Library·Jayaditya & Vamana: Kasikavrtti·6·6.4

Jayaditya & Vamana: Kasikavrtti 6.4

छन्दस्यमिपचोरप्यलिट्येत्वं वक्तव्यम् । व्येमानम् । अमेर्विपूर्वस्य चानशि मुक् न क्रियते । लिङि-पेचिरन् । पचेरन् इत्य् एतस्य छान्दसं ह्रस्वत्वम् । यजिवप्योश् च । आयेजे । आवेपे । लङि इटि छन्दस्यपि दृश्यते (*६,४।७३) इति अनजादेर् अपि इडागमः ॥ थलि च सेति

chandasyamipacorapyaliṭyetvaṃ vaktavyam / vyemānam / amervipūrvasya cānaśi muk na kriyate / liṅi-peciran / paceran ity etasya chāndasaṃ hrasvatvam / yajivapyoś ca / āyeje / āvepe / laṅi iṭi chandasyapi dṛśyate (*6,4.73) iti anajāder api iḍāgamaḥ // thali ca seti

Sanskrit only: no published translation is held for this verse.

थलि च सेटि परतो ऽनादेशादेः अङ्गस्य एकहल्मध्यगतस्य अतः स्थाने एकार आदेशो भवति, अभ्यासलोपश् च । पेचिथ । शेकिथ । सेटि इति किम् ? पपक्थ । थल्ग्रहणं विस्पष्टार्थम् । अक्ङिदर्थम् एतद् वचनम् इति अन्यस्येटो ऽसम्भवात् । अतः इत्य् एव, दिदेविथ । एकहल्मध्यगतस्य इत्य् एव, ततक्षिथ । ररक्षिथ । अनादेशादेर् इत्य् एव, चकणिथ । बभणिथ ॥ तॄ-फल-भज-त्रपश् च

thali ca seṭi parato 'nādeśādeḥ aṅgasya ekahalmadhyagatasya ataḥ sthāne ekāra ādeśo bhavati, abhyāsalopaś ca / pecitha / śekitha / seṭi iti kim ? papaktha / thalgrahaṇaṃ vispaṣṭārtham / akṅidartham etad vacanam iti anyasyeṭo 'sambhavāt / ataḥ ity eva, didevitha / ekahalmadhyagatasya ity eva, tatakṣitha / rarakṣitha / anādeśāder ity eva, cakaṇitha / babhaṇitha // tṝ-phala-bhaja-trapaś ca

Sanskrit only: no published translation is held for this verse.

तॄ फल भज त्रप इत्य् एतेषाम् अङ्गानाम् अत एकारादेशो भवति, अभ्यासलोपश् च लिटि क्ङिति परतः थलि च सेटि । तेरतुः । तेरुः । तेरिथ । फेलतुः । फेलुः । फेलिथ । भेजतुः । भेजुः । भेजिथ । त्रेपे, त्रेपाते, त्रेपिरे । तरतेर् गुणार्थं वचनम् । फलिभजोर् आदेशाद्यर्थम् । त्रपेर् अनेकहल्मध्यार्थम् । श्रन्थेश् च+इति वक्तव्यम् । श्रेथतुः । श्रेथुः ॥ रधो हिंसायाम्

tṝ phala bhaja trapa ity eteṣām aṅgānām ata ekārādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi / teratuḥ / teruḥ / teritha / phelatuḥ / pheluḥ / phelitha / bhejatuḥ / bhejuḥ / bhejitha / trepe, trepāte, trepire / tarater guṇārthaṃ vacanam / phalibhajor ādeśādyartham / traper anekahalmadhyārtham / śrantheś ca+iti vaktavyam / śrethatuḥ / śrethuḥ // radho hiṃsāyām

Sanskrit only: no published translation is held for this verse.

राधः हिंसायामर्थे ऽवर्णस्य एकारः आदेशो भवति, अभ्यासलोपश् च लिटि क्ङिति परतः थलि च सेटि । अपरेधतुः । अपरेधुः । अपरेधिथ । हिंसायाम् इति किम् ? रराधतुः । रराधुः । रराधिथ । अतः इत्य् एतद् इह+उपस्थितं तपरत्वकृतमपास्य कालविशेषम् असम्भवाद् अवर्णमात्रं प्रतिपादयति । अथ वा श्नाभ्यस् तयोर् आतः (*६,४।११२) इत्य् अनुवर्तते इति व्याख्येयम् । एकहल्मध्ये वा यः स स्थानी भविष्यति ॥ वा जॄ-भ्रमु-त्रसाम्

rādhaḥ hiṃsāyāmarthe 'varṇasya ekāraḥ ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi / aparedhatuḥ / aparedhuḥ / aparedhitha / hiṃsāyām iti kim ? rarādhatuḥ / rarādhuḥ / rarādhitha / ataḥ ity etad iha+upasthitaṃ taparatvakṛtamapāsya kālaviśeṣam asambhavād avarṇamātraṃ pratipādayati / atha vā śnābhyas tayor ātaḥ (*6,4.112) ity anuvartate iti vyākhyeyam / ekahalmadhye vā yaḥ sa sthānī bhaviṣyati // vā jṝ-bhramu-trasām

Sanskrit only: no published translation is held for this verse.

फणां च सप्तानाम्

phaṇāṃ ca saptānām

Sanskrit only: no published translation is held for this verse.

फणादीनां सप्तानां धातूनाम् अवर्णस्य स्थाने वा एकार आदेशो भवति, अभ्यासलोपश् च लिटि क्ङिति परतः थलि च सेटि । फेणतुः । फेणुः । फेणिथ । पफणतुः । पफणुः । पफणिथ । रेजतुः । रेजुः । रेजिथ । रराजतुः । रराजुः । रराजिथ । भ्रेजे, भ्रेजाते, भ्रेजिरे । बभ्राजे, बभ्राजाते, बभ्राजिरे । भ्रेशे, भ्रेशाते, भ्रेशिरे । बभ्राशे, बभ्राशाते, बभ्राशिरे । भ्लेशे, भ्लेशाते, भ्लेशिरे । बभ्लाशे, बभ्लाशाते, बभ्लाशिरे । स्येमतुः । स्येमुः । स्येमिथ । सस्यमतुः । सस्यमुः । सस्यमिथ । स्वेनतुः । स्वेनुः । स्वेनिथ । सस्वनतुः । सस्वनुः । सस्वनिथ । सप्तानाम् इति किम् ? दघ्बनतुः । दध्बनुः । दध्वनिथ ॥ न शस-दद-व्-आदि-गुणानाम्

phaṇādīnāṃ saptānāṃ dhātūnām avarṇasya sthāne vā ekāra ādeśo bhavati, abhyāsalopaś ca liṭi kṅiti parataḥ thali ca seṭi / pheṇatuḥ / pheṇuḥ / pheṇitha / paphaṇatuḥ / paphaṇuḥ / paphaṇitha / rejatuḥ / rejuḥ / rejitha / rarājatuḥ / rarājuḥ / rarājitha / bhreje, bhrejāte, bhrejire / babhrāje, babhrājāte, babhrājire / bhreśe, bhreśāte, bhreśire / babhrāśe, babhrāśāte, babhrāśire / bhleśe, bhleśāte, bhleśire / babhlāśe, babhlāśāte, babhlāśire / syematuḥ / syemuḥ / syemitha / sasyamatuḥ / sasyamuḥ / sasyamitha / svenatuḥ / svenuḥ / svenitha / sasvanatuḥ / sasvanuḥ / sasvanitha / saptānām iti kim ? daghbanatuḥ / dadhbanuḥ / dadhvanitha // na śasa-dada-v-ādi-guṇānām

Sanskrit only: no published translation is held for this verse.

