निर्देशाद् एव समर्थविभक्तिः । दूत-शब्दात् षष्ठीसमर्थाद् भागे कर्मणि च अभिधेये यत् प्रत्ययो भवति । भागः अंशः । कर्म क्रिया । यदग्ने यासि दूत्यम् । दूतभागः दूतकर्क्म वा ॥ रक्षो-यातूनां हननी
nirdeśād eva samarthavibhaktiḥ / dūta-śabdāt ṣaṣṭhīsamarthād bhāge karmaṇi ca abhidheye yat pratyayo bhavati / bhāgaḥ aṃśaḥ / karma kriyā / yadagne yāsi dūtyam / dūtabhāgaḥ dūtakarkma vā // rakṣo-yātūnāṃ hananī
Sanskrit only: no published translation is held for this verse.
निर्देशाद् एव समर्थविभक्तिः । रक्षः-शब्दाद् यातु-शब्दाच् च षष्ठीसमर्थाद् हननी इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति । हन्यते ऽन्या इति हननी । या वां मित्रावरुणौ रक्षस्या तनू यातव्या । रक्षसां हननी । यातूनां हननी । बहुवचनं स्तुतिवैशिष्ट्यज्ञापनार्थम् । बहुनां रक्षसां हननेन तनूः स्तूयते ॥ रेवती-जगती-हविष्याभ्यः प्रशस्ये
nirdeśād eva samarthavibhaktiḥ / rakṣaḥ-śabdād yātu-śabdāc ca ṣaṣṭhīsamarthād hananī ity etasminn arthe yat pratyayo bhavati / hanyate 'nyā iti hananī / yā vāṃ mitrāvaruṇau rakṣasyā tanū yātavyā / rakṣasāṃ hananī / yātūnāṃ hananī / bahuvacanaṃ stutivaiśiṣṭyajñāpanārtham / bahunāṃ rakṣasāṃ hananena tanūḥ stūyate // revatī-jagatī-haviṣyābhyaḥ praśasye
Sanskrit only: no published translation is held for this verse.
रेवत्य्-आदिभ्यः षष्ठीसमर्थेभ्यः प्रशस्ये वाच्ये यत् प्रत्ययो भवति । प्रशंसनं प्रशस्यम्, भावे क्यप् प्रत्ययो भवति । यद्वो रेवती रेवत्यम् । यद्वो जगती जगत्यम् । यद्वो हविष्या हविष्यम् । हविषे हिता हविष्याः, तासां प्रशंस्नं हविष्यम् । यस्य+इति च (*६,४।१४८) इति लोपे कृते हलो यमां यमि लोपः (*८,४।६४) इति लोपः ॥ असुरस्य स्वम्
revaty-ādibhyaḥ ṣaṣṭhīsamarthebhyaḥ praśasye vācye yat pratyayo bhavati / praśaṃsanaṃ praśasyam, bhāve kyap pratyayo bhavati / yadvo revatī revatyam / yadvo jagatī jagatyam / yadvo haviṣyā haviṣyam / haviṣe hitā haviṣyāḥ, tāsāṃ praśaṃsnaṃ haviṣyam / yasya+iti ca (*6,4.148) iti lope kṛte halo yamāṃ yami lopaḥ (*8,4.64) iti lopaḥ // asurasya svam
Sanskrit only: no published translation is held for this verse.
मायायाम् अण्
māyāyām aṇ
Sanskrit only: no published translation is held for this verse.
असुर-शब्दात् षष्ठीसमर्थात् मायायां स्वविशेषे अण् प्रत्ययो भवति । पूर्वस्य यतो ऽपवादः । आसुरी माया स्वधया कृतासि ॥ तद्वान् आसाम् उपधानो मन्त्र इति इष्टकासु लुक् च मतोः
asura-śabdāt ṣaṣṭhīsamarthāt māyāyāṃ svaviśeṣe aṇ pratyayo bhavati / pūrvasya yato 'pavādaḥ / āsurī māyā svadhayā kṛtāsi // tadvān āsām upadhāno mantra iti iṣṭakāsu luk ca matoḥ
Sanskrit only: no published translation is held for this verse.
