Library·Patanjali: Vyakaranamahabhasya·1·1.1

Patanjali: Vyakaranamahabhasya 1.1

क्अ इ,१५२।१६-१५३।३ रो इ,४५३-४५४ प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् । प्रतिषेधे स्वरदीर्घयलोपेषु लोपाजादेशः न स्थानिवत् इति वक्तव्यम् । स्वर : आकर्षिकः , चिकीर्षकः , जिहीर्षकः । यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : पञ्चारत्न्यः , दशारत्न्यः । स्वर । दीर्घ : प्रतिदीव्ना प्रतिदीव्ने । यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : किर्योः , गिर्योः । दीर्घ । यलोप : ब्राह्मणकण्डूतिः , क्षत्रियकण्डूतिः । यः हि अन्यः आदेशः स्थानिवत् एव असौ भवति : वाय्वोः , अध्वर्य्वोः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह हि लोपः अपि प्रकृतः आदेशः अपि । विधिग्रहणम् अपि प्रकृतम् अनुवर्तते । दीर्घादयः अपि निर्दिश्यन्ते । केवलम् अत्र अभिसम्बन्धमात्रम् कर्तव्यम् : स्वरदीर्घयलोपविधिषु लोपाजादेशः न स्थानिवत् इति । आनुपूर्व्येण सन्निविष्टानाम् यथेष्टम् अभिसम्बन्धः शक्यते कर्तुम् । न च एतनि आनुपूर्व्येण सन्निविष्टानि । अनानुपूर्व्येण अपि सन्निविष्टानाम् यथेष्तम् अभिसम्बन्धः भवति । तत् यथा : अनड्वाहम् उदहारि या त्वम् हरसि शिरसा कुम्भम् भगिनि साचीनम् अभिधावन्तम् अद्राक्षीः इति । तस्य यथेष्तम् अभिसम्बन्धः भवति : उदहारि भगिनि या त्वम् कुम्भम् हरसि शिरसा अनड्वाहम् साचीनम् अभिधावन्तम् अद्राक्षीः इति ।

KA I,152.16-153.3 Ro I,453-454 pratiṣedhe svaradīrghayalopeṣu lopājādeśaḥ na sthānivat . pratiṣedhe svaradīrghayalopeṣu lopājādeśaḥ na sthānivat iti vaktavyam . svara : ākarṣikaḥ , cikīrṣakaḥ , jihīrṣakaḥ . yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : pañcāratnyaḥ , daśāratnyaḥ . svara . dīrgha : pratidīvnā pratidīvne . yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : kiryoḥ , giryoḥ . dīrgha . yalopa : brāhmaṇakaṇḍūtiḥ , kṣatriyakaṇḍūtiḥ . yaḥ hi anyaḥ ādeśaḥ sthānivat eva asau bhavati : vāyvoḥ , adhvaryvoḥ iti . tat tarhi vaktavyam . na vaktavyam . iha hi lopaḥ api prakṛtaḥ ādeśaḥ api . vidhigrahaṇam api prakṛtam anuvartate . dīrghādayaḥ api nirdiśyante . kevalam atra abhisambandhamātram kartavyam : svaradīrghayalopavidhiṣu lopājādeśaḥ na sthānivat iti . ānupūrvyeṇa sanniviṣṭānām yatheṣṭam abhisambandhaḥ śakyate kartum . na ca etani ānupūrvyeṇa sanniviṣṭāni . anānupūrvyeṇa api sanniviṣṭānām yatheṣtam abhisambandhaḥ bhavati . tat yathā : anaḍvāham udahāri yā tvam harasi śirasā kumbham bhagini sācīnam abhidhāvantam adrākṣīḥ iti . tasya yatheṣtam abhisambandhaḥ bhavati : udahāri bhagini yā tvam kumbham harasi śirasā anaḍvāham sācīnam abhidhāvantam adrākṣīḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५३।४-१५४।६ रो इ,४५५-४५९ क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् । क्विलुगुपधात्वचङ्परनिर्ह्रासकुत्वेषु उपसङ्ख्यानम् कर्तव्यम् । क्वौ किम् उदाहरणम् । कण्डूयतेः अप्रत्ययः कण्डूः इति । न एतत् अस्ति । यलोपविधिम् प्रति न स्थानिवत् । इदम् तर्हि : पिपठिषतेः अप्रत्ययः पिपठीः । न एतत् अस्ति । दीर्घत्वम् प्रति न स्थानिवत् । इदम् तर्हि : लावयतेः लौः , पावयतेः पौः । न एतत् अस्ति । अकृत्वा वृद्ध्यावादेशौ णिलोपः । प्रत्ययलक्षणेन वृद्धिः भविष्यति । इदम् तर्हि : लवम् आचष्टे लवयति । लवयतेः अप्रत्ययः लौः , पौः । स्थानिवद्भावात् णेः ऊठ् न प्राप्नोति । क्वौ लुप्तम् न स्थानिवत् इति भवति । एवम् अपि न सिध्यति । कथम् । क्वौ णिलोपः णौ अकारलोपः । तस्य स्थानिवद्भावात् ऊठ् न प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते : क्वौ लुप्तम् न स्थानिवत् इति । कथम् तर्हि । क्वौ विधिम् प्रति न स्थानिवत् । लुकि किम् उदाहरणम् । बिम्बम् , बदरम् । न एतत् अस्ति । पुंवद्भावेन अपि एतत् सिद्धम् । इदम् तर्हि : आमलकम् । एतत् अपि न अस्ति । वक्ष्यति एतत् : फले लुग्वचनानर्थक्यम् प्रकृत्यन्तरत्वात् इति । इदम् तर्हि : पञ्चभिः पट्वीभिः क्रीतः पञ्चपटुः , दशपटुः इति । ननु च एतत् अपि पुंवद्भावेन एव सिद्धम् । कथम् पुंवद्भावः । भस्य अढे तद्धिते पुंवत् भवति इति । भस्य इति उच्यते । यजादौ च भम् भवति न च अत्र यजादिम् पश्यामः । प्रत्ययलक्षणेन यजादिः । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । एवम् तर्हि ठक्छसोः च इति एवम् भविष्यति । टक्छसोः च इति उच्यते । न च अत्र टक्छसौ पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः । न खलु अपि ठक् एव क्रीतप्रत्ययः क्रीताद्यर्थाः एव वा तद्धिताः । किम् तर्हि । अन्ये अपि तद्धिताः ये लुकम् प्रयोजयन्ति : पञ्चेन्द्राण्यः देवताः अस्य इति पञ्चेन्द्रः , दशेन्द्रः , पञ्चाग्निः , दशाग्निः । उपधात्वे किम् उदाहरणम् । पिपठिषतेः अप्रत्ययः पिपठीः इति । न एतत् अस्ति । दीर्घविधिम् प्रति न स्थानिवत् । इदम् तर्हि: सौरी बलाका । न एतत् अस्ति । यलोपविधिम् प्रति न स्थानिवत् । इदम् तर्हि : पारिखीयः । चङ्परनिर्ह्रासे च उपसङ्ख्यनम् कर्तव्यम् । वादितवन्तम् प्रयोजितवान् : अवीवदत् वीणाम् परिवादकेन । किम् पुनः कारणम् न सिध्यति । यः असौ णौ णिः लुप्यते तस्य स्थानिवद्भावात् ह्रस्वत्वम् न प्राप्नोति । ननु च एतत् अपि उपधात्वविधिम् प्रति न स्थानिवत् इति एव सिद्धम् । विशेषे एतत् वक्तव्यम् । क्व । प्रत्ययविधौ इति । इह मा भूत् : पटयति लघयति इति । कुत्वे च उपसङ्ख्यनम् कर्तव्यम् । अर्चयतेः अर्कः , मर्चयतेः मर्कः । न एतत् घञन्तम् । औणादिकः एषः कशब्दः । तस्मिन् आष्टमिकम् कुत्वम् । एतत् अपि णिचा व्यवहितत्वात् न प्राप्नोति ।

KA I,153.4-154.6 Ro I,455-459 kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam . kvilugupadhātvacaṅparanirhrāsakutveṣu upasaṅkhyānam kartavyam . kvau kim udāharaṇam . kaṇḍūyateḥ apratyayaḥ kaṇḍūḥ iti . na etat asti . yalopavidhim prati na sthānivat . idam tarhi : pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ . na etat asti . dīrghatvam prati na sthānivat . idam tarhi : lāvayateḥ lauḥ , pāvayateḥ pauḥ . na etat asti . akṛtvā vṛddhyāvādeśau ṇilopaḥ . pratyayalakṣaṇena vṛddhiḥ bhaviṣyati . idam tarhi : lavam ācaṣṭe lavayati . lavayateḥ apratyayaḥ lauḥ , pauḥ . sthānivadbhāvāt ṇeḥ ūṭh na prāpnoti . kvau luptam na sthānivat iti bhavati . evam api na sidhyati . katham . kvau ṇilopaḥ ṇau akāralopaḥ . tasya sthānivadbhāvāt ūṭh na prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate : kvau luptam na sthānivat iti . katham tarhi . kvau vidhim prati na sthānivat . luki kim udāharaṇam . bimbam , badaram . na etat asti . puṃvadbhāvena api etat siddham . idam tarhi : āmalakam . etat api na asti . vakṣyati etat : phale lugvacanānarthakyam prakṛtyantaratvāt iti . idam tarhi : pañcabhiḥ paṭvībhiḥ krītaḥ pañcapaṭuḥ , daśapaṭuḥ iti . nanu ca etat api puṃvadbhāvena eva siddham . katham puṃvadbhāvaḥ . bhasya aḍhe taddhite puṃvat bhavati iti . bhasya iti ucyate . yajādau ca bham bhavati na ca atra yajādim paśyāmaḥ . pratyayalakṣaṇena yajādiḥ . varṇāśraye na asti pratyayalakṣaṇam . evam tarhi ṭhakchasoḥ ca iti evam bhaviṣyati . ṭakchasoḥ ca iti ucyate . na ca atra ṭakchasau paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . na khalu api ṭhak eva krītapratyayaḥ krītādyarthāḥ eva vā taddhitāḥ . kim tarhi . anye api taddhitāḥ ye lukam prayojayanti : pañcendrāṇyaḥ devatāḥ asya iti pañcendraḥ , daśendraḥ , pañcāgniḥ , daśāgniḥ . upadhātve kim udāharaṇam . pipaṭhiṣateḥ apratyayaḥ pipaṭhīḥ iti . na etat asti . dīrghavidhim prati na sthānivat . idam tarhi: saurī balākā . na etat asti . yalopavidhim prati na sthānivat . idam tarhi : pārikhīyaḥ . caṅparanirhrāse ca upasaṅkhyanam kartavyam . vāditavantam prayojitavān : avīvadat vīṇām parivādakena . kim punaḥ kāraṇam na sidhyati . yaḥ asau ṇau ṇiḥ lupyate tasya sthānivadbhāvāt hrasvatvam na prāpnoti . nanu ca etat api upadhātvavidhim prati na sthānivat iti eva siddham . viśeṣe etat vaktavyam . kva . pratyayavidhau iti . iha mā bhūt : paṭayati laghayati iti . kutve ca upasaṅkhyanam kartavyam . arcayateḥ arkaḥ , marcayateḥ markaḥ . na etat ghañantam . auṇādikaḥ eṣaḥ kaśabdaḥ . tasmin āṣṭamikam kutvam . etat api ṇicā vyavahitatvāt na prāpnoti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५४।७-१५५।७ रो इ,४५९-४६१ पूर्वत्रासिद्धे च । पूर्वत्रासिद्धे च न स्थानिवत् इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् क्सलोपः सलोपे क्सलोपः सलोपे प्रयोजनम् : अदुग्ध , अदुग्धाः । लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लुग्ग्रहणम् न कर्तव्यम् । दधः आकारलोपे आदिचतुर्थत्वे । दधः आकारलोपे आदिचतुर्थत्वे प्रयोजनम् : धत्से धद्ध्वे धद्ध्वम् इति । दधः तथोः च इति चकारः न कर्तव्यः भवति । हलः यमाम् यमि लोपे । हलः यमाम् यमि लोपे प्रयोजनम् : आदित्यः । हलः यमाम् यमि लोपः सिद्धः भवति । अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु । अल्लोपणिलोपौ संयोगान्तलोपप्रभृतिषु प्रयोजनम् : पापच्यतेः पापक्तिः , यायज्यतेः यायष्टिः , पाचयतेः पाक्तिः , याजयतेः याष्टिः । द्विर्वचनादीनि च । द्विर्वचनादीनि च न पठितव्यानि भवन्ति । पूर्वत्रासिद्धेन एव सिद्धानि भवन्ति । किम् अविशेषेण । न इति आह । वरेयलोपस्वरवर्जम् । वरेयलोपम् स्वरम् च वर्जयित्वा । तस्य दोषः संयोगादिलोपलत्वणत्वेषु । तस्य एतस्य लक्षणस्य दोषः संयोगादिलोपलत्वणत्वेषु । संयोगादिलोप : काक्यर्थम् , वास्यर्थम् । स्कोः संयोगाद्योः अन्ते च इति लोपः प्राप्नोति । लत्वम् : निगार्यते निगाल्यते । अचि विभाषा इति लत्वम् न प्राप्नोति । णत्वम् : माषवपनी व्रीहिवापनी । प्रातिपदिकान्तस्य इति णत्वम् प्राप्नोति ।

KA I,154.7-155.7 Ro I,459-461 pūrvatrāsiddhe ca . pūrvatrāsiddhe ca na sthānivat iti vaktavyam . kim prayojanam . prayojanam ksalopaḥ salope ksalopaḥ salope prayojanam : adugdha , adugdhāḥ . luk vā duhadihalihaguhām ātmanepade dantye iti luggrahaṇam na kartavyam . dadhaḥ ākāralope ādicaturthatve . dadhaḥ ākāralope ādicaturthatve prayojanam : dhatse dhaddhve dhaddhvam iti . dadhaḥ tathoḥ ca iti cakāraḥ na kartavyaḥ bhavati . halaḥ yamām yami lope . halaḥ yamām yami lope prayojanam : ādityaḥ . halaḥ yamām yami lopaḥ siddhaḥ bhavati . allopaṇilopau saṃyogāntalopaprabhṛtiṣu . allopaṇilopau saṃyogāntalopaprabhṛtiṣu prayojanam : pāpacyateḥ pāpaktiḥ , yāyajyateḥ yāyaṣṭiḥ , pācayateḥ pāktiḥ , yājayateḥ yāṣṭiḥ . dvirvacanādīni ca . dvirvacanādīni ca na paṭhitavyāni bhavanti . pūrvatrāsiddhena eva siddhāni bhavanti . kim aviśeṣeṇa . na iti āha . vareyalopasvaravarjam . vareyalopam svaram ca varjayitvā . tasya doṣaḥ saṃyogādilopalatvaṇatveṣu . tasya etasya lakṣaṇasya doṣaḥ saṃyogādilopalatvaṇatveṣu . saṃyogādilopa : kākyartham , vāsyartham . skoḥ saṃyogādyoḥ ante ca iti lopaḥ prāpnoti . latvam : nigāryate nigālyate . aci vibhāṣā iti latvam na prāpnoti . ṇatvam : māṣavapanī vrīhivāpanī . prātipadikāntasya iti ṇatvam prāpnoti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५५।९-१८ रो इ,४६१-४६२ आदेशे स्थानिवदनुदेशात् तद्वतः द्विर्वचनम् । आदेशे स्थानिवदनुदेशात् तद्वतः । किंवतः । आदेशवतः द्विर्वचनम् प्राप्नोति । तत कः दोषः । तत्र अभ्यासरूपम् । तत्र अभ्यासरूपम् न सिध्यति : चक्रतुः , चक्रुः इति । अज्ग्रहणम् तु ज्ञापकम् रूपस्थानिवद्भावस्य । यत् अयम् अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः रूपम् स्थानिवत् भवति इति । कथम् कृत्वा ज्ञापकम् । अज्ग्रहणस्य एतत् प्रयोजनम् : इह मा भूत् : जेघ्रीयते , देध्मीयते इति । यदि रूपम् स्थानिवत् भवति ततः अज्ग्रहणम् अर्थवत् भवति । अथ हि कार्यम् न अर्थः अज्ग्रहणेन । भवति एव अत्र द्विर्वचनम् ।

KA I,155.9-18 Ro I,461-462 ādeśe sthānivadanudeśāt tadvataḥ dvirvacanam . ādeśe sthānivadanudeśāt tadvataḥ . kiṃvataḥ . ādeśavataḥ dvirvacanam prāpnoti . tata kaḥ doṣaḥ . tatra abhyāsarūpam . tatra abhyāsarūpam na sidhyati : cakratuḥ , cakruḥ iti . ajgrahaṇam tu jñāpakam rūpasthānivadbhāvasya . yat ayam ajgrahaṇam karoti tat jñāpayati ācāryaḥ rūpam sthānivat bhavati iti . katham kṛtvā jñāpakam . ajgrahaṇasya etat prayojanam : iha mā bhūt : jeghrīyate , dedhmīyate iti . yadi rūpam sthānivat bhavati tataḥ ajgrahaṇam arthavat bhavati . atha hi kāryam na arthaḥ ajgrahaṇena . bhavati eva atra dvirvacanam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५५।१९-१५६।२७ रो इ,४६२-४६६ तत्र गाङ्प्रतिषेधः । तत्र गाङः प्रतिषेधः वक्तव्यः : अधिजगे । इवर्णाभ्यासता प्राप्नोति । न वक्तव्यः । गाङ् लिटि इति द्विलकारकः निर्देशः : लिटि लकारादौ इति । कॄत्येजन्तदिवादिनामधातुषु अभ्यासरूपम् । कॄत्येजन्तदिवादिनामधातुषु अभ्यासरूपम् न सिध्यति । कॄति : अचिकीर्तत् । कॄति । एजन्त : जग्ले मम्ले । एजन्त । दिवादि : दुद्यूषति सुस्यूषति । दिवादि । नामधातु : भवनम् इच्छति भवनीयति भवनीयतेः सन् : बिभवनीयिषति । एवम् तर्हि प्रत्यये इति वक्ष्यामि । प्रत्यये इति चेत् कॄत्येजन्तनमधातुषु अभ्यासरूपम् । प्रत्यये इति चेत् कॄत्येजन्तनमधातुषु अभ्यासरूपम् न सिध्यति । दिवादयः एके परिहृताः । एवम् तर्हि द्विर्वचननिमित्ते अचि अजादेशः स्थानिवत् इति वक्ष्यामि । सः तर्हि निमित्तशब्दः उपादेयः । न हि अन्तरेण निमित्तशब्दम् निमित्तार्थः गम्यते । अन्तरेण अपि निमित्तशब्दम् निमित्तार्थः गम्यते । तत् यथा : दधित्रपुसम् प्रत्यक्षः ज्वरः । ज्वरनिमित्तम् इति गम्यते । नड्वलोदकम् पादरोगः । पादरोगनिमित्तम् इति गम्यते । अयुः घृतम् । आयुषः निमित्तम् इति गम्यते । अथ वा अकारः मत्वर्थीयः : द्विर्वचनम् अस्मिन् अस्ति सः अयम् द्विर्वचनः , द्विर्वचने इति । एवम् अपि न ज्ञायते कियन्तम् असौ कालम् स्थानिवत् भवति इति । यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने स्थानिवत् न भविष्यति । एवम् तर्हि प्रतिषेधः प्रकृतः । सः अनुवर्तिष्यते । क्व प्रकृतः । न पदान्तद्विर्वचन इति । द्विर्वचननिमित्ते अचि अजादेशः न भवति इति । एवम् अपि न ज्ञायते कियन्तम् असौ कालम् न भवति इति । यः पुनः आह द्विर्वचने कर्तव्ये इति कृते तस्य द्विर्वचने अजादेशः भविष्यति । एवम् तर्हि उभयम् अनेन क्रियते : प्रत्ययः च विशेष्यते द्विर्वचनम् च । कथम् पुनः एकेन यत्नेन उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । एकशेषनिर्देशात् । एकशेषनिर्देशः अयम् : द्विर्वचनम् च द्विर्वचनम् च द्विर्वचनम् । द्विर्वचने च कर्तव्ये द्विर्वचने अचि प्रत्यये इति द्विर्वचननिमित्ते अचि स्थानिवत् भवति । द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्वचनम् । द्विर्वचननिमित्ते अचि स्थानिवत् इति चेत् णौ स्थानिवद्भावः वक्तव्यः : अवनुनावयिषति , अवचुक्षावयिषति । न वक्तव्यः । ओः पुयण्जिषु वचनम् ज्ञापकम् णौ स्थानिवद्भावस्य । यत् अयम् पुयण्जि अपरे इति आह तत् ज्ञापयति आचार्यः भवति णौ स्थानिवत् इति । यदि एतत् ज्ञाप्यते अचीकीर्तत् अत्र अपि प्राप्नोति । तुल्यजातीयस्य ज्ञापकम् । कः च तुल्यजातीयः । यथाजातीयकाः पुयण्जयः । कथञ्जातीयकाः च एते । अवर्णपराः । कथम् जग्ले मम्ले । अनैमित्तिकम् आत्त्वम् शिति तु प्रतिषेधः ।

