ओर् देशे इत्य् एव । उ-वर्णान्तात् वृद्धात् प्राग्देशब्-वाचिनः । प्रातिपदिकात् ठञ् प्रत्ययो भवति शैषिकः । आढकजम्बुकः । शाकजम्बुकः । नापितवास्तुकः । पूर्वेण+एव ठञि सिद्धे नियमार्थं वचनम्, वृद्धाद् एव प्राचाम् अवृद्धान् न भवति इति । मल्लवास्तु - माल्लवास्तवः ॥ धन्व-य-उपधाद् वुञ्
or deśe ity eva / u-varṇāntāt vṛddhāt prāgdeśab-vācinaḥ / prātipadikāt ṭhañ pratyayo bhavati śaiṣikaḥ / āḍhakajambukaḥ / śākajambukaḥ / nāpitavāstukaḥ / pūrveṇa+eva ṭhañi siddhe niyamārthaṃ vacanam, vṛddhād eva prācām avṛddhān na bhavati iti / mallavāstu - māllavāstavaḥ // dhanva-ya-upadhād vuñ
Sanskrit only: no published translation is held for this verse.
वृद्धात् इति वर्तते, देशे इति च । धन्व-वाचिनो य-कार-उपधाच् च देश-अभिधायिनो वृद्धात् प्रातिपदिकात् वुञ् प्रत्ययो भवति शैषिकः । धन्व-शब्दो मरुदेश-वचनः । पारेधन्वकः । ऐरावतकः । योपधात् - सांकाश्यकः । कम्पिल्यकः ॥ प्रस्थ-पुर-वहान्ताच् च
vṛddhāt iti vartate, deśe iti ca / dhanva-vācino ya-kāra-upadhāc ca deśa-abhidhāyino vṛddhāt prātipadikāt vuñ pratyayo bhavati śaiṣikaḥ / dhanva-śabdo marudeśa-vacanaḥ / pāredhanvakaḥ / airāvatakaḥ / yopadhāt - sāṃkāśyakaḥ / kampilyakaḥ // prastha-pura-vahāntāc ca
Sanskrit only: no published translation is held for this verse.
वृद्धात् इत्य् एव, देशे इति च । अन्त-शब्दः प्रत्येकम् अभिसम्बध्यते । प्रस्थपुर वह इत्य् एवम् अन्तात् देश-वाचिनः प्रातिपदिकाद् वृद्धाद् वुञ् प्रत्ययो भवति शैषिकः । छस्य अपवादः । मालाप्रस्थकः । नान्दीपुरकः । कान्तीपुरकः । पैलुवहकः । फाल्गुनीवहकः । पुरान्तो रोपधस्ततः उत्तरसूत्रैणैव सिद्धम् अप्रागर्थम् इह ग्रहणम् ॥ र-उपध-इतोः प्राचाम्
vṛddhāt ity eva, deśe iti ca / anta-śabdaḥ pratyekam abhisambadhyate / prasthapura vaha ity evam antāt deśa-vācinaḥ prātipadikād vṛddhād vuñ pratyayo bhavati śaiṣikaḥ / chasya apavādaḥ / mālāprasthakaḥ / nāndīpurakaḥ / kāntīpurakaḥ / pailuvahakaḥ / phālgunīvahakaḥ / purānto ropadhastataḥ uttarasūtraiṇaiva siddham aprāgartham iha grahaṇam // ra-upadha-itoḥ prācām
Sanskrit only: no published translation is held for this verse.
जनपद-तदवध्योश् च
janapada-tadavadhyoś ca
Sanskrit only: no published translation is held for this verse.
