब्रह्मण एव देवेभ्यः प्रजापतये प्रतिप्रोच्याश्वं मेध्यं बध्नाति १
न देवताभ्य आवृश्च्यते । वसीयान्भवति । देवस्य त्वा सवितुः प्रसव इति रशनामादत्ते प्रसूत्यै । अश्विनोर्बाहुभ्यामित्याह । अश्विनौ हि देवानामध्वर्यू आस्ताम् । पूष्णो हस्ताभ्यामित्याह यत्यै । व्यृद्धं वा एतद्यज्ञस्य । यदयजुष्केण क्रियते । इमामगृभ्णन्रश्नामृतस्येत्यधिवदति यजुष्कृत्यै । यज्ञस्य समृद्ध्यै २
तदाहुः । द्वादशारत्नी रशना कर्तव्या३ त्रयोदशारत्नी३रिति । ऋषभो वा एष ऋतूनाम् । यथा संवत्सरः । तस्य त्रयोदशो मासो विष्टपम् । ऋषभ एष यज्ञानाम् । यदश्वमेधः । यथा वा ऋषभस्य विष्टपम् । एवमेतस्य विष्टपम् । त्रयोदशमरत्निꣳ रशनायामुपादधाति ३
यथर्षभस्य विष्टपꣳ सꣳ स्करोति । तादृगेव तत् । पूर्व आयुषि विदथेषु कव्येत्याह । आयुरेवास्मिन्दधाति । तया देवाः सुतमाबभूवुरित्याह । भूतिमेवोपावर्तते । ऋतस्य सामन्त्सरमारपन्तीत्याह । सत्यं वा ऋतम् । सत्येनैवैनमृतेनारभते । अभिधा असीत्याह ४
तस्मादश्वमेधयाजी सर्वाणि भूतान्यभिभवति । भुवनमसीत्याह । भूमानमेवोपैति । यन्तासीत्याह । यन्तारमेवैनं करोति । धर्तासीत्याह । धर्तारमेवैनं करोति । सोऽग्निं वैश्वानरमित्याह । अग्नावेवैनं वैश्वानरे जुहोति । सप्रथसमित्याह ५
प्रजयैवैनं पशुभिः प्रथयति । स्वाहाकृत इत्याह । होम एवास्यैषः । पृथिव्यामित्याह । अस्यामेवैनं प्रतिष्ठापयति । यन्ता राड्यन्तासि यमनो धर्तासि धरुण इत्याह । रूपमेवास्यैतन्महिमानं व्याचष्टे । कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वेत्याह । आशिषमेवैतामाशास्ते । स्वगा त्वा देवेभ्य इत्याह । देवेभ्य एवैनꣳ स्वगा करोति । स्वाहा त्वा प्रजापतय इत्याह । प्राजापत्यो वा अश्वः । यस्या एव देवताया आलभ्यते । तयैवैनꣳ समर्धयति ६
yo vai brahmaṇe devebhyaḥ prajāpataye'pratiprocyāśvaṃ medhyaṃ badhnāti | ā devatābhyo vṛścyate | pāpīyānbhavati | yaḥ pratiprocya | na devatābhya āvṛścyate | vasīyānbhavati | yadāha | brahmannaśvaṃ medhyaṃ bhantsyāmi devebhyaḥ prajāpataye tena rādhyāsamiti | brahma vai brahmā | brahmaṇa eva devebhyaḥ prajāpataye pratiprocyāśvaṃ medhyaṃ badhnāti 1
na devatābhya āvṛścyate | vasīyānbhavati | devasya tvā savituḥ prasava iti raśanāmādatte prasūtyai | aśvinorbāhubhyāmityāha | aśvinau hi devānāmadhvaryū āstām | pūṣṇo hastābhyāmityāha yatyai | vyṛddhaṃ vā etadyajñasya | yadayajuṣkeṇa kriyate | imāmagṛbhṇanraśnāmṛtasyetyadhivadati yajuṣkṛtyai | yajñasya samṛddhyai 2
tadāhuḥ | dvādaśāratnī raśanā kartavyā3 trayodaśāratnī3riti | ṛṣabho vā eṣa ṛtūnām | yathā saṃvatsaraḥ | tasya trayodaśo māso viṣṭapam | ṛṣabha eṣa yajñānām | yadaśvamedhaḥ | yathā vā ṛṣabhasya viṣṭapam | evametasya viṣṭapam | trayodaśamaratnim̐ raśanāyāmupādadhāti 3
yatharṣabhasya viṣṭapam̐ sam̐ skaroti | tādṛgeva tat | pūrva āyuṣi vidatheṣu kavyetyāha | āyurevāsmindadhāti | tayā devāḥ sutamābabhūvurityāha | bhūtimevopāvartate | ṛtasya sāmantsaramārapantītyāha | satyaṃ vā ṛtam | satyenaivainamṛtenārabhate | abhidhā asītyāha 4
tasmādaśvamedhayājī sarvāṇi bhūtānyabhibhavati | bhuvanamasītyāha | bhūmānamevopaiti | yantāsītyāha | yantāramevainaṃ karoti | dhartāsītyāha | dhartāramevainaṃ karoti | so'gniṃ vaiśvānaramityāha | agnāvevainaṃ vaiśvānare juhoti | saprathasamityāha 5
prajayaivainaṃ paśubhiḥ prathayati | svāhākṛta ityāha | homa evāsyaiṣaḥ | pṛthivyāmityāha | asyāmevainaṃ pratiṣṭhāpayati | yantā rāḍyantāsi yamano dhartāsi dharuṇa ityāha | rūpamevāsyaitanmahimānaṃ vyācaṣṭe | kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvetyāha | āśiṣamevaitāmāśāste | svagā tvā devebhya ityāha | devebhya evainam̐ svagā karoti | svāhā tvā prajāpataya ityāha | prājāpatyo vā aśvaḥ | yasyā eva devatāyā ālabhyate | tayaivainam̐ samardhayati 6
Sanskrit only: no published translation is held for this verse.
यः पितुरनुजायाः पुत्रः । स पुरस्तान्नयति । यो मातुरनुजायाः पुत्रः । स पश्चान्नयति । विष्वञ्चमेवास्मात्पाप्मानं विवृहतः । यो अर्वन्तं जिघाꣳ सति तमभ्यमीति वरुण इति श्वानं चतुरक्षं प्रसौति । परो मर्तः परः श्वेति शुनश्चतुरक्षस्य प्रहन्ति । श्वेव वै पाप्मा भ्रातृव्यः । पाप्मानमेवास्य भ्रातृव्यꣳ हन्ति । सैध्रकं मुसलं भवति १
कर्मकर्मैवास्मै साधयति । पौꣳ श्चलेयो हन्ति । पुꣳ श्चल्वां वै देवाः शुचं न्यदधुः । शुचैवास्य शुचꣳ हन्ति । पाप्मा वा एतमीप्सतीत्याहुः । योऽश्वमेधेन यजत इति । अश्वस्याधस्पदमुपास्यति । वज्री वा अश्वः प्राजापत्यः । वज्रेणैव पाप्मानं भ्रातृव्यमवक्रामति । दक्षिणापप्लावयति २
पाप्मानमेवास्माच्छमलमपप्लावयति । ऐषीक उदूहो भवति । आयुर्वा इषीकाः । आयुरेवास्मिन्दधति । अमृतं वा इषीकाः । अमृतमेवास्मिन्दधति । वेतसशाखोपसंबद्धा भवति । अप्सुयोनिर्वा अश्वः । अप्सुजो वेतसः । स्वादेवैनं योनिर्निर्मिमीते । पुरस्तात्प्रत्यञ्चमभ्युदूहति । पुरस्तादेवास्मि-न्प्रतीच्यमृतं दधाति । अहं च त्वं च वृत्रहन्निति ब्रह्मा यजमानस्य हस्तं गृह्णाति । ब्रह्मक्षत्त्रे एव संदधाति । अभि क्रत्वेन्द्र भूरध ज्मन्नित्यध्वर्युर्यजमानं वाचयत्यभिजित्यै ३
yaḥ pituranujāyāḥ putraḥ | sa purastānnayati | yo māturanujāyāḥ putraḥ | sa paścānnayati | viṣvañcamevāsmātpāpmānaṃ vivṛhataḥ | yo arvantaṃ jighām̐ sati tamabhyamīti varuṇa iti śvānaṃ caturakṣaṃ prasauti | paro martaḥ paraḥ śveti śunaścaturakṣasya prahanti | śveva vai pāpmā bhrātṛvyaḥ | pāpmānamevāsya bhrātṛvyam̐ hanti | saidhrakaṃ musalaṃ bhavati 1
karmakarmaivāsmai sādhayati | paum̐ ścaleyo hanti | pum̐ ścalvāṃ vai devāḥ śucaṃ nyadadhuḥ | śucaivāsya śucam̐ hanti | pāpmā vā etamīpsatītyāhuḥ | yo'śvamedhena yajata iti | aśvasyādhaspadamupāsyati | vajrī vā aśvaḥ prājāpatyaḥ | vajreṇaiva pāpmānaṃ bhrātṛvyamavakrāmati | dakṣiṇāpaplāvayati 2
pāpmānamevāsmācchamalamapaplāvayati | aiṣīka udūho bhavati | āyurvā iṣīkāḥ | āyurevāsmindadhati | amṛtaṃ vā iṣīkāḥ | amṛtamevāsmindadhati | vetasaśākhopasaṃbaddhā bhavati | apsuyonirvā aśvaḥ | apsujo vetasaḥ | svādevainaṃ yonirnirmimīte | purastātpratyañcamabhyudūhati | purastādevāsmi-npratīcyamṛtaṃ dadhāti | ahaṃ ca tvaṃ ca vṛtrahanniti brahmā yajamānasya hastaṃ gṛhṇāti | brahmakṣattre eva saṃdadhāti | abhi kratvendra bhūradha jmannityadhvaryuryajamānaṃ vācayatyabhijityai 3
Sanskrit only: no published translation is held for this verse.
चत्वार ऋत्विजः समुक्षन्ति । आभ्य एवैनं चतसृभ्यो दिग्भ्योऽभिसमीरयन्ति । शतेन राजपुत्रैः सहाध्वर्युः । पुरस्तात्प्रत्यङ्तिष्ठन्प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजा वृत्रं वध्यादिति । राज्यं वा अध्वर्युः । क्षत्त्रꣳ राजपुत्रः । राज्येनैवास्मिन्क्षत्त्रं दधाति । शतेनाराजभिरुग्रैः सह ब्रह्मा १
दक्षिणत उदङ्तिष्ठन्प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजाप्रतिधृष्यो-ऽस्त्विति । बलं वै ब्रह्मा । बलमराजोग्रः । बलेनैवास्मिन्बलं दधाति । शतेन सूतग्रामणिभिः सह होता । पश्चात्प्राङ्तिष्ठन्प्रोक्षति । अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजास्यै विशः २
बहुग्वै बह्वश्वायै बह्वजाविकायै । बहुव्रीहियवायै बहुमाषतिलायै । बहुहि-रण्यायै बहुहस्तिकायै । बहुदासपूरुषायै रयिमत्यै पुष्टिमत्यै । बहुराय-स्पोषायै राजास्त्विति । भूमा वै होता । भूमा सूतग्रामण्यः । भूम्नैवा-स्मिन्भूमानं दधाति । शतेन क्षत्तसंग्रहीतृभिः सहोद्गाता । उत्तरतो दक्षिणा तिष्ठन्प्रोक्षति ३
अनेनाश्वेन मेध्येनेष्ट्वा । अयꣳ राजा सर्वमायुरेत्विति । आयुर्वा उद्गाता । आयुः क्षत्तसंग्रहीतारः । आयुषैवास्मिन्नायुर्दधाति । शतꣳ शतं भवन्ति । शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति चतुःशता भवन्ति । चतस्रो दिशः । दिक्ष्वेव प्रतितिष्ठति ४
catvāra ṛtvijaḥ samukṣanti | ābhya evainaṃ catasṛbhyo digbhyo'bhisamīrayanti | śatena rājaputraiḥ sahādhvaryuḥ | purastātpratyaṅtiṣṭhanprokṣati | anenāśvena medhyeneṣṭvā | ayam̐ rājā vṛtraṃ vadhyāditi | rājyaṃ vā adhvaryuḥ | kṣattram̐ rājaputraḥ | rājyenaivāsminkṣattraṃ dadhāti | śatenārājabhirugraiḥ saha brahmā 1
dakṣiṇata udaṅtiṣṭhanprokṣati | anenāśvena medhyeneṣṭvā | ayam̐ rājāpratidhṛṣyo-'stviti | balaṃ vai brahmā | balamarājograḥ | balenaivāsminbalaṃ dadhāti | śatena sūtagrāmaṇibhiḥ saha hotā | paścātprāṅtiṣṭhanprokṣati | anenāśvena medhyeneṣṭvā | ayam̐ rājāsyai viśaḥ 2
bahugvai bahvaśvāyai bahvajāvikāyai | bahuvrīhiyavāyai bahumāṣatilāyai | bahuhi-raṇyāyai bahuhastikāyai | bahudāsapūruṣāyai rayimatyai puṣṭimatyai | bahurāya-spoṣāyai rājāstviti | bhūmā vai hotā | bhūmā sūtagrāmaṇyaḥ | bhūmnaivā-sminbhūmānaṃ dadhāti | śatena kṣattasaṃgrahītṛbhiḥ sahodgātā | uttarato dakṣiṇā tiṣṭhanprokṣati 3
anenāśvena medhyeneṣṭvā | ayam̐ rājā sarvamāyuretviti | āyurvā udgātā | āyuḥ kṣattasaṃgrahītāraḥ | āyuṣaivāsminnāyurdadhāti | śatam̐ śataṃ bhavanti | śatāyuḥ puruṣaḥ śatendri yaḥ | āyuṣyevendri ye pratitiṣṭhati catuḥśatā bhavanti | catasro diśaḥ | dikṣveva pratitiṣṭhati 4
Sanskrit only: no published translation is held for this verse.
यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यन्निक्तमनालब्धमुत्सृजन्ति । यत्स्तोक्या अन्वाह । सर्वहुतमेवैनं करोत्यक्सन्दाय । अस्कन्नꣳ हि तत् । यद्धुतस्य स्कन्दति । सहस्रमन्वाह । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै १
यत्परिमिता अनुब्रूयात् । परिमितमवरुन्धीत । अपरिमिता अन्वाह । अपरिमितः सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । स्तोक्या जुहोति । या एव वर्ष्या आपः । ता अवरुन्धे । अस्यां जुहोति । इयं वा अग्निर्वैश्वानरः २
अस्यामेवैनाः प्रतिष्ठापयति । उवाच ह प्रजापतिः । स्तोक्यासु वा अहमश्वमेधꣳ सꣳ स्थापयामि । तेन ततः सꣳ स्थितेन चरामीति । अग्नये स्वाहेत्याह । अग्नय एवैनं जुहोति । सोमाय स्वाहेत्याह । सोमायैवैनं जुहोति । सवित्रे स्वाहेत्याह । सवित्र एवैनं जुहोति ३
सरस्वत्यै स्वाहेत्याह । सरस्वत्या एवैनं जुहोति । पूष्णे स्वाहेत्याह । पूष्ण एवैनं जुहोति । बृहस्पतये स्वाहेत्याह । बृहस्पतय एवैनं जुहोति । अपां मोदाय स्वाहेत्याह । अद्भ्य एवैनं जुहोति । वायवे स्वाहेत्याह । वायव एवैनं जुहोति ४
मित्राय स्वाहेत्याह । मित्रायैवैनं जुहोति । वरुणाय स्वाहेत्याह । वरुणायैवैनं जुहोति । एताभ्य एवैनं देवताभ्यो जुहोति । दशदश संपादं जुहोति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । प्र वा एषोऽस्माल्लोकाच्च्यवते । यः पराचीराहुतीर्जुहोति । पुनःपुनरभ्यावर्तं जुहोति । अस्मिन्नेव लोके प्रतितिष्ठति । एताꣳ ह वाव सोऽश्वमेधस्य सꣳ स्थितिमुवाचास्कन्दाय । अस्कन्नꣳ हि तत् । यद्यज्ञस्य सꣳ स्थितस्य स्कन्दति ५
yathā vai haviṣo gṛhītasya skandati | evaṃ vā etadaśvasya skandati | yanniktamanālabdhamutsṛjanti | yatstokyā anvāha | sarvahutamevainaṃ karotyaksandāya | askannam̐ hi tat | yaddhutasya skandati | sahasramanvāha | sahasrasaṃmitaḥ suvargo lokaḥ | suvargasya lokasyābhijityai 1
yatparimitā anubrūyāt | parimitamavarundhīta | aparimitā anvāha | aparimitaḥ suvargo lokaḥ | suvargasya lokasya samaṣṭyai | stokyā juhoti | yā eva varṣyā āpaḥ | tā avarundhe | asyāṃ juhoti | iyaṃ vā agnirvaiśvānaraḥ 2
asyāmevaināḥ pratiṣṭhāpayati | uvāca ha prajāpatiḥ | stokyāsu vā ahamaśvamedham̐ sam̐ sthāpayāmi | tena tataḥ sam̐ sthitena carāmīti | agnaye svāhetyāha | agnaya evainaṃ juhoti | somāya svāhetyāha | somāyaivainaṃ juhoti | savitre svāhetyāha | savitra evainaṃ juhoti 3
sarasvatyai svāhetyāha | sarasvatyā evainaṃ juhoti | pūṣṇe svāhetyāha | pūṣṇa evainaṃ juhoti | bṛhaspataye svāhetyāha | bṛhaspataya evainaṃ juhoti | apāṃ modāya svāhetyāha | adbhya evainaṃ juhoti | vāyave svāhetyāha | vāyava evainaṃ juhoti 4
mitrāya svāhetyāha | mitrāyaivainaṃ juhoti | varuṇāya svāhetyāha | varuṇāyaivainaṃ juhoti | etābhya evainaṃ devatābhyo juhoti | daśadaśa saṃpādaṃ juhoti | daśākṣarā virāṭ | annaṃ virāṭ | virājaivānnādyamavarundhe | pra vā eṣo'smāllokāccyavate | yaḥ parācīrāhutīrjuhoti | punaḥpunarabhyāvartaṃ juhoti | asminneva loke pratitiṣṭhati | etām̐ ha vāva so'śvamedhasya sam̐ sthitimuvācāskandāya | askannam̐ hi tat | yadyajñasya sam̐ sthitasya skandati 5
Sanskrit only: no published translation is held for this verse.
