Library·Taittirīya Saṃhitā (Kṛṣṇa Yajurveda; unaccented text)·7

Taittirīya Saṃhitā (Kṛṣṇa Yajurveda; unaccented text) 7

प्रजननं ज्योतिर् अग्निर् देवतानां ज्योतिर् विराट् छन्दसां ज्योतिः । विराड् वाचो ऽग्नौ सं तिष्ठते विराजम् अभि सम् पद्यते तस्मात् तज् ज्योतिर् उच्यते द्वौ स्तोमौ प्रातःसवनं वहतो यथा प्राणश् चापानश् च द्वौ माध्यंदिनꣳ सवनं यथा चक्षुश् च श्रोत्रं च द्वौ तृतीयसवनं यथा वाक् च प्रतिष्ठा च पुरुषसम्मितो वा एष यज्ञो ऽस्थूरिः । यं कामं कामयते तम् एतेनाभ्य् अश्नुते सर्वꣳ ह्य् अस्थुरिणाभ्यश्नुते । अग्निष्टोमेन वै प्रजापतिः प्रजा असृजत ता अग्निष्टोमेनैव पर्य् अगृह्णात् तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत तस्यानुहाय रेत आदत्त तद् गर्दभे न्यमार्ट् तासाम् परिगृहीतानाम् अश्वतरो ऽत्यप्रवत तस्यानुहाय रेत आदत्त तद् गर्दभे न्यमार्ट् तस्माद् गर्दभो द्विरेताः । अथो आहुः । वडबायां न्य् अमार्ड् इति तस्माद् वडबा द्विरेताः । अथो आहुः । ओषधीषु न्य् अमार्ड् इति तस्माद् ओषधयो ऽनभ्यक्ता रेभन्ति । अथो आहुः प्रजासु न्य् अमार्ड् इति तस्माद् यमौ जायेते तस्माद् अश्वतरो न प्र जायत आत्तरेता हि तस्माद् बर्हिष्य् अनवक्लृप्तः सर्ववेदसे वा सहस्रे वावक्लृप्तः । अति ह्य् अप्रवत य एवं विद्वान् अग्निष्टोमेन यजते प्राजाताः प्रजा जनयति परि प्रजाता गृह्णाति तस्माद् आहुः । ज्येष्ठयज्ञ इति ॥ प्रजापतिर् वाव ज्येष्ठः स ह्य् एतेनाग्रे ऽयजत प्रजापतिर् अकामयत प्र जायेयेति स मुखतस् त्रिवृतं निर् अमिमीत तम् अग्निर् देवतान्व् असृज्यत गायत्री छन्दो रथंतरꣳ साम ब्राह्मणो मनुष्याणाम् अजः पशूनाम् । तस्मात् ते मुख्याः । मुखतो ह्य् असृज्यन्त । उरसो बाहुभ्याम् पञ्चदशं निर् अमिमीत तम् इन्द्रो देवतान्व् असृज्यत त्रिष्टुप् छन्दो बृहत् साम राजन्यो मनुष्याणाम् अविः पशूनाम् । तस्मात् ते वीर्यावन्तः । वीर्याद् ध्य् असृज्यन्त मध्यतः सप्तदशं निर् अमिमीत तं विश्वे देवा देवता अन्व् असृज्यन्त जगती छन्दो वैरूपꣳ साम वैश्यो मनुष्याणां गावः पशूनाम् । तस्मात् त आद्याः । अन्नधानाद् ध्य् असृज्यन्त तस्माद् भूयाꣳसो ऽन्येभ्यः । भूयिष्ठा हि देवता अन्व् असृज्यन्त पत्त एकविꣳशं निर् अमिमीत तम् अनुष्टुप् छन्दः अन्व् असृज्यत वैराजꣳ साम शूद्रो मनुष्याणाम् अश्वः पशूनाम् । तस्मात् तौ भूतसंक्रामिणाव् अश्वश् च शूद्रश् च तस्माच् छूद्रो यज्ञे ऽनवक्लृप्तः । न हि देवता अन्व् असृज्यत तस्मात् पादाव् उप जीवतः पत्तो ह्य् असृज्येताम् प्राणा वै त्रिवृत् । अर्धमासाः पञ्चदशः प्रजापतिः सप्तदशस् त्रय इमे लोकाः । असाव् आदित्य एकविꣳशः । एतस्मिन् वा एते श्रिता एतस्मिन् प्रतिष्ठिताः । य एवं वेदैतस्मिन्न् एव श्रयत एतस्मिन् प्रति तिष्ठति ॥