वृद्धात् इत्य् एव, देशे इति च । तद्विशेषनं जनपद-तदवधी । वृद्धाज् जनपद-वाचिनः तदवधि-वाचिनश् च प्रातिपदिकात् वुञ् प्रत्ययो भवति शैसिकः । छस्य अपवादः । आभिसारकः । आदर्शकः । जनपदावधेः खल्व् अपि औपुष्टकः । श्यामायनकः । तदवधेर् अपि जनपा एव गृह्यते न ग्रामः । किम् अर्थं तर्हि ग्रहणम् ? बाधकबाधन-अर्थम् । गर्तोत्तरपदाच् छं बाधित्वा वुञ् एव जनपद-अवधेर् भवति । त्रैगर्तकः ॥ अवृद्धाद् अपि बहुवचन-विषयात्
vṛddhāt ity eva, deśe iti ca / tadviśeṣanaṃ janapada-tadavadhī / vṛddhāj janapada-vācinaḥ tadavadhi-vācinaś ca prātipadikāt vuñ pratyayo bhavati śaisikaḥ / chasya apavādaḥ / ābhisārakaḥ / ādarśakaḥ / janapadāvadheḥ khalv api aupuṣṭakaḥ / śyāmāyanakaḥ / tadavadher api janapā eva gṛhyate na grāmaḥ / kim arthaṃ tarhi grahaṇam ? bādhakabādhana-artham / gartottarapadāc chaṃ bādhitvā vuñ eva janapada-avadher bhavati / traigartakaḥ // avṛddhād api bahuvacana-viṣayāt
Sanskrit only: no published translation is held for this verse.
जनपद-तदवध्योः इत्य् एव । अवृद्धाद् वृद्धाच् च जनपदात् तदवधि-वाचिनश् च बहुवनच-विषयात् प्रातिपदिकाद् वुञ् प्रत्ययो भवति शैसिकः । अण्छयोर् अपवादः । अवृद्धाज् जनपदात् तावत् - अङ्गाः । वङ्गाः । कलिङ्गाः । आङ्गकः । वाङ्गकः । कालिङ्गकः । अवृद्धाज् जनपद-अवधेः - अजमीढाः । अजक्रन्द्राः । आजमीढकः । आजक्रन्दकः । वृद्धाज् जनपदात् - दार्वाः । जाम्ब्वाः । दार्वकः । जाम्ब्वकः । वृद्धाज् जनपदावधेः - कालञ्जराः । वैकुलिशाः । कालञ्जरकः । वैकुलिशकः । विषय-ग्रहणमनयत्र भावार्थम् । जनपद-एकशेष-बहुत्वे मा भूत् । वर्तन्यः । वार्तनः । अपिग्रहणं किम् यावता वृद्धात पूर्वेण+एव सिद्धम् ? तक्रकौण्डिन्यन्यायेन बाधा मा विज्ञायि इति समुच्चीयते ॥ कच्छ-अग्नि-वक्त्र-गर्त-उत्तरपदात्
janapada-tadavadhyoḥ ity eva / avṛddhād vṛddhāc ca janapadāt tadavadhi-vācinaś ca bahuvanaca-viṣayāt prātipadikād vuñ pratyayo bhavati śaisikaḥ / aṇchayor apavādaḥ / avṛddhāj janapadāt tāvat - aṅgāḥ / vaṅgāḥ / kaliṅgāḥ / āṅgakaḥ / vāṅgakaḥ / kāliṅgakaḥ / avṛddhāj janapada-avadheḥ - ajamīḍhāḥ / ajakrandrāḥ / ājamīḍhakaḥ / ājakrandakaḥ / vṛddhāj janapadāt - dārvāḥ / jāmbvāḥ / dārvakaḥ / jāmbvakaḥ / vṛddhāj janapadāvadheḥ - kālañjarāḥ / vaikuliśāḥ / kālañjarakaḥ / vaikuliśakaḥ / viṣaya-grahaṇamanayatra bhāvārtham / janapada-ekaśeṣa-bahutve mā bhūt / vartanyaḥ / vārtanaḥ / apigrahaṇaṃ kim yāvatā vṛddhāta pūrveṇa+eva siddham ? takrakauṇḍinyanyāyena bādhā mā vijñāyi iti samuccīyate // kaccha-agni-vaktra-garta-uttarapadāt
Sanskrit only: no published translation is held for this verse.
