Library·Patanjali: Vyakaranamahabhasya·6·6.1

Patanjali: Vyakaranamahabhasya 6.1

क्अ इइइ।९७।२-६ रो इव्।४८४-४८५ किम् अनुदात्तानि पदानि भवन्ति एकम् पदम् वर्जयित्वा । न इति आह । पदे येषाम् उदात्तप्रसङ्गः अनुदात्ताः भवन्ति एकम् अचम् वर्जयित्वा । सः तर्हि तथा निर्देशः कर्तव्यः : अनुदात्ताः पदे , अनुदात्ताः पदस्य इति वा । न कर्तव्यः । अनुदात्तम् पदम् एकवर्जम् इति एव सिद्धम् । कथम् । मतुब्लोपः अत्र द्रष्टव्यः । तत् यथा पुष्यकाः एषाम् पुष्यकाः , कालकाः एषाम् कालकाः इति । अथ वा अकारः मत्वर्थीयः । तत् यथा तुन्दः , घाटः इति ।

KA III.97.2-6 Ro IV.484-485 kim anudāttāni padāni bhavanti ekam padam varjayitvā . na iti āha . pade yeṣām udāttaprasaṅgaḥ anudāttāḥ bhavanti ekam acam varjayitvā . saḥ tarhi tathā nirdeśaḥ kartavyaḥ : anudāttāḥ pade , anudāttāḥ padasya iti vā . na kartavyaḥ . anudāttam padam ekavarjam iti eva siddham . katham . matublopaḥ atra draṣṭavyaḥ . tat yathā puṣyakāḥ eṣām puṣyakāḥ , kālakāḥ eṣām kālakāḥ iti . atha vā akāraḥ matvarthīyaḥ . tat yathā tundaḥ , ghāṭaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९७।७-२५ रो इव्।४८५-४८६ किमर्थम् पुनः इदम् उच्यते । आगमस्य विकारस्य प्रकृतेः प्रत्ययस्य च पृथक् स्वरनिवृत्त्यर्थम् एकवर्जम् पदस्वरः । आगमस्य । चतुरनडुहोः आम् उदात्तः । चत्वारः , अनड्वाहः । विकारस्य । अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः । अस्थ्ना , दध्ना । प्रकृतेः । गोपायति , धूपायति । प्रत्ययस्य च । कर्तव्यम् , तैत्तिरीयः । एतेषाम् पदे युगपत् स्वरः प्राप्नोति । इष्यते च एकस्य स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति अनुदात्तम् पदम् एकवर्जम् । एवमर्थम् इदम् उच्यते । न एतत् अस्ति प्रयोजनम् । यौगपद्यम् तवै सिद्धम् । यत् अयम् तवै च अन्तः च युगपत् इति सिद्धे यौगपद्ये यौगपद्यम् शास्ति तत् ज्ञापयति आचार्यः न युगपत् स्वरः भवति इति । पर्यायः तर्हि प्राप्नोति । पर्यायः रिक्तशासनात् । यत् अयम् रिक्ते विभाषा इति सिद्धे पर्याये पर्यायम् शास्ति तत् ज्ञापयति आचार्यः न पर्यायः भवति इति । उदात्ते ज्ञापकम् तु एतत् । एतत् उदात्ते ज्ञापकम् स्यात् । स्वरितेन समाविशेत् । स्वरितेन समावेशः प्राप्नोति । स्वरिते अपि उदात्तः अस्ति । तस्मात् न अर्थः अनेन योगेन ।

KA III.97.7-25 Ro IV.485-486 kimartham punaḥ idam ucyate . āgamasya vikārasya prakṛteḥ pratyayasya ca pṛthak svaranivṛttyartham ekavarjam padasvaraḥ . āgamasya . caturanaḍuhoḥ ām udāttaḥ . catvāraḥ , anaḍvāhaḥ . vikārasya . asthidadhisakthyakṣṇām anaṅ udāttaḥ . asthnā , dadhnā . prakṛteḥ . gopāyati , dhūpāyati . pratyayasya ca . kartavyam , taittirīyaḥ . eteṣām pade yugapat svaraḥ prāpnoti . iṣyate ca ekasya syāt iti . tat ca antareṇa yatnam na sidhyati iti anudāttam padam ekavarjam . evamartham idam ucyate . na etat asti prayojanam . yaugapadyam tavai siddham . yat ayam tavai ca antaḥ ca yugapat iti siddhe yaugapadye yaugapadyam śāsti tat jñāpayati ācāryaḥ na yugapat svaraḥ bhavati iti . paryāyaḥ tarhi prāpnoti . paryāyaḥ riktaśāsanāt . yat ayam rikte vibhāṣā iti siddhe paryāye paryāyam śāsti tat jñāpayati ācāryaḥ na paryāyaḥ bhavati iti . udātte jñāpakam tu etat . etat udātte jñāpakam syāt . svaritena samāviśet . svaritena samāveśaḥ prāpnoti . svarite api udāttaḥ asti . tasmāt na arthaḥ anena yogena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९८।१-९९।२१ रो इव्।४८७-४९१ आरभ्यमाणे अपि एतस्मिन् योगे अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् । अनुदात्ते विप्रतिषेधः न उपपद्यते । पठिष्यति हि आचार्यः विप्रतिषेधम् जे दीर्घात् बह्वचः इति । सः विप्रतिषेधः न उपपद्यते । किम् कारणम् । एकस्मिन् युगपत् सम्भवात् । असति खलु सम्भवे विप्रतिषेधः भवति अस्ति च सम्भवः यत् उभयम् स्यात् । कथम् सम्भवः यदा अनुदात्तम् पदम् एकवर्जम् इति उच्यते । तत् इह न अस्ति । किम् कारणम् । न अनेन उदात्तत्वम् प्रतिषिध्यते । किम् तर्हि अनुदात्तत्वम् अनेन क्रियते अस्ति च सम्भवः यत् उभयोः च उदात्तत्वम् स्यात् अन्येषाम् च अनुदात्तत्वम् । यदि पुनः अयम् अधिकारः विज्ञायेत । किम् कृतम् भवति । अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । जे दीर्घान्तस्य आदिः उदात्तः भवति । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । अन्त्यात् पूर्वम् बह्वचः । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् । न एवम् शक्यम् । षाष्थिकः एकः स्वरः सङ्गृहीतः स्यात् । ये अन्ये सप्ताध्याय्याम् स्वराः ते न सङ्गृहीताः स्युः । समानोदरे शयिते ओ च उदात्तः । अस्थिदधिसक्थ्यक्ष्णाम् अनङ् उदात्तः इति । सिद्धम् तु एकाननुदात्तत्वात् । सिद्धम् एतत् । कथम् । एकाननुदात्तत्वात् । एकाननुदात्तम् पदम् भवति इति वक्तव्यम् । किम् इदम् अननुदात्तत्वात् इति । न उदात्तः अनुदात्तः । न अनुदात्तः । अननुदात्तः । एकः अननुदात्तः अस्मिन् तत् इदम् एकाननुदात्तम् । एकाननुदात्तत्वात् इति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् अनुदात्ते विप्रतिषेधानुपपत्तिः एकस्मिन् युगपत् सम्भवात् इति । न एषः दोषः । परिभाषा इयम् । किम् कृतम् भवति । कार्यकालम् हि सञ्ज्ञापरिभाषम् । यत्र कार्यम् तत्र उपस्थितम् इदम् द्रष्टव्यम् । जे दीर्घान्तस्य आदिः उदात्तः भवति । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । अन्त्यात् पूर्वम् बह्वचः । उपस्थितम् इदम् भवति अनुदात्तम् पदम् एकवर्जम् इति । तत्र पूर्वेण अस्तु वर्ज्यमानता परेण वा इति परेण भविष्यति परत्वात् । अथ वा न इदम् पारिभाषिकानुदात्तस्य ग्रहणम् । किम् तर्हि । अन्वर्थग्रहणम् । अविद्यमानोदात्तम् अनुदात्तम् इति । एकवर्जम् इति च अप्रसिद्धिः सन्देहात् । एकवर्जम् इति च अप्रसिद्धिः । कुतः सन्देहात् । न ज्ञायते कः एकः वर्जयितव्यः इति । सिद्धम् तु यस्मिन् अनुदात्ते उदात्तवचनानर्थक्यम् तद्वर्जम् । सिद्धम् एतत् । कथम् । यस्मिन् अनुदात्ते उदात्तवचनम् अनर्थकम् स्यात् सः एकः वर्जयितव्यः । प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः । प्रकृतिप्रत्यययोः स्वरस्य सावकाशत्वात् अप्रसिद्धिः स्यात् । प्रकृतिस्वरस्य अवकाशः यत्र अनुदात्तः प्रत्ययः । पचति , पठति । प्रत्यययस्वरस्य अवकाशः यत्र अनुदात्ता प्रकृतिः । समत्वम् , सिमत्वम् । इह उभयम् प्राप्नोति । कर्तव्यम्, तैत्तिरीयः । विप्रतिषेधात् प्रत्ययस्वरः । विप्रतिषेधात् प्रत्ययस्वरः भविष्यति । न एवम् । विप्रतिषेधे परम् कार्यम् इति उच्यते । न परः प्रत्ययस्वरः । न एषः दोषः । इष्टवाची परशब्दः । विप्रतिषेधे परम् यत् इष्टम् तत् भवति । विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादिषु चित्करणम् । विप्रतिषेधात् प्रत्ययस्वरः इति चेत् काम्यादयः चितः कर्तव्याः । पुत्रकाम्यति , गोपायति , ऋतीयते । न एषः दोषः । प्रकृतिस्वरः अत्र बाधकः भविष्यति । प्रकृतिस्वरे प्रत्ययस्वराभावः । प्रकृतिस्वरे प्रत्ययस्वरस्य अभावः । कर्तव्यम्, तैत्तिरीयः । सिद्धम् तु प्रकृतिस्वरबलीयस्त्वात् प्रत्ययस्वरभावः । सिद्धम् एतत् । कथम् । प्रकृतिस्वरात् बलीयस्त्वात् प्रत्ययस्वरस्य भावः सिद्धः । कथम् । प्रकृतिस्वरात् प्रत्ययस्वरः बलीयान् भवति ।

KA III.98.1-99.21 Ro IV.487-491 ārabhyamāṇe api etasmin yoge anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt . anudātte vipratiṣedhaḥ na upapadyate . paṭhiṣyati hi ācāryaḥ vipratiṣedham je dīrghāt bahvacaḥ iti . saḥ vipratiṣedhaḥ na upapadyate . kim kāraṇam . ekasmin yugapat sambhavāt . asati khalu sambhave vipratiṣedhaḥ bhavati asti ca sambhavaḥ yat ubhayam syāt . katham sambhavaḥ yadā anudāttam padam ekavarjam iti ucyate . tat iha na asti . kim kāraṇam . na anena udāttatvam pratiṣidhyate . kim tarhi anudāttatvam anena kriyate asti ca sambhavaḥ yat ubhayoḥ ca udāttatvam syāt anyeṣām ca anudāttatvam . yadi punaḥ ayam adhikāraḥ vijñāyeta . kim kṛtam bhavati . adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . je dīrghāntasya ādiḥ udāttaḥ bhavati . upasthitam idam bhavati anudāttam padam ekavarjam iti . antyāt pūrvam bahvacaḥ . upasthitam idam bhavati anudāttam padam ekavarjam iti . tatra pūrveṇa astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt . na evam śakyam . ṣāṣthikaḥ ekaḥ svaraḥ saṅgṛhītaḥ syāt . ye anye saptādhyāyyām svarāḥ te na saṅgṛhītāḥ syuḥ . samānodare śayite o ca udāttaḥ . asthidadhisakthyakṣṇām anaṅ udāttaḥ iti . siddham tu ekānanudāttatvāt . siddham etat . katham . ekānanudāttatvāt . ekānanudāttam padam bhavati iti vaktavyam . kim idam ananudāttatvāt iti . na udāttaḥ anudāttaḥ . na anudāttaḥ . ananudāttaḥ . ekaḥ ananudāttaḥ asmin tat idam ekānanudāttam . ekānanudāttatvāt iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam anudātte vipratiṣedhānupapattiḥ ekasmin yugapat sambhavāt iti . na eṣaḥ doṣaḥ . paribhāṣā iyam . kim kṛtam bhavati . kāryakālam hi sañjñāparibhāṣam . yatra kāryam tatra upasthitam idam draṣṭavyam . je dīrghāntasya ādiḥ udāttaḥ bhavati . upasthitam idam bhavati anudāttam padam ekavarjam iti . antyāt pūrvam bahvacaḥ . upasthitam idam bhavati anudāttam padam ekavarjam iti . tatra pūrveṇa astu varjyamānatā pareṇa vā iti pareṇa bhaviṣyati paratvāt . atha vā na idam pāribhāṣikānudāttasya grahaṇam . kim tarhi . anvarthagrahaṇam . avidyamānodāttam anudāttam iti . ekavarjam iti ca aprasiddhiḥ sandehāt . ekavarjam iti ca aprasiddhiḥ . kutaḥ sandehāt . na jñāyate kaḥ ekaḥ varjayitavyaḥ iti . siddham tu yasmin anudātte udāttavacanānarthakyam tadvarjam . siddham etat . katham . yasmin anudātte udāttavacanam anarthakam syāt saḥ ekaḥ varjayitavyaḥ . prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ . prakṛtipratyayayoḥ svarasya sāvakāśatvāt aprasiddhiḥ syāt . prakṛtisvarasya avakāśaḥ yatra anudāttaḥ pratyayaḥ . pacati , paṭhati . pratyayayasvarasya avakāśaḥ yatra anudāttā prakṛtiḥ . samatvam , simatvam . iha ubhayam prāpnoti . kartavyam, taittirīyaḥ . vipratiṣedhāt pratyayasvaraḥ . vipratiṣedhāt pratyayasvaraḥ bhaviṣyati . na evam . vipratiṣedhe param kāryam iti ucyate . na paraḥ pratyayasvaraḥ . na eṣaḥ doṣaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati . vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādiṣu citkaraṇam . vipratiṣedhāt pratyayasvaraḥ iti cet kāmyādayaḥ citaḥ kartavyāḥ . putrakāmyati , gopāyati , ṛtīyate . na eṣaḥ doṣaḥ . prakṛtisvaraḥ atra bādhakaḥ bhaviṣyati . prakṛtisvare pratyayasvarābhāvaḥ . prakṛtisvare pratyayasvarasya abhāvaḥ . kartavyam, taittirīyaḥ . siddham tu prakṛtisvarabalīyastvāt pratyayasvarabhāvaḥ . siddham etat . katham . prakṛtisvarāt balīyastvāt pratyayasvarasya bhāvaḥ siddhaḥ . katham . prakṛtisvarāt pratyayasvaraḥ balīyān bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।९९।२२-१०१।४ रो इव्।४९१-४९३ सतिशिष्टस्वरबलीयस्त्वम् च । सतिशिष्टस्वरः बलीयान् भवति इति वक्तव्यम् । तत् च अनेकप्रत्ययसमासार्थम् । तत् च अवश्यम् सतिशिष्टस्वरबलीयस्त्वम् वक्तव्यम् । किम् प्रयोजनम् । अनेकप्रत्ययार्थम् अनेकसमासार्थम् च । अनेकप्रत्ययार्थम् तावत् । औपगवः । प्रकृतिस्वरम् अण्स्वरः बाधते । औपगवत्वम् । त्वस्वरः अण्स्वरम् बाधते । औपगवत्वकम् । त्वस्वरम् कस्वरः बाधते । अनेकसमासार्थम् । राजपुरुषः , राजपुरुषपुत्रः , राजपुरुषपुत्रपुरुषः । यदि सतिशिष्टस्वरबलीयस्त्वम् उच्यते स्यादिस्वरः सार्वधातुकस्वरम् बाधेत । सुनुतः , चिनुतः । स्यादिस्वराप्रसङ्गः च तासेः परस्य अनुदात्तवचनात् । स्यादिस्वरस्य च अप्रसङ्गः । कुतः । तासेः परस्य अनुदात्तवचनात् । यत् अयम् तासेः परस्य लसार्वधातुकस्य अनुदात्तत्वम् शास्ति तत् ज्ञापयति आचार्यः सतिशिष्टः अपि विकरणस्वरः लसार्वधातुकस्वरम् न बाधते । शास्त्रपरविप्रतिषेधानियमात् वा शब्दविप्रतिषेधात् सिद्धम् । अथ वा शास्त्रपरविप्रतिषेधे न सर्वम् इष्टम् सङ्गृहीतम् भवति इति कृत्वा शब्दविप्रतिषेधः विज्ञास्यते । यदि शब्दविप्रतिषेधः भवति काम्यादयः चितः कर्तव्याः । पुत्रकाम्यति , गोपायति , ऋतीयते । शब्दविप्रतिषेधः नाम भवति यत्र उभयोः युगपत्प्रसङ्गः न च काम्यादिषु युगपत्प्रसङ्गः । विभक्तिस्वरात् नञ्स्वरः बलीयान् । विभक्तिस्वरात् नञ्स्वरः बलीयान् इति वक्तव्यम् । विभक्तिस्वरस्य अवकाशः । तिस्रः तिष्ठन्ति । नञ्स्वरस्य अवकाशः । अब्राह्मणः , अवृषलः । इह उभयम् प्राप्नोति । अतिस्रः । नञ्स्वरः भवति । विभक्तिनिमित्तस्वरात् च । विभक्तिनिमित्तस्वरात् च नञ्स्वरः बलीयान् इति वक्तव्यम् । विभक्तिनिमित्तस्वरस्य अवकाशः । चत्वारः , अनड्वाहः । नञ्स्वरस्य सः एव । इह उभयम् प्राप्नोति । अचत्वारः । अननड्वाहः । यत् च उपपदम् कृति नञ् । यत् च उपपदम् कृति नञ् तस्य स्वरः बलीयान् इति वक्तव्यम् । अकरणिः हि ते वृषल । सहनिर्दिष्टस्य च । सहनिर्दिष्टस्य च नञः स्वरः बलीयान् इति वक्तव्यम् । अव्यथी ।

