Library·Vamana: Kavyalamkarasutra, with Vrtti·14

Vamana: Kavyalamkarasutra, with Vrtti 14

---------------------------- ब्रह्मादिषूपपदेषु हन्तेः क्विब्विधौ ब्रह्मभ्रूणवृत्रेषु ॥॥॥(पा ३,२।८७) इति नियमात् ब्रह्मादिष्वेव , हन्तेरेव , क्विबेव , भूतकाल एवेति चतुर्विधश्चात्र नियमः इति नियमात् अरिहा , रिपुहा , इत्येवमादीनामसिद्धिः

---------------------------- brahmādiṣūpapadeṣu hanteḥ kvibvidhau brahmabhrūṇavṛtreṣu ......(Pā 3,2.87) iti niyamāt brahmādiṣveva , hantereva , kvibeva , bhūtakāla eveti caturvidhaścātra niyamaḥ iti niyamāt arihā , ripuhā , ityevamādīnāmasiddhiḥ

Sanskrit only: no published translation is held for this verse.

---------------------------- ब्रह्मविदादयः कृदन्तवृत्त्या ॥ व्कल् ५,२।३६ [*व्कल् ५,२।३५] ॥ ब्रह्मवित् , बृत्रभिदित्यादयः प्रयोगा न युक्ताः । ब्रह्मभ्रूण ॥॥॥(पा ३,२।८७) इत्यादिषु हन्तेरेव इति नियमात् । आह ---- कृदन्तवृत्त्या । वेत्तीति वित् । भिनत्तीति भित् । क्विप् च(पा ३,२।७६) इति क्विप् । ततः कृदन्तैर्विदादिभिः सह ब्रह्मादीनां षष्ठीसमास इति । तैर्महीधरादयो व्याख्याताः ॥ व्कल् ५,२।३७ [*व्कल् ५,२।३६] ॥ तैर्विदादिभिर्हीधरादयो व्याख्याताः । धरतीति धरः । मह्या धरो महीधरः । एवं गङ्गाधरादयो व्याख्याताः

---------------------------- brahmavidādayaḥ kṛdantavṛttyā // VKal 5,2.36 [*VKal 5,2.35] // brahmavit , bṛtrabhidityādayaḥ prayogā na yuktāḥ / brahmabhrūṇa ......(Pā 3,2.87) ityādiṣu hantereva iti niyamāt / āha ---- kṛdantavṛttyā / vettīti vit / bhinattīti bhit / kvip ca(Pā 3,2.76) iti kvip / tataḥ kṛdantairvidādibhiḥ saha brahmādīnāṃ ṣaṣṭhīsamāsa iti / tairmahīdharādayo vyākhyātāḥ // VKal 5,2.37 [*VKal 5,2.36] // tairvidādibhirhīdharādayo vyākhyātāḥ / dharatīti dharaḥ / mahyā dharo mahīdharaḥ / evaṃ gaṅgādharādayo vyākhyātāḥ

Sanskrit only: no published translation is held for this verse.

भिदुरादयः कर्मकर्तरि कर्तरि च ॥ व्कल् ५,२।३८ [*व्कल् ५,२।३७] ॥ भिदुरं काष्ठम् भिदुरं तमःतिमिरभिदुरं व्योम्नः शृङ्गम् ॥॥॥ इति , छिदुरातपो दिवसःमत्सरच्छिदुरं प्रेमभङ्गुरा प्रीतिःमातङ्गं मानभङ्गुरम् इत्यादयोऽपि प्रयोगा दृश्यन्ते । ते कथमित्य् आह ---- ते कर्मकर्तरि कर्तरि च भवन्ति । कर्मकर्तरि चायमिष्यते इत्यत्र , चकारः कर्तरि चेत्यस्य समुच्चयार्थः

bhidurādayaḥ karmakartari kartari ca // VKal 5,2.38 [*VKal 5,2.37] // bhiduraṃ kāṣṭham bhiduraṃ tamaḥtimirabhiduraṃ vyomnaḥ śṛṅgam ...... iti , chidurātapo divasaḥmatsaracchiduraṃ premabhaṅgurā prītiḥmātaṅgaṃ mānabhaṅguram ityādayo'pi prayogā dṛśyante / te kathamity āha ---- te karmakartari kartari ca bhavanti / karmakartari cāyamiṣyate ityatra , cakāraḥ kartari cetyasya samuccayārthaḥ

Sanskrit only: no published translation is held for this verse.

गुणविस्तरादयश्चिन्त्याः ॥ व्कल् ५,२।३९ [*व्कल् ५,२।३८] ॥ गुणविस्तरः , व्याक्षेपविस्तरः इत्यादयः प्रयोगाश्चिन्त्याः । प्रथने वावशब्दे(पा ३,३।३३) इति घञ्प्रसङ्गात्

guṇavistarādayaścintyāḥ // VKal 5,2.39 [*VKal 5,2.38] // guṇavistaraḥ , vyākṣepavistaraḥ ityādayaḥ prayogāścintyāḥ / prathane vāvaśabde(Pā 3,3.33) iti ghañprasaṅgāt

Sanskrit only: no published translation is held for this verse.

अवतरापचायशब्दयोर्दीर्घह्रस्वत्वव्यत्यासो बालानाम् ॥ व्कल् ५,२।४० [*व्कल् ५,२।३९] ॥ अवतरशब्दस्यापचायशब्दस्य च दीर्घत्वह्रस्वत्वव्यत्यासो बालानां बालिशानां प्रयोगेष्विति । ते ह्यवतरणमवतार इति प्रयुञ्जते । मारुतावतार इति । स ह्ययुक्तः । भावे तरतेरव्विधानात् । अपचायमपचय इति प्रयुञ्जते ---- पुष्पापचय इति । अत्र हस्तादाने चेरस्तेये(पा ३,३।४०) इति घञ्प्राप्त इति

avatarāpacāyaśabdayordīrghahrasvatvavyatyāso bālānām // VKal 5,2.40 [*VKal 5,2.39] // avataraśabdasyāpacāyaśabdasya ca dīrghatvahrasvatvavyatyāso bālānāṃ bāliśānāṃ prayogeṣviti / te hyavataraṇamavatāra iti prayuñjate / mārutāvatāra iti / sa hyayuktaḥ / bhāve tarateravvidhānāt / apacāyamapacaya iti prayuñjate ---- puṣpāpacaya iti / atra hastādāne cerasteye(Pā 3,3.40) iti ghañprāpta iti

Sanskrit only: no published translation is held for this verse.

शोभेति निपातनात् ॥ व्कल् ५,२।४१ [*व्कल् ५,२।४०] ॥ शोभेत्ययं शब्दः साधुः । निपातनात् । शुभ शुम्भ शोभार्थौ इति शुभेर्भिदादेराकृतिगणत्वादङ् सिद्ध एव । गुणप्रतिषेधाभावस्तु निपात्यत इति । शोभार्थावित्यत्रैकदेशे , किं शोभा , आहोस्विच्छोभ इति विशेषावगतिराचर्यपरम्परोपदेशादिति

śobheti nipātanāt // VKal 5,2.41 [*VKal 5,2.40] // śobhetyayaṃ śabdaḥ sādhuḥ / nipātanāt / śubha śumbha śobhārthau iti śubherbhidāderākṛtigaṇatvādaṅ siddha eva / guṇapratiṣedhābhāvastu nipātyata iti / śobhārthāvityatraikadeśe , kiṃ śobhā , āhosvicchobha iti viśeṣāvagatirācaryaparamparopadeśāditi

Sanskrit only: no published translation is held for this verse.

