तस्य इति षष्ठी-समर्थाद् इदम् इत्य् एतस्मिन् विषये यथाविहितं प्रत्ययो भवति । अणादयः पञ्च महोत्सर्गाः । घादयश् च प्रत्यया यथाविहितं विधीयन्ते । प्रकृतिप्रत्यय-अर्थयोः षष्ठ्य्-अर्थमात्रं तत्सम्बन्धिमात्रं च विवक्षितं, यदपरं लिङ्ग-सङ्ख्या-प्रत्यक्ष-परोक्षादिकं तत्सर्वम् अविवक्षितम् । उपगोर् इदम् औपगवम् । कापटवम् । राष्ट्रियम् । अवारपारीणम् । अनन्तरादिष्व् अनभिधानान् न भवति, देवदत्तस्य अनन्तरम् इति । संवहेस्तुरणिट् च । संवोढुः स्वं सांवहित्रम् । सिद्धः एवात्राण्, इडर्थम् उपसङ्ख्यानम् । आग्नीधः शरणे रण् भं च । आग्नीध्रम् । समिधामाधाने षेण्यण् । सामिधेन्यो मन्त्रः । सामिधेनी ऋक् ॥ रथाद्यत्
tasya iti ṣaṣṭhī-samarthād idam ity etasmin viṣaye yathāvihitaṃ pratyayo bhavati / aṇādayaḥ pañca mahotsargāḥ / ghādayaś ca pratyayā yathāvihitaṃ vidhīyante / prakṛtipratyaya-arthayoḥ ṣaṣṭhy-arthamātraṃ tatsambandhimātraṃ ca vivakṣitaṃ, yadaparaṃ liṅga-saṅkhyā-pratyakṣa-parokṣādikaṃ tatsarvam avivakṣitam / upagor idam aupagavam / kāpaṭavam / rāṣṭriyam / avārapārīṇam / anantarādiṣv anabhidhānān na bhavati, devadattasya anantaram iti / saṃvahesturaṇiṭ ca / saṃvoḍhuḥ svaṃ sāṃvahitram / siddhaḥ evātrāṇ, iḍartham upasaṅkhyānam / āgnīdhaḥ śaraṇe raṇ bhaṃ ca / āgnīdhram / samidhāmādhāne ṣeṇyaṇ / sāmidhenyo mantraḥ / sāmidhenī ṛk // rathādyat
Sanskrit only: no published translation is held for this verse.