KA III.99.22-101.4 Ro IV.491-493 satiśiṣṭasvarabalīyastvam ca . satiśiṣṭasvaraḥ balīyān bhavati iti vaktavyam . tat ca anekapratyayasamāsārtham . tat ca avaśyam satiśiṣṭasvarabalīyastvam vaktavyam . kim prayojanam . anekapratyayārtham anekasamāsārtham ca . anekapratyayārtham tāvat . aupagavaḥ . prakṛtisvaram aṇsvaraḥ bādhate . aupagavatvam . tvasvaraḥ aṇsvaram bādhate . aupagavatvakam . tvasvaram kasvaraḥ bādhate . anekasamāsārtham . rājapuruṣaḥ , rājapuruṣaputraḥ , rājapuruṣaputrapuruṣaḥ . yadi satiśiṣṭasvarabalīyastvam ucyate syādisvaraḥ sārvadhātukasvaram bādheta . sunutaḥ , cinutaḥ . syādisvarāprasaṅgaḥ ca tāseḥ parasya anudāttavacanāt . syādisvarasya ca aprasaṅgaḥ . kutaḥ . tāseḥ parasya anudāttavacanāt . yat ayam tāseḥ parasya lasārvadhātukasya anudāttatvam śāsti tat jñāpayati ācāryaḥ satiśiṣṭaḥ api vikaraṇasvaraḥ lasārvadhātukasvaram na bādhate . śāstraparavipratiṣedhāniyamāt vā śabdavipratiṣedhāt siddham . atha vā śāstraparavipratiṣedhe na sarvam iṣṭam saṅgṛhītam bhavati iti kṛtvā śabdavipratiṣedhaḥ vijñāsyate . yadi śabdavipratiṣedhaḥ bhavati kāmyādayaḥ citaḥ kartavyāḥ . putrakāmyati , gopāyati , ṛtīyate . śabdavipratiṣedhaḥ nāma bhavati yatra ubhayoḥ yugapatprasaṅgaḥ na ca kāmyādiṣu yugapatprasaṅgaḥ . vibhaktisvarāt nañsvaraḥ balīyān . vibhaktisvarāt nañsvaraḥ balīyān iti vaktavyam . vibhaktisvarasya avakāśaḥ . tisraḥ tiṣṭhanti . nañsvarasya avakāśaḥ . abrāhmaṇaḥ , avṛṣalaḥ . iha ubhayam prāpnoti . atisraḥ . nañsvaraḥ bhavati . vibhaktinimittasvarāt ca . vibhaktinimittasvarāt ca nañsvaraḥ balīyān iti vaktavyam . vibhaktinimittasvarasya avakāśaḥ . catvāraḥ , anaḍvāhaḥ . nañsvarasya saḥ eva . iha ubhayam prāpnoti . acatvāraḥ . ananaḍvāhaḥ . yat ca upapadam kṛti nañ . yat ca upapadam kṛti nañ tasya svaraḥ balīyān iti vaktavyam . akaraṇiḥ hi te vṛṣala . sahanirdiṣṭasya ca . sahanirdiṣṭasya ca nañaḥ svaraḥ balīyān iti vaktavyam . avyathī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०१।६-१२ रो इव्।४९४ किमर्थम् कृषतेः विकृतस्य ग्रहणम् क्रियते न कृषात्वतः इति एव उच्येत । यस्य कृषेः विकरणे एतत् रूपम् तस्य यथा स्यात् । इह मा भूत् । हलस्य कर्षः इति । अथ किमर्थम् मतुपा निर्देशः क्रियते न कर्षात् इति एव उच्येत । कर्षात् इति इयति उच्यमाने यत्र एव आकारात् अनन्तरः घञ् अस्ति तत्र एव स्यात् : दायः , धायः । इह न स्यात् : पाकः , पाठः । न क्व चित् आकारात् अनन्तरः घञ् अस्ति । इह अपि दायः , धायः इति युका व्यवधानम् । एवम् अपि विहितविषेषनम् आकारग्रहणम् विज्ञायेत । आकारात् यः विहितः इति । मतुब्ग्रहणे पुनः क्रियमाणे न दोषः भवति ।

KA III.101.6-12 Ro IV.494 kimartham kṛṣateḥ vikṛtasya grahaṇam kriyate na kṛṣātvataḥ iti eva ucyeta . yasya kṛṣeḥ vikaraṇe etat rūpam tasya yathā syāt . iha mā bhūt . halasya karṣaḥ iti . atha kimartham matupā nirdeśaḥ kriyate na karṣāt iti eva ucyeta . karṣāt iti iyati ucyamāne yatra eva ākārāt anantaraḥ ghañ asti tatra eva syāt : dāyaḥ , dhāyaḥ . iha na syāt : pākaḥ , pāṭhaḥ . na kva cit ākārāt anantaraḥ ghañ asti . iha api dāyaḥ , dhāyaḥ iti yukā vyavadhānam . evam api vihitaviṣeṣanam ākāragrahaṇam vijñāyeta . ākārāt yaḥ vihitaḥ iti . matubgrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०१।१४-१०२।२ रो इव्।४९४-४९५ अनुदात्तस्य इति किमर्थम् । प्रासङ्गम् वहति प्रासङ्ग्यः । उदात्तलोपे स्वरितोदात्तयोः अभावात् अनुदात्तग्रहणानर्थक्यम् । उदात्तलोपे स्वरितोदात्तयोः अभावात् अनुदात्तग्रहणम् अनर्थकम् । ह हि कः चित् उदात्तः उदात्ते स्वरिते वा लुप्यते । सर्वः अनुदात्ते एव । नन् च अयम् उदात्तः स्वरिते लुप्यते । प्रासङ्गम् वहति प्रासङ्ग्यः इति । एषः अपि निघाते कृते अनुदात्ते एव लुप्यते । इदम् इह सम्प्रधार्यम् । निघातः क्रियताम् लोपः इति । किम् अत्र कर्तव्यम् । परत्वात् लोपः । एवम् तर्हि अयम् अद्य निघातस्वरः सर्वस्वराणाम् अपवादः । न च अपवादविषये उत्सर्गः भिनिविशते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः । प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते । तत् न तावत् अत्र कदा चित् थाथादिस्वरः भवति । अपवादम् निघातम् प्रतीक्षते । तत्र निघातः क्रियताम् लोपः इति यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तः अनुदात्तः लुप्यते ।

KA III.101.14-102.2 Ro IV.494-495 anudāttasya iti kimartham . prāsaṅgam vahati prāsaṅgyaḥ . udāttalope svaritodāttayoḥ abhāvāt anudāttagrahaṇānarthakyam . udāttalope svaritodāttayoḥ abhāvāt anudāttagrahaṇam anarthakam . ha hi kaḥ cit udāttaḥ udātte svarite vā lupyate . sarvaḥ anudātte eva . nan ca ayam udāttaḥ svarite lupyate . prāsaṅgam vahati prāsaṅgyaḥ iti . eṣaḥ api nighāte kṛte anudātte eva lupyate . idam iha sampradhāryam . nighātaḥ kriyatām lopaḥ iti . kim atra kartavyam . paratvāt lopaḥ . evam tarhi ayam adya nighātasvaraḥ sarvasvarāṇām apavādaḥ . na ca apavādaviṣaye utsargaḥ bhiniviśate . pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . tat na tāvat atra kadā cit thāthādisvaraḥ bhavati . apavādam nighātam pratīkṣate . tatra nighātaḥ kriyatām lopaḥ iti yadi api paratvāt lopaḥ saḥ asau avidyamānodāttaḥ anudāttaḥ lupyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०२।३-२० रो इव्।४९५-४९७ किम् पुनः अनुदात्तस्य अन्तः उदात्तः भवति आहोस्वित् आदिः । कः च अत्र विशेषः । अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः । अन्तः इति चेत् श्नम्क्सयुष्मदस्मदिदङ्किंलोपेषु स्वरः न सिध्यति । श्नम् । विन्दते , खिन्दते । श्नम् । क्स । मा हि धुक्षाताम् । मा हि धुक्षाथाम् । क्स । युष्मदस्मद् । युष्मभ्यम् , अस्मभ्यम् । इदङ्किंलोपः । इयान् , कियान् । अस्तु तर्हि आदिः । आदिः इति चेत् इन्धीत द्वयम् इति अन्तः । आदिः इति चेत् इन्धीत द्वयम् इति अन्तोदात्तत्वम् न सिध्यति । इन्धीत । द्वयम् , त्रयम् । आदौ सिद्धम् । अस्तु तर्हि आदिः उदात्तः भवति इति । ननु च उक्तम् आदिः इति चेत् इन्धीत द्वयम् इति अन्तः इति । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् लिङि न इति वक्तव्यम् । लिङ्ग्रहणेन न अर्थः । अविशेषेण इखिदिभ्यः च लसार्वधातुकानुदात्तप्रतिषेधात् लिङि सिद्धम् । विदीन्धिखिदिभ्यः च लसार्वधातुकानुदात्तत्वम् न इति एव । इदम् अपि सिद्धम् भवति । विन्दते , खिन्दते । अयचि कथम् । अयचि चित्करणात् । अयचि चित्करणसामर्थ्यात् अन्तोदात्तत्वम् भविष्यति ।

KA III.102.3-20 Ro IV.495-497 kim punaḥ anudāttasya antaḥ udāttaḥ bhavati āhosvit ādiḥ . kaḥ ca atra viśeṣaḥ . antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu svaraḥ . antaḥ iti cet śnamksayuṣmadasmadidaṅkiṃlopeṣu svaraḥ na sidhyati . śnam . vindate , khindate . śnam . ksa . mā hi dhukṣātām . mā hi dhukṣāthām . ksa . yuṣmadasmad . yuṣmabhyam , asmabhyam . idaṅkiṃlopaḥ . iyān , kiyān . astu tarhi ādiḥ . ādiḥ iti cet indhīta dvayam iti antaḥ . ādiḥ iti cet indhīta dvayam iti antodāttatvam na sidhyati . indhīta . dvayam , trayam . ādau siddham . astu tarhi ādiḥ udāttaḥ bhavati iti . nanu ca uktam ādiḥ iti cet indhīta dvayam iti antaḥ iti . vidīndhikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham . vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam liṅi na iti vaktavyam . liṅgrahaṇena na arthaḥ . aviśeṣeṇa ikhidibhyaḥ ca lasārvadhātukānudāttapratiṣedhāt liṅi siddham . vidīndhikhidibhyaḥ ca lasārvadhātukānudāttatvam na iti eva . idam api siddham bhavati . vindate , khindate . ayaci katham . ayaci citkaraṇāt . ayaci citkaraṇasāmarthyāt antodāttatvam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०२।२२-१०३।२५ रो इव्।४९७-४९९ किम् धातोः अन्तः उदात्तः भवति आहोस्वित् आदिः इति । कः च अत्र विशेषः । धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् । धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् । अभ्यस्तानाम् आदिः अनुदात्ते च इति वक्तव्यम् । बग्रहणम् च कर्तव्यम् । बान्तः च पिबिः आद्युदात्तः भवति इति वक्तव्यम् । पिबति । सन् च नित् । सन् च नित् कर्तव्यः । किम् प्रयोजनम् । चिकीर्षति जिहीर्षति । निति इति आद्युदात्तत्वम् यथा स्यात् । अस्तु तर्हि आदिः । आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् । आदौ ऊर्णप्रत्ययधातुषु अन्तोदात्तत्वम् न सिध्यति । ऊर्णोति । ऊर्णु । प्रत्ययधातु । गोपायति , धूपायति , ऋतीयते । अन्तोदात्तवचनात् सिद्धम् । अस्तु तर्हि अन्तोदात्तः भवति इति । ननु च उक्तम् धातोः अन्तः इति चेत् अनुदात्ते च बग्रहणम् कर्तव्यम् इति । यत् तावत् उच्यते । अनुदात्ते च ग्रहणम् कर्तव्यम् इति । क्रियते न्यासे एव । अभ्यस्तानाम् आदिः अनुदात्ते च इति । बग्रहणम् कर्तव्यम् इति । पिबौ निपातनात् । पिबौ आद्युदात्तनिपातनम् क्रियते । सः निपातनस्वरः प्रकृतिस्वरस्य बाधकः भविष्यति । सन् च नित् कर्तव्यः इति । अवश्यम् सनः विशेषणार्थः नकारः कर्तव्यः । क्व विशेषणार्थेन अर्थः । सन्यङोः इति । सयङोः इति इयति उच्यमाने हंसः , वत्सः , अत्र अपि प्राप्नोति । अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् न भविष्यति । इह अपि तर्हि न प्राप्नोति । जुगुप्सते , मीमांसते इति । अर्थवान् एषः । न वै कः चित् अर्थः आदिश्यते । यदि अपि कः चित् अर्थः न आदिश्यते अनिर्दिष्टार्थाः स्वार्थे भवन्ति इति अन्ततः स्वार्थे भविष्यति । कः च अस्य स्वार्थः । प्रकृत्यर्थः । इह अपि प्राप्नोति । हंसः , वत्सः इति । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । सः एषः अनन्यार्थः नकारः कर्तव्यः । न कर्तव्यः । क्रियते न्यासे एव । अथ वा धातोः इति वर्तते । धातोः सशब्दान्तस्य द्वे भवतः इति ।