तद्वान् इति निर्देशाद् एव समर्थविभक्तिः । मतुब्-अन्तात् प्रातिपदिकात् प्रथमासमर्थाद् आसाम् इति षष्ठ्यर्थे यत् प्रत्ययो भवति, यत् प्रथमासमर्थम् उपधानो मन्त्रश् चेत् स भवति, यत् तद् आसाम् इति निर्दिष्टम् इष्टकाश् चेत् ता भवन्ति । लुक् च मतोः इति प्रकृतिनिर्हृआसः । इतिकरणस् ततश् चेद् विवक्षा । तद्वान् इत्य् अवयवेन समुदायो व्यपदिश्यते । वर्चः-शब्दो यस्मिन् मन्त्रे ऽस्ति स वर्चस्वान् । उपधीयते येन स उपधानः । चयनवचनः इत्य् अर्थः । वर्चस्वानुपधानमन्त्रः आसाम् इष्टकानाम् इति विगृह्य यति विहिते मतोर् लुकि कृते, वर्चस्या उपदधाति, तेजस्या उपदधाति । पयस्याः । रेतस्याः । तद्वान् इति किम् ? मन्त्रसमुदायाद् एव मा भूत् । उपधानः इति किम् ? वर्चस्वान् उपस्थानमन्त्रः आसाम् इत्य् अत्र मा भूत् । मन्त्रः इति किम् ? अङ्गुलिमानुपधानो हस्तः आसाम् इत्य् अत्र मा भूत् । इष्टकासु इति किम् ? अङ्गुलिमानुपधानो हस्त आसाम् इत्य् अत्र मा भूत् । इति-करणो नियमार्थः । अनेकपदसम्भवे ऽपि केनचिद् एव पदेन तद्वान् मन्त्रो गृह्यते, न सर्वेण ॥ अश्विमानण्
tadvān iti nirdeśād eva samarthavibhaktiḥ / matub-antāt prātipadikāt prathamāsamarthād āsām iti ṣaṣṭhyarthe yat pratyayo bhavati, yat prathamāsamartham upadhāno mantraś cet sa bhavati, yat tad āsām iti nirdiṣṭam iṣṭakāś cet tā bhavanti / luk ca matoḥ iti prakṛtinirhṛāsaḥ / itikaraṇas tataś ced vivakṣā / tadvān ity avayavena samudāyo vyapadiśyate / varcaḥ-śabdo yasmin mantre 'sti sa varcasvān / upadhīyate yena sa upadhānaḥ / cayanavacanaḥ ity arthaḥ / varcasvānupadhānamantraḥ āsām iṣṭakānām iti vigṛhya yati vihite mator luki kṛte, varcasyā upadadhāti, tejasyā upadadhāti / payasyāḥ / retasyāḥ / tadvān iti kim ? mantrasamudāyād eva mā bhūt / upadhānaḥ iti kim ? varcasvān upasthānamantraḥ āsām ity atra mā bhūt / mantraḥ iti kim ? aṅgulimānupadhāno hastaḥ āsām ity atra mā bhūt / iṣṭakāsu iti kim ? aṅgulimānupadhāno hasta āsām ity atra mā bhūt / iti-karaṇo niyamārthaḥ / anekapadasambhave 'pi kenacid eva padena tadvān mantro gṛhyate, na sarveṇa // aśvimānaṇ
Sanskrit only: no published translation is held for this verse.