KA I,155.19-156.27 Ro I,462-466 tatra gāṅpratiṣedhaḥ . tatra gāṅaḥ pratiṣedhaḥ vaktavyaḥ : adhijage . ivarṇābhyāsatā prāpnoti . na vaktavyaḥ . gāṅ liṭi iti dvilakārakaḥ nirdeśaḥ : liṭi lakārādau iti . kṝtyejantadivādināmadhātuṣu abhyāsarūpam . kṝtyejantadivādināmadhātuṣu abhyāsarūpam na sidhyati . kṝti : acikīrtat . kṝti . ejanta : jagle mamle . ejanta . divādi : dudyūṣati susyūṣati . divādi . nāmadhātu : bhavanam icchati bhavanīyati bhavanīyateḥ san : bibhavanīyiṣati . evam tarhi pratyaye iti vakṣyāmi . pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam . pratyaye iti cet kṝtyejantanamadhātuṣu abhyāsarūpam na sidhyati . divādayaḥ eke parihṛtāḥ . evam tarhi dvirvacananimitte aci ajādeśaḥ sthānivat iti vakṣyāmi . saḥ tarhi nimittaśabdaḥ upādeyaḥ . na hi antareṇa nimittaśabdam nimittārthaḥ gamyate . antareṇa api nimittaśabdam nimittārthaḥ gamyate . tat yathā : dadhitrapusam pratyakṣaḥ jvaraḥ . jvaranimittam iti gamyate . naḍvalodakam pādarogaḥ . pādaroganimittam iti gamyate . ayuḥ ghṛtam . āyuṣaḥ nimittam iti gamyate . atha vā akāraḥ matvarthīyaḥ : dvirvacanam asmin asti saḥ ayam dvirvacanaḥ , dvirvacane iti . evam api na jñāyate kiyantam asau kālam sthānivat bhavati iti . yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane sthānivat na bhaviṣyati . evam tarhi pratiṣedhaḥ prakṛtaḥ . saḥ anuvartiṣyate . kva prakṛtaḥ . na padāntadvirvacana iti . dvirvacananimitte aci ajādeśaḥ na bhavati iti . evam api na jñāyate kiyantam asau kālam na bhavati iti . yaḥ punaḥ āha dvirvacane kartavye iti kṛte tasya dvirvacane ajādeśaḥ bhaviṣyati . evam tarhi ubhayam anena kriyate : pratyayaḥ ca viśeṣyate dvirvacanam ca . katham punaḥ ekena yatnena ubhayam labhyam . labhyam iti āha . katham . ekaśeṣanirdeśāt . ekaśeṣanirdeśaḥ ayam : dvirvacanam ca dvirvacanam ca dvirvacanam . dvirvacane ca kartavye dvirvacane aci pratyaye iti dvirvacananimitte aci sthānivat bhavati . dvirvacananimitte aci sthānivat iti cet ṇau sthānivadvacanam . dvirvacananimitte aci sthānivat iti cet ṇau sthānivadbhāvaḥ vaktavyaḥ : avanunāvayiṣati , avacukṣāvayiṣati . na vaktavyaḥ . oḥ puyaṇjiṣu vacanam jñāpakam ṇau sthānivadbhāvasya . yat ayam puyaṇji apare iti āha tat jñāpayati ācāryaḥ bhavati ṇau sthānivat iti . yadi etat jñāpyate acīkīrtat atra api prāpnoti . tulyajātīyasya jñāpakam . kaḥ ca tulyajātīyaḥ . yathājātīyakāḥ puyaṇjayaḥ . kathañjātīyakāḥ ca ete . avarṇaparāḥ . katham jagle mamle . anaimittikam āttvam śiti tu pratiṣedhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५७।१-११ रो इ,४६६-४६८ कानि पुनः अस्य योगस्य प्रयोजनानि । पपतुः , पपुः , तस्थतुः , तस्थुः , जग्मतुः , जग्मुः , आटितत् , आशिशत् , चक्रतुः , चक्रुः इति । आल्लोपोपधालोपणिलोपयणादेशेषु कृतेषु अनच्कत्वात् द्विर्वचनम् न प्राप्नोति । स्थानिवद्भावात् भवति । न एतानि सन्ति प्रयोजनानि । पूर्वविप्रतिषेधेन अपि एतानि सिद्धानि । कथम् । वक्ष्यति हि आचार्यः : द्विर्वचनम् यणयवायावादेशाल्लोपोपधालोपकिकिनोरुत्त्वेभ्यः इति । सः पूर्वविप्रतिषेधः न पठितव्यः भवति । किम् पुनः अत्र ज्यायः । स्थानिवद्भावः एव ज्यायान् । पूर्वविप्रतिषेधे हि सति इदम् वक्तव्यम् स्यात् : ओदौदादेशस्य उत् भवति चुटुतुशरादेः अभ्यासस्य इति । ननु च त्वया अपि इत्त्वम् वक्तव्यम् । परार्थम् मम भविष्यति : सनि अतः इत् भवति इति । मम अपि तर्हि उत्त्वम् परार्थम् भविष्यति : उत्परस्य अतः ति च इति । इत्त्वम् अपि त्वया वक्तव्यम् यत् समानाश्रयम् तदर्थम् : उत्पिपविषते संयियविषति इति एवमर्थम् । तस्मात् स्थानिवत् इति एषः एव पक्षः ज्यायान् ।

KA I,157.1-11 Ro I,466-468 kāni punaḥ asya yogasya prayojanāni . papatuḥ , papuḥ , tasthatuḥ , tasthuḥ , jagmatuḥ , jagmuḥ , āṭitat , āśiśat , cakratuḥ , cakruḥ iti . āllopopadhālopaṇilopayaṇādeśeṣu kṛteṣu anackatvāt dvirvacanam na prāpnoti . sthānivadbhāvāt bhavati . na etāni santi prayojanāni . pūrvavipratiṣedhena api etāni siddhāni . katham . vakṣyati hi ācāryaḥ : dvirvacanam yaṇayavāyāvādeśāllopopadhālopakikinoruttvebhyaḥ iti . saḥ pūrvavipratiṣedhaḥ na paṭhitavyaḥ bhavati . kim punaḥ atra jyāyaḥ . sthānivadbhāvaḥ eva jyāyān . pūrvavipratiṣedhe hi sati idam vaktavyam syāt : odaudādeśasya ut bhavati cuṭutuśarādeḥ abhyāsasya iti . nanu ca tvayā api ittvam vaktavyam . parārtham mama bhaviṣyati : sani ataḥ it bhavati iti . mama api tarhi uttvam parārtham bhaviṣyati : utparasya ataḥ ti ca iti . ittvam api tvayā vaktavyam yat samānāśrayam tadartham : utpipaviṣate saṃyiyaviṣati iti evamartham . tasmāt sthānivat iti eṣaḥ eva pakṣaḥ jyāyān .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५८।२-१५९।४ रो इ,४६९-४७१ अर्थस्य सञ्ज्ञा कर्तव्या शब्दस्य मा भूत् इति । इतरेतराश्रयम् च भवति । का इतरेतराश्रयता । सतः अदर्शनस्य सञ्ज्ञया भवितव्यम् सञ्ज्ञय च अदर्शनम् भाव्यते । तत् एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च कार्याणि न प्रकल्पन्ते । लोपसञ्ज्ञायाम् अर्थसतोः उक्तम् । किम् उक्तम् । अर्थस्य तावत् उक्तम् : इतिकरणः अर्थनिर्देशार्थः इति । सतः अपि उक्तम् : सिद्धम् तु नित्यशब्दत्वात् इति । नित्याः शब्दाः । नित्येषु च शब्देषु सतः अदर्शनस्य सञ्ज्ञा क्रियते । न सञ्ज्ञया अदर्शनम् भाव्यते । सर्वप्रसङ्गः तु सर्वस्य अन्यत्र अदृष्टत्वात् । सर्वप्रसङ्गः तु भवति । सर्वस्य अदर्शनस्य लोपसञ्ज्ञा प्राप्नोति । किम् कारणम् । सर्वस्य अन्यत्र अदृष्टत्वात् । सर्वः हि शब्दः यः यस्य प्रयोगविषयः सः ततः अन्यत्र न दृश्यते । त्रपु जतु इति अत्र अणः अदर्शनम् । तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति । तत्र कः दोषः । तत्र प्रत्ययलक्षणप्रतिषेधः । तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । अचः ञ्णिति इति वृद्धिः प्राप्नोति । न एषः दोषः । ञ्णिति अङ्गस्य अचः वृद्धिः उच्यते । यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् भवति । यस्मात् च अत्र प्रत्ययविधिः न तत् प्रत्यये परतः यत् च प्रत्यये परतः न तस्मात् प्रत्ययविधिः । क्विपः तर्हि अदर्शनम् । तत्र अदर्शनम् लोपः इति लोपसञ्ज्ञा प्राप्नोति । तत्र कः दोषः । तत्र प्रत्ययलक्षणप्रतिषेधः । तत्र प्रत्ययलक्षणम् कार्यम् प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति । सिद्धम् तु प्रसक्तादर्शनस्य लोपसञ्ज्ञित्वात् । सिद्धम् एतत् । कथम् । प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति वक्तव्यम् । यदि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यते ग्रामणीः , सेनानीः : अत्र वृद्धिः प्राप्नोति । प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति षष्ठीनिर्दिष्टस्य । यदि षष्ठीनिर्दिष्टस्य इति उच्यते चाहलोपे एव इति अवधारणे चादिलोपे विभाषा इति अत्र लोपसञ्ज्ञा न प्राप्नोति । अथ प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति उच्यमाने कथम् इव एतत् सिध्यति । कः शब्दस्य प्रसङ्गः । यत्र गम्यते च अर्थः न च प्रयुज्यते । अस्तु तर्हि प्रसक्तादर्शनम् लोपसञ्ज्ञम् भवति इति एव । कथम् ग्रामणीः , सेनानीः । यः अत्र अणः प्रसङ्गः क्विपा असौ बाध्यते ।

KA I,158.2-159.4 Ro I,469-471 arthasya sañjñā kartavyā śabdasya mā bhūt iti . itaretarāśrayam ca bhavati . kā itaretarāśrayatā . sataḥ adarśanasya sañjñayā bhavitavyam sañjñaya ca adarśanam bhāvyate . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca kāryāṇi na prakalpante . lopasañjñāyām arthasatoḥ uktam . kim uktam . arthasya tāvat uktam : itikaraṇaḥ arthanirdeśārthaḥ iti . sataḥ api uktam : siddham tu nityaśabdatvāt iti . nityāḥ śabdāḥ . nityeṣu ca śabdeṣu sataḥ adarśanasya sañjñā kriyate . na sañjñayā adarśanam bhāvyate . sarvaprasaṅgaḥ tu sarvasya anyatra adṛṣṭatvāt . sarvaprasaṅgaḥ tu bhavati . sarvasya adarśanasya lopasañjñā prāpnoti . kim kāraṇam . sarvasya anyatra adṛṣṭatvāt . sarvaḥ hi śabdaḥ yaḥ yasya prayogaviṣayaḥ saḥ tataḥ anyatra na dṛśyate . trapu jatu iti atra aṇaḥ adarśanam . tatra adarśanam lopaḥ iti lopasañjñā prāpnoti . tatra kaḥ doṣaḥ . tatra pratyayalakṣaṇapratiṣedhaḥ . tatra pratyayalakṣaṇam kāryam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . acaḥ ñṇiti iti vṛddhiḥ prāpnoti . na eṣaḥ doṣaḥ . ñṇiti aṅgasya acaḥ vṛddhiḥ ucyate . yasmāt pratyayavidhiḥ tadādi pratyaye aṅgam bhavati . yasmāt ca atra pratyayavidhiḥ na tat pratyaye parataḥ yat ca pratyaye parataḥ na tasmāt pratyayavidhiḥ . kvipaḥ tarhi adarśanam . tatra adarśanam lopaḥ iti lopasañjñā prāpnoti . tatra kaḥ doṣaḥ . tatra pratyayalakṣaṇapratiṣedhaḥ . tatra pratyayalakṣaṇam kāryam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . siddham tu prasaktādarśanasya lopasañjñitvāt . siddham etat . katham . prasaktādarśanam lopasañjñam bhavati iti vaktavyam . yadi prasaktādarśanam lopasañjñam bhavati iti ucyate grāmaṇīḥ , senānīḥ : atra vṛddhiḥ prāpnoti . prasaktādarśanam lopasañjñam bhavati ṣaṣṭhīnirdiṣṭasya . yadi ṣaṣṭhīnirdiṣṭasya iti ucyate cāhalope eva iti avadhāraṇe cādilope vibhāṣā iti atra lopasañjñā na prāpnoti . atha prasaktādarśanam lopasañjñam bhavati iti ucyamāne katham iva etat sidhyati . kaḥ śabdasya prasaṅgaḥ . yatra gamyate ca arthaḥ na ca prayujyate . astu tarhi prasaktādarśanam lopasañjñam bhavati iti eva . katham grāmaṇīḥ , senānīḥ . yaḥ atra aṇaḥ prasaṅgaḥ kvipā asau bādhyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१५९।६-१६०।२३ रो इ,४७१-४७६ प्रत्ययग्रहणम् किमर्थम् । लुमति प्रत्ययग्रहणम् अप्रत्ययसञ्ज्ञाप्रतिषेधार्थम् । लुमति प्रत्ययग्रहणम् क्रियते अप्रत्ययस्य एताः सञ्ज्ञाः मा भूवन् इति । किम् प्रयोजनम् । प्रयोजनम् तद्धितलुकि कंसीयपरशव्ययोः लुकि च गोप्रकृतिनिवृत्त्यर्थम् । तद्धितलुकि गोनिवृत्त्यर्थम् कंसीयपरशव्ययोः च लुकि प्रकृतिनिवृत्त्यर्थम् । लुक् तद्धितलुकि इति गोः अपि लुक् प्राप्नोति । प्रत्ययग्रहणात् न भवति । कंसीयपरशव्ययोः यञञौ लुक् च इति प्रकृतेः अपि लुक् प्राप्नोति । प्रत्ययग्रहणात् न भवति । गोनिवृत्त्यर्थेन तावत् न अर्थः । योगविभागात् सिद्धम् । योगविभागः करिष्यते : गोः उपसर्जनस्य । गोन्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति । ततः स्त्रियाः । स्त्रीप्रत्ययान्तस्य प्रातिपदिकस्य उपसर्जनस्य ह्रस्वः भवति । ततः लुक् तद्धितलुकि इति । स्त्रियाः इति वर्तते । गोः इति निवृत्तम् । कंसीयपरशव्ययोः विशिष्टनिर्देशात् सिद्धम् । कंसीयपरशव्ययोः अपि विशिष्टनिर्देश्ः कर्तव्यः : कंसीयपरशव्ययोः यञञौ भवतः छयतोः च लुक् भवति इति । सः च अवश्यम् विशिष्टनिर्देशः कर्तव्यः क्रियमाणे अपि वै प्रत्ययग्रहणे उकारसशब्दयोः मा भूत् इति : कमेः सः कंसः । परान् शृणाति इति परशुः इति । न एषः दोषः । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । सः एषः अनन्यार्थः विशिष्टनिर्देशः कर्तव्यः प्रत्ययग्रहणम् वा कर्तव्यम् । उक्तम् वा । किम् उक्तम् । ङ्याप्प्रातिपदिकग्रहणम् आङ्गभपदसञ्ज्ञार्थम् यच्छयोः च लुगर्थम् इति । षष्ठीनिर्देशार्थम् तु । षष्ठीनिर्देशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् । अनिर्देशे हि षष्ठ्यर्थाप्रसिद्धिः । अक्रियमाणे हि प्रत्ययग्रहणे षष्ठ्यर्थस्य अप्रसिद्धिः स्यात् । कस्य । स्थानेयोगत्वस्य । क्व पुनः इह षष्ठीनिर्देशार्थेन अर्थः प्रत्ययग्रहणेन यावता सर्वत्र एव षष्ठी उच्चार्यते : अणिञोः तद्राजस्य यञञोः शपः इति । इह न का चित् षष्ठी : जनपदे लुप् इति । अत्र अपि प्रकृतम् प्रत्ययग्रहणम् अनुवर्तते । क्व प्रकृतम् । प्रत्ययः परः च इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । ङ्याप्प्रातिपदिकात् इति एषा पञ्चमी प्रत्ययः इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य । प्रत्ययविधिः अयम् । न च प्रत्ययविधौ पञ्चम्यः प्रकल्पिकाः भवन्ति । न अयम् प्रत्ययविधिः । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । सर्वादेशार्थम् वा वचनप्रामाण्यात् । सर्वादेशार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् । लुक्श्लुलुपः सर्वादेशाः यथा स्युः । अथ क्रियमाणे अपि प्रत्ययग्रहणे कथम् इव लुक्श्लुलुपः सर्वादेशाः लभ्याः । वचनप्रामाण्यात् : प्रत्ययग्रहणसामाऋथ्यात् । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति लुक्श्लुलुपः सर्वादेशाः भवन्ति इति यत् अयम् लुक् वा दुहदिहलिहगुहाम् आत्मनेपदे दन्त्ये इति लोपे कृते लुकम् शास्ति । उत्तरार्थम् तु । उत्तरार्थम् तर्हि प्रत्ययग्रहणम् कर्तव्यम् । न कर्तव्यम्। क्रियते तत्र एव : प्रत्ययलोपे प्रत्ययलक्षणम् इति । द्वितीयम् कर्तव्यम् कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् । एकदेशलोपे मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति ।

KA I,159.6-160.23 Ro I,471-476 pratyayagrahaṇam kimartham . lumati pratyayagrahaṇam apratyayasañjñāpratiṣedhārtham . lumati pratyayagrahaṇam kriyate apratyayasya etāḥ sañjñāḥ mā bhūvan iti . kim prayojanam . prayojanam taddhitaluki kaṃsīyaparaśavyayoḥ luki ca goprakṛtinivṛttyartham . taddhitaluki gonivṛttyartham kaṃsīyaparaśavyayoḥ ca luki prakṛtinivṛttyartham . luk taddhitaluki iti goḥ api luk prāpnoti . pratyayagrahaṇāt na bhavati . kaṃsīyaparaśavyayoḥ yañañau luk ca iti prakṛteḥ api luk prāpnoti . pratyayagrahaṇāt na bhavati . gonivṛttyarthena tāvat na arthaḥ . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate : goḥ upasarjanasya . gontasya prātipadikasya upasarjanasya hrasvaḥ bhavati . tataḥ striyāḥ . strīpratyayāntasya prātipadikasya upasarjanasya hrasvaḥ bhavati . tataḥ luk taddhitaluki iti . striyāḥ iti vartate . goḥ iti nivṛttam . kaṃsīyaparaśavyayoḥ viśiṣṭanirdeśāt siddham . kaṃsīyaparaśavyayoḥ api viśiṣṭanirdeśḥ kartavyaḥ : kaṃsīyaparaśavyayoḥ yañañau bhavataḥ chayatoḥ ca luk bhavati iti . saḥ ca avaśyam viśiṣṭanirdeśaḥ kartavyaḥ kriyamāṇe api vai pratyayagrahaṇe ukārasaśabdayoḥ mā bhūt iti : kameḥ saḥ kaṃsaḥ . parān śṛṇāti iti paraśuḥ iti . na eṣaḥ doṣaḥ . uṇādayaḥ avyutpannāni prātipadikāni . saḥ eṣaḥ ananyārthaḥ viśiṣṭanirdeśaḥ kartavyaḥ pratyayagrahaṇam vā kartavyam . uktam vā . kim uktam . ṅyāpprātipadikagrahaṇam āṅgabhapadasañjñārtham yacchayoḥ ca lugartham iti . ṣaṣṭhīnirdeśārtham tu . ṣaṣṭhīnirdeśārtham tarhi pratyayagrahaṇam kartavyam . anirdeśe hi ṣaṣṭhyarthāprasiddhiḥ . akriyamāṇe hi pratyayagrahaṇe ṣaṣṭhyarthasya aprasiddhiḥ syāt . kasya . sthāneyogatvasya . kva punaḥ iha ṣaṣṭhīnirdeśārthena arthaḥ pratyayagrahaṇena yāvatā sarvatra eva ṣaṣṭhī uccāryate : aṇiñoḥ tadrājasya yañañoḥ śapaḥ iti . iha na kā cit ṣaṣṭhī : janapade lup iti . atra api prakṛtam pratyayagrahaṇam anuvartate . kva prakṛtam . pratyayaḥ paraḥ ca iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . ṅyāpprātipadikāt iti eṣā pañcamī pratyayaḥ iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya . pratyayavidhiḥ ayam . na ca pratyayavidhau pañcamyaḥ prakalpikāḥ bhavanti . na ayam pratyayavidhiḥ . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . sarvādeśārtham vā vacanaprāmāṇyāt . sarvādeśārtham tarhi pratyayagrahaṇam kartavyam . lukślulupaḥ sarvādeśāḥ yathā syuḥ . atha kriyamāṇe api pratyayagrahaṇe katham iva lukślulupaḥ sarvādeśāḥ labhyāḥ . vacanaprāmāṇyāt : pratyayagrahaṇasāmāṛthyāt . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati lukślulupaḥ sarvādeśāḥ bhavanti iti yat ayam luk vā duhadihalihaguhām ātmanepade dantye iti lope kṛte lukam śāsti . uttarārtham tu . uttarārtham tarhi pratyayagrahaṇam kartavyam . na kartavyam. kriyate tatra eva : pratyayalope pratyayalakṣaṇam iti . dvitīyam kartavyam kṛtsnapratyayalope pratyayalakṣaṇam yathā syāt . ekadeśalope mā bhūt iti : āghnīta sam rāyaspoṣeṇa gmīya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६०।२५-१६१।१४। रो इ,४७६-४७८ प्रत्ययग्रहणम् किमर्थम्। लोपे प्रत्ययलक्षणम् इति इयति उच्यमाने सौरथी वहती इति गुरूपोत्तमलक्षणः ष्यङ् प्रसज्येत । न एषः दोषः । न एवम् विज्ञायते : लोपे प्रत्ययलक्षणम् प्रत्ययस्य प्रादुर्भावः इति । कथम् तर्हि । प्रत्ययः लक्षणम् यस्य कार्यस्य तत् लुप्ते अपि भवति इति । इदम् तर्हि प्रयोजनम् : सति प्रत्यये यत् प्राप्नोति तत् प्रत्ययलक्षनेन यथा स्यात् । लोपोत्तरकालम् यत् प्राप्नोति तत् प्रत्ययलक्षणेन मा भूत् इति । किम् प्रयोजनम् । ग्रामणिकुलम् , सेनानिकुलम् : औत्तरपदिके ह्रस्वत्वे कृते ह्रस्वस्य पिति कृति तुक् भवति इति तुक् प्राप्नोति । सः मा भूत् इति । यदि तर्हि यत् सति प्रत्यये प्राप्नोति तत् प्रत्ययलक्षनेन भवति । लोपोत्तरकालम् यत् प्राप्नोति तत् न भवति जगत् , जनगत् इति अत्र तुक् न प्राप्नोति । लोपोत्तरकलः हि अत्र तुक् आगमः । तस्मात् न अर्थः एवमर्थेन प्रत्ययग्रहणेन । कस्मात् न भवति ग्रामणिकुलम् , सेनानिकुलम् । बहिरङ्गम् ह्रस्वत्वम् । अन्तरङ्गः तुक् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । इदम् तर्हि प्रयोजनम् : कृत्स्नप्रत्ययलोपे प्रत्ययलक्षणम् यथा स्यात् । एकदेशलोपे मा भूत् इति : आघ्नीत सम् रायस्पोषेण ग्मीय इति । पूर्वस्मिन् अपि योगे प्रत्ययग्रहणस्य एतत् प्रयोजनम् उक्तम्। अन्यतरत् शक्यम् अकर्तुम् । अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् । प्रत्ययलक्षणम् यथा स्यात् वर्णलक्षणम् मा भूत् इति : गवे हितम् गोहितम् , रायः कुलम् रैकुलम् इति ।