KA III.102.22-103.25 Ro IV.497-499 kim dhātoḥ antaḥ udāttaḥ bhavati āhosvit ādiḥ iti . kaḥ ca atra viśeṣaḥ . dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam . dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam . abhyastānām ādiḥ anudātte ca iti vaktavyam . bagrahaṇam ca kartavyam . bāntaḥ ca pibiḥ ādyudāttaḥ bhavati iti vaktavyam . pibati . san ca nit . san ca nit kartavyaḥ . kim prayojanam . cikīrṣati jihīrṣati . niti iti ādyudāttatvam yathā syāt . astu tarhi ādiḥ . ādau ūrṇapratyayadhātuṣu antodāttatvam . ādau ūrṇapratyayadhātuṣu antodāttatvam na sidhyati . ūrṇoti . ūrṇu . pratyayadhātu . gopāyati , dhūpāyati , ṛtīyate . antodāttavacanāt siddham . astu tarhi antodāttaḥ bhavati iti . nanu ca uktam dhātoḥ antaḥ iti cet anudātte ca bagrahaṇam kartavyam iti . yat tāvat ucyate . anudātte ca grahaṇam kartavyam iti . kriyate nyāse eva . abhyastānām ādiḥ anudātte ca iti . bagrahaṇam kartavyam iti . pibau nipātanāt . pibau ādyudāttanipātanam kriyate . saḥ nipātanasvaraḥ prakṛtisvarasya bādhakaḥ bhaviṣyati . san ca nit kartavyaḥ iti . avaśyam sanaḥ viśeṣaṇārthaḥ nakāraḥ kartavyaḥ . kva viśeṣaṇārthena arthaḥ . sanyaṅoḥ iti . sayaṅoḥ iti iyati ucyamāne haṃsaḥ , vatsaḥ , atra api prāpnoti . arthavadgrahaṇe na anarthakasya iti evam na bhaviṣyati . iha api tarhi na prāpnoti . jugupsate , mīmāṃsate iti . arthavān eṣaḥ . na vai kaḥ cit arthaḥ ādiśyate . yadi api kaḥ cit arthaḥ na ādiśyate anirdiṣṭārthāḥ svārthe bhavanti iti antataḥ svārthe bhaviṣyati . kaḥ ca asya svārthaḥ . prakṛtyarthaḥ . iha api prāpnoti . haṃsaḥ , vatsaḥ iti . uṇādayaḥ avyutpannāni prātipadikāni . saḥ eṣaḥ ananyārthaḥ nakāraḥ kartavyaḥ . na kartavyaḥ . kriyate nyāse eva . atha vā dhātoḥ iti vartate . dhātoḥ saśabdāntasya dve bhavataḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०४।२-७ रो इव्।५०० चितः सप्रकृतेः बह्वकजर्थम् । चितः सप्रकृतेः इति वक्तव्यम् । किम् प्रयोजनम् । बह्वकजर्थम् । बहुजर्थम् अकजर्थम् च । बहुजर्थम् तावत् । बहुभुक्तम् , बहुकृतम् । अकजर्थम् । सर्वकैः , विश्वकैः , उच्चकैः , नीचकैः , सर्वके , विश्वके । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । मतुब्लोपः अत्र द्रष्टव्यः । तत् यथा पुष्यकाः एषाम् पुष्यकाः कालकाः एषाम् कालकाः इति । अथ वा अकारः मत्वर्थीयः । तत् यथा तुन्दः , घाटः इति । पूर्वसूत्रनिर्देशः च चित्वान् चितः इति ।

KA III.104.2-7 Ro IV.500 citaḥ saprakṛteḥ bahvakajartham . citaḥ saprakṛteḥ iti vaktavyam . kim prayojanam . bahvakajartham . bahujartham akajartham ca . bahujartham tāvat . bahubhuktam , bahukṛtam . akajartham . sarvakaiḥ , viśvakaiḥ , uccakaiḥ , nīcakaiḥ , sarvake , viśvake . tat tarhi vaktavyam . na vaktavyam . matublopaḥ atra draṣṭavyaḥ . tat yathā puṣyakāḥ eṣām puṣyakāḥ kālakāḥ eṣām kālakāḥ iti . atha vā akāraḥ matvarthīyaḥ . tat yathā tundaḥ , ghāṭaḥ iti . pūrvasūtranirdeśaḥ ca citvān citaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०४।९-२२ रो इव्।५००-५०१ जसः इति किमर्थम् । तिसृका । तिसृभ्यः जस्ग्रहणानर्थक्यम् अन्यत्र अभावात् । तिसृभ्यः जस्ग्रहणम् अनर्थकम् । किम् कारणम् । अन्यत्र अभावात् । न हि अन्यत् तिसृशब्दात् अन्तोदात्तत्वम् प्रयोजयति अन्यत् अतः जसः । किम् कारणम् । बहुवचनविषयः एव तिसृशब्दः । तेन एकवचनद्विवचने न स्तः । शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति । अन्याः सर्वाः हलादयः विभक्तयः । तत्र षट्त्रिचतुर्भ्यः हलादिः झलि उपोत्तमम् इति अनेन स्वरेण भवितव्यम् । तत्र अन्तरेण जसः ग्रहणम् जसः एव भविष्यति । ननु च इदानीम् एव उदाहृतम् तिसृका इति । नित्स्वरः अत्र बाधकः भविष्यति । न अप्राप्ते अन्यस्वरे तिसृस्वरः आरभ्यते । सः यथा एव अनुदात्तौ सुप्पितौ इति एतम् स्वरम् बाधते एवम् नित्स्वरम् अपि बाधेत । न एषः दोषः । येन न अप्राप्ते तस्य बाधनम् भवति । न च अप्राप्ते अनुदात्तौ सुप्पितौ इति एतस्मिन् तिसृस्वरः आरभ्यते । नित्स्वरः पुनः प्राप्ते च अप्राप्ते च । अथ वा मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् तिसृस्वरः अनुदात्तौ सुप्पितौ इति स्वरम् बाधिष्यते नित्स्वरम् न बाधिष्यते । उपसमस्तार्थम् एके जसः ग्रहणम् इच्छन्ति : अतितिस्रौ , अतितिस्रः ।

KA III.104.9-22 Ro IV.500-501 jasaḥ iti kimartham . tisṛkā . tisṛbhyaḥ jasgrahaṇānarthakyam anyatra abhāvāt . tisṛbhyaḥ jasgrahaṇam anarthakam . kim kāraṇam . anyatra abhāvāt . na hi anyat tisṛśabdāt antodāttatvam prayojayati anyat ataḥ jasaḥ . kim kāraṇam . bahuvacanaviṣayaḥ eva tisṛśabdaḥ . tena ekavacanadvivacane na staḥ . śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti . anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . tatra ṣaṭtricaturbhyaḥ halādiḥ jhali upottamam iti anena svareṇa bhavitavyam . tatra antareṇa jasaḥ grahaṇam jasaḥ eva bhaviṣyati . nanu ca idānīm eva udāhṛtam tisṛkā iti . nitsvaraḥ atra bādhakaḥ bhaviṣyati . na aprāpte anyasvare tisṛsvaraḥ ārabhyate . saḥ yathā eva anudāttau suppitau iti etam svaram bādhate evam nitsvaram api bādheta . na eṣaḥ doṣaḥ . yena na aprāpte tasya bādhanam bhavati . na ca aprāpte anudāttau suppitau iti etasmin tisṛsvaraḥ ārabhyate . nitsvaraḥ punaḥ prāpte ca aprāpte ca . atha vā madhye apavādāḥ pūrvān vidhīn bādhante iti evam tisṛsvaraḥ anudāttau suppitau iti svaram bādhiṣyate nitsvaram na bādhiṣyate . upasamastārtham eke jasaḥ grahaṇam icchanti : atitisrau , atitisraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०५।२-१०६।७ रो इव्।५०२-५०४ शसि स्त्रियाम् प्रतिषेधः वक्तव्यः । चतस्रः पश्य । चतुरः शसि स्त्रियाम् अप्रतिषेधः आद्युदात्तनिपातनात् । चतुरः शसि स्त्रियाम् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । शसि स्वरः कस्मात् न भवति । आद्युदात्तनिपातनात् । आद्युदात्तनिपातनम् करिष्यते । सः निपातनस्वरः शसि स्वरस्य बाधकः भविष्यति । एवम् अपि उपदेशिवद्भावः वक्तव्यः । यथा एव निपातनस्वरः शसि स्वरम् बाधते एवम् विभक्तिस्वरम् अपि बाधेत चतसृणम् इति । विभक्तिस्वरभावः च हलादिग्रहणात् । विभक्तिस्वरभावः च सिद्धः । कुतः । हलादिग्रहणात् । यत् अयम् षट्त्रिचतुर्भ्यः हलादिः इति हलादिग्रहणम् करोति तत् ज्ञापयति आचार्यः न निपातनस्वरः विभक्तिस्वरम् बाधते इति । कथम् कृत्वा ज्ञापकम् । आद्युदात्तनिपातने हि हलादिग्रहणानर्थक्यम् । आद्युदात्तनिपातने हि सति हलादिग्रहणम् अनर्थकम् स्यात् । न हि अन्यत् हलादिग्रहणम् प्रयोजयति अन्यत् अतः चतसृशब्दात् । षट्सञ्ज्ञाः तावत् न प्रयोजयन्ति । किम् कारणम् । बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । जश्शसी च अत्र लुप्येते । अन्याः सर्वाः हलादयः विभक्तयः । त्रिशब्दः च अपि न प्रयोजयति । किम् कारणम् । बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानम् इति वचनात् जसि न भविष्यति । शसि भवितव्यम् एकादेशे उदात्तेन उदात्तः इति । अन्याः सर्वाः हलादयः विभक्तयः । तिसृशब्दः च अपि न प्रयोजयति । किम् कारणम् । बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् । शसि भवितव्यम् उदात्तयणः हल्पूर्वात् इति । अन्याः सर्वाः हलादयः विभक्तयः । चतुःशब्दः तिसृशब्दः च अपि न प्रयोजयति । किम् कारणम् । बहुवचनविषयत्वात् । तेन द्विवचनैकवचने न स्तः । असर्वनामस्थानम् इति वचनात् जसि न भवितव्यम् । शसि भवितव्यम् चतुरः शसि इति । अन्याः सर्वाः हलादयः विभक्तयः । तत्र चतसृशब्दात् एकस्मात् शस् असर्वनामस्थानम् अजादिः विभक्तिः अस्ति । यदि च अत्र निपातनस्वरः स्यात् हलादिग्रहणम् अनर्थकम् स्यात् । न एव वा पुनः अत्र शसिस्वरः प्राप्नोति । किम् कारणम् । यणादेशे कृते शसः पूर्वः उदात्तभावी न अस्ति इति कृत्वा । अवशिष्टस्य तर्हि प्राप्नोति । ऋकारेण व्यवहितत्वात् न भविष्यति । यणादेशे कृते न अस्ति व्यवधानम् । स्थानिवद्भावात् व्यवधानम् एव । प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरविधिम् प्रति न स्थानिवत् भवति इति । न एषः अस्ति प्रतिषेधः । उक्तम् एतत् प्रतिषेधे स्वरदीर्घयलोपेषु लोपादादेशः न स्थानिवत् इति ।