देशे इत्य् एव उत्तरपद-शब्दः प्रत्येकम् अभिसम्बध्यते । कच्छ-अद्य्-उत्तरपदाद् देशवाचिनः । प्रातिपदिकाच् च अवृद्धाद् वृद्धाच् च वुञ् प्रत्ययो भवति शैषिकः । छणोर् अपवादः । दारुकच्छकः । पैप्पलीकच्छकः । काण्डाग्नकः । वैभुजाग्नकः । ऐन्द्रवक्त्रकः । सैन्धुवक्त्रकः । बाहुगर्तकः । चाक्रगर्तकः ॥ धूमादिभ्यश् च
deśe ity eva uttarapada-śabdaḥ pratyekam abhisambadhyate / kaccha-ady-uttarapadād deśavācinaḥ / prātipadikāc ca avṛddhād vṛddhāc ca vuñ pratyayo bhavati śaiṣikaḥ / chaṇor apavādaḥ / dārukacchakaḥ / paippalīkacchakaḥ / kāṇḍāgnakaḥ / vaibhujāgnakaḥ / aindravaktrakaḥ / saindhuvaktrakaḥ / bāhugartakaḥ / cākragartakaḥ // dhūmādibhyaś ca
Sanskrit only: no published translation is held for this verse.
नगरात् कुत्सन-प्रावीण्ययोः
nagarāt kutsana-prāvīṇyayoḥ
Sanskrit only: no published translation is held for this verse.
नगर-शब्दात् वुञ् प्रत्ययो भवति शैसिकः कुत्सने प्रावीण्ये च गम्यमाने । प्रत्ययार्थ-विशेषणं च+एतत्, कुत्सने प्रावीण्ये च जातादौ प्रत्ययार्थ इति । कुत्सनं निन्दनम् । प्रावीण्यं नैपुण्यम् । केन अयं मुषितः पन्था गात्रे पक्षमालिधूसरः । इह नगरे मनुष्येण सम्भाव्यत एतन् नागरकेण । चोरा हि नागरका भवन्ति । केन+इदं लिखितं चित्रं मनोनेत्रविकाशि यत् । इह नगरे मनुष्येण सम्भाव्यत एतन् नागरकेण । प्रवीणा हि नागरका भवन्ति । कुत्सनप्रावीण्ययोः इति किम् ? नागरा ब्राह्मणाः । कत्र्यादिषु तु सञ्ज्ञाशब्देन साहचर्यात् सञ्ज्ञानागरं पठ्यते, तस्मिन् नागरेयकम् इति प्रत्युदाहार्यम् ॥ अरण्यान् मनुस्ये
nagara-śabdāt vuñ pratyayo bhavati śaisikaḥ kutsane prāvīṇye ca gamyamāne / pratyayārtha-viśeṣaṇaṃ ca+etat, kutsane prāvīṇye ca jātādau pratyayārtha iti / kutsanaṃ nindanam / prāvīṇyaṃ naipuṇyam / kena ayaṃ muṣitaḥ panthā gātre pakṣamālidhūsaraḥ / iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa / corā hi nāgarakā bhavanti / kena+idaṃ likhitaṃ citraṃ manonetravikāśi yat / iha nagare manuṣyeṇa sambhāvyata etan nāgarakeṇa / pravīṇā hi nāgarakā bhavanti / kutsanaprāvīṇyayoḥ iti kim ? nāgarā brāhmaṇāḥ / katryādiṣu tu sañjñāśabdena sāhacaryāt sañjñānāgaraṃ paṭhyate, tasmin nāgareyakam iti pratyudāhāryam // araṇyān manusye
Sanskrit only: no published translation is held for this verse.