शस दद इत्य् एतयोः वकारादीनां च धातूनां गुण इत्य् एवम् अभिनिर्वृत्तस्य च यो ऽकारः तस्य स्थाने एकारादेशो न भवति, अभ्यासलोपश् च । विशशसतुः । विशशसुः । विशशसिथ । दददे, दददाते, ददरिरे । वादीनाम् - ववमतुः । ववमुः । ववमिथ । गुणस्य - विशशरतुः । विशशरुः । विशशरिथ । लुलविथ । पुपविथ । गुणशब्दाभिनिर्वृत्तस्य अर्शब्दस्य ओकारस्य च अयम् अकारः इति एत्वं प्रतिषिध्यते ॥ अर्वणस् त्र्-असाव्-अनञः

śasa dada ity etayoḥ vakārādīnāṃ ca dhātūnāṃ guṇa ity evam abhinirvṛttasya ca yo 'kāraḥ tasya sthāne ekārādeśo na bhavati, abhyāsalopaś ca / viśaśasatuḥ / viśaśasuḥ / viśaśasitha / dadade, dadadāte, dadarire / vādīnām - vavamatuḥ / vavamuḥ / vavamitha / guṇasya - viśaśaratuḥ / viśaśaruḥ / viśaśaritha / lulavitha / pupavitha / guṇaśabdābhinirvṛttasya arśabdasya okārasya ca ayam akāraḥ iti etvaṃ pratiṣidhyate // arvaṇas tr-asāv-anañaḥ

Sanskrit only: no published translation is held for this verse.

अर्वन् इत्य् एतस्य अङ्गस्य तृ इत्य् अयम् आदेशो भवति, सुश्चेत् ततः परो न भवति, स च नञ उत्तरो न भवति । अर्वन्तौ । अर्वन्तः । अर्वन्तम्, अर्वतौ, अर्वतः । अर्वता, अर्वद्भ्याम्, अर्वद्भिः । अर्वती । आर्वतम् । असौ इति किम् ? अर्वा । अनञः इति किम् ? अनर्वाणौ । अनर्वाणः । अनर्वाणं वृषभं मन्द्रजिह्वम् ॥ मघवा बहुलम्

arvan ity etasya aṅgasya tṛ ity ayam ādeśo bhavati, suścet tataḥ paro na bhavati, sa ca naña uttaro na bhavati / arvantau / arvantaḥ / arvantam, arvatau, arvataḥ / arvatā, arvadbhyām, arvadbhiḥ / arvatī / ārvatam / asau iti kim ? arvā / anañaḥ iti kim ? anarvāṇau / anarvāṇaḥ / anarvāṇaṃ vṛṣabhaṃ mandrajihvam // maghavā bahulam

Sanskrit only: no published translation is held for this verse.

मघवन् इत्य् एतस्य अङ्गस्य बहुलं तृ इत्य् अयम् आदेशो भवति । मघवान्, मघवन्तौ, मघवन्तः । मघवन्तम्, मघवन्तौ, मघवतः । मघवता । मघवती । माघवतम् । न च भवति । मघवा, मघवानौ, मघवानः । मघवानम्, मघवानौ, मघोनः । मघोना, मघवभ्याम्, मघवभिः । मघोनी । माघवनम् ॥ भस्य

maghavan ity etasya aṅgasya bahulaṃ tṛ ity ayam ādeśo bhavati / maghavān, maghavantau, maghavantaḥ / maghavantam, maghavantau, maghavataḥ / maghavatā / maghavatī / māghavatam / na ca bhavati / maghavā, maghavānau, maghavānaḥ / maghavānam, maghavānau, maghonaḥ / maghonā, maghavabhyām, maghavabhiḥ / maghonī / māghavanam // bhasya

Sanskrit only: no published translation is held for this verse.

भस्य इत्य् अयम् अधिकारः आ अध्यायपरिसमाअप्तेः । यद् इत ऊर्ध्वम् अनुकमिष्यामः भस्य इत्य् एवं तद्वेदिव्यम् । वक्ष्यति - पादः पत्

bhasya ity ayam adhikāraḥ ā adhyāyaparisamāapteḥ / yad ita ūrdhvam anukamiṣyāmaḥ bhasya ity evaṃ tadvedivyam / vakṣyati - pādaḥ pat

Sanskrit only: no published translation is held for this verse.

पादः पत् (*६,४।१३०) । पादः इति पादशब्दो लुप्ताकारो गृह्यते । तदन्तस्य अङ्गस्य भस्य पत् इत्य् अयम् आदेशो भवति । स च निर्दिश्यमानस्यादेशा भवन्ति इति पाच्छब्दस्य+एव भवति, न तदन्तस्य सर्वस्य । द्विपदः पश्य । द्विपदा । द्विपदे । द्विपदिकां ददाति । त्रिपदिकां ददाति । वैयाघ्रपद्यः ॥ वसोः सम्प्रसारणं

pādaḥ pat (*6,4.130) / pādaḥ iti pādaśabdo luptākāro gṛhyate / tadantasya aṅgasya bhasya pat ity ayam ādeśo bhavati / sa ca nirdiśyamānasyādeśā bhavanti iti pācchabdasya+eva bhavati, na tadantasya sarvasya / dvipadaḥ paśya / dvipadā / dvipade / dvipadikāṃ dadāti / tripadikāṃ dadāti / vaiyāghrapadyaḥ // vasoḥ samprasāraṇaṃ

Sanskrit only: no published translation is held for this verse.

वस्वन्तस्य भस्य सम्प्रसारणं भवति । विदुषः पश्य । विदुषा । विदुषे । पेचुषः । पश्य । पेचुषा । पेचुषे । पपुषः पश्य । आकारलोपे कर्तव्ये वसुसंप्रसारणस्य व्याश्रयत्वाद् असिद्धत्वम् न भवति । वसुग्रहणे क्वसोर् अपि ग्रहणम् इष्यते ॥ वाह ऊट्ः

vasvantasya bhasya samprasāraṇaṃ bhavati / viduṣaḥ paśya / viduṣā / viduṣe / pecuṣaḥ / paśya / pecuṣā / pecuṣe / papuṣaḥ paśya / ākāralope kartavye vasusaṃprasāraṇasya vyāśrayatvād asiddhatvam na bhavati / vasugrahaṇe kvasor api grahaṇam iṣyate // vāha ūṭḥ

Sanskrit only: no published translation is held for this verse.

वाहः इत्य् एवम् अन्तस्य भस्य ऊट्ः इत्य् एतत् सम्प्रसारणं भवति । प्रष्ठौहः । प्रष्ठौहा । प्रष्ठौहे । दित्यौहः । दित्यौहा । दित्यौहे । एत्य्-एधत्य्-ऊठ्सु (*६,१।८९) इति वृद्धिः । अथ किमर्थमूट्ः क्रियते, सम्प्रसारणे एव कृते गुणे च वृद्धिर् एचि (*६,१।८८) इति वृद्धौ सत्याम् सिद्धं रूपं भवति प्रष्ठौहः इति, अनकारान्ते चोपपदे वहेर्ण्विर्न दृश्यते ? झापनार्थम् । एतज् ज्ञापयति, भवत्येषा परिभाषा असिद्धं बहिरङ्गम् अन्तरङ्गे इति । तस्यां हि सत्यां बहिरङ्गस्य सम्प्रसारणस्य असिद्धत्वात् अन्तरङ्गो गुणो न स्यात् ॥ श्व-युव-मघोनाम् अतद्धिते

vāhaḥ ity evam antasya bhasya ūṭḥ ity etat samprasāraṇaṃ bhavati / praṣṭhauhaḥ / praṣṭhauhā / praṣṭhauhe / dityauhaḥ / dityauhā / dityauhe / ety-edhaty-ūṭhsu (*6,1.89) iti vṛddhiḥ / atha kimarthamūṭḥ kriyate, samprasāraṇe eva kṛte guṇe ca vṛddhir eci (*6,1.88) iti vṛddhau satyām siddhaṃ rūpaṃ bhavati praṣṭhauhaḥ iti, anakārānte copapade vaherṇvirna dṛśyate ? jhāpanārtham / etaj jñāpayati, bhavatyeṣā paribhāṣā asiddhaṃ bahiraṅgam antaraṅge iti / tasyāṃ hi satyāṃ bahiraṅgasya samprasāraṇasya asiddhatvāt antaraṅgo guṇo na syāt // śva-yuva-maghonām ataddhite

Sanskrit only: no published translation is held for this verse.

