Library·Jayaditya & Vamana: Kasikavrtti·1·1.1

Jayaditya & Vamana: Kasikavrtti 1.1

रुदिहि, स्वपिहि इति वलादि-लक्षण इड् यथा स्यात् । अदाग्धाम् । झल्ग्रहणेषु च हकारस्य ग्रहणं यथा स्यात् । यद्य् एवम्, ह य व र ड् इत्य् अत्र तर्हि किम् अर्थम् उपदिश्यत्? महां हि सः; देवा हसन्ति इत्य् अत्र अड्-ग्रहणेषु च अश्-ग्रहणेषुच हकारस्य ग्रहणं यथा स्यात् । ब्राह्मणो हसति - हशि च (*६,१।११४) इत्य् उत्वं यथा स्यात् । एकस्मान् ङञण्अवटा द्वाभां षस्त्रिभ्य एव कणमाः स्युः । ज्ञेयौ चयौ चतुर्भ्यो रः पञ्चभ्यः शलौ षड्भ्यः ॥ इति ॥ इति प्रत्याहारप्रकरणम् । वृद्धिर् आद्-ऐच्

rudihi, svapihi iti valādi-lakṣaṇa iḍ yathā syāt / adāgdhām / jhalgrahaṇeṣu ca hakārasya grahaṇaṃ yathā syāt / yady evam, ha ya va ra ḍ ity atra tarhi kim artham upadiśyat? mahāṃ hi saḥ; devā hasanti ity atra aḍ-grahaṇeṣu ca aś-grahaṇeṣuca hakārasya grahaṇaṃ yathā syāt / brāhmaṇo hasati - haśi ca (*6,1.114) ity utvaṃ yathā syāt / ekasmān ṅañaṇAvaṭā dvābhāṃ ṣastribhya eva kaṇamāḥ syuḥ / jñeyau cayau caturbhyo raḥ pañcabhyaḥ śalau ṣaḍbhyaḥ // iti // iti pratyāhāraprakaraṇam / vṛddhir ād-aic

Sanskrit only: no published translation is held for this verse.

वृद्धि-शब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकम् आद्-ऐचां वर्णानां सामान्येन तद्-भावितानाम्, अतद्-भावितानां च । तपरकरणम् ऐज्-अर्थम् ताद्-अपि परः तपरः इति, खट्वैडकादिषु त्रिमात्र-चतुर्मात्र-प्रसङ्ग। निवृत्तये । आश्वलायनः । ऐतिकायनः । औपगवः । औपमन्यवः । शालीयः । मालीयः । वृद्धि-प्रदेशाः -- सिचि वृद्धिः परस्मैपदेषु (*७,२।१) इत्य् एवम् आदयः ॥ अदेङ् गुणः

vṛddhi-śabdaḥ sañjñātvena vidhīyate, pratyekam ād-aicāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ ca / taparakaraṇam aij-artham tād-api paraḥ taparaḥ iti, khaṭvaiḍakādiṣu trimātra-caturmātra-prasaṅga. nivṛttaye / āśvalāyanaḥ / aitikāyanaḥ / aupagavaḥ / aupamanyavaḥ / śālīyaḥ / mālīyaḥ / vṛddhi-pradeśāḥ -- sici vṛddhiḥ parasmaipadeṣu (*7,2.1) ity evam ādayaḥ // adeṅ guṇaḥ

Sanskrit only: no published translation is held for this verse.

गुण-शब्दः सञ्ज्ञात्वेन विधीयते, प्रत्येकम्, अद्-एङां वर्णानां सामान्येन तद्-भावितानाम्, अतद्-भावितानां च । तपरकरणं त्व् इह सर्वार्थम् । तरिता । चेता । स्तोता । जयन्ति । अहं पचे । गुण-प्रदेशाः -- मिदेर् गुणः (*७,३।८२) इत्य् एवम् आदयः ॥ इको गुण-वृद्धी

guṇa-śabdaḥ sañjñātvena vidhīyate, pratyekam, ad-eṅāṃ varṇānāṃ sāmānyena tad-bhāvitānām, atad-bhāvitānāṃ ca / taparakaraṇaṃ tv iha sarvārtham / taritā / cetā / stotā / jayanti / ahaṃ pace / guṇa-pradeśāḥ -- mider guṇaḥ (*7,3.82) ity evam ādayaḥ // iko guṇa-vṛddhī

Sanskrit only: no published translation is held for this verse.

अहार्षीत् । अचैषीत् । अनैषीत् । अलावीत् । अस्तावीत् । गुण-वृद्धी स्वसञ्ज्ञया विधीयेते, तत्र इकः इति एतद्-उपस्थितं द्रष्टव्यम् । किं कृतं भवति ? द्वितीयया षष्ठी प्रादुर्भाव्यते । मिदिमृजिपुगन्तलघऊपर्धाच्छिदृशिक्षिप्रक्षुद्रेष्वङ्गेन इग् विशेष्यते । जुसि सार्वधातुक-आदि-गुणेषु इक-अङ्गं विशेष्यते । मेद्यते । अबिघयुः । इकः इति किम्? आत्सन्ध्य्-अक्षर-व्यञ्जनानां मा भूत् । यानम् । ग्लायति । उम्भिता । पुनर् गुण-वृद्धि-ग्रहणं स्वसञ्ज्ञ्या विधाने नियम-अर्थम् । इह मा भूत् -- द्यौः, पन्थाः, सः, इमम् इति ॥ न धातु-लोप आर्धधातुके

ahārṣīt / acaiṣīt / anaiṣīt / alāvīt / astāvīt / guṇa-vṛddhī svasañjñayā vidhīyete, tatra ikaḥ iti etad-upasthitaṃ draṣṭavyam / kiṃ kṛtaṃ bhavati ? dvitīyayā ṣaṣṭhī prādurbhāvyate / midimṛjipugantalaghaūpardhācchidṛśikṣiprakṣudreṣvaṅgena ig viśeṣyate / jusi sārvadhātuka-ādi-guṇeṣu ika-aṅgaṃ viśeṣyate / medyate / abighayuḥ / ikaḥ iti kim? ātsandhy-akṣara-vyañjanānāṃ mā bhūt / yānam / glāyati / umbhitā / punar guṇa-vṛddhi-grahaṇaṃ svasañjñyā vidhāne niyama-artham / iha mā bhūt -- dyauḥ, panthāḥ, saḥ, imam iti // na dhātu-lopa ārdhadhātuke

Sanskrit only: no published translation is held for this verse.

धात्व्-एकदेशो धातुः, तस्य लोपो यस्मिन्न् आर्धधातुके तद्-आर्धधातुकं धातु-लोपं, तत्र ये गुण-वृद्धी प्राप्नुतः, ते न भवतः । लोलुवः । पोपुवः । मरीमृजः । लोलूय-आदिभ्यो यङन्तेभ्यः पच-आद्य्-अचि विहिते यङो ऽचि च (*२,४।७४) इति यङो लुकि कृते तम् एव अचम् आश्रित्य ये गुण-वृद्धी प्राप्ते तयोः प्रतिषेधः । धातु-ग्रहणं किम् ? लूञ्, लविता । रेडसि । पर्णं न वेः । अनुबन्ध-प्रत्यय-लोपे मा भूत् । रिषेर्-हि-स-अर्थस्य विच्प्रत्यय-लोप उदाहरणं रेट् इति । आर्धधातुके इति किम् ? त्रिधा बद्धो वृषभो रोरवीति इति । सार्वधातुके मा भूत् । इकः इत्य् एव - अभाजि, रागः । बहुव्रीहि-समाश्रयणं किम् ? क्नोपयति, प्रेद्धम् ॥ क्ङिति च

dhātv-ekadeśo dhātuḥ, tasya lopo yasminn ārdhadhātuke tad-ārdhadhātukaṃ dhātu-lopaṃ, tatra ye guṇa-vṛddhī prāpnutaḥ, te na bhavataḥ / loluvaḥ / popuvaḥ / marīmṛjaḥ / lolūya-ādibhyo yaṅantebhyaḥ paca-ādy-aci vihite yaṅo 'ci ca (*2,4.74) iti yaṅo luki kṛte tam eva acam āśritya ye guṇa-vṛddhī prāpte tayoḥ pratiṣedhaḥ / dhātu-grahaṇaṃ kim ? lūñ, lavitā / reḍasi / parṇaṃ na veḥ / anubandha-pratyaya-lope mā bhūt / riṣer-hi-sa-arthasya vicpratyaya-lopa udāharaṇaṃ reṭ iti / ārdhadhātuke iti kim ? tridhā baddho vṛṣabho roravīti iti / sārvadhātuke mā bhūt / ikaḥ ity eva - abhāji, rāgaḥ / bahuvrīhi-samāśrayaṇaṃ kim ? knopayati, preddham // kṅiti ca

