Library·Jayaditya & Vamana: Kasikavrtti·5·5.2

Jayaditya & Vamana: Kasikavrtti 5.2

आहतप्रशंसे प्रकृत्युपाधी । आहतप्रशंसाविशिष्टार्थे वर्तमानाद् रूपशब्दात् यप् प्रत्ययो भवति मत्वर्थे । आहतं रूपमस्य रूप्यो दीनारः । रूप्यः केदारः । रूप्यं कार्षापणम् । प्रशस्तं रूपम् अस्य अस्ति रूप्यः पुरुसः । निघातिकाताडनादिना दीनारादिषु रूपं यद् उत्पद्यते तद् आहतम्न् इत्य् उच्यते । आहतप्रशंसयोः इति किम् ? रूपवान् । यप्प्रकरणे ऽन्येभ्यो ऽपि दृश्यत इति वक्तव्यम् । हिम्याः पर्वताः । गुण्याः ब्राह्मणाः ॥ अस्-माया-मेधा-स्रजो विनिः

āhatapraśaṃse prakṛtyupādhī / āhatapraśaṃsāviśiṣṭārthe vartamānād rūpaśabdāt yap pratyayo bhavati matvarthe / āhataṃ rūpamasya rūpyo dīnāraḥ / rūpyaḥ kedāraḥ / rūpyaṃ kārṣāpaṇam / praśastaṃ rūpam asya asti rūpyaḥ purusaḥ / nighātikātāḍanādinā dīnārādiṣu rūpaṃ yad utpadyate tad āhatamn ity ucyate / āhatapraśaṃsayoḥ iti kim ? rūpavān / yapprakaraṇe 'nyebhyo 'pi dṛśyata iti vaktavyam / himyāḥ parvatāḥ / guṇyāḥ brāhmaṇāḥ // as-māyā-medhā-srajo viniḥ

Sanskrit only: no published translation is held for this verse.

असन्तात् प्रातिपदिकात्, माया मेधा स्रज् इत्य् एतेभ्यश् च विनिः प्रत्ययो भवति मत्वर्थे । मतुप् सर्वत्र समुच्चीयते एव । असन्तात् तावत् - यशस्वी, पयस्वी । मायावी । मेधावी । स्रग्वी । मायाशब्दाद् व्रीह्यादिषु पाठात् इनिठनौ अपि भवतः । मायी, मायिकः ॥ बहुलं छन्दसि

asantāt prātipadikāt, māyā medhā sraj ity etebhyaś ca viniḥ pratyayo bhavati matvarthe / matup sarvatra samuccīyate eva / asantāt tāvat - yaśasvī, payasvī / māyāvī / medhāvī / sragvī / māyāśabdād vrīhyādiṣu pāṭhāt iniṭhanau api bhavataḥ / māyī, māyikaḥ // bahulaṃ chandasi

Sanskrit only: no published translation is held for this verse.

हृदयाच्चालुर् अन्यतरस्याम् । हृदयालुः, हृदयी, हृदयिकः, हृदयवान् । शीतोष्णतृप्रेभ्यस्तन्न सहत इत्य् आलुच् वक्तव्यः । शीतं न सहते शीतालुः । उष्णालुः । तृप्रालुः । तन्न सहत इति हिमाच्चेलुः । हिमं न सहते हिमेलुः । बलादूलच् । बलं न सहते बलूलः । वातात् समूहे च । वातं न सहत इति च । वातानां समूहः, वातं न सहते इति वा वातूलः । पर्वमरुद्भ्यां तन् वक्तव्यः । पर्वतः । मरुत्तः । अर्थात्तदभाव इनिर्वक्तव्यः । अर्थी । तदभावे इत्य् एव, अर्थवान् । तद् एतत् सर्वं बहुलग्रहणेन सम्पद्यते ॥ ऊर्णाया युस्