अविधौ गुरोः स्त्रियां बहुलं विवक्षा ॥ व्कल् ५,२।४२ [*व्कल् ५,२।४१] ॥ अविधाववविधाने गुरोश्च हलः(पा ३,३।१०३) इति स्त्रियां बहुलं विवक्षा । क्विचिद्विवक्षा , क्वचिदविवक्षा , क्वचिदुभयमिति । विवक्षा यथा ---- ईहा लज्जेति । अविवक्षा यथा ---- आतङ्क इति । विवक्षाविवक्षे यथा बाधा बाधः , ऊहा ऊहः , व्रीडा व्रीडः , इति

avidhau guroḥ striyāṃ bahulaṃ vivakṣā // VKal 5,2.42 [*VKal 5,2.41] // avidhāvavavidhāne gurośca halaḥ(Pā 3,3.103) iti striyāṃ bahulaṃ vivakṣā / kvicidvivakṣā , kvacidavivakṣā , kvacidubhayamiti / vivakṣā yathā ---- īhā lajjeti / avivakṣā yathā ---- ātaṅka iti / vivakṣāvivakṣe yathā bādhā bādhaḥ , ūhā ūhaḥ , vrīḍā vrīḍaḥ , iti

Sanskrit only: no published translation is held for this verse.

व्यवसितादिषु क्तः कर्तरि, चकारात् ॥ व्कल् ५,२।४३ [*व्कल् ५,२।४२] ॥ व्यवसितः , प्रतिपन्न इत्यादिषु भावकर्मविहितोऽपि क्तः कर्तरि । गत्यादिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् । भावकर्मानुकर्षणार्थत्वं चकारस्येति चेद् , आवृत्तिः कर्तव्या

vyavasitādiṣu ktaḥ kartari, cakārāt // VKal 5,2.43 [*VKal 5,2.42] // vyavasitaḥ , pratipanna ityādiṣu bhāvakarmavihito'pi ktaḥ kartari / gatyādisūtre cakārasyānuktasamuccayārthatvāt / bhāvakarmānukarṣaṇārthatvaṃ cakārasyeti ced , āvṛttiḥ kartavyā

Sanskrit only: no published translation is held for this verse.

आहेति भूतेऽन्यणलन्तभ्रमाद् ब्रुवो लटि ॥ व्कल् ५,२।४४ [*व्कल् ५,२।४३] ॥ ब्रुवः पञ्चानां ॥॥॥(पा ३,४।८४) इत्यादिना आहेति लट् व्युत्पादितः । स भूते प्रयुक्तः ---- इत्याह भगवान् प्रभुः इति । अन्यस्य भूतकालाभिधायिनो णलन्तस्य लिटि भ्रमात् । निपुणाश्चैवं प्रयुज्यते । आह स्म स्मितमधुमधुराक्षरां गिरम् इति । अनुकरोति भगवतो नारायणस्य इत्यत्रापि मन्येस्मशब्दः कविना प्रयुक्तो लेखकैस्तु प्रमादान्न लिखित इति

āheti bhūte'nyaṇalantabhramād bruvo laṭi // VKal 5,2.44 [*VKal 5,2.43] // bruvaḥ pañcānāṃ ......(Pā 3,4.84) ityādinā āheti laṭ vyutpāditaḥ / sa bhūte prayuktaḥ ---- ityāha bhagavān prabhuḥ iti / anyasya bhūtakālābhidhāyino ṇalantasya liṭi bhramāt / nipuṇāścaivaṃ prayujyate / āha sma smitamadhumadhurākṣarāṃ giram iti / anukaroti bhagavato nārāyaṇasya ityatrāpi manyesmaśabdaḥ kavinā prayukto lekhakaistu pramādānna likhita iti

Sanskrit only: no published translation is held for this verse.

शबलादिभ्यः स्त्रियां टापोऽप्राप्तिः ॥ व्कल् ५,२।४५ [*व्कल् ५,२।४४] ॥ उपस्रोतः स्वस्थस्थितमहिषशृङ्गाग्रशबलाः स्नवन्तीनां जाताः प्रमुद्तविहङ्गास्तटभुवः । भ्रमरोत्करकल्माषाः कुसुमानां समृद्धयः । इत्यादिषु स्त्रियां टापो ऽप्राप्तिः । अन्यतो णीष्(पा ४,१।४०) इति णीष्विधानात् । तेन शबली , कल्माषीति भवति

śabalādibhyaḥ striyāṃ ṭāpo'prāptiḥ // VKal 5,2.45 [*VKal 5,2.44] // upasrotaḥ svasthasthitamahiṣaśṛṅgāgraśabalāḥ snavantīnāṃ jātāḥ pramudtavihaṅgāstaṭabhuvaḥ / bhramarotkarakalmāṣāḥ kusumānāṃ samṛddhayaḥ / ityādiṣu striyāṃ ṭāpo 'prāptiḥ / anyato ṇīṣ(Pā 4,1.40) iti ṇīṣvidhānāt / tena śabalī , kalmāṣīti bhavati

Sanskrit only: no published translation is held for this verse.

प्राणिनि नीलेति चिन्त्यम् ॥ व्कल् ५,२।४६ [*व्कल् ५,२।४५] ॥ कुवलयदलनीला कोकिला वालचूते इत्यादिषु नीतेति चिन्त्यम् । कोकिला नीलीति भवितव्यम् । नीलशब्दात् जानपद ॥॥॥(पा ४,१।४२) इत्यादिसूत्रेण प्राणिनि च(वार्त्तिक २४५७) इति डीष्विधानात्

prāṇini nīleti cintyam // VKal 5,2.46 [*VKal 5,2.45] // kuvalayadalanīlā kokilā vālacūte ityādiṣu nīteti cintyam / kokilā nīlīti bhavitavyam / nīlaśabdāt jānapada ......(Pā 4,1.42) ityādisūtreṇa prāṇini ca(Vārttika 2457) iti ḍīṣvidhānāt

Sanskrit only: no published translation is held for this verse.

मनुष्यजातेर्विवक्षाविवक्षे ॥ व्कल् ५,२।४७ [*व्कल् ५,२।४६] ॥ इतो मनुष्यजातेः(पा ४,१।६५) , ऊणुतः(पा ४,१।६६) इत्यत्र मनुष्यजातेर्विवक्षा , अविवक्षा च लक्ष्यानुसारतः । मन्दरस्य मदिराक्षि ! पार्श्वतो निम्ननाभि न भवन्ति निम्नगाः । वासुकिविकर्षणोद्भवा भामिनीह पदवी विभाव्यते ॥ अत्र मनुष्यजातेर्विवक्षायां इतो मनुष्य जातेः(पा ४,१।६५) इति ङीषि सति , अम्बार्थनद्योर्ह्रस्वः(पा ७,३।१०७) इति संबुद्धौ ह्रस्वत्वं सिद्ध्यति । नाभिशब्दात् पुनः , इतश्च प्राण्यङ्गात् ॥॥॥(वार्त्तिक ३१८९) इतीकारे कृते , निम्बनामीके इति स्यात् । हृतोष्ठरागैर्नयनोदबिन्दुभिर्निमग्ननाभैर्निपतद्भिरङ्कितम् । च्युतं रुषा भिन्नगतेरसंशयं शुकोदरश्याममिदं स्तनांशुकम् ॥ अत्र निमग्ननाभेः इति मनुष्यजातेर्विवक्षेति ङीष् न कृतः । सुतनु जहिहि मौनं पश्य पादानतं माम्(क्:सुतनु जहिहि कोपं ॥॥॥।) इत्यत्र मनुष्यजातेरविवक्षेति सुतनुशब्दात् ऊङुतः(पा ४,१।६६) इत्यूङि सति ह्रस्वत्वे सुतनु इति सिद्ध्यति । वरतनुरथवासौ नैव दृष्टा त्वया मे । अत्र मनुष्यजातेरविवक्षेत्यूङ् न कृतः