KA I,160.25-161.14. Ro I,476-478 pratyayagrahaṇam kimartham. lope pratyayalakṣaṇam iti iyati ucyamāne saurathī vahatī iti gurūpottamalakṣaṇaḥ ṣyaṅ prasajyeta . na eṣaḥ doṣaḥ . na evam vijñāyate : lope pratyayalakṣaṇam pratyayasya prādurbhāvaḥ iti . katham tarhi . pratyayaḥ lakṣaṇam yasya kāryasya tat lupte api bhavati iti . idam tarhi prayojanam : sati pratyaye yat prāpnoti tat pratyayalakṣanena yathā syāt . lopottarakālam yat prāpnoti tat pratyayalakṣaṇena mā bhūt iti . kim prayojanam . grāmaṇikulam , senānikulam : auttarapadike hrasvatve kṛte hrasvasya piti kṛti tuk bhavati iti tuk prāpnoti . saḥ mā bhūt iti . yadi tarhi yat sati pratyaye prāpnoti tat pratyayalakṣanena bhavati . lopottarakālam yat prāpnoti tat na bhavati jagat , janagat iti atra tuk na prāpnoti . lopottarakalaḥ hi atra tuk āgamaḥ . tasmāt na arthaḥ evamarthena pratyayagrahaṇena . kasmāt na bhavati grāmaṇikulam , senānikulam . bahiraṅgam hrasvatvam . antaraṅgaḥ tuk . asiddham bahiraṅgam antaraṅge . idam tarhi prayojanam : kṛtsnapratyayalope pratyayalakṣaṇam yathā syāt . ekadeśalope mā bhūt iti : āghnīta sam rāyaspoṣeṇa gmīya iti . pūrvasmin api yoge pratyayagrahaṇasya etat prayojanam uktam. anyatarat śakyam akartum . atha dvitīyam pratyayagrahaṇam kimartham . pratyayalakṣaṇam yathā syāt varṇalakṣaṇam mā bhūt iti : gave hitam gohitam , rāyaḥ kulam raikulam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६१।१५-१६२।२१ रो इ,४७९-४८२ किमर्थम् पुनः इदम् उच्यते । प्रत्ययलोपे प्रत्ययलक्षणवचनम् सदन्वाख्यानात् शास्त्रस्य । प्रत्ययलोपे प्रत्ययलक्षणम् इति उच्यते सदन्वाख्यानात् शास्त्रस्य । सत् शास्त्रेण अन्वाख्यायते सतः वा शास्त्रम् अन्व्याखायकम् भवति । सदन्वाख्यानात् शास्त्रस्य उगिदचाम् सर्वनामस्थाने अधातोः इति इह : एव स्यात् गोमन्तौ यवमन्तौ । गोमान् यवमान् इति अत्र न स्यात् । इष्यते च स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति । अतः प्रत्ययलोपे प्रत्ययलक्षणवचनम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति। लुकि उपसङ्ख्यानम् । लुकि उपसङ्ख्यानम् कर्तव्यम् : पञ्च सप्त । किम् पुनः कारणम् न सिध्यति । लोपे हि विधानम् । लोपे हि प्रत्ययलक्षणम् विधीयते । तेन लुकि न प्राप्नोति । न वा अदर्शनस्य लोपसञ्ज्ञित्वात् । न वा कर्तव्यम् । किम् कारणम् । अदर्शनस्य लोपसञ्ज्ञित्वात् । अदर्शनम् लोपसञ्ज्ञम् इति उच्यते । लुमत्सञ्ज्ञाः च अदर्शनस्य क्रियन्ते । तेन लुकि अपि भविष्यति । यदि एवम् । प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् । प्रत्ययादर्शनम् तु लुमत्सञ्ज्ञम् अपि प्राप्नोति । तत्र कः दोषः । तत्र लुकि श्लुविधिप्रतिषेधः । तत्र लुकि श्लुविधिः अपि प्राप्नोति । सः प्रतिषेध्यः : अत्ति हन्ति । श्लौ इति द्विर्वचनम् प्राप्नोति । न वा पृथक्सञ्ज्ञाकरणात् । न वा एषः दोषः । किम् कारणम् । पृथक्सञ्ज्ञाकरणात् । पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुकि श्लुविधिः न भविष्यति । तस्मात् अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते । यथा एव तर्हि अदर्शनसामान्यात् लोपसञ्ज्ञा लुमत्सञ्ज्ञाः अवगाहते एवम् लुमत्सञ्ज्ञाः अपि लोपसञ्ज्ञाम् अवगाहेरन् । तत्र कः दोषः । अगोमती गोमती सम्पन्ना गोमतीभूता : लुक् तद्धितलुकि इति ङीपः लुक् प्रसज्येत । ननु च अत्र अपि पृथक्सञ्ज्ञाकरणात् इति एव सिद्धम् । यथा एव तर्हि पृथक्सञ्ज्ञाकरणसामर्थ्यात् लुमत्सञ्ज्ञाः लोपसञ्ज्ञाम् न अवगाहन्ते एवम् लोपसञ्ज्ञा अपि लुमत्सञ्ज्ञाः न अवगाहेत । तत्र सः एव दोषः : लुकि उपसङ्ख्यानम् इति । अस्ति अन्यत् लोपसञ्ज्ञायाः पृथक्सञ्ज्ञाकरणे प्रयोजनम् । किम्। लुमत्सञ्ज्ञासु यत् उच्यते तत् लोपमात्रे मा भूत् इति । लुमति प्रतिषेधात् वा । अथ वा यत् अयम् न लुमता अङ्गस्य इति प्रत्षेधम् शास्ति तत् ज्ञापयति आचार्यः भवति लुकि प्रत्ययलक्षणम् इति ।

KA I,161.15-162.21 Ro I,479-482 kimartham punaḥ idam ucyate . pratyayalope pratyayalakṣaṇavacanam sadanvākhyānāt śāstrasya . pratyayalope pratyayalakṣaṇam iti ucyate sadanvākhyānāt śāstrasya . sat śāstreṇa anvākhyāyate sataḥ vā śāstram anvyākhāyakam bhavati . sadanvākhyānāt śāstrasya ugidacām sarvanāmasthāne adhātoḥ iti iha : eva syāt gomantau yavamantau . gomān yavamān iti atra na syāt . iṣyate ca syāt iti . tat ca antareṇa yatnam na sidhyati . ataḥ pratyayalope pratyayalakṣaṇavacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti. luki upasaṅkhyānam . luki upasaṅkhyānam kartavyam : pañca sapta . kim punaḥ kāraṇam na sidhyati . lope hi vidhānam . lope hi pratyayalakṣaṇam vidhīyate . tena luki na prāpnoti . na vā adarśanasya lopasañjñitvāt . na vā kartavyam . kim kāraṇam . adarśanasya lopasañjñitvāt . adarśanam lopasañjñam iti ucyate . lumatsañjñāḥ ca adarśanasya kriyante . tena luki api bhaviṣyati . yadi evam . pratyayādarśanam tu lumatsañjñam . pratyayādarśanam tu lumatsañjñam api prāpnoti . tatra kaḥ doṣaḥ . tatra luki śluvidhipratiṣedhaḥ . tatra luki śluvidhiḥ api prāpnoti . saḥ pratiṣedhyaḥ : atti hanti . ślau iti dvirvacanam prāpnoti . na vā pṛthaksañjñākaraṇāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . pṛthaksañjñākaraṇāt . pṛthaksañjñākaraṇasāmarthyāt luki śluvidhiḥ na bhaviṣyati . tasmāt adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate . yathā eva tarhi adarśanasāmānyāt lopasañjñā lumatsañjñāḥ avagāhate evam lumatsañjñāḥ api lopasañjñām avagāheran . tatra kaḥ doṣaḥ . agomatī gomatī sampannā gomatībhūtā : luk taddhitaluki iti ṅīpaḥ luk prasajyeta . nanu ca atra api pṛthaksañjñākaraṇāt iti eva siddham . yathā eva tarhi pṛthaksañjñākaraṇasāmarthyāt lumatsañjñāḥ lopasañjñām na avagāhante evam lopasañjñā api lumatsañjñāḥ na avagāheta . tatra saḥ eva doṣaḥ : luki upasaṅkhyānam iti . asti anyat lopasañjñāyāḥ pṛthaksañjñākaraṇe prayojanam . kim. lumatsañjñāsu yat ucyate tat lopamātre mā bhūt iti . lumati pratiṣedhāt vā . atha vā yat ayam na lumatā aṅgasya iti pratṣedham śāsti tat jñāpayati ācāryaḥ bhavati luki pratyayalakṣaṇam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६२।२२-१६४।१० रो इ,४८२-४८६ सतः निमित्ताभावात् पदसञ्ज्ञाभावः । सन् प्रत्ययः येषाम् कार्याणाम् अनिमित्तम् : राज्ञः पुरुषः इति सः लुप्तः अपि अनिमित्तम् स्यात्: राजपुरुषः इति । अस्तु तस्याः अनिमित्तम् या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति । सति एतत्प्रत्यये आसीत् : अनया भविष्यति अनया न भविष्यति इति । लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति । अस्ति च प्रत्ययलक्षणेन यजादिपरता इति कृत्वा भसञ्ज्ञा प्राप्नोति । तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति । तुग्दीर्घत्वयोः च विप्रतिषेधः न उपपद्यते । क्व । परिवीः इति । किम् कारणम् । एकयोगलक्षणत्वात् । एकयोगलक्षणे तुग्दीर्घत्वे । इह लुप्ते प्रत्यये सर्वाणि प्रत्ययाश्रयाणि कार्याणि पर्यवपन्नानि भवन्ति । तानि एतानि प्रत्युत्थाप्यन्ते । अनेन एव तुक् अनेन एव च दीर्घत्वम् इति । तत् एतत् एकयोगलक्षणम् भवति । एकयोगलक्षणानि च न प्रकल्पन्ते । सिद्धम् तु स्थानिसञ्ज्ञानुदेशात् आन्यभाव्यस्य । सिद्धम् एतत् । कथम् । स्थानिसञ्ज्ञा अन्यभूतस्य भवति इति वक्तव्यम् । किम् कृतम् भवति । सत्तामात्रम् अनेन क्रियते । यथाप्राप्ते तुग्दीर्घत्वे भविष्यतः । तत् वक्तव्यम् भवति । यदि अपि एतत् उच्यते अथ वा एतर्हि स्थानिवद्भावः न आरभ्यते । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वक्ष्यामि । यदि एवम् आङः यमहनः आत्मनेपदम् भवति इति हन्तेः एव स्यात् वधेः न स्यात् । न हि का चित् हन्तेः सञ्ज्ञा अस्ति या वधेः अतिदिश्येत । हन्तेः अपि सञ्ज्ञा अस्ति । का । हन्तिः एव । कथम् । स्वम् रूपम् शब्दस्य अशब्दसञ्ज्ञा इति वचनात् स्वम् रूपम् शब्दस्य सञ्ज्ञा भवति इति हन्तेः अपि हन्तिः सञ्ज्ञा भविष्यति । भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् । भसञ्ज्ञाङीप्ष्फगोरात्वेषु च सिद्धम् भवति । भसञ्ज्ञा : राज्ञः पुरुषः राजपुरुषः । प्रत्ययलक्षणेन यचि भम् इति भासञ्ज्ञा प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । ङीप् : चित्रायाम् जाता चित्रा । प्रत्ययलक्षणेन अणन्तात् ईकारः प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । ष्फ : वतङ्डी । प्रत्ययलक्षणेन यञन्तात् इति ष्फः प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । गोः आत्वम् । गाम् इच्छति गव्यति । प्रत्ययलक्षणेन अमि आ ओतः अम्शसोः इति आत्वम् प्राप्नोति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न भवति । तस्य दोषः ङौनकारलोपेत्त्वेम्विधयः । तस्य एतस्य लक्षणस्य दोषः ङौनकारलोपः । आर्द्रे चर्मन् लोहिते चर्मन् । प्रत्ययलक्षणेन यचि भम् इति भसञ्ज्ञा सिद्धा भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति । इत्त्वम् : आशीः । प्रत्ययलक्षणेन हलि इति इत्वम् सिद्धम् भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति । इम् : अतृणेत् । प्रत्ययलक्षणेन हलि इति इत्त्वम् सिद्धम् भवति । स्थानिसञ्ज्ञा अन्यभूतस्य अनल्विधौ इति वचनात् न प्राप्नोति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् सतः निमित्ताभावात् पदसञ्ज्ञाभावः तुग्दीर्घत्वयोः च विप्रतिषेधानुपपत्तिः एकयोगलक्षणत्वात् परिवीः इति । न एषः दोषः । वक्ष्यति अत्र परिहारम् । इह अपि परिवीः इति शास्त्रपरविप्रतिषेधेन परत्वात् दीर्घत्वम् भविष्यति ।

KA I,162.22-164.10 Ro I,482-486 sataḥ nimittābhāvāt padasañjñābhāvaḥ . san pratyayaḥ yeṣām kāryāṇām animittam : rājñaḥ puruṣaḥ iti saḥ luptaḥ api animittam syāt: rājapuruṣaḥ iti . astu tasyāḥ animittam yā svādau padam iti padasañjñā yā tu subantam padam iti padasañjñā sā bhaviṣyati . sati etatpratyaye āsīt : anayā bhaviṣyati anayā na bhaviṣyati iti . lupte idānīm pratyaye yāvataḥ eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam padam iti . asti ca pratyayalakṣaṇena yajādiparatā iti kṛtvā bhasañjñā prāpnoti . tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt parivīḥ iti . tugdīrghatvayoḥ ca vipratiṣedhaḥ na upapadyate . kva . parivīḥ iti . kim kāraṇam . ekayogalakṣaṇatvāt . ekayogalakṣaṇe tugdīrghatve . iha lupte pratyaye sarvāṇi pratyayāśrayāṇi kāryāṇi paryavapannāni bhavanti . tāni etāni pratyutthāpyante . anena eva tuk anena eva ca dīrghatvam iti . tat etat ekayogalakṣaṇam bhavati . ekayogalakṣaṇāni ca na prakalpante . siddham tu sthānisañjñānudeśāt ānyabhāvyasya . siddham etat . katham . sthānisañjñā anyabhūtasya bhavati iti vaktavyam . kim kṛtam bhavati . sattāmātram anena kriyate . yathāprāpte tugdīrghatve bhaviṣyataḥ . tat vaktavyam bhavati . yadi api etat ucyate atha vā etarhi sthānivadbhāvaḥ na ārabhyate . sthānisañjñā anyabhūtasya analvidhau iti vakṣyāmi . yadi evam āṅaḥ yamahanaḥ ātmanepadam bhavati iti hanteḥ eva syāt vadheḥ na syāt . na hi kā cit hanteḥ sañjñā asti yā vadheḥ atidiśyeta . hanteḥ api sañjñā asti . kā . hantiḥ eva . katham . svam rūpam śabdasya aśabdasañjñā iti vacanāt svam rūpam śabdasya sañjñā bhavati iti hanteḥ api hantiḥ sañjñā bhaviṣyati . bhasañjñāṅīpṣphagorātveṣu ca siddham . bhasañjñāṅīpṣphagorātveṣu ca siddham bhavati . bhasañjñā : rājñaḥ puruṣaḥ rājapuruṣaḥ . pratyayalakṣaṇena yaci bham iti bhāsañjñā prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . ṅīp : citrāyām jātā citrā . pratyayalakṣaṇena aṇantāt īkāraḥ prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . ṣpha : vataṅḍī . pratyayalakṣaṇena yañantāt iti ṣphaḥ prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . goḥ ātvam . gām icchati gavyati . pratyayalakṣaṇena ami ā otaḥ amśasoḥ iti ātvam prāpnoti . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na bhavati . tasya doṣaḥ ṅaunakāralopettvemvidhayaḥ . tasya etasya lakṣaṇasya doṣaḥ ṅaunakāralopaḥ . ārdre carman lohite carman . pratyayalakṣaṇena yaci bham iti bhasañjñā siddhā bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . ittvam : āśīḥ . pratyayalakṣaṇena hali iti itvam siddham bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . im : atṛṇet . pratyayalakṣaṇena hali iti ittvam siddham bhavati . sthānisañjñā anyabhūtasya analvidhau iti vacanāt na prāpnoti . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam sataḥ nimittābhāvāt padasañjñābhāvaḥ tugdīrghatvayoḥ ca vipratiṣedhānupapattiḥ ekayogalakṣaṇatvāt parivīḥ iti . na eṣaḥ doṣaḥ . vakṣyati atra parihāram . iha api parivīḥ iti śāstraparavipratiṣedhena paratvāt dīrghatvam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६४।११-१६५।१३ रो इ,४८६-४९० कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् अपृक्तशिलोपे नुम् अमामौ गुणवृद्धिदीर्घत्वेमडाट्श्नम्विधयः । अपृक्तलोपे शिलोपे च कृते नुम् अमामौ गुणवृद्धी दीर्घत्वम् इमडाटौ श्नम्विधिः इति प्रयोजनानि । नुम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् । नुम् । अमामौ : हे अनड्वन् , अनड्वान् । गुणः : अधोक् , अलेट् । वृद्धिः : नि अमार्ट् । दीर्घत्वम् : अग्ने त्री ते वजिना त्री सधस्था , त ता पिण्डानाम् । इम् : अतृणेट् । अडाटौ : अधोक् , अलेट् , ऐयः , औनः । श्नम्विधिः : अभिनः अत्र , अच्छिनः अत्र । अपृक्तशिलोपयोः कृतयोः एते विधयः न प्राप्नुवन्ति । प्रत्ययलक्षणेन भवन्ति । न एतानि सन्ति प्रयोजनानि । स्थानिवद्भावेन अपि एतानि सिद्धानि । न सिध्यन्ति । आदेशः स्थानिवत् इति उच्यते । न च लोपः आदेशः । लोपः अपि आदेशः । कथम् । आदिश्यते यः सः आदेशः । लोपः अपि आदिश्यते । दोषः खलु अपि स्यात् यदि लोपः न आदेशः स्यात् । इह अचः परस्मिन् पूर्वविधौ इति एतस्य भूयिष्ठानि लोपे उदाहरणानि तानि न स्युः । यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः । क्व च स्थानिवद्भावः न अस्ति । यः अल्विधिः । किम् प्रयोजनम् । प्रयोजनम् ङौनकार्लोपेत्त्वेम्विधयः । भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः । भसञ्ज्ञाङीप्ष्फ्गोरात्वेषु दोषः भवति। भसञ्ज्ञायाम् तावत् न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययलक्षणेन भसञ्ज्ञा भवति इति यत् अयम् न ङिसम्बुद्ध्योः इति ङौ प्रतिषेधम् शास्ति । ङीपि अपि : न एवम् विज्ञायते : अणन्तात् अकारान्तात् । कथम् तर्हि । अण् यः अकारः इति । ष्फे अपि : न एवम् विज्ञायते : यञन्तात् अकारन्तात् इति । कथम् तर्हि । यञ् यः अकारः इति । गोः आत्वे अपि : न एवम् विज्ञायते : अमि अचि इति । कथम् तर्हि । अचि अमि इति । प्रयोजनानि अपि तर्हि तानि न सन्ति । यत् तावत् उच्यते ङौनकार्लोपः इति क्रियते एतत् न्यासे एव : न ङिसम्बुद्ध्योः इति । इत्त्वम् अपि । वक्ष्यति एतत् : शासः इत्त्वे आशासः क्वौ इति । इम्विधिः अपि : हलि इति निवृत्तम् । यदि हलि इति निवृत्तम् तृणहानि अत्र अपि प्राप्नोति । एवम् तर्हि अचि न इति अपि अनुवर्तिष्यते । न तर्हि इदानीम् अयम् योगः वक्तव्यः । वक्तव्यः च । किम् प्रयोजनम् । प्रत्ययम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन यथा स्यात् शब्दम् गृहीत्वा यत् उच्यते तत् प्रत्ययलक्षणेन मा भूत् इति । किम् प्रयोजनम् । शोभनाः दृषदः अस्य सुदृषत् ब्राह्मणः । सोः मनसी* अलोमोषसी* इति एषः स्वरः मा भूत् इति ।