hṛdayāccālur anyatarasyām / hṛdayāluḥ, hṛdayī, hṛdayikaḥ, hṛdayavān / śītoṣṇatṛprebhyastanna sahata ity āluc vaktavyaḥ / śītaṃ na sahate śītāluḥ / uṣṇāluḥ / tṛprāluḥ / tanna sahata iti himācceluḥ / himaṃ na sahate himeluḥ / balādūlac / balaṃ na sahate balūlaḥ / vātāt samūhe ca / vātaṃ na sahata iti ca / vātānāṃ samūhaḥ, vātaṃ na sahate iti vā vātūlaḥ / parvamarudbhyāṃ tan vaktavyaḥ / parvataḥ / maruttaḥ / arthāttadabhāva inirvaktavyaḥ / arthī / tadabhāve ity eva, arthavān / tad etat sarvaṃ bahulagrahaṇena sampadyate // ūrṇāyā yus

Sanskrit only: no published translation is held for this verse.

ऊर्णाशब्दाद् युस् प्रत्ययो भवति मत्यर्थे । सकारः पदसञ्ज्ञार्थः । ऊर्णा अस्य विद्यते ऊर्णायुः । केचिच् छन्दोग्रहणम् अनुवर्तयन्ति ॥ वाचो ग्मिनिः

ūrṇāśabdād yus pratyayo bhavati matyarthe / sakāraḥ padasañjñārthaḥ / ūrṇā asya vidyate ūrṇāyuḥ / kecic chandograhaṇam anuvartayanti // vāco gminiḥ

Sanskrit only: no published translation is held for this verse.

वाच्शब्दात् ग्मिनिः प्रत्ययो भवति मत्वर्थे । वाग्मी, वाग्मिनौ, वाग्मिनः ॥ आलजाटचौ बहुभाषिणि

vācśabdāt gminiḥ pratyayo bhavati matvarthe / vāgmī, vāgminau, vāgminaḥ // ālajāṭacau bahubhāṣiṇi

Sanskrit only: no published translation is held for this verse.

स्वामिन्न्-ऐश्वर्ये

svāminn-aiśvarye

Sanskrit only: no published translation is held for this verse.

स्वामिन् इति निपात्यते ऐश्वर्थे गम्यमाने । स्वशदाद् ऐश्वर्यवाचिनो मत्वर्थे आमिन् प्रत्ययो निपात्यते । स्वम् अस्य अस्ति इति ऐश्वर्यम् अस्य अस्ति इति स्वामी । स्वामिनौ । स्वामिनः । ऐश्वर्ये इति किम् ? स्ववान् ॥ अर्श-आदिभ्यो ऽच्

svāmin iti nipātyate aiśvarthe gamyamāne / svaśadād aiśvaryavācino matvarthe āmin pratyayo nipātyate / svam asya asti iti aiśvaryam asya asti iti svāmī / svāminau / svāminaḥ / aiśvarye iti kim ? svavān // arśa-ādibhyo 'c

Sanskrit only: no published translation is held for this verse.

अर्शस् इत्य् एवम् अदिभ्यः प्रातिपदिकेभ्यो ऽच् प्रत्ययो भवति मत्वर्थे । अर्शासि अस्य विद्यन्ते अर्शसः । उरसः । आकृतिगणश् च अयम् । यत्र अभिन्नरूपेण शब्देन तद्वतो ऽभिधानं तत् सर्वम् इह द्रष्टव्यम् । अर्शस् । उरस् । तुन्द । चतुर । पलित । जटा । घता । अभ्र । कर्दम । आम । लवण । स्वाङ्गाद्धीनात् । वर्णात् । अर्शाअदिः ॥ द्वन्द्व-उपताप-गर्ह्यात् प्राणिस्थाद् इनिः

arśas ity evam adibhyaḥ prātipadikebhyo 'c pratyayo bhavati matvarthe / arśāsi asya vidyante arśasaḥ / urasaḥ / ākṛtigaṇaś ca ayam / yatra abhinnarūpeṇa śabdena tadvato 'bhidhānaṃ tat sarvam iha draṣṭavyam / arśas / uras / tunda / catura / palita / jaṭā / ghatā / abhra / kardama / āma / lavaṇa / svāṅgāddhīnāt / varṇāt / arśāadiḥ // dvandva-upatāpa-garhyāt prāṇisthād iniḥ

Sanskrit only: no published translation is held for this verse.