prajananaṃ jyotir agnir devatānāṃ jyotir virāṭ chandasāṃ jyotiḥ | virāḍ vāco 'gnau saṃ tiṣṭhate virājam abhi sam padyate tasmāt taj jyotir ucyate dvau stomau prātaḥsavanaṃ vahato yathā prāṇaś cāpānaś ca dvau mādhyaṃdinam̐ savanaṃ yathā cakṣuś ca śrotraṃ ca dvau tṛtīyasavanaṃ yathā vāk ca pratiṣṭhā ca puruṣasammito vā eṣa yajño 'sthūriḥ | yaṃ kāmaṃ kāmayate tam etenābhy aśnute sarvam̐ hy asthuriṇābhyaśnute | agniṣṭomena vai prajāpatiḥ prajā asṛjata tā agniṣṭomenaiva pary agṛhṇāt tāsām parigṛhītānām aśvataro 'tyapravata tasyānuhāya reta ādatta tad gardabhe nyamārṭ tāsām parigṛhītānām aśvataro 'tyapravata tasyānuhāya reta ādatta tad gardabhe nyamārṭ tasmād gardabho dviretāḥ | atho āhuḥ | vaḍabāyāṃ ny amārḍ iti tasmād vaḍabā dviretāḥ | atho āhuḥ | oṣadhīṣu ny amārḍ iti tasmād oṣadhayo 'nabhyaktā rebhanti | atho āhuḥ prajāsu ny amārḍ iti tasmād yamau jāyete tasmād aśvataro na pra jāyata āttaretā hi tasmād barhiṣy anavaklṛptaḥ sarvavedase vā sahasre vāvaklṛptaḥ | ati hy apravata ya evaṃ vidvān agniṣṭomena yajate prājātāḥ prajā janayati pari prajātā gṛhṇāti tasmād āhuḥ | jyeṣṭhayajña iti || prajāpatir vāva jyeṣṭhaḥ sa hy etenāgre 'yajata prajāpatir akāmayata pra jāyeyeti sa mukhatas trivṛtaṃ nir amimīta tam agnir devatānv asṛjyata gāyatrī chando rathaṃtaram̐ sāma brāhmaṇo manuṣyāṇām ajaḥ paśūnām | tasmāt te mukhyāḥ | mukhato hy asṛjyanta | uraso bāhubhyām pañcadaśaṃ nir amimīta tam indro devatānv asṛjyata triṣṭup chando bṛhat sāma rājanyo manuṣyāṇām aviḥ paśūnām | tasmāt te vīryāvantaḥ | vīryād dhy asṛjyanta madhyataḥ saptadaśaṃ nir amimīta taṃ viśve devā devatā anv asṛjyanta jagatī chando vairūpam̐ sāma vaiśyo manuṣyāṇāṃ gāvaḥ paśūnām | tasmāt ta ādyāḥ | annadhānād dhy asṛjyanta tasmād bhūyām̐so 'nyebhyaḥ | bhūyiṣṭhā hi devatā anv asṛjyanta patta ekavim̐śaṃ nir amimīta tam anuṣṭup chandaḥ anv asṛjyata vairājam̐ sāma śūdro manuṣyāṇām aśvaḥ paśūnām | tasmāt tau bhūtasaṃkrāmiṇāv aśvaś ca śūdraś ca tasmāc chūdro yajñe 'navaklṛptaḥ | na hi devatā anv asṛjyata tasmāt pādāv upa jīvataḥ patto hy asṛjyetām prāṇā vai trivṛt | ardhamāsāḥ pañcadaśaḥ prajāpatiḥ saptadaśas traya ime lokāḥ | asāv āditya ekavim̐śaḥ | etasmin vā ete śritā etasmin pratiṣṭhitāḥ | ya evaṃ vedaitasminn eva śrayata etasmin prati tiṣṭhati ||

Sanskrit only: no published translation is held for this verse.

प्रातःसवने वै गायत्रेण छन्दसा त्रिवृते स्तोमाय ज्योतिर् दधद् एति त्रिवृता ब्रह्मवर्चसेन पञ्चदशाय ज्योतिर् दधद् एति पञ्चदशेनौजसा वीर्येण सप्तदशाय ज्योतिर् दधद् एति सप्तदशेन प्राजापत्येन प्रजननेनैकविꣳशाय ज्योतिर् दधद् एति स्तोम एव तत् स्तोमाय ज्योतिर् दधद् एति । अथो स्तोम एव स्तोमम् अभि प्र णयति यावन्तो वै स्तोमास् तावन्तः कामास् तावन्तो लोकास् तावन्ति ज्योतीꣳषि । एतावत एव स्तोमान् एतावतः कामान् एतावतो लोकान् एतावन्ति ज्योतीꣳष्य् अव रुन्द्धे ॥

prātaḥsavane vai gāyatreṇa chandasā trivṛte stomāya jyotir dadhad eti trivṛtā brahmavarcasena pañcadaśāya jyotir dadhad eti pañcadaśenaujasā vīryeṇa saptadaśāya jyotir dadhad eti saptadaśena prājāpatyena prajananenaikavim̐śāya jyotir dadhad eti stoma eva tat stomāya jyotir dadhad eti | atho stoma eva stomam abhi pra ṇayati yāvanto vai stomās tāvantaḥ kāmās tāvanto lokās tāvanti jyotīm̐ṣi | etāvata eva stomān etāvataḥ kāmān etāvato lokān etāvanti jyotīm̐ṣy ava runddhe ||

Sanskrit only: no published translation is held for this verse.