Sanskrit only: no published translation is held for this verse.

दीधी-वेवी-इटाम्

dīdhī-vevī-iṭām

Sanskrit only: no published translation is held for this verse.

दीधी-वेव्योः इटश् च ये गुण-वृद्धी प्राप्नुतः, ते न भवतः । आदीछ्यनम्, आदीद्यकः । आवेव्यनम्, आवेव्यकः । इटः खल्व् अपि - कणिता श्वः । रणिता श्वः । वृद्धिर् इटो न संभवति इति लघु-उपध-गुणस्य-अत्र प्रतिषेधः ॥ हलो ऽनन्तराः संयोगः

dīdhī-vevyoḥ iṭaś ca ye guṇa-vṛddhī prāpnutaḥ, te na bhavataḥ / ādīchyanam, ādīdyakaḥ / āvevyanam, āvevyakaḥ / iṭaḥ khalv api - kaṇitā śvaḥ / raṇitā śvaḥ / vṛddhir iṭo na saṃbhavati iti laghu-upadha-guṇasya-atra pratiṣedhaḥ // halo 'nantarāḥ saṃyogaḥ

Sanskrit only: no published translation is held for this verse.

भिन्न-जातीयैर् अज्भिर् अव्यवहितः श्लिष्ट-उच्चारिता हलः संयोग-सञ्ज्ञा भवन्ति । समुदायः सञ्ज्ञी । जातौ चेदं बहुवचनम् । तेन द्वयोर् बहूनां च संयोगसञ्ज्ञा सिद्धा भवति । अग्निः इति ग-नौ । अश्वः इति श-वौ । कर्णः इति र-णौ । इन्द्रः, चन्द्रः मन्द्रः इति न-द-राः । उष्ट्रः, राष्ट्रम्, भ्राष्ट्रम् इति ष-ट-राः । तिलान्स्त्र्यावपति इति न-सत-र-याः, न-त-स-त-र-या वा । हलः इति किम् ? तितौच्छत्रम् - संयोगान्तस्य लोपः (*८,२।२३) इति लोपः स्यात् । अनन्तराः इति किम् ? पचति पनसम् - स्कोः संयोग-आद्योर् अन्ते च (*८,२।२९) इति लोपः स्यात् । संयोग-प्रदेशाः - सम्योगान्तस्य लोपः (*८,२।२३) इत्य् एवम् आदयः ॥ मुख-नासिका-वचनो ऽनुनासिकः

bhinna-jātīyair ajbhir avyavahitaḥ śliṣṭa-uccāritā halaḥ saṃyoga-sañjñā bhavanti / samudāyaḥ sañjñī / jātau cedaṃ bahuvacanam / tena dvayor bahūnāṃ ca saṃyogasañjñā siddhā bhavati / agniḥ iti ga-nau / aśvaḥ iti śa-vau / karṇaḥ iti ra-ṇau / indraḥ, candraḥ mandraḥ iti na-da-rāḥ / uṣṭraḥ, rāṣṭram, bhrāṣṭram iti ṣa-ṭa-rāḥ / tilānstryāvapati iti na-sata-ra-yāḥ, na-ta-sa-ta-ra-yā vā / halaḥ iti kim ? titaucchatram - saṃyogāntasya lopaḥ (*8,2.23) iti lopaḥ syāt / anantarāḥ iti kim ? pacati panasam - skoḥ saṃyoga-ādyor ante ca (*8,2.29) iti lopaḥ syāt / saṃyoga-pradeśāḥ - samyogāntasya lopaḥ (*8,2.23) ity evam ādayaḥ // mukha-nāsikā-vacano 'nunāsikaḥ

Sanskrit only: no published translation is held for this verse.

मुख-सहिता नासिका मुख-नासिका, तया य उच्चार्यते वर्णः सो ऽनुनासिक-सञ्ज्ञो भवति । आङो ऽनुनासिकश् छन्दसि (*६,१।१२६) । अभ्र आं अपः । गभीर आं उग्रपुत्रे । च न आं इन्द्रः । मुख-ग्रहनं किम् ? अनुस्वारस्य-इव हि स्यात् । नासिक-अग्रहणं किम् ? कचटतपानां मा भूत् । अनुनासिक-प्रदेशाः - आङो ऽनुनासिकश् छन्दसि (*६,१।२६) इत्य् एवम् आदयः ॥ तुल्य-आस्य-प्रयर्नं सवर्णम्

mukha-sahitā nāsikā mukha-nāsikā, tayā ya uccāryate varṇaḥ so 'nunāsika-sañjño bhavati / āṅo 'nunāsikaś chandasi (*6,1.126) / abhra āṃ apaḥ / gabhīra āṃ ugraputre / ca na āṃ indraḥ / mukha-grahanaṃ kim ? anusvārasya-iva hi syāt / nāsika-agrahaṇaṃ kim ? kacaṭatapānāṃ mā bhūt / anunāsika-pradeśāḥ - āṅo 'nunāsikaś chandasi (*6,1.26) ity evam ādayaḥ // tulya-āsya-prayarnaṃ savarṇam

Sanskrit only: no published translation is held for this verse.

चत्वार आभ्यन्तराः प्रयत्नाः सवर्णसं ज्ञायाम् आश्रीयन्ते -- स्पृष्टता, ईषत्-स्पृष्टता, संवृतता, विवृतता च इति । अ अ अ इति त्रयो ऽकारा उदात्त-अनुदात्त-स्वरिताः प्रत्येकं सानुनासिका निरनुनासिकाश् च ह्रस्व-दीर्घ-प्लुत-भेदाद् अष्टादश धा भिद्यन्ते । तथा इ-वर्णः, तथा उ-वर्णः, तथा ऋ-वर्णः । ऌ-वर्णस्य दीर्घा न सन्ति, तं द्वादश-भेदम् आचक्शते । सन्ध्य्-अक्षराणां ह्रस्वा न सन्ति, तान्य् अपि द्वादश-प्रभेदानि । अन्तःस्था द्विप्रभेदाः, रेफवर्जिता यवलाः सानुनासिका निरनुनासिकाश्च । रेफोष्मणां सवर्णा न सन्ति । वर्ग्यो वर्ग्येण सवर्णः । दण्डाग्रम् । खट्वाग्रम् । आस्य-ग्रहणं किम् ? कचटतपानां भिन्न-स्थानानां तुल्य-प्रयत्नानां मा भूत् । किं च स्यात् ? तर्प्ता, तर्प्तुम् इत्य् अत्र झरो झरि सवर्णे (*८,४।६५) इति पकारस्य तकारे लोपः स्यात् । प्रयत्न-ग्रहणं किम् ? इचुयशानां तुल्य-स्थानानां भिन्न-जातीयानां मा भूत् । किं च स्यात् ? अरुश्च्योतति इत्य् अत्र झरो झरि सवर्णे (*८,४।६५) इति शकारस्य चकारे लोपः स्यात् । र्कार-ऌकारयोः सवर्णस्ञ्ज्ञा वक्तव्या । होतॢकारः । होतृकारः । उभयोः ऋवर्णस्य ऌवर्णस्य च आन्तरतमः सवर्णो दीर्घो नास्ति इति र्कार एव दीर्घो भवति । सवर्ण-प्रदेशाः - अकः सवर्णे दीर्घः (*६,१।१०१) इत्य् एवम् आदयः ॥ न अज्-झलौ