KA I,164.11-165.13 Ro I,486-490 kāni punaḥ asya yogasya prayojanāni . prayojanam apṛktaśilope num amāmau guṇavṛddhidīrghatvemaḍāṭśnamvidhayaḥ . apṛktalope śilope ca kṛte num amāmau guṇavṛddhī dīrghatvam imaḍāṭau śnamvidhiḥ iti prayojanāni . num : agne trī te vajinā trī sadhasthā , ta tā piṇḍānām . num . amāmau : he anaḍvan , anaḍvān . guṇaḥ : adhok , aleṭ . vṛddhiḥ : ni amārṭ . dīrghatvam : agne trī te vajinā trī sadhasthā , ta tā piṇḍānām . im : atṛṇeṭ . aḍāṭau : adhok , aleṭ , aiyaḥ , aunaḥ . śnamvidhiḥ : abhinaḥ atra , acchinaḥ atra . apṛktaśilopayoḥ kṛtayoḥ ete vidhayaḥ na prāpnuvanti . pratyayalakṣaṇena bhavanti . na etāni santi prayojanāni . sthānivadbhāvena api etāni siddhāni . na sidhyanti . ādeśaḥ sthānivat iti ucyate . na ca lopaḥ ādeśaḥ . lopaḥ api ādeśaḥ . katham . ādiśyate yaḥ saḥ ādeśaḥ . lopaḥ api ādiśyate . doṣaḥ khalu api syāt yadi lopaḥ na ādeśaḥ syāt . iha acaḥ parasmin pūrvavidhau iti etasya bhūyiṣṭhāni lope udāharaṇāni tāni na syuḥ . yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ . kva ca sthānivadbhāvaḥ na asti . yaḥ alvidhiḥ . kim prayojanam . prayojanam ṅaunakārlopettvemvidhayaḥ . bhasañjñāṅīpṣphgorātveṣu doṣaḥ . bhasañjñāṅīpṣphgorātveṣu doṣaḥ bhavati. bhasañjñāyām tāvat na doṣaḥ . ācāryapravṛttiḥ jñāpayati na pratyayalakṣaṇena bhasañjñā bhavati iti yat ayam na ṅisambuddhyoḥ iti ṅau pratiṣedham śāsti . ṅīpi api : na evam vijñāyate : aṇantāt akārāntāt . katham tarhi . aṇ yaḥ akāraḥ iti . ṣphe api : na evam vijñāyate : yañantāt akārantāt iti . katham tarhi . yañ yaḥ akāraḥ iti . goḥ ātve api : na evam vijñāyate : ami aci iti . katham tarhi . aci ami iti . prayojanāni api tarhi tāni na santi . yat tāvat ucyate ṅaunakārlopaḥ iti kriyate etat nyāse eva : na ṅisambuddhyoḥ iti . ittvam api . vakṣyati etat : śāsaḥ ittve āśāsaḥ kvau iti . imvidhiḥ api : hali iti nivṛttam . yadi hali iti nivṛttam tṛṇahāni atra api prāpnoti . evam tarhi aci na iti api anuvartiṣyate . na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . pratyayam gṛhītvā yat ucyate tat pratyayalakṣaṇena yathā syāt śabdam gṛhītvā yat ucyate tat pratyayalakṣaṇena mā bhūt iti . kim prayojanam . śobhanāḥ dṛṣadaḥ asya sudṛṣat brāhmaṇaḥ . soḥ manasī* alomoṣasī* iti eṣaḥ svaraḥ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६५।१५-१६६।८ रो इ,४९०-४९२ लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् । लुमति प्रतिषेधे एकपदस्वरस्य उपसङ्ख्यानम् कर्तव्यम्। एकपदस्वरे च लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् । किम् अविशेषेण । न इति आह । सर्वामन्त्रितसिज्लुक्स्वरवर्जम् । सर्वस्वरम् आमन्त्रितस्वरवम् सिज्लुक्स्वरम् च वर्जयित्वा । सर्वस्वर : सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वम् यथा स्यात् । आमन्त्रितस्वर : सर्पिः आगच्छ , सप्त आगच्छत : आमन्त्रितस्य च इति आद्युदात्तत्वम् यथा स्यात् । सिज्लुक्स्वर : म हि दताम् , म हि धताम् : आदिः सिचः अन्यतरस्याम् इति एषः स्वरः यथा स्यात् । किम् प्रयोजनम् । प्रयोजनम् ञिनिकिल्लुकि स्वराः । ञिनिकित्स्वराः लुकि प्रयोजयन्ति । गर्गः , वत्सः , बिदः , उर्वः , उष्ट्रग्रीवः , वामरज्जुः : ञ्निति इति आद्युदात्तत्वम् मा भूत् इति । इह च : अत्रयः : कितः इति अन्तोदात्तत्वम् मा भूत् इति । पथिमथोः सर्वनामस्थाने । पथिमथोः सर्वनामस्थाने लुकि प्रयोजनम् । पथिप्रियः , मथिप्रियः : पथिमथोः सर्वनामस्थाने इति एषः स्वरः मा भूत् इति । अह्नः रविधौ । अह्नः रविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् । अहः ददति , अहः भुङ्क्ते : रः असुपि इति प्रत्ययलक्षणेन प्रतिषेधः मा भूत् इति ।

KA I,165.15-166.8 Ro I,490-492 lumati pratiṣedhe ekapadasvarasya upasaṅkhyānam . lumati pratiṣedhe ekapadasvarasya upasaṅkhyānam kartavyam. ekapadasvare ca lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam . kim aviśeṣeṇa . na iti āha . sarvāmantritasijluksvaravarjam . sarvasvaram āmantritasvaravam sijluksvaram ca varjayitvā . sarvasvara : sarvastomaḥ , sarvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam yathā syāt . āmantritasvara : sarpiḥ āgaccha , sapta āgacchata : āmantritasya ca iti ādyudāttatvam yathā syāt . sijluksvara : ma hi datām , ma hi dhatām : ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ yathā syāt . kim prayojanam . prayojanam ñinikilluki svarāḥ . ñinikitsvarāḥ luki prayojayanti . gargaḥ , vatsaḥ , bidaḥ , urvaḥ , uṣṭragrīvaḥ , vāmarajjuḥ : ñniti iti ādyudāttatvam mā bhūt iti . iha ca : atrayaḥ : kitaḥ iti antodāttatvam mā bhūt iti . pathimathoḥ sarvanāmasthāne . pathimathoḥ sarvanāmasthāne luki prayojanam . pathipriyaḥ , mathipriyaḥ : pathimathoḥ sarvanāmasthāne iti eṣaḥ svaraḥ mā bhūt iti . ahnaḥ ravidhau . ahnaḥ ravidhau lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam . ahaḥ dadati , ahaḥ bhuṅkte : raḥ asupi iti pratyayalakṣaṇena pratiṣedhaḥ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६६।९-१६७।२८ रो इ,४९३-४९८ उत्तरपदत्वे च अपदादिविधौ । उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति वक्तव्यम् । परमवाचा परमवाचे परमगोदुहा परमगोदुहे परमश्वलिहा परमश्वलिहे : पदस्य इति प्रत्ययलक्षणेन कुत्वादीनि मा भूवन् इति । अपदादिविधौ इति किमर्थम् । दधिसेचौ दधिसेचः : सात्पदाद्योः इति प्रतिषेधः यथा स्यात् । यदि अपदादिविधौ इति उच्यते उत्तरपदाधिकारः न प्रकल्पेत । तत्र कः दोषः । कर्णः वर्णलक्षणात् इति एवमादिः विधिः न सिध्यति । यदि पुनः नलोपादिविधौ प्लुत्यन्ते लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति उच्येत । न एवम् शक्यम् । इह हि : राजकुमार्यौ राजकुमार्यः इति शाकलम् प्रसज्येत । न एषः दोषः । यत् एतत् सिति शाकलम् न इति एतत् प्रत्यये शाकलम् न इति वक्ष्यामि । यदि प्रत्यये शाकलम् न इति उच्यते दधि अधुना मधु अधुना : अत्र अपि न प्रसज्येत । प्रत्यये शाकलम् न भवति । कस्मिन् । यस्मात् यः प्रत्ययः विहितः इति । इह तर्हि परमदिवा परमदिवे : दिव उत् इति उत्त्वम् प्राप्नोति इति। अस्तु तर्हि अविशेषेण । ननु च उक्तम् उत्तरपदाधिकारः न प्रकल्पेत इति । वचनात् उत्तरपदाधिकारः भविष्यति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अनुवृत्तिः करिष्यते । इदम् अस्ति : यस्मात् प्रतययविधिः तदादि प्रत्यये अङ्गम् , सुप्तिङन्तम् पदम् । यस्मात् सुप्तिङ्विधिः तदादि सुबन्तम् च । नः क्ये । नान्तम् क्ये पदसञ्ज्ञम् भवति यस्मात् क्यविधिः सुबन्तम् च । सिति च । सिति च पूर्वम् पदसञ्ज्ञम् भवति यस्मात् सिद्विधिः तदादि सुबन्तम् च । स्वादिषु असर्वनामस्थाने । स्वादिषु असर्वनामस्थाने पूर्वम् पदसञ्ज्ञम् भवति यस्मात् स्वादिविधिः तदादि सुबन्तम् च । यचि भम् । यजादिप्रत्यये पूर्वम् पदसञ्ज्ञम् भवति यस्मात् यजादिविधिः तदादि सुबन्तम् च । इह तर्हि : परमवाक् : असर्वनामस्थाने इति प्रतिषेधः प्राप्नोति । अस्तु तस्याः प्रतिषेधः या स्वादौ पदम् इति पदसञ्ज्ञा या तु सुबन्तम् पदम् इति पदसञ्ज्ञा सा भविष्यति । सति एतत्प्रत्यये आसीत् अनया भविष्यति अनया न भविष्यति इति । लुप्ते इदानीम् प्रत्यये यावतः एव अवधेः स्वादौ पदम् इति पदसञ्ज्ञा तावतः एव अवधेः सुबन्तम् पदम् इति । अस्ति च प्रत्ययलक्षणेन सर्वनामस्थानपरता इति कृत्वा प्रतिषेधाः च बलीयांसः भवन्ति इति प्रतिषेधः प्राप्नोति । न अप्रतिषेधात् । न अयम् प्रसज्यप्रतिषेधः : सर्वनामस्थाने न इति । किम् तर्हि । पर्युदासः अयम् : यत् अन्यत् सर्वनामस्थानात् इति । सर्वनामस्थाने अव्यापारः । यदि केन चित् प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति । अप्राप्तेः वा । अथ वा अनन्तरा य प्राप्तिः सा प्रतिषिध्यते । कुतः एतत् । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति । ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुम् । यदि एवम् परमवाचौ परमवाचः इति सुप्तिङन्तम् पदम् इति पदसञ्ज्ञा प्राप्नोति । एवम् तर्हि योगविभागः करिष्यते । स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति । ततः सर्वनामस्थाने अयचि पूर्वम् पदसञ्ज्ञम् भवति । ततः भम् । भसञ्ज्ञम् भवति यजादौ असर्वनामस्थने इति । यदि तर्हि सौ अपि पदम् भवति , एचः प्लुताधिकारे पदान्तग्रहणम् चोदयिष्यति इह मा भूत् : भद्रम् करोषि गौः इति , तस्मिन् क्रियमाणे अपि भविष्यति । वाक्यपदयोः अन्त्यस्य इति एवम् तत् । इह तर्हि : दधिसेचौ दधिसेचः : सात्पदाद्योः इति पदादिलक्षणः प्रतिषेधः न प्राप्नोति । मा भूत् एवम् : पदस्य आदिः पदादिः , पदादेः न इति । कथम् तर्हि

KA I,166.9-167.28 Ro I,493-498 uttarapadatve ca apadādividhau . uttarapadatve ca apadādividhau lumatā lupte pratyayalakṣaṇam na bhavati iti vaktavyam . paramavācā paramavāce paramagoduhā paramagoduhe paramaśvalihā paramaśvalihe : padasya iti pratyayalakṣaṇena kutvādīni mā bhūvan iti . apadādividhau iti kimartham . dadhisecau dadhisecaḥ : sātpadādyoḥ iti pratiṣedhaḥ yathā syāt . yadi apadādividhau iti ucyate uttarapadādhikāraḥ na prakalpeta . tatra kaḥ doṣaḥ . karṇaḥ varṇalakṣaṇāt iti evamādiḥ vidhiḥ na sidhyati . yadi punaḥ nalopādividhau plutyante lumatā lupte pratyayalakṣaṇam na bhavati iti ucyeta . na evam śakyam . iha hi : rājakumāryau rājakumāryaḥ iti śākalam prasajyeta . na eṣaḥ doṣaḥ . yat etat siti śākalam na iti etat pratyaye śākalam na iti vakṣyāmi . yadi pratyaye śākalam na iti ucyate dadhi adhunā madhu adhunā : atra api na prasajyeta . pratyaye śākalam na bhavati . kasmin . yasmāt yaḥ pratyayaḥ vihitaḥ iti . iha tarhi paramadivā paramadive : diva ut iti uttvam prāpnoti iti. astu tarhi aviśeṣeṇa . nanu ca uktam uttarapadādhikāraḥ na prakalpeta iti . vacanāt uttarapadādhikāraḥ bhaviṣyati . tat tarhi vaktavyam . na vaktavyam . anuvṛttiḥ kariṣyate . idam asti : yasmāt pratayayavidhiḥ tadādi pratyaye aṅgam , suptiṅantam padam . yasmāt suptiṅvidhiḥ tadādi subantam ca . naḥ kye . nāntam kye padasañjñam bhavati yasmāt kyavidhiḥ subantam ca . siti ca . siti ca pūrvam padasañjñam bhavati yasmāt sidvidhiḥ tadādi subantam ca . svādiṣu asarvanāmasthāne . svādiṣu asarvanāmasthāne pūrvam padasañjñam bhavati yasmāt svādividhiḥ tadādi subantam ca . yaci bham . yajādipratyaye pūrvam padasañjñam bhavati yasmāt yajādividhiḥ tadādi subantam ca . iha tarhi : paramavāk : asarvanāmasthāne iti pratiṣedhaḥ prāpnoti . astu tasyāḥ pratiṣedhaḥ yā svādau padam iti padasañjñā yā tu subantam padam iti padasañjñā sā bhaviṣyati . sati etatpratyaye āsīt anayā bhaviṣyati anayā na bhaviṣyati iti . lupte idānīm pratyaye yāvataḥ eva avadheḥ svādau padam iti padasañjñā tāvataḥ eva avadheḥ subantam padam iti . asti ca pratyayalakṣaṇena sarvanāmasthānaparatā iti kṛtvā pratiṣedhāḥ ca balīyāṃsaḥ bhavanti iti pratiṣedhaḥ prāpnoti . na apratiṣedhāt . na ayam prasajyapratiṣedhaḥ : sarvanāmasthāne na iti . kim tarhi . paryudāsaḥ ayam : yat anyat sarvanāmasthānāt iti . sarvanāmasthāne avyāpāraḥ . yadi kena cit prāpnoti tena bhaviṣyati . pūrveṇa ca prāpnoti . aprāpteḥ vā . atha vā anantarā ya prāptiḥ sā pratiṣidhyate . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . yadi evam paramavācau paramavācaḥ iti suptiṅantam padam iti padasañjñā prāpnoti . evam tarhi yogavibhāgaḥ kariṣyate . svādiṣu pūrvam padasañjñam bhavati . tataḥ sarvanāmasthāne ayaci pūrvam padasañjñam bhavati . tataḥ bham . bhasañjñam bhavati yajādau asarvanāmasthane iti . yadi tarhi sau api padam bhavati , ecaḥ plutādhikāre padāntagrahaṇam codayiṣyati iha mā bhūt : bhadram karoṣi gauḥ iti , tasmin kriyamāṇe api bhaviṣyati . vākyapadayoḥ antyasya iti evam tat . iha tarhi : dadhisecau dadhisecaḥ : sātpadādyoḥ iti padādilakṣaṇaḥ pratiṣedhaḥ na prāpnoti . mā bhūt evam : padasya ādiḥ padādiḥ , padādeḥ na iti . katham tarhi

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६८।१-२३ रो इ,४९८-५०० इह अभूवन् इति प्रत्ययलक्षणेन जुस्भावः प्राप्नोति । सिचः उसः अप्रसङ्गः आकारप्रकरणात् । सिचः उसः अप्रसङ्गः । किम् कारणम् । आकारप्रकरणात् । आतः इति एतत् नियमार्थम् भविष्यति : आतः एव सिज्लुगन्तात् न अन्यस्मात् सिज्लुगन्तात् इति । इह : इति युष्मत्पुत्रः ददाति , इति अस्मत्पुत्रः ददाति इति अत्र युष्मदस्मदोः षष्ठीचतुर्थीद्वितीयास्थयोः वाम्नावौ इति वाम्नावादयः प्राप्नुवन्ति । युष्मदस्मदोः स्थग्रहणात् । स्थग्रहणम् तत्र क्रियते । तत् श्रूयमाणविभक्तिविशेषणम् विज्ञास्यते । अस्ति अन्यत् स्थग्रहणस्य प्रयोजनम् । किम् । सविभक्तिकस्य वाम्नावादयः यथा स्युः इति । न एतत् अस्ति प्रयोजनम् । पदस्य इति वर्तते विभक्त्यन्तम् च पदम् । तत्र अन्तरेण अपि स्थग्रहणम् सविभक्तिकस्य एव ग्रहणम् भविष्यति । भवेत् सिद्धम् यत्र विभक्त्यन्तम् पदम् । यत्र तु खलु विभक्तौ पदम् तत्र न सिध्यति : ग्रामः वाम् दीयते , ग्रामः नौ दीयते जनपदः वाम् दीयते , जनपदः नौ दीयते । सर्वग्रहणम् अपि प्रकृतम् अनुवर्तते । तेन सविभक्तिकस्य एव भविष्यति । इह : चक्षुष्कामम् याजयाम् चकार इति तिङ् अतिङः इति । तस्य च निघातः तस्मात् च अनिघातः प्राप्नोति । आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः । आमि लिलोपात् तस्य च अनिघातः तस्मात् च निघातः सिद्धः भविष्यति । अङ्गाधिकारे इटः विधिप्रतिषेधौ । अङ्गाधिकारे इटः विधिप्रतिषेधौ न सिध्यतः : जिगमिष संविवृत्स । अङ्गस्य इति इटः विधिप्रतिषेधौ न प्राप्नुतः । क्रमेः दीर्घत्वम् च । किम् च । इटः च विधिप्रतिषेधौ । न इति आह । अदेशे अयम् चः पठितः । क्रमेः च दीर्घत्वम् : उत्क्राम सङ्क्राम इति ।

KA I,168.1-23 Ro I,498-500 iha abhūvan iti pratyayalakṣaṇena jusbhāvaḥ prāpnoti . sicaḥ usaḥ aprasaṅgaḥ ākāraprakaraṇāt . sicaḥ usaḥ aprasaṅgaḥ . kim kāraṇam . ākāraprakaraṇāt . ātaḥ iti etat niyamārtham bhaviṣyati : ātaḥ eva sijlugantāt na anyasmāt sijlugantāt iti . iha : iti yuṣmatputraḥ dadāti , iti asmatputraḥ dadāti iti atra yuṣmadasmadoḥ ṣaṣṭhīcaturthīdvitīyāsthayoḥ vāmnāvau iti vāmnāvādayaḥ prāpnuvanti . yuṣmadasmadoḥ sthagrahaṇāt . sthagrahaṇam tatra kriyate . tat śrūyamāṇavibhaktiviśeṣaṇam vijñāsyate . asti anyat sthagrahaṇasya prayojanam . kim . savibhaktikasya vāmnāvādayaḥ yathā syuḥ iti . na etat asti prayojanam . padasya iti vartate vibhaktyantam ca padam . tatra antareṇa api sthagrahaṇam savibhaktikasya eva grahaṇam bhaviṣyati . bhavet siddham yatra vibhaktyantam padam . yatra tu khalu vibhaktau padam tatra na sidhyati : grāmaḥ vām dīyate , grāmaḥ nau dīyate janapadaḥ vām dīyate , janapadaḥ nau dīyate . sarvagrahaṇam api prakṛtam anuvartate . tena savibhaktikasya eva bhaviṣyati . iha : cakṣuṣkāmam yājayām cakāra iti tiṅ atiṅaḥ iti . tasya ca nighātaḥ tasmāt ca anighātaḥ prāpnoti . āmi lilopāt tasya ca anighātaḥ tasmāt ca nighātaḥ . āmi lilopāt tasya ca anighātaḥ tasmāt ca nighātaḥ siddhaḥ bhaviṣyati . aṅgādhikāre iṭaḥ vidhipratiṣedhau . aṅgādhikāre iṭaḥ vidhipratiṣedhau na sidhyataḥ : jigamiṣa saṃvivṛtsa . aṅgasya iti iṭaḥ vidhipratiṣedhau na prāpnutaḥ . krameḥ dīrghatvam ca . kim ca . iṭaḥ ca vidhipratiṣedhau . na iti āha . adeśe ayam caḥ paṭhitaḥ . krameḥ ca dīrghatvam : utkrāma saṅkrāma iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६८।२४-१६९।१४ रो इ,५००-५०२ इह किम् चित् अङ्गाधिकारे लुमता लुप्ते प्रत्ययलक्षणेन भवति किम् चित् च अन्यत्र न भवति । यदि पुनः न लुमता तस्मिन् इति उच्येत । अथ न लुमता तस्मिन् इति उच्यमाने किम् सिद्धम् एतत् भवति इटः विधिप्रतिषेधौ क्रमेः दीर्घत्वम् च । बाढम् सिद्धम् । न इटः इविधिप्रतिषेधौ परस्मैपदेषु इति उच्यते । कथम् तर्हि । सकारादौ इति । तद्विशेषणम् परस्मैपदग्रहणम् । न खलु अपि क्रमेः दीर्घत्वम् परस्मैपदेषु इति उच्यते । कथम् तर्हि । शिति इति । तद्विशेषणम् परस्मैपदग्रहणम् । न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे । न लुमता तस्मिन् इति चेत् हनिणिङादेशाः तलोपे न सिध्यन्ति : अवधि भवता दस्युः , अगायि भवता ग्रामः , अध्यगायि भवता अनुवाकः । तलोपे कृते लुङि इति हनिणिङादेशाः न प्राप्नुवन्ति । न एषः दोषः । न लुङि इति हनिणिङादेशाः उच्यन्ते । किम् तर्हि । आर्धधातुके इति । तद्विशेषणम् लुङ्ग्रहणम् । इह च : सर्वस्तोमः , सर्वपृष्ठः सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति । तत् च अपि वक्तव्यम् । न वक्तव्यम् । न लुमता अङ्गस्य इति एव सिद्धम् । कथम् । न लुमता लुप्ते अङ्गाधिकारः प्रतिनिर्दिश्यते । किम् तर्हि । यः असौ लुमता लुप्यते तस्मिन् यत् अङ्गम् तस्य यत् कार्यम् तत् न भवति । एवम् अपि सर्वस्वरः न सिध्यति । कर्तव्यः अत्र यत्नः ।

KA I,168.24-169.14 Ro I,500-502 iha kim cit aṅgādhikāre lumatā lupte pratyayalakṣaṇena bhavati kim cit ca anyatra na bhavati . yadi punaḥ na lumatā tasmin iti ucyeta . atha na lumatā tasmin iti ucyamāne kim siddham etat bhavati iṭaḥ vidhipratiṣedhau krameḥ dīrghatvam ca . bāḍham siddham . na iṭaḥ ividhipratiṣedhau parasmaipadeṣu iti ucyate . katham tarhi . sakārādau iti . tadviśeṣaṇam parasmaipadagrahaṇam . na khalu api krameḥ dīrghatvam parasmaipadeṣu iti ucyate . katham tarhi . śiti iti . tadviśeṣaṇam parasmaipadagrahaṇam . na lumatā tasmin iti cet haniṇiṅādeśāḥ talope . na lumatā tasmin iti cet haniṇiṅādeśāḥ talope na sidhyanti : avadhi bhavatā dasyuḥ , agāyi bhavatā grāmaḥ , adhyagāyi bhavatā anuvākaḥ . talope kṛte luṅi iti haniṇiṅādeśāḥ na prāpnuvanti . na eṣaḥ doṣaḥ . na luṅi iti haniṇiṅādeśāḥ ucyante . kim tarhi . ārdhadhātuke iti . tadviśeṣaṇam luṅgrahaṇam . iha ca : sarvastomaḥ , sarvapṛṣṭhaḥ sarvasya supi iti ādyudāttatvam na prāpnoti . tat ca api vaktavyam . na vaktavyam . na lumatā aṅgasya iti eva siddham . katham . na lumatā lupte aṅgādhikāraḥ pratinirdiśyate . kim tarhi . yaḥ asau lumatā lupyate tasmin yat aṅgam tasya yat kāryam tat na bhavati . evam api sarvasvaraḥ na sidhyati . kartavyaḥ atra yatnaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१६९।१६-२५ रो इ,५०२-५०३ किम् इदम् अल्ग्रहणम् अन्त्यविशेषणम् । एवम् भवितुम् अर्हति । उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः । उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातस्य प्रतिषेधः वक्तव्यः । सङ्घातस्य उपधासञ्ज्ञा प्राप्नोति । तत्र कः दोषः । शासः इत् अङ्हलोः : शिष्ट्वा शिष्टः : सङ्घातस्य इत्त्वम् प्राप्नोति । यदि पुनः अल् अन्त्यात् इति उच्येत । एवम् अपि अन्त्यः अविशेषितः भवति । तत्र कः दोषः । सङ्घातात् अपि पूर्वस्य उपधासञ्ज्ञा प्रसज्येत । तत्र कः दोषः । शासः इत् अङ्हलोः : शिष्टः , शिष्टवान् : शकारस्य इत्त्वम् प्रसज्येत । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् उपधासञ्ज्ञायाम् अल्ग्रहणम् अन्त्यनिर्देशः चेत् सङ्घातप्रतिषेधः इति । न एषः दोषः । अन्त्यविज्ञानात् सिद्धम् । सिद्धम् एतत् । कथम् । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति ।