manuṣyajātervivakṣāvivakṣe // VKal 5,2.47 [*VKal 5,2.46] // ito manuṣyajāteḥ(Pā 4,1.65) , ūṇutaḥ(Pā 4,1.66) ityatra manuṣyajātervivakṣā , avivakṣā ca lakṣyānusārataḥ / mandarasya madirākṣi ! pārśvato nimnanābhi na bhavanti nimnagāḥ / vāsukivikarṣaṇodbhavā bhāminīha padavī vibhāvyate // atra manuṣyajātervivakṣāyāṃ ito manuṣya jāteḥ(Pā 4,1.65) iti ṅīṣi sati , ambārthanadyorhrasvaḥ(Pā 7,3.107) iti saṃbuddhau hrasvatvaṃ siddhyati / nābhiśabdāt punaḥ , itaśca prāṇyaṅgāt ......(Vārttika 3189) itīkāre kṛte , nimbanāmīke iti syāt / hṛtoṣṭharāgairnayanodabindubhirnimagnanābhairnipatadbhiraṅkitam / cyutaṃ ruṣā bhinnagaterasaṃśayaṃ śukodaraśyāmamidaṃ stanāṃśukam // atra nimagnanābheḥ iti manuṣyajātervivakṣeti ṅīṣ na kṛtaḥ / sutanu jahihi maunaṃ paśya pādānataṃ mām(k:sutanu jahihi kopaṃ .......) ityatra manuṣyajāteravivakṣeti sutanuśabdāt ūṅutaḥ(Pā 4,1.66) ityūṅi sati hrasvatve sutanu iti siddhyati / varatanurathavāsau naiva dṛṣṭā tvayā me / atra manuṣyajāteravivakṣetyūṅ na kṛtaḥ

Sanskrit only: no published translation is held for this verse.

ऊकारान्तादप्यूङ्, प्रवृत्तेः ॥ व्कल् ५,२।४८ [*व्कल् ५,२।४७] ॥ उत ऊङ् विहित ऊकारान्तादपि क्वचिद् भवति । आचार्यप्रवृत्तेः । क्वासौ प्रवृत्तिः ? । अप्राणिजातेश्चारज्ज्वादीनाम्(वार्त्तिक २५०२) इति अलाबूः , कर्कन्धूरित्युदाहरणम् । तेन , सुभ्रु ! किं संभ्रमेण । अतर् सुभ्रुशब्द ऊङि सिद्धो भवति । ऊङि त्वसति सुभ्रूरिति स्यात्

ūkārāntādapyūṅ, pravṛtteḥ // VKal 5,2.48 [*VKal 5,2.47] // uta ūṅ vihita ūkārāntādapi kvacid bhavati / ācāryapravṛtteḥ / kvāsau pravṛttiḥ ? / aprāṇijāteścārajjvādīnām(Vārttika 2502) iti alābūḥ , karkandhūrityudāharaṇam / tena , subhru ! kiṃ saṃbhrameṇa / atar subhruśabda ūṅi siddho bhavati / ūṅi tvasati subhrūriti syāt

Sanskrit only: no published translation is held for this verse.

कार्तिकीय इति ठञ् दुर्धरः ॥ व्कल् ५,२।४९ [*व्कल् ५,२।४८] ॥ कार्तिकीयो नभस्वान् इत्यत्र कालाट्ठञ्(पा ४,३।११) इति ठञ् दुर्धरः । ठञ् भवन् दुःखेन ध्रियत इति

kārtikīya iti ṭhañ durdharaḥ // VKal 5,2.49 [*VKal 5,2.48] // kārtikīyo nabhasvān ityatra kālāṭṭhañ(Pā 4,3.11) iti ṭhañ durdharaḥ / ṭhañ bhavan duḥkhena dhriyata iti

Sanskrit only: no published translation is held for this verse.

शार्वरमिति च ॥ व्कल् ५,२।५० [*व्कल् ५,२।४९] ॥ शार्वरं तमः इत्यत्र च कालाट्ठञ्(पा ४,३।११) इति ठञ् दुर्धरः

śārvaramiti ca // VKal 5,2.50 [*VKal 5,2.49] // śārvaraṃ tamaḥ ityatra ca kālāṭṭhañ(Pā 4,3.11) iti ṭhañ durdharaḥ

Sanskrit only: no published translation is held for this verse.

शाश्वतमिति प्रयुक्तेः ॥ व्कल् ५,२।५१ [*व्कल् ५,२।५०] ॥ शाश्वतं ज्योतिः इत्यत्र शाश्वतमिति न सिद्ध्यति कालट्ठञ्(पा ४,३।११) इति ठञ्प्रसङ्गात् । येषां च विरोधः शाश्वतिकः(पा २,४।९) इति सूत्रकारस्यापि प्रयोगः । आह ---- प्रयुक्तेः । शाश्वते प्रतिषेधः इति प्रयोगात् शाश्वतमिति भवति

śāśvatamiti prayukteḥ // VKal 5,2.51 [*VKal 5,2.50] // śāśvataṃ jyotiḥ ityatra śāśvatamiti na siddhyati kālaṭṭhañ(Pā 4,3.11) iti ṭhañprasaṅgāt / yeṣāṃ ca virodhaḥ śāśvatikaḥ(Pā 2,4.9) iti sūtrakārasyāpi prayogaḥ / āha ---- prayukteḥ / śāśvate pratiṣedhaḥ iti prayogāt śāśvatamiti bhavati

Sanskrit only: no published translation is held for this verse.

राजवंश्यादयः साध्वर्थे ये भवन्ति ॥ व्कल् ५,२।५२ [*व्कल् ५,२।५१] ॥ राजवंश्याः , सूर्यवंश्या इत्यादयः शब्दाः , तत्र साधुः(पा ४,४।९८) इत्यनेन साध्यर्ये यति प्रत्यये सति साधयो भवन्ति । भावार्थे पुनर्दिगादिपाठेऽपि वंशशब्दस्य वंशशब्दान्तान्न यत् प्रत्ययः । तदन्तविधेः प्रतिषेधात्

rājavaṃśyādayaḥ sādhvarthe ye bhavanti // VKal 5,2.52 [*VKal 5,2.51] // rājavaṃśyāḥ , sūryavaṃśyā ityādayaḥ śabdāḥ , tatra sādhuḥ(Pā 4,4.98) ityanena sādhyarye yati pratyaye sati sādhayo bhavanti / bhāvārthe punardigādipāṭhe'pi vaṃśaśabdasya vaṃśaśabdāntānna yat pratyayaḥ / tadantavidheḥ pratiṣedhāt

Sanskrit only: no published translation is held for this verse.

दारवशब्दो दुष्प्रयुक्तः ॥ व्कल् ५,२।५३ [*व्कल् ५,२।५२] ॥ दारवं पात्रम् इति दारवशब्दो दुष्प्रयुक्तः । नित्यं वृद्धशरादिभ्यः(पा ४,३।१४४) इति मयटा भवितव्यम् । ननु विकारावयवयोरर्थयोर्मयङ् विधीयते । अत्र तु दारुण इदम् इति विवक्षायां दारवमिति भविष्यति ? नैतदेवमपि स्यात् । वृद्धाच्छः(पा ४,२।११४) इति छविधानात्

dāravaśabdo duṣprayuktaḥ // VKal 5,2.53 [*VKal 5,2.52] // dāravaṃ pātram iti dāravaśabdo duṣprayuktaḥ / nityaṃ vṛddhaśarādibhyaḥ(Pā 4,3.144) iti mayaṭā bhavitavyam / nanu vikārāvayavayorarthayormayaṅ vidhīyate / atra tu dāruṇa idam iti vivakṣāyāṃ dāravamiti bhaviṣyati ? naitadevamapi syāt / vṛddhācchaḥ(Pā 4,2.114) iti chavidhānāt

Sanskrit only: no published translation is held for this verse.