अश्वि-शब्दो यस्मिन् मन्त्रे ऽस्ति सो ऽश्विमान् । अश्विमच्छब्दाद् अण् प्रत्ययो भवति । पूर्वस्य यतो ऽपवादः । अश्विमानुपधानो मन्त्रः आसामि ष्टकानाम् इति विगृह्याण् विधीयते, तत्र मतुपो लुकि कृते इनण्यनपत्ये (*६,४।१६४) इति प्रकृतिभावः । आश्विनीरुपदधाति ॥ वयस्यासु मूर्ध्नो मतुप्
aśvi-śabdo yasmin mantre 'sti so 'śvimān / aśvimacchabdād aṇ pratyayo bhavati / pūrvasya yato 'pavādaḥ / aśvimānupadhāno mantraḥ āsāmi ṣṭakānām iti vigṛhyāṇ vidhīyate, tatra matupo luki kṛte inaṇyanapatye (*6,4.164) iti prakṛtibhāvaḥ / āśvinīrupadadhāti // vayasyāsu mūrdhno matup
Sanskrit only: no published translation is held for this verse.
मत्व्-अर्हे मास-तन्वोः
matv-arhe māsa-tanvoḥ
Sanskrit only: no published translation is held for this verse.
यस्मिन्न् अर्थे मतुब् विहितः, तस्मिन्श् छन्दसि विषये यत् प्रत्ययो भवति मासतन्वोः प्रत्ययार्थ-विशेषणयोः । प्रथमासमर्थाद् अस्त्य् उपाधिकात् षष्ठ्यार्थे सप्तम्यर्थे च यत्प्रत्ययो भवति । मत्वर्थीयानाम् अपवादः । नभांसि विद्यन्ते अस्मिन् मासे अभस्यो मासः । सहस्यः । तपस्यः । मधव्यः । नभःशदो ऽभ्रेषु वर्तते । तन्वा खल्व् अपि - ओजो ऽस्यां विद्यते ओजस्या तनूः । रक्षस्या तनूः । मासतन्वोः इति किम् ? मधुमता पात्रेण चरति मासतन्वोर् अनन्तरार्थे वा । मध्व् अस्मिन्न् अस्ति मध्व् अस्मिन्न् अनन्तरम् इति वा मध्व्यो मासः । लुगकारेकाररेफाश् च वक्तव्याः । लुक् तावत् - तपश्च तपस्यश्च । नभश्च नभस्यश्च । सहश्च सहस्यश्च । नपुंसकलिङ्गं छन्दसत्वात् । अकारः - इषो मासः । ऊर्जो मासः । इकारः - शुचिर्मासः । रेफः - शुक्रो मासः ॥ मधोर् ञ च
yasminn arthe matub vihitaḥ, tasminś chandasi viṣaye yat pratyayo bhavati māsatanvoḥ pratyayārtha-viśeṣaṇayoḥ / prathamāsamarthād asty upādhikāt ṣaṣṭhyārthe saptamyarthe ca yatpratyayo bhavati / matvarthīyānām apavādaḥ / nabhāṃsi vidyante asmin māse abhasyo māsaḥ / sahasyaḥ / tapasyaḥ / madhavyaḥ / nabhaḥśado 'bhreṣu vartate / tanvā khalv api - ojo 'syāṃ vidyate ojasyā tanūḥ / rakṣasyā tanūḥ / māsatanvoḥ iti kim ? madhumatā pātreṇa carati māsatanvor anantarārthe vā / madhv asminn asti madhv asminn anantaram iti vā madhvyo māsaḥ / lugakārekārarephāś ca vaktavyāḥ / luk tāvat - tapaśca tapasyaśca / nabhaśca nabhasyaśca / sahaśca sahasyaśca / napuṃsakaliṅgaṃ chandasatvāt / akāraḥ - iṣo māsaḥ / ūrjo māsaḥ / ikāraḥ - śucirmāsaḥ / rephaḥ - śukro māsaḥ // madhor ña ca
Sanskrit only: no published translation is held for this verse.