KA III.105.2-106.7 Ro IV.502-504 śasi striyām pratiṣedhaḥ vaktavyaḥ . catasraḥ paśya . caturaḥ śasi striyām apratiṣedhaḥ ādyudāttanipātanāt . caturaḥ śasi striyām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . śasi svaraḥ kasmāt na bhavati . ādyudāttanipātanāt . ādyudāttanipātanam kariṣyate . saḥ nipātanasvaraḥ śasi svarasya bādhakaḥ bhaviṣyati . evam api upadeśivadbhāvaḥ vaktavyaḥ . yathā eva nipātanasvaraḥ śasi svaram bādhate evam vibhaktisvaram api bādheta catasṛṇam iti . vibhaktisvarabhāvaḥ ca halādigrahaṇāt . vibhaktisvarabhāvaḥ ca siddhaḥ . kutaḥ . halādigrahaṇāt . yat ayam ṣaṭtricaturbhyaḥ halādiḥ iti halādigrahaṇam karoti tat jñāpayati ācāryaḥ na nipātanasvaraḥ vibhaktisvaram bādhate iti . katham kṛtvā jñāpakam . ādyudāttanipātane hi halādigrahaṇānarthakyam . ādyudāttanipātane hi sati halādigrahaṇam anarthakam syāt . na hi anyat halādigrahaṇam prayojayati anyat ataḥ catasṛśabdāt . ṣaṭsañjñāḥ tāvat na prayojayanti . kim kāraṇam . bahuvacanaviṣayatvāt . tena dvivacanaikavacane na staḥ . jaśśasī ca atra lupyete . anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . triśabdaḥ ca api na prayojayati . kim kāraṇam . bahuvacanaviṣayatvāt . tena dvivacanaikavacane na staḥ . asarvanāmasthānam iti vacanāt jasi na bhaviṣyati . śasi bhavitavyam ekādeśe udāttena udāttaḥ iti . anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . tisṛśabdaḥ ca api na prayojayati . kim kāraṇam . bahuvacanaviṣayatvāt . tena dvivacanaikavacane na staḥ . asarvanāmasthānam iti vacanāt jasi na bhavitavyam . śasi bhavitavyam udāttayaṇaḥ halpūrvāt iti . anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . catuḥśabdaḥ tisṛśabdaḥ ca api na prayojayati . kim kāraṇam . bahuvacanaviṣayatvāt . tena dvivacanaikavacane na staḥ . asarvanāmasthānam iti vacanāt jasi na bhavitavyam . śasi bhavitavyam caturaḥ śasi iti . anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . tatra catasṛśabdāt ekasmāt śas asarvanāmasthānam ajādiḥ vibhaktiḥ asti . yadi ca atra nipātanasvaraḥ syāt halādigrahaṇam anarthakam syāt . na eva vā punaḥ atra śasisvaraḥ prāpnoti . kim kāraṇam . yaṇādeśe kṛte śasaḥ pūrvaḥ udāttabhāvī na asti iti kṛtvā . avaśiṣṭasya tarhi prāpnoti . ṛkāreṇa vyavahitatvāt na bhaviṣyati . yaṇādeśe kṛte na asti vyavadhānam . sthānivadbhāvāt vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ svaravidhim prati na sthānivat bhavati iti . na eṣaḥ asti pratiṣedhaḥ . uktam etat pratiṣedhe svaradīrghayalopeṣu lopādādeśaḥ na sthānivat iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०६।९-१८ रो इव्।५०४-५०५ सौ इति किम् इदम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य । कुतः सन्देहः । समानः निर्देशः । सप्तमीबहुवचनस्य ग्रहणम् । कथम् ज्ञायते । यत् अयम् न गोश्वन्साववर्ण इति गोशुनोः प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । यदि प्रथमैकवचनस्य ग्रहणम् स्यात् गोशुनोः प्रतिषेधवचनम् अनर्थकम् स्यात् । ननु च अर्थसिद्धिः एव एषा । अनुगृहीताः स्मः यैः अस्माभिः प्रथमैकवचनम् आस्थाय गोशुनोः प्रतिषेधः न वक्तव्यः भवति । भवेत् प्रतिषेधः न वक्तव्यः दोषाः तु भवन्ति । तत्र कः दोषः । स्विना खिना । अन्तोदात्तत्वम् न प्राप्नोति । स्विन्खिनौ न स्तः । उक्तम् एतत् एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ । स्ववान् , खवान् इति एव भवितव्यम् । इह तर्हि याद्भ्याम् , याभिः इति न सिध्यति । तस्मात् सप्तमीबहुवचनस्य ग्रहणम् ।

KA III.106.9-18 Ro IV.504-505 sau iti kim idam prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya . kutaḥ sandehaḥ . samānaḥ nirdeśaḥ . saptamībahuvacanasya grahaṇam . katham jñāyate . yat ayam na gośvansāvavarṇa iti gośunoḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . yadi prathamaikavacanasya grahaṇam syāt gośunoḥ pratiṣedhavacanam anarthakam syāt . nanu ca arthasiddhiḥ eva eṣā . anugṛhītāḥ smaḥ yaiḥ asmābhiḥ prathamaikavacanam āsthāya gośunoḥ pratiṣedhaḥ na vaktavyaḥ bhavati . bhavet pratiṣedhaḥ na vaktavyaḥ doṣāḥ tu bhavanti . tatra kaḥ doṣaḥ . svinā khinā . antodāttatvam na prāpnoti . svinkhinau na staḥ . uktam etat ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . svavān , khavān iti eva bhavitavyam . iha tarhi yādbhyām , yābhiḥ iti na sidhyati . tasmāt saptamībahuvacanasya grahaṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०६।१९-२५ रो इव्।५०५-५०६ सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः । सौ एकाचः उदात्तत्वे त्वन्मदोः प्रतिषेधः वक्तव्यः । त्वया मया । सिद्धम् तु यस्मात् तृतीयादिः तस्य अभावात् सौ । सिद्धम् एतत् । कथम् । यस्मात् अत्र तृतीयादिः विभक्तिः न तत् सौ अस्ति । यदि अपि एतत् सौ न अस्ति प्रकृतिः तु अस्य सौ अस्ति । प्रकृतेः च अनेकाच्त्वात् । यदि अपि तस्य प्रकृतिः अस्ति सौ अनेकाच् तु सा भवति ।

KA III.106.19-25 Ro IV.505-506 sau ekācaḥ udāttatve tvanmadoḥ pratiṣedhaḥ . sau ekācaḥ udāttatve tvanmadoḥ pratiṣedhaḥ vaktavyaḥ . tvayā mayā . siddham tu yasmāt tṛtīyādiḥ tasya abhāvāt sau . siddham etat . katham . yasmāt atra tṛtīyādiḥ vibhaktiḥ na tat sau asti . yadi api etat sau na asti prakṛtiḥ tu asya sau asti . prakṛteḥ ca anekāctvāt . yadi api tasya prakṛtiḥ asti sau anekāc tu sā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०७।२-५ रो इव्।५०६ उत्तरपदग्रहणम् किमर्थम् । यथा एकाज्ग्रहणम् उत्तरपदविशेषणम् विज्ञायेत । एकाचः उत्तरपदात् इति । अथ अक्रियमाणे उत्तरपदग्रहणे कस्य एकाज्ग्रहणम् विशेषणम् स्यात् । समासविशेषणम् । अस्ति च इदानीम् कः चित् एकाच् समासः यदर्थः विधिः स्यात् । अस्ति इति आह : शुनः ऊर्क् : श्वोर्क् , श्वोर्जा , श्वोर्जे इति ।

KA III.107.2-5 Ro IV.506 uttarapadagrahaṇam kimartham . yathā ekājgrahaṇam uttarapadaviśeṣaṇam vijñāyeta . ekācaḥ uttarapadāt iti . atha akriyamāṇe uttarapadagrahaṇe kasya ekājgrahaṇam viśeṣaṇam syāt . samāsaviśeṣaṇam . asti ca idānīm kaḥ cit ekāc samāsaḥ yadarthaḥ vidhiḥ syāt . asti iti āha : śunaḥ ūrk : śvork , śvorjā , śvorje iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०७।७-१० रो इव्।५०७ पदादिषु निचन्तानि प्रयोजयन्ति । अन्यानि पदादीनि उदात्तनिवृत्तिस्वरेण सिद्धानि । ऊठि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम् । ऊठि उपधाग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । अन्त्यप्रतिषेधार्थम् । अन्त्यस्य मा भूत् । अक्षद्युवा , अक्षद्युवे ।

KA III.107.7-10 Ro IV.507 padādiṣu nicantāni prayojayanti . anyāni padādīni udāttanivṛttisvareṇa siddhāni . ūṭhi upadhāgrahaṇam antyapratiṣedhārtham . ūṭhi upadhāgrahaṇam kartavyam . kim prayojanam . antyapratiṣedhārtham . antyasya mā bhūt . akṣadyuvā , akṣadyuve .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०७।१३-२२ रो इव्।५०७-५०८ दीर्घग्रहणम् किमर्थम् । अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत । दीर्घात् इति शक्यम् अकर्तुम् । कस्मात् न भवति अष्टसु प्रक्रमेषु ब्राह्मणः आदधीत इति । षट्स्वरः बाधकः भविष्यति । न अप्राप्ते षट्स्वरे अष्टनः स्वरः आरभ्यते । सः यथा एव दीर्घात् बाधते एवम् ह्रस्वात् अपि बाधेत । न दीर्घात् षट्स्वरः प्राप्नोति । किम् कारणम् । आते कृते षट्सञ्ज्ञाभावात् । अतः उत्तरम् पठति अष्टनः दीर्घग्रहणम् षट्सञ्ज्ञाज्ञापकम् आकारान्तस्य नुडर्थम् । अष्टनः दीर्घग्रहणम् क्रियते ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः भवति आत्वे कृते षट्सञ्ज्ञा इति । किम् एतस्य ज्ञपने प्रयोजनम् । आकारान्तस्य नुडर्थम् । आकारान्तस्य नुड् सिद्धः भवति । अष्टानाम् इति । ननु च नित्यम् आत्वम् । एतत् एव ज्ञापयति विभाषा आत्वम् इति यत् अयम् दीर्घग्रहणम् करोति । इतरथा हि अष्टनः इति एव ब्रूयात् ।

KA III.107.13-22 Ro IV.507-508 dīrghagrahaṇam kimartham . aṣṭasu prakrameṣu brāhmaṇaḥ ādadhīta . dīrghāt iti śakyam akartum . kasmāt na bhavati aṣṭasu prakrameṣu brāhmaṇaḥ ādadhīta iti . ṣaṭsvaraḥ bādhakaḥ bhaviṣyati . na aprāpte ṣaṭsvare aṣṭanaḥ svaraḥ ārabhyate . saḥ yathā eva dīrghāt bādhate evam hrasvāt api bādheta . na dīrghāt ṣaṭsvaraḥ prāpnoti . kim kāraṇam . āte kṛte ṣaṭsañjñābhāvāt . ataḥ uttaram paṭhati aṣṭanaḥ dīrghagrahaṇam ṣaṭsañjñājñāpakam ākārāntasya nuḍartham . aṣṭanaḥ dīrghagrahaṇam kriyate jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ bhavati ātve kṛte ṣaṭsañjñā iti . kim etasya jñapane prayojanam . ākārāntasya nuḍartham . ākārāntasya nuḍ siddhaḥ bhavati . aṣṭānām iti . nanu ca nityam ātvam . etat eva jñāpayati vibhāṣā ātvam iti yat ayam dīrghagrahaṇam karoti . itarathā hi aṣṭanaḥ iti eva brūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२-४ रो इव्।५०८ नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम् । नद्यजाद्युदात्तत्वे बृहन्महतोः उपसङ्ख्यानम् कर्तव्यम् । बृहती महती बृहता महता ।

KA III.2-4 Ro IV.508 nadyajādyudāttatve bṛhanmahatoḥ upasaṅkhyānam . nadyajādyudāttatve bṛhanmahatoḥ upasaṅkhyānam kartavyam . bṛhatī mahatī bṛhatā mahatā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०८।६-१६ रो इव्।५०९-५१० हल्पूर्वात् इति किमर्थम् । अग्नये वायवे । उदात्तयणि हल्ग्रहणम् नकारान्तार्थम् । उदात्तयणि हल्ग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । नकारान्तार्थम् । नकारान्तात् अपि यथा स्यात् । वाक्पत्नी चित्पत्नी । हल्पूर्वग्रहणानर्थक्यम् च समुदायादेशत्वात् । हल्पूर्वग्रहणम् च अनर्थकम् । किम् काऋअणम् । समुदायादेशत्वात् । समुदायः अत्र आदेशः । स्वरितत्वे च अवचनात् । स्वरितत्वे च हल्पूर्वग्रहणस्य अवचनात् मन्यामहे हल्पूर्वग्रहणम् अनर्थकम् इति । यत् तावत् उच्यते उदात्तयणि हल्ग्रहणम् नकारान्तार्थम् इति क्रियते न्यासे एव । द्विनकारकः निर्देशः । उदात्तयणः हल्पूर्वात् न ऊङ्धात्वोः इति । यत् अपि उच्यते हल्पूर्वग्रहणानर्थक्यम् च समुदायादेशत्वात् इति । अयम् अस्ति केवलः आदेशः । बहुतितवा ।

KA III.108.6-16 Ro IV.509-510 halpūrvāt iti kimartham . agnaye vāyave . udāttayaṇi halgrahaṇam nakārāntārtham . udāttayaṇi halgrahaṇam kartavyam . kim prayojanam . nakārāntārtham . nakārāntāt api yathā syāt . vākpatnī citpatnī . halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt . halpūrvagrahaṇam ca anarthakam . kim kāṛaṇam . samudāyādeśatvāt . samudāyaḥ atra ādeśaḥ . svaritatve ca avacanāt . svaritatve ca halpūrvagrahaṇasya avacanāt manyāmahe halpūrvagrahaṇam anarthakam iti . yat tāvat ucyate udāttayaṇi halgrahaṇam nakārāntārtham iti kriyate nyāse eva . dvinakārakaḥ nirdeśaḥ . udāttayaṇaḥ halpūrvāt na ūṅdhātvoḥ iti . yat api ucyate halpūrvagrahaṇānarthakyam ca samudāyādeśatvāt iti . ayam asti kevalaḥ ādeśaḥ . bahutitavā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०८।१८-२१ रो इव्।५१० मतुबुदात्तत्वे रेग्रहणम् । मतुबुदात्तत्वे रेग्रहणम् कर्तव्यम् । आ रेवान् एतु नः विशः । त्रिप्रतिषेधः च । त्रेः च प्रतिषेधः वक्तव्यः । त्रिवतीः याज्यानुवाक्याः भवन्ति ।