ब्रह्मवादिनो वदन्ति स त्वै यजेत यो ऽग्निष्टोमेन यजमानो ऽथ सर्वस्तोमेन यजेतेति यस्य त्रिवृतम् अन्तर्यन्ति प्राणाꣳस् तस्यान्तर्यन्ति प्राणेषु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्य पञ्चदशम् अन्तर्यन्ति वीर्यं तस्यान्तर् यन्ति वीर्ये मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्य सप्तदशम् अन्तर्यन्ति प्रजां तस्यान्तर् यन्ति प्रजायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्यैकविꣳशम् अन्तर्यन्ति प्रतिष्ठां तस्यान्तर् यन्ति प्रतिष्ठायाम् मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यस्य त्रिणवम् अन्तर्यन्त्य् ऋतूꣳश् च तस्य नक्षत्रियां च विराजम् अन्तर् यन्ति । ऋतुषु मे ऽप्य् असन् नक्षत्रियायां च विराजीति खलु वै यज्ञेन यजमानो यजते यस्य त्रयस्त्रिꣳशम् अन्तर्यन्ति देवतास् तस्यान्तर् यन्ति देवतासु मे ऽप्य् असद् इति खलु वै यज्ञेन यजमानो यजते यो वै स्तोमानाम् अवमम् परमतां गच्छन्तं वेद परमताम् एव गच्छति त्रिवृद् वै स्तोमानाम् अवमस् त्रिवृत् परमस् य एवं वेद परमताम् एव गच्छति ॥

brahmavādino vadanti sa tvai yajeta yo 'gniṣṭomena yajamāno 'tha sarvastomena yajeteti yasya trivṛtam antaryanti prāṇām̐s tasyāntaryanti prāṇeṣu me 'py asad iti khalu vai yajñena yajamāno yajate yasya pañcadaśam antaryanti vīryaṃ tasyāntar yanti vīrye me 'py asad iti khalu vai yajñena yajamāno yajate yasya saptadaśam antaryanti prajāṃ tasyāntar yanti prajāyām me 'py asad iti khalu vai yajñena yajamāno yajate yasyaikavim̐śam antaryanti pratiṣṭhāṃ tasyāntar yanti pratiṣṭhāyām me 'py asad iti khalu vai yajñena yajamāno yajate yasya triṇavam antaryanty ṛtūm̐ś ca tasya nakṣatriyāṃ ca virājam antar yanti | ṛtuṣu me 'py asan nakṣatriyāyāṃ ca virājīti khalu vai yajñena yajamāno yajate yasya trayastrim̐śam antaryanti devatās tasyāntar yanti devatāsu me 'py asad iti khalu vai yajñena yajamāno yajate yo vai stomānām avamam paramatāṃ gacchantaṃ veda paramatām eva gacchati trivṛd vai stomānām avamas trivṛt paramas ya evaṃ veda paramatām eva gacchati ||

Sanskrit only: no published translation is held for this verse.

अङ्गिरसो वै सत्त्रम् आसत ते सुवर्गं लोकम् आयन् तेषाꣳ हविष्माꣳश् च हविष्कृच् चाहीयेताम् । ताव् अकामयेताम् । सुवर्गं लोकम् इयावेति ताव् एतं द्विरात्रम् अपश्यताम् । तम् आहरताम् । तेनायजेताम् । ततो वै तौ ऽसुवर्गं लोकम् ऐताम् । य एवं विद्वान् द्विरात्रेण यजते सुवर्गम् एव लोकम् एति ताव् ऐताम् पूर्वेणाह्नागच्छताम् उत्तरेण अभिप्लवः पूर्वम् अहर् भवति गतिर् उत्तरम् ज्योतिष्टोमो ऽग्निष्टोमः पूर्वम् अहर् भवति तेजस् तेनाव रुन्द्धे सर्वस्तोमो ऽतिरात्र उत्तरꣳ सर्वस्याप्त्यै सर्वस्यावरुद्ध्यै गायत्रम् पूर्वेऽहन्त् साम भवति तेजो वै गायत्री गायत्री ब्रह्मवर्चसम् । तेज एव ब्रह्मवर्चसम् आत्मन् धत्ते त्रैष्टुभम् उत्तरे । ओजो वै वीर्यं त्रिष्टुग् ओज एव वीर्यम् आत्मन् धत्ते रथंतरम् पूर्वे अहन्त् साम भवति । इयं वै रथंतरम् अस्याम् एव प्रति तिष्ठति बृहद् उत्तरे । असौ वै बृहत् । अमुष्याम् एव प्रति तिष्ठति तद् आहुः क्व जगती चानुष्टुप् चेति वैखानसम् पूर्वे ऽहन्त् साम भवति तेन जगत्यै नैति षोडश्य् उत्तरे तेनानुष्टुभः । अथाहुः । यत् समाने ऽर्धमासे स्याताम् अन्यतरस्याह्नो वीर्यम् अनु पद्येतेति । अमावास्यायाम् पूर्वम् अहर् भवत्य् उत्तरस्मिन्न् उत्तरम् । नानैवार्धमासयोर् भवतः । नानावीर्ये भवतः । हविष्मन्निधनम् पूर्वम् अहर् भवति हविष्कृन्निधनम् उत्तरम् प्रतिष्ठित्यै ॥