श्वन् युवन् मघवन् इत्य् एतेषाम् अङ्गानाम् अतद्धिते प्रत्यये परतः सम्प्रसारणं भवति । शुनः । शुना । शुने । यूनः । यूना । यूने । मघोनः । मघोना । मघोने । अतद्धिते इति किम् ? शौवं मांसम् । यौवनं वर्तते । माघवनः स्थालीपाकः । शुनो विकारे प्राणिरजतादिभ्यो ऽञ् (*४,३।१५४), द्वारादित्वादैजागमः । श्वादीनाम् एतत् सम्प्रसारणं नकारान्तानाम् इष्यते । इह न भवति, युवतीः पश्य । मघवतः । मघवता । मघवते । तदर्थम् उत्तरत्र योगविभागम् कुर्वन्ति । अल्लोपः । अनः । अनः इत्य् उभयोः शेषः इति ॥ अल्-लोपो ऽनः

śvan yuvan maghavan ity eteṣām aṅgānām ataddhite pratyaye parataḥ samprasāraṇaṃ bhavati / śunaḥ / śunā / śune / yūnaḥ / yūnā / yūne / maghonaḥ / maghonā / maghone / ataddhite iti kim ? śauvaṃ māṃsam / yauvanaṃ vartate / māghavanaḥ sthālīpākaḥ / śuno vikāre prāṇirajatādibhyo 'ñ (*4,3.154), dvārāditvādaijāgamaḥ / śvādīnām etat samprasāraṇaṃ nakārāntānām iṣyate / iha na bhavati, yuvatīḥ paśya / maghavataḥ / maghavatā / maghavate / tadartham uttaratra yogavibhāgam kurvanti / allopaḥ / anaḥ / anaḥ ity ubhayoḥ śeṣaḥ iti // al-lopo 'naḥ

Sanskrit only: no published translation is held for this verse.

षपूर्व-हन्-धृतराज्ञाम् अणि

ṣapūrva-han-dhṛtarājñām aṇi

Sanskrit only: no published translation is held for this verse.

षकारपूर्वो यः अन् हनः धृतराज्ञश् च तस्य अकारलोपो भवति अणि परतः । औक्ष्णः । ताक्ष्णः । भ्रौणघ्नः । धार्तराज्ञः । षपूर्वहन्धृतराज्ञाम् इति किम् ? सामनः । वैमनः । अन् इति प्रकृतिभावेन अल्लोपटिलोपौ उभावपि न भवतः । अणि इति किम् ? ताक्षण्यः ॥ विभाषा ङिश्योः

ṣakārapūrvo yaḥ an hanaḥ dhṛtarājñaś ca tasya akāralopo bhavati aṇi parataḥ / aukṣṇaḥ / tākṣṇaḥ / bhrauṇaghnaḥ / dhārtarājñaḥ / ṣapūrvahandhṛtarājñām iti kim ? sāmanaḥ / vaimanaḥ / an iti prakṛtibhāvena allopaṭilopau ubhāvapi na bhavataḥ / aṇi iti kim ? tākṣaṇyaḥ // vibhāṣā ṅiśyoḥ

Sanskrit only: no published translation is held for this verse.

ङौ परतः शीशब्दे च अनो विभाषा अकारलोपो भवति । राज्ञि, राजनि । साम्नि, सामनि । साम्नी, सामनी ॥ न संयोगाद् व-म्-अन्तात्

ṅau parataḥ śīśabde ca ano vibhāṣā akāralopo bhavati / rājñi, rājani / sāmni, sāmani / sāmnī, sāmanī // na saṃyogād va-m-antāt

Sanskrit only: no published translation is held for this verse.

वकार-मकारान्तात् संयोगाद् उत्तरस्य अनः अकारस्य लोपो न भवति । पर्वणा । पर्वणे । अथर्वणा । अथर्वणे । संयोगात् इति किम् ? प्रतिदीव्ना । प्रतिदीव्ने । साम्ना । साम्ने । वमन्तात् इति किम् ? तक्ष्णा । तक्ष्णे ॥ अचः

vakāra-makārāntāt saṃyogād uttarasya anaḥ akārasya lopo na bhavati / parvaṇā / parvaṇe / atharvaṇā / atharvaṇe / saṃyogāt iti kim ? pratidīvnā / pratidīvne / sāmnā / sāmne / vamantāt iti kim ? takṣṇā / takṣṇe // acaḥ

Sanskrit only: no published translation is held for this verse.

अचः इत्य् अयम् अञ्चतिर्लुप्तनकारो गृह्यते । तदन्तस्य भस्य अकारस्य लोपो भवति । दधीचः पश्य । दधीचा । दधीचे । मधूचः पश्य । मधूचा । मधूचे ॥ उद ईत्

acaḥ ity ayam añcatirluptanakāro gṛhyate / tadantasya bhasya akārasya lopo bhavati / dadhīcaḥ paśya / dadhīcā / dadhīce / madhūcaḥ paśya / madhūcā / madhūce // uda īt

Sanskrit only: no published translation is held for this verse.

उदः उत्तरस्य अचः ईकारादेशो भवति । उदीचः । उदीचा । उदीचे ॥ आतो धातोः

udaḥ uttarasya acaḥ īkārādeśo bhavati / udīcaḥ / udīcā / udīce // āto dhātoḥ

Sanskrit only: no published translation is held for this verse.

मन्त्रेष्वाङ्यादेरात्मनः

mantreṣvāṅyāderātmanaḥ

Sanskrit only: no published translation is held for this verse.

मन्त्रेषु आगि परतः आत्मनः आदेर्लोपो भवति । त्मना देवेभ्यः । त्मना सोमेषु । मन्त्रेषु इति किम् ? आत्मना कृतम् । आङि इति किम् ? यदात्मनस्तन्नो वरिष्ठा । आगो ऽन्यत्र अपि दृश्यते । त्मन्या समञ्जन् ॥ ति विंशतेर् डिति

mantreṣu āgi parataḥ ātmanaḥ āderlopo bhavati / tmanā devebhyaḥ / tmanā someṣu / mantreṣu iti kim ? ātmanā kṛtam / āṅi iti kim ? yadātmanastanno variṣṭhā / āgo 'nyatra api dṛśyate / tmanyā samañjan // ti viṃśater ḍiti

Sanskrit only: no published translation is held for this verse.

भस्य विंशतेः तिशब्दस्य् अङिति प्रत्यये लोपो भवति । विंशत्या क्रीतः विंशकः । विंशं शतम् । विंशतेः पूर्णो विंशः । एकविंशः । डिति इति किम् ? विंशत्या ॥ टेः

bhasya viṃśateḥ tiśabdasy aṅiti pratyaye lopo bhavati / viṃśatyā krītaḥ viṃśakaḥ / viṃśaṃ śatam / viṃśateḥ pūrṇo viṃśaḥ / ekaviṃśaḥ / ḍiti iti kim ? viṃśatyā // ṭeḥ

Sanskrit only: no published translation is held for this verse.