प्रजापतये त्वा जुष्टं प्रोक्षामीति पुरस्तात्प्रत्यङ्तिष्ठन्प्रोक्षति । प्रजापतिर्वै देवानामन्नादो वीर्यावान् । अन्नाद्यमेवास्मिन्वीर्यं दधाति । तस्मादश्वः पशूनामन्नादो वीर्यावत्तमः । इन्द्राग्निभ्यां त्वेति दक्षिणतः । इन्द्राग्नी वै देवानामोजिष्ठौ बलिष्ठौ । ओज एवास्मिन्बलं दधाति । तस्मादश्वः पशूनामोजिष्ठो बलिष्ठः । वायवे त्वेति पश्चात् । वायुर्वै देवानामाशुः सारसारितमः १
जवमेवास्मिन्दधाति । तस्मादश्वः । पशूनामाशुः सारसारितमः । विश्वेभ्यस्त्वा देवेभ्य इत्युत्तरतः । विश्वे वै देवा देवानां यशस्वितमाः । यश एवास्मिन्दधाति । तस्मादश्वः पशूनां यशस्वितमः । देवेभ्यस्त्वेत्यधस्तात् । देवा वै देवानामपचिततमाः । अपचितिमेवास्मिन्दधाति । तस्मादश्वः पशूनामपचिततमः २
सर्वेभ्यस्त्वा देवेभ्य इत्युपरिष्टात् । सर्वे वै देवास्त्विषिमन्तो हरस्विनः । त्विषिमेवास्मिन्हरो दधाति । तस्मादश्वः पशूनां त्विषिमान्हरस्वितमः । दिवे त्वान्तरिक्षाय त्वा पृथिव्यै त्वेत्याह । एभ्य एवैनं लोकेभ्यः प्रोक्षति । सते त्वासते त्वाद्भ्यस्त्वौषधीभ्यस्त्वा विश्वेभ्यस्त्वा भुतेभ्य इत्याह । तस्मादश्वमेधयाजिनꣳ सर्वाणि भुतान्युपजीवन्ति । ब्रह्मवादिनो वदन्ति । यत्प्राजापत्योऽश्वः । अथ कस्मादेनमन्याभ्यो देवताभ्योऽपि प्रोक्षतीति । अश्वे वै सर्वा देवता अन्वायत्ताः । तं यद्विश्वेभ्यस्त्वा भूतेभ्य इति प्रोक्षति । देवता एवास्मिन्नन्वायातयति । तस्मादश्वे सर्वा देवता अन्वायत्ताः ३
prajāpataye tvā juṣṭaṃ prokṣāmīti purastātpratyaṅtiṣṭhanprokṣati | prajāpatirvai devānāmannādo vīryāvān | annādyamevāsminvīryaṃ dadhāti | tasmādaśvaḥ paśūnāmannādo vīryāvattamaḥ | indrāgnibhyāṃ tveti dakṣiṇataḥ | indrāgnī vai devānāmojiṣṭhau baliṣṭhau | oja evāsminbalaṃ dadhāti | tasmādaśvaḥ paśūnāmojiṣṭho baliṣṭhaḥ | vāyave tveti paścāt | vāyurvai devānāmāśuḥ sārasāritamaḥ 1
javamevāsmindadhāti | tasmādaśvaḥ | paśūnāmāśuḥ sārasāritamaḥ | viśvebhyastvā devebhya ityuttarataḥ | viśve vai devā devānāṃ yaśasvitamāḥ | yaśa evāsmindadhāti | tasmādaśvaḥ paśūnāṃ yaśasvitamaḥ | devebhyastvetyadhastāt | devā vai devānāmapacitatamāḥ | apacitimevāsmindadhāti | tasmādaśvaḥ paśūnāmapacitatamaḥ 2
sarvebhyastvā devebhya ityupariṣṭāt | sarve vai devāstviṣimanto harasvinaḥ | tviṣimevāsminharo dadhāti | tasmādaśvaḥ paśūnāṃ tviṣimānharasvitamaḥ | dive tvāntarikṣāya tvā pṛthivyai tvetyāha | ebhya evainaṃ lokebhyaḥ prokṣati | sate tvāsate tvādbhyastvauṣadhībhyastvā viśvebhyastvā bhutebhya ityāha | tasmādaśvamedhayājinam̐ sarvāṇi bhutānyupajīvanti | brahmavādino vadanti | yatprājāpatyo'śvaḥ | atha kasmādenamanyābhyo devatābhyo'pi prokṣatīti | aśve vai sarvā devatā anvāyattāḥ | taṃ yadviśvebhyastvā bhūtebhya iti prokṣati | devatā evāsminnanvāyātayati | tasmādaśve sarvā devatā anvāyattāḥ 3
Sanskrit only: no published translation is held for this verse.
यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यत्प्रोक्षितमनालब्धमुत्सृजन्ति । यदश्वचरितानि जुहोति । सर्वहुतमेवैनं करोत्यस्कन्दाय । अस्कन्नꣳ हि तत् । यद्धुतस्य स्कन्दति । ईंकाराय स्वाहेंकृताय स्वाहेत्याह । एतानि वा अश्वचरितानि । चरितैरेवैनꣳ समर्धयति १
तदाहुः । अनाहुतयो वा अश्वचरितानि । नैता होतव्या इति । अथो खल्वाहुः । होतव्या एव । अत्र वावैवं विद्वानश्वमेधꣳ सꣳ स्थापयति । यदश्वचरितानि जुहोति । तस्माद्धोतव्या इति । बहिर्धा वा एनमेतदायतनाद्दधाति । भ्रातृव्यमस्मै जनयति २
यस्यानायतनेऽन्यत्राग्नेराहुतीर्जुहोति । सावित्रिया इष्ट्याः पुरस्तात्स्विष्टकृतः । आहवनीयेऽश्वचरितानि जुहोति । आयतन एवास्याहुतीर्जुहोति । नास्मै भ्रातृव्यं जनयति । तदाहुः । यज्ञमुखेयज्ञमुखे होतव्याः । यज्ञस्य क्ळ्प्त्यै । सुवर्गस्य लोकस्यानुख्यात्या इति । अथो खल्वाहुः ३
यद्यज्ञमुखेयज्ञमुखे जुहुयात् । पशुभिर्यजमानं व्यर्धयेत् । अव सुवर्गाल्लोकात्पद्येत । पापीयान्त्स्यादिति । सकृदेव होतव्याः । न यजमानं पशुभिर्व्यर्धयति । अभि सुवर्गं लोकं जयति । न पापीयान्भवति । अष्टाचत्वारिꣳ शतमश्वरूपाणि जुहोति । अष्टाचत्वारिꣳ शदक्षरा जगती ।जागतोऽश्वः प्राजापत्यः समृद्ध्यै । एकमतिरिक्तं जुहोति । तस्मादेकः प्रजास्वर्धुकः ४
yathā vai haviṣo gṛhītasya skandati | evaṃ vā etadaśvasya skandati | yatprokṣitamanālabdhamutsṛjanti | yadaśvacaritāni juhoti | sarvahutamevainaṃ karotyaskandāya | askannam̐ hi tat | yaddhutasya skandati | īṃkārāya svāheṃkṛtāya svāhetyāha | etāni vā aśvacaritāni | caritairevainam̐ samardhayati 1
tadāhuḥ | anāhutayo vā aśvacaritāni | naitā hotavyā iti | atho khalvāhuḥ | hotavyā eva | atra vāvaivaṃ vidvānaśvamedham̐ sam̐ sthāpayati | yadaśvacaritāni juhoti | tasmāddhotavyā iti | bahirdhā vā enametadāyatanāddadhāti | bhrātṛvyamasmai janayati 2
yasyānāyatane'nyatrāgnerāhutīrjuhoti | sāvitriyā iṣṭyāḥ purastātsviṣṭakṛtaḥ | āhavanīye'śvacaritāni juhoti | āyatana evāsyāhutīrjuhoti | nāsmai bhrātṛvyaṃ janayati | tadāhuḥ | yajñamukheyajñamukhe hotavyāḥ | yajñasya kl̤ptyai | suvargasya lokasyānukhyātyā iti | atho khalvāhuḥ 3
yadyajñamukheyajñamukhe juhuyāt | paśubhiryajamānaṃ vyardhayet | ava suvargāllokātpadyeta | pāpīyāntsyāditi | sakṛdeva hotavyāḥ | na yajamānaṃ paśubhirvyardhayati | abhi suvargaṃ lokaṃ jayati | na pāpīyānbhavati | aṣṭācatvārim̐ śatamaśvarūpāṇi juhoti | aṣṭācatvārim̐ śadakṣarā jagatī |jāgato'śvaḥ prājāpatyaḥ samṛddhyai | ekamatiriktaṃ juhoti | tasmādekaḥ prajāsvardhukaḥ 4
Sanskrit only: no published translation is held for this verse.
विभूर्मात्रा प्रभूः पित्रेत्याह । इयं वै माता । असौ पिता । आभ्यामेवैनं परिददाति । अश्वोऽसि हयोऽसीत्याह । शास्त्येवैनमेतत् । तस्माच्छिष्टाः प्रजा जायन्ते । अत्योऽसीत्याह । तस्मादश्वः सर्वान्पशूनत्येति । तस्मादश्वः सर्वेषां पशूनाꣳ श्रैष्ठ्यं गच्छति १
प्र यशः श्रैष्ठ्यमाप्नोति । य एवं वेद । नरोऽस्यर्वासि सप्तिरसि वाज्यसीत्याह । रूपमेवास्यैतन्माहिमानं व्याचष्टे । ययुर्नामासीत्याह । एतद्वा अश्वस्य प्रियं नामधेयम् । प्रियेणैवैनं नामधेयेनाभिवदति । तस्मादप्यामित्रौ संगत्य । नाम्ना चेद्ध्वयेते । मित्रमेव भवतः २
आदित्यानां पत्वान्विहीत्याह । आदित्यानेवैनं गमयति । अग्नये स्वाहा स्वाहेन्द्रा ग्निभ्यामिति पूर्वहोमाञ्जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति । भूरसि भुवे त्वा भव्याय त्वा भविष्यते त्वेत्युत्सृजति सर्वत्वाय । देवा आशापाला एतं देवेभ्योऽश्वं मेधाय प्रोक्षितं गोपायतेत्याह । शतं वै तल्प्या राजपुत्रा देवा आशापालाः । तेभ्य एवैनं परिददाति । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहेति चतृषु पत्सु जुहोति ३
एता वा अश्वस्य बन्धनम् । ताभिरेवैनं बध्नाति । तस्मादश्वः प्रमुक्तो बन्धनमागच्छति । तस्मादश्वः प्रमुक्तो बन्धनं न जहाति । राष्ट्रं वा अश्वमेधः । राष्ट्रे खलु वा एते व्यायच्छन्ते । येऽश्वं मेध्यꣳ रक्षन्ति । तेषां य उदृचं गच्छन्ति । राष्ट्रादेव ते राष्ट्रं गच्छन्ति । अथ य उदृचं न गच्छन्ति ३५राष्ट्रादेव ते व्यवच्छिद्यन्ते । परा वा एष सिच्यते । योऽबलोऽश्वमेधेन यजते । यदमित्रा अश्वं विन्देरन् । हन्येतास्य यज्ञः । चतुश्शता रक्षन्ति । यज्ञस्या-घाताय । अथान्यमानीय प्रोक्षेयुः । सैव ततः प्रायश्चित्तिः ४
vibhūrmātrā prabhūḥ pitretyāha | iyaṃ vai mātā | asau pitā | ābhyāmevainaṃ paridadāti | aśvo'si hayo'sītyāha | śāstyevainametat | tasmācchiṣṭāḥ prajā jāyante | atyo'sītyāha | tasmādaśvaḥ sarvānpaśūnatyeti | tasmādaśvaḥ sarveṣāṃ paśūnām̐ śraiṣṭhyaṃ gacchati 1
pra yaśaḥ śraiṣṭhyamāpnoti | ya evaṃ veda | naro'syarvāsi saptirasi vājyasītyāha | rūpamevāsyaitanmāhimānaṃ vyācaṣṭe | yayurnāmāsītyāha | etadvā aśvasya priyaṃ nāmadheyam | priyeṇaivainaṃ nāmadheyenābhivadati | tasmādapyāmitrau saṃgatya | nāmnā ceddhvayete | mitrameva bhavataḥ 2
ādityānāṃ patvānvihītyāha | ādityānevainaṃ gamayati | agnaye svāhā svāhendrā gnibhyāmiti pūrvahomāñjuhoti | pūrva eva dviṣantaṃ bhrātṛvyamatikrāmati | bhūrasi bhuve tvā bhavyāya tvā bhaviṣyate tvetyutsṛjati sarvatvāya | devā āśāpālā etaṃ devebhyo'śvaṃ medhāya prokṣitaṃ gopāyatetyāha | śataṃ vai talpyā rājaputrā devā āśāpālāḥ | tebhya evainaṃ paridadāti | īśvaro vā aśvaḥ pramuktaḥ parāṃ parāvataṃ gantoḥ | iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāheti catṛṣu patsu juhoti 3
etā vā aśvasya bandhanam | tābhirevainaṃ badhnāti | tasmādaśvaḥ pramukto bandhanamāgacchati | tasmādaśvaḥ pramukto bandhanaṃ na jahāti | rāṣṭraṃ vā aśvamedhaḥ | rāṣṭre khalu vā ete vyāyacchante | ye'śvaṃ medhyam̐ rakṣanti | teṣāṃ ya udṛcaṃ gacchanti | rāṣṭrādeva te rāṣṭraṃ gacchanti | atha ya udṛcaṃ na gacchanti 35rāṣṭrādeva te vyavacchidyante | parā vā eṣa sicyate | yo'balo'śvamedhena yajate | yadamitrā aśvaṃ vinderan | hanyetāsya yajñaḥ | catuśśatā rakṣanti | yajñasyā-ghātāya | athānyamānīya prokṣeyuḥ | saiva tataḥ prāyaścittiḥ 4
Sanskrit only: no published translation is held for this verse.