aṅgiraso vai sattram āsata te suvargaṃ lokam āyan teṣām̐ haviṣmām̐ś ca haviṣkṛc cāhīyetām | tāv akāmayetām | suvargaṃ lokam iyāveti tāv etaṃ dvirātram apaśyatām | tam āharatām | tenāyajetām | tato vai tau 'suvargaṃ lokam aitām | ya evaṃ vidvān dvirātreṇa yajate suvargam eva lokam eti tāv aitām pūrveṇāhnāgacchatām uttareṇa abhiplavaḥ pūrvam ahar bhavati gatir uttaram jyotiṣṭomo 'gniṣṭomaḥ pūrvam ahar bhavati tejas tenāva runddhe sarvastomo 'tirātra uttaram̐ sarvasyāptyai sarvasyāvaruddhyai gāyatram pūrve'hant sāma bhavati tejo vai gāyatrī gāyatrī brahmavarcasam | teja eva brahmavarcasam ātman dhatte traiṣṭubham uttare | ojo vai vīryaṃ triṣṭug oja eva vīryam ātman dhatte rathaṃtaram pūrve ahant sāma bhavati | iyaṃ vai rathaṃtaram asyām eva prati tiṣṭhati bṛhad uttare | asau vai bṛhat | amuṣyām eva prati tiṣṭhati tad āhuḥ kva jagatī cānuṣṭup ceti vaikhānasam pūrve 'hant sāma bhavati tena jagatyai naiti ṣoḍaśy uttare tenānuṣṭubhaḥ | athāhuḥ | yat samāne 'rdhamāse syātām anyatarasyāhno vīryam anu padyeteti | amāvāsyāyām pūrvam ahar bhavaty uttarasminn uttaram | nānaivārdhamāsayor bhavataḥ | nānāvīrye bhavataḥ | haviṣmannidhanam pūrvam ahar bhavati haviṣkṛnnidhanam uttaram pratiṣṭhityai ||

Sanskrit only: no published translation is held for this verse.

आपो वा इदम् अग्रे सलिलम् आसीत् तस्मिन् प्रजापतिर् वायुर् भूत्वाऽचरत् स इमाम् अपश्यत् तां वराहो भूत्वाऽहरत् तां विश्वकर्मा भूत्वा व्य् अमार्ट् साऽप्रथत सा पृथिव्यभवत् तत् पृथिव्यै पृथिवित्वम् । तस्याम् अश्राम्यत् प्रजापतिः स देवान् असृजत वसून् रुद्रान् आदित्यान् ते देवाः प्रजापतिम् अब्रुवन् प्र जायामहा इति सो ऽब्रवीत् यथाहं युष्माꣳस् तपसासृक्ष्य् एवं तपसि प्रजननम् इच्छध्वम् इति तेभ्यो ऽग्निम् आयतनम् प्रायच्छत् । एतेनायतनेन श्राम्यतेति ते ऽग्निनायतनेनाश्राम्यन् ते संवत्सर एकां गाम् असृजन्त तां वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्रायच्छन् । एताꣳ रक्षध्वम् इति तां वसवो रुद्रा आदित्या अरक्षन्त सा वसुभ्यो रुद्रेभ्य आदित्येभ्यः प्राजायत त्रीणि च ॥ शतानि त्रयस्त्रिꣳशतं च । सहस्रतम्य् अभवत् ते देवाः प्रजापतिम् अब्रुवन् । सहस्रेण नो याजयेति सो ऽग्निष्टोमेन वसून् अयाजयत् त इमं लोकम् अजयन् तच् चाददुः स उक्थ्येन रुद्रान् अयाजयत् ते ऽन्तरिक्षम् अजयन् तच् चाददुः सो ऽतिरात्रेणादित्यान् अयाजयत् ते ऽमुं लोकम् अजयन् तच् चाददुस् तद् अन्तरिक्षम् व्यवैर्यत तस्माद् रुद्रा घातुकाः । अनायतना हि तस्माद् आहुः शिथिलं वै मध्यमम् अहस् त्रिरात्रस्य वि हि तद् अवैर्यतेति त्रैष्टुभम् मध्यमस्याह्न आज्यम् भवति संयानानि सूक्तानि शꣳसति षोडशिनꣳ शꣳसति । अह्नो धृत्या अशिथिलम्भावाय तस्मात् त्रिरात्रस्याग्निष्टोम एव प्रथमम् अहः स्याद् अथोक्थ्यो ऽथातिरात्रः । एषां लोकानां विधृत्यै त्रीणित्रीणि शतान्य् अनूचीनाहम् अव्यवछिन्नानि ददाति एषां लोकानाम् अनु संतत्यै दशतं न वि च्छिन्द्यात् । विराजं नेद् विच्छिनदानीति । अथ या सहस्रतम्य् आसीत् तस्याम् इन्द्रश् च विष्णुश् च व्यायच्छेताम् । स इन्द्रो ऽमन्यत । अनया वा इदं विष्णुः सहस्रं वर्क्ष्यत इति तस्याम् अकल्पेताम् । द्विभाग इन्द्रस् तृतीये विष्णुस् तद् वा एषाभ्यनूच्यते । उभा जिग्यथुर् इति तां वा एताम् अच्छावाकः एव शꣳसति । अथ या सहस्रतमी सा होत्रे देयेति होतारं वा अभ्यतिरिच्यते यद् अतिरिच्यते होताऽनाप्तस्याऽऽपयिता । अथाऽऽहुः । उन्नेत्रे देयेति । अतिरिक्ता वा एषा सहस्रस्य । अतिरिक्त उन्नेतर्त्विजाम् अथाऽऽहुः सर्वेभ्यः सदस्येभ्यो देयेति । अथाहुः । उदाकृत्या सा वशं चरेद् इति । अथाहुः । ब्रह्मणे चाग्नीधे च देयेति ॥ द्विभागम् ब्रह्मणे तृतीयम् अग्नीधे । ऐन्द्रो वै ब्रह्मा वैष्णवो ऽग्नीध् । यथैव ताव् अकल्पेताम् इति । अथाहुः । या कल्याणी बहुरूपा सा देयेति । अथाहुः । या द्विरूपोभयतएनी सा देयेति सहस्रस्य परिगृहीत्यै तद् वा एतत् सहस्रस्यायनम् । सहस्रꣳ स्तोत्रीयाः सहस्रं दक्षिणाः सहस्रसम्मितः सुवर्गो लोकः सुवर्गस्य लोकस्याभिजित्यै ॥