अरण्य-शब्दाद् वुञ् प्रत्ययो भवति शैसिको मनुस्ये ऽभिधेये । औपसङ्ख्यानिकस्य णस्य अपवादः । आरण्यको मनुस्यः । पथ्याध्यायन्यायविहारमनुस्यहस्तिषु इति वक्तव्यम् । आरण्यकः पन्थाः । आरण्यको ऽध्यायः । आरण्यको न्यायः । आरण्यको विहारः । आरण्यको मनुष्यः । आरण्यको हस्ती । वा गोमयेसु । आरण्याः, आरण्यका गोमयाः । एतेसु इति किम् ? आरण्याः पशवः ॥ विभाषा कुरु-युगन्धराभ्याम्
araṇya-śabdād vuñ pratyayo bhavati śaisiko manusye 'bhidheye / aupasaṅkhyānikasya ṇasya apavādaḥ / āraṇyako manusyaḥ / pathyādhyāyanyāyavihāramanusyahastiṣu iti vaktavyam / āraṇyakaḥ panthāḥ / āraṇyako 'dhyāyaḥ / āraṇyako nyāyaḥ / āraṇyako vihāraḥ / āraṇyako manuṣyaḥ / āraṇyako hastī / vā gomayesu / āraṇyāḥ, āraṇyakā gomayāḥ / etesu iti kim ? āraṇyāḥ paśavaḥ // vibhāṣā kuru-yugandharābhyām
Sanskrit only: no published translation is held for this verse.
कुरु युगन्धर इत्य् एताभ्यां विभाषा वुञ् प्रत्ययो भवति शैषिकः । कौरवकः, कौरवः । यौगन्धरकः , यौगन्धरः । जनपद-शब्दाव् एतौ, ताभ्याम् अवृद्धाद् अपि इति नित्ये वुञि प्राप्ते विकल्प उच्यते । कुरु-शब्दः कच्छादिष्व् अपि पठ्यते, तत्र वचनाद् अण् अपि भविष्यति । सैषा युगन्धर-अर्था विभाष । मनुष्यतत्स्थयोः तु कुरु-शब्दान् नित्य एव वुञ् प्रत्ययो भवति, कौरवको मनुस्यः, कौरवकमस्य हसितम् इति ॥ मद्र-वृज्योः कन्
kuru yugandhara ity etābhyāṃ vibhāṣā vuñ pratyayo bhavati śaiṣikaḥ / kauravakaḥ, kauravaḥ / yaugandharakaḥ , yaugandharaḥ / janapada-śabdāv etau, tābhyām avṛddhād api iti nitye vuñi prāpte vikalpa ucyate / kuru-śabdaḥ kacchādiṣv api paṭhyate, tatra vacanād aṇ api bhaviṣyati / saiṣā yugandhara-arthā vibhāṣa / manuṣyatatsthayoḥ tu kuru-śabdān nitya eva vuñ pratyayo bhavati, kauravako manusyaḥ, kauravakamasya hasitam iti // madra-vṛjyoḥ kan
Sanskrit only: no published translation is held for this verse.
कोपधाद् अण्
kopadhād aṇ
Sanskrit only: no published translation is held for this verse.
देशे इत्य् एव । क-कार-उपधात् प्रातिपदिकाद् अण् प्रत्ययो भवति शैसिकः । जनपदवुञो ऽपवादः । अन्यत्र जनपदं मुक्त्वा पूर्वेण+एव कोपधाद् अणि सिद्धम् । ऋषिकेषु जातः आर्षिकः । माहिषिकः । अण्-ग्रहणम् उ-वर्णान्ताद् अपि यथा स्यात्, इक्ष्वाकुषु जातः ऐक्ष्वाकः ॥ कच्छ-आदिभ्यश् च
deśe ity eva / ka-kāra-upadhāt prātipadikād aṇ pratyayo bhavati śaisikaḥ / janapadavuño 'pavādaḥ / anyatra janapadaṃ muktvā pūrveṇa+eva kopadhād aṇi siddham / ṛṣikeṣu jātaḥ ārṣikaḥ / māhiṣikaḥ / aṇ-grahaṇam u-varṇāntād api yathā syāt, ikṣvākuṣu jātaḥ aikṣvākaḥ // kaccha-ādibhyaś ca
Sanskrit only: no published translation is held for this verse.