टिसञ्ज्ञकस्य डिति प्रत्यये परतः लोपो भवति । कुमुद्वान् । नड्वान् । वेतस्वान् । उपसरजः । मन्दुरजः । त्रिंशता क्रीतः त्रिंशकः । डिति अभस्य अपि अनुबन्धकरणसामर्थ्यत् टिलोपो भवति ॥ नस् तद्धिते

ṭisañjñakasya ḍiti pratyaye parataḥ lopo bhavati / kumudvān / naḍvān / vetasvān / upasarajaḥ / mandurajaḥ / triṃśatā krītaḥ triṃśakaḥ / ḍiti abhasya api anubandhakaraṇasāmarthyat ṭilopo bhavati // nas taddhite

Sanskrit only: no published translation is held for this verse.

शिखण्डिनः शैखण्डाः । सूकरसद्मनः सौकरसद्माः । सुपर्वणः सौपर्णाः । अश्मनो विकार उपसङ्ख्यानम् । अश्मनो विकारः आश्मः । अश्मनो ऽन्यः । चर्मणः कोश उपसङ्ख्यानम् । चार्मः कोशः । चार्मणो ऽन्यः । शुनः सङ्कोच उपसङ्ख्यानम् । शौवः सङ्कोचः । शौवनो ऽन्यः । अव्ययानां च सायंप्रतिकाद्यर्थम् उपसङ्ख्यानम् । के पुनः सायंप्रातिकादयः ? येषाम् अव्ययानाम् अविहितष्टिलोपः, प्रयोगे च दृश्यते, ते सायंप्रातिकप्रकाराः ग्रहीतव्याः । सायंप्रातर्भवः सायंप्रातिकः । पौनःपुनिकः । बाह्यः । कौतस्कुतः । कालाट् ठञ् (*४,३।११) इति ठञ्प्रत्ययः । ट्युट्युलौ तु नेष्येते । आरातीयः, शाश्वतिकः, शाश्वतः इत्य् एवम् आदिषु न दृश्यते टिलोपः ॥ अह्नष् ट-खेर् एव

śikhaṇḍinaḥ śaikhaṇḍāḥ / sūkarasadmanaḥ saukarasadmāḥ / suparvaṇaḥ sauparṇāḥ / aśmano vikāra upasaṅkhyānam / aśmano vikāraḥ āśmaḥ / aśmano 'nyaḥ / carmaṇaḥ kośa upasaṅkhyānam / cārmaḥ kośaḥ / cārmaṇo 'nyaḥ / śunaḥ saṅkoca upasaṅkhyānam / śauvaḥ saṅkocaḥ / śauvano 'nyaḥ / avyayānāṃ ca sāyaṃpratikādyartham upasaṅkhyānam / ke punaḥ sāyaṃprātikādayaḥ ? yeṣām avyayānām avihitaṣṭilopaḥ, prayoge ca dṛśyate, te sāyaṃprātikaprakārāḥ grahītavyāḥ / sāyaṃprātarbhavaḥ sāyaṃprātikaḥ / paunaḥpunikaḥ / bāhyaḥ / kautaskutaḥ / kālāṭ ṭhañ (*4,3.11) iti ṭhañpratyayaḥ / ṭyuṭyulau tu neṣyete / ārātīyaḥ, śāśvatikaḥ, śāśvataḥ ity evam ādiṣu na dṛśyate ṭilopaḥ // ahnaṣ ṭa-kher eva

Sanskrit only: no published translation is held for this verse.

अहन् इत्य् एतस्य टखोर् एव परतः टिलोपो भवति । द्वे अहनी समाहृते द्व्यहः त्र्यहः । द्वे अहनी अधीष्टो भृतो भूतो भावी वा द्व्यहीनः । त्र्यहीनः । अह्नां समूहः क्रतुः अहीनः । अह्नः समूहे खो वक्तव्यः । सिद्धे सति आरम्भो नियमार्थः । इह मा भूत्, अह्ना निर्वृत्तम् आह्निकम् । एवकारकरणम् विस्पष्टार्थम् । अह्नः एव टखोः इत्य् एवं नियमो न भविस्यति, आत्माध्वानौ खे (*६,१।१६९) इति प्रकृतिभावविधानात् ॥ ओर्गुणः

ahan ity etasya ṭakhor eva parataḥ ṭilopo bhavati / dve ahanī samāhṛte dvyahaḥ tryahaḥ / dve ahanī adhīṣṭo bhṛto bhūto bhāvī vā dvyahīnaḥ / tryahīnaḥ / ahnāṃ samūhaḥ kratuḥ ahīnaḥ / ahnaḥ samūhe kho vaktavyaḥ / siddhe sati ārambho niyamārthaḥ / iha mā bhūt, ahnā nirvṛttam āhnikam / evakārakaraṇam vispaṣṭārtham / ahnaḥ eva ṭakhoḥ ity evaṃ niyamo na bhavisyati, ātmādhvānau khe (*6,1.169) iti prakṛtibhāvavidhānāt // orguṇaḥ

Sanskrit only: no published translation is held for this verse.

ढे लोपो ऽकद्र्वाः

ḍhe lopo 'kadrvāḥ

Sanskrit only: no published translation is held for this verse.

ढे परतः उवर्णान्तस्य भस्य अकर्वाः लोपो भवति । कामण्डलेयः । शैतवाहेयः । जांवेयः । माद्रबाहेयः । अकद्र्वाः इति किम् ? काद्रवेयो मन्त्रम् अपश्यत् ॥ यस्य+इति च

ḍhe parataḥ uvarṇāntasya bhasya akarvāḥ lopo bhavati / kāmaṇḍaleyaḥ / śaitavāheyaḥ / jāṃveyaḥ / mādrabāheyaḥ / akadrvāḥ iti kim ? kādraveyo mantram apaśyat // yasya+iti ca

Sanskrit only: no published translation is held for this verse.

इवर्णान्तस्य अवर्णातस्य च भस्य इकारे परे तद्धिते च लोपो भवति । इवर्णान्तस्य ईकारे - दाक्षी । प्लाक्षी । सखी । सवर्नदीर्घत्वे हि सति अतिसखेर् आगच्छति इत्य् अत्र एकादेशस्य अन्तवत्त्वाद् अस्खि इति घिसञ्ज्ञायाः प्रतिषेधः स्यात् । इवर्णान्तस्य तद्धिते - दुलि - दौलेयः । वलि - वालेयः । अत्रि - आत्रेयः । अवर्णान्तस्य ईकारे - कुमारी । गौरी । शार्ङ्गरवी । अवर्णान्तस्य तद्धिते - दाक्षिः । प्लाक्षिः । चौडिः । बालाकिः । सौमित्रिः । यस्येत्यौङः श्यां प्रतिषेधो वक्तव्यः । काण्डे । कुड्ये । सौर्ये हिमवतः शृङ्गे । औङः शीभावे कृते यस्य+इति च इति, सूर्यतिष्यागस्त्यमत्स्यानां य उपधायाः (*६,४।१४९) इति च लोपः प्राप्नोति । इयङुवङ्भ्यां लोपो भवति विप्रतिषेधेन । वत्सान् प्रीणाति वत्सप्रीः, तस्य अपत्यम् वात्सप्रेयः । चतुष्पाद्भ्यो डञ् (*४,१।१३५) इति ढञ्प्रत्ययः । लोखाभ्रूः शुभ्रादिः, तस्याः अपत्यम् लैखाभ्रेयः ॥ सूर्य-तिष्य-अगस्त्य-मत्स्यानां य उपधायाः