catvāra ābhyantarāḥ prayatnāḥ savarṇasaṃ jñāyām āśrīyante -- spṛṣṭatā, īṣat-spṛṣṭatā, saṃvṛtatā, vivṛtatā ca iti / a a a iti trayo 'kārā udātta-anudātta-svaritāḥ pratyekaṃ sānunāsikā niranunāsikāś ca hrasva-dīrgha-pluta-bhedād aṣṭādaśa dhā bhidyante / tathā i-varṇaḥ, tathā u-varṇaḥ, tathā ṛ-varṇaḥ / ḷ-varṇasya dīrghā na santi, taṃ dvādaśa-bhedam ācakśate / sandhy-akṣarāṇāṃ hrasvā na santi, tāny api dvādaśa-prabhedāni / antaḥsthā dviprabhedāḥ, rephavarjitā yavalāḥ sānunāsikā niranunāsikāśca / rephoṣmaṇāṃ savarṇā na santi / vargyo vargyeṇa savarṇaḥ / daṇḍāgram / khaṭvāgram / āsya-grahaṇaṃ kim ? kacaṭatapānāṃ bhinna-sthānānāṃ tulya-prayatnānāṃ mā bhūt / kiṃ ca syāt ? tarptā, tarptum ity atra jharo jhari savarṇe (*8,4.65) iti pakārasya takāre lopaḥ syāt / prayatna-grahaṇaṃ kim ? icuyaśānāṃ tulya-sthānānāṃ bhinna-jātīyānāṃ mā bhūt / kiṃ ca syāt ? aruścyotati ity atra jharo jhari savarṇe (*8,4.65) iti śakārasya cakāre lopaḥ syāt / rkāra-ḷkārayoḥ savarṇasñjñā vaktavyā / hotḷkāraḥ / hotṛkāraḥ / ubhayoḥ ṛvarṇasya ḷvarṇasya ca āntaratamaḥ savarṇo dīrgho nāsti iti rkāra eva dīrgho bhavati / savarṇa-pradeśāḥ - akaḥ savarṇe dīrghaḥ (*6,1.101) ity evam ādayaḥ // na aj-jhalau

Sanskrit only: no published translation is held for this verse.

ईद्-ऊद्-एद्-द्विवचनं प्रगृह्यम्

īd-ūd-ed-dvivacanaṃ pragṛhyam

Sanskrit only: no published translation is held for this verse.

ईत् ऊत् एत् इत्य् एवम्-अन्तं द्विवचनं शब्द-रूपं प्रग्र्ह्य-सञ्ज्ञं भवति । अग्नी इति । वायु इति । माले इति । पचेते इति । ईद्-ऊदेत् इति किम् ? वृक्षाव् अत्र । प्लक्षाव् अत्र । द्विवचनम् इति किम् ? कुमार्य्-अत्र । किशोर्य्-अत्र । तपरकरणम् असंदेह-अर्थम् । प्रगृह्य-प्रदेशाः - प्लुत-प्रगृह्या अचि नित्यम् (*६,१।१२५) इत्य् एवम् आदयः । ईद्-आदीनां प्रगृह्यत्वे मणीवादीनां प्रतिषेधो वक्तव्यः । मणीवोष्ट्रस्य लम्बेते प्रियौ वत्सतरौ मम । दम्पतीव । जम्पतीव । रोदसीव ॥ अदसो मात्

īt ūt et ity evam-antaṃ dvivacanaṃ śabda-rūpaṃ pragrhya-sañjñaṃ bhavati / agnī iti / vāyu iti / māle iti / pacete iti / īd-ūdet iti kim ? vṛkṣāv atra / plakṣāv atra / dvivacanam iti kim ? kumāry-atra / kiśory-atra / taparakaraṇam asaṃdeha-artham / pragṛhya-pradeśāḥ - pluta-pragṛhyā aci nityam (*6,1.125) ity evam ādayaḥ / īd-ādīnāṃ pragṛhyatve maṇīvādīnāṃ pratiṣedho vaktavyaḥ / maṇīvoṣṭrasya lambete priyau vatsatarau mama / dampatīva / jampatīva / rodasīva // adaso māt

Sanskrit only: no published translation is held for this verse.

अदसः सम्बधी यो मकारस्-तस्मात् परे ईद्-ऊदेतः प्रग्र्ह्य-सञ्ज्ञा भवन्ति । अमी अत्र । अमी आसते । अमू अत्र । अमू आसाते । एकारस्य उदाहरणं न अस्ति । अदसः इति किम्? शम्यत्र । दाडिम्यत्र । मात् इति किम् ? अमुके ऽत्र ॥ शे

adasaḥ sambadhī yo makāras-tasmāt pare īd-ūdetaḥ pragrhya-sañjñā bhavanti / amī atra / amī āsate / amū atra / amū āsāte / ekārasya udāharaṇaṃ na asti / adasaḥ iti kim? śamyatra / dāḍimyatra / māt iti kim ? amuke 'tra // śe

Sanskrit only: no published translation is held for this verse.

शे इत्य् एतत् प्रगृह्य-सञ्ज्ञं भवति । किम्-इदं शे इति ? सुपाम् आदेशश् छन्दसि । न युष्मे वाजबन्धवः । अस्मे इन्द्रा-बृहस्पती । युष्मे इति । अस्मे इति । त्वे रायः । मे रायः । त्वे इति । मे इति । छान्दसम् एतद् एव-इकम् उदाहरणम् - अस्मे इन्द्रा-बृहस्पती इति । तत्र तथा पाठात् । इतरत् तु लौकिकम् अनुकरणम् - युश्मे इति, अस्मे इति, त्वे इति, मे इति ॥ निपात एक-अज्-अन्-आङ्

śe ity etat pragṛhya-sañjñaṃ bhavati / kim-idaṃ śe iti ? supām ādeśaś chandasi / na yuṣme vājabandhavaḥ / asme indrā-bṛhaspatī / yuṣme iti / asme iti / tve rāyaḥ / me rāyaḥ / tve iti / me iti / chāndasam etad eva-ikam udāharaṇam - asme indrā-bṛhaspatī iti / tatra tathā pāṭhāt / itarat tu laukikam anukaraṇam - yuśme iti, asme iti, tve iti, me iti // nipāta eka-aj-an-āṅ

Sanskrit only: no published translation is held for this verse.

ओत्

ot

Sanskrit only: no published translation is held for this verse.

निपातः इति वर्तते । तस्य-उकारेण तदन्त-विधिः । ओदन्तो यो निपातः स प्रगृह्य-सञ्ज्ञो भवति । आहो इति । उताहो इति ॥ सम्बुद्धौ शाकल्यस्य-इताव् अनार्षे

nipātaḥ iti vartate / tasya-ukāreṇa tadanta-vidhiḥ / odanto yo nipātaḥ sa pragṛhya-sañjño bhavati / āho iti / utāho iti // sambuddhau śākalyasya-itāv anārṣe

Sanskrit only: no published translation is held for this verse.