देशे इत्य् एव । कच्छ इत्य् एवम् आदिभ्यो देशवाचिभ्यः अण् प्रत्ययो भवति शैसिकः । वुञादेर् अपवादः । काच्छः । सैन्धवः । वार्णवः । कच्छ-शब्दो न बहुवचन-विषयः, तस्य मनुस्य-तत्स्थयोर् वुञर्थः पाठः । विजापक-शब्दः पठ्यते, तस्य कोपधत्वाद् एव अणि सिद्धे ग्रहनम् उत्तरार्थम् । कच्छ । सिन्धु । वर्णु । गन्धार । मधुमत् । कम्बोज । कश्मीर । साल्व । कुरु । रङ्कु । अणु । खण्ड । द्वीप । अनूप । अजवाह । विजापकः । कुलून । कच्छादिः ॥ मनुस्य-तत्स्थयोर् वुञ्
deśe ity eva / kaccha ity evam ādibhyo deśavācibhyaḥ aṇ pratyayo bhavati śaisikaḥ / vuñāder apavādaḥ / kācchaḥ / saindhavaḥ / vārṇavaḥ / kaccha-śabdo na bahuvacana-viṣayaḥ, tasya manusya-tatsthayor vuñarthaḥ pāṭhaḥ / vijāpaka-śabdaḥ paṭhyate, tasya kopadhatvād eva aṇi siddhe grahanam uttarārtham / kaccha / sindhu / varṇu / gandhāra / madhumat / kamboja / kaśmīra / sālva / kuru / raṅku / aṇu / khaṇḍa / dvīpa / anūpa / ajavāha / vijāpakaḥ / kulūna / kacchādiḥ // manusya-tatsthayor vuñ
Sanskrit only: no published translation is held for this verse.
कच्छादिभ्यः इत्य् एव । मनुष्ये मनुष्यस्थे च जातादौ प्रत्ययार्थे कच्छादिभ्यो वुञ् प्रत्ययो भवति । अणो ऽपवादः । काछको मनुस्यः । काच्छकम् अस्य हसितं, जल्पितम् । काच्छिका चूडा । सैन्धवको मनुस्यः । सैन्धवनस्य हसितं, जल्पितम् । सैन्धविका चूडा । मनुष्य-तत्स्थयोः इति किम् ? काच्छो गौः । सैन्धवो वार्णवः ॥ अपदातौ साल्वात्
kacchādibhyaḥ ity eva / manuṣye manuṣyasthe ca jātādau pratyayārthe kacchādibhyo vuñ pratyayo bhavati / aṇo 'pavādaḥ / kāchako manusyaḥ / kācchakam asya hasitaṃ, jalpitam / kācchikā cūḍā / saindhavako manusyaḥ / saindhavanasya hasitaṃ, jalpitam / saindhavikā cūḍā / manuṣya-tatsthayoḥ iti kim ? kāccho gauḥ / saindhavo vārṇavaḥ // apadātau sālvāt
Sanskrit only: no published translation is held for this verse.
साल्व-शब्दः कच्छादिसु पठ्यते, ततः पूर्वेण+एव मनुस्य-तत्स्थयोः वुञि सिद्धे नियमार्थं वचनम् । अपदाताव् एव मनुस्ये मनष्यस्थे च साल्व-शब्दाद् वुञ् प्रत्ययो भवति । साल्वको मनुस्यः । सल्वकम् अस्य हसितम्, जल्पितम् । अपदातौ इति किम् ? साल्वः पदातिर्व्रजति ॥ गो-यवग्वोश् च
sālva-śabdaḥ kacchādisu paṭhyate, tataḥ pūrveṇa+eva manusya-tatsthayoḥ vuñi siddhe niyamārthaṃ vacanam / apadātāv eva manusye manaṣyasthe ca sālva-śabdād vuñ pratyayo bhavati / sālvako manusyaḥ / salvakam asya hasitam, jalpitam / apadātau iti kim ? sālvaḥ padātirvrajati // go-yavagvoś ca
Sanskrit only: no published translation is held for this verse.
गर्त-उत्तरपदाच् छः
garta-uttarapadāc chaḥ
Sanskrit only: no published translation is held for this verse.