मधु-शब्दान् मत्वर्थे ञः प्रत्ययो भवति, चकाराद् यत् च । उअप्सङ्ख्यानाल् लुक् च । माधवः, मधव्यः, मधुः । तन्वां खल्व् अपि माधवा, मधव्या, मधुः तनूः ॥ ओजसो ऽहनि यत्खौ
madhu-śabdān matvarthe ñaḥ pratyayo bhavati, cakārād yat ca / uapsaṅkhyānāl luk ca / mādhavaḥ, madhavyaḥ, madhuḥ / tanvāṃ khalv api mādhavā, madhavyā, madhuḥ tanūḥ // ojaso 'hani yatkhau
Sanskrit only: no published translation is held for this verse.
मत्वर्थे इत्य् एव । ओजः-शदान् मत्वयर्थे यत्खौ प्रत्ययौ भवतो ऽहन्यभिधेये । ओजस्यमहः । ओजसीनमहः ॥ वेशो-यश-आदेर् भगाद् यल्
matvarthe ity eva / ojaḥ-śadān matvayarthe yatkhau pratyayau bhavato 'hanyabhidheye / ojasyamahaḥ / ojasīnamahaḥ // veśo-yaśa-āder bhagād yal
Sanskrit only: no published translation is held for this verse.
ख च
kha ca
Sanskrit only: no published translation is held for this verse.
वेशोयशाअदेर् भगान्तात् प्रातिपदिकात् मत्वर्थे खः प्रत्ययो भवति । योगविभागो यथासङ्ख्यनिरासार्थः उत्तरार्थश् च । चकारात् यत् । वेशोभगीनः, वेशोभग्यः । यशोभगीनः, यशोभग्यः ॥ पूर्वैः कृतम् इन-यौ च
veśoyaśāader bhagāntāt prātipadikāt matvarthe khaḥ pratyayo bhavati / yogavibhāgo yathāsaṅkhyanirāsārthaḥ uttarārthaś ca / cakārāt yat / veśobhagīnaḥ, veśobhagyaḥ / yaśobhagīnaḥ, yaśobhagyaḥ // pūrvaiḥ kṛtam ina-yau ca
Sanskrit only: no published translation is held for this verse.
मत्वर्थे इति निवृत्तम् । निर्देशाद् एव समर्थविभक्तिः । पूर्वशब्दात् तृतीयासमर्थात् कृतम् इत्य् एतस्मिन्न् अर्थे इन य इत्य् एतौ प्रत्ययौ भवतः । चकारात् ख च । गम्भीरेभिः प्रथिभिः पूर्विणेभिः । पूर्व्यैः । पूर्वीणैः । पूर्वैः इति बहुवचनान् तेन पूर्वपुरुषाः उच्यन्ते । तत्कृताः पन्थानः प्रशस्ता इति पथां प्रशंसा ॥ अद्भिः संस्कृतम्
matvarthe iti nivṛttam / nirdeśād eva samarthavibhaktiḥ / pūrvaśabdāt tṛtīyāsamarthāt kṛtam ity etasminn arthe ina ya ity etau pratyayau bhavataḥ / cakārāt kha ca / gambhīrebhiḥ prathibhiḥ pūrviṇebhiḥ / pūrvyaiḥ / pūrvīṇaiḥ / pūrvaiḥ iti bahuvacanān tena pūrvapuruṣāḥ ucyante / tatkṛtāḥ panthānaḥ praśastā iti pathāṃ praśaṃsā // adbhiḥ saṃskṛtam
Sanskrit only: no published translation is held for this verse.
निर्देशाद् एव समर्थविभक्तिः । अप्-शब्दात् तृतीयासमर्थात् संस्कृतम् इत्य् एतस्मिन्न् अर्थे यत् प्रत्ययो भवति । यस्य+इदम् अप्यं हविः । अद्भिः संस्कृतम् इति ॥ सहस्रेण संमितौ घः
nirdeśād eva samarthavibhaktiḥ / ap-śabdāt tṛtīyāsamarthāt saṃskṛtam ity etasminn arthe yat pratyayo bhavati / yasya+idam apyaṃ haviḥ / adbhiḥ saṃskṛtam iti // sahasreṇa saṃmitau ghaḥ
Sanskrit only: no published translation is held for this verse.