KA III.108.18-21 Ro IV.510 matubudāttatve regrahaṇam . matubudāttatve regrahaṇam kartavyam . ā revān etu naḥ viśaḥ . tripratiṣedhaḥ ca . treḥ ca pratiṣedhaḥ vaktavyaḥ . trivatīḥ yājyānuvākyāḥ bhavanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०९।२-२१ रो इव्।५१०-५१२ इह कस्मात् न भवति । किशोरीणाम् , कुमारीणाम् । ह्रस्वात् इति वर्तते । इह अपि तर्हि न प्राप्नोति । अग्नीनाम् , वायूनाम् । किम् कारणम् । दीर्घत्वे कृते ह्रस्वाभावात् । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् स्वरः इति किम् अत्र कर्तव्यम् । परत्वात् दीर्घत्वम् । एवम् तर्हि नाम्स्वरे मतौ ह्रस्वग्रहणम् । नाम्स्वरे मतौ ह्रस्वग्रहणम् कर्तव्यम् । मतौ ह्रस्वान्तात् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । आह अयम् ह्रस्वान्तात् न च नामि ह्रस्वान्तः अस्ति । तत्र भूतपूर्वगतिः विज्ञास्यते : ह्रस्वान्तम् यत् भूतपूर्वम् इति । साम्प्रतिकाभावे भूतपूर्वगतिः विज्ञायते अयम् च अस्ति साम्प्रतिकः : तिसृणाम् , चतसृणाम् इति । न एतत् अस्ति । षट्त्रिचतुर्भ्यः हलादिः इति अनेन स्वरेण भवितव्यम् । तस्मिन् नित्ये प्राप्ते इयम् विभाषा आरभ्यते । एवम् तर्हि योगविभागः करिष्यते । षट्त्रिचतुर्भ्यः नाम् उदात्तः भवति । ततः हलादिः । हलादिः च विभक्तिः उदात्ता भवति षट्त्रिचतुर्भ्यः इति । इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः । ननु च अत्र अपि नृ च अन्यतरस्याम् इति एषः स्वरः बाधकः भविष्यति । न सिध्यति । न सिध्यति । किम् कारणम् । झल्ग्रहणम् तत्र अनुवर्तते । किम् पुनः कारणम् झल्ग्रहणम् तत्र अनुवर्तते । इह मा भूत् । न्रा न्रे । उदात्तयणः हल्पूर्वात् इति एषः स्वरः अत्र स्वरः बाधकः भविष्यति । इदम् तर्हि नरि । न एकम् उदाहरम् ह्रस्वग्रहणम् प्रयोजयति । यदि एतावत् प्रयोजनम् स्यात् नाम् इति एव ब्रूयात् । तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते । ह्रस्वान्तम् यत् भूतपूर्वम् इति । अथ वा न एवम् विज्ञायते । नाम् स्वरौ मतौ ह्रस्वग्रहणम् कर्तव्यम् इति । कथम् तर्हि । नाम्स्वरे मतौ ह्रस्वात् इति वर्तते इति ।

KA III.109.2-21 Ro IV.510-512 iha kasmāt na bhavati . kiśorīṇām , kumārīṇām . hrasvāt iti vartate . iha api tarhi na prāpnoti . agnīnām , vāyūnām . kim kāraṇam . dīrghatve kṛte hrasvābhāvāt . idam iha sampradhāryam . dīrghatvam kriyatām svaraḥ iti kim atra kartavyam . paratvāt dīrghatvam . evam tarhi nāmsvare matau hrasvagrahaṇam . nāmsvare matau hrasvagrahaṇam kartavyam . matau hrasvāntāt iti . tat tarhi vaktavyam . na vaktavyam . āha ayam hrasvāntāt na ca nāmi hrasvāntaḥ asti . tatra bhūtapūrvagatiḥ vijñāsyate : hrasvāntam yat bhūtapūrvam iti . sāmpratikābhāve bhūtapūrvagatiḥ vijñāyate ayam ca asti sāmpratikaḥ : tisṛṇām , catasṛṇām iti . na etat asti . ṣaṭtricaturbhyaḥ halādiḥ iti anena svareṇa bhavitavyam . tasmin nitye prāpte iyam vibhāṣā ārabhyate . evam tarhi yogavibhāgaḥ kariṣyate . ṣaṭtricaturbhyaḥ nām udāttaḥ bhavati . tataḥ halādiḥ . halādiḥ ca vibhaktiḥ udāttā bhavati ṣaṭtricaturbhyaḥ iti . idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ . nanu ca atra api nṛ ca anyatarasyām iti eṣaḥ svaraḥ bādhakaḥ bhaviṣyati . na sidhyati . na sidhyati . kim kāraṇam . jhalgrahaṇam tatra anuvartate . kim punaḥ kāraṇam jhalgrahaṇam tatra anuvartate . iha mā bhūt . nrā nre . udāttayaṇaḥ halpūrvāt iti eṣaḥ svaraḥ atra svaraḥ bādhakaḥ bhaviṣyati . idam tarhi nari . na ekam udāharam hrasvagrahaṇam prayojayati . yadi etāvat prayojanam syāt nām iti eva brūyāt . tatra vacanāt bhūtapūrvagatiḥ vijñāsyate . hrasvāntam yat bhūtapūrvam iti . atha vā na evam vijñāyate . nām svarau matau hrasvagrahaṇam kartavyam iti . katham tarhi . nāmsvare matau hrasvāt iti vartate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१०९।२३-११०।११ रो इव्।५१२-५१३ सौ इति किम् प्रथमैकवचनस्य ग्रहणम् आहोस्वित् सप्तमीबहुवचनस्य । कुतः सन्देहः । समानः निर्देशः । पुरस्तात् एषः निर्णयः सप्तमीबहुवचनस्य ग्रहणम् इति । इह अपि तत् एव भवितुम् अर्हति । यदि सप्तमीबहुवचनस्य ग्रहणम् ताभ्याम् ब्राह्मणाभ्याम् , याभ्याम् ब्राह्मणाभ्याम् अत्र न प्राप्नोति । विधिः अपि अत्र न सिध्यति । किम् कारणम् । न हि एतत् भवति यत् सौ रूपम् । इदम् तर्हि तेभ्यः ब्राह्मणेभ्यः , येभ्यः ब्राह्मणेभ्यः । विधिः च सिद्द्धः भवति प्रतिषेधः तु न प्राप्नोति । अस्ति पुनः किम् चित् सति इष्टम् सङ्गृहीतम् भवति आहोस्वित् दोषान्तम् एव । अस्ति इति आह । इह याभ्यः ब्राह्मणीभ्यः , ताभ्यः ब्राह्मणीभ्यः इति विधिः च सिद्द्धः भवति प्रतिषेधः च । अस्ति तर्हि प्रथमैकवचनस्य ग्रहणम् । यदि प्रथमैकवचनस्य ग्रहणम् तेन इति स्वरः पुंसि न सिध्यति । न च अवश्यम् पुंसि एव स्त्रियाम् पुंसि नपुंसके च । तेन ब्राह्मणेन तया ब्राह्मण्या तेन कुण्डेन इति । सप्तमीबहुवचनस्य ग्रहणे अपि एषः दोषः । तस्मात् उभाभ्याम् एव प्रतिषेधे यत्ततदोः च ग्रहणम् कर्तव्यम् । न गोश्वन्साववर्णराडङ्क्रुङ्कृद्भ्यः यत्तदोः च इति ।

KA III.109.23-110.11 Ro IV.512-513 sau iti kim prathamaikavacanasya grahaṇam āhosvit saptamībahuvacanasya . kutaḥ sandehaḥ . samānaḥ nirdeśaḥ . purastāt eṣaḥ nirṇayaḥ saptamībahuvacanasya grahaṇam iti . iha api tat eva bhavitum arhati . yadi saptamībahuvacanasya grahaṇam tābhyām brāhmaṇābhyām , yābhyām brāhmaṇābhyām atra na prāpnoti . vidhiḥ api atra na sidhyati . kim kāraṇam . na hi etat bhavati yat sau rūpam . idam tarhi tebhyaḥ brāhmaṇebhyaḥ , yebhyaḥ brāhmaṇebhyaḥ . vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ tu na prāpnoti . asti punaḥ kim cit sati iṣṭam saṅgṛhītam bhavati āhosvit doṣāntam eva . asti iti āha . iha yābhyaḥ brāhmaṇībhyaḥ , tābhyaḥ brāhmaṇībhyaḥ iti vidhiḥ ca sidddhaḥ bhavati pratiṣedhaḥ ca . asti tarhi prathamaikavacanasya grahaṇam . yadi prathamaikavacanasya grahaṇam tena iti svaraḥ puṃsi na sidhyati . na ca avaśyam puṃsi eva striyām puṃsi napuṃsake ca . tena brāhmaṇena tayā brāhmaṇyā tena kuṇḍena iti . saptamībahuvacanasya grahaṇe api eṣaḥ doṣaḥ . tasmāt ubhābhyām eva pratiṣedhe yattatadoḥ ca grahaṇam kartavyam . na gośvansāvavarṇarāḍaṅkruṅkṛdbhyaḥ yattadoḥ ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१३-२४ रो इव्।५१४-५१५ तिति प्रत्ययग्रहणम् । तिति प्रत्ययग्रहणम् कर्तव्यम् । इह मा भूत् । ॠतः इत् धातोः । किरति , गिरति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एषः तकारः । कः तर्हि । दकारः । यदि दकारः आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति । भाव्यमानेन सवर्णानाम् ग्रहणम् न इति एवम् न भविष्यति । यदि भाव्यमानेन सवर्णानाम् ग्रहणम् न इति उच्यते अदसः असेः दात् उ दः मः , अमूभ्याम् इति अत्र न प्राप्नोति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति उकारेण भाव्यमानेन सवर्णानाम् ग्रहणम् इति यत् अयम् दिवः उत् इति उकारम् तपरम् करोति । एवमर्थम् एव तर्हि प्रत्ययग्रहणम् कर्तव्यम् अत्र मा भूत् इति । न एषः तकाहरः । कः तर्हि । दकारः । यदि दकारः न ज्ञापकम् भवति । एवम् तर्हि तपरः तत्कालस्य इति दकारः अपि चर्त्वभूतः निर्दिश्यते । यदि एवम् चर्त्वस्य असिद्धत्वात् हशि च इति उत्त्वम् प्राप्नोति । सौत्रः निर्देशः । अथ वा असंहितया निर्देशः करिष्यते । अणुदित् सवर्णस्य च अप्रत्ययः , त्तपरः तत्कालस्य इति ।

KA III.13-24 Ro IV.514-515 titi pratyayagrahaṇam . titi pratyayagrahaṇam kartavyam . iha mā bhūt . ṝtaḥ it dhātoḥ . kirati , girati . tat tarhi vaktavyam . na vaktavyam . na eṣaḥ takāraḥ . kaḥ tarhi . dakāraḥ . yadi dakāraḥ āntaryataḥ dīrghasya dīrghaḥ prāpnoti . bhāvyamānena savarṇānām grahaṇam na iti evam na bhaviṣyati . yadi bhāvyamānena savarṇānām grahaṇam na iti ucyate adasaḥ aseḥ dāt u daḥ maḥ , amūbhyām iti atra na prāpnoti . evam tarhi ācāryapravṛttiḥ jñāpayati bhavati ukāreṇa bhāvyamānena savarṇānām grahaṇam iti yat ayam divaḥ ut iti ukāram taparam karoti . evamartham eva tarhi pratyayagrahaṇam kartavyam atra mā bhūt iti . na eṣaḥ takāharaḥ . kaḥ tarhi . dakāraḥ . yadi dakāraḥ na jñāpakam bhavati . evam tarhi taparaḥ tatkālasya iti dakāraḥ api cartvabhūtaḥ nirdiśyate . yadi evam cartvasya asiddhatvāt haśi ca iti uttvam prāpnoti . sautraḥ nirdeśaḥ . atha vā asaṃhitayā nirdeśaḥ kariṣyate . aṇudit savarṇasya ca apratyayaḥ , ttaparaḥ tatkālasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१११।३-१६ रो इव्।५१५-५१७ अदुपदेशात् इति किम् इदम् विज्ञायते । अकारः यः उपदेशः इति आहोस्वित् अकारान्तम् यत् उपदेशः इति । किम् च अतः । यदि विज्ञायते अकारः यः उपदेशः इति हतः , हथः इति अत्र अपि प्राप्नोति । अथ विज्ञायते अकारान्तम् यत् उपदेशः इति न दोषः भवति । ननु च अकारान्तम् यत् उपदेशः इति विज्ञायमाने अपि अत्र अपि प्राप्नोति । एतत् अपि हि व्यपदेशिवद्भावेन अकारान्तम् भवति उपदेशे । अर्थवता व्यपदेशिवद्भावः । यदि तर्हि अकारान्तम् यत् उपदेशः इति विज्ञायते मा हि धुक्षाताम् , मा हि धुषाथाम् अत्र अपि प्राप्नोति । अस्तु । अनुदात्तत्वे कृते लोपे उदात्तनिवृत्तिस्वरेण सिद्धम् । न सिध्यति । इदम् इह सम्प्रधार्यम् । अद्नुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् लोपः । एवम् तर्हि इदम् अद्य लसार्वधादुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः । न च अपवादविषये उत्सर्गः अभिनिविशते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः । प्रकल्प्य वा अपवादविषयम् ततः उतस्र्गः अभिनिविशते । तत् न तावत् अत्र कदा चित् प्रत्ययस्वरः भवति । अपवादविषयम् लसार्वधातुकानुदात्तत्वम् प्रतीक्षते । तत्र आनुदात्तत्वम् क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् लोपः । यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्ते अनुदात्ते उदात्तः लुप्यते ।

KA III.111.3-16 Ro IV.515-517 adupadeśāt iti kim idam vijñāyate . akāraḥ yaḥ upadeśaḥ iti āhosvit akārāntam yat upadeśaḥ iti . kim ca ataḥ . yadi vijñāyate akāraḥ yaḥ upadeśaḥ iti hataḥ , hathaḥ iti atra api prāpnoti . atha vijñāyate akārāntam yat upadeśaḥ iti na doṣaḥ bhavati . nanu ca akārāntam yat upadeśaḥ iti vijñāyamāne api atra api prāpnoti . etat api hi vyapadeśivadbhāvena akārāntam bhavati upadeśe . arthavatā vyapadeśivadbhāvaḥ . yadi tarhi akārāntam yat upadeśaḥ iti vijñāyate mā hi dhukṣātām , mā hi dhuṣāthām atra api prāpnoti . astu . anudāttatve kṛte lope udāttanivṛttisvareṇa siddham . na sidhyati . idam iha sampradhāryam . adnudāttatvam kriyatām lopaḥ iti kim atra kartavyam . paratvāt lopaḥ . evam tarhi idam adya lasārvadhādukānudāttatvam pratyayasvarasya apavādaḥ . na ca apavādaviṣaye utsargaḥ abhiniviśate . pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . prakalpya vā apavādaviṣayam tataḥ utasrgaḥ abhiniviśate . tat na tāvat atra kadā cit pratyayasvaraḥ bhavati . apavādaviṣayam lasārvadhātukānudāttatvam pratīkṣate . tatra ānudāttatvam kriyatām lopaḥ iti kim atra kartavyam . paratvāt lopaḥ . yadi api paratvāt lopaḥ saḥ asau avidyamānodātte anudātte udāttaḥ lupyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१११।१७-२३ रो इव्।५१७ तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः अभ्यस्तसिजर्थः । तास्यादिभ्यः अनुदात्तत्वे सप्तमीनिर्देशः कर्तव्यः । लसार्वधातुके इति वक्तव्यम् । किम् प्रयोजनम् । अभ्यस्तसिजर्थः । अभ्यस्तानाम् आदिः उदात्तः भवति लसार्वधातुके । सिजन्तस्य आदिः उदात्तः भवति लसार्वधातुके । लसार्वधातुकम् इति उच्यमाने तस्य एव आद्युदात्तत्वम् स्यात् । यदि सप्तमीनिर्देशः क्रियते तास्यादीनाम् एव अनुदात्तत्वम् प्राप्नोति । न एषः दोषः । तासियादिभ्यः इति एषा पञ्चमी लसार्वधातुके इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