देशे इत्य् एव । गर्त-उत्तरपदात् देश-वाचिनः प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः । अणो ऽपवादः । वाहीकग्रामलक्षणं च प्रत्ययं परत्वाद् बाधते । वृकगर्तीयम् । शृगालगर्तीयम् । श्वाविद्गर्तीयम् । उत्तरपद-ग्रहणं बहुच्पूर्वनिरासार्थम् । बाहुगर्तम् ॥ गह-आदिभ्यश् च
deśe ity eva / garta-uttarapadāt deśa-vācinaḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ / aṇo 'pavādaḥ / vāhīkagrāmalakṣaṇaṃ ca pratyayaṃ paratvād bādhate / vṛkagartīyam / śṛgālagartīyam / śvāvidgartīyam / uttarapada-grahaṇaṃ bahucpūrvanirāsārtham / bāhugartam // gaha-ādibhyaś ca
Sanskrit only: no published translation is held for this verse.
वङ्ग । मगध । पूर्वप्क्ष । अपरपक्ष । अधमशाख । उत्तमशाख । समानशाख । एकग्राम । एकवृक्ष । एकपलाश । एष्वग्र । इष्वनी । अवस्यन्दी । कामप्रस्थ । खाडायनि । कावेरणि शैशिरि । शौङ्गि । आसुरि । आहिंसि । आमित्रि । व्याडि । वैदजि । भौजि । आढ्यश्वि । आनृशंसि । सौवि । पारकि । अग्निशर्मन् । देवशर्मन् । श्रौति । आरटकि । वाल्मीकि । क्षेमवृद्धिन् । उत्तर । अन्तर । मुखपार्श्वतसोर्लोपः । जनपरयोः कुक्च । देवस्य च । वेणुकादिभ्यश् छण् । गहादिः ॥ प्राचां कटादेः
vaṅga / magadha / pūrvapkṣa / aparapakṣa / adhamaśākha / uttamaśākha / samānaśākha / ekagrāma / ekavṛkṣa / ekapalāśa / eṣvagra / iṣvanī / avasyandī / kāmaprastha / khāḍāyani / kāveraṇi śaiśiri / śauṅgi / āsuri / āhiṃsi / āmitri / vyāḍi / vaidaji / bhauji / āḍhyaśvi / ānṛśaṃsi / sauvi / pāraki / agniśarman / devaśarman / śrauti / āraṭaki / vālmīki / kṣemavṛddhin / uttara / antara / mukhapārśvatasorlopaḥ / janaparayoḥ kukca / devasya ca / veṇukādibhyaś chaṇ / gahādiḥ // prācāṃ kaṭādeḥ
Sanskrit only: no published translation is held for this verse.
देशे इत्य् एव । तद्विशेषनं प्राग्-ग्रहणम् । प्राग्देश-वाचिनः कटादेः प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः । अणो ऽपवादः । कटनगरीयम् । कठघोषीयम् । कटपल्वलीयम् ॥ राज्ञः क च
deśe ity eva / tadviśeṣanaṃ prāg-grahaṇam / prāgdeśa-vācinaḥ kaṭādeḥ prātipadikāt chaḥ pratyayo bhavati śaisikaḥ / aṇo 'pavādaḥ / kaṭanagarīyam / kaṭhaghoṣīyam / kaṭapalvalīyam // rājñaḥ ka ca
Sanskrit only: no published translation is held for this verse.
वृद्धाद् अक-इक-अन्त-ख-उपधात्
vṛddhād aka-ika-anta-kha-upadhāt
Sanskrit only: no published translation is held for this verse.