प्रजापतिरकामयताश्वमेधेन यजेयेति । स तपोऽतप्यत । तस्य तेपानस्य । सप्तात्मनो देवता उदक्रामन् । सा दीक्षाभवत् । स एतानि वैश्वदेवान्यपश्यत् । तान्यजुहोत् । तैर्वै स दीक्षामवारुन्ध । यद्वैश्वदेवानि जुहोति । दीक्षामेव तैर्यजमानोऽवरुन्धे १
सप्त जुहोति । सप्त हि ता देवता उदक्रामन् । अन्वहं जुहोति । अन्वहमेव दीक्षामवरुन्धे । त्रीणि वैश्वदेवानि जुहोति । चत्वार्यौद्ग्रहणानि । सप्त संपद्यन्ते । सप्त वै शीर्षण्याः प्राणाः । प्राणा दीक्षा । प्राणैरेव प्राणान्दी-क्षामवरुन्धे २
एकविꣳ शतिं वैश्वदेवानि जुहोति । एकविꣳ शतिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविꣳ शः । एष सुवर्गो लोकः । तद्दैव्यं क्षत्त्रम् । सा श्रीः । तद्ब्रध्नस्य विष्टपम् । तत्स्वाराज्यमुच्यते ३
त्रिꣳ शतमौद्ग्रहणानि जुहोति । त्रिꣳ शदक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । त्रेधा विभज्य देवतां जुहोति । त्र्! यावृतो वै देवाः । त्र्! यावृत इमे लोकाः । एषां लोकानामाप्त्यै । एषां लोकानां क्ळ्प्त्यै । अप वा एतस्मात्प्राणाः क्रामन्ति ४
यो दीक्षामतिरेचयति । सप्ताहं प्रचरन्ति । सप्त वै शीर्षन्याः प्राणः । प्राणा दीक्षा । प्राणैरेव प्राणान्दीक्षामवरुन्धे । पूर्णाहुतिमुत्तमां जुहोति । सर्वं वै पूर्णाहुतिः । सर्वमेवाप्नोति । अथो इयं वै पूर्णाहुतिः । अस्यामेव प्रतितिष्ठति ५
prajāpatirakāmayatāśvamedhena yajeyeti | sa tapo'tapyata | tasya tepānasya | saptātmano devatā udakrāman | sā dīkṣābhavat | sa etāni vaiśvadevānyapaśyat | tānyajuhot | tairvai sa dīkṣāmavārundha | yadvaiśvadevāni juhoti | dīkṣāmeva tairyajamāno'varundhe 1
sapta juhoti | sapta hi tā devatā udakrāman | anvahaṃ juhoti | anvahameva dīkṣāmavarundhe | trīṇi vaiśvadevāni juhoti | catvāryaudgrahaṇāni | sapta saṃpadyante | sapta vai śīrṣaṇyāḥ prāṇāḥ | prāṇā dīkṣā | prāṇaireva prāṇāndī-kṣāmavarundhe 2
ekavim̐ śatiṃ vaiśvadevāni juhoti | ekavim̐ śatirvai devalokāḥ | dvādaśa māsāḥ pañcartavaḥ | traya ime lokāḥ | asāvāditya ekavim̐ śaḥ | eṣa suvargo lokaḥ | taddaivyaṃ kṣattram | sā śrīḥ | tadbradhnasya viṣṭapam | tatsvārājyamucyate 3
trim̐ śatamaudgrahaṇāni juhoti | trim̐ śadakṣarā virāṭ | annaṃ virāṭ | virājaivānnādyamavarundhe | tredhā vibhajya devatāṃ juhoti | tr! yāvṛto vai devāḥ | tr! yāvṛta ime lokāḥ | eṣāṃ lokānāmāptyai | eṣāṃ lokānāṃ kl̤ptyai | apa vā etasmātprāṇāḥ krāmanti 4
yo dīkṣāmatirecayati | saptāhaṃ pracaranti | sapta vai śīrṣanyāḥ prāṇaḥ | prāṇā dīkṣā | prāṇaireva prāṇāndīkṣāmavarundhe | pūrṇāhutimuttamāṃ juhoti | sarvaṃ vai pūrṇāhutiḥ | sarvamevāpnoti | atho iyaṃ vai pūrṇāhutiḥ | asyāmeva pratitiṣṭhati 5
Sanskrit only: no published translation is held for this verse.
प्रजापतिरश्वमेधमसृजत । तꣳ सृष्टं न किं चनोदयच्छत् । तं वैश्वदेवान्येवोदयच्छन् । यद्वैश्वदेवानि जुहोति । यज्ञस्योद्यत्यै । स्वाहाधिमाधीताय स्वाहा । स्वाहाधीतं मनसे स्वाहा । स्वाहा मनः प्रजापतये स्वाहा । काय स्वाह कस्मै स्वाहा कतमस्मै स्वाहेति प्राजापत्ये मुख्ये भवतः । प्रजापतिमुखाभिरेवैनं देवताभिरुद्यच्छते १
अदित्यै स्वाहादित्यै मह्यै स्वाहादित्यै सुमृडीकायै स्वाहेत्याह । इयं वा अदितिः । अस्या एवैनं प्रतिष्ठायोद्यच्छते । सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहेत्याह । वाग्वै सरस्वती ।वाचैवैनमुद्यच्छते । पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वहेत्याह । पशवो वै पूषा । पशुभिरेवैनमुद्यच्छते । त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहेत्याह । त्वष्टा वै पशूनां मिथुनानाꣳ रूपकृत् । रूपमेव पशुषु दधाति । अथो रूपैरेवैनमुद्यच्छते । विष्णवे स्वाहा विष्णवे निखुर्यपाय स्वहा विष्णवे निभूयपाय स्वाहेत्याह । यज्ञो वै विष्णुः । यज्ञायैवैनमुद्यच्छते । पूर्णाहुतिमुत्तमां जुहोति । प्रत्युत्तब्ध्यै सयत्वाय २
prajāpatiraśvamedhamasṛjata | tam̐ sṛṣṭaṃ na kiṃ canodayacchat | taṃ vaiśvadevānyevodayacchan | yadvaiśvadevāni juhoti | yajñasyodyatyai | svāhādhimādhītāya svāhā | svāhādhītaṃ manase svāhā | svāhā manaḥ prajāpataye svāhā | kāya svāha kasmai svāhā katamasmai svāheti prājāpatye mukhye bhavataḥ | prajāpatimukhābhirevainaṃ devatābhirudyacchate 1
adityai svāhādityai mahyai svāhādityai sumṛḍīkāyai svāhetyāha | iyaṃ vā aditiḥ | asyā evainaṃ pratiṣṭhāyodyacchate | sarasvatyai svāhā sarasvatyai bṛhatyai svāhā sarasvatyai pāvakāyai svāhetyāha | vāgvai sarasvatī |vācaivainamudyacchate | pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svahetyāha | paśavo vai pūṣā | paśubhirevainamudyacchate | tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāhetyāha | tvaṣṭā vai paśūnāṃ mithunānām̐ rūpakṛt | rūpameva paśuṣu dadhāti | atho rūpairevainamudyacchate | viṣṇave svāhā viṣṇave nikhuryapāya svahā viṣṇave nibhūyapāya svāhetyāha | yajño vai viṣṇuḥ | yajñāyaivainamudyacchate | pūrṇāhutimuttamāṃ juhoti | pratyuttabdhyai sayatvāya 2
Sanskrit only: no published translation is held for this verse.
सावित्रमष्टाकपालं प्रातर्निर्वपति । अष्टाक्षरा गायत्री ।गायत्रं प्रातःसवनम् । प्रातःसवनादेवैनं गायत्रियाश्छन्दसोऽधि निर्मिमीते । अथो प्रातःसवनमेव तेनाप्नोति । गायत्रीं छन्दः । सवित्रे प्रसवित्र एकादशकपालं मध्यंदिने । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभं माध्यंदिनꣳ सवनम् । माध्यंदिनादेवैनꣳ सवनात्त्रिष्टुभश्छन्दसोऽधि निर्मिमीते ३
अथो माध्यंदिनमेव सवनं तेनाप्नोति । त्रिष्टुभं छन्दः । सवित्र आसवित्रे द्वादशकपालमपराह्णे । द्वादशाक्षरा जगती ।जागतं तृतीयसवनम् । तृतीयसवनादेवैनं जगत्याश्छन्दसोऽधि निर्मिमीते । अथो तृतीयसवनमेव तेनाप्नोति । जगतीं छन्दः । ईश्वरो वा अश्वः प्रमुक्तः परां परावतं गन्तोः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रन्तिः स्वाहेति चतस्र आहुतीर्जुहोति ४
चतस्रो दिशः । दिग्भिरेवैनं परिगृह्णाति । आश्वत्थो व्रजो भवति । प्रजापतिर्देवेभ्यो निलायत । अश्वो रूपं कृत्वा । सोऽश्वत्थे संवत्सरमतिष्ठत् । तदश्वत्थस्याश्वत्थत्वम् । यदाश्वत्थो व्रजो भवति । स्व एवैनं योनौ प्रतिष्ठापयति ५
sāvitramaṣṭākapālaṃ prātarnirvapati | aṣṭākṣarā gāyatrī |gāyatraṃ prātaḥsavanam | prātaḥsavanādevainaṃ gāyatriyāśchandaso'dhi nirmimīte | atho prātaḥsavanameva tenāpnoti | gāyatrīṃ chandaḥ | savitre prasavitra ekādaśakapālaṃ madhyaṃdine | ekādaśākṣarā triṣṭup | traiṣṭubhaṃ mādhyaṃdinam̐ savanam | mādhyaṃdinādevainam̐ savanāttriṣṭubhaśchandaso'dhi nirmimīte 3
atho mādhyaṃdinameva savanaṃ tenāpnoti | triṣṭubhaṃ chandaḥ | savitra āsavitre dvādaśakapālamaparāhṇe | dvādaśākṣarā jagatī |jāgataṃ tṛtīyasavanam | tṛtīyasavanādevainaṃ jagatyāśchandaso'dhi nirmimīte | atho tṛtīyasavanameva tenāpnoti | jagatīṃ chandaḥ | īśvaro vā aśvaḥ pramuktaḥ parāṃ parāvataṃ gantoḥ | iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha rantiḥ svāheti catasra āhutīrjuhoti 4
catasro diśaḥ | digbhirevainaṃ parigṛhṇāti | āśvattho vrajo bhavati | prajāpatirdevebhyo nilāyata | aśvo rūpaṃ kṛtvā | so'śvatthe saṃvatsaramatiṣṭhat | tadaśvatthasyāśvatthatvam | yadāśvattho vrajo bhavati | sva evainaṃ yonau pratiṣṭhāpayati 5
Sanskrit only: no published translation is held for this verse.
आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामित्याह । ब्राह्मण एव ब्रह्मवर्चसं दधाति । तस्मात्पुरा ब्राह्मणो ब्रह्मवर्चस्यजायत । आस्मिन्राष्ट्रे राजन्य इषव्यः शूरो महारथो जायतामित्याह । राजन्य एव शौर्यं महिमानं दधाति । तस्मात्पुरा राजन्य इषव्यः शूरो महारथोऽजायत । दोग्ध्री धेनुरित्याह । धेन्वामेव पयो दधाति । तस्मात्पुरा दोग्ध्री धेनुरजायत । वोढानड्वानियाह १
अनडुह्येव वीर्यं दधाति । तस्मात्पुरा वोढानड्वानजायत । आशुः सप्तिरित्याह । अश्व एव जवं दधाति । तस्मात्पुराशुरश्वोऽजायत । पुरंधिर्योषेत्याह । योषित्येव रूपं दधाति । तस्मात्स्त्री युवतिः प्रिया भावुका । जिष्णू रथेष्ठा इत्याह । आ ह वै तत्र जिष्णू रथेष्ठा जायते २
यत्रैतेन यज्ञेन यजन्ते । सभेयो युवेत्याह । यो वै पूर्ववयसी ।स सभेयो युवा । तस्माद्युवा पुमान्प्रियो भावुकः । आस्य यजमानस्य वीरो जायतामित्याह । आ ह वै तत्र यजमानस्य वीरो जायते । यत्रैतेन यज्ञेन यजन्ते । निकामेनिकामे नः पर्जन्यो वर्षत्वित्याह । निकामेनिकामे ह वै तत्र पर्जन्यो वर्षति । यत्रैतेन यज्ञेन यजन्ते । फलिन्यो न ओषधयः पच्यन्तामित्याह । फलिन्यो ह वै तत्रौषधयः पच्यन्ते । यत्रैतेन यज्ञेन यजन्ते । योगक्षेमो नः कल्पतामित्याह । कल्पते ह वै तत्र प्रजाभ्यो योगक्षेमः । यत्रैतेन यज्ञेन यजन्ते ३
ā brahmanbrāhmaṇo brahmavarcasī jāyatāmityāha | brāhmaṇa eva brahmavarcasaṃ dadhāti | tasmātpurā brāhmaṇo brahmavarcasyajāyata | āsminrāṣṭre rājanya iṣavyaḥ śūro mahāratho jāyatāmityāha | rājanya eva śauryaṃ mahimānaṃ dadhāti | tasmātpurā rājanya iṣavyaḥ śūro mahāratho'jāyata | dogdhrī dhenurityāha | dhenvāmeva payo dadhāti | tasmātpurā dogdhrī dhenurajāyata | voḍhānaḍvāniyāha 1
anaḍuhyeva vīryaṃ dadhāti | tasmātpurā voḍhānaḍvānajāyata | āśuḥ saptirityāha | aśva eva javaṃ dadhāti | tasmātpurāśuraśvo'jāyata | puraṃdhiryoṣetyāha | yoṣityeva rūpaṃ dadhāti | tasmātstrī yuvatiḥ priyā bhāvukā | jiṣṇū ratheṣṭhā ityāha | ā ha vai tatra jiṣṇū ratheṣṭhā jāyate 2
yatraitena yajñena yajante | sabheyo yuvetyāha | yo vai pūrvavayasī |sa sabheyo yuvā | tasmādyuvā pumānpriyo bhāvukaḥ | āsya yajamānasya vīro jāyatāmityāha | ā ha vai tatra yajamānasya vīro jāyate | yatraitena yajñena yajante | nikāmenikāme naḥ parjanyo varṣatvityāha | nikāmenikāme ha vai tatra parjanyo varṣati | yatraitena yajñena yajante | phalinyo na oṣadhayaḥ pacyantāmityāha | phalinyo ha vai tatrauṣadhayaḥ pacyante | yatraitena yajñena yajante | yogakṣemo naḥ kalpatāmityāha | kalpate ha vai tatra prajābhyo yogakṣemaḥ | yatraitena yajñena yajante 3
Sanskrit only: no published translation is held for this verse.
प्रजापतिर्देवेभ्यो यज्ञान्व्यादिशत् । स आत्मन्नश्वमेधमधत्त । तं देवा अब्रुवन् । एष वाव यज्ञः । यदश्वमेधः । अप्येव नोऽत्रास्त्विति । तेभ्य एतानन्नहोमान्प्रायच्छत् । तानजुहोत् । तैर्वै स देवानप्रीणात् । यदन्नहोमाञ्जुहोति १
देवानेव तैर्यजमानः प्रीणाति । आज्येन जुहोति । अग्नेर्वा एतद्रू पम् । यदाज्यम् । यदाज्येन जुहोति । अग्निमेव तत्प्रीणाति । मधुना जुहोति । महत्यै वा एतद्देवतायै रूपम् । यन्मधु । यन्मधुना जुहोति २
महतीमेव तद्देवतां प्रीणाति । तण्डुलैर्जुहोति । वसूनां वा एतद्रू पम् । यत्तण्डुलाः । यत्तण्डुलैर्जुहोति । वसूनेव तत्प्रीणाति । पृथुकैर्जुहोति । रुद्रा णां वा एतद्रू पम् । यत्पृथुकाः । यत्पृथुकैर्जुहोति ३
रुद्रा नेव तत्प्रीणाति । लाजैर्जुहोति । आदित्यानां वा एतद्रू पम् । यल्लाजाः । यल्लाजैर्जुहोति । आदित्यानेव तत्प्रीणाति । करम्बैर्जुहोति । विश्वेषां वा एतद्देवानाꣳ रूपम् । यत्करम्बाः । यत्करम्बैर्जुहोति ४
विश्वानेव तद्देवान्प्रीणाति । धानाभिर्जुहोति । नक्षत्राणां वा एतद्रू पम् । यद्धानाः । यद्धानाभिर्जुहोति । नक्षत्राण्येव तत्प्रीणाति । सक्तुभिर्जुहोति । प्रजापतेर्वा एतद्रू पम् । यत्सक्तवः । यत्सक्तुभिर्जुहोति ५
प्रजापतिमेव तत्प्रीणाति । मसूस्यैर्जुहोति । सर्वासां वा एतद्देवताꣳ रूपम् । यन्मसूस्यानि । यन्मसूस्यैर्जुहोति । सर्वा एव तद्देवताः प्रीणाति । प्रियङ्गुतण्डुलैर्जुहोति । प्रियाङ्गा ह वै नामैते । एतैर्वै देवा अश्वस्याङ्गानि समदधुः । यत्प्रियङ्गुतण्डुलैर्जुहोति । अश्वस्यैवाङ्गानि संदधाति । दशान्नानि जुहोति । दशाक्षरा विराट् । विराट्कृत्स्नस्यान्नाद्यस्यावरुद्ध्यै ६
prajāpatirdevebhyo yajñānvyādiśat | sa ātmannaśvamedhamadhatta | taṃ devā abruvan | eṣa vāva yajñaḥ | yadaśvamedhaḥ | apyeva no'trāstviti | tebhya etānannahomānprāyacchat | tānajuhot | tairvai sa devānaprīṇāt | yadannahomāñjuhoti 1
devāneva tairyajamānaḥ prīṇāti | ājyena juhoti | agnervā etadrū pam | yadājyam | yadājyena juhoti | agnimeva tatprīṇāti | madhunā juhoti | mahatyai vā etaddevatāyai rūpam | yanmadhu | yanmadhunā juhoti 2
mahatīmeva taddevatāṃ prīṇāti | taṇḍulairjuhoti | vasūnāṃ vā etadrū pam | yattaṇḍulāḥ | yattaṇḍulairjuhoti | vasūneva tatprīṇāti | pṛthukairjuhoti | rudrā ṇāṃ vā etadrū pam | yatpṛthukāḥ | yatpṛthukairjuhoti 3
rudrā neva tatprīṇāti | lājairjuhoti | ādityānāṃ vā etadrū pam | yallājāḥ | yallājairjuhoti | ādityāneva tatprīṇāti | karambairjuhoti | viśveṣāṃ vā etaddevānām̐ rūpam | yatkarambāḥ | yatkarambairjuhoti 4
viśvāneva taddevānprīṇāti | dhānābhirjuhoti | nakṣatrāṇāṃ vā etadrū pam | yaddhānāḥ | yaddhānābhirjuhoti | nakṣatrāṇyeva tatprīṇāti | saktubhirjuhoti | prajāpatervā etadrū pam | yatsaktavaḥ | yatsaktubhirjuhoti 5
prajāpatimeva tatprīṇāti | masūsyairjuhoti | sarvāsāṃ vā etaddevatām̐ rūpam | yanmasūsyāni | yanmasūsyairjuhoti | sarvā eva taddevatāḥ prīṇāti | priyaṅgutaṇḍulairjuhoti | priyāṅgā ha vai nāmaite | etairvai devā aśvasyāṅgāni samadadhuḥ | yatpriyaṅgutaṇḍulairjuhoti | aśvasyaivāṅgāni saṃdadhāti | daśānnāni juhoti | daśākṣarā virāṭ | virāṭkṛtsnasyānnādyasyāvaruddhyai 6
Sanskrit only: no published translation is held for this verse.