ओत् इति वर्तते । सम्बुद्धि-निमित्तो य ओकारः स शाकल्यस्य आचार्यसय् मतेन प्नगृह्य-सञ्ज्ञो भवति, इति-शब्दे अनार्षे अवैदिके परतः । वायो इति, वायव्-इति । भानो इति, भानव्-इति । सम्बुद्धौ इति किम् ? गव् इत्य् अयम्-आह । अत्र अनुकार्य-अनुकरणयोः भेदस्य अविवक्षितत्वात्, असत्य्-अर्थवत्त्वे विभक्तिर्-न भवति । शाकल्य-ग्रहणं विभाषा-अर्थम् । इतौ इति किम् ? वायो ऽत्र । अनार्षे इति किम् ? एता गा ब्रहम-बन्ध इत्य् अब्रवीत् ॥ उञः

ot iti vartate / sambuddhi-nimitto ya okāraḥ sa śākalyasya ācāryasay matena pnagṛhya-sañjño bhavati, iti-śabde anārṣe avaidike parataḥ / vāyo iti, vāyav-iti / bhāno iti, bhānav-iti / sambuddhau iti kim ? gav ity ayam-āha / atra anukārya-anukaraṇayoḥ bhedasya avivakṣitatvāt, asaty-arthavattve vibhaktir-na bhavati / śākalya-grahaṇaṃ vibhāṣā-artham / itau iti kim ? vāyo 'tra / anārṣe iti kim ? etā gā brahama-bandha ity abravīt // uñaḥ

Sanskrit only: no published translation is held for this verse.

शाकल्यस्य-इतौ अनार्षे इति वर्तते । उञः प्रगृह्य-सञ्ज्ञा भवति इतौ शाकल्यस्य आचार्यस्य मतेन । शाकल्यस्य इति विभाष-अर्थम् । उ इति, विति ॥ ऊं

śākalyasya-itau anārṣe iti vartate / uñaḥ pragṛhya-sañjñā bhavati itau śākalyasya ācāryasya matena / śākalyasya iti vibhāṣa-artham / u iti, viti // ūṃ

Sanskrit only: no published translation is held for this verse.

उञः इति वर्तते । उञः इताव्-अनार्षे ऊं इत्य् अयम्-आदेशो भवति दीर्घो ऽनुनासिकश्च, शाक्ल्यस्य मतेन प्रगृह्य-सञ्ज्ञकश्च । शाकल्यस्य ग्रहणं विभाषा-अर्थम् इह अप्य् अनुवर्तते । तेन त्रीणि रूपाणि भवन्ति - उ इति, विति, ऊं इति ॥ ईद्-ऊतौ च सप्तम्य्-अर्थे

uñaḥ iti vartate / uñaḥ itāv-anārṣe ūṃ ity ayam-ādeśo bhavati dīrgho 'nunāsikaśca, śāklyasya matena pragṛhya-sañjñakaśca / śākalyasya grahaṇaṃ vibhāṣā-artham iha apy anuvartate / tena trīṇi rūpāṇi bhavanti - u iti, viti, ūṃ iti // īd-ūtau ca saptamy-arthe

Sanskrit only: no published translation is held for this verse.

ईद्-ऊतौ सप्तमी-इत्य् एव लुप्ते ऽर्थ-ग्रहणाद् भवेत् । पूर्वस्य चेत् सवर्णो ऽसावाडाम्भावः प्रसज्यते ॥१॥ वचनाद्य्-अत्र दीर्घत्वं तत्र अपि सरसी यदि । ज्ञापकं स्यात् तद्-अन्तत्वे मा वा पूर्वपदस्य भूत् ॥२ ॥ दा-धा घ्व्-अदाप्

īd-ūtau saptamī-ity eva lupte 'rtha-grahaṇād bhavet / pūrvasya cet savarṇo 'sāvāḍāmbhāvaḥ prasajyate //1// vacanādy-atra dīrghatvaṃ tatra api sarasī yadi / jñāpakaṃ syāt tad-antatve mā vā pūrvapadasya bhūt //2 // dā-dhā ghv-adāp

Sanskrit only: no published translation is held for this verse.

दा-रूपाश् चत्वारो धातवः, धा-रूपौ च द्वौ दाब्दैपौ वर्जयित्वा घु-सञ्ज्ञका भवन्ति । डुदाञ् - प्रणिददाति । दाण् - प्रणिदाता । दो - प्रणिद्यति । देङ् - प्रणिदयते । डुधाञ् - प्रणिदधाति । धेट् - प्रणिधयति वत्सो मातरम् । अदाप् इति किम् ? दाप् लवने - दातं बर्हिः । दैप् शोधने - अवदातं मुखम् । घु-प्रदेशाः - घु-मा-स्था-गा-पा-जहाति-सां हलि (*६,४।६६) इत्येवमादयः ॥ आद्यन्तवद् एकस्मिन्

dā-rūpāś catvāro dhātavaḥ, dhā-rūpau ca dvau dābdaipau varjayitvā ghu-sañjñakā bhavanti / ḍudāñ - praṇidadāti / dāṇ - praṇidātā / do - praṇidyati / deṅ - praṇidayate / ḍudhāñ - praṇidadhāti / dheṭ - praṇidhayati vatso mātaram / adāp iti kim ? dāp lavane - dātaṃ barhiḥ / daip śodhane - avadātaṃ mukham / ghu-pradeśāḥ - ghu-mā-sthā-gā-pā-jahāti-sāṃ hali (*6,4.66) ityevamādayaḥ // ādyantavad ekasmin

Sanskrit only: no published translation is held for this verse.

असहायसय् आद्यन्त-उपदिष्टानि कार्याणि न सिध्यन्ति इति अयम्-अतिदेश आरभ्यते । सप्तम्य्-अर्थे वतिः । आदाव्-इव अन्ते इव एकस्मिन्न्-अपि कार्यं भवति । यथा कर्तव्यम् इत्य् अत्र प्रत्यय-आद्य्-उदात्तत्वं भवति, एवम् औपगवम् इत्य् अत्र अपि यथा स्यात् । यथा वृक्षाभ्याम् इत्य् अत्र अतो ऽङ्गस्य दीर्घत्वम् एवम् आभ्याम्, इत्य् अत्र अपि यथा स्यात् । एकस्मिन्न्-इति किम् । सभासन्नयने भवः साभासन्नयनः, आकारम् आश्रित्य वृद्ध-सञ्ज्ञा न भवति ॥ तरप्-तमपौ घः

asahāyasay ādyanta-upadiṣṭāni kāryāṇi na sidhyanti iti ayam-atideśa ārabhyate / saptamy-arthe vatiḥ / ādāv-iva ante iva ekasminn-api kāryaṃ bhavati / yathā kartavyam ity atra pratyaya-ādy-udāttatvaṃ bhavati, evam aupagavam ity atra api yathā syāt / yathā vṛkṣābhyām ity atra ato 'ṅgasya dīrghatvam evam ābhyām, ity atra api yathā syāt / ekasminn-iti kim / sabhāsannayane bhavaḥ sābhāsannayanaḥ, ākāram āśritya vṛddha-sañjñā na bhavati // tarap-tamapau ghaḥ

Sanskrit only: no published translation is held for this verse.