KA I,169.16-25 Ro I,502-503 kim idam algrahaṇam antyaviśeṣaṇam . evam bhavitum arhati . upadhāsañjñāyām algrahaṇam antyanirdeśaḥ cet saṅghātapratiṣedhaḥ . upadhāsañjñāyām algrahaṇam antyanirdeśaḥ cet saṅghātasya pratiṣedhaḥ vaktavyaḥ . saṅghātasya upadhāsañjñā prāpnoti . tatra kaḥ doṣaḥ . śāsaḥ it aṅhaloḥ : śiṣṭvā śiṣṭaḥ : saṅghātasya ittvam prāpnoti . yadi punaḥ al antyāt iti ucyeta . evam api antyaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . saṅghātāt api pūrvasya upadhāsañjñā prasajyeta . tatra kaḥ doṣaḥ . śāsaḥ it aṅhaloḥ : śiṣṭaḥ , śiṣṭavān : śakārasya ittvam prasajyeta . sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam upadhāsañjñāyām algrahaṇam antyanirdeśaḥ cet saṅghātapratiṣedhaḥ iti . na eṣaḥ doṣaḥ . antyavijñānāt siddham . siddham etat . katham . alaḥ antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७०।१-१७१।९ रो इ,५०३-५०६ अन्त्यविज्ञानात् सिद्धम् इति चेत् न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे । अन्त्यविज्ञानात् सिद्धम् इति चेत् तत् न । किम् कारणम् । न अनर्थके अलोन्त्यविधिः अनभ्यासविकारे । अनर्थके अलोन्त्यविधिः न इति एषा परिभाषा कर्तव्या । किम् अविशेषेण । न इति आह । अनभ्यासविकारे । अभ्यासविकारान् वर्जयित्वा । भृञाम् इत् , अर्तिपिपर्त्योः च इति । कानि एतस्याः परिभाषायाः प्रयोजनानि । प्रयोजनम् अव्यक्तानुकरणस्य अतः इतौ । अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । न एतत् अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति न अन्त्यस्य पररूपम् भवति इति यत् अयम् न आम्रेडितस्य अन्त्यस्य तु वा इति आह । घ्वसोः एत् हौ अभ्यासलोपः च । घ्वसोः एत् हौ अभ्यासलोपः च इति अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । पुनर्लोपवचनसामर्थ्यात् सर्वस्य भविष्यति । अथ वा शित् लोपः करिष्यते । सः शित् सर्वस्य इति सर्वादेशः भविष्यति । सः तर्हि शकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । द्विशकारकः निर्देशः : घ्वसोः एत् हौ अभ्यासलोपश्श्च इति । आपि लोपः अकः अनचि । तिष्ठति सूत्रम् । अन्यथा व्याख्यायते : आपि हलि लोपः इति अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । अनः एव लोपम् वक्ष्यामि । तत् अनः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । अन् आपि अकः इति । तत् वै प्रथमानिर्दिष्टम् । षष्ठीनिर्दिष्तेन च इह अर्थः । हलि इति एषा सप्तमी अन् इति प्रथमायाः षष्ठीम् प्रकल्पयिष्यति : तस्मिन् इति निर्दिष्टे पूर्वस्य इति । अत्र लोपः अभ्यासस्य । अत्र लोपः अभ्यासस्य इति अन्त्यस्य प्राप्नोति । अनर्थके अलोन्त्यविधिः न भवति इति न दोषः भवति । एतत् अपि न अस्ति प्रयोजनम् । अत्रग्रहणसामर्थ्यात् सर्वस्य भविष्यति । अस्ति अन्यत् अत्रग्रहणस्य प्रयोजनम् । किम् । सनधिकारः अपेक्ष्यते , इह मा भूत् : दधौ ददौ । अन्तरेण अपि अत्रग्रहणम् सनधिकारम् अपेक्षिष्यामहे । सन् तर्हि सकारादिः अपेक्ष्यते सनि सकारादौ इति , इह मा भूत् : जिज्ञापयिषति । अन्तरेण अपि अत्रग्रहणम् सनम् सकारादिम् अपेक्षिष्यामहे । प्रकृतयः तर्हि अपेक्ष्यन्ते । एतासाम् प्रकृतीनाम् लोपः यथा स्यात् , इह मा भूत् : पिपक्षति यियक्षति । अन्तरेण अपि अत्रग्रहणम् एताः प्रकृतीः अपेक्षिष्यामहे । विषयः तर्हि अपेक्ष्यते । मुचः अकर्मकस्य गुणः वा इति इह मा भूत् : मुमुक्षति गाम् इति । अन्तरेण अपि अत्रग्रहणम् विषयम् अपेक्षिष्यामहे । कथम् । अकर्मकस्य इति उच्यते । तेन यत्र एव अयम् मुचिः अकर्मकः तत्र एव भविष्यति । तस्मात् न अर्थः अनया परिभाषया ।

KA I,170.1-171.9 Ro I,503-506 antyavijñānāt siddham iti cet na anarthake alontyavidhiḥ anabhyāsavikāre . antyavijñānāt siddham iti cet tat na . kim kāraṇam . na anarthake alontyavidhiḥ anabhyāsavikāre . anarthake alontyavidhiḥ na iti eṣā paribhāṣā kartavyā . kim aviśeṣeṇa . na iti āha . anabhyāsavikāre . abhyāsavikārān varjayitvā . bhṛñām it , artipipartyoḥ ca iti . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam avyaktānukaraṇasya ataḥ itau . antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati na antyasya pararūpam bhavati iti yat ayam na āmreḍitasya antyasya tu vā iti āha . ghvasoḥ et hau abhyāsalopaḥ ca . ghvasoḥ et hau abhyāsalopaḥ ca iti antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . punarlopavacanasāmarthyāt sarvasya bhaviṣyati . atha vā śit lopaḥ kariṣyate . saḥ śit sarvasya iti sarvādeśaḥ bhaviṣyati . saḥ tarhi śakāraḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva . dviśakārakaḥ nirdeśaḥ : ghvasoḥ et hau abhyāsalopaśśca iti . āpi lopaḥ akaḥ anaci . tiṣṭhati sūtram . anyathā vyākhyāyate : āpi hali lopaḥ iti antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . anaḥ eva lopam vakṣyāmi . tat anaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . an āpi akaḥ iti . tat vai prathamānirdiṣṭam . ṣaṣṭhīnirdiṣtena ca iha arthaḥ . hali iti eṣā saptamī an iti prathamāyāḥ ṣaṣṭhīm prakalpayiṣyati : tasmin iti nirdiṣṭe pūrvasya iti . atra lopaḥ abhyāsasya . atra lopaḥ abhyāsasya iti antyasya prāpnoti . anarthake alontyavidhiḥ na bhavati iti na doṣaḥ bhavati . etat api na asti prayojanam . atragrahaṇasāmarthyāt sarvasya bhaviṣyati . asti anyat atragrahaṇasya prayojanam . kim . sanadhikāraḥ apekṣyate , iha mā bhūt : dadhau dadau . antareṇa api atragrahaṇam sanadhikāram apekṣiṣyāmahe . san tarhi sakārādiḥ apekṣyate sani sakārādau iti , iha mā bhūt : jijñāpayiṣati . antareṇa api atragrahaṇam sanam sakārādim apekṣiṣyāmahe . prakṛtayaḥ tarhi apekṣyante . etāsām prakṛtīnām lopaḥ yathā syāt , iha mā bhūt : pipakṣati yiyakṣati . antareṇa api atragrahaṇam etāḥ prakṛtīḥ apekṣiṣyāmahe . viṣayaḥ tarhi apekṣyate . mucaḥ akarmakasya guṇaḥ vā iti iha mā bhūt : mumukṣati gām iti . antareṇa api atragrahaṇam viṣayam apekṣiṣyāmahe . katham . akarmakasya iti ucyate . tena yatra eva ayam muciḥ akarmakaḥ tatra eva bhaviṣyati . tasmāt na arthaḥ anayā paribhāṣayā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७१।१०-१६ रो इ,५०६ अलः अन्त्यात् पूर्वः अल् उपधा इति वा । अथ वा व्यक्तम् एव पथितव्यम् अलः अन्त्यात् पूर्वः अल् उपधासञ्ज्ञः भवति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अवचनात् लोकविज्ञानात् सिद्धम् । अन्तरेण अपि वचनम् लोकविज्ञानात् सिद्धम् एतत् । कथम् । लोके अमीषाम् ब्राह्मणानाम् अन्त्यात् पूर्वः आनीयताम् इति उक्ते यथाजातीयकः अन्त्यः तथाजातीयकः अन्त्यात् पूर्वः आनीयते ।

KA I,171.10-16 Ro I,506 alaḥ antyāt pūrvaḥ al upadhā iti vā . atha vā vyaktam eva pathitavyam alaḥ antyāt pūrvaḥ al upadhāsañjñaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . avacanāt lokavijñānāt siddham . antareṇa api vacanam lokavijñānāt siddham etat . katham . loke amīṣām brāhmaṇānām antyāt pūrvaḥ ānīyatām iti ukte yathājātīyakaḥ antyaḥ tathājātīyakaḥ antyāt pūrvaḥ ānīyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७५।२०-२३ रो इ,५१९-५२० रूपग्रहणम् किम् अर्थम् न स्वम् शब्दस्य अशब्दसञ्ज्ञा भवति इति एव रूपम् शबस्य सञ्ज्ञा भविष्यति । न हि अन्यत् स्वम् शब्दस्य अस्ति अन्यत् अतः रूपात् । एवम् तर्हि सिद्धे सति यत् रूपग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति अन्यत् रूपात् स्वम् शब्दस्य इति । किम् पुनः तत् । अर्थः । किम् एतस्य ज्ञापने प्रयोजनम् । अर्थवद्ग्रहणे न अनर्थकस्य इति एषा परिभाषा न कर्तव्या भवति ।

KA I,175.20-23 Ro I,519-520 rūpagrahaṇam kim artham na svam śabdasya aśabdasañjñā bhavati iti eva rūpam śabasya sañjñā bhaviṣyati . na hi anyat svam śabdasya asti anyat ataḥ rūpāt . evam tarhi siddhe sati yat rūpagrahaṇam karoti tat jñāpayati ācāryaḥ asti anyat rūpāt svam śabdasya iti . kim punaḥ tat . arthaḥ . kim etasya jñāpane prayojanam . arthavadgrahaṇe na anarthakasya iti eṣā paribhāṣā na kartavyā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७५।२४-१७६।२४ रो इ,५२०-५२३ किमर्थम् पुनः इदम् उच्यते । शब्देन अर्थगतेः अर्थस्य असम्भवात् तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् । शब्देन उच्चारितेन अर्थः गम्यते । गाम् आनय दधि अशान इति अर्थः आनीयते अर्थः च भुज्यते । अर्थस्य असम्भवात् । इह व्याकरणे अर्थे कार्यस्य असम्भवः । अग्नेः डक् इति : न शक्यते अङ्गारेभ्यः परः ढक् कर्तुम् । शब्देन अर्थगतेः अर्थस्य असम्भवात् यावन्तः तद्वाचिनः शब्दाः तावद्भ्यः सर्वेभ्यः उत्पत्तिः प्राप्नोति । इष्यते च तस्मात् एव स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति तद्वाचिनः सञ्ज्ञाप्रतिषेधार्थम् स्वंरूपवचनम् । एवमर्थम् इदम् उच्यते । न वा शब्दपूर्वकः हि अर्थे सम्प्रत्ययः तस्मात् अर्थनिवृत्तिः । न वा एतत् प्रयोजनम् अस्ति । किम् कारणम् । शब्दपूर्वकः हि अर्थे सम्प्रत्ययः । शब्दपूर्वकः हि अर्थस्य सम्प्रत्ययः । आतः च शब्दपूर्वकः : यः अपि हि असौ आहूयते नाम्ना नाम यदा अनेन न उपलब्धम् भवति तद पृच्छति किम् भवान् आह इति । शब्दपूर्वकः च अर्थस्य सम्प्रत्ययः इह च व्याकरणे शब्दे कार्यस्य सम्भवः अर्थे असम्भवः । तस्मात् अर्थनिवृत्तिः भविष्यति । इदम् तर्हि प्रयोजनम् अशब्दसञ्ज्ञा इति वक्ष्यामि इति । इह मा भूत् : दाधाः घु अदाप् तरप्तमपौ घः इति । सञ्ज्ञाप्रतिषेधानर्थक्यम् वचनप्रामाण्यात् । सञ्ज्ञाप्रतिषेधः च अनर्थकः । शब्दसञ्ज्ञायाम् स्वरूपविधिः कस्मात् न भवति । वचनप्रामाण्यात् । शब्दसञ्ज्ञावचनसामर्थ्यात् । ननु च वचनप्रामाण्यात् सञ्ज्ञिनाम् सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च सञ्ज्ञायाः । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति शब्दसञ्ज्ञायाम् न स्वरूपविधिः भवति इति यत् अयम् ष्णान्ता षट् इति षकारान्तायाः सङ्ख्यायाः षट्सञ्ज्ञाम् शास्ति । इतरथा हि वचनप्रामाण्यात् नकारान्तायाः सङ्ख्यायाः सम्प्रत्ययः स्यात् स्वरूपग्रहणात् च षकारान्तायाः । न एतत् अस्ति प्रयोजनम् । न हि षकारान्ता सञ्ज्ञा । का तर्हि । डकारान्ता । असिद्धम् जश्त्वम् । तस्य असिद्धत्वात् षकारान्ता । मन्त्राद्यर्थम् तर्हि इदम् वक्तव्यम् । मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च मा भूत् । मन्त्राद्यर्थम् इति चेत् शास्त्रसामर्थ्यात् अर्थगतेः सिद्धम् । मन्त्राद्यर्थम् इति चेत् न । किम् कारणम् । शास्त्रसामर्थ्यात् अर्थस्य गतिः भविष्यति । मन्त्रे , ऋचि यजुषि इति यत् उच्यते तत् मन्त्रशब्दे ऋक्शब्दे च यजुःशब्दे च तस्य कार्यस्य सम्भवः न अस्ति इति कृत्वा मन्त्रादिसहचरितः यः अर्थः तस्य गतिः भविष्यति साहचर्यात् ।

KA I,175.24-176.24 Ro I,520-523 kimartham punaḥ idam ucyate . śabdena arthagateḥ arthasya asambhavāt tadvācinaḥ sañjñāpratiṣedhārtham svaṃrūpavacanam . śabdena uccāritena arthaḥ gamyate . gām ānaya dadhi aśāna iti arthaḥ ānīyate arthaḥ ca bhujyate . arthasya asambhavāt . iha vyākaraṇe arthe kāryasya asambhavaḥ . agneḥ ḍak iti : na śakyate aṅgārebhyaḥ paraḥ ḍhak kartum . śabdena arthagateḥ arthasya asambhavāt yāvantaḥ tadvācinaḥ śabdāḥ tāvadbhyaḥ sarvebhyaḥ utpattiḥ prāpnoti . iṣyate ca tasmāt eva syāt iti . tat ca antareṇa yatnam na sidhyati iti tadvācinaḥ sañjñāpratiṣedhārtham svaṃrūpavacanam . evamartham idam ucyate . na vā śabdapūrvakaḥ hi arthe sampratyayaḥ tasmāt arthanivṛttiḥ . na vā etat prayojanam asti . kim kāraṇam . śabdapūrvakaḥ hi arthe sampratyayaḥ . śabdapūrvakaḥ hi arthasya sampratyayaḥ . ātaḥ ca śabdapūrvakaḥ : yaḥ api hi asau āhūyate nāmnā nāma yadā anena na upalabdham bhavati tada pṛcchati kim bhavān āha iti . śabdapūrvakaḥ ca arthasya sampratyayaḥ iha ca vyākaraṇe śabde kāryasya sambhavaḥ arthe asambhavaḥ . tasmāt arthanivṛttiḥ bhaviṣyati . idam tarhi prayojanam aśabdasañjñā iti vakṣyāmi iti . iha mā bhūt : dādhāḥ ghu adāp taraptamapau ghaḥ iti . sañjñāpratiṣedhānarthakyam vacanaprāmāṇyāt . sañjñāpratiṣedhaḥ ca anarthakaḥ . śabdasañjñāyām svarūpavidhiḥ kasmāt na bhavati . vacanaprāmāṇyāt . śabdasañjñāvacanasāmarthyāt . nanu ca vacanaprāmāṇyāt sañjñinām sampratyayaḥ syāt svarūpagrahaṇāt ca sañjñāyāḥ . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati śabdasañjñāyām na svarūpavidhiḥ bhavati iti yat ayam ṣṇāntā ṣaṭ iti ṣakārāntāyāḥ saṅkhyāyāḥ ṣaṭsañjñām śāsti . itarathā hi vacanaprāmāṇyāt nakārāntāyāḥ saṅkhyāyāḥ sampratyayaḥ syāt svarūpagrahaṇāt ca ṣakārāntāyāḥ . na etat asti prayojanam . na hi ṣakārāntā sañjñā . kā tarhi . ḍakārāntā . asiddham jaśtvam . tasya asiddhatvāt ṣakārāntā . mantrādyartham tarhi idam vaktavyam . mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde ṛkśabde ca yajuḥśabde ca mā bhūt . mantrādyartham iti cet śāstrasāmarthyāt arthagateḥ siddham . mantrādyartham iti cet na . kim kāraṇam . śāstrasāmarthyāt arthasya gatiḥ bhaviṣyati . mantre , ṛci yajuṣi iti yat ucyate tat mantraśabde ṛkśabde ca yajuḥśabde ca tasya kāryasya sambhavaḥ na asti iti kṛtvā mantrādisahacaritaḥ yaḥ arthaḥ tasya gatiḥ bhaviṣyati sāhacaryāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७६।२५-१७७।१६ रो इ,५२३-५२५ सित् तद्विशेषाणाम् वृक्षाद्यर्थम् । सिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् : तद्विशेषाणाम् ग्रहणम् भवति इति । किम् प्रयोजनम् । वृक्षाद्यर्थम् । विभाषा वृक्षमृग इति : प्लक्षन्यग्रोधम् , प्लक्षन्यग्रोधाः । पित् पर्यायवचनस्य च स्वाद्यर्थम् । पिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् : पर्यायवचनस्य तद्विशेषाणाम् च ग्रहणम् भवति स्वस्य च रूपस्य इति । किम् प्रयोजनम् । स्वाद्यर्थम् । स्वे पुषः : स्वपोषम् पुष्यति रैपोषम् , विद्यापोषम् , गोपोषम् अश्वपोषम् । जित् पर्यायवचनस्य एव राजाद्यर्थम् । जिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् पर्यायवचनस्य एव ग्रहणम् भवति । किम् प्रयोजनम् । राजाद्यर्थम् । सभा राजामनुष्यपूर्वा : इनसभम् ईश्वरसभम् । तस्य एव न भवति : राजसभा । तद्विशेषाणाम् च न भवति : पुष्यमित्रसभा चन्द्रगुप्तसभा । झित् तस्य च तद्विशेषाणाम् च मत्स्याद्यर्थम् । झिन्निर्देशः कर्तव्यः । ततः वक्तव्यम् : तस्य च ग्रहणम् भवति तद्विशेषाणाम् च इति । किम् प्रयोजनम् । मत्स्याद्यर्थम् । पक्षिमत्स्यमृगान् हन्ति : मात्स्यिकः । तद्विशेषाणाम् : शाफरिकः , शाकुलिकः । पर्यायवचनानाम् न भवति : अजिह्मान् हन्ति इति । अस्य एकस्य पर्यायवचनस्य इष्यते : मीनान् हन्ति मैनिकः ।

KA I,176.25-177.16 Ro I,523-525 sit tadviśeṣāṇām vṛkṣādyartham . sinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tadviśeṣāṇām grahaṇam bhavati iti . kim prayojanam . vṛkṣādyartham . vibhāṣā vṛkṣamṛga iti : plakṣanyagrodham , plakṣanyagrodhāḥ . pit paryāyavacanasya ca svādyartham . pinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : paryāyavacanasya tadviśeṣāṇām ca grahaṇam bhavati svasya ca rūpasya iti . kim prayojanam . svādyartham . sve puṣaḥ : svapoṣam puṣyati raipoṣam , vidyāpoṣam , gopoṣam aśvapoṣam . jit paryāyavacanasya eva rājādyartham . jinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam paryāyavacanasya eva grahaṇam bhavati . kim prayojanam . rājādyartham . sabhā rājāmanuṣyapūrvā : inasabham īśvarasabham . tasya eva na bhavati : rājasabhā . tadviśeṣāṇām ca na bhavati : puṣyamitrasabhā candraguptasabhā . jhit tasya ca tadviśeṣāṇām ca matsyādyartham . jhinnirdeśaḥ kartavyaḥ . tataḥ vaktavyam : tasya ca grahaṇam bhavati tadviśeṣāṇām ca iti . kim prayojanam . matsyādyartham . pakṣimatsyamṛgān hanti : mātsyikaḥ . tadviśeṣāṇām : śāpharikaḥ , śākulikaḥ . paryāyavacanānām na bhavati : ajihmān hanti iti . asya ekasya paryāyavacanasya iṣyate : mīnān hanti mainikaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७७।१८-१७८।७ रो इ,५२५-५२७ अप्रत्ययः इति किमर्थम् । सनाशंसभिक्षः उः , अ साम्प्रतिके । अत्यल्पम् इदम् उच्यते : अप्रत्ययः इति । अप्रत्ययादेशटित्किन्मितः इति वक्तव्यम् । प्रत्यये उदाहृतम् । आदेशे : इदमः इश् : इह , इतः । टिति । लविता लवितुम् । किति । बभूव । मिति । हे अनड्वन् । टितः परिहारः । आचार्यप्रवृत्तिः ज्ञापयति न टितः सवर्णानाम् ग्रहणम् भवति इति यत् अयम् ग्रहः अलिटि दीर्घत्वम् शास्ति । न एतत् अस्ति ज्ञापकम् । नियमार्थम् एतत् स्यात् : ग्रहः अलिटि दीर्घः एव इति । यत् तर्हि वॄतः वा इति विभाषाम् शास्ति । सर्वेषाम् एव परिहारः : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् भविष्यति । प्रत्यये भूयान् परिहारः : अनभिधानात् प्रत्ययः सवर्णान् न ग्रहीष्यति । यान् हि प्रत्ययः सवर्णग्रहणेन गृह्णीयात् न तैः अर्थस्य अभिधानम् स्यात् । अनभिधानात् न भविष्यति । इदम् तर्हि प्रयोजनम् : इह के चित् प्रतीयन्ते के चित् प्रत्याय्यन्ते । ह्रस्वाः प्रतीयन्ते डीर्घाः प्रत्याय्यन्ते । यावत् ब्रूयात् प्रत्याय्यमानेन सवर्णानम् ग्रहणम् न इति तावत् अप्रत्ययः इति । कम् पुनः दीर्घः सवर्णग्रहणेन गृह्णीयात् । ह्रस्वम् । यत्नाधिक्यात् न ग्रहीष्यति । प्लुतम् तर्हि गृह्णीयात् । अनण्त्वात् न ग्रहीष्यति । एवम् तर्हि सिद्धे सति यत् अप्रत्ययः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा : भाव्यमानेन सवर्णानाम् ग्रहणम् न इति ।