मुग्धिमादिष्विवमनिज् मृग्यः ॥ व्कल् ५,२।५४ [*व्कल् ५,२।५३] ॥ मुग्धमा , मौडिमा इत्यादिषु इमनिज् मृग्यः अन्वेषणीय इति

mugdhimādiṣvivamanij mṛgyaḥ // VKal 5,2.54 [*VKal 5,2.53] // mugdhamā , mauḍimā ityādiṣu imanij mṛgyaḥ anveṣaṇīya iti

Sanskrit only: no published translation is held for this verse.

औपम्यादयश्चातुर्वर्ण्यवत् ॥ व्कल् ५,२।५५ [*व्कल् ५,२।५४] ॥ औपम्यं , सान्निध्यमित्यादयश्चातुर्वर्ण्यवत् गुणवचन ॥॥॥(पा ५,१।१२४) इत्यत्र चातुर्वर्ण्यादीनांउपसंख्यानम्(वार्त्तिक ३०९१) इति वार्तिकात्स्वार्थिकष्यञन्ताः

aupamyādayaścāturvarṇyavat // VKal 5,2.55 [*VKal 5,2.54] // aupamyaṃ , sānnidhyamityādayaścāturvarṇyavat guṇavacana ......(Pā 5,1.124) ityatra cāturvarṇyādīnāṃupasaṃkhyānam(Vārttika 3091) iti vārtikātsvārthikaṣyañantāḥ

Sanskrit only: no published translation is held for this verse.

ष्यञः षित्करणादीकारो बहुलम् ॥ व्कल् ५,२।५६ [*व्कल् ५,२।५५] ॥ गुणवचनब्राह्मणादिभ्यः(पा ५,१।१२४) इति यः ष्यञ् तस्य षित्करणादीकारो भवति । स बहुलम् । ब्राह्मण्यम् इत्यादिषु न भवति । सामग्र्यम् इत्यादिषु विकल्पितः । सामग्र्यं सामग्री , वैदग्ध्यं वैदग्धीति

ṣyañaḥ ṣitkaraṇādīkāro bahulam // VKal 5,2.56 [*VKal 5,2.55] // guṇavacanabrāhmaṇādibhyaḥ(Pā 5,1.124) iti yaḥ ṣyañ tasya ṣitkaraṇādīkāro bhavati / sa bahulam / brāhmaṇyam ityādiṣu na bhavati / sāmagryam ityādiṣu vikalpitaḥ / sāmagryaṃ sāmagrī , vaidagdhyaṃ vaidagdhīti

Sanskrit only: no published translation is held for this verse.

धन्वीति व्रीह्यादिषु पाठात् ॥ व्कल् ५,२।५७ [*व्कल् ५,२।५६] ॥ व्रीह्यादिषु धन्वन्शब्दस्य पाठात् धन्वीति इनौ सति सिद्धो भवति

dhanvīti vrīhyādiṣu pāṭhāt // VKal 5,2.57 [*VKal 5,2.56] // vrīhyādiṣu dhanvanśabdasya pāṭhāt dhanvīti inau sati siddho bhavati

Sanskrit only: no published translation is held for this verse.

चतुरस्रशोभीति णिनौ ॥ व्कल् ५,२।५८ [*व्कल् ५,२।५७] ॥ बभूव तस्याश्चतुरस्रशोभि वपुर्विभक्तं नवयौवनेन । इत्यत्र चतुरस्रशोभि इति न युक्तम् । व्रीह्यादिषु शोभाशब्दस्य पाठेऽपि । इनिरत्र न सिद्ध्यति । ग्रहणवता प्रातिपदिकेन तदन्तविधिप्रतिषेधात् । भवतु वा तदन्तविधिः । कर्मधारयान्मत्वर्थीयानुपपत्तिः । लघुत्वात् प्रक्रमस्येति बहुव्रीहिणैव भवितव्यम् । तत्कथमिति मत्वर्थीयस्याप्राप्तौ चतुरस्रशोभीति प्रयोगः ? । आह ---- णिनौ । चतुरस्रं शोभत इति ताच्छीलिके णिनावयं प्रयोगः । अथ , अनुमेयशोभि इति कथम् ? । न ह्यत्र पूर्ववद् वृत्तिः शक्या कर्तुमिति । शुभेः साधुकारिण्यावश्यके वा णिनिं कृत्वा तदन्ताच्च भावप्रत्यये पश्चाद् बहुव्रीहिः कर्तव्यः । अनुमेयं शोभित्वं यस्येति । भावप्रत्ययस्तु गतार्थत्वान्न प्रयुक्तः । यथा ---- निराकुलं तिष्ठति , सधीरमुवाच इति

caturasraśobhīti ṇinau // VKal 5,2.58 [*VKal 5,2.57] // babhūva tasyāścaturasraśobhi vapurvibhaktaṃ navayauvanena / ityatra caturasraśobhi iti na yuktam / vrīhyādiṣu śobhāśabdasya pāṭhe'pi / iniratra na siddhyati / grahaṇavatā prātipadikena tadantavidhipratiṣedhāt / bhavatu vā tadantavidhiḥ / karmadhārayānmatvarthīyānupapattiḥ / laghutvāt prakramasyeti bahuvrīhiṇaiva bhavitavyam / tatkathamiti matvarthīyasyāprāptau caturasraśobhīti prayogaḥ ? / āha ---- ṇinau / caturasraṃ śobhata iti tācchīlike ṇināvayaṃ prayogaḥ / atha , anumeyaśobhi iti katham ? / na hyatra pūrvavad vṛttiḥ śakyā kartumiti / śubheḥ sādhukāriṇyāvaśyake vā ṇiniṃ kṛtvā tadantācca bhāvapratyaye paścād bahuvrīhiḥ kartavyaḥ / anumeyaṃ śobhitvaṃ yasyeti / bhāvapratyayastu gatārthatvānna prayuktaḥ / yathā ---- nirākulaṃ tiṣṭhati , sadhīramuvāca iti

Sanskrit only: no published translation is held for this verse.

कञ्चुकीया इति क्यचि ॥ व्कल् ५,२।५९ [*व्कल् ५,२।५८] ॥ जीवन्ति राजमहिषीमनु कञ्चुकीयाः इति कथम् ? । मत्वर्थीयस्य च्छप्रत्ययस्याभावात् । अत आह ---- क्यचि । क्यचि प्रत्यये सति कञ्चुकीया इति भवति । कञ्चुकमात्मन इच्छन्ति कञ्चुकीयाः

kañcukīyā iti kyaci // VKal 5,2.59 [*VKal 5,2.58] // jīvanti rājamahiṣīmanu kañcukīyāḥ iti katham ? / matvarthīyasya cchapratyayasyābhāvāt / ata āha ---- kyaci / kyaci pratyaye sati kañcukīyā iti bhavati / kañcukamātmana icchanti kañcukīyāḥ

Sanskrit only: no published translation is held for this verse.

बौद्धप्रतियोग्यपेक्षायामप्यातिशायनिकाः ॥ व्कल् ५,२।६० [*व्कल् ५,२।५९] ॥ बौद्धस्य प्रतियोगिनोऽपेक्षायामप्यातिशायनिकास्तरबादयो भवन्ति ---- घनतरं तमःबहुलतरं प्रेम इति

bauddhapratiyogyapekṣāyāmapyātiśāyanikāḥ // VKal 5,2.60 [*VKal 5,2.59] // bauddhasya pratiyogino'pekṣāyāmapyātiśāyanikāstarabādayo bhavanti ---- ghanataraṃ tamaḥbahulataraṃ prema iti

Sanskrit only: no published translation is held for this verse.