तरप् तमप् इत्य् एतौ प्रत्ययौ घ-सञ्ज्ञौ भवतः । कुमारितरा । कुमरितमा । ब्राह्मणितरा । ब्राह्मणितमा । घ-प्रदेशाः - घ-रूप-कल्प-चेलड्-ब्रुव-गोत्र-मत-हतेषु ङ्यो ऽनेकाचो ह्रस्वः (*६,३।४३) इत्य् एवम् आदयः ॥ बहु-गण-वतु-डति सङ्ख्या

tarap tamap ity etau pratyayau gha-sañjñau bhavataḥ / kumāritarā / kumaritamā / brāhmaṇitarā / brāhmaṇitamā / gha-pradeśāḥ - gha-rūpa-kalpa-celaḍ-bruva-gotra-mata-hateṣu ṅyo 'nekāco hrasvaḥ (*6,3.43) ity evam ādayaḥ // bahu-gaṇa-vatu-ḍati saṅkhyā

Sanskrit only: no published translation is held for this verse.

ष्ण-अन्ता षट्

ṣṇa-antā ṣaṭ

Sanskrit only: no published translation is held for this verse.

ष-कारान्ता न-कारान्ता च या सङ्ख्या सा षट्-सञ्ज्ञा भवति । ष-कारान्ता तावत्--षट् तिष्ठन्ति । षट् प्श्ये । न-कारान्तः-पञ्च । सप्त । नव । दस । अन्त-ग्रहणम् औपदेशिक-अर्थम् । तेन-इह न भवति - शतानि, सहस्राणि । अष्टानाम् इत्य् अत्र नुड् भवति । षट्-प्रदेशाः--षड्भ्यो लुक् (*७,१।२२) इत्य् एवम् आदयः ॥ डति च

ṣa-kārāntā na-kārāntā ca yā saṅkhyā sā ṣaṭ-sañjñā bhavati / ṣa-kārāntā tāvat--ṣaṭ tiṣṭhanti / ṣaṭ pśye / na-kārāntaḥ-pañca / sapta / nava / dasa / anta-grahaṇam aupadeśika-artham / tena-iha na bhavati - śatāni, sahasrāṇi / aṣṭānām ity atra nuḍ bhavati / ṣaṭ-pradeśāḥ--ṣaḍbhyo luk (*7,1.22) ity evam ādayaḥ // ḍati ca

Sanskrit only: no published translation is held for this verse.

डत्यन्ता या सङ्ख्या सा षट्-सञ्ज्ञा भवति । कति तिष्ठन्ति । कति पश्य ॥ क्त-क्तवतू निष्ठा

ḍatyantā yā saṅkhyā sā ṣaṭ-sañjñā bhavati / kati tiṣṭhanti / kati paśya // kta-ktavatū niṣṭhā

Sanskrit only: no published translation is held for this verse.

क्तश् च क्तवतुश् च क्त-क्तवतू प्रत्ययौ निश्ठा-सञ्ज्ञौ भवतः । कृतः । कृतवान् । भुक्तः । भुक्तवान् । क-कारः कित्-कार्य-अर्थः । उकारः उगित्-कार्य-अर्थः । निष्ठा-प्रदेशाः-- श्वीदितो निष्ठायाम् (*७,२।१४) इत्येवमादयः ॥ सर्व-आदीनि सर्वनामानि

ktaś ca ktavatuś ca kta-ktavatū pratyayau niśṭhā-sañjñau bhavataḥ / kṛtaḥ / kṛtavān / bhuktaḥ / bhuktavān / ka-kāraḥ kit-kārya-arthaḥ / ukāraḥ ugit-kārya-arthaḥ / niṣṭhā-pradeśāḥ-- śvīdito niṣṭhāyām (*7,2.14) ityevamādayaḥ // sarva-ādīni sarvanāmāni

Sanskrit only: no published translation is held for this verse.

उभ । उभय । उभ-शब्दस्य सर्वनामत्वे प्रयोजनम्-- सर्वनाम्नस्-तृतीय च (*२,३।२७) इति । उभाभ्यां हेतुभ्यां वसति, उभयोः हेत्वोः वसति । उभये । उभयस्मै । उभयस्मात् । उभ्येषाम् । उभयस्मिन् । डतर, डतम । कतर, कतम । कतरस्मै, कतमस्मै । इतर । अन्य । अन्यतर । इतरस्मै । अन्यस्मै । अन्यतरसमै । त्व-शब्दो ऽन्य-वाची स्वर-भेदाद् द्विः पठितः । एकः उदात्तः । द्वितीयो ऽनुदात्तः । केचित् तकारान्तमेकं पठन्ति । त्व त्वत् इति द्वाव् अपि च अनुदाताउ इति स्मरन्ति । नेम--नेमस्मै । वक्ष्यमाणेन जसि विभाषा भवति । नेमे, नेमाः इति । सम--समस्मै । कथं यथा-सङ्ख्यम् अनुदेशः समानाम् (*१,३।१०), समे देशे यजेत इति । समस्य सर्व-शब्द-पर्यायस्य सर्वनाम-स्ञ्ज्ञा इष्य्ते, न सर्वत्र । सिम--सिमस्मै । पूर्व-पर-अवर-दक्षिण-उत्तर-अपर-अधराणि व्यवस्थायाम् असञ्ज्ञायाम् (*१,१।३४) । स्वम् अञ्ज्ञाति-धन-आख्याम् (*१,१।३५) । अन्तरं बहिर्योगोप्संव्यानयोः (*१,१।३६) । त्यद्, तद्, यद्, एतद्, इदम्, अदस्, एक, द्वि, युष्मद्, अस्मद्, भवतु, किम् । सर्वादिः । सर्वनाम-प्रदेशाः-- सर्वनाम्नः स्मै (*७,१।१४) इत्य् एवम् आदयः ॥ विभाषा दिक्षमासे बहुव्रीहौ

ubha / ubhaya / ubha-śabdasya sarvanāmatve prayojanam-- sarvanāmnas-tṛtīya ca (*2,3.27) iti / ubhābhyāṃ hetubhyāṃ vasati, ubhayoḥ hetvoḥ vasati / ubhaye / ubhayasmai / ubhayasmāt / ubhyeṣām / ubhayasmin / ḍatara, ḍatama / katara, katama / katarasmai, katamasmai / itara / anya / anyatara / itarasmai / anyasmai / anyatarasamai / tva-śabdo 'nya-vācī svara-bhedād dviḥ paṭhitaḥ / ekaḥ udāttaḥ / dvitīyo 'nudāttaḥ / kecit takārāntamekaṃ paṭhanti / tva tvat iti dvāv api ca anudātāu iti smaranti / nema--nemasmai / vakṣyamāṇena jasi vibhāṣā bhavati / neme, nemāḥ iti / sama--samasmai / kathaṃ yathā-saṅkhyam anudeśaḥ samānām (*1,3.10), same deśe yajeta iti / samasya sarva-śabda-paryāyasya sarvanāma-sñjñā iṣyte, na sarvatra / sima--simasmai / pūrva-para-avara-dakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām (*1,1.34) / svam añjñāti-dhana-ākhyām (*1,1.35) / antaraṃ bahiryogopsaṃvyānayoḥ (*1,1.36) / tyad, tad, yad, etad, idam, adas, eka, dvi, yuṣmad, asmad, bhavatu, kim / sarvādiḥ / sarvanāma-pradeśāḥ-- sarvanāmnaḥ smai (*7,1.14) ity evam ādayaḥ // vibhāṣā dikṣamāse bahuvrīhau

Sanskrit only: no published translation is held for this verse.

न बहुव्रीहौ

na bahuvrīhau

Sanskrit only: no published translation is held for this verse.