ivarṇāntasya avarṇātasya ca bhasya ikāre pare taddhite ca lopo bhavati / ivarṇāntasya īkāre - dākṣī / plākṣī / sakhī / savarnadīrghatve hi sati atisakher āgacchati ity atra ekādeśasya antavattvād askhi iti ghisañjñāyāḥ pratiṣedhaḥ syāt / ivarṇāntasya taddhite - duli - dauleyaḥ / vali - vāleyaḥ / atri - ātreyaḥ / avarṇāntasya īkāre - kumārī / gaurī / śārṅgaravī / avarṇāntasya taddhite - dākṣiḥ / plākṣiḥ / cauḍiḥ / bālākiḥ / saumitriḥ / yasyetyauṅaḥ śyāṃ pratiṣedho vaktavyaḥ / kāṇḍe / kuḍye / saurye himavataḥ śṛṅge / auṅaḥ śībhāve kṛte yasya+iti ca iti, sūryatiṣyāgastyamatsyānāṃ ya upadhāyāḥ (*6,4.149) iti ca lopaḥ prāpnoti / iyaṅuvaṅbhyāṃ lopo bhavati vipratiṣedhena / vatsān prīṇāti vatsaprīḥ, tasya apatyam vātsapreyaḥ / catuṣpādbhyo ḍañ (*4,1.135) iti ḍhañpratyayaḥ / lokhābhrūḥ śubhrādiḥ, tasyāḥ apatyam laikhābhreyaḥ // sūrya-tiṣya-agastya-matsyānāṃ ya upadhāyāḥ

Sanskrit only: no published translation is held for this verse.

मत्स्यस्य ङ्याम् इति वक्तव्यम् । इह मा भूत्, मत्स्यस्य+इदं मांसं मात्स्यम् । सूर्यागस्त्ययोश्छे च ग्यां च । सौरीयः । सौरी । आगस्तीयः । आगस्ती । इह मा भूत्, सौर्यम् चरुं निर्वपेत् । आगस्त्यः । तिष्यपुष्ययोर् नक्षत्राणि । तिष्येण नक्षत्रेण युक्तः कालः तैषः । पौषः । अन्तिकस्य तसि कादिलोप आद्युदात्तं च । अन्तिकशब्दस्य तसिप्रत्यये परतः ककारदेः शब्दस्य लोपः, आद्युदात्तत्वम् च । अन्तितो न दूरात् । तमे तादेश् च । तमप्रत्यये अन्तिकशब्दस्य तकारादेः ककारादेश् च लोपो वक्तव्यः । तत्र तादिलोपे - अन्तमः । कादिलोपे - अन्तितमः । कादिलोपे बहुलम् इति वक्तव्यम् । अन्यत्र अपि हि वृश्यते, अन्तिके सीदति इति अन्तिषत् । पूर्वपदात् (*८,३।१०६) इति षत्वम् । ये च । अन्तियः ॥ हलस् तद्धितस्य

matsyasya ṅyām iti vaktavyam / iha mā bhūt, matsyasya+idaṃ māṃsaṃ mātsyam / sūryāgastyayośche ca gyāṃ ca / saurīyaḥ / saurī / āgastīyaḥ / āgastī / iha mā bhūt, sauryam caruṃ nirvapet / āgastyaḥ / tiṣyapuṣyayor nakṣatrāṇi / tiṣyeṇa nakṣatreṇa yuktaḥ kālaḥ taiṣaḥ / pauṣaḥ / antikasya tasi kādilopa ādyudāttaṃ ca / antikaśabdasya tasipratyaye parataḥ kakāradeḥ śabdasya lopaḥ, ādyudāttatvam ca / antito na dūrāt / tame tādeś ca / tamapratyaye antikaśabdasya takārādeḥ kakārādeś ca lopo vaktavyaḥ / tatra tādilope - antamaḥ / kādilope - antitamaḥ / kādilope bahulam iti vaktavyam / anyatra api hi vṛśyate, antike sīdati iti antiṣat / pūrvapadāt (*8,3.106) iti ṣatvam / ye ca / antiyaḥ // halas taddhitasya

Sanskrit only: no published translation is held for this verse.

आपत्यस्य च तद्धिते ऽनाति

āpatyasya ca taddhite 'nāti

Sanskrit only: no published translation is held for this verse.

आपत्ययकारस्य हलः उत्तरस्य तद्धिते अनाकारादौ लोपो भवति । गार्ग्याणां समूहो गार्गकम् । वात्सकम् । आपत्यस्य इति किम् ? साङ्काश्यकः । काम्पिल्यकः । तद्धितग्रहणं ईत्यनापत्यस्य अपि लोपार्थम् । सौमी इष्टिः । अनाति इति किम् ? गार्ग्यायणः । वात्स्यायनः । हलः इत्य् एव, कारिकेयस्य अपत्यं कारिकेयिः ॥ क्यच्व्योश् च

āpatyayakārasya halaḥ uttarasya taddhite anākārādau lopo bhavati / gārgyāṇāṃ samūho gārgakam / vātsakam / āpatyasya iti kim ? sāṅkāśyakaḥ / kāmpilyakaḥ / taddhitagrahaṇaṃ ītyanāpatyasya api lopārtham / saumī iṣṭiḥ / anāti iti kim ? gārgyāyaṇaḥ / vātsyāyanaḥ / halaḥ ity eva, kārikeyasya apatyaṃ kārikeyiḥ // kyacvyoś ca

Sanskrit only: no published translation is held for this verse.

क्य च्वि इत्य् एतयोश् च परतः आपत्ययकारस्य हल उत्तरस्य लोपो भवति । वात्सीयति । गार्गीयति । वात्सीयते । गार्गीयते । च्वौ - गार्गीभूतः । वात्सीभूतः । आपत्यस्य इत्य् एव, साङ्काश्यायते । साङ्काश्यभूतः । हलः इत्य् एव, कारिकेयीयति । कारिकेयीभूतः ॥ बिल्वक-आदिभ्यश् छस्य लुक्

kya cvi ity etayoś ca parataḥ āpatyayakārasya hala uttarasya lopo bhavati / vātsīyati / gārgīyati / vātsīyate / gārgīyate / cvau - gārgībhūtaḥ / vātsībhūtaḥ / āpatyasya ity eva, sāṅkāśyāyate / sāṅkāśyabhūtaḥ / halaḥ ity eva, kārikeyīyati / kārikeyībhūtaḥ // bilvaka-ādibhyaś chasya luk

Sanskrit only: no published translation is held for this verse.

नडादिषु बल्वादयः पठ्यन्ते । नडादीनां कुक् च (*४,२।९१) इति कृतकुगागमा बिल्वकादयो भवन्ति । तेभ्यः उत्तरस्य छस्य भस्य तद्धिते परतो लुग् भवति । बिल्वा यस्यां सन्ति बिल्वकीया, तस्यां भवाः बैल्वकाः । वेणुकीया - वैणुकाः । वेत्रकीया - वैत्रकाः । वेतसकीया - वैतसका । तृणकीया - तार्णकाः । इक्षुकीया ऐक्षुकाः । काष्ठकीया - काष्ठकाः । कपोतकीया - कापोतकाः । क्रुञ्चायां ह्रस्वत्वं च । क्रुञ्चकीया - क्रौञ्चकाः । छग्रहणम् किम् ? छमात्रस्य लुग् यथा स्यात्, कुको निवृत्तिर् मा भूत् इति । अन्यथा हि संनियोगशिष्टानाम् अन्यतरापाये उभयोर् अपि अभावः इति कुगपि निवर्तेत । लुग्ग्रहणं सर्वलोपो यथा स्याद्, यकारमात्रस्य मा भूत् ॥ तुर् इष्ठ-इम-ईयस्सु

naḍādiṣu balvādayaḥ paṭhyante / naḍādīnāṃ kuk ca (*4,2.91) iti kṛtakugāgamā bilvakādayo bhavanti / tebhyaḥ uttarasya chasya bhasya taddhite parato lug bhavati / bilvā yasyāṃ santi bilvakīyā, tasyāṃ bhavāḥ bailvakāḥ / veṇukīyā - vaiṇukāḥ / vetrakīyā - vaitrakāḥ / vetasakīyā - vaitasakā / tṛṇakīyā - tārṇakāḥ / ikṣukīyā aikṣukāḥ / kāṣṭhakīyā - kāṣṭhakāḥ / kapotakīyā - kāpotakāḥ / kruñcāyāṃ hrasvatvaṃ ca / kruñcakīyā - krauñcakāḥ / chagrahaṇam kim ? chamātrasya lug yathā syāt, kuko nivṛttir mā bhūt iti / anyathā hi saṃniyogaśiṣṭānām anyatarāpāye ubhayor api abhāvaḥ iti kugapi nivarteta / luggrahaṇaṃ sarvalopo yathā syād, yakāramātrasya mā bhūt // tur iṣṭha-ima-īyassu

Sanskrit only: no published translation is held for this verse.