कौशिलादय इलचि वर्णलोपात् ॥ व्कल् ५,२।६१ [*व्कल् ५,२।६०] ॥ कौशिलः , वासिल इत्यादयः कथम् ? । आह ---- कौशिक--वासिष्ठादिभ्यः शब्देभ्यो नीतावनुकम्पायां वा , धनिलचौ च(पा ५,३।७९) इति-इलचि कृते , ठाजादावूर्ध्वं द्वितीयादचः(पा ५,३।८३) इति वर्णलोपात्सिध्यति

kauśilādaya ilaci varṇalopāt // VKal 5,2.61 [*VKal 5,2.60] // kauśilaḥ , vāsila ityādayaḥ katham ? / āha ---- kauśika--vāsiṣṭhādibhyaḥ śabdebhyo nītāvanukampāyāṃ vā , dhanilacau ca(Pā 5,3.79) iti-ilaci kṛte , ṭhājādāvūrdhvaṃ dvitīyādacaḥ(Pā 5,3.83) iti varṇalopātsidhyati

Sanskrit only: no published translation is held for this verse.

मौक्तिकमिति विनयादिपाठात् ॥ व्कल् ५,२।६२ [*व्कल् ५,२।६१] ॥ मुक्तैव मौक्तिकमिति विनयादिपाठात् द्रष्टव्यम् । स्वार्थिकाश्च प्रकृतितो लिङ्गवचनान्यतिवर्तन्ते इति नपुंसकत्वम्

mauktikamiti vinayādipāṭhāt // VKal 5,2.62 [*VKal 5,2.61] // muktaiva mauktikamiti vinayādipāṭhāt draṣṭavyam / svārthikāśca prakṛtito liṅgavacanānyativartante iti napuṃsakatvam

Sanskrit only: no published translation is held for this verse.

प्रातिभादयः प्रज्ञादिषु ॥ व्कल् ५,२।६३ [*व्कल् ५,२।६२] ॥ प्रातिभादयः शब्दाः प्रज्ञादिषु द्रष्टव्याः । प्रतिभा--विकृति--द्वितादिभ्यः शब्देभ्यः प्रज्ञादिपाठादणि स्वार्थिके कृते , प्रातिभं , वैकृतं , द्वैतमित्यादयः प्रयोगाः सिद्ध्यन्तीति

prātibhādayaḥ prajñādiṣu // VKal 5,2.63 [*VKal 5,2.62] // prātibhādayaḥ śabdāḥ prajñādiṣu draṣṭavyāḥ / pratibhā--vikṛti--dvitādibhyaḥ śabdebhyaḥ prajñādipāṭhādaṇi svārthike kṛte , prātibhaṃ , vaikṛtaṃ , dvaitamityādayaḥ prayogāḥ siddhyantīti

Sanskrit only: no published translation is held for this verse.

न सरजसमित्यनव्ययीभावे ॥ व्कल् ५,२।६४ [*व्कल् ५,२।६३] ॥ मधु सरजसं मध्येपद्मं पिबन्ति शिलीमुखाः इत्यादिषु सरजसमिति न युक्तः प्रयोगः अनव्ययीभावे । भाव एव सरजसशब्दस्येष्टत्वात्

na sarajasamityanavyayībhāve // VKal 5,2.64 [*VKal 5,2.63] // madhu sarajasaṃ madhyepadmaṃ pibanti śilīmukhāḥ ityādiṣu sarajasamiti na yuktaḥ prayogaḥ anavyayībhāve / bhāva eva sarajasaśabdasyeṣṭatvāt

Sanskrit only: no published translation is held for this verse.

धृतधनुषीत्यसंज्ञायाम् ॥ व्कल् ५,२।६५ [*व्कल् ५,२।६४] ॥ धृतधनुषि शौर्यशालिनि इत्यत्र धृतधनुषि इत्यसंज्ञायां न युक्तः प्रयोगः । धनुषश्च(पा ५,४।१३२) इत्यङ्विधानात् । संज्ञायां ह्यनङ् विकल्पितः । वा संज्ञायाम्(पा ५,४।१३३) इति

dhṛtadhanuṣītyasaṃjñāyām // VKal 5,2.65 [*VKal 5,2.64] // dhṛtadhanuṣi śauryaśālini ityatra dhṛtadhanuṣi ityasaṃjñāyāṃ na yuktaḥ prayogaḥ / dhanuṣaśca(Pā 5,4.132) ityaṅvidhānāt / saṃjñāyāṃ hyanaṅ vikalpitaḥ / vā saṃjñāyām(Pā 5,4.133) iti

Sanskrit only: no published translation is held for this verse.

दुर्गन्धिपद इद्दुर्लभः ॥ व्कल् ५,२।६६ [*व्कल् ५,२।६५] ॥ दुर्गन्धिः कायः इत्यादिषु दुर्गन्धिपदे इत् समानान्तो दुर्लभः । उत्पूत्यादिषु दुःशब्दस्यापाठात्

durgandhipada iddurlabhaḥ // VKal 5,2.66 [*VKal 5,2.65] // durgandhiḥ kāyaḥ ityādiṣu durgandhipade it samānānto durlabhaḥ / utpūtyādiṣu duḥśabdasyāpāṭhāt

Sanskrit only: no published translation is held for this verse.

सुदत्यादयः प्रतिविधेयाः ॥ व्कल् ५,२।६७ [*व्कल् ५,२।६६] ॥ सा दक्षरोषात्सुदती ससर्ज इति , शिखरदति पतति रशना इत्यादिषु सुदत्यादयः शब्दाः प्रतिविधेयाः । दत्रादेशलक्षणाभावात् । तत्र प्रतिविधानम् । अग्रान्त(पा ५,४॥१४५)आदिसूत्रे चकारस्यानुक्तसमुच्चयार्थत्वात् सुदत्यादिषु दत्रादेशः इत्येके । अन्ये तु वर्णयन्ति । सुदत्यादयः स्त्र्यभिधायिनो योगरूढशब्दाः । तेषु स्त्रियां संज्ञायाम्(पा ५,४।१४३) इति दत्रादेशो विकल्पेन सिद्ध एव इति

sudatyādayaḥ pratividheyāḥ // VKal 5,2.67 [*VKal 5,2.66] // sā dakṣaroṣātsudatī sasarja iti , śikharadati patati raśanā ityādiṣu sudatyādayaḥ śabdāḥ pratividheyāḥ / datrādeśalakṣaṇābhāvāt / tatra pratividhānam / agrānta(Pā 5,4..145)ādisūtre cakārasyānuktasamuccayārthatvāt sudatyādiṣu datrādeśaḥ ityeke / anye tu varṇayanti / sudatyādayaḥ stryabhidhāyino yogarūḍhaśabdāḥ / teṣu striyāṃ saṃjñāyām(Pā 5,4.143) iti datrādeśo vikalpena siddha eva iti

Sanskrit only: no published translation is held for this verse.

क्षतदृढोर्स इति न कप्, तदन्तविधिप्रतिषेधात् ॥ व्कल् ५,२।६८ [*व्कल् ५,२।६७] ॥ प्लवङ्गनखकोटिभिः क्षतदृढोरसो राक्षसाः इत्यत्र दृढोरःशब्दाद् , उरःप्रभृतिभ्यः कप्(पा ५,४।१५१) इति कप् न कृतः । ग्रहणवता प्रातिपदिकेन इति तदन्तविधेः प्रतिषेधात् । समासवाक्यं त्वेवं कर्तव्यम् ---- क्षतं दृढोरो येषामिति

kṣatadṛḍhorsa iti na kap, tadantavidhipratiṣedhāt // VKal 5,2.68 [*VKal 5,2.67] // plavaṅganakhakoṭibhiḥ kṣatadṛḍhoraso rākṣasāḥ ityatra dṛḍhoraḥśabdād , uraḥprabhṛtibhyaḥ kap(Pā 5,4.151) iti kap na kṛtaḥ / grahaṇavatā prātipadikena iti tadantavidheḥ pratiṣedhāt / samāsavākyaṃ tvevaṃ kartavyam ---- kṣataṃ dṛḍhoro yeṣāmiti

Sanskrit only: no published translation is held for this verse.