सर्वनाम-सञ्ज्ञायां तद्-अन्त-विधेर् अभ्युपगमाद् बहुव्रीहेर् अपि सर्व-आद्य्-अन्तसय् सञ्ज्ञा स्यात् इति प्रतिषेध आरभ्यते । बहुव्रीहौ समासे सर्वादीनि सर्वनाम-सञ्ज्ञानि न भवन्ति । प्रियविश्वाय । प्रियोभ्याय । द्व्यन्याय । त्र्यन्याय । इह च, त्वत्-कपितृकः, मत्-कपितृकः इत्य्-अकज् न भवति । बहुव्रीहौ इति वर्तमाने पुनर्-बहुव्रीहि-ग्रहणं भूत-पूर्वमात्रे ऽपि प्रतिषेधो यथा स्यात्, वस्त्रान्तर-वसनान्तराः इति ॥ तृतीया-समासे

sarvanāma-sañjñāyāṃ tad-anta-vidher abhyupagamād bahuvrīher api sarva-ādy-antasay sañjñā syāt iti pratiṣedha ārabhyate / bahuvrīhau samāse sarvādīni sarvanāma-sañjñāni na bhavanti / priyaviśvāya / priyobhyāya / dvyanyāya / tryanyāya / iha ca, tvat-kapitṛkaḥ, mat-kapitṛkaḥ ity-akaj na bhavati / bahuvrīhau iti vartamāne punar-bahuvrīhi-grahaṇaṃ bhūta-pūrvamātre 'pi pratiṣedho yathā syāt, vastrāntara-vasanāntarāḥ iti // tṛtīyā-samāse

Sanskrit only: no published translation is held for this verse.

तृतीया-समासे सर्व-आदीनि सर्वनाम-सञ्ज्ञानि न भवन्ति । मास-पूर्वाय । संवत्सर-पूर्वाय । द्व्यह-पूर्वाय । त्र्यह-पूर्वाय । समासे इति वर्तमाने पुनः सम्मसग्रहणं तृतीया-समास-अर्थ-वाक्ये ऽपि प्रतिषेधो यथा स्यात् । मासेन पूर्वाय । पूर्व-सदृश-सम-ऊन-अर्थ-कलह-निपुण-मिश्र-श्लक्ष्णैः (*२,१।३१) इति तृतीय-असमासं प्रतिपदं वक्ष्यति, तस्य-इदं ग्रहणम् । न यस्य कस्यचित् तृतीया-समासस्य । कर्तृ करणे कृता बहुलम् (*२,१।३२) इति-त्वयका कृतम्, मयका कृतम् ॥ द्वन्द्वे च

tṛtīyā-samāse sarva-ādīni sarvanāma-sañjñāni na bhavanti / māsa-pūrvāya / saṃvatsara-pūrvāya / dvyaha-pūrvāya / tryaha-pūrvāya / samāse iti vartamāne punaḥ sammasagrahaṇaṃ tṛtīyā-samāsa-artha-vākye 'pi pratiṣedho yathā syāt / māsena pūrvāya / pūrva-sadṛśa-sama-ūna-artha-kalaha-nipuṇa-miśra-ślakṣṇaiḥ (*2,1.31) iti tṛtīya-asamāsaṃ pratipadaṃ vakṣyati, tasya-idaṃ grahaṇam / na yasya kasyacit tṛtīyā-samāsasya / kartṛ karaṇe kṛtā bahulam (*2,1.32) iti-tvayakā Kṛtam, mayakā kṛtam // dvandve ca

Sanskrit only: no published translation is held for this verse.

द्वन्द्वे च समासे सर्वादीनि सर्वनाम-सञ्ज्ञानि न भवन्ति । पूर्व-अपराणाम् । कतर-कतमानाम् ॥ विभाषा जसि

dvandve ca samāse sarvādīni sarvanāma-sañjñāni na bhavanti / pūrva-aparāṇām / katara-katamānām // vibhāṣā jasi

Sanskrit only: no published translation is held for this verse.

प्रथम-चरम-तय-अल्प-अर्ध-कतिपय-नेमाश् च

prathama-carama-taya-alpa-ardha-katipaya-nemāś ca

Sanskrit only: no published translation is held for this verse.

विभाषा जसि (*१,१।३२) इति वर्तते । द्वन्द्वे इति निवृत्तम् । प्रथम चरम तय अल्प अर्ध कतिपय नेम इत्य् एते जसि विभाषा सर्वनाम-सञ्ज्ञा भवन्ति । प्रथमे, प्रथमाः । चरमे, चरमाः । द्वितये, द्वितयाः । अल्पे, अल्पाः । अर्धे, अर्धाः । कतिपये, कतिपयः । नेमे, नेमाः । तय इति तयप् प्रत्ययः । शिष्टानि प्रातिपदिकानि । तत्र नेम इति सर्वादिषु पठ्यते, तस्य प्राप्ते विभषा, अन्येषाम् अप्राप्ते । उभय-शब्दस्य तयप्-प्रत्यय-अन्तस्य गने पाठान् नित्या सर्वनाम-सञ्ज्ञा इह अपि जस्कार्यं प्रति विभाषा । काकचोर्यथा-योगं वृत्तिः ॥ पूर्व-पर-अवरदक्षिण-उत्तर-अपर-अधराणि व्यवस्थायाम् असञ्ज्ञायाम्

vibhāṣā jasi (*1,1.32) iti vartate / dvandve iti nivṛttam / prathama carama taya alpa ardha katipaya nema ity ete jasi vibhāṣā sarvanāma-sañjñā bhavanti / prathame, prathamāḥ / carame, caramāḥ / dvitaye, dvitayāḥ / alpe, alpāḥ / ardhe, ardhāḥ / katipaye, katipayaḥ / neme, nemāḥ / taya iti tayap pratyayaḥ / śiṣṭāni prātipadikāni / tatra nema iti sarvādiṣu paṭhyate, tasya prāpte vibhaṣā, anyeṣām aprāpte / ubhaya-śabdasya tayap-pratyaya-antasya gane pāṭhān nityā sarvanāma-sañjñā iha api jaskāryaṃ prati vibhāṣā / kākacoryathā-yogaṃ vṛttiḥ // pūrva-para-avaradakṣiṇa-uttara-apara-adharāṇi vyavasthāyām asañjñāyām

Sanskrit only: no published translation is held for this verse.

पूर्व पर अवर दक्षिण उत्तर अपर अधर इत्य्-एषां गणे पाठात् पूर्वेण नित्यायां सर्वनाम-सञ्ज्ञायां प्राप्तायां जसि विभाषा आरभ्यते । पूर्वादीनि विभषा जसि सर्वनाम-सञ्ज्ञानि भवन्ति व्यवस्थायाम् असञ्ज्ञायाम् । स्वाभिधेय-अपेक्षावधिनियमो व्यवस्था । पूर्वे, पूर्वाः । परे, पराः । अवरे, अवराः । दक्ष्णे, दक्ष्णाः । उत्तरे, उत्तराः । अपरे, अपराः । अधरे, अधरः । व्यवस्थायाम् इति किं ? दक्षिणा इमे गाथकाः । प्रवीणाः इत्यर्थः । असञ्ज्ञायाम् इति किम् ? उत्तराः कुरवः । सत्याम् एव व्यवस्थायाम् इयं तेषां सञ्ज्ञा ॥ स्वम् अज्ञाति-धन-आख्यायाम्

pūrva para avara dakṣiṇa uttara apara adhara ity-eṣāṃ gaṇe pāṭhāt pūrveṇa nityāyāṃ sarvanāma-sañjñāyāṃ prāptāyāṃ jasi vibhāṣā ārabhyate / pūrvādīni vibhaṣā jasi sarvanāma-sañjñāni bhavanti vyavasthāyām asañjñāyām / svābhidheya-apekṣāvadhiniyamo vyavasthā / pūrve, pūrvāḥ / pare, parāḥ / avare, avarāḥ / dakṣṇe, dakṣṇāḥ / uttare, uttarāḥ / apare, aparāḥ / adhare, adharaḥ / vyavasthāyām iti kiṃ ? dakṣiṇā ime gāthakāḥ / pravīṇāḥ ityarthaḥ / asañjñāyām iti kim ? uttarāḥ kuravaḥ / satyām eva vyavasthāyām iyaṃ teṣāṃ sañjñā // svam ajñāti-dhana-ākhyāyām

Sanskrit only: no published translation is held for this verse.