द्वन्द्वः समासः । उपतापो रोगः । गर्ह्यं निन्द्यम् । तद्विषयेभ्यः शब्देभ्यः प्राणिस्थार्थवाचिभ्यः इनिः प्रत्ययो भवति मत्वर्थे । द्वन्द्वात् तावत् - कटकवलयिनी । शङ्खनूपुरिणी । उपतापात् - कुष्ठी । किलासी । गर्ह्यात् - ककुदावर्ती । काकतालुकी । प्राणिस्थात् इति किम् ? पुष्पफलवान् वृक्षः । प्राण्यङ्गान्नेष्यते, पाणिपादवती । अतः इति अनुवर्तते । तेन+इह नि भवति, चित्रललाटिकावती । सिद्धे प्रत्यये पुनर् वचनं ठनादिबाधनार्थम् ॥ वात-अतिसाराभ्यां कुक् च

dvandvaḥ samāsaḥ / upatāpo rogaḥ / garhyaṃ nindyam / tadviṣayebhyaḥ śabdebhyaḥ prāṇisthārthavācibhyaḥ iniḥ pratyayo bhavati matvarthe / dvandvāt tāvat - kaṭakavalayinī / śaṅkhanūpuriṇī / upatāpāt - kuṣṭhī / kilāsī / garhyāt - kakudāvartī / kākatālukī / prāṇisthāt iti kim ? puṣpaphalavān vṛkṣaḥ / prāṇyaṅgānneṣyate, pāṇipādavatī / ataḥ iti anuvartate / tena+iha ni bhavati, citralalāṭikāvatī / siddhe pratyaye punar vacanaṃ ṭhanādibādhanārtham // vāta-atisārābhyāṃ kuk ca

Sanskrit only: no published translation is held for this verse.

वात-अतिसारशब्दाभ्यां इनिः प्रत्ययो भवति, तत्संनियोगेन च तयोः कुगागमो भवति । वातातिसारयोर् उपतापत्वात् पूर्वेण+एव सिद्धे प्रत्यये कुगर्थम् एव+इदं वचनम् । वातकी । अतिसारकी । पिशाचाच् च+इति वक्तव्यम् । पिशाचकी वैश्रवणः । रोगे च अयम् इष्यते । इह न भवति, वातवती गुहा ॥ वयसि पूरणात्

vāta-atisāraśabdābhyāṃ iniḥ pratyayo bhavati, tatsaṃniyogena ca tayoḥ kugāgamo bhavati / vātātisārayor upatāpatvāt pūrveṇa+eva siddhe pratyaye kugartham eva+idaṃ vacanam / vātakī / atisārakī / piśācāc ca+iti vaktavyam / piśācakī vaiśravaṇaḥ / roge ca ayam iṣyate / iha na bhavati, vātavatī guhā // vayasi pūraṇāt

Sanskrit only: no published translation is held for this verse.

सुख-आदिभ्यश् च

sukha-ādibhyaś ca

Sanskrit only: no published translation is held for this verse.

सुख इत्य् एवम् आदिभ्यः प्रातिपदिकेभ्यः इनिः प्रत्ययो नियम्यते मत्वर्थे । सुही । दुःखी । मालाक्षेपे इति पठ्यते, व्रीह्यादिषु च मालाशब्दो ऽस्ति, तद् इह क्षेपे मतुब्बाधनार्थं वचनम् । सुख । दुःख । तृप्र । कृच्छ्र । आम्र । अलीक । करुणा । कृपण । सोढ । प्रमीप । शील । हल । माल क्ष्पे । प्रणय ॥ धर्म-शील-वर्णान्ताच् च

sukha ity evam ādibhyaḥ prātipadikebhyaḥ iniḥ pratyayo niyamyate matvarthe / suhī / duḥkhī / mālākṣepe iti paṭhyate, vrīhyādiṣu ca mālāśabdo 'sti, tad iha kṣepe matubbādhanārthaṃ vacanam / sukha / duḥkha / tṛpra / kṛcchra / āmra / alīka / karuṇā / kṛpaṇa / soḍha / pramīpa / śīla / hala / māla kṣpe / praṇaya // dharma-śīla-varṇāntāc ca

Sanskrit only: no published translation is held for this verse.