KA I,177.18-178.7 Ro I,525-527 apratyayaḥ iti kimartham . sanāśaṃsabhikṣaḥ uḥ , a sāmpratike . atyalpam idam ucyate : apratyayaḥ iti . apratyayādeśaṭitkinmitaḥ iti vaktavyam . pratyaye udāhṛtam . ādeśe : idamaḥ iś : iha , itaḥ . ṭiti . lavitā lavitum . kiti . babhūva . miti . he anaḍvan . ṭitaḥ parihāraḥ . ācāryapravṛttiḥ jñāpayati na ṭitaḥ savarṇānām grahaṇam bhavati iti yat ayam grahaḥ aliṭi dīrghatvam śāsti . na etat asti jñāpakam . niyamārtham etat syāt : grahaḥ aliṭi dīrghaḥ eva iti . yat tarhi vṝtaḥ vā iti vibhāṣām śāsti . sarveṣām eva parihāraḥ : bhāvyamānena savarṇānām grahaṇam na iti evam bhaviṣyati . pratyaye bhūyān parihāraḥ : anabhidhānāt pratyayaḥ savarṇān na grahīṣyati . yān hi pratyayaḥ savarṇagrahaṇena gṛhṇīyāt na taiḥ arthasya abhidhānam syāt . anabhidhānāt na bhaviṣyati . idam tarhi prayojanam : iha ke cit pratīyante ke cit pratyāyyante . hrasvāḥ pratīyante ḍīrghāḥ pratyāyyante . yāvat brūyāt pratyāyyamānena savarṇānam grahaṇam na iti tāvat apratyayaḥ iti . kam punaḥ dīrghaḥ savarṇagrahaṇena gṛhṇīyāt . hrasvam . yatnādhikyāt na grahīṣyati . plutam tarhi gṛhṇīyāt . anaṇtvāt na grahīṣyati . evam tarhi siddhe sati yat apratyayaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : bhāvyamānena savarṇānām grahaṇam na iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७८।८-१७९।१२ रो इ,५२८-५३१ किमर्थम् पुनः इदम् उच्यते । अण् सवर्णस्य इति स्वरानुनासिक्यकालभेदात् । अण् सवर्णस्य इति उच्यते । स्वरभेदात् आनुनासिक्यभेदात् कालभेदात् च अण् सवर्णान् न गृह्णीयात् । इष्यते च सवर्णग्रहणम् स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र प्रत्याहारग्रहणे सवर्णाग्रहणम् अनुपदेशात् । तत्र प्रत्याहारग्रहणे सवर्णानाम् ग्रहणम् न प्राप्नोति : अकः सवर्णे दीर्घः इति । किम् कारणम् । अनुपदेशात् । यथाजातीयकानाम् सञ्ज्ञा कृता तथाजातीयकानाम् सम्प्रत्यायिका स्यात् । ह्रस्वानाम् च क्रियते । ह्रस्वानाम् एव सम्प्रत्यायिका स्यात् दीर्घानाम् न स्यात् । ननु च ह्रस्वाः प्रतीयमानाः दीर्घान् सम्प्रत्याययिष्यन्ति । ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणसम्प्रत्यायकत्वात् शब्दस्य अवचनम् । ह्रस्वसम्प्रत्ययात् इति चेत् उच्चार्यमाणः शब्दः सम्प्रत्यायकः भवति न सम्प्रतीयमनः । तत् यथा ऋक् इति उक्ते सम्पाठमात्रम् गम्यते न अस्याः अर्थः गम्यते । एवम् तर्हि वर्णपाठे एव उपदेशः करिष्यते । वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः । वर्णपाठे उपदेशः इति चेत् अवर्कालत्वात् परिभाषायाः अनुपदेशः । किम् परा सूत्रात् क्रियते इति अतः अवरकाला । न इति आह । सर्वथा अवरकाला एव । वर्णानाम् उपदेशः तावत् । उपदेशोत्तरकालः आदिः अन्त्येन सह इता इति प्रत्याहारः । प्रत्याहारोत्तरकाला सवर्णसञ्ज्ञा । सवर्णसञ्ज्ञोत्तरकालम् अणुदित् सवर्णस्य च अप्रत्ययः इति । सा एषा उपदेशोत्तरकाला अवरकाला सती वर्णानाम् उत्पत्तौ निमित्तत्वाय कल्पयिष्यते इति तत् न । तस्मात् उपदेशः । तस्मात् उपदेशः कर्तव्यः । तत्र अनुवृत्तिनिर्देशे सवर्णाग्रहणम् अनण्त्वात् । तत्र अनुवृत्तिनिर्देशे सवर्णानाम् ग्रहणम् न प्राप्नोति : अस्य च्वौ यस्य ईति च । किम् कारणम् । अनण्त्वात् । न हि एते अणः ये अनुवृत्तिनिर्देशे । के तर्हि । ये अक्षरसमाम्नाये उपदिश्यन्ते । एवम् तर्हि अनण्त्वात् अनुवृत्तौ न अनुपदेशात् च प्रत्याहारे न । उच्यते च इदम् अण् सवर्णान् गृह्णाति इति । तत्र वचनात् भविष्यति । वचनात् यत्र तत् न अस्ति । न इदम् वचनात् लभ्यम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । ये एते प्रत्याहाराणाम् आदितः वर्णाः तैः सवर्णानाम् ग्रहणम् यथा स्यात् ।

KA I,178.8-179.12 Ro I,528-531 kimartham punaḥ idam ucyate . aṇ savarṇasya iti svarānunāsikyakālabhedāt . aṇ savarṇasya iti ucyate . svarabhedāt ānunāsikyabhedāt kālabhedāt ca aṇ savarṇān na gṛhṇīyāt . iṣyate ca savarṇagrahaṇam syāt iti . tat ca antareṇa yatnam na sidhyati iti evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra pratyāhāragrahaṇe savarṇāgrahaṇam anupadeśāt . tatra pratyāhāragrahaṇe savarṇānām grahaṇam na prāpnoti : akaḥ savarṇe dīrghaḥ iti . kim kāraṇam . anupadeśāt . yathājātīyakānām sañjñā kṛtā tathājātīyakānām sampratyāyikā syāt . hrasvānām ca kriyate . hrasvānām eva sampratyāyikā syāt dīrghānām na syāt . nanu ca hrasvāḥ pratīyamānāḥ dīrghān sampratyāyayiṣyanti . hrasvasampratyayāt iti cet uccāryamāṇasampratyāyakatvāt śabdasya avacanam . hrasvasampratyayāt iti cet uccāryamāṇaḥ śabdaḥ sampratyāyakaḥ bhavati na sampratīyamanaḥ . tat yathā ṛk iti ukte sampāṭhamātram gamyate na asyāḥ arthaḥ gamyate . evam tarhi varṇapāṭhe eva upadeśaḥ kariṣyate . varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ anupadeśaḥ . varṇapāṭhe upadeśaḥ iti cet avarkālatvāt paribhāṣāyāḥ anupadeśaḥ . kim parā sūtrāt kriyate iti ataḥ avarakālā . na iti āha . sarvathā avarakālā eva . varṇānām upadeśaḥ tāvat . upadeśottarakālaḥ ādiḥ antyena saha itā iti pratyāhāraḥ . pratyāhārottarakālā savarṇasañjñā . savarṇasañjñottarakālam aṇudit savarṇasya ca apratyayaḥ iti . sā eṣā upadeśottarakālā avarakālā satī varṇānām utpattau nimittatvāya kalpayiṣyate iti tat na . tasmāt upadeśaḥ . tasmāt upadeśaḥ kartavyaḥ . tatra anuvṛttinirdeśe savarṇāgrahaṇam anaṇtvāt . tatra anuvṛttinirdeśe savarṇānām grahaṇam na prāpnoti : asya cvau yasya īti ca . kim kāraṇam . anaṇtvāt . na hi ete aṇaḥ ye anuvṛttinirdeśe . ke tarhi . ye akṣarasamāmnāye upadiśyante . evam tarhi anaṇtvāt anuvṛttau na anupadeśāt ca pratyāhāre na . ucyate ca idam aṇ savarṇān gṛhṇāti iti . tatra vacanāt bhaviṣyati . vacanāt yatra tat na asti . na idam vacanāt labhyam . asti hi anyat etasya vacane prayojanam . kim . ye ete pratyāhārāṇām āditaḥ varṇāḥ taiḥ savarṇānām grahaṇam yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१७९।१२-१८०।१२ रो इ,५३१-५३५ एवम् तर्हि सवर्णे अण्ग्रहणम् अपरिभाष्यम् आकृतिग्रहणात् । सवर्णे अण्ग्रहणम् अपरिभाष्यम् । कुतः । आकृतिग्रहणात् । अवर्णाकृतिः उपदिष्टा सा सर्वम् अवर्णकुलम् ग्रहीष्यति । तथा इवर्णकुलाकृतिः । तथा उवर्णकुलाकृतिः । ननु च अन्या आकृतिः अकारस्य आकारस्य च । अनन्यत्वात् च । अनन्याकृतिः अकारस्य आकारस्य च । अनेकान्तः हि अनन्यत्वकरः । यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति । तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति । अपरः आह : सवर्णे अण्ग्रहणम् अपरिभाष्यम् । आकृतिग्रहणात् अनन्यत्वम् । सवर्णे अण्ग्रहणम् अपरिभाष्यम् । आकृतिग्रहणात् अनन्यत्वम् भविष्यति । अनन्याकृतिः अकारस्य आकारस्य च । अनेकान्तः हि अनन्यत्वकरः । यः हि अनेकान्तेन भेदः न असौ अन्यत्वम् करोति । तत् यथा : न यः गोः च गोः च भेदः सः अन्यत्वम् करोति । यः तु खलु गोः च अश्वस्य च भेदः सः अन्यत्वम् करोति । तद्वत् च हल्ग्रहणेषु । एवम् च कृत्वा च हल्ग्रहणेषु सिद्धम् भवति । झलः झलि : अवात्ताम् अवात्तम् अवात्त यत्र एतत् न अस्ति अण् सवर्णान् गृह्णाति इति । अनेकान्तः हि अनन्यत्वकरः इति उक्तार्थम् । द्रुतविलम्बितयोः च अनुपदेशात् । द्रुतविलम्बितयोः च अनुपदेशात् मन्यामहे आकृतिग्रहणात् सिद्धम् इति । यत् अयम् कस्याम् चित् वृत्तौ वर्णान् उपदिश्य सर्वत्र कृती भवति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । वृत्तिपृथक्त्वम् तु न उपपद्यते । वृत्तेः तु पृथक्त्वम् न उपपद्यते । तस्मात् तत्र तपरनिर्देशात् सिद्धम् । तस्मात् तत्र तपरनिर्देशः कर्तव्यः । न कर्तव्यः । क्रियते एतत् न्यासे एव : अतः भिसः ऐस् इति ।

KA I,179.12-180.12 Ro I,531-535 evam tarhi savarṇe aṇgrahaṇam aparibhāṣyam ākṛtigrahaṇāt . savarṇe aṇgrahaṇam aparibhāṣyam . kutaḥ . ākṛtigrahaṇāt . avarṇākṛtiḥ upadiṣṭā sā sarvam avarṇakulam grahīṣyati . tathā ivarṇakulākṛtiḥ . tathā uvarṇakulākṛtiḥ . nanu ca anyā ākṛtiḥ akārasya ākārasya ca . ananyatvāt ca . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . aparaḥ āha : savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam . savarṇe aṇgrahaṇam aparibhāṣyam . ākṛtigrahaṇāt ananyatvam bhaviṣyati . ananyākṛtiḥ akārasya ākārasya ca . anekāntaḥ hi ananyatvakaraḥ . yaḥ hi anekāntena bhedaḥ na asau anyatvam karoti . tat yathā : na yaḥ goḥ ca goḥ ca bhedaḥ saḥ anyatvam karoti . yaḥ tu khalu goḥ ca aśvasya ca bhedaḥ saḥ anyatvam karoti . tadvat ca halgrahaṇeṣu . evam ca kṛtvā ca halgrahaṇeṣu siddham bhavati . jhalaḥ jhali : avāttām avāttam avātta yatra etat na asti aṇ savarṇān gṛhṇāti iti . anekāntaḥ hi ananyatvakaraḥ iti uktārtham . drutavilambitayoḥ ca anupadeśāt . drutavilambitayoḥ ca anupadeśāt manyāmahe ākṛtigrahaṇāt siddham iti . yat ayam kasyām cit vṛttau varṇān upadiśya sarvatra kṛtī bhavati . asti prayojanam etat . kim tarhi iti . vṛttipṛthaktvam tu na upapadyate . vṛtteḥ tu pṛthaktvam na upapadyate . tasmāt tatra taparanirdeśāt siddham . tasmāt tatra taparanirdeśaḥ kartavyaḥ . na kartavyaḥ . kriyate etat nyāse eva : ataḥ bhisaḥ ais iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८०।१४-२० रो इ,५३५-५३६ अयुक्तः अयम् निर्देशः । तत् इति अनेन कालः प्रतिनिर्दिश्यते तत् इति अयम् च वर्णः । तत्र अयुक्तम् वर्णस्य कालेन सह सामनाधिकरण्यम् । कथम् तर्हि निर्देशः कर्तव्यः । तत्कालकालस्य इति । किम् इदम् तत्कालकालस्य इति । तस्य कालः तत्कालः , तत्कालः कालः यस्य सः अयम् तत्कालकालः , तत्कालकालस्य इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत् यथा उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः । एवम् तत्कालकालः तत्कालः , तत्कालस्य इति । अथ वा साहचर्यात् ताच्छब्द्यम् भविष्यति । कालसहचरितः वर्णः अपि कालः एव।

KA I,180.14-20 Ro I,535-536 ayuktaḥ ayam nirdeśaḥ . tat iti anena kālaḥ pratinirdiśyate tat iti ayam ca varṇaḥ . tatra ayuktam varṇasya kālena saha sāmanādhikaraṇyam . katham tarhi nirdeśaḥ kartavyaḥ . tatkālakālasya iti . kim idam tatkālakālasya iti . tasya kālaḥ tatkālaḥ , tatkālaḥ kālaḥ yasya saḥ ayam tatkālakālaḥ , tatkālakālasya iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukhaḥ . evam tatkālakālaḥ tatkālaḥ , tatkālasya iti . atha vā sāhacaryāt tācchabdyam bhaviṣyati . kālasahacaritaḥ varṇaḥ api kālaḥ eva.

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८०।२१-१८१।२४ रो इ,५३७-५४० किम् पुनः इदम् नियमार्थम् आहोस्वित् प्रापकम् । कथम् च नियमार्थम् स्यात् कथम् वा प्रापकम् । यदि अत्र अण्ग्रहणम् अनुवर्तते ततः नियमार्थम् । अथ निवृत्तम् ततः प्रापकम् । कः च अत्र विशेषः । तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नाग्रहणम् । तपरः तत्कालस्य इति नियमाऋथम् इति चेत् दीर्घग्रहणे स्वरभिन्नानाम् ग्रहणम् न प्राप्नोति । केषाम् । उदात्तानुदात्तस्वरितानाम् । अस्तु तर्हि प्रापकम् । प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतप्रतिषेधः । प्रापकम् इति चेत् ह्रस्वग्रहणे दीर्घप्लुतयोः तु प्रतिषेधः वक्तव्यः । विप्रतिषेधात् सिद्धम् । अण् सवर्णान् गृह्णाति इति एतत् अस्तु तपरः तत्कालस्य इति वा । तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन । अण् सवर्णान् गृह्णाति इति अस्य अवकाशः ह्रस्वाः अतपराः अणः । तपरः तत्कालस्य इति अस्य अवकाशः दीर्घाः तपराः । ह्रस्वेषु तपरेषु उभयम् प्राप्नोति । तपरः तत्कालस्य इति एतत् भवति विप्रतिषेधेन । यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कालभेदात् । द्रुतायाम् तपरकरणे मध्यमविलम्बितयोः उपसङ्ख्यानम् कर्तव्यम् तथा मध्यमायाम् द्रुतविलम्बितयोः तथा विलम्बितायाम् द्रुतमध्यमयोः । किम् पुनः कारणम् न सिध्यति । कालभेदात् । ये हि द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् । ये मध्यमायाम् वर्णाः त्रिभागाधिकाः ते विलम्बितायाम् । सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते । सिद्धम् एतत् । कथम् । अवस्थिताः वर्णाः द्रुतमध्यमविलम्बितासु । किङ्कृतः तु वृत्तिविशेषः । वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते । वक्ता कः चित् आश्वभिधायी भवति , आशु वर्णान् अभिधत्ते । कः चित् चिरेण कः चित् चिरतरेण । तत् यथा : तम् एव अध्वानम् कः चित् आशु गच्छति कः चित् चिरेण गच्छति कः चित् चिरतरेण गच्छति । रथिकः आशु गच्छति आश्विकः चिरेण पदातिः चिरतरेण । विषमः उपन्यासः । अधिकरणम् अत्र अध्वा व्रजिक्रियायाः । तत्र अयुक्तम् यत् अधिकरणस्य वृद्धिह्रासौ स्याताम् । एवम् तर्हि स्फोटः शब्दः ध्वनिः शब्दगुणः । कथम् । भेर्याघातवत् । तत् यथा भेर्याघातः भेरीम् आहत्य कः चित् विंशति पदानि गच्छति कः चित् त्रिंशत् कः चित् चत्वारिंशत् । स्फोटः च तावान् एव भवति । ध्वनिकृता वृद्धिः । ध्वनिः स्फोटः च शब्दानाम् ध्वनिः तु खलु लक्ष्यते । अल्पः महान् च केषाम् चित् उभयम् तत् स्वभावतः ।

KA I,180.21-181.24 Ro I,537-540 kim punaḥ idam niyamārtham āhosvit prāpakam . katham ca niyamārtham syāt katham vā prāpakam . yadi atra aṇgrahaṇam anuvartate tataḥ niyamārtham . atha nivṛttam tataḥ prāpakam . kaḥ ca atra viśeṣaḥ . taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnāgrahaṇam . taparaḥ tatkālasya iti niyamāṛtham iti cet dīrghagrahaṇe svarabhinnānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānām . astu tarhi prāpakam . prāpakam iti cet hrasvagrahaṇe dīrghaplutapratiṣedhaḥ . prāpakam iti cet hrasvagrahaṇe dīrghaplutayoḥ tu pratiṣedhaḥ vaktavyaḥ . vipratiṣedhāt siddham . aṇ savarṇān gṛhṇāti iti etat astu taparaḥ tatkālasya iti vā . taparaḥ tatkālasya iti etat bhavati vipratiṣedhena . aṇ savarṇān gṛhṇāti iti asya avakāśaḥ hrasvāḥ ataparāḥ aṇaḥ . taparaḥ tatkālasya iti asya avakāśaḥ dīrghāḥ taparāḥ . hrasveṣu tapareṣu ubhayam prāpnoti . taparaḥ tatkālasya iti etat bhavati vipratiṣedhena . yadi evam drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kālabhedāt . drutāyām taparakaraṇe madhyamavilambitayoḥ upasaṅkhyānam kartavyam tathā madhyamāyām drutavilambitayoḥ tathā vilambitāyām drutamadhyamayoḥ . kim punaḥ kāraṇam na sidhyati . kālabhedāt . ye hi drutāyām vṛttau varṇāḥ tribhāgādhikāḥ te madhyamāyām . ye madhyamāyām varṇāḥ tribhāgādhikāḥ te vilambitāyām . siddham tu avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante . siddham etat . katham . avasthitāḥ varṇāḥ drutamadhyamavilambitāsu . kiṅkṛtaḥ tu vṛttiviśeṣaḥ . vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante . vaktā kaḥ cit āśvabhidhāyī bhavati , āśu varṇān abhidhatte . kaḥ cit cireṇa kaḥ cit ciratareṇa . tat yathā : tam eva adhvānam kaḥ cit āśu gacchati kaḥ cit cireṇa gacchati kaḥ cit ciratareṇa gacchati . rathikaḥ āśu gacchati āśvikaḥ cireṇa padātiḥ ciratareṇa . viṣamaḥ upanyāsaḥ . adhikaraṇam atra adhvā vrajikriyāyāḥ . tatra ayuktam yat adhikaraṇasya vṛddhihrāsau syātām . evam tarhi sphoṭaḥ śabdaḥ dhvaniḥ śabdaguṇaḥ . katham . bheryāghātavat . tat yathā bheryāghātaḥ bherīm āhatya kaḥ cit viṃśati padāni gacchati kaḥ cit triṃśat kaḥ cit catvāriṃśat . sphoṭaḥ ca tāvān eva bhavati . dhvanikṛtā vṛddhiḥ . dhvaniḥ sphoṭaḥ ca śabdānām dhvaniḥ tu khalu lakṣyate | alpaḥ mahān ca keṣām cit ubhayam tat svabhāvataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८२।२-१३ रो इ,५४१-५४२ आदिः अन्त्येन सह इति असम्प्रत्ययः सञ्ज्ञिनः अनिर्देशात् । आदिः अन्त्येन सह इति असम्प्रत्ययः । किम् कारणम् । सञ्ज्ञिनः अनिर्देशात् । न हि सञ्ज्ञिनः निर्दिश्यन्ते । सिद्धम् तु आदिः इता सह तन्मध्यस्य इति वचनात् । सिद्धम् एतत् । कथम् । आदिः अन्त्येन सह इता गृह्यमाणः स्वस्य च रूपस्य ग्राहकः तन्मध्यानाम् च इति वक्तव्यम् । सम्बन्धिशब्दैः वा तुल्यम् । सम्बन्धिशब्दैः वा तुल्यम् एतत् । तत् यथा सम्बन्धिशब्दाः : मातरि वर्तितव्यम् , पितरि शुश्रूषितव्यम् इति । न च उच्यते स्वस्याम् मातरि स्वस्मिन् पितरि इति सम्बन्धात् च गम्यते या यस्य माता यः च यस्य पिता इति । एवम् इह अपि आदिः अन्त्यः इति सम्बन्धिशब्दौ एतौ । तत्र सम्बन्धात् एतत् गन्तव्यम् : यम् प्रति आदिः अन्त्यः इति च भवति तस्य ग्रहणम् भवति स्वस्य च रूपस्य इति ।