āpo vā idam agre salilam āsīt tasmin prajāpatir vāyur bhūtvā'carat sa imām apaśyat tāṃ varāho bhūtvā'harat tāṃ viśvakarmā bhūtvā vy amārṭ sā'prathata sā pṛthivyabhavat tat pṛthivyai pṛthivitvam | tasyām aśrāmyat prajāpatiḥ sa devān asṛjata vasūn rudrān ādityān te devāḥ prajāpatim abruvan pra jāyāmahā iti so 'bravīt yathāhaṃ yuṣmām̐s tapasāsṛkṣy evaṃ tapasi prajananam icchadhvam iti tebhyo 'gnim āyatanam prāyacchat | etenāyatanena śrāmyateti te 'gnināyatanenāśrāmyan te saṃvatsara ekāṃ gām asṛjanta tāṃ vasubhyo rudrebhya ādityebhyaḥ prāyacchan | etām̐ rakṣadhvam iti tāṃ vasavo rudrā ādityā arakṣanta sā vasubhyo rudrebhya ādityebhyaḥ prājāyata trīṇi ca || śatāni trayastrim̐śataṃ ca | sahasratamy abhavat te devāḥ prajāpatim abruvan | sahasreṇa no yājayeti so 'gniṣṭomena vasūn ayājayat ta imaṃ lokam ajayan tac cādaduḥ sa ukthyena rudrān ayājayat te 'ntarikṣam ajayan tac cādaduḥ so 'tirātreṇādityān ayājayat te 'muṃ lokam ajayan tac cādadus tad antarikṣam vyavairyata tasmād rudrā ghātukāḥ | anāyatanā hi tasmād āhuḥ śithilaṃ vai madhyamam ahas trirātrasya vi hi tad avairyateti traiṣṭubham madhyamasyāhna ājyam bhavati saṃyānāni sūktāni śam̐sati ṣoḍaśinam̐ śam̐sati | ahno dhṛtyā aśithilambhāvāya tasmāt trirātrasyāgniṣṭoma eva prathamam ahaḥ syād athokthyo 'thātirātraḥ | eṣāṃ lokānāṃ vidhṛtyai trīṇitrīṇi śatāny anūcīnāham avyavachinnāni dadāti eṣāṃ lokānām anu saṃtatyai daśataṃ na vi cchindyāt | virājaṃ ned vicchinadānīti | atha yā sahasratamy āsīt tasyām indraś ca viṣṇuś ca vyāyacchetām | sa indro 'manyata | anayā vā idaṃ viṣṇuḥ sahasraṃ varkṣyata iti tasyām akalpetām | dvibhāga indras tṛtīye viṣṇus tad vā eṣābhyanūcyate | ubhā jigyathur iti tāṃ vā etām acchāvākaḥ eva śam̐sati | atha yā sahasratamī sā hotre deyeti hotāraṃ vā abhyatiricyate yad atiricyate hotā'nāptasyā''payitā | athā''huḥ | unnetre deyeti | atiriktā vā eṣā sahasrasya | atirikta unnetartvijām athā''huḥ sarvebhyaḥ sadasyebhyo deyeti | athāhuḥ | udākṛtyā sā vaśaṃ cared iti | athāhuḥ | brahmaṇe cāgnīdhe ca deyeti || dvibhāgam brahmaṇe tṛtīyam agnīdhe | aindro vai brahmā vaiṣṇavo 'gnīdh | yathaiva tāv akalpetām iti | athāhuḥ | yā kalyāṇī bahurūpā sā deyeti | athāhuḥ | yā dvirūpobhayataenī sā deyeti sahasrasya parigṛhītyai tad vā etat sahasrasyāyanam | sahasram̐ stotrīyāḥ sahasraṃ dakṣiṇāḥ sahasrasammitaḥ suvargo lokaḥ suvargasya lokasyābhijityai ||