प्रजापतिरश्वमेधमसृजत । तꣳ सृष्टꣳ रक्षाꣳ स्यजिघाꣳ सन् । स एतान्प्रजा-पतिर्नक्तꣳ होमानपश्यत् । तानजुहोति । तैर्वै स यज्ञाद्र क्षाꣳ स्यपाहन् । यन्नक्तꣳ होमाञ्जुहोति । यज्ञादेव तैर्यजमानो रक्षाꣳ स्यपहन्ति । आज्येन जुहोति । वज्रो वा आज्यम् । वज्रेणैव यज्ञाद्र क्षाꣳ स्यपहन्ति १
आज्यस्य प्रतिपदं करोति । प्राणो वा आज्यम् । मुखत एवास्य प्राणं दधाति । अन्नहोमाञ्जुहोति । शरीरवदेवावरुन्धे । व्यत्यासं जुहोति । उभय-स्यावरुध्यै । नक्तं जुहोति । रक्षसामपहत्यै । आज्येनान्नततो जुहोति २
प्राणो वा आज्यम् । उभयत एवास्य प्राणं दधाति । पुरस्ताच्चोपरिष्टाच्च । एकस्मै स्वाहेत्याह । अस्मिन्नेव लोके प्रतितिष्ठति । द्वाभ्याꣳ स्वाहेत्याह । अमुष्मिन्नेव लोके प्रतितिष्ठति । उभयोरेव लोकयोः प्रतितिष्ठति । अस्मिꣳ श्चा-मुष्मिꣳ श्च । शताय स्वाहेत्याह । शतायुर्वै पुरुषः शतवीर्यः । आयुरेव वीर्यमवरुन्धे । सहस्राय स्वाहेत्याह । आयुर्वै सहस्रम् । आयुरेवावरुन्धे । सर्वस्मै स्वाहेत्याह । अपरिमितमेवावरुन्धे ३
prajāpatiraśvamedhamasṛjata | tam̐ sṛṣṭam̐ rakṣām̐ syajighām̐ san | sa etānprajā-patirnaktam̐ homānapaśyat | tānajuhoti | tairvai sa yajñādra kṣām̐ syapāhan | yannaktam̐ homāñjuhoti | yajñādeva tairyajamāno rakṣām̐ syapahanti | ājyena juhoti | vajro vā ājyam | vajreṇaiva yajñādra kṣām̐ syapahanti 1
ājyasya pratipadaṃ karoti | prāṇo vā ājyam | mukhata evāsya prāṇaṃ dadhāti | annahomāñjuhoti | śarīravadevāvarundhe | vyatyāsaṃ juhoti | ubhaya-syāvarudhyai | naktaṃ juhoti | rakṣasāmapahatyai | ājyenānnatato juhoti 2
prāṇo vā ājyam | ubhayata evāsya prāṇaṃ dadhāti | purastāccopariṣṭācca | ekasmai svāhetyāha | asminneva loke pratitiṣṭhati | dvābhyām̐ svāhetyāha | amuṣminneva loke pratitiṣṭhati | ubhayoreva lokayoḥ pratitiṣṭhati | asmim̐ ścā-muṣmim̐ śca | śatāya svāhetyāha | śatāyurvai puruṣaḥ śatavīryaḥ | āyureva vīryamavarundhe | sahasrāya svāhetyāha | āyurvai sahasram | āyurevāvarundhe | sarvasmai svāhetyāha | aparimitamevāvarundhe 3
Sanskrit only: no published translation is held for this verse.
प्रजापतिं वा एष ईप्सतीत्याहुः । योऽश्वमेधेन यजत इति । अथो आहुः । सर्वाणि भूतानीति । एकस्मै स्वाहेत्याह । प्रजापतिर्वा एकः । तमेवाप्नोति । एकस्मै स्वाहा द्वाभ्याꣳ स्वाहेत्यभिपूर्वमाहुतीर्जुहोति । अभिपूर्वमेव सुवर्गं लोकमेति । एकोत्तरं जुहोति १
एकवदेव सुवर्गं लोकमेति । संततं जुहोति । सुवर्गस्य लोकस्य संतत्यै । शताय स्वाहेत्याह । शतायुर्वै पुरुषः शतवीर्यः । आयुरेव वीर्यमवरुन्धे । सहस्राय स्वाहेत्याह । आयुर्वै सहस्रम् । आयुरेवावरुन्धे । अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहेत्याह २
त्रय इमे लोकाः । इमानेव लोकानवरुन्धे । अर्बुदाय स्वाहेत्याह । वाग्वा अर्बुदम् । वाचमेवावरुन्धे । न्यर्बुदाय स्वाहेत्याह । यो वै वाचो भूमा । तन्न्यर्बुदम् । वाच एव भूमानमवरुन्धे । समुद्रा य स्वाहेत्याह ३
समुद्र मेवाप्नोति । मध्याय स्वाहेत्याह । मध्यमेवाप्नोति । अन्ताय स्वाहेत्याह । अन्तमेवाप्नोति । परार्धाय स्वाहेत्याह । परार्धमेवाप्नोति । उषसे स्वाहा व्युष्ट्यै स्वाहेत्याह । रातिर्वा उषाः । अहर्व्युष्टिः । अहोरात्रे एवावरुन्धे । अथो अहोरात्रयोरेव प्रतितिष्ठति । ता यदुभयीर्दिवा वा नक्तं वा जुहुयात् । अहोरात्रे मोहयेत् । उषसे स्वाहा व्युष्ट्यै स्वाहोदेष्यते स्वाहोद्यते स्वाहेत्यनुदिते जुहोति । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहेत्युदिते जुहोति । अहोरात्रयोरव्यतिमोहाय ४
prajāpatiṃ vā eṣa īpsatītyāhuḥ | yo'śvamedhena yajata iti | atho āhuḥ | sarvāṇi bhūtānīti | ekasmai svāhetyāha | prajāpatirvā ekaḥ | tamevāpnoti | ekasmai svāhā dvābhyām̐ svāhetyabhipūrvamāhutīrjuhoti | abhipūrvameva suvargaṃ lokameti | ekottaraṃ juhoti 1
ekavadeva suvargaṃ lokameti | saṃtataṃ juhoti | suvargasya lokasya saṃtatyai | śatāya svāhetyāha | śatāyurvai puruṣaḥ śatavīryaḥ | āyureva vīryamavarundhe | sahasrāya svāhetyāha | āyurvai sahasram | āyurevāvarundhe | ayutāya svāhā niyutāya svāhā prayutāya svāhetyāha 2
traya ime lokāḥ | imāneva lokānavarundhe | arbudāya svāhetyāha | vāgvā arbudam | vācamevāvarundhe | nyarbudāya svāhetyāha | yo vai vāco bhūmā | tannyarbudam | vāca eva bhūmānamavarundhe | samudrā ya svāhetyāha 3
samudra mevāpnoti | madhyāya svāhetyāha | madhyamevāpnoti | antāya svāhetyāha | antamevāpnoti | parārdhāya svāhetyāha | parārdhamevāpnoti | uṣase svāhā vyuṣṭyai svāhetyāha | rātirvā uṣāḥ | aharvyuṣṭiḥ | ahorātre evāvarundhe | atho ahorātrayoreva pratitiṣṭhati | tā yadubhayīrdivā vā naktaṃ vā juhuyāt | ahorātre mohayet | uṣase svāhā vyuṣṭyai svāhodeṣyate svāhodyate svāhetyanudite juhoti | uditāya svāhā suvargāya svāhā lokāya svāhetyudite juhoti | ahorātrayoravyatimohāya 4
Sanskrit only: no published translation is held for this verse.
विभूर्मात्रा प्रभूः पित्रेत्यश्वनामानि जुहोति । उभयोरेवैनं लोकयोर्नामधेयं गमयति । आयनाय स्वाहा प्रायणाय स्वाहेत्युद्द्रावाञ्जुहोति । सर्वमेवैनमस्कन्नꣳ सुवर्गं लोकं गमयति । अग्नये स्वाहा सोमाय स्वाहेति पूर्वहोमाञ्जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति । पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्याह । यथायजुरेवैतत् । अग्नये स्वाहा सोमाय स्वाहेति पूर्वदीक्षा जुहोति । पूर्व एव द्विषन्तं भ्रातृव्यमतिक्रामति १
पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्येकविꣳ शिनीं दीक्षां जुहोति । एकविꣳ शतिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविꣳ शः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । भुवो देवानां कर्मणेत्यृतुदीक्षा जुहोति । ऋतूनेवास्मै कल्पयति । अग्नये स्वाहा वायवे स्वाहेति जुहोत्यनन्तरित्यै २
अर्वाङ्यज्ञः संक्रामत्वित्याप्तीर्जुहोति । सुवर्गस्य लोकस्याप्त्यै । भूतं भव्यं भविष्यदिति पर्याप्तीर्जुहोति । सुवर्गस्य लोकस्य पर्याप्त्यै । आ मे गृहा भवन्त्वित्याभूर्जुहोति । सुवर्गस्य लोकस्याभूत्यै । अग्निना तपोऽन्वभव-दित्यनुभूर्जुहोति । सुवर्गस्य लोकस्यानुभूत्यै । स्वाहाधिमाधीताय स्वाहेति समस्ताइ वैश्वदेवानि जुहोति । समस्तमेव द्विषन्तं भ्रातृव्यमतिक्रामति ३
दद्भ्यः स्वाहा हनूभ्याꣳ स्वाहेत्यङ्गहोमाञ्जुहोति । अङ्गेअङ्गे वै पुरुषस्य पाप्मोपश्लिष्टः । अङ्गादङ्गादेवैनं पाप्मनस्तेन मुञ्चति । अञ्ज्येताय स्वाहा कृष्णाय स्वाहा श्वेताय स्वाहेत्यश्वरूपाणि जुहोति । रूपैरेवैनꣳ समर्धयति । ओषधीभ्यः स्वाहा मूलेभ्यसः स्वाहेत्योषधिहोमाञ्जुहोति । द्वय्यो वा ओषधयः । पुष्पेभ्योऽन्याः फलं गृह्णन्ति । मूलेभ्योऽन्याः । ता एवोभयीरवरुन्धे ४
वनस्पतिभ्यः स्वाहेति वनस्पतिहोमाञ्जुहोति । आरण्यस्यान्नाद्यस्यावरुध्यै । मेषस्त्वा पचतैरवत्वित्यपाव्यानि जुहोति । प्राणा वै देवा अपाव्याः । प्राणानेवावरुन्धे । कूप्याभ्यः स्वाहाद्भ्यः स्वाहेत्यपाꣳ होमाञ्जुहोति । अप्सु वा आपः । अन्नं वा आपः । अद्भ्यो वा अन्नं जायते । यदेवाद्भ्योऽन्नं जायते । तदवरुन्धे ५
vibhūrmātrā prabhūḥ pitretyaśvanāmāni juhoti | ubhayorevainaṃ lokayornāmadheyaṃ gamayati | āyanāya svāhā prāyaṇāya svāhetyuddrāvāñjuhoti | sarvamevainamaskannam̐ suvargaṃ lokaṃ gamayati | agnaye svāhā somāya svāheti pūrvahomāñjuhoti | pūrva eva dviṣantaṃ bhrātṛvyamatikrāmati | pṛthivyai svāhāntarikṣāya svāhetyāha | yathāyajurevaitat | agnaye svāhā somāya svāheti pūrvadīkṣā juhoti | pūrva eva dviṣantaṃ bhrātṛvyamatikrāmati 1
pṛthivyai svāhāntarikṣāya svāhetyekavim̐ śinīṃ dīkṣāṃ juhoti | ekavim̐ śatirvai devalokāḥ | dvādaśa māsāḥ pañcartavaḥ | traya ime lokāḥ | asāvāditya ekavim̐ śaḥ | eṣa suvargo lokaḥ | suvargasya lokasya samaṣṭyai | bhuvo devānāṃ karmaṇetyṛtudīkṣā juhoti | ṛtūnevāsmai kalpayati | agnaye svāhā vāyave svāheti juhotyanantarityai 2
arvāṅyajñaḥ saṃkrāmatvityāptīrjuhoti | suvargasya lokasyāptyai | bhūtaṃ bhavyaṃ bhaviṣyaditi paryāptīrjuhoti | suvargasya lokasya paryāptyai | ā me gṛhā bhavantvityābhūrjuhoti | suvargasya lokasyābhūtyai | agninā tapo'nvabhava-dityanubhūrjuhoti | suvargasya lokasyānubhūtyai | svāhādhimādhītāya svāheti samastāi vaiśvadevāni juhoti | samastameva dviṣantaṃ bhrātṛvyamatikrāmati 3
dadbhyaḥ svāhā hanūbhyām̐ svāhetyaṅgahomāñjuhoti | aṅgeaṅge vai puruṣasya pāpmopaśliṣṭaḥ | aṅgādaṅgādevainaṃ pāpmanastena muñcati | añjyetāya svāhā kṛṣṇāya svāhā śvetāya svāhetyaśvarūpāṇi juhoti | rūpairevainam̐ samardhayati | oṣadhībhyaḥ svāhā mūlebhyasaḥ svāhetyoṣadhihomāñjuhoti | dvayyo vā oṣadhayaḥ | puṣpebhyo'nyāḥ phalaṃ gṛhṇanti | mūlebhyo'nyāḥ | tā evobhayīravarundhe 4
vanaspatibhyaḥ svāheti vanaspatihomāñjuhoti | āraṇyasyānnādyasyāvarudhyai | meṣastvā pacatairavatvityapāvyāni juhoti | prāṇā vai devā apāvyāḥ | prāṇānevāvarundhe | kūpyābhyaḥ svāhādbhyaḥ svāhetyapām̐ homāñjuhoti | apsu vā āpaḥ | annaṃ vā āpaḥ | adbhyo vā annaṃ jāyate | yadevādbhyo'nnaṃ jāyate | tadavarundhe 5
Sanskrit only: no published translation is held for this verse.