KA I,182.2-13 Ro I,541-542 ādiḥ antyena saha iti asampratyayaḥ sañjñinaḥ anirdeśāt . ādiḥ antyena saha iti asampratyayaḥ . kim kāraṇam . sañjñinaḥ anirdeśāt . na hi sañjñinaḥ nirdiśyante . siddham tu ādiḥ itā saha tanmadhyasya iti vacanāt . siddham etat . katham . ādiḥ antyena saha itā gṛhyamāṇaḥ svasya ca rūpasya grāhakaḥ tanmadhyānām ca iti vaktavyam . sambandhiśabdaiḥ vā tulyam . sambandhiśabdaiḥ vā tulyam etat . tat yathā sambandhiśabdāḥ : mātari vartitavyam , pitari śuśrūṣitavyam iti . na ca ucyate svasyām mātari svasmin pitari iti sambandhāt ca gamyate yā yasya mātā yaḥ ca yasya pitā iti . evam iha api ādiḥ antyaḥ iti sambandhiśabdau etau . tatra sambandhāt etat gantavyam : yam prati ādiḥ antyaḥ iti ca bhavati tasya grahaṇam bhavati svasya ca rūpasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८२।१५-१८३।२ रो इ,५४२-५४४ इह कस्मात् न भवति : इकः यण् अचि : दधि अत्र मधु अत्र । अस्तु । अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य भविष्यति । न एवम् शक्यम् । ये अनेकालः आदेशाः तेषु दोषः स्यात् : एचः अयवायावः इति । न एषः दोषः । यथा एव प्रकृतितः तदन्तविधिः भवति एवम् आदेशतः अपि भविष्यति । तत्र एजन्तस्य अयाद्यन्ता आदेशाः भविष्यन्ति । यदि च एवम् क्व चित् वैरूप्यम् तत्र दोषः स्यात् । अपि च अन्तरङ्गबहिरङ्गे न प्रकल्प्येयाताम् । तत्र कः दोषः । स्योनः , स्योना : अन्तरङ्गलक्षणस्य यणादेशस्य बहिरङ्गलक्षणः गुणः बाधकः प्रसज्येत । ऊनशब्दम् हि आश्रित्य यणादेशः नशब्दम् आश्रित्य गुणः । अल्विधिः च न प्रकल्पेत : द्यौः , पन्थाः , सः इति । तस्मात् प्रकृते तदन्तविधिः इति वक्तव्यम् । न वक्तव्यम् । येन इति करणे एषा तृतीया अन्येन च अन्यस्य विधिः भवति । तत् यथा : देवदत्तस्य समाशम् शरावैः ओदनेन च यज्ञदत्तः प्रतिविधत्ते , तथा सङ्ग्रामम् हस्त्यश्वरथपदातिभिः । एवम् इह अपि अचा धातोः यतम् विधत्ते । अकारेण प्रातिपदिकस्य इञम् विधत्ते ।

KA I,182.15-183.2 Ro I,542-544 iha kasmāt na bhavati : ikaḥ yaṇ aci : dadhi atra madhu atra . astu . alaḥ antyasya vidhayaḥ bhavanti iti antyasya bhaviṣyati . na evam śakyam . ye anekālaḥ ādeśāḥ teṣu doṣaḥ syāt : ecaḥ ayavāyāvaḥ iti . na eṣaḥ doṣaḥ . yathā eva prakṛtitaḥ tadantavidhiḥ bhavati evam ādeśataḥ api bhaviṣyati . tatra ejantasya ayādyantā ādeśāḥ bhaviṣyanti . yadi ca evam kva cit vairūpyam tatra doṣaḥ syāt . api ca antaraṅgabahiraṅge na prakalpyeyātām . tatra kaḥ doṣaḥ . syonaḥ , syonā : antaraṅgalakṣaṇasya yaṇādeśasya bahiraṅgalakṣaṇaḥ guṇaḥ bādhakaḥ prasajyeta . ūnaśabdam hi āśritya yaṇādeśaḥ naśabdam āśritya guṇaḥ . alvidhiḥ ca na prakalpeta : dyauḥ , panthāḥ , saḥ iti . tasmāt prakṛte tadantavidhiḥ iti vaktavyam . na vaktavyam . yena iti karaṇe eṣā tṛtīyā anyena ca anyasya vidhiḥ bhavati . tat yathā : devadattasya samāśam śarāvaiḥ odanena ca yajñadattaḥ pratividhatte , tathā saṅgrāmam hastyaśvarathapadātibhiḥ . evam iha api acā dhātoḥ yatam vidhatte . akāreṇa prātipadikasya iñam vidhatte .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८३।३-१६ रो इ,५४४-५४६ येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिप्रसङ्गः । येन विधिः तदन्तस्य इति चेत् ग्रहणोपाधीनाम् तदन्तोपाधिताप्रसङ्गः । ये ग्रहणोपाधयः ते अपि तदन्तोपाधयः स्युः । तत्र कः दोषः । उतः च प्रत्ययात् असंयोगपूर्वात् इति असंयोगपूर्वग्रहणम् उकारान्त्विशेषणम् स्यात् । तत्र कः दोषः । असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात्:: अक्ष्णुहि तक्ष्णुहि इति । इह न स्यात् : आप्नुहि शक्नुहि इति । तथा उत् ओष्थ्यपूर्वस्य इति ओष्ठ्यपूर्वग्रहणम् ॠकारान्तविशेषणम् स्यात् । तत्र कः दोषः । ओष्ठ्यपूर्वग्रहणेन इह च प्रसज्येत : सङ्कीर्णम् इति । इह च न स्यात् : निपूर्ताः पिण्डाः इति । सिद्धम् तु विशेषणविशेष्ययोः यथेष्टत्वात् । सिद्धम् एतत् । कथम् । यथेष्टम् विशेषणविशेष्ययोः योगः भवति । यावता यथेष्टम् इह तावत् : उतः च प्रत्ययात् असंयोगपूर्वात् इति न असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते । किम् तर्हि । उकारः एव विशेष्यते : उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति । तथा उत् ओष्थ्यपूर्वस्य इति न ओष्ठपूर्वग्रहणेन ॠकारान्तम् विशेष्यते । किम् तर्हि । ॠकारः एव विशेष्यते : ॠकारः यः ओष्ठ्यपूर्वः तदन्तस्य धातोः इति ।

KA I,183.3-16 Ro I,544-546 yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhiprasaṅgaḥ . yena vidhiḥ tadantasya iti cet grahaṇopādhīnām tadantopādhitāprasaṅgaḥ . ye grahaṇopādhayaḥ te api tadantopādhayaḥ syuḥ . tatra kaḥ doṣaḥ . utaḥ ca pratyayāt asaṃyogapūrvāt iti asaṃyogapūrvagrahaṇam ukārāntviśeṣaṇam syāt . tatra kaḥ doṣaḥ . asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt:: akṣṇuhi takṣṇuhi iti . iha na syāt : āpnuhi śaknuhi iti . tathā ut oṣthyapūrvasya iti oṣṭhyapūrvagrahaṇam ṝkārāntaviśeṣaṇam syāt . tatra kaḥ doṣaḥ . oṣṭhyapūrvagrahaṇena iha ca prasajyeta : saṅkīrṇam iti . iha ca na syāt : nipūrtāḥ piṇḍāḥ iti . siddham tu viśeṣaṇaviśeṣyayoḥ yatheṣṭatvāt . siddham etat . katham . yatheṣṭam viśeṣaṇaviśeṣyayoḥ yogaḥ bhavati . yāvatā yatheṣṭam iha tāvat : utaḥ ca pratyayāt asaṃyogapūrvāt iti na asaṃyogapūrvagrahaṇena ukārāntam viśeṣyate . kim tarhi . ukāraḥ eva viśeṣyate : ukāraḥ yaḥ asaṃyogapūrvaḥ tadantāt pratyayāt iti . tathā ut oṣthyapūrvasya iti na oṣṭhapūrvagrahaṇena ṝkārāntam viśeṣyate . kim tarhi . ṝkāraḥ eva viśeṣyate : ṝkāraḥ yaḥ oṣṭhyapūrvaḥ tadantasya dhātoḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८३।१७-१८४।२५ रो इ,५४६-५५० समासप्रत्ययविधौ प्रतिषेधः । समासविधौ प्रत्ययविधौ च प्रतिषेधः वक्तव्यः । समासविधौ तावत् : द्वितीया श्रितादिभिः समस्यते : कष्टश्रितः , नरकश्रितः । कष्टम् परमश्रित इति अत्र मा भूत् । प्रत्ययविधौ : नडस्य अपत्यम् नाडायनः । इह न भवति : सूत्रनडस्य अपत्यम् सौत्रनाडिः । किम् अविशेषेण । न इति आह । उगिद्वर्णग्रहणवर्जम् । उगिद्ग्रहणम् वर्णग्रहणम् च वर्जयित्वा । उगिद्ग्रहणम् : भवती , अतिभवती महती , अतिमहती । वर्णग्रहणम् : अतः इञ् : दाक्षिः , प्लाक्षिः । अस्ति च इदानीम् कः चित् केवलः अकारः प्रातिपदिकम् यदर्थः विधिः स्यात् । अस्ति इति आह । अततेः डः : अः , तस्य अपत्यम् : अतः इञ् इः । अकच्श्नम्वतः सर्वनामाव्ययधातुविधौ उपसङ्ख्यानम् । अकच्वतः सर्वनामाव्ययविधौ श्नम्वतः धातुविधौ उपसङ्ख्यानम् कर्तव्यम् । अकच्वतः : सर्वके विश्वके । अव्ययविधौ : उच्चकैः नीचकैः । श्नम्वतः : भिनत्ति छिनत्ति । किम् पुनः कारणम् न सिध्यति । इह तस्य वा ग्रहणम् भवति तदन्तस्य वा । न च इदम् तत् न अपि तदन्तम् । सिद्धम् तु तदन्तान्तवचनात् । सिद्धम् एतत् । कथम् । तदन्तान्तवचनात् । तदन्तान्तस्य इति वक्तव्यम् । किम् इदम् तदन्तान्तस्य इति । तस्य अन्तः तदन्तः , तदन्तः अन्तः यस्य तत् इदम् तदन्तान्तम् , तदन्तान्तस्य इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य : उष्ट्रमुखः , खरमुखः । एवम् इह अपि तदन्तः अन्तः यस्य तदन्तस्य इति । तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा पुनः सिद्धम् एतत् । तदेकदेशभूतः तद्ग्रहणेन गृह्यते । तत् यथा गङ्गा यमुना देवदत्ता इति । अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते । तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते । विषमः उपन्यासः । इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च । पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति । द्रोणः खारी आढकम् इति : न एव अधिके भवन्ति न न्यूने । के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च । तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि । शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये । इमाः च अपि सञ्ज्ञाः अक्तपरिमाणानाम् अर्थानाम् क्रियन्ते । ताः केन अधिकस्य स्युः । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः इदमदसोः प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गः यत् सककारयोः स्यात् । पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति । ततः सककारयोः प्रतिषेधम् शास्ति ।

KA I,183.17-184.25 Ro I,546-550 samāsapratyayavidhau pratiṣedhaḥ . samāsavidhau pratyayavidhau ca pratiṣedhaḥ vaktavyaḥ . samāsavidhau tāvat : dvitīyā śritādibhiḥ samasyate : kaṣṭaśritaḥ , narakaśritaḥ . kaṣṭam paramaśrita iti atra mā bhūt . pratyayavidhau : naḍasya apatyam nāḍāyanaḥ . iha na bhavati : sūtranaḍasya apatyam sautranāḍiḥ . kim aviśeṣeṇa . na iti āha . ugidvarṇagrahaṇavarjam . ugidgrahaṇam varṇagrahaṇam ca varjayitvā . ugidgrahaṇam : bhavatī , atibhavatī mahatī , atimahatī . varṇagrahaṇam : ataḥ iñ : dākṣiḥ , plākṣiḥ . asti ca idānīm kaḥ cit kevalaḥ akāraḥ prātipadikam yadarthaḥ vidhiḥ syāt . asti iti āha . atateḥ ḍaḥ : aḥ , tasya apatyam : ataḥ iñ iḥ . akacśnamvataḥ sarvanāmāvyayadhātuvidhau upasaṅkhyānam . akacvataḥ sarvanāmāvyayavidhau śnamvataḥ dhātuvidhau upasaṅkhyānam kartavyam . akacvataḥ : sarvake viśvake . avyayavidhau : uccakaiḥ nīcakaiḥ . śnamvataḥ : bhinatti chinatti . kim punaḥ kāraṇam na sidhyati . iha tasya vā grahaṇam bhavati tadantasya vā . na ca idam tat na api tadantam . siddham tu tadantāntavacanāt . siddham etat . katham . tadantāntavacanāt . tadantāntasya iti vaktavyam . kim idam tadantāntasya iti . tasya antaḥ tadantaḥ , tadantaḥ antaḥ yasya tat idam tadantāntam , tadantāntasya iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā : uṣṭramukham iva mukham asya : uṣṭramukhaḥ , kharamukhaḥ . evam iha api tadantaḥ antaḥ yasya tadantasya iti . tadekadeśavijñānāt vā siddham . tadekadeśavijñānāt vā punaḥ siddham etat . tadekadeśabhūtaḥ tadgrahaṇena gṛhyate . tat yathā gaṅgā yamunā devadattā iti . anekā nadī gaṅgām yamunām ca praviṣṭā gaṅgāyamunāgrahaṇena gṛhyate . tathā devadattāsthaḥ garbhaḥ devadattāgrahaṇena gṛhyate . viṣamaḥ upanyāsaḥ . iha ke cit śabdāḥ aktaparimāṇānām arthānām vācakāḥ bhavanti ye ete saṅkhyāśabdāḥ parimāṇaśabdāḥ ca . pañca sapta iti : ekena api apāye na bhavanti . droṇaḥ khārī āḍhakam iti : na eva adhike bhavanti na nyūne . ke cit yāvat eva tat bhavati tāvat eva āhuḥ ye ete jātiśabdāḥ guṇaśabdāḥ ca . tailam ghṛtam iti : khāryām api bhavanti droṇe api . śuklaḥ nīlaḥ kṛṣṇaḥ iti : himavati api bhavati vaṭakaṇikāmātre api dravye . imāḥ ca api sañjñāḥ aktaparimāṇānām arthānām kriyante . tāḥ kena adhikasya syuḥ . evam tarhi ācāryapravṛttiḥ jñāpayati tadekadeśabhūtam tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ idamadasoḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . idamadasoḥ kāryam ucyamānam kaḥ prasaṅgaḥ yat sakakārayoḥ syāt . paśyati tu ācāryaḥ tadekadeśabhūtam tadgrahaṇena gṛhyate iti . tataḥ sakakārayoḥ pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८४।२६-१८६।२४ रो इ,५५०-५५४ कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् सर्वनामाव्ययसञ्ज्ञायाम् । सर्वनामाव्ययसञ्ज्ञायाम् प्रयोजनम् : सर्वे परमसर्वे विश्वे परमविश्वे , उच्चैः , परमोच्चैः , नीचैः , परमनीचैः इति । उपपदविधौ भयाढ्यादिग्रहणम् । उपपदविधौ भयाढ्यादिग्रहणम् प्रयोजनम् : भयङ्करः , अभयङ्करः , आढ्यङ्करणम् , खाड्यङ्करणम् । ङीब्विधौ उगिद्ग्रहणम् । ङीब्विधौ उगिद्ग्रहणम् प्रयोजनम् : भवती , अतिभवती महती , अतिमहती । प्रतिषेधे स्वस्रादिग्रहणम् । प्रतिषेधे स्वस्रादिग्रहणम् प्रयोजनम् : स्वसा परमस्वसा दुहिता परमदुहिता । अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे । अपरिमाणबिस्तादिग्रहणम् च प्रतिषेधे प्रयोजनम् । अपरिमाणबिस्ताचितकम्बलेभ्यः न तद्धितलुकि : द्विबिस्ता द्विपरमबिस्ता त्रिबिस्ता त्रिपरमबिस्ता द्व्याचिता द्विपरमाचिता । दिति । दितिग्रहणम् च प्रयोजनम् । दितेः अपत्यम् दैत्यः , अदितेः अपत्यम् आदित्यः । दित्यदित्यादित्य इति अदितिग्रहणम् न कर्तव्यम् भवति । रोण्याः अण् । रोण्याः अण्ग्रहणम् च प्रयोजनम् : आजकरोणः , सैंहकरोणः । तस्य च । तस्य च इति वक्तव्यम् : रौणः । किम् पुनः कारणम् न सिध्यति । तदन्तात् च तदन्तविधिना सिद्धम् केवलात् च व्यप्देशिवद्भावेन । व्यप्देशिवद्भावः अप्रातिपदिकेन । किम् पुनः कारणम् व्यप्देशिवद्भावः अप्रातिपदिकेन । इह : सूत्रान्तात् ठक् भवति दशान्तात् डः भवति इति : केवलात् उत्पत्तिः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । सिद्धम् अत्र तदन्तात् च तदन्तविधिना केवलात् च व्यप्देशिवद्भावेन । सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तत् ज्ञापयति आचार्यः सूत्रान्तात् एव दशान्तात् एव इति । न अत्र तदन्तात् उत्पत्तिः प्राप्नोति । इदानीम् एव हि उक्तम् : समासप्रत्ययविधौ प्रतिषेधः इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति व्यप्देशिवद्भावः अप्रातिपदिकेन इति यत् अयम् पूर्वात् इनिः सपूर्वात् च इति आह । न एतत् अस्ति प्रयोजनम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । सपूर्वात् पूर्वात् इनिम् वक्ष्यामि इति । यत् तर्हि योगविभागम् करोति । इतरथा हि पूर्वात् सपूर्वात् इति एव ब्रूयात् । किम् पुनः अयम् अस्य एव शेषः : तस्य च इति । न इति आह । यत् च अनुक्रान्तम् यत् च अनुक्रंसय्ते सर्वस्य एव शेषः तस्य च इति । रथसीताहलेभ्यः यद्विधौ । रथसीताहलेभ्यः यद्विधौ प्रयोजनम् : रथ्यः , परमरथ्यः , सीत्यम् , परमसीत्यम् , हल्या परमहल्या । सुसर्वार्धदिक्शब्देभ्यः जनपदस्य । सुसर्वार्धदिक्शब्देभ्यः जनपदस्य प्रयोजनम् : सुपाञ्चालकः , सुमागधकः । सु । सर्व : सर्वपाञ्चालकः , सर्वमागधकः । सर्व । अर्ध : अर्धपाञ्चालकः , अर्धमागधकः । अर्ध । दिक्शब्द : पूर्वपाञ्चालकः , पूर्वमागधकः । ऋतोः वृद्धिमद्विधौ अवयवानाम् । ऋतोः वृद्धिमद्विधौ अवयवानाम् प्रयोजनम् : पूर्वशारदम् , अपरशारदम् , पूर्वनैदाघम् , अपरनैदाघम् । ठञ्विधौ सङ्ख्यायाः । ठञ्विधौ सङ्ख्यायाः प्रयोजनम् : द्विषाष्टिकम् , पञ्चषाष्टिकम् । धर्मात् नञः । धर्मात् नञः प्रयोजनम् : धर्मम् चरति धार्मिकः , अधर्मम् चरति आधर्मिकः । अधर्मात् च इति न वक्तव्यम् भवति ।