KA III.111.17-23 Ro IV.517 tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ abhyastasijarthaḥ . tāsyādibhyaḥ anudāttatve saptamīnirdeśaḥ kartavyaḥ . lasārvadhātuke iti vaktavyam . kim prayojanam . abhyastasijarthaḥ . abhyastānām ādiḥ udāttaḥ bhavati lasārvadhātuke . sijantasya ādiḥ udāttaḥ bhavati lasārvadhātuke . lasārvadhātukam iti ucyamāne tasya eva ādyudāttatvam syāt . yadi saptamīnirdeśaḥ kriyate tāsyādīnām eva anudāttatvam prāpnoti . na eṣaḥ doṣaḥ . tāsiyādibhyaḥ iti eṣā pañcamī lasārvadhātuke iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१११।२४-११३।८ रो इव्।५१८-५२० चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् विप्रतिषेधेन । चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन । चित्स्वरस्य अवकाशः चलनः , चोपनः । तास्यादिभ्यः अनुदात्तत्वस्य अवकाशः । आस्ते शेते । इह उभयम् प्राप्नोति । आसीनः , शयानः । तास्यादिभ्यः अनुदात्तत्वम् भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । किम् कारणम् । द्विकार्ययोगः हि विप्रतिषेधः । न च अत्र एकः द्विकार्ययुक्तः । आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् । न अवश्यम् द्विकार्ययोगः एव विप्रतिषेधः । किम् तर्हि। असम्भवः अपि । ननु च अत्र अपि अस्ति सम्भवः । आदेः अनुदात्तत्वम् अन्तस्य उदात्तत्वम् इति । अस्ति च सम्भवः यत् उभयम् स्यात् । न एषः अस्ति सम्भवः । वक्ष्यति एतत् स्वरविधौ सङ्घातः कार्यी भवति इति । मुकः च उपसङ्ख्यानम् । मुकः च उपसङ्ख्यानम् कर्तव्यम् । पचमानः , यजमानः । मुका व्यवहितत्वात् अदुपदेशात् लसार्वधातुकम् अनुदात्तम् भवति इति अनुदात्तत्वम् न प्राप्नोति । ननु च अयम् मुक् अदुपदेशभक्तः अदुपदेशग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य मुक् उच्यते विकरणान्तम् च अङ्गम् । सः असौ सङ्घातभक्तः अशक्यः मुक् अदुपदेशग्रहणेन ग्रहीतुम् । अथ अयम् अद्भक्तः स्यात् गृह्येत अयम् अदुपदेशग्रहणेन । बाढम् गृह्येत । अद्भक्तः तर्हि भविष्यति । तत् कथम् । वक्ष्यति एतस्य परिहारम् । इतः च उपसङ्ख्यानम् । इतः च उपसङ्ख्यानम् कर्तव्यम् । इद्भिः च व्यवहितत्वात् अनुदात्तत्वम् न प्राप्नोति । पचतः , पठतः । इतः च अनेकान्तत्वात् । अनेकान्ताः अनुबन्धाः । यदि अनेकान्ताः अनुबन्धाः अदिप्रभृतिजुहोत्यादिभ्यः प्रतिषेधः वक्तव्यः । अत्तः , जुहुतः इति । अदुपदेशात् इति अनुदात्तत्वम् प्राप्नोति । तत्र अदिप्रभृतिजुहोत्यादिभ्यः अप्रतिषेधः स्थान्यादेशाभावात् । तत्र अदिप्रभृतिभ्यः जुहोत्यादिभ्यः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । अनुदात्तत्वम् कस्मात् न भवति । स्थान्यादेशाभावात् । न एव अत्र स्थानिनम् न एव आदेशम् पश्यामः । अनुदात्तङिद्ग्रहणात् वा । अथ वा यत् अयम् अनुदात्तङिद्ग्रहणम् करोति तत् ज्ञापयति आचार्यः न लुप्तविकरणेभ्यः अनुदात्तत्वम् भवति इति । न एतत् अस्ति ज्ञापकम् । श्ननर्थम् एतत् स्यात् । विन्दाते , खिन्दाते । यत् तर्हि ङिद्ग्रहणम् करोति । न हि श्नम्विकरणः ङित् भवति । ङितः अनुदात्तत्वे विकरणेभ्यः प्रतिषेधः वक्तव्यः । चिनुतः , सुनुतः , लुनीतः , पुनीतः । ङितः इति अनुदात्तत्वम् प्राप्नोति । ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः सर्वस्य उपदेशविशेषणत्वात् । ङितः अनुदात्तत्वे विकरणेभ्यः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । अनुदात्तत्वम् कस्मात् न भवति । सर्वस्य उपदेशविशेषणत्वात् । सर्वम् उपदेशग्रहणेन विशेषयिष्यामः । उपदेशे अनुदात्तेतः , उपदेशे ङितः , उपदेशे अकारान्तात् ।

KA III.111.24-113.8 Ro IV.518-520 citsvarāt tāsyādibhyaḥ anudāttatvam vipratiṣedhena . citsvarāt tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena . citsvarasya avakāśaḥ calanaḥ , copanaḥ . tāsyādibhyaḥ anudāttatvasya avakāśaḥ . āste śete . iha ubhayam prāpnoti . āsīnaḥ , śayānaḥ . tāsyādibhyaḥ anudāttatvam bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . kim kāraṇam . dvikāryayogaḥ hi vipratiṣedhaḥ . na ca atra ekaḥ dvikāryayuktaḥ . ādeḥ anudāttatvam antasya udāttatvam . na avaśyam dvikāryayogaḥ eva vipratiṣedhaḥ . kim tarhi. asambhavaḥ api . nanu ca atra api asti sambhavaḥ . ādeḥ anudāttatvam antasya udāttatvam iti . asti ca sambhavaḥ yat ubhayam syāt . na eṣaḥ asti sambhavaḥ . vakṣyati etat svaravidhau saṅghātaḥ kāryī bhavati iti . mukaḥ ca upasaṅkhyānam . mukaḥ ca upasaṅkhyānam kartavyam . pacamānaḥ , yajamānaḥ . mukā vyavahitatvāt adupadeśāt lasārvadhātukam anudāttam bhavati iti anudāttatvam na prāpnoti . nanu ca ayam muk adupadeśabhaktaḥ adupadeśagrahaṇena grāhiṣyate . na sidhyati . aṅgasya muk ucyate vikaraṇāntam ca aṅgam . saḥ asau saṅghātabhaktaḥ aśakyaḥ muk adupadeśagrahaṇena grahītum . atha ayam adbhaktaḥ syāt gṛhyeta ayam adupadeśagrahaṇena . bāḍham gṛhyeta . adbhaktaḥ tarhi bhaviṣyati . tat katham . vakṣyati etasya parihāram . itaḥ ca upasaṅkhyānam . itaḥ ca upasaṅkhyānam kartavyam . idbhiḥ ca vyavahitatvāt anudāttatvam na prāpnoti . pacataḥ , paṭhataḥ . itaḥ ca anekāntatvāt . anekāntāḥ anubandhāḥ . yadi anekāntāḥ anubandhāḥ adiprabhṛtijuhotyādibhyaḥ pratiṣedhaḥ vaktavyaḥ . attaḥ , juhutaḥ iti . adupadeśāt iti anudāttatvam prāpnoti . tatra adiprabhṛtijuhotyādibhyaḥ apratiṣedhaḥ sthānyādeśābhāvāt . tatra adiprabhṛtibhyaḥ juhotyādibhyaḥ apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . anudāttatvam kasmāt na bhavati . sthānyādeśābhāvāt . na eva atra sthāninam na eva ādeśam paśyāmaḥ . anudāttaṅidgrahaṇāt vā . atha vā yat ayam anudāttaṅidgrahaṇam karoti tat jñāpayati ācāryaḥ na luptavikaraṇebhyaḥ anudāttatvam bhavati iti . na etat asti jñāpakam . śnanartham etat syāt . vindāte , khindāte . yat tarhi ṅidgrahaṇam karoti . na hi śnamvikaraṇaḥ ṅit bhavati . ṅitaḥ anudāttatve vikaraṇebhyaḥ pratiṣedhaḥ vaktavyaḥ . cinutaḥ , sunutaḥ , lunītaḥ , punītaḥ . ṅitaḥ iti anudāttatvam prāpnoti . ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ sarvasya upadeśaviśeṣaṇatvāt . ṅitaḥ anudāttatve vikaraṇebhyaḥ apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . anudāttatvam kasmāt na bhavati . sarvasya upadeśaviśeṣaṇatvāt . sarvam upadeśagrahaṇena viśeṣayiṣyāmaḥ . upadeśe anudāttetaḥ , upadeśe ṅitaḥ , upadeśe akārāntāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११३।१०-१२ रो इव्।५२०-५२१ सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम् । सिचः आद्युदात्तत्वे अनिटः पितः उपसङ्ख्यानम् कर्तव्यम् । मा हि कर्षम् , मा हि कार्षम् । अनिटः इति किमर्थम् । मा हि लविषम् ।

KA III.113.10-12 Ro IV.520-521 sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam . sicaḥ ādyudāttatve aniṭaḥ pitaḥ upasaṅkhyānam kartavyam . mā hi karṣam , mā hi kārṣam . aniṭaḥ iti kimartham . mā hi laviṣam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११३।१४-१७ रो इव्।५२१ स्वपादीनाम् वावचनात् अभ्यस्तस्वरः विप्रतिषेधेन । स्वपादीनाम् वावचनात् अभ्यस्तस्वरः भवति विप्रतिषेधेन । स्वपादीनाम् वावचनस्य अवकाशः स्वपन्ति श्वसन्ति । अभ्यस्तस्वरस्य अवकाशः ददति , दधति । इह उभयम् प्राप्नोति । जग्रति । अभ्यस्तस्वरः भवति विप्रतिषेधेन ।

KA III.113.14-17 Ro IV.521 svapādīnām vāvacanāt abhyastasvaraḥ vipratiṣedhena . svapādīnām vāvacanāt abhyastasvaraḥ bhavati vipratiṣedhena . svapādīnām vāvacanasya avakāśaḥ svapanti śvasanti . abhyastasvarasya avakāśaḥ dadati , dadhati . iha ubhayam prāpnoti . jagrati . abhyastasvaraḥ bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११३।१९-२२ रो इव्।५२१ अनुदात्ते च इति बहुव्रीहिनिर्देशः लोपयणादेशार्थम् । अनुदात्ते च इति बहुव्रीहिनिर्देशः कर्तव्यः । अविद्यमानोदात्ते इति वक्तव्यम् । किम् प्रयोजनम् । लोपयणादेशार्थम् । लोपयणादेशयोः कृतयोः आद्युदात्तत्वम् यथा स्यात् । मा हि दधात् । दधाति अत्र ।

KA III.113.19-22 Ro IV.521 anudātte ca iti bahuvrīhinirdeśaḥ lopayaṇādeśārtham . anudātte ca iti bahuvrīhinirdeśaḥ kartavyaḥ . avidyamānodātte iti vaktavyam . kim prayojanam . lopayaṇādeśārtham . lopayaṇādeśayoḥ kṛtayoḥ ādyudāttatvam yathā syāt . mā hi dadhāt . dadhāti atra .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११४।२-३ रो इव्।५२२ सर्वस्वरः अनच्कस्य । सर्वस्वरः अनच्कस्य इति वक्तव्यम् । इह मा भूत् सर्वके ।

KA III.114.2-3 Ro IV.522 sarvasvaraḥ anackasya . sarvasvaraḥ anackasya iti vaktavyam . iha mā bhūt sarvake .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११४।६-११५।२ रो इव्।५२२-५२५ भ्यादिग्रहणम् किमर्थम् । इह मा भूत् । ददाति दधाति । न एतत् अस्ति प्रयोजनम् । अभ्यस्तस्वरः अत्र बाधकः भविष्यति । अन्ततः उभयम् स्यात् । अनवकाशाः खलु अपि विधयः बाधकाः भवन्ति सावकाशः च अभ्यस्तस्वरः । कः अवकाशः । मिमीते । अथ प्रत्ययग्रहणम् किमर्थम् । प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् । आटः पूर्वस्य मा भूत् इति । बिभयानि । न च एव अस्ति विशेषः प्रत्ययात् वा पूर्वस्य उदात्तत्वे सति आटः वा । अपि च पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते । इदम् तर्हि प्रयोजनम् । प्रत्ययात् पूर्वस्य उदात्तत्वम् यथा स्यात् । आटः एव मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । पिद्भक्तः पिद्ग्रहणेन ग्राहिष्यते । एवम् तर्हि सिद्धे सति यत् प्रत्ययग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सङ्घातः कार्यी भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । चित्स्वरात् तास्यादिभ्यः अनुदात्तत्वम् विप्रतिषेधेन इति उक्तम् । तत् उपपन्नम् भवति । अथ पूर्वग्रहणम् किमर्थम् न तस्मिन् इति निर्दिष्टे पूर्वस्य इति पूर्वस्य एव भविष्यति । एवम् तर्हि सिद्धे सति यत् पूर्वग्रहणम् करोति तत् ज्ञापयति आचार्यः स्वरविधौ सप्तम्यः तदन्तसप्तम्यः भवन्ति इति । किम् एतस्य ज्ञापने प्रयोजनम् । उपोत्तमम् रिति रिदन्तस्य । चङि अन्यतरस्याम् चङन्तस्य । यदि एतत् ज्ञाप्यते चतुरः शसि इति शसन्तस्य अपि प्राप्नोति । शस्ग्रहणसामर्थ्यात् न भविष्यति । इतरथा हि तत्र एव अयम् ब्रूयात् ऊडिदम्पदाद्यप्पुम्रैद्युभ्यः चतुर्भ्यः च इति । अथ पिद्ग्रहणम् किमर्थम् । इह मा भूत् । जाग्रति। न एतत् अस्ति प्रयोजनम् । भवति एव अत्र पूर्वेण । इदम् तर्हि प्रयोजनम् दरिद्रति । आकारेण व्यवहितत्वात् न भविष्यति । लोपे कृते न अस्ति व्यवधानम् । स्थानिवद्भावाद् व्यवधानम् एव । प्रतिषिध्यते अत्र स्थानिवद्भावः स्वरसन्धिम् प्रति न स्थानिवत् इति ।