अवैहीति वृद्धिरवद्या ॥ व्कल् ५,२।६९ [*व्कल् ५,२।६८] ॥ अवैहीत्यत्र वृद्धिरवद्या । गुण एव युक्त इति

avaihīti vṛddhiravadyā // VKal 5,2.69 [*VKal 5,2.68] // avaihītyatra vṛddhiravadyā / guṇa eva yukta iti

Sanskrit only: no published translation is held for this verse.

अपाङ्गनेत्रेति लुगलभ्यः ॥ व्कल् ५,२।७० [*व्कल् ५,२।६९] ॥ अपाङ्गे नेत्रं यस्याः सेयम्पाङ्गनेत्रेत्यत्र लुगलभ्यः । अमूर्धमस्तकात् स्वाङ्गादकामे(पा ६,३।१२) इति सप्तम्या अलुग्विधानात्

apāṅganetreti lugalabhyaḥ // VKal 5,2.70 [*VKal 5,2.69] // apāṅge netraṃ yasyāḥ seyampāṅganetretyatra lugalabhyaḥ / amūrdhamastakāt svāṅgādakāme(Pā 6,3.12) iti saptamyā alugvidhānāt

Sanskrit only: no published translation is held for this verse.

नेष्ठाः श्लिष्टप्रियादयः, पुंवद्भावप्रतिषेधात् ॥ व्कल् ५,२।७१ [*व्कल् ५,२।७०] ॥ श्लिष्टप्रियः , विश्लिष्टकान्त इत्यादयो नेष्टाः । स्त्रियाः पुंवत् ॥॥॥(पा ६,३।३४) इति पुंवद्भावस्य प्रियादिषु निषेधात्

neṣṭhāḥ śliṣṭapriyādayaḥ, puṃvadbhāvapratiṣedhāt // VKal 5,2.71 [*VKal 5,2.70] // śliṣṭapriyaḥ , viśliṣṭakānta ityādayo neṣṭāḥ / striyāḥ puṃvat ......(Pā 6,3.34) iti puṃvadbhāvasya priyādiṣu niṣedhāt

Sanskrit only: no published translation is held for this verse.

दृढभक्तिरिति सर्वत्रेति ॥ व्कल् ५,२।७२ [*व्कल् ५,२।७१] ॥ दृढभक्तिरसौ ज्येष्ठे अत्र पूर्वपदस्य स्त्रियाम् इत्यविवक्षितत्वात्

dṛḍhabhaktiriti sarvatreti // VKal 5,2.72 [*VKal 5,2.71] // dṛḍhabhaktirasau jyeṣṭhe atra pūrvapadasya striyām ityavivakṣitatvāt

Sanskrit only: no published translation is held for this verse.

जम्बुलतादयो ह्रस्वविधेः ॥ व्कल् ५,२।७३ [*व्कल् ५,२।७२] ॥ जम्बुलतादयः प्रयोगाः कथम् ? । आह ---- ह्रस्वविधेः । इको ह्रस्वोऽङ्जो गालवस्य(पा ६,३।६१) इति ह्रस्वविधानात्

jambulatādayo hrasvavidheḥ // VKal 5,2.73 [*VKal 5,2.72] // jambulatādayaḥ prayogāḥ katham ? / āha ---- hrasvavidheḥ / iko hrasvo'ṅjo gālavasya(Pā 6,3.61) iti hrasvavidhānāt

Sanskrit only: no published translation is held for this verse.

तिलकादयोऽजिरादिषु ॥ व्कल् ५,२।७४ [*व्कल् ५,२।७३] ॥ तिलकादयः शब्दा अजिरादिषु द्रष्टव्याः । अन्यथा , तिलकवती कनकवती इत्यादिषु मतुपि , मतौ बह्वचोऽनजिरादीनाम्(पा ६,३।११९) इति दीर्घत्वं स्यात् । केचित्तु वर्णयन्ति ---- नद्यां मतुप्(पा ४,२।८५) इति यो मतुप् तत्रायं विधिः । तेषां मतेनामरावतीत्यादीनामसिद्धिः

tilakādayo'jirādiṣu // VKal 5,2.74 [*VKal 5,2.73] // tilakādayaḥ śabdā ajirādiṣu draṣṭavyāḥ / anyathā , tilakavatī kanakavatī ityādiṣu matupi , matau bahvaco'najirādīnām(Pā 6,3.119) iti dīrghatvaṃ syāt / kecittu varṇayanti ---- nadyāṃ matup(Pā 4,2.85) iti yo matup tatrāyaṃ vidhiḥ / teṣāṃ matenāmarāvatītyādīnāmasiddhiḥ

Sanskrit only: no published translation is held for this verse.

निशम्य-निशमय्यशब्दौ प्रकृतिभेदात् ॥ व्कल् ५,२।७५ [*व्कल् ५,२।७४] ॥ निशम्य -- निशमय्येत्येतौ शब्दौ श्रुत्वेत्येतस्मिन्नर्थे । शमेः ल्यपि ल्यपि लघुपूर्वात्(पा ६,४।५६) इत्ययादेशे सति निशमय्येति भवितव्यम् , न निशम्येति । आह ---- प्रकृतिभेदात् । शमेर्दैवादिकस्य निशम्येति रूपम् । शमो दर्शने इति चुरादौ णिचि मित्संज्ञकस्य निशमय्येति रूपम्

niśamya-niśamayyaśabdau prakṛtibhedāt // VKal 5,2.75 [*VKal 5,2.74] // niśamya -- niśamayyetyetau śabdau śrutvetyetasminnarthe / śameḥ lyapi lyapi laghupūrvāt(Pā 6,4.56) ityayādeśe sati niśamayyeti bhavitavyam , na niśamyeti / āha ---- prakṛtibhedāt / śamerdaivādikasya niśamyeti rūpam / śamo darśane iti curādau ṇici mitsaṃjñakasya niśamayyeti rūpam

Sanskrit only: no published translation is held for this verse.

संयम्यनियम्यशब्दौ, अणिजन्तत्वात् ॥ व्कल् ५,२।७६ [*व्कल् ५,२।७५] ॥ कथं संयम्यनियम्यशब्दौ ? । ल्यपि लघुपूर्वात्(पा ६,४।५६) इति णेरयादेशेन भवितव्यम् । आह ---- अणिजन्तत्वात् । धातोर्णिच् तु न । गतार्थत्वात् । यथा ---- वाचं नियच्छति इति । णिजर्थानयगतौ णिच् प्रयुज्यत एव । यथा ---- संयमयितुमारब्धः इति

saṃyamyaniyamyaśabdau, aṇijantatvāt // VKal 5,2.76 [*VKal 5,2.75] // kathaṃ saṃyamyaniyamyaśabdau ? / lyapi laghupūrvāt(Pā 6,4.56) iti ṇerayādeśena bhavitavyam / āha ---- aṇijantatvāt / dhātorṇic tu na / gatārthatvāt / yathā ---- vācaṃ niyacchati iti / ṇijarthānayagatau ṇic prayujyata eva / yathā ---- saṃyamayitumārabdhaḥ iti

Sanskrit only: no published translation is held for this verse.