अन्तःशब्दः प्रत्येकम् अभिसम्बध्यते । धर्माद्यन्तात् प्रातिपदिकात् इनिः प्रत्ययो नियम्यते । ब्रह्मणानां धर्मो ब्राह्मणधर्मः, सो ऽस्य अस्ति इति ब्राह्मणधर्मी । ब्राह्मणशीली । ब्राह्मणवर्णी ॥ हस्ताज् जातौ

antaḥśabdaḥ pratyekam abhisambadhyate / dharmādyantāt prātipadikāt iniḥ pratyayo niyamyate / brahmaṇānāṃ dharmo brāhmaṇadharmaḥ, so 'sya asti iti brāhmaṇadharmī / brāhmaṇaśīlī / brāhmaṇavarṇī // hastāj jātau

Sanskrit only: no published translation is held for this verse.

हस्तशब्दात् इनिः प्रत्ययो नियम्यते मत्वर्थे, समुदायेन चेज् जातिर् अभिधीयते । हस्तो ऽस्य अस्ति इति हस्ती । हस्तिनौ हस्तिनः । जातौ इति किम् ? हस्तवान् पुरुषः ॥ वर्णाद् ब्राह्मचारिणि

hastaśabdāt iniḥ pratyayo niyamyate matvarthe, samudāyena cej jātir abhidhīyate / hasto 'sya asti iti hastī / hastinau hastinaḥ / jātau iti kim ? hastavān puruṣaḥ // varṇād brāhmacāriṇi

Sanskrit only: no published translation is held for this verse.

वर्णशब्दात् इनिः प्रत्ययो भवति मत्वर्थे समुदायेन चेद् ब्रह्मचारी भण्यते । ब्रह्मचारि इति त्रैवर्णिको ऽभिप्रेतः । स हि विद्याग्रहणार्थम् उपनीतो ब्रहम चरति, नियमम् आसेवते इत्य् अर्थः । वर्णी, वर्णिनौ, वर्णिनः । ब्रह्मचारिणि इति किम् ? वर्णवान् । ब्राह्मणादयस्त्रयो वर्णा वर्णिनः उच्यन्ते ॥ पुष्कर-आदिभ्यो देशे

varṇaśabdāt iniḥ pratyayo bhavati matvarthe samudāyena ced brahmacārī bhaṇyate / brahmacāri iti traivarṇiko 'bhipretaḥ / sa hi vidyāgrahaṇārtham upanīto brahama carati, niyamam āsevate ity arthaḥ / varṇī, varṇinau, varṇinaḥ / brahmacāriṇi iti kim ? varṇavān / brāhmaṇādayastrayo varṇā varṇinaḥ ucyante // puṣkara-ādibhyo deśe

Sanskrit only: no published translation is held for this verse.

अर्थाच् च असन्निहिते । अर्थी । असन्निहिते इति किम् ? अर्थवान् । तदन्ताच् च+इति वक्तव्यम् । धान्यार्थी । हिरण्यार्थी । पुष्कर । पद्म । उत्पल । तमाल । कुमुद । नड । कपित्थ । बिस । मृणाल । कर्दम । शालूक । विगर्ह । करीष । शिरीष । यवास । प्रवास । हिरण्य । पुष्करादिः ॥ बलादिभ्यो मतुब् अन्यतरस्याम्

arthāc ca asannihite / arthī / asannihite iti kim ? arthavān / tadantāc ca+iti vaktavyam / dhānyārthī / hiraṇyārthī / puṣkara / padma / utpala / tamāla / kumuda / naḍa / kapittha / bisa / mṛṇāla / kardama / śālūka / vigarha / karīṣa / śirīṣa / yavāsa / pravāsa / hiraṇya / puṣkarādiḥ // balādibhyo matub anyatarasyām

Sanskrit only: no published translation is held for this verse.