टेः

ṭeḥ

Sanskrit only: no published translation is held for this verse.

भस्य टेर्लोपो भवति इष्ठेमेयस्सु परतः । पटु - पटिष्ठः । पटिमा । पटीयान् । लघु - लघिष्ठः । लघिमा । लघीयान् । णाविष्ठवत् प्रातिपदिकस्य कार्यं भवति इति वक्तव्यम् । किं प्रयोजनम् ? पुंवद्भावरभावटिलोपयणादि। परार्थम् । पुंवद्भावः - एनीमाचष्टे एतयति । श्येतयति । तसिलादिष्वाकृत्वसुचः (*६,३।३५) इति इष्ठे पुंवद्भावः उक्तः । रभावः - पृथुमाचष्टे प्रथयति । म्रदयति । टिलोपः - पटुनाचष्टे पटयति । लघयति । यणादिपरम् - स्थूलमाचष्टे स्थवयति । भारद्वाजीयास्तु पठन्ति, णाविष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरविन्मतोर्लुक्कनर्थम् इति । स्रग्विणमाचष्टे स्रजयति । वसुमन्तमाचष्टे वसयति । युवानमाचष्टे यवयति । कन्यति । एतद् उभयम् अपि उदाहरणमात्रम्, न परिगणनम् । प्रादयो ऽपि हीष्यन्ते, प्रियमाचष्टे प्रापयति ॥ स्थूल-दूर-युव-ह्रस्व-क्षिप्रक्षुद्राणां यणादिपरं पूर्वस्य च गुणः

bhasya ṭerlopo bhavati iṣṭhemeyassu parataḥ / paṭu - paṭiṣṭhaḥ / paṭimā / paṭīyān / laghu - laghiṣṭhaḥ / laghimā / laghīyān / ṇāviṣṭhavat prātipadikasya kāryaṃ bhavati iti vaktavyam / kiṃ prayojanam ? puṃvadbhāvarabhāvaṭilopayaṇādi. parārtham / puṃvadbhāvaḥ - enīmācaṣṭe etayati / śyetayati / tasilādiṣvākṛtvasucaḥ (*6,3.35) iti iṣṭhe puṃvadbhāvaḥ uktaḥ / rabhāvaḥ - pṛthumācaṣṭe prathayati / mradayati / ṭilopaḥ - paṭunācaṣṭe paṭayati / laghayati / yaṇādiparam - sthūlamācaṣṭe sthavayati / bhāradvājīyāstu paṭhanti, ṇāviṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparavinmatorlukkanartham iti / sragviṇamācaṣṭe srajayati / vasumantamācaṣṭe vasayati / yuvānamācaṣṭe yavayati / kanyati / etad ubhayam api udāharaṇamātram, na parigaṇanam / prādayo 'pi hīṣyante, priyamācaṣṭe prāpayati // sthūla-dūra-yuva-hrasva-kṣiprakṣudrāṇāṃ yaṇādiparaṃ pūrvasya ca guṇaḥ

Sanskrit only: no published translation is held for this verse.

स्थूल दूर युव ह्रस्व क्षिप्र क्षुद्र इत्य् एतेषां यणादिपरं लुप्यते इष्ठेमेयस्सु परतः, पूर्वस्य च गुणो भवति । स्थूल - स्थविष्ठः । स्थवीयान् । दूर - दविष्ठः । दवीयान् । युवन् - यविष्ठः । यवीयान् । ह्रस्व - ह्रसिष्ठः । ह्रसिमा । ह्रसीयान् । क्षिप्र - क्षेपिष्ठः । क्षेपिमा । क्षेपीयान् । क्षुद्र - क्षोदिष्ठः । क्षोदिमा । क्षोदीयान् । ह्रस्वक्षिप्रक्षुद्रशब्दाः पृथ्वादिषु पठ्यन्ते । परग्रहणं किम् ? यविष्ठः, यवीयान्, ह्रसिष्ठः, ह्रसीयान् इत्य् अत्र पूर्वस्य यणादेर्लोपो मा भूत् । पूर्वग्रहणं विस्पष्टार्थम् ॥ प्रिय-स्थिर-स्फिर-उरु-बहुल-गुरु-वृद्ध-तृप्र-दीर्घ-वृन्दारकाणां प्र-स्थ-स्फ-वर्-बंहि-गर्-वर्षि-त्रब्-द्राघि-वृन्दाः

sthūla dūra yuva hrasva kṣipra kṣudra ity eteṣāṃ yaṇādiparaṃ lupyate iṣṭhemeyassu parataḥ, pūrvasya ca guṇo bhavati / sthūla - sthaviṣṭhaḥ / sthavīyān / dūra - daviṣṭhaḥ / davīyān / yuvan - yaviṣṭhaḥ / yavīyān / hrasva - hrasiṣṭhaḥ / hrasimā / hrasīyān / kṣipra - kṣepiṣṭhaḥ / kṣepimā / kṣepīyān / kṣudra - kṣodiṣṭhaḥ / kṣodimā / kṣodīyān / hrasvakṣiprakṣudraśabdāḥ pṛthvādiṣu paṭhyante / paragrahaṇaṃ kim ? yaviṣṭhaḥ, yavīyān, hrasiṣṭhaḥ, hrasīyān ity atra pūrvasya yaṇāderlopo mā bhūt / pūrvagrahaṇaṃ vispaṣṭārtham // priya-sthira-sphira-uru-bahula-guru-vṛddha-tṛpra-dīrgha-vṛndārakāṇāṃ pra-stha-spha-var-baṃhi-gar-varṣi-trab-drāghi-vṛndāḥ

Sanskrit only: no published translation is held for this verse.

बहोर् लोपो भू च बहोः

bahor lopo bhū ca bahoḥ

Sanskrit only: no published translation is held for this verse.

इष्ठस्य यिट् च

iṣṭhasya yiṭ ca

Sanskrit only: no published translation is held for this verse.

बहोर् उत्तरस्य इष्ठस्य यिडागमो भवति, बहोश् च भूरादेशो भवति । भूयिष्ठः । लोपापवादो यिडागमः, तस्मिन्न् इकार उच्चारणार्थः ॥ ज्याद् आद् ईयसः

bahor uttarasya iṣṭhasya yiḍāgamo bhavati, bahoś ca bhūrādeśo bhavati / bhūyiṣṭhaḥ / lopāpavādo yiḍāgamaḥ, tasminn ikāra uccāraṇārthaḥ // jyād ād īyasaḥ

Sanskrit only: no published translation is held for this verse.

ज्यदुत्तरस्य ईयसः आकार आदेशो भवति । ज्यायान् । लोपस्य यिटा व्यवहितत्वात् आत् इत्य् उच्यते । लोपे हि सति अकृद्यकार इति दीर्घत्वेन ज्यायान् इति सिध्यति ॥ र ऋतो हलादेर् लघोः

jyaduttarasya īyasaḥ ākāra ādeśo bhavati / jyāyān / lopasya yiṭā vyavahitatvāt āt ity ucyate / lope hi sati akṛdyakāra iti dīrghatvena jyāyān iti sidhyati // ra ṛto halāder laghoḥ

Sanskrit only: no published translation is held for this verse.