KA III.114.6-115.2 Ro IV.522-525 bhyādigrahaṇam kimartham . iha mā bhūt . dadāti dadhāti . na etat asti prayojanam . abhyastasvaraḥ atra bādhakaḥ bhaviṣyati . antataḥ ubhayam syāt . anavakāśāḥ khalu api vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca abhyastasvaraḥ . kaḥ avakāśaḥ . mimīte . atha pratyayagrahaṇam kimartham . pratyayāt pūrvasya udāttatvam yathā syāt . āṭaḥ pūrvasya mā bhūt iti . bibhayāni . na ca eva asti viśeṣaḥ pratyayāt vā pūrvasya udāttatve sati āṭaḥ vā . api ca pidbhaktaḥ pidgrahaṇena grāhiṣyate . idam tarhi prayojanam . pratyayāt pūrvasya udāttatvam yathā syāt . āṭaḥ eva mā bhūt iti . etat api na asti prayojanam . pidbhaktaḥ pidgrahaṇena grāhiṣyate . evam tarhi siddhe sati yat pratyayagrahaṇam karoti tat jñāpayati ācāryaḥ svaravidhau saṅghātaḥ kāryī bhavati iti . kim etasya jñāpane prayojanam . citsvarāt tāsyādibhyaḥ anudāttatvam vipratiṣedhena iti uktam . tat upapannam bhavati . atha pūrvagrahaṇam kimartham na tasmin iti nirdiṣṭe pūrvasya iti pūrvasya eva bhaviṣyati . evam tarhi siddhe sati yat pūrvagrahaṇam karoti tat jñāpayati ācāryaḥ svaravidhau saptamyaḥ tadantasaptamyaḥ bhavanti iti . kim etasya jñāpane prayojanam . upottamam riti ridantasya . caṅi anyatarasyām caṅantasya . yadi etat jñāpyate caturaḥ śasi iti śasantasya api prāpnoti . śasgrahaṇasāmarthyāt na bhaviṣyati . itarathā hi tatra eva ayam brūyāt ūḍidampadādyappumraidyubhyaḥ caturbhyaḥ ca iti . atha pidgrahaṇam kimartham . iha mā bhūt . jāgrati. na etat asti prayojanam . bhavati eva atra pūrveṇa . idam tarhi prayojanam daridrati . ākāreṇa vyavahitatvāt na bhaviṣyati . lope kṛte na asti vyavadhānam . sthānivadbhāvād vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ svarasandhim prati na sthānivat iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११५।४-२१ रो इव्।५२५-५२६ यकि रपरे उपसङ्ख्यानम् । यकि रपरे उपसङ्ख्यानम्कर्तव्यम् । स्तीर्यते स्वयम् एव । उपदेशवचनात् सिद्धम् । उपदेशे इति वक्तव्यम् । उपदेशवचने जनादीनाम् । उपदेशवचने जनादीनाम् स्वरः न सिध्यति । जयते स्वयम् एव । जायते स्वयम् एव । योगविभागात् सिद्धम् । योगविभागः करिष्यते । अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति । चीयते स्वयम् एव । चियते स्वयम् एव । जयते स्वयम् एव । जायते स्वयम् एव । ततः उपदेशे । उपदेशे च अजन्तानाम् कर्तृयकि वा आदिः उदात्तः भवति । स्तीर्यते स्वयम् एव । स्तीर्यते स्वयम् एव । तत् तर्हि उपदेशग्रहणम् कर्तव्यम् । न हि अन्तरेण उपदेशग्रहणम् योगाङ्गम् जायते । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । तास्यनुदात्तेन्ङिददुपदेशात् लसार्वधातुकम् अनुदात्तम् अह्न्विङोः इति । ननु च उक्तम् उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति । न एषः दोषः । न एवम् विज्ञायते उपदेशवचने जनादीनाम् स्वरः न सिध्यति इति । कथम् तर्हि । जनादीनाम् अपि आत्त्वे उपदेशवचनम् कर्तव्यम् । तत् तर्हि तत्र उपदेशग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । अनुदात्तोपदेशवनतितनोत्यादीनाम् अनुनासिकलोपः झलि क्ङिति इति ।

KA III.115.4-21 Ro IV.525-526 yaki rapare upasaṅkhyānam . yaki rapare upasaṅkhyānamkartavyam . stīryate svayam eva . upadeśavacanāt siddham . upadeśe iti vaktavyam . upadeśavacane janādīnām . upadeśavacane janādīnām svaraḥ na sidhyati . jayate svayam eva . jāyate svayam eva . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . ajantānām kartṛyaki vā ādiḥ udāttaḥ bhavati . cīyate svayam eva . ciyate svayam eva . jayate svayam eva . jāyate svayam eva . tataḥ upadeśe . upadeśe ca ajantānām kartṛyaki vā ādiḥ udāttaḥ bhavati . stīryate svayam eva . stīryate svayam eva . tat tarhi upadeśagrahaṇam kartavyam . na hi antareṇa upadeśagrahaṇam yogāṅgam jāyate . na kartavyam . prakṛtam anuvartate . kva prakṛtam . tāsyanudāttenṅidadupadeśāt lasārvadhātukam anudāttam ahnviṅoḥ iti . nanu ca uktam upadeśavacane janādīnām svaraḥ na sidhyati iti . na eṣaḥ doṣaḥ . na evam vijñāyate upadeśavacane janādīnām svaraḥ na sidhyati iti . katham tarhi . janādīnām api āttve upadeśavacanam kartavyam . tat tarhi tatra upadeśagrahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . anudāttopadeśavanatitanotyādīnām anunāsikalopaḥ jhali kṅiti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११५।२३-११६।१ रो इव्।५२६ सेड्ग्रहणम् किमर्थम् न थलि इट् अन्तः वा इति उच्येत । इट् अन्तः वा इति उच्यमाने इह अपि प्रसज्येत पपक्थ । न एतत् अस्ति प्रयोजनम् । अचः इति वर्तते । इदम् तर्हि प्रयोजनम् ययाथ इति ।

KA III.115.23-116.1 Ro IV.526 seḍgrahaṇam kimartham na thali iṭ antaḥ vā iti ucyeta . iṭ antaḥ vā iti ucyamāne iha api prasajyeta papaktha . na etat asti prayojanam . acaḥ iti vartate . idam tarhi prayojanam yayātha iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११६।३-२१ रो इव्।५२७-५२८ किमर्थम् इदम् उच्यते न ञ्निति आदिः नित्यम् इति एव सिद्धम् । ञ्निति इति उच्यते न च अत्र ञ्नितम् पश्यामः । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणप्रतिषेधः । अङ्गाधिकारोक्तस्य सः प्रतिषेधः न लुमता अङ्गस्य इति । अतः उत्तरम् पठति उपमानस्य आद्युदात्तवचनम् ज्ञापकम् अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणप्रतिषेधस्य । उपमानस्य आद्युदात्तवचनम् ज्ञापकार्थम् क्रियते । किम् ज्ञाप्यते । एतत् ज्ञापयति आचार्यः अनुबन्धलक्षणे स्वरे प्रत्ययलक्षणम् न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । गर्गः , वत्सः , बिदः , उर्वाः , उष्ट्रग्रीवः , वामरज्जुः : ञ्निति इति आद्युदात्तत्वम् मा भूत् इति । इह च : अत्रयः इति : तद्धितस्य कितः इति अन्तोदात्तत्वम् न भवति । यदि अनुबन्धलक्षणे इति उच्यते पथिप्रियः , मथिप्रियः इति : पथिमथोः सर्वनामस्थाने इति आद्युदात्तत्वम् प्राप्नोति । एवम् तर्हि आचार्यः ज्ञापयति स्वरे प्रत्ययलक्षणम् न भवति इति । एवम् अपि सर्पिः आगच्छ , सप्त आगच्छत इति : आमन्त्रितस्य च इति आद्युदात्तत्वम् न प्राप्नोति । इह च : म हि दताम् , म हि धताम् : आदिः सिचः अन्यतरस्याम् इति एषः स्वरः न प्राप्नोति । एवम् तर्हि ज्ञापयति आचार्यः सप्तमीनिर्दिष्टे स्वरे प्रत्ययलक्षणम् न भवति इति । एवम् अपि सर्वस्तोमः , सर्वपृष्ठः : सर्वस्य सुपि इति आद्युदात्तत्वम् न प्राप्नोति । अस्तु तर्हि अनुबन्धलक्षणे इति एव । कथम् पथिप्रियः , मथिप्रियः । वक्तव्यम् एव एतत् : पथिमथोः सर्वनामस्थाने लुकि लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति ।

KA III.116.3-21 Ro IV.527-528 kimartham idam ucyate na ñniti ādiḥ nityam iti eva siddham . ñniti iti ucyate na ca atra ñnitam paśyāmaḥ . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇapratiṣedhaḥ . aṅgādhikāroktasya saḥ pratiṣedhaḥ na lumatā aṅgasya iti . ataḥ uttaram paṭhati upamānasya ādyudāttavacanam jñāpakam anubandhalakṣaṇe svare pratyayalakṣaṇapratiṣedhasya . upamānasya ādyudāttavacanam jñāpakārtham kriyate . kim jñāpyate . etat jñāpayati ācāryaḥ anubandhalakṣaṇe svare pratyayalakṣaṇam na bhavati iti . kim etasya jñāpane prayojanam . gargaḥ , vatsaḥ , bidaḥ , urvāḥ , uṣṭragrīvaḥ , vāmarajjuḥ : ñniti iti ādyudāttatvam mā bhūt iti . iha ca : atrayaḥ iti : taddhitasya kitaḥ iti antodāttatvam na bhavati . yadi anubandhalakṣaṇe iti ucyate pathipriyaḥ , mathipriyaḥ iti : pathimathoḥ sarvanāmasthāne iti ādyudāttatvam prāpnoti . evam tarhi ācāryaḥ jñāpayati svare pratyayalakṣaṇam na bhavati iti . evam api sarpiḥ āgaccha , sapta āgacchata iti : āmantritasya ca iti ādyudāttatvam na prāpnoti . iha ca : ma hi datām , ma hi dhatām : ādiḥ sicaḥ anyatarasyām iti eṣaḥ svaraḥ na prāpnoti . evam tarhi jñāpayati ācāryaḥ saptamīnirdiṣṭe svare pratyayalakṣaṇam na bhavati iti . evam api sarvastomaḥ , sarvapṛṣṭhaḥ : sarvasya supi iti ādyudāttatvam na prāpnoti . astu tarhi anubandhalakṣaṇe iti eva . katham pathipriyaḥ , mathipriyaḥ . vaktavyam eva etat : pathimathoḥ sarvanāmasthāne luki lumatā lupte pratyayalakṣaṇam na bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११६।२३-११७।१२ रो इव्।५२९-५३० निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः । निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः वक्तव्यः । दत्ताभ्याम् , गुप्ताभ्याम् । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् । किम् कारणम् । बहिरङ्गलक्षणत्वात् । बहिरङ्गः अत्र दीर्घः , अन्तरङ्गः स्वरः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अन्तरेण प्रतिषेधम् अन्तरेण च एताम् परिभाषाम् सिद्धम् । कथम् । न एवम् विज्ञायते न चेत् आकारान्ता निष्ठा इति । कथम् तर्हि । न चेत् आकारात् परा निष्ठा इति । यदि एवम् निर्देशः च एव न उपपद्यते । न हि एषा आकारात् परा पञ्चमी युक्ता । इह च प्राप्नोति । आप्तः , राद्धः इति । एवम् तर्हि न चेत् अवर्णात् परा निष्ठा इति । भवेत् निर्देशः उपपन्नः । इह तु प्राप्नोति । आप्तः , राद्धः इति । इह च न प्राप्नोति । यतः , रतः । एवम् तर्हि विहितविशेषणम् अकारग्रहणम् । न चेत् अकारारान्तात् विहिता निष्ठा इति । एवम् अपि दत्तः , अत्र न प्राप्नोति इह च प्राप्नोति । आप्तः , राद्धः इति । एवम् तर्हि कार्यिविशेषणम् अकारग्रहणम् । न चेत् आकारारः कार्यी भवति । एवम् अपि अद्य अष्टः , कदा अष्टः , अत्र न प्राप्नोति । तस्मात् सुष्ठु उच्यते निष्ठायाम् यञि दीर्घत्वे प्रतिषेधः , न वा बहिरङ्गलक्षणत्वात् इति ।

KA III.116.23-117.12 Ro IV.529-530 niṣṭhāyām yañi dīrghatve pratiṣedhaḥ . niṣṭhāyām yañi dīrghatve pratiṣedhaḥ vaktavyaḥ . dattābhyām , guptābhyām . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahiraṅgalakṣaṇatvāt . bahiraṅgaḥ atra dīrghaḥ , antaraṅgaḥ svaraḥ . asiddham bahiraṅgam antaraṅge . antareṇa pratiṣedham antareṇa ca etām paribhāṣām siddham . katham . na evam vijñāyate na cet ākārāntā niṣṭhā iti . katham tarhi . na cet ākārāt parā niṣṭhā iti . yadi evam nirdeśaḥ ca eva na upapadyate . na hi eṣā ākārāt parā pañcamī yuktā . iha ca prāpnoti . āptaḥ , rāddhaḥ iti . evam tarhi na cet avarṇāt parā niṣṭhā iti . bhavet nirdeśaḥ upapannaḥ . iha tu prāpnoti . āptaḥ , rāddhaḥ iti . iha ca na prāpnoti . yataḥ , rataḥ . evam tarhi vihitaviśeṣaṇam akāragrahaṇam . na cet akārārāntāt vihitā niṣṭhā iti . evam api dattaḥ , atra na prāpnoti iha ca prāpnoti . āptaḥ , rāddhaḥ iti . evam tarhi kāryiviśeṣaṇam akāragrahaṇam . na cet ākārāraḥ kāryī bhavati . evam api adya aṣṭaḥ , kadā aṣṭaḥ , atra na prāpnoti . tasmāt suṣṭhu ucyate niṣṭhāyām yañi dīrghatve pratiṣedhaḥ , na vā bahiraṅgalakṣaṇatvāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११७।१४-१९ रो इव्।५३० किम् निपात्यते । आशिते कर्तरि निपातनम् उपधादीर्हत्वम् आद्युदात्तत्वम् च । आशितः इति क्तः कर्तरि निपात्यते उपधादीर्हत्वम् । आशितवान् आशितः । आद्युदात्तत्वम् च निपात्यते । आद्युदात्तत्वम् अनिपात्यम् । अधिकारात् सिद्धम् । उपधादीर्हत्वम् अनिपात्यम् । आङ्पूर्वस्य प्रयोगः । यदि एवम् अवग्रहः प्राप्नोति । न लक्षणेन पदकाराः अनुवर्त्याः । पद्कारैः नाम लक्षणम् अनुवर्त्यम् । यथालक्षणम् पदम् कर्तव्यम् ।