अत्र अपि नित्या सर्वनाम-सञ्ज्ञा प्राप्ता जसि विभाष्यते । स्वम् इत्य् एतच्-छब्द-रूपं जसि विभाषा सर्वनाम-सञ्ज्ञं भवति , न चेज् ज्ञातिधनयोः सञ्ज्ञारूपेण वर्तते । स्वे पुत्राः, स्वाः पुत्राः । स्वे गावः, स्वा गावः । आत्मीयाः इत्य् अर्थः । ज्ञाति-प्रतिषेधः इति किम् ? धूमायन्त इव अश्लिष्टाः प्रज्वलन्ति इव संहताः । उल्मुकानि इव मे ऽमी स्वा ज्ञातयो भरतर् षभ ॥ अधनाख्यायाम् इति किम् ? प्रभूताः स्वा न दीयन्ते, प्रभूतः स्वा न भुज्यन्ते । प्रभूतानि धनानि इत्य् अर्थः ॥ अन्तरं बहिर्योग-उपसंव्यानयोः

atra api nityā sarvanāma-sañjñā prāptā jasi vibhāṣyate / svam ity etac-chabda-rūpaṃ jasi vibhāṣā sarvanāma-sañjñaṃ bhavati , na cej jñātidhanayoḥ sañjñārūpeṇa vartate / sve putrāḥ, svāḥ putrāḥ / sve gāvaḥ, svā gāvaḥ / ātmīyāḥ ity arthaḥ / jñāti-pratiṣedhaḥ iti kim ? dhūmāyanta iva aśliṣṭāḥ prajvalanti iva saṃhatāḥ / ulmukāni iva me 'mī svā jñātayo bharatar ṣabha // adhanākhyāyām iti kim ? prabhūtāḥ svā na dīyante, prabhūtaḥ svā na bhujyante / prabhūtāni dhanāni ity arthaḥ // antaraṃ bahiryoga-upasaṃvyānayoḥ

Sanskrit only: no published translation is held for this verse.

उपस्ंव्याने--अन्तरे शाटकाः, अन्तराः शाटकाः । उपसंव्यानं परिधानीयम् उच्यते, न प्रावरणीयम् । बहिर्योग-उपसंव्यानयोः इति किम् ? अनयोः ग्रामयोर् अन्तरे तापसः प्रतिवसति । तस्मिन्न् अन्तरे शीतान्य् उदकानि । मध्यप्रदेश-वचनो ऽन्तर-शब्दः । गण-सूत्रस्य च-इदं प्रत्युदाहरणम् । अपुरि इति वक्तव्यम् । अन्तरायां पुरि वसति । विभाषा-प्रकरणे तीयस्य वा ङित्सु सर्वनाम-सञ्ज्ञा इत्य् उपसंख्यानम् । द्वितीयस्मै, द्वितीयाय । तृतीयस्मै, तृतीयाय ॥ स्वरादि-निपातम् अव्ययम्

upasṃvyāne--antare śāṭakāḥ, antarāḥ śāṭakāḥ / upasaṃvyānaṃ paridhānīyam ucyate, na prāvaraṇīyam / bahiryoga-upasaṃvyānayoḥ iti kim ? anayoḥ grāmayor antare tāpasaḥ prativasati / tasminn antare śītāny udakāni / madhyapradeśa-vacano 'ntara-śabdaḥ / gaṇa-sūtrasya ca-idaṃ pratyudāharaṇam / apuri iti vaktavyam / antarāyāṃ puri vasati / vibhāṣā-prakaraṇe tīyasya vā ṅitsu sarvanāma-sañjñā ity upasaṃkhyānam / dvitīyasmai, dvitīyāya / tṛtīyasmai, tṛtīyāya // svarādi-nipātam avyayam

Sanskrit only: no published translation is held for this verse.

सदृशं त्रिषु लिङ्गेषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन्न व्येति तद्-अव्ययम् ॥ तद्धितश् च असर्व-विभक्तिः

sadṛśaṃ triṣu liṅgeṣu sarvāsu ca vibhaktiṣu / vacaneṣu ca sarveṣu yanna vyeti tad-avyayam // taddhitaś ca asarva-vibhaktiḥ

Sanskrit only: no published translation is held for this verse.

तद्धितान्तः शब्दो ऽसर्व-विभक्तिः अव्यय-सञ्ज्ञो भवति । यस्मात् न सर्व-विभक्तेर् उत्पत्तिः सो ऽसर्व-विभक्तिः । ततः, यतः, तत्र, यत्र, तदा, यदा, सर्वदा, सदा । तद्धितः इति किम् ? एकः, द्वौ, बहवः । असर्व-विभक्तिः इति किम् ? औपगवः, औपगवौ, औपगवाः ॥ कृन्-म्-एज्-अन्तः

taddhitāntaḥ śabdo 'sarva-vibhaktiḥ avyaya-sañjño bhavati / yasmāt na sarva-vibhakter utpattiḥ so 'sarva-vibhaktiḥ / tataḥ, yataḥ, tatra, yatra, tadā, yadā, sarvadā, sadā / taddhitaḥ iti kim ? ekaḥ, dvau, bahavaḥ / asarva-vibhaktiḥ iti kim ? aupagavaḥ, aupagavau, aupagavāḥ // kṛn-m-ej-antaḥ

Sanskrit only: no published translation is held for this verse.

कृद् यो म-कार-अन्तः, एज्-अन्तश् च तद्-अन्तं शब्द-रूपम् अव्यय-सञ्ज्ञं भवति । स्वादुङ्-कारं भुङ्क्ते । सम्पन्नङ्-कारं भुङ्क्ते । लवणङ्-कारं भुङ्क्ते । एजन्तः-वक्षे रायः । ता वामेषे रथानाम् । ऋत्वे दक्षाय जीवसे । ज्योक् च सूर्यं दृशे । वक्षे इति वचेः तुम्-अर्थे से-सेन्-असे (*३,४।९) इति से-प्रत्यये कुत्वे षत्वे च कृते रूपम् । एषे इति इणः से-प्रत्यये गुणे षत्वे च कृते रूपम् । जीवसे इति जीवेः असे प्रत्यये रूपम् । दृशे इति दृशेः केन्-प्रत्ययो निपात्यते - दृशे विख्ये च (*३,४।११) इति । अन्त-ग्रहणम् औपदेशिक-प्रतिपत्त्य्-अर्थम् । इह मा भूत् - आधये, चिकीर्षवे, कुम्भ-कारेभ्यः इति ॥ क्त्वा-तोसुन्-कसुनः

kṛd yo ma-kāra-antaḥ, ej-antaś ca tad-antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati / svāduṅ-kāraṃ bhuṅkte / sampannaṅ-kāraṃ bhuṅkte / lavaṇaṅ-kāraṃ bhuṅkte / ejantaḥ-vakṣe rāyaḥ / tā vāmeṣe rathānām / ṛtve dakṣāya jīvase / jyok ca sūryaṃ dṛśe / vakṣe iti vaceḥ tum-arthe se-sen-ase (*3,4.9) iti se-pratyaye kutve ṣatve ca kṛte rūpam / eṣe iti iṇaḥ se-pratyaye guṇe ṣatve ca kṛte rūpam / jīvase iti jīveḥ ase pratyaye rūpam / dṛśe iti dṛśeḥ ken-pratyayo nipātyate - dṛśe vikhye ca (*3,4.11) iti / anta-grahaṇam aupadeśika-pratipatty-artham / iha mā bhūt - ādhaye, cikīrṣave, kumbha-kārebhyaḥ iti // ktvā-tosun-kasunaḥ

Sanskrit only: no published translation is held for this verse.