रशब्द आदेशो भवति ऋकारस्य हलादेर् लघोः इष्ठेमेयस्सु परतः । प्रथिष्ठः । प्रथिमा । प्रथीयान् । म्रदिष्ठः । म्रदिमा । म्रदीयान् । ऋतः इति किम् ? पटिष्ठः स् । पटिमा । पटीयान् । हलादेः इति किम् ? ऋजिष्ठः । ऋजिमा । ऋजीयान् । लघोः इति किम् ? कृष्णा - कृष्णिष्ठः । कृष्णिमा । कृष्णीयान् । परिगणनम् अत्र कर्तव्यम् । पृथुं मृदुं भृशं च+एव कृशं च दृढम् एव च । परिपूर्वं वृढं च+एव षडेतान् रविधौ स्मरेत् ॥ ततः इह न भवति, कृतमाचष्टे कृतयति । मातरमाचष्टे मातयति । भ्रातयति ॥ विभाषा र्जोश् छन्दसि

raśabda ādeśo bhavati ṛkārasya halāder laghoḥ iṣṭhemeyassu parataḥ / prathiṣṭhaḥ / prathimā / prathīyān / mradiṣṭhaḥ / mradimā / mradīyān / ṛtaḥ iti kim ? paṭiṣṭhaḥ s / paṭimā / paṭīyān / halādeḥ iti kim ? ṛjiṣṭhaḥ / ṛjimā / ṛjīyān / laghoḥ iti kim ? kṛṣṇā - kṛṣṇiṣṭhaḥ / kṛṣṇimā / kṛṣṇīyān / parigaṇanam atra kartavyam / pṛthuṃ mṛduṃ bhṛśaṃ ca+eva kṛśaṃ ca dṛḍham eva ca / paripūrvaṃ vṛḍhaṃ ca+eva ṣaḍetān ravidhau smaret // tataḥ iha na bhavati, kṛtamācaṣṭe kṛtayati / mātaramācaṣṭe mātayati / bhrātayati // vibhāṣā rjoś chandasi

Sanskrit only: no published translation is held for this verse.

प्रकृत्या+एक-अच्

prakṛtyā+eka-ac

Sanskrit only: no published translation is held for this verse.

एकाच् यद् भसञ्ज्ञाकं तद् इष्ठेमेयस्सु परतः प्रकृत्या भवति । स्रग्विन्न् इत्य् एतस्य विन्नन्तस्य स्रजिष्ठः, स्रजीयान्, स्रजयति । स्रुग्वद् इत्य् एतस्य मत्वन्तस्य स्रुचिष्थः, स्रुचीयान्, स्रुचयति । एकाच् इति किम् ? वसुमत् इत्य् एतस्य वसिष्ठः, वसीयान् । प्रकृत्या ऽके राजन्यमनुष्ययुवानः । अके प्रत्यये परतो राजन्य मनुष्य युवन् इत्य् एते प्रकृत्या भवन्ति । राजन्यानां समूहो राजन्यकम् । मनुष्याणां समूहो मानुष्यकम् । आपत्यस्य च तद्धिते ऽनाति (*६,४।१५१) इति यलोपः प्रकृतिभावेन न भवति । यूनो भावः यौवनिका । मनोज्ञादित्वाद् वुञ् । तस्य नस् तद्धिते (*६,४।१४४) इति टिलोपो न भवति ॥ इन् अण्य्-अनपत्ये

ekāc yad bhasañjñākaṃ tad iṣṭhemeyassu parataḥ prakṛtyā bhavati / sragvinn ity etasya vinnantasya srajiṣṭhaḥ, srajīyān, srajayati / srugvad ity etasya matvantasya sruciṣthaḥ, srucīyān, srucayati / ekāc iti kim ? vasumat ity etasya vasiṣṭhaḥ, vasīyān / prakṛtyā 'ke rājanyamanuṣyayuvānaḥ / ake pratyaye parato rājanya manuṣya yuvan ity ete prakṛtyā bhavanti / rājanyānāṃ samūho rājanyakam / manuṣyāṇāṃ samūho mānuṣyakam / āpatyasya ca taddhite 'nāti (*6,4.151) iti yalopaḥ prakṛtibhāvena na bhavati / yūno bhāvaḥ yauvanikā / manojñāditvād vuñ / tasya nas taddhite (*6,4.144) iti ṭilopo na bhavati // in aṇy-anapatye

Sanskrit only: no published translation is held for this verse.

इन्नन्तमनपत्यार्थे अणि परतः प्रकृत्या भवति । साङ्कूटिनम् । सांराविणम् । सांमार्जिनम् । अभिविधौ भाव इनुण् (*३,३।४४), अणिनुणः (*५,४।१५) इत्य् अण् । स्रग्विण इदम् स्राग्विणम् । अणि इति किम् ? दण्डिनां समूहो दाण्डम् । अनुदात्तादेर् अञ् (*४,२।४४) इति अञ्प्रत्ययः । अनपत्ये इति किम् ? मेधाविनो ऽपत्यं मैधावः ॥ गाथि-विदथि-केशि-गणि-पणिनश् च

innantamanapatyārthe aṇi parataḥ prakṛtyā bhavati / sāṅkūṭinam / sāṃrāviṇam / sāṃmārjinam / abhividhau bhāva inuṇ (*3,3.44), aṇinuṇaḥ (*5,4.15) ity aṇ / sragviṇa idam srāgviṇam / aṇi iti kim ? daṇḍināṃ samūho dāṇḍam / anudāttāder añ (*4,2.44) iti añpratyayaḥ / anapatye iti kim ? medhāvino 'patyaṃ maidhāvaḥ // gāthi-vidathi-keśi-gaṇi-paṇinaś ca

Sanskrit only: no published translation is held for this verse.

गाथिन् विदथिन् केशिन् गणिन् पणिन् इत्य् एते च अणि प्रकृत्या भवन्ति । गाथिनः अपत्यं गाथिनः । वैदथिनः । कैशिनः । गाणिनः । पाणिनः । अपत्यार्थो ऽयम् आरम्भः ॥ संयोग-आदिश् च

gāthin vidathin keśin gaṇin paṇin ity ete ca aṇi prakṛtyā bhavanti / gāthinaḥ apatyaṃ gāthinaḥ / vaidathinaḥ / kaiśinaḥ / gāṇinaḥ / pāṇinaḥ / apatyārtho 'yam ārambhaḥ // saṃyoga-ādiś ca

Sanskrit only: no published translation is held for this verse.

संयोगादिश् च इन् अणि प्रकृत्या भवति । शङ्खिनो ऽपत्यं शाङ्खिनः । माद्रिणः । वाज्रिणः ॥ अन्

saṃyogādiś ca in aṇi prakṛtyā bhavati / śaṅkhino 'patyaṃ śāṅkhinaḥ / mādriṇaḥ / vājriṇaḥ // an

Sanskrit only: no published translation is held for this verse.

ये च अभाव-कर्मणोः

ye ca abhāva-karmaṇoḥ

Sanskrit only: no published translation is held for this verse.