प्रपीयेति पीङः ॥ व्कल् ५,२।७७ [*व्कल् ५,२।७६] ॥ प्रपीयेत्ययं शब्दः , पीङ् पाने इत्येतस्य । पिवतेर्हि , न ल्यपि(पा ६,४।६९) इतीत्वप्रतिषेधात्प्रपायेति भवति

prapīyeti pīṅaḥ // VKal 5,2.77 [*VKal 5,2.76] // prapīyetyayaṃ śabdaḥ , pīṅ pāne ityetasya / pivaterhi , na lyapi(Pā 6,4.69) itītvapratiṣedhātprapāyeti bhavati

Sanskrit only: no published translation is held for this verse.

दूरयतीति बहुलग्रहणात् ॥ व्कल् ५,२।७८ [*व्कल् ५,२।७७] ॥ दूरयत्यवनते विवस्वति इत्यत्र दूरयतीति कथम् ? । णाविष्ठवद्भावे स्थूलदूर ॥॥॥(पा ६,४।१५६) इत्यादिना गुणलोपयोः कृतयोर्दवयतीति भवितव्यम् । आह ---- बहुलग्रहणात् । प्रतिपदिकाद्धात्वर्थे बहुलमिष्ठवच्च(गणपाठ २०३) इत्यत्र बहुलग्रहणात् स्थूलदूर ॥॥॥(पा ६,४।१५६) आदिसूत्रेण यद्विहितं तन्न भविष्यतीति

dūrayatīti bahulagrahaṇāt // VKal 5,2.78 [*VKal 5,2.77] // dūrayatyavanate vivasvati ityatra dūrayatīti katham ? / ṇāviṣṭhavadbhāve sthūladūra ......(Pā 6,4.156) ityādinā guṇalopayoḥ kṛtayordavayatīti bhavitavyam / āha ---- bahulagrahaṇāt / pratipadikāddhātvarthe bahulamiṣṭhavacca(Gaṇapāṭha 203) ityatra bahulagrahaṇāt sthūladūra ......(Pā 6,4.156) ādisūtreṇa yadvihitaṃ tanna bhaviṣyatīti

Sanskrit only: no published translation is held for this verse.

गच्छतीप्रभृतिष्वनिषेध्यो नुम् ॥ व्कल् ५,२।७९ [*व्कल् ५,२।७८] ॥ हरति हि वनराजिर्गच्छती श्यामभावमित्यादिषु गच्छतीप्रभृतिषु शब्देषु , शप्श्यनोर्नित्यम् इति नुमनिषेध्यो निषेद्धुमशक्यः

gacchatīprabhṛtiṣvaniṣedhyo num // VKal 5,2.79 [*VKal 5,2.78] // harati hi vanarājirgacchatī śyāmabhāvamityādiṣu gacchatīprabhṛtiṣu śabdeṣu , śapśyanornityam iti numaniṣedhyo niṣeddhumaśakyaḥ

Sanskrit only: no published translation is held for this verse.

मित्रेण गोप्त्रेति पुंवद्भावात् ॥ व्कल् ५,२।८० [*व्कल् ५,२।७९] ॥ मित्रेण गोप्त्रा इति कथम् ? । गोप्तृणा भवितव्यम् । इकोऽचि विभक्तौ(पा ७,३।७३) इति नुम्विधानात् । आह ---- पुंवद्भावात् । तृतीयादिषु भाषितपुंस्कं पुंवद्गालवस्य(पा ७,१।७४) इति पुंवद्भावेन गोप्त्रेति भवति

mitreṇa goptreti puṃvadbhāvāt // VKal 5,2.80 [*VKal 5,2.79] // mitreṇa goptrā iti katham ? / goptṛṇā bhavitavyam / iko'ci vibhaktau(Pā 7,3.73) iti numvidhānāt / āha ---- puṃvadbhāvāt / tṛtīyādiṣu bhāṣitapuṃskaṃ puṃvadgālavasya(Pā 7,1.74) iti puṃvadbhāvena goptreti bhavati

Sanskrit only: no published translation is held for this verse.

वेत्स्यसीति पदभङ्गात् ॥ व्कल् ५,२।८१ [*व्कल् ५,२।८०] ॥ पतितं वेत्स्यसि क्षितौ इत्यत्र वेत्स्यसीति न सिद्ध्यति । इट्प्रसङ्गात् । आह ---- पदभङ्गात् सिद्ध्यति । वेत्स्यसीति पदं भज्यते ---- वेत्सि , असि । असिइत्ययं निपातस्त्वमित्यस्मिन्नर्थे । क्वचिद्वाक्यालङ्कारे प्रयुज्यते । यथा ---- पार्थिवस्त्वमसि सत्यमभ्यधाः इति ।

vetsyasīti padabhaṅgāt // VKal 5,2.81 [*VKal 5,2.80] // patitaṃ vetsyasi kṣitau ityatra vetsyasīti na siddhyati / iṭprasaṅgāt / āha ---- padabhaṅgāt siddhyati / vetsyasīti padaṃ bhajyate ---- vetsi , asi / asiityayaṃ nipātastvamityasminnarthe / kvacidvākyālaṅkāre prayujyate / yathā ---- pārthivastvamasi satyamabhyadhāḥ iti /

Sanskrit only: no published translation is held for this verse.

कामयानशब्दः सिद्धोऽनादिश्चेत् ॥ व्कल् ५,२।८२ [*व्कल् ५,२।८१] ॥ कामयानशब्दः सिद्धः । आगमानुशासनमनित्यम् इति मुक्यकृते , यद्यनादिः स्यात्

kāmayānaśabdaḥ siddho'nādiścet // VKal 5,2.82 [*VKal 5,2.81] // kāmayānaśabdaḥ siddhaḥ / āgamānuśāsanamanityam iti mukyakṛte , yadyanādiḥ syāt

Sanskrit only: no published translation is held for this verse.

सौहृद्-दौर्हृदशब्दावणि हृद्भावात् ॥ व्कल् ५,२।८३ [*व्कल् ५,२।८२] ॥ सुहृदयदुर्हृदयशब्दाभ्यां युवादिपाठादणि कृते , हृदयस्य हृद्भावः । आदिवृद्धौ सौहृददौर्हृदशब्दौ भवतः । सुहृद्दुर्हृच्छब्दाभ्यां युवादिपाठादेवाणि कृते , हृद्भगसिन्ध्वन्ते ॥॥॥(पा ७,३।१९) इति हृदन्तस्य तद्धितेऽणि कृते सत्युभयपदवृद्धौ सत्यां सौहार्दं दौहार्दमिति भवति

sauhṛd-daurhṛdaśabdāvaṇi hṛdbhāvāt // VKal 5,2.83 [*VKal 5,2.82] // suhṛdayadurhṛdayaśabdābhyāṃ yuvādipāṭhādaṇi kṛte , hṛdayasya hṛdbhāvaḥ / ādivṛddhau sauhṛdadaurhṛdaśabdau bhavataḥ / suhṛddurhṛcchabdābhyāṃ yuvādipāṭhādevāṇi kṛte , hṛdbhagasindhvante ......(Pā 7,3.19) iti hṛdantasya taddhite'ṇi kṛte satyubhayapadavṛddhau satyāṃ sauhārdaṃ dauhārdamiti bhavati

Sanskrit only: no published translation is held for this verse.