KA III.117.14-19 Ro IV.530 kim nipātyate . āśite kartari nipātanam upadhādīrhatvam ādyudāttatvam ca . āśitaḥ iti ktaḥ kartari nipātyate upadhādīrhatvam . āśitavān āśitaḥ . ādyudāttatvam ca nipātyate . ādyudāttatvam anipātyam . adhikārāt siddham . upadhādīrhatvam anipātyam . āṅpūrvasya prayogaḥ . yadi evam avagrahaḥ prāpnoti . na lakṣaṇena padakārāḥ anuvartyāḥ . padkāraiḥ nāma lakṣaṇam anuvartyam . yathālakṣaṇam padam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११८।५-८ रो इव्। ५३१ उपोत्तमग्रहणम् किमर्थन् न रिति पूर्वम् इति एव उच्येत । तत्र अयम् अपि अर्थः । मतोः पूर्वम् आत् सञ्ज्ञायाम् स्त्रियाम् इति अत्र पूर्वग्रहणम् न कर्तव्यम् भवति । एवम् तर्हि उपोत्तमग्रहणम् उत्तरार्थम् । चङि अन्यतरस्याम् उपोत्तमम् इति एव । इह मा भूत् । मा हि स्म दधत् ।

KA III.118.5-8 Ro IV. 531 upottamagrahaṇam kimarthan na riti pūrvam iti eva ucyeta . tatra ayam api arthaḥ . matoḥ pūrvam āt sañjñāyām striyām iti atra pūrvagrahaṇam na kartavyam bhavati . evam tarhi upottamagrahaṇam uttarārtham . caṅi anyatarasyām upottamam iti eva . iha mā bhūt . mā hi sma dadhat .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११८।११-१५ रो इव्।५३२ किमर्थम् इदम् उच्यते न वत्याः इति एव उच्यते । वत्याः इति इयति उच्यमाने राजवती , अत्र अपि प्रसज्येत । अथ अवत्याः इति उच्यमाने कस्मात् एव अत्र न भवति । असिद्धः नलोपः । तस्य असिद्धत्वात् न एषः अवतीशब्दः । कः तर्हि । अन्वतीशब्दः । यथा एव तर्हि नलोपस्य असिद्धत्वात् न अवतीशब्दः एवम् वत्वस्य अपि असिद्धत्वात् न अवतीशब्दः । आश्रयात् सिद्धत्वम् स्यात् ।

KA III.118.11-15 Ro IV.532 kimartham idam ucyate na vatyāḥ iti eva ucyate . vatyāḥ iti iyati ucyamāne rājavatī , atra api prasajyeta . atha avatyāḥ iti ucyamāne kasmāt eva atra na bhavati . asiddhaḥ nalopaḥ . tasya asiddhatvāt na eṣaḥ avatīśabdaḥ . kaḥ tarhi . anvatīśabdaḥ . yathā eva tarhi nalopasya asiddhatvāt na avatīśabdaḥ evam vatvasya api asiddhatvāt na avatīśabdaḥ . āśrayāt siddhatvam syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११८।१७-११९।१४ रो इव्।५३२-५३४ चोः अतद्धिते । चुस्वरः अतद्धिते इति वक्तव्यम् । इह मा भूत् । दाधीचः , माधूचः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । प्रत्ययस्वरः अत्र बाधकः भविष्यति । स्थानान्तरप्राप्तः चुस्वरः । प्रत्ययस्वरस्य अपवादः अनुदात्तौ सुप्पितौ इति । अनुदात्तौ सुप्पितौ इति अस्य उदात्तनिवृत्तिस्वरः । उदात्तनिवृत्तिस्वरस्य चुस्वरः । सः यथा एव उदात्तनिवृत्तिस्वरम् बाधते एवम् प्रत्ययस्वरम् अपि बाधेत । न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति । किम् कारणम् । न गोश्वन्साववर्ण इति प्रतिषेधात् । न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि । तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरः न अस्ति दधीचः पश्य इति । एवम् तर्हि न तृतीयादिलक्षणस्य प्रतिषेधम् षिष्मः । किम् तर्हि । येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधम् । यदि विभक्तिस्वरस्य प्रतिषेधः वृक्षवान् , प्लक्षवान् अत्र न प्राप्नोति । मतुब्ग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । ह्रस्वनुड्भ्याम् मतुप् इति । यदि तत् अनुवर्तते वेतस्वान् इति अत्र प्राप्नोति । मतुब्ग्रहणम् अनुवर्तते ड्मतुप् च एषः । यदि तरि मतुब्ग्रहणे ड्मतुपः ग्रहणम् न भवति वेतस्वान् इति अत्र वत्वम् न प्राप्नोति । सामान्यग्रहणम् वत्वे इह पुनः विशिष्टस्य ग्रहणम् । यत्र तर्हि विभक्तिः न अस्ति दधीची इति । यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत । न एवम् शक्यम् । इह अपि प्रसज्येत कुमारी इति । सतिशिष्टः खलु अपि चुस्वरः । कथम् । चौ इति उच्यते । यत्र अस्य एतत् रूपम् । अजादौ असर्वनामस्थाने अभिनिर्वृत्ते अकारलोपे नकारलोपे च । तस्मात् सुष्थु उच्यते चोः अतद्धिते इति ।

KA III.118.17-119.14 Ro IV.532-534 coḥ ataddhite . cusvaraḥ ataddhite iti vaktavyam . iha mā bhūt . dādhīcaḥ , mādhūcaḥ iti . tat tarhi vaktavyam . na vaktavyam . pratyayasvaraḥ atra bādhakaḥ bhaviṣyati . sthānāntaraprāptaḥ cusvaraḥ . pratyayasvarasya apavādaḥ anudāttau suppitau iti . anudāttau suppitau iti asya udāttanivṛttisvaraḥ . udāttanivṛttisvarasya cusvaraḥ . saḥ yathā eva udāttanivṛttisvaram bādhate evam pratyayasvaram api bādheta . na atra udāttanivṛttisvaraḥ prāpnoti . kim kāraṇam . na gośvansāvavarṇa iti pratiṣedhāt . na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ . kasya tarhi . tṛtīyādisvarasya . yatra tarhi tṛtīyādisvaraḥ na asti dadhīcaḥ paśya iti . evam tarhi na tṛtīyādilakṣaṇasya pratiṣedham ṣiṣmaḥ . kim tarhi . yena kena cit lakṣaṇena prāptasya vibhaktisvarasya pratiṣedham . yadi vibhaktisvarasya pratiṣedhaḥ vṛkṣavān , plakṣavān atra na prāpnoti . matubgrahaṇam api prakṛtam anuvartate . kva prakṛtam . hrasvanuḍbhyām matup iti . yadi tat anuvartate vetasvān iti atra prāpnoti . matubgrahaṇam anuvartate ḍmatup ca eṣaḥ . yadi tari matubgrahaṇe ḍmatupaḥ grahaṇam na bhavati vetasvān iti atra vatvam na prāpnoti . sāmānyagrahaṇam vatve iha punaḥ viśiṣṭasya grahaṇam . yatra tarhi vibhaktiḥ na asti dadhīcī iti . yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta . na evam śakyam . iha api prasajyeta kumārī iti . satiśiṣṭaḥ khalu api cusvaraḥ . katham . cau iti ucyate . yatra asya etat rūpam . ajādau asarvanāmasthāne abhinirvṛtte akāralope nakāralope ca . tasmāt suṣthu ucyate coḥ ataddhite iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।११९।१६-१२०।२४ रो इव्।५३४-५३७ समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम् । समासान्तोदात्तत्वे व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् : राजदृषत्, ब्राह्मणसमित् । हल्स्वरप्राप्तौ वा व्यञ्जनम् अविद्यमानवत् । अथ वा हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या । किमर्थम् इदम् उभयम् उच्यते न हल्स्वरप्राप्तौ अविद्यमानवत् इति एव उच्यते स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति वा । द्विर्बद्धम् सुबद्धम् भवति इति । यदि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् इति उच्यते दधि , उदात्तात् अनुदात्तस्य स्वरितः इति स्वरितत्वम् न प्राप्नोति । उदात्तात् च स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । प्रयोजनम् लिदाद्युदात्तान्तोदात्त्विधयः । लिति प्रत्ययात् पूर्वम् उदात्तम् भवति इति इह एव स्यात् : भौरिकिविधम् , भौलिकिविधम् । चिकीर्षकः , जिहीर्षकः इति अत्र न स्यात् । ञ्निति आदिः नित्यम् इति इह एव स्यात् : अहिचुम्बुकायनिः , आग्निवेश्यः । गार्ग्यः , कृतिः इति अत्र न स्यात् । धातोः अन्तः उदात्तः भवति इति इह एव स्यात् ऊर्णोति । पचति इति अत्र न स्यात् । इदम् तावत् यत् उच्यते हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति कथम् हि हलः नाम स्वरप्राप्तिः स्यात् । तत् च अपि ब्रुवता उदात्तात् च स्वरविधौ इति वक्तव्यम् । तथा अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति । यदि पुनः स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्येत । अथ स्वरविधौ व्यञ्जनम् अविद्यमानवत् भवति इति उच्यमाने अनुदात्तादेः अन्तोदात्तात् च यत् उच्यते तत् किम् सिद्धम् भवति व्यञ्जनादेः व्यञ्जनान्तात् च । बाढम् सिद्धम् । कथम् । स्वरविधिः इति सर्वविभक्त्यन्तः समासः : स्वरेण विधिः स्वरविधिः , स्वरस्य विधिः स्वरविधिः इति । न एवम् शक्यम् । इह हि दोषः स्यात् । उदश्वित्वान् घोषः , विद्युत्वान् बलाहकः इति । ह्रस्वनुड्भ्याम् मतुप् इति एषः स्वरः प्रसज्येत । अस्तु तर्हि हल्स्वरप्राप्तौ व्यञ्जनम् अविद्यमानवत् भवति इति । ननु च उक्तम् कथम् हि हलः नाम स्वरप्राप्तिः स्यात् । उच्चैः उदात्तः , नीचैः अनुदात्तः इति अत्र षष्ठीनिर्दिष्टम् अज्ग्रहणम् निवृत्तम् । तस्मिन् निवृत्ते हलः अपि स्वरप्राप्तिः भवति । यत् अपि उच्यते उदात्तात् च स्वरविधौ इति वक्तव्यम् इति । न वक्तव्यम् । न इदम् पारिभाषिकस्य अनुदात्तस्य ग्रहणम् । किम् तर्हि । अन्वर्थग्रहणम् । अविद्यमानोदात्तम् अनुदात्तम् । तस्य स्वरितः इति । यत् अपि उच्यते तत् व्यञ्जनादेः व्यञ्जनान्तात् च न प्राप्नोति इति । आचार्यप्रवृत्तिः ज्ञापयति सिद्धम् तत् भवति व्यञ्जनादेः व्यञ्जनान्तात् च इति यत् अयम् न उत्तरपदे अनुदात्तादौ इति उक्त्वा अपृथिवीरुद्रल्क्पूषमन्थिषु इति प्रतिषेधम् शास्ति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा यत् अयम् यतः अनावः इति नावः प्रतिषेधम् शास्ति ।

KA III.119.16-120.24 Ro IV.534-537 samāsāntodāttatve vyañjanānteṣu upasaṅkhyānam . samāsāntodāttatve vyañjanānteṣu upasaṅkhyānam kartavyam : rājadṛṣat, brāhmaṇasamit . halsvaraprāptau vā vyañjanam avidyamānavat . atha vā halsvaraprāptau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā . kimartham idam ubhayam ucyate na halsvaraprāptau avidyamānavat iti eva ucyate svaraprāptau vyañjanam avidyamānavat bhavati iti vā . dvirbaddham subaddham bhavati iti . yadi halsvaraprāptau vyañjanam avidyamānavat iti ucyate dadhi , udāttāt anudāttasya svaritaḥ iti svaritatvam na prāpnoti . udāttāt ca svaravidhau vyañjanam avidyamānavat bhavati iti eṣā paribhāṣā kartavyā . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam lidādyudāttāntodāttvidhayaḥ . liti pratyayāt pūrvam udāttam bhavati iti iha eva syāt : bhaurikividham , bhaulikividham . cikīrṣakaḥ , jihīrṣakaḥ iti atra na syāt . ñniti ādiḥ nityam iti iha eva syāt : ahicumbukāyaniḥ , āgniveśyaḥ . gārgyaḥ , kṛtiḥ iti atra na syāt . dhātoḥ antaḥ udāttaḥ bhavati iti iha eva syāt ūrṇoti . pacati iti atra na syāt . idam tāvat yat ucyate halsvaraprāptau vyañjanam avidyamānavat bhavati iti katham hi halaḥ nāma svaraprāptiḥ syāt . tat ca api bruvatā udāttāt ca svaravidhau iti vaktavyam . tathā anudāttādeḥ antodāttāt ca yat ucyate tat vyañjanādeḥ vyañjanāntāt ca na prāpnoti . yadi punaḥ svaravidhau vyañjanam avidyamānavat bhavati iti ucyeta . atha svaravidhau vyañjanam avidyamānavat bhavati iti ucyamāne anudāttādeḥ antodāttāt ca yat ucyate tat kim siddham bhavati vyañjanādeḥ vyañjanāntāt ca . bāḍham siddham . katham . svaravidhiḥ iti sarvavibhaktyantaḥ samāsaḥ : svareṇa vidhiḥ svaravidhiḥ , svarasya vidhiḥ svaravidhiḥ iti . na evam śakyam . iha hi doṣaḥ syāt . udaśvitvān ghoṣaḥ , vidyutvān balāhakaḥ iti . hrasvanuḍbhyām matup iti eṣaḥ svaraḥ prasajyeta . astu tarhi halsvaraprāptau vyañjanam avidyamānavat bhavati iti . nanu ca uktam katham hi halaḥ nāma svaraprāptiḥ syāt . uccaiḥ udāttaḥ , nīcaiḥ anudāttaḥ iti atra ṣaṣṭhīnirdiṣṭam ajgrahaṇam nivṛttam . tasmin nivṛtte halaḥ api svaraprāptiḥ bhavati . yat api ucyate udāttāt ca svaravidhau iti vaktavyam iti . na vaktavyam . na idam pāribhāṣikasya anudāttasya grahaṇam . kim tarhi . anvarthagrahaṇam . avidyamānodāttam anudāttam . tasya svaritaḥ iti . yat api ucyate tat vyañjanādeḥ vyañjanāntāt ca na prāpnoti iti . ācāryapravṛttiḥ jñāpayati siddham tat bhavati vyañjanādeḥ vyañjanāntāt ca iti yat ayam na uttarapade anudāttādau iti uktvā apṛthivīrudralkpūṣamanthiṣu iti pratiṣedham śāsti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā yat ayam yataḥ anāvaḥ iti nāvaḥ pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.