बलादिभ्यः प्रातिपदिकेभ्यो मतुप्प्रत्ययो भवति । अन्यतरस्यां ग्रहणेन प्रकृतः इनिः समुच्चीयते । बलवान्, बाली । उत्साहवान्, उत्साही । बल । उत्साह । उद्भाव । उद्वास । उद्वाम । शिखा । पूग । मूल । दंश । कुल । आयाम । व्यायाम । उपयाम । आरोह । अवरोह । परिणाह । युद्ध ॥ सञ्ज्ञायां मन्-माभ्याम्

balādibhyaḥ prātipadikebhyo matuppratyayo bhavati / anyatarasyāṃ grahaṇena prakṛtaḥ iniḥ samuccīyate / balavān, bālī / utsāhavān, utsāhī / bala / utsāha / udbhāva / udvāsa / udvāma / śikhā / pūga / mūla / daṃśa / kula / āyāma / vyāyāma / upayāma / āroha / avaroha / pariṇāha / yuddha // sañjñāyāṃ man-mābhyām

Sanskrit only: no published translation is held for this verse.

मन्नन्तात् प्रातिपदिकान् मशब्दान्ताच् च इनिः प्रत्ययो भवति मत्वर्थे, समुदायेन चेत् सञ्ज्ञा गम्यते । प्रथिमिनी । दामिनी । मशब्दान्तात् होमिनी । सोमिनी । सञ्ज्ञायाम् इति किम् ? सोमवान् । होमवान् ॥ कं-शंभ्यां ब-भ-युस्-ति-तु-त-यसः

mannantāt prātipadikān maśabdāntāc ca iniḥ pratyayo bhavati matvarthe, samudāyena cet sañjñā gamyate / prathiminī / dāminī / maśabdāntāt hominī / sominī / sañjñāyām iti kim ? somavān / homavān // kaṃ-śaṃbhyāṃ ba-bha-yus-ti-tu-ta-yasaḥ

Sanskrit only: no published translation is held for this verse.

कम् शम् इति मकारान्तौ उद्कसुखयोर् वाचकौ, ताभ्यां ब भ युस् ति तु त यस् इत्य् एते सप्त प्रत्यया भवन्ति मत्वर्थे । कम्बः, कम्भः, कंयुः, कन्तिः, कन्तुः, कन्तः, कंयः । शम्बः, शम्भः, शंयुः, शन्तिः, शन्तुः, शन्तः, शंयः । सकारः पदसञ्ज्ञार्थः, तेन अनुस्वारपरसवर्णौ सिद्धौ भवतः । सञ्ज्ञायां हि असत्यां कम्यः, शम्यः इति स्यात् ॥ तुन्दि-बलि-वटेर् भः

kam śam iti makārāntau udkasukhayor vācakau, tābhyāṃ ba bha yus ti tu ta yas ity ete sapta pratyayā bhavanti matvarthe / kambaḥ, kambhaḥ, kaṃyuḥ, kantiḥ, kantuḥ, kantaḥ, kaṃyaḥ / śambaḥ, śambhaḥ, śaṃyuḥ, śantiḥ, śantuḥ, śantaḥ, śaṃyaḥ / sakāraḥ padasañjñārthaḥ, tena anusvāraparasavarṇau siddhau bhavataḥ / sañjñāyāṃ hi asatyāṃ kamyaḥ, śamyaḥ iti syāt // tundi-bali-vaṭer bhaḥ

Sanskrit only: no published translation is held for this verse.

अहं-शुभमोर् युस्

ahaṃ-śubhamor yus

Sanskrit only: no published translation is held for this verse.