KA I,184.26-186.24 Ro I,550-554 kāni punaḥ asya yogasya prayojanāni . prayojanam sarvanāmāvyayasañjñāyām . sarvanāmāvyayasañjñāyām prayojanam : sarve paramasarve viśve paramaviśve , uccaiḥ , paramoccaiḥ , nīcaiḥ , paramanīcaiḥ iti . upapadavidhau bhayāḍhyādigrahaṇam . upapadavidhau bhayāḍhyādigrahaṇam prayojanam : bhayaṅkaraḥ , abhayaṅkaraḥ , āḍhyaṅkaraṇam , khāḍyaṅkaraṇam . ṅībvidhau ugidgrahaṇam . ṅībvidhau ugidgrahaṇam prayojanam : bhavatī , atibhavatī mahatī , atimahatī . pratiṣedhe svasrādigrahaṇam . pratiṣedhe svasrādigrahaṇam prayojanam : svasā paramasvasā duhitā paramaduhitā . aparimāṇabistādigrahaṇam ca pratiṣedhe . aparimāṇabistādigrahaṇam ca pratiṣedhe prayojanam . aparimāṇabistācitakambalebhyaḥ na taddhitaluki : dvibistā dviparamabistā tribistā triparamabistā dvyācitā dviparamācitā . diti . ditigrahaṇam ca prayojanam . diteḥ apatyam daityaḥ , aditeḥ apatyam ādityaḥ . dityadityāditya iti aditigrahaṇam na kartavyam bhavati . roṇyāḥ aṇ . roṇyāḥ aṇgrahaṇam ca prayojanam : ājakaroṇaḥ , saiṃhakaroṇaḥ . tasya ca . tasya ca iti vaktavyam : rauṇaḥ . kim punaḥ kāraṇam na sidhyati . tadantāt ca tadantavidhinā siddham kevalāt ca vyapdeśivadbhāvena . vyapdeśivadbhāvaḥ aprātipadikena . kim punaḥ kāraṇam vyapdeśivadbhāvaḥ aprātipadikena . iha : sūtrāntāt ṭhak bhavati daśāntāt ḍaḥ bhavati iti : kevalāt utpattiḥ mā bhūt iti . na etat asti prayojanam . siddham atra tadantāt ca tadantavidhinā kevalāt ca vyapdeśivadbhāvena . saḥ ayam evam siddhe sati yat antagrahaṇam karoti tat jñāpayati ācāryaḥ sūtrāntāt eva daśāntāt eva iti . na atra tadantāt utpattiḥ prāpnoti . idānīm eva hi uktam : samāsapratyayavidhau pratiṣedhaḥ iti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati vyapdeśivadbhāvaḥ aprātipadikena iti yat ayam pūrvāt iniḥ sapūrvāt ca iti āha . na etat asti prayojanam . asti hi anyat etasya vacane prayojanam . kim . sapūrvāt pūrvāt inim vakṣyāmi iti . yat tarhi yogavibhāgam karoti . itarathā hi pūrvāt sapūrvāt iti eva brūyāt . kim punaḥ ayam asya eva śeṣaḥ : tasya ca iti . na iti āha . yat ca anukrāntam yat ca anukraṃsayte sarvasya eva śeṣaḥ tasya ca iti . rathasītāhalebhyaḥ yadvidhau . rathasītāhalebhyaḥ yadvidhau prayojanam : rathyaḥ , paramarathyaḥ , sītyam , paramasītyam , halyā paramahalyā . susarvārdhadikśabdebhyaḥ janapadasya . susarvārdhadikśabdebhyaḥ janapadasya prayojanam : supāñcālakaḥ , sumāgadhakaḥ . su . sarva : sarvapāñcālakaḥ , sarvamāgadhakaḥ . sarva . ardha : ardhapāñcālakaḥ , ardhamāgadhakaḥ . ardha . dikśabda : pūrvapāñcālakaḥ , pūrvamāgadhakaḥ . ṛtoḥ vṛddhimadvidhau avayavānām . ṛtoḥ vṛddhimadvidhau avayavānām prayojanam : pūrvaśāradam , aparaśāradam , pūrvanaidāgham , aparanaidāgham . ṭhañvidhau saṅkhyāyāḥ . ṭhañvidhau saṅkhyāyāḥ prayojanam : dviṣāṣṭikam , pañcaṣāṣṭikam . dharmāt nañaḥ . dharmāt nañaḥ prayojanam : dharmam carati dhārmikaḥ , adharmam carati ādharmikaḥ . adharmāt ca iti na vaktavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८७।१-१८८।२३ रो इ,५५५-५६१ पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च । पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति वक्तव्यम् । पदाधिकारे किम् प्रयोजनम् । प्रयोजनम् इष्टिकेषीकामालानाम् चिततूलभारिषु : इष्टकचितम् चिन्वीत , पक्वेष्टिक्चितम् चिन्वीत , इषीकतूलेन मुञ्जेषीकतूलेन मालभारिणी कन्या , उत्पलमालभारिणी कन्या । अङ्गाधिकारे किम् प्रयोजनम् । महदप्स्वसृतॄणाम् दीर्घविधौ । महदप्स्वसृतॄणाम् दीर्घविधौ प्रयोजनम् : महान् , परममहान् । महत् । अप् : आपः तिष्ठन्ति , स्वापः तिष्ठन्ति । अप् । स्वसृ : स्वसा स्वसारौ स्वसारः , परमस्वसा परमस्वसारौ परमस्वसारः । स्वसृ । नप्तृ : नप्ता नप्तारौ नप्तारः । एवम् परमनप्ता परमनप्तारौ परमनप्तारः । पद्युष्मदस्मदस्थ्याद्यन्डुहः नुम् । पद्भावः प्रयोजनम् : दिव्पदः पश्य । अस्ति च इदानीम् कः चित् केवलः पाच्छभ्दः यदर्थः विधिः स्यात् । न अस्ति इति आह । एवम् तर्हि अङ्गाधिकारे प्रयोजनम् न अस्ति इति कृत्वा पदाधिकारस्य इदम् प्रयोजनम् उक्तम् : हिमकाषिहतिषु च : यथा पत्काषिणौ पत्काषिणः एवम् परमपत्काषिणौ परमपत्काषिणः । यदि तर्हि पदाधिकारे पादस्य तदन्तविधिः भवति पादस्य पद आज्यतिगोपहतेषु : यथा इह भवति : पादेन उपहतम् पदोपहतम् अत्र अपि स्यात् : दिग्धपादेन उपहतम् दिग्धपादोपहतम् । एवम् तर्हि अङ्गाधिकारे एव प्रयोजनम् । ननु च उक्तम् न अस्ति केवलः पाच्छब्दः इति । अयम् अस्ति पादयतेः अप्रत्ययः पात् : पदा पदे । पद् । युष्मत् अस्मत् : यूयम् , वयम् अतियूयम् अतिवयम् । अस्थ्यादि : अस्थ्ना दध्ना सक्थ्ना पर्मास्थ्ना परमदध्ना परमसक्थ्ना । अनडुहः नुम् : अनड्वान् , परमानड्वान् । द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् । द्युपथिमथिपुङ्गोसखिचतुरनडुत्त्रिग्रहणम् प्रयोजनम् : द्यौः , सुद्यौः , पन्थाः , सुपन्थाः , मन्थाः , सुमन्थाः , परममन्थाः , पुमान् परमपुमान् , गौः , सुगौः , सखा सखायौ सखायः , सुसखा सुसखायौ सुसखायः , परमसखा परमसखायौ परमसखायः , चत्वारः परमचत्वारः , अनड्वाहः , पर्मानड्वाहः , त्रयाणाम् , परमत्रयाणाम् । त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च । त्यदादिविधिभस्त्रादिस्त्रीग्रहणम् च प्रयोजनम् : सः , अतिसः , भस्त्रका भस्त्रिका निर्भस्त्रका निर्भस्त्रिका बहुभस्त्रका बहुभस्त्रिका । स्त्रीग्रहणम् च प्रयोजनम् । स्त्रियौ स्त्रियः राजस्त्रियौ राजस्त्रियः । वर्णग्रहणम् च सर्वत्र । वर्णग्रहणम् च सर्वत्र प्रयोजनम् । क्व सर्वत्र । अङ्गाधिकारे च अन्यत्र च । अन्यत्र उदाहृतम् । आन्गाधिकारे : अतः दीर्घः यञि सुपि च : इह एव स्यात् : आभ्याम् । घटाभ्याम् इति अत्र न स्यात् । प्रत्ययग्रहणम् च अपञ्चम्याः । प्रत्ययग्रहणम् च अपञ्चम्याः प्रयोजनम् : यञिञोः फक् भवति । गार्ग्यायणः वात्स्यायनः परमगार्ग्यायणः परमवात्स्यायनः । अपञ्चम्याः इति किमर्थम् । दृषत्तीर्णा परिषत्तीर्णा । अला एव अनर्थकेन न अन्येन अनर्थकेन इति वक्तव्यम् । किम् प्रयोजनम् । हन्ग्रहणे प्लीहन्ग्रहणम् मा भूत् । उद्ग्रहणे गर्मुद्ग्रहणम् । स्त्रीग्रहणे शस्त्रीग्रहणम् । सङ्ग्रहणे पायसम् करोति इति मा भूत् । किमर्थम् इदम् उच्यते न पदाङ्गाधिकारे तस्य च तदुत्तरपदस्य च इति एव सिद्धम् । न च इदम् तत् न अपि तदुत्तरपदम् । तत् न वक्तव्यम् भवति । किम् पुनः अत्र ज्यायः । तदन्तविधिः एव ज्यायान् । इदम् अपि सिद्धम् भवति : परमातिमहान् । एतत् हि न एव तत् न अपि तदुत्तरपदम् । अनिनस्मन्ग्रहणानि च अर्थवता च अनर्थकेन च तदन्तविधिम् प्रयोजयन्ति । अन् : राज्ञा इति अर्थवता साम्ना इति अनर्थकेन । अन् । इन् : दण्डी* इति अर्थवता वाग्मी* इति अनर्थकेन । इन् । अस् : सुपयाः इति अर्थवता सुस्रोताः इति अनर्थकेन । अस् । मन् : सुशर्मा इति अर्थवता सुप्रथिमा इति अनर्थकेन ।

KA I,187.1-188.23 Ro I,555-561 padāṅgādhikāre tasya ca taduttarapadasya ca . padāṅgādhikāre tasya ca taduttarapadasya ca iti vaktavyam . padādhikāre kim prayojanam . prayojanam iṣṭikeṣīkāmālānām citatūlabhāriṣu : iṣṭakacitam cinvīta , pakveṣṭikcitam cinvīta , iṣīkatūlena muñjeṣīkatūlena mālabhāriṇī kanyā , utpalamālabhāriṇī kanyā . aṅgādhikāre kim prayojanam . mahadapsvasṛtṝṇām dīrghavidhau . mahadapsvasṛtṝṇām dīrghavidhau prayojanam : mahān , paramamahān . mahat . ap : āpaḥ tiṣṭhanti , svāpaḥ tiṣṭhanti . ap . svasṛ : svasā svasārau svasāraḥ , paramasvasā paramasvasārau paramasvasāraḥ . svasṛ . naptṛ : naptā naptārau naptāraḥ . evam paramanaptā paramanaptārau paramanaptāraḥ . padyuṣmadasmadasthyādyanḍuhaḥ num . padbhāvaḥ prayojanam : divpadaḥ paśya . asti ca idānīm kaḥ cit kevalaḥ pācchabhdaḥ yadarthaḥ vidhiḥ syāt . na asti iti āha . evam tarhi aṅgādhikāre prayojanam na asti iti kṛtvā padādhikārasya idam prayojanam uktam : himakāṣihatiṣu ca : yathā patkāṣiṇau patkāṣiṇaḥ evam paramapatkāṣiṇau paramapatkāṣiṇaḥ . yadi tarhi padādhikāre pādasya tadantavidhiḥ bhavati pādasya pada ājyatigopahateṣu : yathā iha bhavati : pādena upahatam padopahatam atra api syāt : digdhapādena upahatam digdhapādopahatam . evam tarhi aṅgādhikāre eva prayojanam . nanu ca uktam na asti kevalaḥ pācchabdaḥ iti . ayam asti pādayateḥ apratyayaḥ pāt : padā pade . pad . yuṣmat asmat : yūyam , vayam atiyūyam ativayam . asthyādi : asthnā dadhnā sakthnā parmāsthnā paramadadhnā paramasakthnā . anaḍuhaḥ num : anaḍvān , paramānaḍvān . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam . dyupathimathipuṅgosakhicaturanaḍuttrigrahaṇam prayojanam : dyauḥ , sudyauḥ , panthāḥ , supanthāḥ , manthāḥ , sumanthāḥ , paramamanthāḥ , pumān paramapumān , gauḥ , sugauḥ , sakhā sakhāyau sakhāyaḥ , susakhā susakhāyau susakhāyaḥ , paramasakhā paramasakhāyau paramasakhāyaḥ , catvāraḥ paramacatvāraḥ , anaḍvāhaḥ , parmānaḍvāhaḥ , trayāṇām , paramatrayāṇām . tyadādividhibhastrādistrīgrahaṇam ca . tyadādividhibhastrādistrīgrahaṇam ca prayojanam : saḥ , atisaḥ , bhastrakā bhastrikā nirbhastrakā nirbhastrikā bahubhastrakā bahubhastrikā . strīgrahaṇam ca prayojanam . striyau striyaḥ rājastriyau rājastriyaḥ . varṇagrahaṇam ca sarvatra . varṇagrahaṇam ca sarvatra prayojanam . kva sarvatra . aṅgādhikāre ca anyatra ca . anyatra udāhṛtam . āngādhikāre : ataḥ dīrghaḥ yañi supi ca : iha eva syāt : ābhyām . ghaṭābhyām iti atra na syāt . pratyayagrahaṇam ca apañcamyāḥ . pratyayagrahaṇam ca apañcamyāḥ prayojanam : yañiñoḥ phak bhavati . gārgyāyaṇaḥ vātsyāyanaḥ paramagārgyāyaṇaḥ paramavātsyāyanaḥ . apañcamyāḥ iti kimartham . dṛṣattīrṇā pariṣattīrṇā . alā eva anarthakena na anyena anarthakena iti vaktavyam . kim prayojanam . hangrahaṇe plīhangrahaṇam mā bhūt . udgrahaṇe garmudgrahaṇam . strīgrahaṇe śastrīgrahaṇam . saṅgrahaṇe pāyasam karoti iti mā bhūt . kimartham idam ucyate na padāṅgādhikāre tasya ca taduttarapadasya ca iti eva siddham . na ca idam tat na api taduttarapadam . tat na vaktavyam bhavati . kim punaḥ atra jyāyaḥ . tadantavidhiḥ eva jyāyān . idam api siddham bhavati : paramātimahān . etat hi na eva tat na api taduttarapadam . aninasmangrahaṇāni ca arthavatā ca anarthakena ca tadantavidhim prayojayanti . an : rājñā iti arthavatā sāmnā iti anarthakena . an . in : daṇḍī* iti arthavatā vāgmī* iti anarthakena . in . as : supayāḥ iti arthavatā susrotāḥ iti anarthakena . as . man : suśarmā iti arthavatā suprathimā iti anarthakena .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८८।२४-१८९।२ रो इ,५६१ यस्मिन् विधिः तदादौ अल्ग्रहणे । अल्ग्रहणेषु यस्मिन् विधिः तदादौ इति वक्तव्यम् । किम् प्रयोजनम् । अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति इह एव स्यात् : श्रियौ भ्रुवौ । श्रियः , भ्रुवः इति अत्र न स्यात् ।

KA I,188.24-189.2 Ro I,561 yasmin vidhiḥ tadādau algrahaṇe . algrahaṇeṣu yasmin vidhiḥ tadādau iti vaktavyam . kim prayojanam . aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti iha eva syāt : śriyau bhruvau . śriyaḥ , bhruvaḥ iti atra na syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८९।४-२२ रो इ,५६२-५६५ वृद्धिग्रहणम् किमर्थम्। यस्य अचाम् आदिः तत् वृद्धम् इति इयति उच्यमाने दात्ताः , राक्षिताः अत्र अपि प्रसज्येत । वृद्धिग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ यस्यग्रहणम् किमर्थम् । यस्य इति व्यपदेशाय । अथ अज्ग्रहणम् किमर्थम् । वृद्धिः यस्य आदिः तत् वृद्धम् इति इयति उच्यमाने इह एव स्यात् : ऐतिकायनीयाः , औपगवीयाः । इह न स्यात् : गार्गीयाः , वात्सीयाः इति । अज्ग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ आदिग्रहणम् किमर्थम् । वृद्धिः यस्य अचाम् तत् वृद्धम् इति इयति उच्यमाने सभासन्नयने भवः साभसन्नयनः इति अत्र प्रसज्येत । आदिग्रहणे पुनः क्रियमाणे न दोषः भवति । वृद्धसञ्ज्ञायाम् अजसन्निवेशात् अनादित्वम् । वृद्धसञ्ज्ञायाम् अजसन्निवेशात् आदिः इति एतत् न उपपद्यते । न हि अचाम् सन्निवेशः अस्ति । ननु च एवम् विज्ञायते : अच् एव आदिः अजादिः । न एवम् शक्यम् । इह एव प्रसज्येत : औपगवीयाः । इह न स्यात् : गार्गीयाः इति । एकान्तादित्वम् तर्हि विज्ञायते । एकान्तादित्वे च सर्वप्रसङ्गः । इह अपि प्रसज्येत : सभासन्नयने भवः साभसन्नयनः इति । सिद्धम् अजाकृतिनिर्देशात् । सिद्धम् एतत् । कथम् । अजाकृतिः निर्दिश्यते । एवम् अपि व्यञ्जनैः व्यवहितत्वात् न प्राप्नोति । व्यञ्जनस्य अविद्यमानत्वम् यथा अन्यत्र । व्यञ्जनस्य अविद्यमानवद्भावः वक्तव्यः यथा अन्यत्र अपि भवति व्यञ्जनस्य अविद्यमानवद्भावः । क्व अन्यत्र । स्वरे ।

KA I,189.4-22 Ro I,562-565 vṛddhigrahaṇam kimartham. yasya acām ādiḥ tat vṛddham iti iyati ucyamāne dāttāḥ , rākṣitāḥ atra api prasajyeta . vṛddhigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha yasyagrahaṇam kimartham . yasya iti vyapadeśāya . atha ajgrahaṇam kimartham . vṛddhiḥ yasya ādiḥ tat vṛddham iti iyati ucyamāne iha eva syāt : aitikāyanīyāḥ , aupagavīyāḥ . iha na syāt : gārgīyāḥ , vātsīyāḥ iti . ajgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha ādigrahaṇam kimartham . vṛddhiḥ yasya acām tat vṛddham iti iyati ucyamāne sabhāsannayane bhavaḥ sābhasannayanaḥ iti atra prasajyeta . ādigrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . vṛddhasañjñāyām ajasanniveśāt anāditvam . vṛddhasañjñāyām ajasanniveśāt ādiḥ iti etat na upapadyate . na hi acām sanniveśaḥ asti . nanu ca evam vijñāyate : ac eva ādiḥ ajādiḥ . na evam śakyam . iha eva prasajyeta : aupagavīyāḥ . iha na syāt : gārgīyāḥ iti . ekāntāditvam tarhi vijñāyate . ekāntāditve ca sarvaprasaṅgaḥ . iha api prasajyeta : sabhāsannayane bhavaḥ sābhasannayanaḥ iti . siddham ajākṛtinirdeśāt . siddham etat . katham . ajākṛtiḥ nirdiśyate . evam api vyañjanaiḥ vyavahitatvāt na prāpnoti . vyañjanasya avidyamānatvam yathā anyatra . vyañjanasya avidyamānavadbhāvaḥ vaktavyaḥ yathā anyatra api bhavati vyañjanasya avidyamānavadbhāvaḥ . kva anyatra . svare .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१८९।२३-१९०।१० रो इ,५६५-५६६ वा नामधेयस्य । वा नामधेयस्य वृद्धसञ्ज्ञा वक्तव्या : देवदत्तीयाः , दैवदत्ताः , यज्ञदत्तीयाः , याज्ञदत्ताः । गोत्रोत्तरपदस्य च । गोत्रोत्तरपदस्य च वृद्धसञ्ज्ञा वक्तव्या : कम्बलचारायणीयाः , ओदनपाणिनीयाः , घृतरौढीयाः । गोत्रान्तात् वा असमस्तवत् । गोत्रान्तात् वा असमस्तवत् प्रत्ययः भवति इति वक्तव्यम् : एतानि एव उदाहरणानि । किम् अविशेषेण । न इति आह । जिह्वाकात्यहरितकात्यवर्जम् । जिह्वाकात्यम् हरितकात्यम् च वर्जयित्वा : जैहवाकाताः , हारितकाताः । किम् पुनः अत्र ज्यायः । गोत्रान्तात् वा असमस्तवत् इति एव ज्यायः । इदम् अपि सिद्धम् भवति : पिङ्गलकाण्वस्य छात्त्राः पैङ्गलकाण्वाः ।

KA I,189.23-190.10 Ro I,565-566 vā nāmadheyasya . vā nāmadheyasya vṛddhasañjñā vaktavyā : devadattīyāḥ , daivadattāḥ , yajñadattīyāḥ , yājñadattāḥ . gotrottarapadasya ca . gotrottarapadasya ca vṛddhasañjñā vaktavyā : kambalacārāyaṇīyāḥ , odanapāṇinīyāḥ , ghṛtarauḍhīyāḥ . gotrāntāt vā asamastavat . gotrāntāt vā asamastavat pratyayaḥ bhavati iti vaktavyam : etāni eva udāharaṇāni . kim aviśeṣeṇa . na iti āha . jihvākātyaharitakātyavarjam . jihvākātyam haritakātyam ca varjayitvā : jaihavākātāḥ , hāritakātāḥ . kim punaḥ atra jyāyaḥ . gotrāntāt vā asamastavat iti eva jyāyaḥ . idam api siddham bhavati : piṅgalakāṇvasya chāttrāḥ paiṅgalakāṇvāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,१९०।१२-१८ रो इ,५६६-५६७ यस्याचामादिग्रहणम् अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते इह च प्रसज्येत : त्वत्पुत्रस्य छात्त्राः त्वात्पुत्राः , मात्पुत्राः इह च न स्यात् : त्वदीयः , मदीयः इति । अथ निवृत्तम् एङ् प्राचाम् देशे यस्याचामादिग्रहणम् कर्तव्यम् । एवम् तर्हि अनुवर्तते । कथम् त्वापुत्राः , मात्पुत्राः इति । सम्बन्धम् अनुवर्तिष्यते । वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् । त्यदादीनि च वृद्धसञ्ज्ञानि भवन्ति । वृद्धिः यस्य अचाम् आदिः तत् वृद्धम् । एङ् प्राचाम् देशे । यस्याचामादिग्रहणम् अनुवर्तते । वृद्धिग्रहणम् निवृत्तम् । तत् यथा कः चित् कान्तारे समुपस्थिते सार्थम् उपादत्ते । सः यदा निष्कान्तारीभूतः भवति तदा सार्थम् जहाति

KA I,190.12-18 Ro I,566-567 yasyācāmādigrahaṇam anuvartate utāho na . kim ca ataḥ . yadi anuvartate iha ca prasajyeta : tvatputrasya chāttrāḥ tvātputrāḥ , mātputrāḥ iha ca na syāt : tvadīyaḥ , madīyaḥ iti . atha nivṛttam eṅ prācām deśe yasyācāmādigrahaṇam kartavyam . evam tarhi anuvartate . katham tvāputrāḥ , mātputrāḥ iti . sambandham anuvartiṣyate . vṛddhiḥ yasya acām ādiḥ tat vṛddham . tyadādīni ca vṛddhasañjñāni bhavanti . vṛddhiḥ yasya acām ādiḥ tat vṛddham . eṅ prācām deśe . yasyācāmādigrahaṇam anuvartate . vṛddhigrahaṇam nivṛttam . tat yathā kaḥ cit kāntāre samupasthite sārtham upādatte . saḥ yadā niṣkāntārībhūtaḥ bhavati tadā sārtham jahāti

Sanskrit only: no published translation is held for this verse.

क्अ इ,१९०।२०-२१ रो इ,५६७-५६८ एङ् प्राचाम् देशे शैषिकेषु इति वक्तव्यम् : सैपुरिकी सैपुरिका स्कौनगरिकी स्कौनगरिका इति ।

KA I,190.20-21 Ro I,567-568 eṅ prācām deśe śaiṣikeṣu iti vaktavyam : saipurikī saipurikā skaunagarikī skaunagarikā iti .

Sanskrit only: no published translation is held for this verse.