निर्देशाद् एव समर्थविभक्तिअः । सहस्र-शब्दात् तृतीयासमर्थात् सम्मित इत्य् एतस्मिन्न् अर्थे घः प्रत्ययो भवति । सम्मितः तुल्यः, सदृशः । अयम ग्निः सहस्रियः । सहस्रतुल्यः इत्य् अर्थः । केचित् तु समितौ इति पठन्ति । तत्र अपि समित्या सम्मितः एव लक्षयितव्यः । तत्र छन्दसि प्रयोगदर्शनात् ॥ मतौ च
nirdeśād eva samarthavibhaktiaḥ / sahasra-śabdāt tṛtīyāsamarthāt sammita ity etasminn arthe ghaḥ pratyayo bhavati / sammitaḥ tulyaḥ, sadṛśaḥ / ayama gniḥ sahasriyaḥ / sahasratulyaḥ ity arthaḥ / kecit tu samitau iti paṭhanti / tatra api samityā sammitaḥ eva lakṣayitavyaḥ / tatra chandasi prayogadarśanāt // matau ca
Sanskrit only: no published translation is held for this verse.
मत्वर्थे च सहस्र-शब्दात् घः प्रत्ययो भवति । सहस्रम् अस्य विद्यते सहस्रियः । तपः-सहस्राभ्यां विनि-इनी (*५,२।१०२), अण् च (*५,२।१०३) इत्य् अस्य अपवादः ॥ सोमम् अर्हति यः
matvarthe ca sahasra-śabdāt ghaḥ pratyayo bhavati / sahasram asya vidyate sahasriyaḥ / tapaḥ-sahasrābhyāṃ vini-inī (*5,2.102), aṇ ca (*5,2.103) ity asya apavādaḥ // somam arhati yaḥ
Sanskrit only: no published translation is held for this verse.
मये च
maye ca
Sanskrit only: no published translation is held for this verse.
सोम-ग्रहणं यश् च अनुवर्तते । मय इति मयडर्थो लक्ष्यते । सोम-शब्दान् मयडर्थे यः प्रत्ययो भवति । आगतविकारावयवप्रकृता मयडर्थाः । हेतुम् अनुष्येभ्यो ऽन्यत्रस्यां रूप्यः (*४,३।८१) मयट् च (*४,३।८२), मयड्-वा+एतयोर् भाषायाम् अभक्ष्य आच्छादनयोः (*४,३।१४३), तत्प्रकृतवचने मयट् (*५,४।२१) इति । तत्र यथायोगं समर्थविभक्तिः । पिबाति सोम्यं मधु । सोमम् अयम् इत्य् अर्थः ॥ मधोः
soma-grahaṇaṃ yaś ca anuvartate / maya iti mayaḍartho lakṣyate / soma-śabdān mayaḍarthe yaḥ pratyayo bhavati / āgatavikārāvayavaprakṛtā mayaḍarthāḥ / hetum anuṣyebhyo 'nyatrasyāṃ rūpyaḥ (*4,3.81) mayaṭ ca (*4,3.82), mayaḍ-vā+etayor bhāṣāyām abhakṣya ācchādanayoḥ (*4,3.143), tatprakṛtavacane mayaṭ (*5,4.21) iti / tatra yathāyogaṃ samarthavibhaktiḥ / pibāti somyaṃ madhu / somam ayam ity arthaḥ // madhoḥ
Sanskrit only: no published translation is held for this verse.
यशब्दो निवृत्तः । मधु-शब्दान् मयडर्थे यत्प्रत्ययो भवति । मधव्यान् स्तोकान् । मधुमयान् इत्य् अर्थः ॥ वसोः समूहे च
yaśabdo nivṛttaḥ / madhu-śabdān mayaḍarthe yatpratyayo bhavati / madhavyān stokān / madhumayān ity arthaḥ // vasoḥ samūhe ca
Sanskrit only: no published translation is held for this verse.