विरम इति निपातनात् ॥ व्कल् ५,२।८४ [*व्कल् ५,२।८३] ॥ रमेरनुदात्तोपदेशत्वात् , नोदात्तोपदेशस्य ॥॥॥(पा ७,३।३४) इत्यादिना वृद्धप्रतिषेधस्याभावात् कथं विरम इति । आह ---- निपातनात् । एतत्तु यम उमरमे इत्यत्रोपरम इति । अतन्त्रं चोपसर्ग इति

virama iti nipātanāt // VKal 5,2.84 [*VKal 5,2.83] // rameranudāttopadeśatvāt , nodāttopadeśasya ......(Pā 7,3.34) ityādinā vṛddhapratiṣedhasyābhāvāt kathaṃ virama iti / āha ---- nipātanāt / etattu yama umarame ityatroparama iti / atantraṃ copasarga iti

Sanskrit only: no published translation is held for this verse.

उपर्यादिषु सामीप्ये द्विरुक्तेषु द्वितीया ॥ व्कल् ५,२।८५ [*व्कल् ५,२।८४] ॥ उपर्यादिषु शब्देषु सामीप्ये द्विरुक्तेषु उपर्यध्यधसः सामीप्ये(पा ८,१।७) इत्यनेन उपर्यादिषु त्रिषु द्वितीयाम्रेडितान्तेषु इति द्वितीया । वीप्सायां तु द्विरुक्तेषु षष्ठ्येव भवति ---- उपर्युपरि बुद्धिनां चरन्तीश्वरबुद्धयः

uparyādiṣu sāmīpye dvirukteṣu dvitīyā // VKal 5,2.85 [*VKal 5,2.84] // uparyādiṣu śabdeṣu sāmīpye dvirukteṣu uparyadhyadhasaḥ sāmīpye(Pā 8,1.7) ityanena uparyādiṣu triṣu dvitīyāmreḍitānteṣu iti dvitīyā / vīpsāyāṃ tu dvirukteṣu ṣaṣṭhyeva bhavati ---- uparyupari buddhināṃ carantīśvarabuddhayaḥ

Sanskrit only: no published translation is held for this verse.

मन्दं मन्दमित्यप्रकारार्थत्वे ॥ व्कल् ५,२।८६ [*व्कल् ५,२।८५] ॥ मन्दं मन्दं नुदति पवनः(मेघदूत १।९) इत्यत्र मन्दं मन्दम् इत्यप्रकारार्थे भवति । प्रकारार्थत्वे तु प्रकारे गुणवचनस्य(पा ८,१।१२) इति द्विर्वचने कृते कर्मधारयवद्भावे च मन्दमन्दमिति प्रयोगः । मन्दं मन्दमित्यत्र तु नित्यवीप्सयोः(पा ८,१।४) इति द्विर्वचनम् । अनेकभागात्मकस्य नुदेर्यदा सर्वे भावा मन्दत्वेन व्याप्तुय्मिष्टा भवन्ति तदा वीप्सेति

mandaṃ mandamityaprakārārthatve // VKal 5,2.86 [*VKal 5,2.85] // mandaṃ mandaṃ nudati pavanaḥ(Meghadūta 1.9) ityatra mandaṃ mandam ityaprakārārthe bhavati / prakārārthatve tu prakāre guṇavacanasya(Pā 8,1.12) iti dvirvacane kṛte karmadhārayavadbhāve ca mandamandamiti prayogaḥ / mandaṃ mandamityatra tu nityavīpsayoḥ(Pā 8,1.4) iti dvirvacanam / anekabhāgātmakasya nuderyadā sarve bhāvā mandatvena vyāptuymiṣṭā bhavanti tadā vīpseti

Sanskrit only: no published translation is held for this verse.

न निद्राद्रुगिति, भष्भावप्राप्तेः ॥ व्कल् ५,२।८७ [*व्कल् ५,२।८६] ॥ निद्राद्रुक्काद्रवेयच्छविरुपरिलसद्धर्घरो वारिवाहः इत्यत्र निद्राद्रुक् इति न युक्तः । एकाचो बशो भष् ॥॥॥(पा ८,२।३७) इति भषभावप्राप्तेः । अनुप्रासप्रियैस्तत्वपभ्रंशः कृतः

na nidrādrugiti, bhaṣbhāvaprāpteḥ // VKal 5,2.87 [*VKal 5,2.86] // nidrādrukkādraveyacchaviruparilasaddhargharo vārivāhaḥ ityatra nidrādruk iti na yuktaḥ / ekāco baśo bhaṣ ......(Pā 8,2.37) iti bhaṣabhāvaprāpteḥ / anuprāsapriyaistatvapabhraṃśaḥ kṛtaḥ

Sanskrit only: no published translation is held for this verse.

निष्पन्द इति पत्वं चिन्त्यम् ॥ व्कल् ५,२।८८ [*व्कल् ५,२।८७] ॥ न ह्यत्र पत्वलक्षणमस्ति । कस्कादिपाठोऽप्यस्य न निश्चितः

niṣpanda iti patvaṃ cintyam // VKal 5,2.88 [*VKal 5,2.87] // na hyatra patvalakṣaṇamasti / kaskādipāṭho'pyasya na niścitaḥ

Sanskrit only: no published translation is held for this verse.

नाङ्गुलिसङ्ग इति मूर्धन्यविधेः ॥ व्कल् ५,२।८९ [*व्कल् ५,२।८८] ॥ म्लायन्त्यङ्गुलिसङ्गेऽपि कोमलाः कुसुमस्रजः इत्यत्र अङ्गुलिसङ्गः इति न युक्तः । समासेऽङ्गुलेः सङ्गः इति मूर्धन्यविधानात्

nāṅgulisaṅga iti mūrdhanyavidheḥ // VKal 5,2.89 [*VKal 5,2.88] // mlāyantyaṅgulisaṅge'pi komalāḥ kusumasrajaḥ ityatra aṅgulisaṅgaḥ iti na yuktaḥ / samāse'ṅguleḥ saṅgaḥ iti mūrdhanyavidhānāt

Sanskrit only: no published translation is held for this verse.

तेनावन्तिसेनादयः प्रत्युक्ताः ॥ व्कल् ५,२।९० [*व्कल् ५,२।८९] ॥ तेन अङ्गुलिसङ्गे इत्यनेन अवन्तिसेनःइन्दुसेनः एवमादयः शब्दः प्रत्युक्ताः प्रत्याख्याताः । सुषामादिषु च(पा ८,३।९८) एति संज्ञायामगात्(पा ८,३।९९ ग।) इति मूर्धन्यविधानात्

tenāvantisenādayaḥ pratyuktāḥ // VKal 5,2.90 [*VKal 5,2.89] // tena aṅgulisaṅge ityanena avantisenaḥindusenaḥ evamādayaḥ śabdaḥ pratyuktāḥ pratyākhyātāḥ / suṣāmādiṣu ca(Pā 8,3.98) eti saṃjñāyāmagāt(Pā 8,3.99 ga.) iti mūrdhanyavidhānāt

Sanskrit only: no published translation is held for this verse.

नेन्द्रवाहने णत्वम्; आहितत्वस्याविवक्षितत्वात् ॥ व्कल् ५,२।९१ [*व्कल् ५,२।९०] ॥ कुथेन नागेन्द्रमिवेन्द्रवाहनम् इत्यत्र इन्द्रवाहनशब्दे वाहनमाहितात्(पा ८,४।८) इति णत्वं न भवति । आहितत्वस्याविवक्षितत्वात् । स्वस्वामिभावमात्रं ह्यत्र विवक्षितम् । तेन सिद्धम् इन्द्रवाहनम् इति

nendravāhane ṇatvam; āhitatvasyāvivakṣitatvāt // VKal 5,2.91 [*VKal 5,2.90] // kuthena nāgendramivendravāhanam ityatra indravāhanaśabde vāhanamāhitāt(Pā 8,4.8) iti ṇatvaṃ na bhavati / āhitatvasyāvivakṣitatvāt / svasvāmibhāvamātraṃ hyatra vivakṣitam / tena siddham indravāhanam iti

Sanskrit only: no published translation is held for this verse.