क्त्वा, तोसुन्, कसुन्, इत्य् एवम् अन्तं शब्द-रूपम् अव्यय-सञ्ज्ञं भवति । कृत्वा । हृत्वा । तोसुन् -- व्युष्टायां पुरा सूर्यस्योदेतो राधेयः । पुरा वत्सानामपाकर्त्तोः । भाव-लक्षणे स्था-इण्-कृञ्-वदि (*३,४।१६) इति इणः, कृञश् च तोसुन् प्रत्ययः । कसुन् -- सृपि-तृदोः कसुन् (*३,४।१७) । पुरा क्रूरस्य विसृपो विरप्शिन् । पुरा जत्रुभ्य आतृदः ॥ अव्ययी-भावश् च

ktvā, tosun, kasun, ity evam antaṃ śabda-rūpam avyaya-sañjñaṃ bhavati / kṛtvā / hṛtvā / tosun -- vyuṣṭāyāṃ purā sūryasyodeto rādheyaḥ / purā vatsānāmapākarttoḥ / bhāva-lakṣaṇe sthā-iṇ-kṛñ-vadi (*3,4.16) iti iṇaḥ, kṛñaś ca tosun pratyayaḥ / kasun -- sṛpi-tṛdoḥ kasun (*3,4.17) / purā krūrasya visṛpo virapśin / purā jatrubhya ātṛdaḥ // avyayī-bhāvaś ca

Sanskrit only: no published translation is held for this verse.

उपचारः - उपपयः-कारः, उपपयः-कामः । विसर्जनीय-स्थानिकस्य स-कारस्य उपचारः इति सञ्ज्ञा । तत्र अव्ययीभावस्य अव्ययत्वे अतः कृ-कमि-कंस-कुम्भ-पात्र-कुशा-कर्णी-ष्व् अनव्ययस्य (*८,३।४६) इति पर्युदासः सिद्धो भवति । सर्वम् इदं काण्डं स्वर-अदाव् अपि पठ्यते । पुनर् वचनम् अनित्यत्वज्ञापन-अर्थम् । तेन अयं कार्य-नियमः सिद्धो भवति । इह च -- पुरा सूर्यस्योदेतोर्-आधेयः, पुरा क्रूरस्य विसृपो विरप्शिन् इति न ल-उ-उक-अव्यय-निष्ठा-खल्-अर्थ-तृनाम् (*२,३।६९) इति षष्ठी-प्रतिषेधो न भवति ॥ शि सर्वनाम-स्थानम्

upacāraḥ - upapayaḥ-kāraḥ, upapayaḥ-kāmaḥ / visarjanīya-sthānikasya sa-kārasya upacāraḥ iti sañjñā / tatra avyayībhāvasya avyayatve ataḥ kṛ-kami-kaṃsa-kumbha-pātra-kuśā-karṇī-ṣv anavyayasya (*8,3.46) iti paryudāsaḥ siddho bhavati / sarvam idaṃ kāṇḍaṃ svara-adāv api paṭhyate / punar vacanam anityatvajñāpana-artham / tena ayaṃ kārya-niyamaḥ siddho bhavati / iha ca -- purā sūryasyodetor-ādheyaḥ, purā krūrasya visṛpo virapśin iti na la-u-uka-avyaya-niṣṭhā-khal-artha-tṛnām (*2,3.69) iti ṣaṣṭhī-pratiṣedho na bhavati // śi sarvanāma-sthānam

Sanskrit only: no published translation is held for this verse.

शि इत्य् एतत् सर्वनाम-स्थानसञ्ज्ञं भवति । किम् इदं शि इति ? जश्-शसोः षिः (*७,१।२०) इति शिः आदेशः । कुण्डानि तिष्ठन्ति । कुण्डानि पश्य । दधीनि । मधूनि । त्रपूणि । जतूनि । सर्वनाम-स्थान-प्रदेशाः-- सर्वनाम-स्थाने च असम्बुद्धौ (*६,४।८) इत्य् एवम् आदयः ॥ सुड् अनपुंसकस्य

śi ity etat sarvanāma-sthānasañjñaṃ bhavati / kim idaṃ śi iti ? jaś-śasoḥ ṣiḥ (*7,1.20) iti śiḥ ādeśaḥ / kuṇḍāni tiṣṭhanti / kuṇḍāni paśya / dadhīni / madhūni / trapūṇi / jatūni / sarvanāma-sthāna-pradeśāḥ-- sarvanāma-sthāne ca asambuddhau (*6,4.8) ity evam ādayaḥ // suḍ anapuṃsakasya

Sanskrit only: no published translation is held for this verse.

सुट् इति पञ्च वचनानि सर्वनाम-स्थान-सञ्ज्ञानि भवन्ति नपुंसकाद् अन्यत्र । नपुंसके न विधिः, न प्रतिषेधः । तेन जसः शेः सर्वनाम-स्थान-सञ्ज्ञा पूर्वेण भवत्य् एव । राजा, राजानौ, राजानः । राजानम्, राजानौ । सुट् इति किम् ? राज्ञः पश्य । अनपुंसकस्य इति किम् ? सामनी, वेमनी ॥ न वा-इति विभाषा

suṭ iti pañca vacanāni sarvanāma-sthāna-sañjñāni bhavanti napuṃsakād anyatra / napuṃsake na vidhiḥ, na pratiṣedhaḥ / tena jasaḥ śeḥ sarvanāma-sthāna-sañjñā pūrveṇa bhavaty eva / rājā, rājānau, rājānaḥ / rājānam, rājānau / suṭ iti kim ? rājñaḥ paśya / anapuṃsakasya iti kim ? sāmanī, vemanī // na vā-iti vibhāṣā

Sanskrit only: no published translation is held for this verse.

न इति प्रतिषेधः, वा इति विकल्पः । तयोः प्रतिषेध-विकल्पयोः विभाषा इति सञ्ज्ञा भवति । इति-करणो ऽर्थ-निर्देश-अर्थः । विभाषा-प्रदेशेषु प्रतिषेध-विकल्पाव् उपतिष्ठेते । तत्र प्रतिषेधेन समीकृते विषये पश्चाद् विकल्पः प्रवर्तते । उभयत्र-विभाषाः प्रयोजयन्ति । विभाषा श्वेः (*६,१।३०) शुशाव, शिश्वाय । शुशुवतुः, शिश्वियतुः । विभाषा-प्रदेशाः - विभाषा श्वेः (*६,१।३०) इत्य् एवम् आदयः ॥ इग्-यणः सम्प्रसारणम्

na iti pratiṣedhaḥ, vā iti vikalpaḥ / tayoḥ pratiṣedha-vikalpayoḥ vibhāṣā iti sañjñā bhavati / iti-karaṇo 'rtha-nirdeśa-arthaḥ / vibhāṣā-pradeśeṣu pratiṣedha-vikalpāv upatiṣṭhete / tatra pratiṣedhena samīkṛte viṣaye paścād vikalpaḥ pravartate / ubhayatra-vibhāṣāḥ prayojayanti / vibhāṣā śveḥ (*6,1.30) śuśāva, śiśvāya / śuśuvatuḥ, śiśviyatuḥ / vibhāṣā-pradeśāḥ - vibhāṣā śveḥ (*6,1.30) ity evam ādayaḥ // ig-yaṇaḥ samprasāraṇam

Sanskrit only: no published translation is held for this verse.