वसु-शब्दात् समूहे वाच्ये यत् प्रत्ययो भवति, चकारान्मयडर्थे च । यथायोगं समर्थविभक्तिः । वसव्यः समूहः । मयडर्थो वा । अक्षरसमूहे छन्दसः स्वार्थ उपसङ्ख्यानम् । ओ श्रावय इति चतुरक्षरम् । अस्तु श्रौषट् इति चतुरक्षरम् । यज इति द्व्यक्षरम् । ये यजामहे इति पञ्चाक्षरम् । द्व्यक्षरो वषट्कारः । एश वै सप्तदशाक्षरश् छन्दस्यः प्रजापतिरंर्यज्ञो मन्त्रे विहितः । सप्तदशाक्षराण्य् एव छन्दस्यः इत्य् अर्थः । छन्दःशब्दाद् अक्षरसमूहे वर्तमानात् स्वार्थे यत् प्रत्ययः । वसुशब्दाद् अपि यद् वक्तव्यः । हस्तो पृणस्व बहुभिर् वसव्यैः । वसुभिः इत्य् अर्थः । आग्निराशे वसव्यस्य । वसोः इत्य् अर्थः ॥ नक्षत्राद् घः
vasu-śabdāt samūhe vācye yat pratyayo bhavati, cakārānmayaḍarthe ca / yathāyogaṃ samarthavibhaktiḥ / vasavyaḥ samūhaḥ / mayaḍartho vā / akṣarasamūhe chandasaḥ svārtha upasaṅkhyānam / o śrāvaya iti caturakṣaram / astu śrauṣaṭ iti caturakṣaram / yaja iti dvyakṣaram / ye yajāmahe iti pañcākṣaram / dvyakṣaro vaṣaṭkāraḥ / eśa vai saptadaśākṣaraś chandasyaḥ prajāpatiraṃryajño mantre vihitaḥ / saptadaśākṣarāṇy eva chandasyaḥ ity arthaḥ / chandaḥśabdād akṣarasamūhe vartamānāt svārthe yat pratyayaḥ / vasuśabdād api yad vaktavyaḥ / hasto pṛṇasva bahubhir vasavyaiḥ / vasubhiḥ ity arthaḥ / āgnirāśe vasavyasya / vasoḥ ity arthaḥ // nakṣatrād ghaḥ
Sanskrit only: no published translation is held for this verse.
नक्षत्र-शब्दाद् घः प्रत्ययो भवति स्वार्थे । समूहे इति न अनुवर्तते । नक्षत्रियेभ्यः स्वाहा ॥ सर्वदेवात् तातिल्
nakṣatra-śabdād ghaḥ pratyayo bhavati svārthe / samūhe iti na anuvartate / nakṣatriyebhyaḥ svāhā // sarvadevāt tātil
Sanskrit only: no published translation is held for this verse.
शिव-शम्-अरिष्टस्य करे
śiva-śam-ariṣṭasya kare
Sanskrit only: no published translation is held for this verse.
करोति इति करः प्रत्ययार्थः । तत्सामर्थ्यलभ्या षष्ठी समर्थविभक्तिः । शिवादिभ्यः शब्देभ्यः षष्ठीसमर्थेभ्यः करे इत्य् एतस्मिन्न् अर्थे तातिल् प्रत्ययो भवति । शिवं करोति इति शिवतातिः । शंतातिः । अरिष्टतातिः ॥ भावे च
karoti iti karaḥ pratyayārthaḥ / tatsāmarthyalabhyā ṣaṣṭhī samarthavibhaktiḥ / śivādibhyaḥ śabdebhyaḥ ṣaṣṭhīsamarthebhyaḥ kare ity etasminn arthe tātil pratyayo bhavati / śivaṃ karoti iti śivatātiḥ / śaṃtātiḥ / ariṣṭatātiḥ // bhāve ca
Sanskrit only: no published translation is held for this verse.