यकारादौ च तद्धिते अभावकर्मणोर् अर्थयोः अन् प्रकृत्या भवति । सामसु साधुः सामन्यः । वेमन्यः अभावकर्मणोः इति किम् ? राज्ञो भावः कर्म वा राज्यम् । राजन् इति पुरोहितादिषु पठ्यते, ततो ऽयं यक्प्रत्ययः ॥ आत्म-अध्वानौ खे

yakārādau ca taddhite abhāvakarmaṇor arthayoḥ an prakṛtyā bhavati / sāmasu sādhuḥ sāmanyaḥ / vemanyaḥ abhāvakarmaṇoḥ iti kim ? rājño bhāvaḥ karma vā rājyam / rājan iti purohitādiṣu paṭhyate, tato 'yaṃ yakpratyayaḥ // ātma-adhvānau khe

Sanskrit only: no published translation is held for this verse.

आत्मन् अध्वन् इत्य् एतौ खे परतः प्रकृत्या भवतः । आत्मने हितः आत्मनीनः । अध्वानमलङ्गामी अध्वनीनः । खे इति किम् ? प्रत्यात्मम् । प्राध्वम् । प्रत्यात्मम् इति अव्ययीभावे अनश् च (*५,४।१०८) इति समासान्तः टच्प्रत्ययः । प्राध्वम् इति उपसर्गाद् अध्वनः (*५,४।८५) इति अच्प्रत्ययः ॥ न मपूर्वो ऽपत्ये ऽवर्मणः

ātman adhvan ity etau khe parataḥ prakṛtyā bhavataḥ / ātmane hitaḥ ātmanīnaḥ / adhvānamalaṅgāmī adhvanīnaḥ / khe iti kim ? pratyātmam / prādhvam / pratyātmam iti avyayībhāve anaś ca (*5,4.108) iti samāsāntaḥ ṭacpratyayaḥ / prādhvam iti upasargād adhvanaḥ (*5,4.85) iti acpratyayaḥ // na mapūrvo 'patye 'varmaṇaḥ

Sanskrit only: no published translation is held for this verse.

मपूर्वः अन् अवर्मणो ऽणि परतो ऽपत्ये ऽर्थे न प्रकृत्या भवति । सुषाम्णो ऽपत्यं सौषामः । चान्द्रसामः । मपूर्वः इति किम् ? सौत्वनः । अपत्ये इति किम् ? चर्मणा परिवृतो रथः चार्मणः । अवर्मनः इति किम् ? चक्रवर्मणो ऽपत्यं चाक्रवर्मणः । मपूर्वप्रतिषेधे वा हितनाम्न इति वक्तव्यम् । हितनाम्नो ऽपत्यं हैतनामः, हैतनामनः ॥ ब्राह्मो ऽजातौ

mapūrvaḥ an avarmaṇo 'ṇi parato 'patye 'rthe na prakṛtyā bhavati / suṣāmṇo 'patyaṃ sauṣāmaḥ / cāndrasāmaḥ / mapūrvaḥ iti kim ? sautvanaḥ / apatye iti kim ? carmaṇā parivṛto rathaḥ cārmaṇaḥ / avarmanaḥ iti kim ? cakravarmaṇo 'patyaṃ cākravarmaṇaḥ / mapūrvapratiṣedhe vā hitanāmna iti vaktavyam / hitanāmno 'patyaṃ haitanāmaḥ, haitanāmanaḥ // brāhmo 'jātau

Sanskrit only: no published translation is held for this verse.

योगविभागो ऽत्र क्रियते । ब्राह्मः इत्य् एतद् अपत्याधिकारे ऽपि सामर्थ्याद् अपत्याद् अन्यत्राणि टिलोपार्थं निपात्यते । ब्राह्मो गर्भः । ब्राह्ममस्त्रम् । ब्राह्मं हविः । ततः अजातौ । अपत्ये इत्य् एव । अपत्ये आतावणि ब्रह्मणष् टिलोपो न भवति । ब्रह्मणो ऽपत्यं ब्राह्मणः । अपत्ये इत्य् एव, ब्राह्मी ओषधिः ॥ कार्मस् ताच्छील्ये

yogavibhāgo 'tra kriyate / brāhmaḥ ity etad apatyādhikāre 'pi sāmarthyād apatyād anyatrāṇi ṭilopārthaṃ nipātyate / brāhmo garbhaḥ / brāhmamastram / brāhmaṃ haviḥ / tataḥ ajātau / apatye ity eva / apatye ātāvaṇi brahmaṇaṣ ṭilopo na bhavati / brahmaṇo 'patyaṃ brāhmaṇaḥ / apatye ity eva, brāhmī oṣadhiḥ // kārmas tācchīlye

Sanskrit only: no published translation is held for this verse.

औक्षम् अनपत्ये

aukṣam anapatye

Sanskrit only: no published translation is held for this verse.

औक्षम् इति अनपत्ये ऽणि टिलोपो निपात्यते औक्षं पदम् । अनप्त्ये इति किम् ? उक्ष्णो ऽपत्यम् औक्ष्णः । षपूर्वहन्धृतराज्ञाम् अणि (*६,४।१६५) इत्य् अलोपः ॥ दाण्डिनायन-हास्तिनायन-आथर्वणिक-जैह्माशिनेय-वासिनायनि-भ्रौणहत्य-धैवत्य-सारव-ऐक्ष्वाक-मैत्रेय-हिरण्मयानि

aukṣam iti anapatye 'ṇi ṭilopo nipātyate aukṣaṃ padam / anaptye iti kim ? ukṣṇo 'patyam aukṣṇaḥ / ṣapūrvahandhṛtarājñām aṇi (*6,4.165) ity alopaḥ // dāṇḍināyana-hāstināyana-ātharvaṇika-jaihmāśineya-vāsināyani-bhrauṇahatya-dhaivatya-sārava-aikṣvāka-maitreya-hiraṇmayāni

Sanskrit only: no published translation is held for this verse.

अथ किमर्थं मित्रयुशब्दो बिदादिष्व् एव न पठ्यते, तत्राञि कृते यादेः इति इयादेशेनैव सिद्धम्, एवं च युलोपार्थं निपातनं कर्तव्यं न भवति, यस्कादिषु च बहुषु लुगर्थः पाठो न कर्तव्यो भवति, मित्रयवः इत्य् अञः यञञोश् च (*२,४।६४) इत्य् एव हि लुकः सिद्धत्वात् ? न+एतद् अस्ति । मित्रयूणां सङ्घः इत्य् अत्र गोत्रचरणाद् वुञं बाधित्वा मैत्रेयकः सङ्घः इत्य् अत्र सङ्घ-अङ्क-लक्षणेष्व् अञ्। यञ्-इञाम् अण् (*४,३।१२७) इति अण् प्राप्नोति । हिरण्मयम् इति हिरण्यस्य मयटि यादिलोपो निपात्यते, हिरण्यस्य विकारः हिरण्मयः ॥ ऋत्व्य-वास्त्व्य-वास्त्व-माध्वी-हिरण्ययानि च्छन्दसि

atha kimarthaṃ mitrayuśabdo bidādiṣv eva na paṭhyate, tatrāñi kṛte yādeḥ iti iyādeśenaiva siddham, evaṃ ca yulopārthaṃ nipātanaṃ kartavyaṃ na bhavati, yaskādiṣu ca bahuṣu lugarthaḥ pāṭho na kartavyo bhavati, mitrayavaḥ ity añaḥ yañañoś ca (*2,4.64) ity eva hi lukaḥ siddhatvāt ? na+etad asti / mitrayūṇāṃ saṅghaḥ ity atra gotracaraṇād vuñaṃ bādhitvā maitreyakaḥ saṅghaḥ ity atra saṅgha-aṅka-lakṣaṇeṣv añ. yañ-iñām aṇ (*4,3.127) iti aṇ prāpnoti / hiraṇmayam iti hiraṇyasya mayaṭi yādilopo nipātyate, hiraṇyasya vikāraḥ hiraṇmayaḥ // ṛtvya-vāstvya-vāstva-mādhvī-hiraṇyayāni cchandasi

Sanskrit only: no published translation is held for this verse.