अम्भाꣳ सि जुहोति । अयं वै लोकोऽम्भाꣳ सि । तस्य वसवोऽधिपतयः । अग्निर्ज्योतिः । यदम्भाꣳ सि जुहोति । इममेव लोकमवरुन्धे । वसूनाꣳ सायुज्यं गच्छति । अग्निं ज्योतिरवरुन्धे । नभाꣳ सि जुहोति । अन्तरिक्षं वै नभाꣳ सि १
तस्य रुद्रा अधिपतयः । वायुर्ज्योतिः । यन्नभाꣳ सि जुहोति । अन्तरिक्षमेवा-वरुन्धे । रुद्रा णाꣳ सायुज्यं गच्छति । वायुं ज्योतिरवरुन्धे । महाꣳ सि जुहोति । असौ वै लोको महाꣳ सि । तस्यादित्या अधिपतयः । सूर्यो ज्योतिः २
यन्महाꣳ सि जुहोति । अमुमेव लोकमवरुन्धे । आदित्यानाꣳ सायुज्यं गच्छति । सूर्यं ज्योतिरवरुन्धे । नमो राज्ञे नमो वरुणयेति यव्यानि जुहोति । अन्नाद्य-स्यावरुध्यै । मयोभूर्वातो अभि वातूस्रा इति गव्यानि जुहोति । पशूनाम-वरुध्यै । प्राणाय स्वाहा व्यानाय स्वाहेति संततिहोमञ्जुहोति । सुवर्गस्य लोकस्य संतत्यै ३
सिताय स्वाहासिताय स्वाहेति प्रमुक्तीर्जुहोति । सुवर्गस्य लोकस्य प्रमुक्त्यै । पृथिव्यै स्वाहान्तरिक्षाय स्वाहेत्याह । यथायजुरेवैतत् । दत्वते स्वहा-दन्तकाय स्वाहेति शरीरहोमाञ्जुहोति । पितृलोकमेव तैर्यजमानोऽवरुन्धे । कस्त्वा युनक्ति स त्वा युनक्त्विति परिधीन्युनक्ति । इमे वै लोकाः परिधयः । इमानेवास्मै लोकान्युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै ७१
यः प्राणतो य आत्मदा इति महिमानौ जुहोति । सुवर्गो वै लोको महः । सुवर्गमेव ताभ्यां लोकं यजमानोऽवरुन्धे । आ ब्रह्मन्ब्राह्मणो ब्रह्मवर्चसी जायतामिति समस्तानि ब्रह्मवर्चसानि जुहोति । ब्रह्मवर्चसमेव तैर्यजमानोऽवरुन्धे । जज्ञि बीजमिति जुहोत्यनन्तरित्यै । अग्नये समनमत्पृथिव्यै समनमदिति संनतिहोमाञ्जुहोति । सुवर्गस्य लोकस्य संनत्यै । भूताय स्वाहा भविष्यते स्वाहेति भूताभव्यौ होमौ जुहोति । अयं वै लोको भूतम् ४
असौ भविष्यत् । अनयोरेव लोकयोः प्रतितिष्ठति । सर्वस्याप्त्यै । सर्वस्या-वरुद्ध्यै । यदक्रन्दः प्रथमं जायमान इत्यश्वस्तोमीयं जुहोति । सर्वस्याप्त्यै । सर्वस्य जित्यै । सर्वमेव तेनाप्नोति । सर्वं जयति । योऽश्वमेधेन यजते ५
य उ चैनमेवं वेद । यज्ञꣳ रक्षाꣳ स्यजिघाꣳ सन् । स एतान्प्रजापतिर्नक्तꣳ हो-मानपश्यत् । तानजुहोत् । तैर्वै स यज्ञाद्र क्षाꣳ स्यपाहन् । यन्नक्तंहोमाञ्जुहोति । यज्ञादेव तैर्यजमानो रक्षाꣳ स्यपहन्ति । उषसे स्वाहा व्युष्ट्यै स्वाहेत्यन्ततो जुहोति । सुवर्गस्य लोकस्य समष्ट्यै ६
ambhām̐ si juhoti | ayaṃ vai loko'mbhām̐ si | tasya vasavo'dhipatayaḥ | agnirjyotiḥ | yadambhām̐ si juhoti | imameva lokamavarundhe | vasūnām̐ sāyujyaṃ gacchati | agniṃ jyotiravarundhe | nabhām̐ si juhoti | antarikṣaṃ vai nabhām̐ si 1
tasya rudrā adhipatayaḥ | vāyurjyotiḥ | yannabhām̐ si juhoti | antarikṣamevā-varundhe | rudrā ṇām̐ sāyujyaṃ gacchati | vāyuṃ jyotiravarundhe | mahām̐ si juhoti | asau vai loko mahām̐ si | tasyādityā adhipatayaḥ | sūryo jyotiḥ 2
yanmahām̐ si juhoti | amumeva lokamavarundhe | ādityānām̐ sāyujyaṃ gacchati | sūryaṃ jyotiravarundhe | namo rājñe namo varuṇayeti yavyāni juhoti | annādya-syāvarudhyai | mayobhūrvāto abhi vātūsrā iti gavyāni juhoti | paśūnāma-varudhyai | prāṇāya svāhā vyānāya svāheti saṃtatihomañjuhoti | suvargasya lokasya saṃtatyai 3
sitāya svāhāsitāya svāheti pramuktīrjuhoti | suvargasya lokasya pramuktyai | pṛthivyai svāhāntarikṣāya svāhetyāha | yathāyajurevaitat | datvate svahā-dantakāya svāheti śarīrahomāñjuhoti | pitṛlokameva tairyajamāno'varundhe | kastvā yunakti sa tvā yunaktviti paridhīnyunakti | ime vai lokāḥ paridhayaḥ | imānevāsmai lokānyunakti | suvargasya lokasya samaṣṭyai 71
yaḥ prāṇato ya ātmadā iti mahimānau juhoti | suvargo vai loko mahaḥ | suvargameva tābhyāṃ lokaṃ yajamāno'varundhe | ā brahmanbrāhmaṇo brahmavarcasī jāyatāmiti samastāni brahmavarcasāni juhoti | brahmavarcasameva tairyajamāno'varundhe | jajñi bījamiti juhotyanantarityai | agnaye samanamatpṛthivyai samanamaditi saṃnatihomāñjuhoti | suvargasya lokasya saṃnatyai | bhūtāya svāhā bhaviṣyate svāheti bhūtābhavyau homau juhoti | ayaṃ vai loko bhūtam 4
asau bhaviṣyat | anayoreva lokayoḥ pratitiṣṭhati | sarvasyāptyai | sarvasyā-varuddhyai | yadakrandaḥ prathamaṃ jāyamāna ityaśvastomīyaṃ juhoti | sarvasyāptyai | sarvasya jityai | sarvameva tenāpnoti | sarvaṃ jayati | yo'śvamedhena yajate 5
ya u cainamevaṃ veda | yajñam̐ rakṣām̐ syajighām̐ san | sa etānprajāpatirnaktam̐ ho-mānapaśyat | tānajuhot | tairvai sa yajñādra kṣām̐ syapāhan | yannaktaṃhomāñjuhoti | yajñādeva tairyajamāno rakṣām̐ syapahanti | uṣase svāhā vyuṣṭyai svāhetyantato juhoti | suvargasya lokasya samaṣṭyai 6
Sanskrit only: no published translation is held for this verse.
एकयूपो वैकादशिनी वा । अन्येषां यज्ञानां यूपा भवन्ति । एकविꣳ शि-न्यश्वमेधस्य । स्वर्गस्य लोकस्याभिजित्यै । बैल्वो वा खादिरो वा पालाशो वा । अन्येषां यज्ञक्रतूनां यूपा भवन्ति । राज्जुदाल एकविꣳ शत्यरत्निरश्वमेधस्य । सुवर्गस्य लोकस्य समष्ट्यै । नान्येषां पशूनां तेजन्या अवद्यन्ति । अवद्यन्त्यश्वस्य १
पाप्मा वै तेजनी ।पाप्मनोऽपहत्यै । प्लक्षशाखायामन्येषां पशूनामवद्यन्ति । वेतसशाखायामश्वस्य । अप्सुयोनिर्वा अश्वः । अप्सुजो वेतसः । स्व एवास्य योनाववद्यति । यूपेषु ग्राम्यान्पशून्नियुञ्जन्ति । आरोकेष्वारण्यान्धारयन्ति । पशूनां व्यावृत्त्यै । आ ग्राम्यान्पशूꣳ ल्लभन्ते । प्रारण्यान्त्सृजन्ति । पाप्मनोऽपहत्यै २
ekayūpo vaikādaśinī vā | anyeṣāṃ yajñānāṃ yūpā bhavanti | ekavim̐ śi-nyaśvamedhasya | svargasya lokasyābhijityai | bailvo vā khādiro vā pālāśo vā | anyeṣāṃ yajñakratūnāṃ yūpā bhavanti | rājjudāla ekavim̐ śatyaratniraśvamedhasya | suvargasya lokasya samaṣṭyai | nānyeṣāṃ paśūnāṃ tejanyā avadyanti | avadyantyaśvasya 1
pāpmā vai tejanī |pāpmano'pahatyai | plakṣaśākhāyāmanyeṣāṃ paśūnāmavadyanti | vetasaśākhāyāmaśvasya | apsuyonirvā aśvaḥ | apsujo vetasaḥ | sva evāsya yonāvavadyati | yūpeṣu grāmyānpaśūnniyuñjanti | ārokeṣvāraṇyāndhārayanti | paśūnāṃ vyāvṛttyai | ā grāmyānpaśūm̐ llabhante | prāraṇyāntsṛjanti | pāpmano'pahatyai 2
Sanskrit only: no published translation is held for this verse.
राज्जुदालमग्निष्ठं मिनोति । भ्रूणहत्याया अपहत्यै । पौतुद्र वावभितो भवतः । पुण्यस्य गन्धस्यावरुध्यै । भ्रूणहत्यामेवास्मादपहत्य । पुण्येन गन्धेनोभयतः परिगृह्णाति । षड्बैल्वा भवन्ति । ब्रमवर्चसस्यावरुद्ध्यै । षट्खादिराः । तेजसोऽवरुध्यै १
षट्पालाशाः । सोमपीथस्यावरुध्यै । एकविꣳ शतिः संपद्यन्ते । एकविꣳ श-तिर्वै देवलोकाः । द्वादश मासाः पञ्चर्तवः । त्रय इमे लोकाः । असावादित्य एकविꣳ शः । एष सुवर्गो लोकः । सुवर्गस्य लोकस्य समष्ट्यै । शतं पशवो भवन्ति २
शतायुः पुरुषः शतेन्द्रि यः । आयुष्येवेन्द्रि ये प्रतितिष्ठति । सर्वं वा अश्वमेध्याप्नोति । अपरिमिता भवन्ति । अपरिमितस्यावरुद्ध्यै । ब्रह्मवादिनो वदन्ति । कस्मात्सत्यात् । दक्षिणतोऽन्येषां पशूनामवद्यन्ति । उत्तरतो-ऽश्वस्येति । वारुणो वा अश्वः ३
एषा वै वरुणस्य दिक् । स्वायामेवास्य दिश्यवद्यति । यदितरेषां पशूनामवद्यति । शतदेवत्यं तेनावरुन्धे । चितेऽग्नावधि वैतसे कटेऽश्वं चिनोति । अप्सुयोनिर्वा अश्वः अप्सुजो वेतसः । स्व एवैनं योनौ प्रतिष्ठापयति । पुरस्तात्प्रत्यञ्चं तूपरं चिनोति । पश्चात्प्राचीनं गोमृगम् ४
प्राणापानावेवास्मिन्त्सम्यञ्चौ दधाति । अश्वं तूपरं गोमृगमिति सर्वहुत एताञ्जुहोति । एषां लोकानामभिजित्यै । आत्मनाभिजुहोति । सात्मानमेवैनꣳ सतनुं करोति । सात्मामुष्मिꣳ ल्लोके भवति । य एवं वेद । अथो वसोरेव धारां तेनावरुन्धे । इलुवर्दाय स्वाहा बलिवर्दाय स्वाहेत्याह । संवत्सरो वा इलुवर्दः । परिवत्सरो बलिवर्दः । संवत्सरादेव परिवत्सरादायुरवरुन्धे । आयुरेवास्मिन्दधाति । तस्मादश्वमेधयाजी जरसा विस्रसामुं लोकमेति ५
rājjudālamagniṣṭhaṃ minoti | bhrūṇahatyāyā apahatyai | pautudra vāvabhito bhavataḥ | puṇyasya gandhasyāvarudhyai | bhrūṇahatyāmevāsmādapahatya | puṇyena gandhenobhayataḥ parigṛhṇāti | ṣaḍbailvā bhavanti | bramavarcasasyāvaruddhyai | ṣaṭkhādirāḥ | tejaso'varudhyai 1
ṣaṭpālāśāḥ | somapīthasyāvarudhyai | ekavim̐ śatiḥ saṃpadyante | ekavim̐ śa-tirvai devalokāḥ | dvādaśa māsāḥ pañcartavaḥ | traya ime lokāḥ | asāvāditya ekavim̐ śaḥ | eṣa suvargo lokaḥ | suvargasya lokasya samaṣṭyai | śataṃ paśavo bhavanti 2
śatāyuḥ puruṣaḥ śatendri yaḥ | āyuṣyevendri ye pratitiṣṭhati | sarvaṃ vā aśvamedhyāpnoti | aparimitā bhavanti | aparimitasyāvaruddhyai | brahmavādino vadanti | kasmātsatyāt | dakṣiṇato'nyeṣāṃ paśūnāmavadyanti | uttarato-'śvasyeti | vāruṇo vā aśvaḥ 3
eṣā vai varuṇasya dik | svāyāmevāsya diśyavadyati | yaditareṣāṃ paśūnāmavadyati | śatadevatyaṃ tenāvarundhe | cite'gnāvadhi vaitase kaṭe'śvaṃ cinoti | apsuyonirvā aśvaḥ apsujo vetasaḥ | sva evainaṃ yonau pratiṣṭhāpayati | purastātpratyañcaṃ tūparaṃ cinoti | paścātprācīnaṃ gomṛgam 4
prāṇāpānāvevāsmintsamyañcau dadhāti | aśvaṃ tūparaṃ gomṛgamiti sarvahuta etāñjuhoti | eṣāṃ lokānāmabhijityai | ātmanābhijuhoti | sātmānamevainam̐ satanuṃ karoti | sātmāmuṣmim̐ lloke bhavati | ya evaṃ veda | atho vasoreva dhārāṃ tenāvarundhe | iluvardāya svāhā balivardāya svāhetyāha | saṃvatsaro vā iluvardaḥ | parivatsaro balivardaḥ | saṃvatsarādeva parivatsarādāyuravarundhe | āyurevāsmindadhāti | tasmādaśvamedhayājī jarasā visrasāmuṃ lokameti 5
Sanskrit only: no published translation is held for this verse.
एकविꣳ शोऽग्निर्भवति । एकविꣳ शः स्तोमः । एकविꣳ शतिर्यूपाः । यथा वा अश्वा वर्षभा वा वृषाणः सꣳ स्फुरेरन् । एवमेतत्स्तोमाः सꣳ स्फुरन्ते । यदेकविꣳ शाः । ते यत्समृच्छेरन् । हन्येतास्य यज्ञः । द्वादश एवाग्निः स्यादित्याहुः । द्वादशः स्तोमः १
एकादश युपाः । यद्द्वादशोऽग्निर्भवति । द्वादश मासाः संवत्सरः । संवत्सरेणैवास्मा अन्नमवरुन्धे । यद्दश यूपा भवन्ति । दशाक्षरा विराट् । अन्नं विराट् । विराजैवान्नाद्यमवरुन्धे । य एकादशः । स्तन एवास्यै सः २
दुह एवैनां तेन । तदाहुः । यद्द्वादशोऽग्निः स्याद्द्वादशः स्तोम एकादश यूपाः । यथा स्थुरिणा यायात् । तादृक्तत् । एकविꣳ श एवाग्निः स्यादित्याहुः । एकविꣳ शः स्तोमः । एकविꣳ शतिर्यूपाः । यथा प्रष्टिभिर्याति । तादृगेव तत् ३
यो वा अश्वमेधे तिस्रः ककुभो वेद । ककुद्ध राज्ञां भवति । एकविꣳ शोऽनिर्भवति । एकविꣳ शः स्तोमः । एकविꣳ शतिर्यूपाः । एता वा अश्वमेधे तिस्रः ककुभः । य एवं वेद । ककुद्ध राज्ञां भवति । यो वा अश्वमेधे त्रीणि शीर्षाणि वेद । शिरो ह राज्ञां भवति । एकविꣳ शोऽग्निर्भवति । एकविꣳ शः स्तोमः । एकविꣳ शतिर्यूपाः । एतानि वा अश्वमेधे त्रीणि शीर्षाणि । य एवं वेद । शिरो ह राज्ञां भवति ४
ekavim̐ śo'gnirbhavati | ekavim̐ śaḥ stomaḥ | ekavim̐ śatiryūpāḥ | yathā vā aśvā varṣabhā vā vṛṣāṇaḥ sam̐ sphureran | evametatstomāḥ sam̐ sphurante | yadekavim̐ śāḥ | te yatsamṛccheran | hanyetāsya yajñaḥ | dvādaśa evāgniḥ syādityāhuḥ | dvādaśaḥ stomaḥ 1
ekādaśa yupāḥ | yaddvādaśo'gnirbhavati | dvādaśa māsāḥ saṃvatsaraḥ | saṃvatsareṇaivāsmā annamavarundhe | yaddaśa yūpā bhavanti | daśākṣarā virāṭ | annaṃ virāṭ | virājaivānnādyamavarundhe | ya ekādaśaḥ | stana evāsyai saḥ 2
duha evaināṃ tena | tadāhuḥ | yaddvādaśo'gniḥ syāddvādaśaḥ stoma ekādaśa yūpāḥ | yathā sthuriṇā yāyāt | tādṛktat | ekavim̐ śa evāgniḥ syādityāhuḥ | ekavim̐ śaḥ stomaḥ | ekavim̐ śatiryūpāḥ | yathā praṣṭibhiryāti | tādṛgeva tat 3
yo vā aśvamedhe tisraḥ kakubho veda | kakuddha rājñāṃ bhavati | ekavim̐ śo'nirbhavati | ekavim̐ śaḥ stomaḥ | ekavim̐ śatiryūpāḥ | etā vā aśvamedhe tisraḥ kakubhaḥ | ya evaṃ veda | kakuddha rājñāṃ bhavati | yo vā aśvamedhe trīṇi śīrṣāṇi veda | śiro ha rājñāṃ bhavati | ekavim̐ śo'gnirbhavati | ekavim̐ śaḥ stomaḥ | ekavim̐ śatiryūpāḥ | etāni vā aśvamedhe trīṇi śīrṣāṇi | ya evaṃ veda | śiro ha rājñāṃ bhavati 4
Sanskrit only: no published translation is held for this verse.
देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यदश्वमेधेऽश्वेन मेध्येनोदञ्चो बहिष्पवमानꣳ सर्पन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । न वै मनुष्यः सुवर्गं लोकमञ्जसा वेद । अश्वो वै सुवर्गं लोकमञ्जसा वेद । यदुद्गातोद्गायेत् । यथाक्षेत्रज्ञोऽन्येन पथा प्रतिपादयेत् । तादृक्तत् १
उद्गातारमपरुद्ध्य । अश्वमुद्गीथाय वृणीते । यथा क्षेत्रज्ञोऽञ्जसा नयति । एवमेवैनमश्वः सुवर्गं लोकमञ्जसा नयति । पुच्छमन्वारभन्ते । सुवर्गस्य लोकस्य समष्ट्यै । हिं करोति । सामैवाकः । हिं करोति । उद्गीथ एवास्य सः २
वडबा उपरुन्धन्ति । मिथुनत्वाय प्रजात्यै । अथो यथोपगातार उपगायन्ति । तादृगेव तत् । उदगासीदश्वो मेध्य इत्याह । प्राजापत्यो वा अश्वः । प्रजापतिरुद्गीथः । उद्गीथमेवावरुन्धे । अथो ऋक्सामयोरेव प्रतितिष्ठति । हिरण्येनोपाकरोति । ज्योतिर्वै हिरण्यम् । ज्योतिरेव मुखतो दधाति । यजमाने च प्रजासु च । अथो हिरण्यज्योतिरेव यजमानः सुवर्गं लोकमेति ३
devā vā aśvamedhe pavamāne | suvargaṃ lokaṃ na prājānan | tamaśvaḥ prājānāt | yadaśvamedhe'śvena medhyenodañco bahiṣpavamānam̐ sarpanti | suvargasya lokasya prajñātyai | na vai manuṣyaḥ suvargaṃ lokamañjasā veda | aśvo vai suvargaṃ lokamañjasā veda | yadudgātodgāyet | yathākṣetrajño'nyena pathā pratipādayet | tādṛktat 1
udgātāramaparuddhya | aśvamudgīthāya vṛṇīte | yathā kṣetrajño'ñjasā nayati | evamevainamaśvaḥ suvargaṃ lokamañjasā nayati | pucchamanvārabhante | suvargasya lokasya samaṣṭyai | hiṃ karoti | sāmaivākaḥ | hiṃ karoti | udgītha evāsya saḥ 2
vaḍabā uparundhanti | mithunatvāya prajātyai | atho yathopagātāra upagāyanti | tādṛgeva tat | udagāsīdaśvo medhya ityāha | prājāpatyo vā aśvaḥ | prajāpatirudgīthaḥ | udgīthamevāvarundhe | atho ṛksāmayoreva pratitiṣṭhati | hiraṇyenopākaroti | jyotirvai hiraṇyam | jyotireva mukhato dadhāti | yajamāne ca prajāsu ca | atho hiraṇyajyotireva yajamānaḥ suvargaṃ lokameti 3
Sanskrit only: no published translation is held for this verse.
पुरुषो वै यज्ञः । यज्ञः प्रजापतिः । यदश्वे पशून्नियुञ्जन्ति । यज्ञादेव तद्यज्ञं प्रयुङ्क्ते । अश्वं तूपरं गोमृगम् । तानग्निष्ठ आलभते । सेनामुखमेव तत्सꣳ श्यति । तस्माद्रा जमुखं भीष्मं भावुकम् । आग्नेयं कृष्णग्रीवं पुरस्ताल्ललाटे । पूर्वाग्निमेव तं कुरुते १
तस्मात्पूर्वाग्निं पुरस्तात्स्थापयन्ति । पौष्णमन्वञ्चम् । अन्नं वै पूषा । तस्मात्पूर्वाग्नावाहार्यमाहरन्ति । ऐन्द्रा पौष्णमुपरिष्टात् । ऐन्द्रो वै राजन्योऽन्नं पूषा । अन्नाद्येनैवैनमुभयतः परिगृह्णाति । तस्माद्रा जन्योऽन्नादो भावुकः । आग्नेयौ कृष्णग्रीवौ बाहुवोः । बाहुवोरेव वीर्यं धत्ते २
तस्माद्रा जन्यो बाहुबली भावुकः । त्वाष्ट्रौ लोमशसक्थौ सक्थ्योः । सक्थ्योरेव वीर्यं धत्ते । तस्माद्रा जन्य ऊरुबली भावुकः । शितिपृष्ठौ बार्हस्पत्यौ पृष्ठे । ब्रह्मवर्चसमेवोपरिष्टाद्धत्ते । अथो कवचे एवैते अभितः पर्यूहते । तस्माद्रा जन्यः संनद्धो वीर्यं करोति । धात्रे पृषोदरमधस्तात् । प्रतिष्ठामेवैतां कुरुते । अथो इयं वै धाता । अस्यामेव प्रतितिष्ठति । सौर्यं बलक्षं पुच्छे । उत्सेधमेव तं कुरुते । तस्मादुत्सेधं भये प्रजा अभिसꣳ श्रयन्ति ३
puruṣo vai yajñaḥ | yajñaḥ prajāpatiḥ | yadaśve paśūnniyuñjanti | yajñādeva tadyajñaṃ prayuṅkte | aśvaṃ tūparaṃ gomṛgam | tānagniṣṭha ālabhate | senāmukhameva tatsam̐ śyati | tasmādrā jamukhaṃ bhīṣmaṃ bhāvukam | āgneyaṃ kṛṣṇagrīvaṃ purastāllalāṭe | pūrvāgnimeva taṃ kurute 1
tasmātpūrvāgniṃ purastātsthāpayanti | pauṣṇamanvañcam | annaṃ vai pūṣā | tasmātpūrvāgnāvāhāryamāharanti | aindrā pauṣṇamupariṣṭāt | aindro vai rājanyo'nnaṃ pūṣā | annādyenaivainamubhayataḥ parigṛhṇāti | tasmādrā janyo'nnādo bhāvukaḥ | āgneyau kṛṣṇagrīvau bāhuvoḥ | bāhuvoreva vīryaṃ dhatte 2
tasmādrā janyo bāhubalī bhāvukaḥ | tvāṣṭrau lomaśasakthau sakthyoḥ | sakthyoreva vīryaṃ dhatte | tasmādrā janya ūrubalī bhāvukaḥ | śitipṛṣṭhau bārhaspatyau pṛṣṭhe | brahmavarcasamevopariṣṭāddhatte | atho kavace evaite abhitaḥ paryūhate | tasmādrā janyaḥ saṃnaddho vīryaṃ karoti | dhātre pṛṣodaramadhastāt | pratiṣṭhāmevaitāṃ kurute | atho iyaṃ vai dhātā | asyāmeva pratitiṣṭhati | sauryaṃ balakṣaṃ pucche | utsedhameva taṃ kurute | tasmādutsedhaṃ bhaye prajā abhisam̐ śrayanti 3
Sanskrit only: no published translation is held for this verse.
प्रजापतिरश्वमेधमसृजत । सोऽस्मात्सृष्टोऽपाक्रामत् । तमष्टादशिभिरनुप्रायुङ्क्त । तमाप्नोत् । तमाप्त्वाष्टादशिभिरवारुन्ध । यदष्टादशिन आलभ्यन्ते । यज्ञमेव तैराप्त्वा यजमानोऽवरुन्धे । संवत्सरस्य वा एषा प्रतिमा । यदष्टादशिनः । द्वादश मासाः पञ्चृतवः १
संवत्सरोऽष्टादशः । यदष्टादशिन आलभ्यन्ते । संवत्सरेमेव तैराप्त्वा यजमानोऽवरुन्धे । अग्निष्ठेऽन्यान्पशूनुपाकरोति । इतरेषु यूपेष्वष्टादशि-नोऽजामित्वाय । नवनवालभ्यन्ते सवीर्यत्वाय । यदारण्यैः सꣳ स्थापयेत् । व्यवस्येतां पितापुत्रौ । व्यध्वानः क्रामेयुः । विदूरं ग्रामयोर्ग्रामान्तौ स्याताम् २
ऋक्षीकाः पुरुषव्याघ्राः परिमोषिणि आव्याधिनीस्तस्करा अरण्येष्वाजायेरन् । तदाहुः । अपशवो वा एते । यदारण्याः । यदारण्यैः सꣳ स्थापयेत् । क्षिप्रे यजमानमरण्यं मृतꣳ हरेयुः । अरण्यायतना ह्यारण्याः पशव इति । यत्पशून्नालभेत । अनवरुद्धा अस्य पशवः स्युः । यत्पर्यग्निकृतानुत्सृजेत् ३
यज्ञवैशसं कुर्यात् । यत्पशूनालभते । तेनैव पशूनवरुन्धे । यत्पर्यग्नि-कृतानुत्सृजत्ययज्ञवैशसाय । अवरुद्धा अस्य पशवो भवन्ति । न यज्ञवैशसं भवति । न यजमानमरण्यं मृतꣳ हरन्ति । ग्राम्यैः सꣳ स्थापयति । एते वै पशवः क्षेमो नाम । सं पितापुत्राववस्यतः । समध्वानः क्रामन्ति । समन्तिकं ग्रामयोर्ग्रामातौ भवतः । नर्क्षीकाः पुरुषव्याघ्राः परिमोषिण आव्याधिनीस्तस्करा अरण्येष्वाजायन्ते ४
prajāpatiraśvamedhamasṛjata | so'smātsṛṣṭo'pākrāmat | tamaṣṭādaśibhiranuprāyuṅkta | tamāpnot | tamāptvāṣṭādaśibhiravārundha | yadaṣṭādaśina ālabhyante | yajñameva tairāptvā yajamāno'varundhe | saṃvatsarasya vā eṣā pratimā | yadaṣṭādaśinaḥ | dvādaśa māsāḥ pañcṛtavaḥ 1
saṃvatsaro'ṣṭādaśaḥ | yadaṣṭādaśina ālabhyante | saṃvatsaremeva tairāptvā yajamāno'varundhe | agniṣṭhe'nyānpaśūnupākaroti | itareṣu yūpeṣvaṣṭādaśi-no'jāmitvāya | navanavālabhyante savīryatvāya | yadāraṇyaiḥ sam̐ sthāpayet | vyavasyetāṃ pitāputrau | vyadhvānaḥ krāmeyuḥ | vidūraṃ grāmayorgrāmāntau syātām 2
ṛkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇi āvyādhinīstaskarā araṇyeṣvājāyeran | tadāhuḥ | apaśavo vā ete | yadāraṇyāḥ | yadāraṇyaiḥ sam̐ sthāpayet | kṣipre yajamānamaraṇyaṃ mṛtam̐ hareyuḥ | araṇyāyatanā hyāraṇyāḥ paśava iti | yatpaśūnnālabheta | anavaruddhā asya paśavaḥ syuḥ | yatparyagnikṛtānutsṛjet 3
yajñavaiśasaṃ kuryāt | yatpaśūnālabhate | tenaiva paśūnavarundhe | yatparyagni-kṛtānutsṛjatyayajñavaiśasāya | avaruddhā asya paśavo bhavanti | na yajñavaiśasaṃ bhavati | na yajamānamaraṇyaṃ mṛtam̐ haranti | grāmyaiḥ sam̐ sthāpayati | ete vai paśavaḥ kṣemo nāma | saṃ pitāputrāvavasyataḥ | samadhvānaḥ krāmanti | samantikaṃ grāmayorgrāmātau bhavataḥ | narkṣīkāḥ puruṣavyāghrāḥ parimoṣiṇa āvyādhinīstaskarā araṇyeṣvājāyante 4
Sanskrit only: no published translation is held for this verse.
प्रजापतिरकामयतोभौ लोकाववरुन्धीयेति । स एतानुभयान्पशूनपश्यत् । ग्राम्याꣳ श्चारण्याꣳ श्च । तानालभत । तैर्वै स उभौ लोकाववारुन्ध । ग्राम्यैरेव पशुभिरिमं लोकमवारुन्ध । आरण्यैरमुम् । यद्ग्राम्यान्पशूनालभते । इममेव तैर्लोकमवरुन्धे । यदारण्यान् १
अमुं तैः । अनवरुद्धो वा एतस्य संवत्सर इत्याहुः । य इतेतश्चातुर्मास्यानि संवत्सरं प्रयुङ्क्त इति । एतावान्वै संवत्सरः । यच्चातुर्मास्यानि । यदेते चातुर्मास्याः पशव आलभ्यन्ते । प्रत्यक्षमेव तैः संवत्सरं यजमानोऽवरुन्धे । वि वा एष प्रजया पशुभिरृध्यते । यः संवत्सरं प्रयुङ्क्ते । संवत्सरः सुवर्गो लोकः २
सुवर्गं तु लोकं नापराध्नोति । प्रजा वै पशव एकादशिनी ।यदेत ऐकादशिनाः पशव आलभ्यन्ते । साक्षादेव प्रजां पशून्यजमानोऽवरुन्धे । प्रजापति-र्विराजमसृजत । सा सृष्टाश्वमेधं प्रविशत् । तां दशिभिरनु प्रायुङ्क्त । तामाप्नोत् । तामाप्त्वा दशिभिरवारुन्ध । यद्दशिन आलभ्यन्ते ३
विराजमेव तैराप्त्वा यजमानोऽवरुन्धे । एकादश दशत आलभ्यन्ते । एकादशाक्षरा त्रिष्टुप् । त्रैष्टुभाः पशवः । पशूनेवावरुन्धे । वैश्वदेवो वा अश्वः । नानादेवत्याः पशवो भवन्ति । अश्वस्य सर्वत्वाय । नानारूपा भवन्ति । तस्मान्नानारूपाः पशवः । बहुरूपा भवन्ति । तस्माद्बहुरूपाः पशवः समृद्ध्यै ४
prajāpatirakāmayatobhau lokāvavarundhīyeti | sa etānubhayānpaśūnapaśyat | grāmyām̐ ścāraṇyām̐ śca | tānālabhata | tairvai sa ubhau lokāvavārundha | grāmyaireva paśubhirimaṃ lokamavārundha | āraṇyairamum | yadgrāmyānpaśūnālabhate | imameva tairlokamavarundhe | yadāraṇyān 1
amuṃ taiḥ | anavaruddho vā etasya saṃvatsara ityāhuḥ | ya itetaścāturmāsyāni saṃvatsaraṃ prayuṅkta iti | etāvānvai saṃvatsaraḥ | yaccāturmāsyāni | yadete cāturmāsyāḥ paśava ālabhyante | pratyakṣameva taiḥ saṃvatsaraṃ yajamāno'varundhe | vi vā eṣa prajayā paśubhirṛdhyate | yaḥ saṃvatsaraṃ prayuṅkte | saṃvatsaraḥ suvargo lokaḥ 2
suvargaṃ tu lokaṃ nāparādhnoti | prajā vai paśava ekādaśinī |yadeta aikādaśināḥ paśava ālabhyante | sākṣādeva prajāṃ paśūnyajamāno'varundhe | prajāpati-rvirājamasṛjata | sā sṛṣṭāśvamedhaṃ praviśat | tāṃ daśibhiranu prāyuṅkta | tāmāpnot | tāmāptvā daśibhiravārundha | yaddaśina ālabhyante 3
virājameva tairāptvā yajamāno'varundhe | ekādaśa daśata ālabhyante | ekādaśākṣarā triṣṭup | traiṣṭubhāḥ paśavaḥ | paśūnevāvarundhe | vaiśvadevo vā aśvaḥ | nānādevatyāḥ paśavo bhavanti | aśvasya sarvatvāya | nānārūpā bhavanti | tasmānnānārūpāḥ paśavaḥ | bahurūpā bhavanti | tasmādbahurūpāḥ paśavaḥ samṛddhyai 4
Sanskrit only: no published translation is held for this verse.
अस्मै वै लोकाय ग्राम्याः पशव आलभ्यन्ते । अमुष्मा आरण्याः । यद्ग्राम्यान्पशूनालभते । इममेव तैर्लोकमवरुन्धे । यदारण्यान् । अमुं तैः । उभयान्पशूनालभते । ग्राम्याꣳ श्चारण्याꣳ श्च । उभयोर्लोकयोरवरुद्ध्यै । उभयान्पशूनालभते १
ग्राम्याꣳ श्चारण्याꣳ श्च । उभयस्यान्नाद्यस्यावरुद्ध्यै । उभयान्पशूनालभते । ग्राम्याꣳ श्चारण्याꣳ श्च । उभयेषां पशूनामवरुद्ध्यै । त्रयस्त्रयो भवन्ति । त्रय इमे लोकाः । एषां लोकानामाप्त्यै । ब्रह्मवादिनो वदन्ति । कस्मात्सत्यात् २
अस्मिꣳल्लोके बहवः कामा इति । यत्समानीभ्यो देवताभ्योऽन्येऽन्ये पशव आलभ्यन्ते । अस्मिन्नेव तल्लोके कामान्दधाति । तस्मादस्मिꣳ ल्लोके बहवः कामाः । त्रयाणांत्रयाणाꣳ सह वपा जुहोति । त्र्यावृतो वै देवाः । त्र्यावृत इमे लोकाः । एषां लोकानामाप्त्यै । एषां लोकानां क्ळ्प्त्यै । पर्यग्निकृ-तानारण्यानुत्सृजन्त्यहिꣳ सायै ३
asmai vai lokāya grāmyāḥ paśava ālabhyante | amuṣmā āraṇyāḥ | yadgrāmyānpaśūnālabhate | imameva tairlokamavarundhe | yadāraṇyān | amuṃ taiḥ | ubhayānpaśūnālabhate | grāmyām̐ ścāraṇyām̐ śca | ubhayorlokayoravaruddhyai | ubhayānpaśūnālabhate 1
grāmyām̐ ścāraṇyām̐ śca | ubhayasyānnādyasyāvaruddhyai | ubhayānpaśūnālabhate | grāmyām̐ ścāraṇyām̐ śca | ubhayeṣāṃ paśūnāmavaruddhyai | trayastrayo bhavanti | traya ime lokāḥ | eṣāṃ lokānāmāptyai | brahmavādino vadanti | kasmātsatyāt 2
asmim̐lloke bahavaḥ kāmā iti | yatsamānībhyo devatābhyo'nye'nye paśava ālabhyante | asminneva talloke kāmāndadhāti | tasmādasmim̐ lloke bahavaḥ kāmāḥ | trayāṇāṃtrayāṇām̐ saha vapā juhoti | tryāvṛto vai devāḥ | tryāvṛta ime lokāḥ | eṣāṃ lokānāmāptyai | eṣāṃ lokānāṃ kl̤ptyai | paryagnikṛ-tānāraṇyānutsṛjantyahim̐ sāyai 3
Sanskrit only: no published translation is held for this verse.