Sanskrit only: no published translation is held for this verse.

सोमो वै सहस्रम् अविन्दत् तम् इन्द्रो ऽन्व् अविन्दत् तौ यमो न्यागच्छत् ताव् अब्रवीत् । अस्तु मे ऽत्रापीति । अस्तु ही3 इत्य् अब्रूताम् । स यम एकस्यां वीर्यम् पर्य् अपश्यत् । इयं वा अस्य सहस्रस्य वीर्यम् बिभर्तीति ताव् अब्रवीद् इयम् ममास्त्व् एतद् युवयोर् इति ताव् अब्रूताम् । सर्वे वा एतद् एतस्यां वीर्यम् परि पश्यामो ऽꣳशम् आ हरामहा इति तस्याम् अꣳशम् आहरन्त ताम् अप्सु प्रावेशयन् । सोमायोदेहीति सा रोहिणी पिङ्गलैकहायनी रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत् । तस्माद् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणीयात् । य एवं विद्वान् रोहिण्या पिङ्गलयैकहायन्या सोमं क्रीणाति त्रयस्त्रिꣳशता चैवास्य त्रिभिश् च शतैः सोमः क्रीतो भवति सुक्रीतेन यजते ताम् अप्सु प्रावेशयन् । इन्द्रायोदेहीति सा रोहिणी लक्ष्मणा पष्ठौही वार्त्रघ्नी रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत् तस्माद् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं दद्यात् । य एवं विद्वान् रोहिणीं लक्ष्मणाम् पष्ठौहीं वार्त्रघ्नीं ददाति त्रयस्त्रिꣳशच् चैवास्य त्रीणि च शतानि सा दत्ता भवति ताम् अप्सु प्रावेशयन् यमायोदेहीति सा जरती मूर्खा तज्जघन्या रूपं कृत्वा त्रयस्त्रिꣳशता च त्रिभिश् च शतैः सहोदैत् तस्माज् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुर्वीत य एवं विद्वाञ् जरतीम् मूर्खां तज्जघन्याम् अनुस्तरणीं कुरुते त्रयस्त्रिꣳशच् चैवास्य त्रीणि च शतानि सामुष्मिम्̐ लोके भवति वाग् एव सहस्रतमी तस्मात् वरो देयः सा हि वरः सहस्रम् अस्य सा दत्ता भवति तस्माद् वरो न प्रतिगृह्यः सा हि वरः सहस्रम् अस्य प्रतिगृहीतम् भवति । इयं वर इति ब्रूयात् । अथान्याम् ब्रूयात् । इयम् ममेति तथास्य तत् सहस्रम् अप्रतिगृहीतम् भवति । उभयतएनी स्यात् तद् आहुः । अन्यतएनी स्यात् सहस्रम् परस्ताद् एतम् इति यैव वरः कल्याणी रूपसमृद्धा सा स्यात् सा हि वरः समृद्ध्यै ताम् उत्तरेणाग्नीध्रम् पर्याणीयाहवनीयस्यान्ते द्रोणकलशम् अव घ्रापयेत् । आ जिघ्र कलशम् मह्य् उरुधारा पयस्वत्य् आ त्वा विशन्त्व् इन्दवः समुद्रम् इव सिन्धवः सा मा सहस्र आ भज प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति प्रजयैवैनम् पशुभी रय्या सम् अर्धयति प्रजावान् पशुमान् रयिमान् भवति य एवं वेद तया सहाग्नीध्रम् परेत्य पुरस्तात् प्रतीच्यां तिष्ठन्त्यां जुहुयात् । उभा जिग्यथुर् न परा जयेथे न परा जिग्ये कतरश् चनैनोः । इन्द्रश् च विष्णो यद् अपस्पृधेथां त्रेधा सहस्रं वि तद् ऐरयेथाम् इति त्रेधाविभक्तं वै त्रिरात्रे सहस्रम् । साहस्रीम् एवैनां करोति सहस्रस्यैवैनाम् मात्रां करोति रूपाणि जुहोति रूपैर् एवैनाꣳ सम् अर्धयति तस्या उपोत्थाय कर्णम् आ जपेत् । इडे रन्ते ऽदिते सरस्वति प्रिये प्रेयसि महि विश्रुत्य् एतानि ते अघ्निये नामानि सुकृतम् मा देवेषु ब्रूताद् इति देवेभ्य एवैनम् आ वेदयति । अन्व् एनं देवा बुध्यन्ते ॥