देशे इत्य् एव । वृद्धाद् देश-वाचिनः अक इक इत्य् एवम् अन्तात् खकारोपधाच् च प्रातिपदिकात् छः प्रत्ययो भवति शैसिकः । कोपध-लक्षणस्य अणो ऽपवादः । वाहीकग्राम-लक्षणस्य च प्रत्ययस्य, रोपधेतोः प्राचाम् (*४,२।१२३) इति च । अकान्तात् तावत् - आरीहणकीयम् । द्रौघणकीयम् । इकान्तात् - आश्वपथिकीयम् । शाल्मलिकीयम् । खोपधात् - कौटिशिखीयम् । आयोमुखीयम् । अकेकान्त-ग्रहणे कोपध-ग्रहणं सौसुकाद्यर्थम् । सौसुकीयम् । मौसुकीयम् । ऐन्द्रवेणुकीयम् ॥ कन्था-पलद-नगर-ग्राम-ह्रद-उत्तरपदात्
deśe ity eva / vṛddhād deśa-vācinaḥ aka ika ity evam antāt khakāropadhāc ca prātipadikāt chaḥ pratyayo bhavati śaisikaḥ / kopadha-lakṣaṇasya aṇo 'pavādaḥ / vāhīkagrāma-lakṣaṇasya ca pratyayasya, ropadhetoḥ prācām (*4,2.123) iti ca / akāntāt tāvat - ārīhaṇakīyam / draughaṇakīyam / ikāntāt - āśvapathikīyam / śālmalikīyam / khopadhāt - kauṭiśikhīyam / āyomukhīyam / akekānta-grahaṇe kopadha-grahaṇaṃ sausukādyartham / sausukīyam / mausukīyam / aindraveṇukīyam // kanthā-palada-nagara-grāma-hrada-uttarapadāt
Sanskrit only: no published translation is held for this verse.
देशे इत्य् एव, वृद्धात् इति च । कन्थाद्य्-उत्तरपदाद् देश-वाचिनो वृद्धात् प्रातिपदिकाच् छः प्रत्ययो भवति शैषिकः । वाहीकग्रमादि-लक्षणस्य प्रत्ययस्य अपवादः । दाक्षिकन्थीयम् । माहिकिकन्थीयम् । दाक्षिपलदीयम् । माहिकिपलदीयम् । दाक्षिनगरीयम् । माहिकिनगरीयम् । दाक्षिग्रामीयम् । माहिकिग्रामीयम् । दाक्षिह्रदीयम् । माहिकिह्रदीयम् ॥ पर्वताच् च
deśe ity eva, vṛddhāt iti ca / kanthādy-uttarapadād deśa-vācino vṛddhāt prātipadikāc chaḥ pratyayo bhavati śaiṣikaḥ / vāhīkagramādi-lakṣaṇasya pratyayasya apavādaḥ / dākṣikanthīyam / māhikikanthīyam / dākṣipaladīyam / māhikipaladīyam / dākṣinagarīyam / māhikinagarīyam / dākṣigrāmīyam / māhikigrāmīyam / dākṣihradīyam / māhikihradīyam // parvatāc ca
Sanskrit only: no published translation is held for this verse.
पर्वत-शब्दाच् छः प्रत्ययो भवति शैषिकः । अणो ऽपवदः । पर्वतीयो राजा । पर्वतीयः पुरुषः ॥ विभाषा ऽमनुष्ये
parvata-śabdāc chaḥ pratyayo bhavati śaiṣikaḥ / aṇo 'pavadaḥ / parvatīyo rājā / parvatīyaḥ puruṣaḥ // vibhāṣā 'manuṣye
Sanskrit only: no published translation is held for this verse.
पर्वतशब्दाच् छः प्रत्ययो भवति वा अमनुष्ये वाच्ये । पूर्वेण नित्ये प्राप्ते विकल्प उच्यते । पर्वतीयानि फलानि, पार्वतानि फलानि । पर्वतीयमुदकम्, पार्वतमुदकम् । अमनुष्ये इति किम् ? पर्वतीयो मनुष्यः ॥ कृकण-पर्णाद् भरद्वाजे
parvataśabdāc chaḥ pratyayo bhavati vā amanuṣye vācye / pūrveṇa nitye prāpte vikalpa ucyate / parvatīyāni phalāni, pārvatāni phalāni / parvatīyamudakam, pārvatamudakam / amanuṣye iti kim ? parvatīyo manuṣyaḥ // kṛkaṇa-parṇād bharadvāje
Sanskrit only: no published translation is held for this verse.