युञ्जन्ति ब्रध्नमित्याह । असौ वा आदित्यो ब्रध्नः । आदित्यमेवास्मै युनक्ति । अरुषमित्याह । अग्निर्वा अरुषः । अग्निमेवास्मै युनक्ति । चरन्तमित्याह । वायुर्वै चरन् । वायुमेवास्मै युनक्ति । परितस्थुष इत्याह १
इमे वै लोकाः परितस्थुषः । इमनेवास्मै लोकान्युनक्ति । रोचन्ते रोचना दिवीत्याह । नक्षत्राणि वै रोचना दिवि । नक्षत्राण्येवास्मै रोचयति । युञ्जन्त्यस्य काम्येत्याह । कामानेवास्मै युनक्ति । हरी विपक्षसेत्याह । इमे वै हरी विपक्षसा । इमे एवास्मै युनक्ति २
शोणा धृष्णू नृवाहसेत्याह । अहोरात्रे वै नृवाहसा । अहोरात्रे एवास्मै युनक्ति । एता एवास्मै देवता युनक्ति । सुवर्गस्य लोकस्य समष्ट्यै । केतुं कृण्वन्नकेतव इति ध्वजं प्रतिमुञ्चति । यश एवैनꣳ राज्ञां गमयति । जीमूतस्येव भवति प्रतीकमित्याह । यथायजुरेवैतत् । ये ते पन्थानः सवितः पूर्व्यास इत्यध्वर्युर्यजमानं वाचयत्यभिजित्यै ३
परा वा एतस्य यज्ञ एति । यस्य पशुरुपाकृतोऽन्यत्र वेद्या एति । एतꣳ स्तोतरेतेन पथा पुनरश्वमावर्तयासि न इत्याह । वायुर्वै स्तोता । वायुमेवास्य परस्ताद्दधात्यावृत्त्यै । यथा वै हविषो गृहीतस्य स्कन्दति । एवं वा एतदश्वस्य स्कन्दति । यदस्योपाकृतस्य लोमानि शीयन्ते । यद्वालेषु काचानावयन्ति । लोमान्येवास्य तत्संभरन्ति ४
भूर्भुवः सुवरिति प्राजापत्याभिरावयन्ति । प्राजापत्यो वा अश्वः । स्वयैवैनं देवतया समर्धयन्ति । भूरिति महिषी ।भुव इति वावाता । सुवरिति परिवृक्ती ।एषां लोकानामभिजित्यै । हिरण्ययाः काचा भवन्ति । ज्योतिर्वै हिरण्यम् । राष्ट्रमश्वमेधः ५
ज्योतिश्चैवास्मै राष्ट्रं च समीची दधाति । सहस्रं भवन्ति । सहस्रसंमितः सुवर्गो लोकः । सुवर्गस्य लोकस्याभिजित्यै । अप वा एतस्मात्तेज इन्द्रियं पशवः श्रीः क्रामन्ति । योऽश्वमेधेन यजते । वसवस्त्वाञ्जन्तु गायत्रेण छन्दसेति महिष्यभ्यनक्ति । तेजो वा आज्यम् । तेजो गायत्री ।तेजसैवास्मै तेजोऽवरुन्धे ६
रुद्रास्त्वाञ्जन्तु त्रैष्टुभेन छन्दसेति वावाता । तेजो वा आज्यम् । इन्द्रियं त्रिष्टुप् । तेजसैवास्मा इन्द्रियमवरुन्धे । आदित्यास्त्वाञ्जन्तु जागतेन छन्दसेति परिवृक्ती । तेजो वा आज्यम् । पशवो जगती । तेजसैवास्मै पशूनवरुन्धे । पत्नयोऽभ्यञ्जन्ति । श्रिया वा एतद्रूपम् ७
यत्पत्नयः । श्रियमेवास्मिन्तद्दधति । नास्मात्तेज इन्द्रियं पशवः श्रीरपकामन्ति । लाजी३ञ्शाची३न्यशो ममा३ꣳ! इत्यतिरिक्तमन्नमश्वायोपाहरन्ति । प्रजामेवान्नादीं कुर्वते । एतद्देवा अन्नमत्तैतदन्नमद्धि प्रजापत इत्याह । प्रजा-यामेवान्नाद्यं दधते । यदि नावजिघ्रेत् । अग्निः पशुरासीदित्यवघ्रापयेत् । अव हैव जिघ्रति । आक्रान्वाजी क्रमैरत्यक्रमीद्वाजी द्यौस्ते पृष्ठं पृथिवी सधस्थमित्यश्वमनुमन्त्रयते । एषां लोकानामभिजित्यै । समिद्धो अञ्जन्कृदरं मतीनामित्यश्वस्याप्रियो भवन्ति सरूपत्वाय ८
yuñjanti bradhnamityāha | asau vā ādityo bradhnaḥ | ādityamevāsmai yunakti | aruṣamityāha | agnirvā aruṣaḥ | agnimevāsmai yunakti | carantamityāha | vāyurvai caran | vāyumevāsmai yunakti | paritasthuṣa ityāha 1
ime vai lokāḥ paritasthuṣaḥ | imanevāsmai lokānyunakti | rocante rocanā divītyāha | nakṣatrāṇi vai rocanā divi | nakṣatrāṇyevāsmai rocayati | yuñjantyasya kāmyetyāha | kāmānevāsmai yunakti | harī vipakṣasetyāha | ime vai harī vipakṣasā | ime evāsmai yunakti 2
śoṇā dhṛṣṇū nṛvāhasetyāha | ahorātre vai nṛvāhasā | ahorātre evāsmai yunakti | etā evāsmai devatā yunakti | suvargasya lokasya samaṣṭyai | ketuṃ kṛṇvannaketava iti dhvajaṃ pratimuñcati | yaśa evainam̐ rājñāṃ gamayati | jīmūtasyeva bhavati pratīkamityāha | yathāyajurevaitat | ye te panthānaḥ savitaḥ pūrvyāsa ityadhvaryuryajamānaṃ vācayatyabhijityai 3
parā vā etasya yajña eti | yasya paśurupākṛto'nyatra vedyā eti | etam̐ stotaretena pathā punaraśvamāvartayāsi na ityāha | vāyurvai stotā | vāyumevāsya parastāddadhātyāvṛttyai | yathā vai haviṣo gṛhītasya skandati | evaṃ vā etadaśvasya skandati | yadasyopākṛtasya lomāni śīyante | yadvāleṣu kācānāvayanti | lomānyevāsya tatsaṃbharanti 4
bhūrbhuvaḥ suvariti prājāpatyābhirāvayanti | prājāpatyo vā aśvaḥ | svayaivainaṃ devatayā samardhayanti | bhūriti mahiṣī |bhuva iti vāvātā | suvariti parivṛktī |eṣāṃ lokānāmabhijityai | hiraṇyayāḥ kācā bhavanti | jyotirvai hiraṇyam | rāṣṭramaśvamedhaḥ 5
jyotiścaivāsmai rāṣṭraṃ ca samīcī dadhāti | sahasraṃ bhavanti | sahasrasaṃmitaḥ suvargo lokaḥ | suvargasya lokasyābhijityai | apa vā etasmātteja indriyaṃ paśavaḥ śrīḥ krāmanti | yo'śvamedhena yajate | vasavastvāñjantu gāyatreṇa chandaseti mahiṣyabhyanakti | tejo vā ājyam | tejo gāyatrī |tejasaivāsmai tejo'varundhe 6
rudrāstvāñjantu traiṣṭubhena chandaseti vāvātā | tejo vā ājyam | indriyaṃ triṣṭup | tejasaivāsmā indriyamavarundhe | ādityāstvāñjantu jāgatena chandaseti parivṛktī | tejo vā ājyam | paśavo jagatī | tejasaivāsmai paśūnavarundhe | patnayo'bhyañjanti | śriyā vā etadrūpam 7
yatpatnayaḥ | śriyamevāsmintaddadhati | nāsmātteja indriyaṃ paśavaḥ śrīrapakāmanti | lājī3ñśācī3nyaśo mamā3m̐! ityatiriktamannamaśvāyopāharanti | prajāmevānnādīṃ kurvate | etaddevā annamattaitadannamaddhi prajāpata ityāha | prajā-yāmevānnādyaṃ dadhate | yadi nāvajighret | agniḥ paśurāsīdityavaghrāpayet | ava haiva jighrati | ākrānvājī kramairatyakramīdvājī dyauste pṛṣṭhaṃ pṛthivī sadhasthamityaśvamanumantrayate | eṣāṃ lokānāmabhijityai | samiddho añjankṛdaraṃ matīnāmityaśvasyāpriyo bhavanti sarūpatvāya 8
Sanskrit only: no published translation is held for this verse.
तेजसा वा एष ब्रह्मवर्चसेन व्यृध्यते । योऽश्वमेधेन यजते । होता च ब्रह्मा च ब्रह्मोद्यं वदतः । तेजसा चैवैनं ब्रह्मवर्चसेन च समर्धयतः । दक्षिणतो ब्रह्मा भवति । दक्षिणतआयतनो वै ब्रह्मा । बार्हस्पत्यो वै ब्रह्मा । ब्रह्मवर्चसमेवास्य दक्षिणतो दधाति । तस्माद्दक्षिणोऽर्धो ब्रह्मवर्चसितरः । उत्तरतो होता भवति १
उत्तरतआयतनो वै होता । आग्नेयो वै होता । तेजो वा अग्निः । तेज एवास्योत्तरतो दधाति । तस्मादुत्तरोऽर्धस्तेजस्वितरः । यूपमभितो वदतः । यजमानदेवत्यो वै यूपः । यजमानमेव तेजसा च ब्रह्मवर्चसेन च समर्धयतः । किꣳ स्विदासीत्पूर्वचित्तिरित्याह । द्यौर्वै वृष्टिः पूर्वचित्तिः २
दिवमेव वृष्टिमवरुन्धे । किꣳ स्विदासीद्बृहद्वय इत्याह । अश्वो वै बृहद्वयः । अश्वमेवावरुन्धे । किꣳ स्विदासीत्पिशङ्गिलेत्याह । रात्रिर्वै पिशङ्गिला । रात्रिमेवावरुन्धे । किꣳ स्विदासीत्पिलिप्पिलेत्याह । श्रीर्वै पिलिप्पिला । अन्नाद्यमेवावरुन्धे ३
कः स्विदेकाकी चरतीत्याह । असौ वा आदित्य एकाकी चरति । तेज एवावरुन्धे । क उ स्विज्जायते पुनरित्याह । चन्द्र मा वै जायते पुनः । आयुरेवावरुन्धे । किꣳ स्विद्धिमस्य भेषजमित्याह । अग्निर्वै हिमस्य भेषजम् । ब्रह्मवर्चसमेवावरुन्धे । किꣳ स्विदावपनं महदित्याह ४
अयं वै लोक आवपनं महत् । अस्मिन्नेव लोके प्रतितिष्ठति । पृच्छामि त्वा परमन्तं पृथिव्या इत्याह । वेदिर्वै परोऽन्तः पृथिव्याः । वेदिमेवावरुन्धे । पृच्छामि त्वा भुवनस्य नाभिमित्याह । यज्ञो वै भुवनस्य नाभिः । यज्ञमेवावरुन्धे । पृच्छामि त्वा वृष्णो अश्वस्य रेत इत्याह । सोमो वै वृष्णो अश्वस्य रेतः । सोमपीथमेवावरुन्धे । पृच्छामि वाचः परमं व्योमेत्याह । ब्रह्म वै वाचः परमं व्योम । ब्रहम्वर्चसमेवावरुन्धे ५
tejasā vā eṣa brahmavarcasena vyṛdhyate | yo'śvamedhena yajate | hotā ca brahmā ca brahmodyaṃ vadataḥ | tejasā caivainaṃ brahmavarcasena ca samardhayataḥ | dakṣiṇato brahmā bhavati | dakṣiṇataāyatano vai brahmā | bārhaspatyo vai brahmā | brahmavarcasamevāsya dakṣiṇato dadhāti | tasmāddakṣiṇo'rdho brahmavarcasitaraḥ | uttarato hotā bhavati 1
uttarataāyatano vai hotā | āgneyo vai hotā | tejo vā agniḥ | teja evāsyottarato dadhāti | tasmāduttaro'rdhastejasvitaraḥ | yūpamabhito vadataḥ | yajamānadevatyo vai yūpaḥ | yajamānameva tejasā ca brahmavarcasena ca samardhayataḥ | kim̐ svidāsītpūrvacittirityāha | dyaurvai vṛṣṭiḥ pūrvacittiḥ 2
divameva vṛṣṭimavarundhe | kim̐ svidāsīdbṛhadvaya ityāha | aśvo vai bṛhadvayaḥ | aśvamevāvarundhe | kim̐ svidāsītpiśaṅgiletyāha | rātrirvai piśaṅgilā | rātrimevāvarundhe | kim̐ svidāsītpilippiletyāha | śrīrvai pilippilā | annādyamevāvarundhe 3
kaḥ svidekākī caratītyāha | asau vā āditya ekākī carati | teja evāvarundhe | ka u svijjāyate punarityāha | candra mā vai jāyate punaḥ | āyurevāvarundhe | kim̐ sviddhimasya bheṣajamityāha | agnirvai himasya bheṣajam | brahmavarcasamevāvarundhe | kim̐ svidāvapanaṃ mahadityāha 4
ayaṃ vai loka āvapanaṃ mahat | asminneva loke pratitiṣṭhati | pṛcchāmi tvā paramantaṃ pṛthivyā ityāha | vedirvai paro'ntaḥ pṛthivyāḥ | vedimevāvarundhe | pṛcchāmi tvā bhuvanasya nābhimityāha | yajño vai bhuvanasya nābhiḥ | yajñamevāvarundhe | pṛcchāmi tvā vṛṣṇo aśvasya reta ityāha | somo vai vṛṣṇo aśvasya retaḥ | somapīthamevāvarundhe | pṛcchāmi vācaḥ paramaṃ vyometyāha | brahma vai vācaḥ paramaṃ vyoma | brahamvarcasamevāvarundhe 5
Sanskrit only: no published translation is held for this verse.