somo vai sahasram avindat tam indro 'nv avindat tau yamo nyāgacchat tāv abravīt | astu me 'trāpīti | astu hī3 ity abrūtām | sa yama ekasyāṃ vīryam pary apaśyat | iyaṃ vā asya sahasrasya vīryam bibhartīti tāv abravīd iyam mamāstv etad yuvayor iti tāv abrūtām | sarve vā etad etasyāṃ vīryam pari paśyāmo 'm̐śam ā harāmahā iti tasyām am̐śam āharanta tām apsu prāveśayan | somāyodehīti sā rohiṇī piṅgalaikahāyanī rūpaṃ kṛtvā trayastrim̐śatā ca tribhiś ca śataiḥ sahodait | tasmād rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇīyāt | ya evaṃ vidvān rohiṇyā piṅgalayaikahāyanyā somaṃ krīṇāti trayastrim̐śatā caivāsya tribhiś ca śataiḥ somaḥ krīto bhavati sukrītena yajate tām apsu prāveśayan | indrāyodehīti sā rohiṇī lakṣmaṇā paṣṭhauhī vārtraghnī rūpaṃ kṛtvā trayastrim̐śatā ca tribhiś ca śataiḥ sahodait tasmād rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadyāt | ya evaṃ vidvān rohiṇīṃ lakṣmaṇām paṣṭhauhīṃ vārtraghnīṃ dadāti trayastrim̐śac caivāsya trīṇi ca śatāni sā dattā bhavati tām apsu prāveśayan yamāyodehīti sā jaratī mūrkhā tajjaghanyā rūpaṃ kṛtvā trayastrim̐śatā ca tribhiś ca śataiḥ sahodait tasmāj jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurvīta ya evaṃ vidvāñ jaratīm mūrkhāṃ tajjaghanyām anustaraṇīṃ kurute trayastrim̐śac caivāsya trīṇi ca śatāni sāmuṣmim̐ loke bhavati vāg eva sahasratamī tasmāt varo deyaḥ sā hi varaḥ sahasram asya sā dattā bhavati tasmād varo na pratigṛhyaḥ sā hi varaḥ sahasram asya pratigṛhītam bhavati | iyaṃ vara iti brūyāt | athānyām brūyāt | iyam mameti tathāsya tat sahasram apratigṛhītam bhavati | ubhayataenī syāt tad āhuḥ | anyataenī syāt sahasram parastād etam iti yaiva varaḥ kalyāṇī rūpasamṛddhā sā syāt sā hi varaḥ samṛddhyai tām uttareṇāgnīdhram paryāṇīyāhavanīyasyānte droṇakalaśam ava ghrāpayet | ā jighra kalaśam mahy urudhārā payasvaty ā tvā viśantv indavaḥ samudram iva sindhavaḥ sā mā sahasra ā bhaja prajayā paśubhiḥ saha punar mā viśatād rayir iti prajayaivainam paśubhī rayyā sam ardhayati prajāvān paśumān rayimān bhavati ya evaṃ veda tayā sahāgnīdhram paretya purastāt pratīcyāṃ tiṣṭhantyāṃ juhuyāt | ubhā jigyathur na parā jayethe na parā jigye kataraś canainoḥ | indraś ca viṣṇo yad apaspṛdhethāṃ tredhā sahasraṃ vi tad airayethām iti tredhāvibhaktaṃ vai trirātre sahasram | sāhasrīm evaināṃ karoti sahasrasyaivainām mātrāṃ karoti rūpāṇi juhoti rūpair evainām̐ sam ardhayati tasyā upotthāya karṇam ā japet | iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te aghniye nāmāni sukṛtam mā deveṣu brūtād iti devebhya evainam ā vedayati | anv enaṃ devā budhyante ||

Sanskrit only: no published translation is held for this verse.