अप वा एतस्मात्प्राणाः क्रामन्ति । योऽश्वमेधेन यजते । प्राणाय स्वाहा व्यानाय स्वाहेति संज्ञप्यमान आहुतीर्जुहोति । प्राणानेवास्मिन्दधाति । नास्मात्प्राणा अपक्रामन्ति । अवन्तीः स्थावन्तीस्त्वावन्तु । प्रियं त्वा प्रियाणाम् । वर्षिष्ठमाप्यानाम् । निधीनां त्वा निधिपतिꣳ हवामहे वसो ममेत्याह । अपैवास्मै तद्ध्नुवते १
अथो धुवन्त्येवैनम् । अथो न्येवास्मै ह्नुवते । त्रिः परियन्ति त्रय इमे लोकाः । एभ्य एवैनं लोकेभ्यो धुवते । त्रिः पुनः परियन्ति । षट्संपद्यन्ते । षड्वा ऋतवः । ऋतुभिरेवैनं धुवते । अप वा एतेभ्यः प्राणाः क्रामन्ति २
ये यज्ञे धुवनं तन्वते । नवकृत्वः परियन्ति । नव वै पूरुषे प्राणाः । प्राणानेवात्मन्दधते । नैभ्यः प्राणा अपक्रामन्ति । अम्बे अम्बाल्यम्बिक इति पत्नीमुदानयति । अह्वतैवैनाम् । सुभगे काम्पीलवासिनीत्याह । तप एवैनामुपनयति । सुवर्गे लोके सं प्रोर्ण्वाथामित्याह ३
सुवर्गमेवैनां लोकं गमयति । आहमजानि गर्भधमा त्वमजासि गर्भधमित्याह । प्रजा वै पशवो गर्भः । प्रजामेव पशूनात्मन्धत्ते । देवा वा अश्वमेधे पवमाने । सुवर्गं लोकं न प्राजानन् । तमश्वः प्राजानात् । यत्सूचीभिरसिपथान्कल्पयन्ति । सुवर्गस्य लोकस्य प्रज्ञात्यै । गायत्री त्रिष्टुब्जगतीत्याह ४
यथायजुरेवैतत् । त्रय्यः सूच्यो भवन्ति । अयस्मय्यो रजता हरिण्यः । अस्य वै लोकस्य रूपमयस्मय्यः । अन्तरिक्षस्य रजताः । दिवो हरिण्यः । दिशो वा अयस्मय्यः । अवान्तरदिशा रजताः । ऊर्ध्वा हरिण्यः । दिश एवास्मै कल्पयति । कस्त्वा छ्यति कस्त्वा विशास्तीत्याहाहिꣳसायै ५
apa vā etasmātprāṇāḥ krāmanti | yo'śvamedhena yajate | prāṇāya svāhā vyānāya svāheti saṃjñapyamāna āhutīrjuhoti | prāṇānevāsmindadhāti | nāsmātprāṇā apakrāmanti | avantīḥ sthāvantīstvāvantu | priyaṃ tvā priyāṇām | varṣiṣṭhamāpyānām | nidhīnāṃ tvā nidhipatim̐ havāmahe vaso mametyāha | apaivāsmai taddhnuvate 1
atho dhuvantyevainam | atho nyevāsmai hnuvate | triḥ pariyanti traya ime lokāḥ | ebhya evainaṃ lokebhyo dhuvate | triḥ punaḥ pariyanti | ṣaṭsaṃpadyante | ṣaḍvā ṛtavaḥ | ṛtubhirevainaṃ dhuvate | apa vā etebhyaḥ prāṇāḥ krāmanti 2
ye yajñe dhuvanaṃ tanvate | navakṛtvaḥ pariyanti | nava vai pūruṣe prāṇāḥ | prāṇānevātmandadhate | naibhyaḥ prāṇā apakrāmanti | ambe ambālyambika iti patnīmudānayati | ahvataivainām | subhage kāmpīlavāsinītyāha | tapa evaināmupanayati | suvarge loke saṃ prorṇvāthāmityāha 3
suvargamevaināṃ lokaṃ gamayati | āhamajāni garbhadhamā tvamajāsi garbhadhamityāha | prajā vai paśavo garbhaḥ | prajāmeva paśūnātmandhatte | devā vā aśvamedhe pavamāne | suvargaṃ lokaṃ na prājānan | tamaśvaḥ prājānāt | yatsūcībhirasipathānkalpayanti | suvargasya lokasya prajñātyai | gāyatrī triṣṭubjagatītyāha 4
yathāyajurevaitat | trayyaḥ sūcyo bhavanti | ayasmayyo rajatā hariṇyaḥ | asya vai lokasya rūpamayasmayyaḥ | antarikṣasya rajatāḥ | divo hariṇyaḥ | diśo vā ayasmayyaḥ | avāntaradiśā rajatāḥ | ūrdhvā hariṇyaḥ | diśa evāsmai kalpayati | kastvā chyati kastvā viśāstītyāhāhim̐sāyai 5
Sanskrit only: no published translation is held for this verse.
अप वा एतस्माच्छ्री राष्ट्रं क्रामति । योऽश्वमेधेन यजते । ऊर्ध्वामेनामुच्छ्रयतादित्याह । श्रीर्वै राष्ट्रमश्वमेधः । श्रियमेवास्मै राष्ट्रमूर्ध्वमुच्छ्रयति । वेणुभारं गिराविवेत्याह । राष्ट्रं वै भारः । राष्ट्रमेवास्मै पर्यूहति । अथास्या मध्यमेधतामित्याह । श्रीर्वै राष्ट्रस्य मध्यम् १
श्रियमेवावरुन्धे । शीते वाते पुनन्निवेत्याह । क्षेमो वै राष्ट्रस्य शीतो वातः । क्षेममेवावरुन्धे । यद्धरिणी यवमत्तीत्याह । विड्वै हरिणी ।राष्ट्रं यवः । विशं चैवास्मै राष्ट्रं च समीची दधाति । न पुष्टं पशु मन्यत इत्याह । तस्माद्राजा पशून्न पुष्यति २
शूद्रा यदर्यजारा न पोषाय धनायतीत्याह । तस्माद्वैशीपूत्रं नाभिषिञ्चन्ते । इयं यका शकुन्तिकेत्याह । विड्वै शकुन्तिका । राष्ट्रमश्वमेधः । विशं चैवास्मै । राष्ट्रं च समीची दधाति । आहलमिति सर्पतीत्याह । तस्माद्राष्ट्राय विशः सर्पन्ति । आहतं गभे पस इत्याह । विड्वै गभः ३
राष्ट्रं पसः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विशं घातुकम् । माता च ते पिता च त इत्याह । इयं वै माता । असौ पिता । आभ्यामेवैनं परिददाति । अग्रं वृक्षस्य रोहत इत्याह । श्रीर्वै वृक्षस्याग्रम् । श्रियमेवावरुन्धे ४
प्रसुलामीति ते पिता गभे मुष्टिमतꣳसयदित्याह । विड्वै गभः । राष्ट्रं मुष्टिः । राष्ट्रमेव विश्याहन्ति । तस्माद्राष्ट्रं विश घातुकम् । अप वा एतेभ्यः प्राणाः क्रामन्ति । ये यज्ञेऽपूतं वदन्ति । दधिक्राव्णो अकारिषमिति सुरभिमतीमृचं वदन्ति । प्राणा वै सुरभयः । प्राणानेवात्मन्दधते । नैभ्यः प्राणा अपक्रामन्ति । आपो हि ष्ठा मयोभुव इत्यद्भिर्मार्जयन्ते । आपो वै सर्वा देवताः । देवताभिरेवात्मानं पवयन्ते ५
apa vā etasmācchrī rāṣṭraṃ krāmati | yo'śvamedhena yajate | ūrdhvāmenāmucchrayatādityāha | śrīrvai rāṣṭramaśvamedhaḥ | śriyamevāsmai rāṣṭramūrdhvamucchrayati | veṇubhāraṃ girāvivetyāha | rāṣṭraṃ vai bhāraḥ | rāṣṭramevāsmai paryūhati | athāsyā madhyamedhatāmityāha | śrīrvai rāṣṭrasya madhyam 1
śriyamevāvarundhe | śīte vāte punannivetyāha | kṣemo vai rāṣṭrasya śīto vātaḥ | kṣemamevāvarundhe | yaddhariṇī yavamattītyāha | viḍvai hariṇī |rāṣṭraṃ yavaḥ | viśaṃ caivāsmai rāṣṭraṃ ca samīcī dadhāti | na puṣṭaṃ paśu manyata ityāha | tasmādrājā paśūnna puṣyati 2
śūdrā yadaryajārā na poṣāya dhanāyatītyāha | tasmādvaiśīpūtraṃ nābhiṣiñcante | iyaṃ yakā śakuntiketyāha | viḍvai śakuntikā | rāṣṭramaśvamedhaḥ | viśaṃ caivāsmai | rāṣṭraṃ ca samīcī dadhāti | āhalamiti sarpatītyāha | tasmādrāṣṭrāya viśaḥ sarpanti | āhataṃ gabhe pasa ityāha | viḍvai gabhaḥ 3
rāṣṭraṃ pasaḥ | rāṣṭrameva viśyāhanti | tasmādrāṣṭraṃ viśaṃ ghātukam | mātā ca te pitā ca ta ityāha | iyaṃ vai mātā | asau pitā | ābhyāmevainaṃ paridadāti | agraṃ vṛkṣasya rohata ityāha | śrīrvai vṛkṣasyāgram | śriyamevāvarundhe 4
prasulāmīti te pitā gabhe muṣṭimatam̐sayadityāha | viḍvai gabhaḥ | rāṣṭraṃ muṣṭiḥ | rāṣṭrameva viśyāhanti | tasmādrāṣṭraṃ viśa ghātukam | apa vā etebhyaḥ prāṇāḥ krāmanti | ye yajñe'pūtaṃ vadanti | dadhikrāvṇo akāriṣamiti surabhimatīmṛcaṃ vadanti | prāṇā vai surabhayaḥ | prāṇānevātmandadhate | naibhyaḥ prāṇā apakrāmanti | āpo hi ṣṭhā mayobhuva ityadbhirmārjayante | āpo vai sarvā devatāḥ | devatābhirevātmānaṃ pavayante 5
Sanskrit only: no published translation is held for this verse.
प्रजापतिः प्रजाः सृष्ट्वा प्रेणानुप्राविशत् । ताभ्यः पुनः संभवितुं नाशक्नोत् । सोऽब्रवीत् । ऋध्नवदित्सः । यो मेऽतः पुनः संभरदिति । तं देवा अश्वमेधेनैव समभरन् । ततो वै त आर्ध्नुवन् । योऽश्वमेधेन यजते । प्रजापतिमेव सम्भरत्यृध्नोति । पुरुषमालभते १
वैराजो वै पुरुषः । विराजमेवालभते । अथो अन्नं वै विराट् । अन्नमेवावरुन्धे । अश्वमालभते । प्राजापत्यो वा अश्वः । प्रजापतिमेवालभते । अथो श्रीर्वा एकशफम् । श्रियमेवावरुन्धे । गामालभते २
यज्ञो वै गौः । यज्ञमेवालभते । अथो अन्नं वै गौः । अन्नमेवावरुन्धे । अजावी आलभते भूम्ने । अथो पुष्टिर्वै भूमा । पुष्टिमेवावरुन्धे । पर्यग्निकृतं पुरुषं चारण्याꣳ श्चोत्सृजन्त्यहिꣳ सायै । उभौ वा एतौ पशू आलभ्येते । यश्चावमो यश्च परमः । तेऽस्योभये यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता भवन्ति । नैनं दंक्ष्णवः पशवो यज्ञे बद्धाः । अभीष्टा अभिप्रीताः । अभिजिता अभिहुता हिꣳ सन्ति । योऽश्वमेधेन यजते । य उ चैनमेवं वेद ३
prajāpatiḥ prajāḥ sṛṣṭvā preṇānuprāviśat | tābhyaḥ punaḥ saṃbhavituṃ nāśaknot | so'bravīt | ṛdhnavaditsaḥ | yo me'taḥ punaḥ saṃbharaditi | taṃ devā aśvamedhenaiva samabharan | tato vai ta ārdhnuvan | yo'śvamedhena yajate | prajāpatimeva sambharatyṛdhnoti | puruṣamālabhate 1
vairājo vai puruṣaḥ | virājamevālabhate | atho annaṃ vai virāṭ | annamevāvarundhe | aśvamālabhate | prājāpatyo vā aśvaḥ | prajāpatimevālabhate | atho śrīrvā ekaśapham | śriyamevāvarundhe | gāmālabhate 2
yajño vai gauḥ | yajñamevālabhate | atho annaṃ vai gauḥ | annamevāvarundhe | ajāvī ālabhate bhūmne | atho puṣṭirvai bhūmā | puṣṭimevāvarundhe | paryagnikṛtaṃ puruṣaṃ cāraṇyām̐ ścotsṛjantyahim̐ sāyai | ubhau vā etau paśū ālabhyete | yaścāvamo yaśca paramaḥ | te'syobhaye yajñe baddhāḥ | abhīṣṭā abhiprītāḥ | abhijitā abhihutā bhavanti | nainaṃ daṃkṣṇavaḥ paśavo yajñe baddhāḥ | abhīṣṭā abhiprītāḥ | abhijitā abhihutā him̐ santi | yo'śvamedhena yajate | ya u cainamevaṃ veda 3
Sanskrit only: no published translation is held for this verse.
प्रथमेन वा एष स्तोमेन राध्वा । चतुष्टोमेन कृतेनायानामुत्तरेऽहन् । एकविꣳ शे प्रतिष्ठायां प्रतितिष्ठति । एकविꣳ शात्प्रतिष्ठाया ऋतूनन्वारोहति । ऋतवो वै पृष्ठानि । ऋतवः संवत्सरः । ऋतुष्वेव संवत्सरे प्रतिष्ठाय । देवता अभ्यारोहति । शक्वरयः पृष्ठं भवन्त्यन्यदन्यच्छन्दः । अन्येऽन्ये वा एते पशव आलभ्यन्ते १
उतेव ग्राम्याः । उतेवारण्याः । अहरेव रूपेण समर्धयति । अथो अह्न एवैष बलिर्ह्रियते । तदाहुः । अपशवो वा एते । यदजावयश्चारण्याश्च । एते वै सर्वे पशवः । यद्गव्या इति । गव्यान्पशूनुत्तमेऽहन्नालभते २
तेनैवोभयान्पशूनवरुन्धे । प्राजापत्या भवन्ति । अनभिजितस्याभिजित्यै । सौरीर्नव श्वेता वशा अनूबन्धा भवन्ति । अन्तत एव ब्रह्मवर्चसमवरुन्धे । सोमाय स्वराज्ञेऽनोवाहावनड्वाहाविति द्वन्द्विनः पशूनालभते । अहोरात्राणामभिजित्यै । पशुभिर्वा एष व्यृध्यते । योऽश्वमेधेन यजते । छगलं कल्माषं किकिदीविं विदीगयमिति त्वाष्ट्रान्पशूनालभते । पशुभिरेवात्मानꣳ समर्धयति । ऋतुभिर्वा एष व्यृध्यते । योऽश्वमेधेन यजते । पिशङ्गास्त्रयो वासन्ता इत्यृतुपशूनालभते । ऋतुभिरेवात्मानꣳ समर्धयति । आ वा एष पशुभ्यो वृश्च्यते । योऽश्वमेधेन यजते । पर्यग्निकृता उत्सृजन्त्यनाव्रस्काय ३
prathamena vā eṣa stomena rādhvā | catuṣṭomena kṛtenāyānāmuttare'han | ekavim̐ śe pratiṣṭhāyāṃ pratitiṣṭhati | ekavim̐ śātpratiṣṭhāyā ṛtūnanvārohati | ṛtavo vai pṛṣṭhāni | ṛtavaḥ saṃvatsaraḥ | ṛtuṣveva saṃvatsare pratiṣṭhāya | devatā abhyārohati | śakvarayaḥ pṛṣṭhaṃ bhavantyanyadanyacchandaḥ | anye'nye vā ete paśava ālabhyante 1
uteva grāmyāḥ | utevāraṇyāḥ | ahareva rūpeṇa samardhayati | atho ahna evaiṣa balirhriyate | tadāhuḥ | apaśavo vā ete | yadajāvayaścāraṇyāśca | ete vai sarve paśavaḥ | yadgavyā iti | gavyānpaśūnuttame'hannālabhate 2
tenaivobhayānpaśūnavarundhe | prājāpatyā bhavanti | anabhijitasyābhijityai | saurīrnava śvetā vaśā anūbandhā bhavanti | antata eva brahmavarcasamavarundhe | somāya svarājñe'novāhāvanaḍvāhāviti dvandvinaḥ paśūnālabhate | ahorātrāṇāmabhijityai | paśubhirvā eṣa vyṛdhyate | yo'śvamedhena yajate | chagalaṃ kalmāṣaṃ kikidīviṃ vidīgayamiti tvāṣṭrānpaśūnālabhate | paśubhirevātmānam̐ samardhayati | ṛtubhirvā eṣa vyṛdhyate | yo'śvamedhena yajate | piśaṅgāstrayo vāsantā ityṛtupaśūnālabhate | ṛtubhirevātmānam̐ samardhayati | ā vā eṣa paśubhyo vṛścyate | yo'śvamedhena yajate | paryagnikṛtā utsṛjantyanāvraskāya 3
Sanskrit only: no published translation is held for this verse.
प्रजापतिरकामयत महानन्नादः स्यामिति । स एतावश्वमेधे महिमानावपश्यत् । तावगृह्णीत । ततो वै स महानन्नादोऽभवत् । यः कामयेत महानन्नादः स्यामिति । स एतवश्वमेधे महिमानौ गृह्णीत । महानेवान्नादो भवति । यजमानदेवत्या वै वपा । राजा महिमा । यद्वपां महिम्नोभयतः परियजति । यजमानमेव राज्येनोभयतः परिगृह्णाति । पुरस्तात्स्वाहाकारा वा अन्ये देवाः । उपरिष्टात्स्वाहाकारा अन्ये । ते वा एतेऽश्व एव मेध्य उभयेऽवरुध्यन्ते । यद्वपां महिम्नोभयतः परियजति । तानेवोभयान्प्रीणाति १
prajāpatirakāmayata mahānannādaḥ syāmiti | sa etāvaśvamedhe mahimānāvapaśyat | tāvagṛhṇīta | tato vai sa mahānannādo'bhavat | yaḥ kāmayeta mahānannādaḥ syāmiti | sa etavaśvamedhe mahimānau gṛhṇīta | mahānevānnādo bhavati | yajamānadevatyā vai vapā | rājā mahimā | yadvapāṃ mahimnobhayataḥ pariyajati | yajamānameva rājyenobhayataḥ parigṛhṇāti | purastātsvāhākārā vā anye devāḥ | upariṣṭātsvāhākārā anye | te vā ete'śva eva medhya ubhaye'varudhyante | yadvapāṃ mahimnobhayataḥ pariyajati | tānevobhayānprīṇāti 1
Sanskrit only: no published translation is held for this verse.