सहस्रतम्या वै यजमानः सुवर्गं लोकम् एति सैनꣳ सुवर्गं लोकं गमयति सा मा सुवर्गं लोकं गमयेत्य् आह सुवर्गम् एवैनं लोकं गमयति सा मा ज्योतिष्मन्तं लोकं गमयेत्य् आह ज्योतिष्मन्तम् एवैनं लोकं गमयति सा मा सर्वान् पुण्याम्̐ लोकान् गमयेत्य् आह सर्वान् एवैनम् पुण्याम्̐ लोकान् गमयति सा मा प्रतिष्ठां गमय प्रजया पशुभिः सह पुनर् मा विशताद् रयिर् इति प्रजयैवैनम् पशुभी रय्याम् प्रति ष्ठापयति प्रजावान् पशुमान् रयिमान् भवति य एवं वेद ताम् अग्नीधे वा ब्रह्मणे वा होत्रे वोद्गात्रे वाध्वर्यवे वा दद्यात् सहस्रम् अस्य सा दत्ता भवति सहस्रम् अस्य प्रतिगृहीतम् भवति यस् ताम् अविद्वान् प्रतिगृह्णाति ताम् प्रति गृह्णीयात् । एकासि न सहस्रम् एकां त्वा भूताम् प्रति गृह्णामि न सहस्रम् एका मा भूता विश मा सहस्रम् इति । एकाम् एवैनाम् भूताम् प्रति गृह्णाति न सहस्रं य एवं वेद स्योनासि सुषदा सुशेवा स्योना मा विश सुषदा मा विश सुशेवा मा विश इत्य् आह स्योनैवैनꣳ सुषदा सुशेवा भूत्वा विशति नैनꣳ हिनस्ति ब्रह्मवादिनो वदन्ति सहस्रꣳ सहस्रतम्य् अन्व् एती3 सहस्रतमीꣳ सहस्रा3म् इति यत् प्राचीम् उत्सृजेत् सहस्रꣳ सहस्रतम्य् अन्व् इयात् तत् सहस्रम् अप्रज्ञात्रम् । सुवर्गं लोकं न प्र जानीयात् प्रतीचीम् उत् सृजति ताꣳ सहस्रम् अनु पर्यावर्तते सा प्रजानती सुवर्गं लोकम् एति यजमानम् अभ्य् उत् सृजति क्षिप्रे सहस्रम् प्र जायते । उत्तमा नीयते प्रथमा देवान् गच्छति ॥

sahasratamyā vai yajamānaḥ suvargaṃ lokam eti sainam̐ suvargaṃ lokaṃ gamayati sā mā suvargaṃ lokaṃ gamayety āha suvargam evainaṃ lokaṃ gamayati sā mā jyotiṣmantaṃ lokaṃ gamayety āha jyotiṣmantam evainaṃ lokaṃ gamayati sā mā sarvān puṇyām̐ lokān gamayety āha sarvān evainam puṇyām̐ lokān gamayati sā mā pratiṣṭhāṃ gamaya prajayā paśubhiḥ saha punar mā viśatād rayir iti prajayaivainam paśubhī rayyām prati ṣṭhāpayati prajāvān paśumān rayimān bhavati ya evaṃ veda tām agnīdhe vā brahmaṇe vā hotre vodgātre vādhvaryave vā dadyāt sahasram asya sā dattā bhavati sahasram asya pratigṛhītam bhavati yas tām avidvān pratigṛhṇāti tām prati gṛhṇīyāt | ekāsi na sahasram ekāṃ tvā bhūtām prati gṛhṇāmi na sahasram ekā mā bhūtā viśa mā sahasram iti | ekām evainām bhūtām prati gṛhṇāti na sahasraṃ ya evaṃ veda syonāsi suṣadā suśevā syonā mā viśa suṣadā mā viśa suśevā mā viśa ity āha syonaivainam̐ suṣadā suśevā bhūtvā viśati nainam̐ hinasti brahmavādino vadanti sahasram̐ sahasratamy anv etī3 sahasratamīm̐ sahasrā3m iti yat prācīm utsṛjet sahasram̐ sahasratamy anv iyāt tat sahasram aprajñātram | suvargaṃ lokaṃ na pra jānīyāt pratīcīm ut sṛjati tām̐ sahasram anu paryāvartate sā prajānatī suvargaṃ lokam eti yajamānam abhy ut sṛjati kṣipre sahasram pra jāyate | uttamā nīyate prathamā devān gacchati ||

Sanskrit only: no published translation is held for this verse.

अत्रिर् अददाद् और्वाय प्रजाम् पुत्रकामाय स रिरिचानो ऽमन्यत निर्वीर्यः शिथिलो यातयामा स एतं चतूरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै तस्य चत्वारो वीरा आजायन्त सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । य एवं विद्वाꣳश् चतूरात्रेण यजत आस्य चत्वारो वीरा जायन्ते सुहोता सूद्गाता स्वध्वर्युः सुसभेयः । ये चतुर्विꣳशाः पवमाना ब्रह्मवर्चसं तत् य उद्यन्त स्तोमाः श्रीः सा । अत्रिꣳ श्रद्धादेवं यजमानं चत्वारि वीर्याणि नोपानमन् तेज इन्द्रियम् ब्रह्मवर्चसम् अन्नाद्यम् । स एताꣳश् चतुरश् चतुष्टोमान्त् सोमान् अपश्यत् तान् आहरत् तैर् अयजत तेज एव प्रथमेनावारुन्द्धेन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन य एवं विद्वाꣳश् चतुरश् चतुष्टोमान्त् सोमान् आहरति तैर् यजते तेज एव प्रथमेनाव रुन्द्ध इन्द्रियं द्वितीयेन ब्रह्मवर्चसं तृतीयेनान्नाद्यं चतुर्थेन याम् एवात्रिर् ऋद्धिम् आर्ध्नोत् ताम् एव यजमाना ऋध्नोति ॥

atrir adadād aurvāya prajām putrakāmāya sa riricāno 'manyata nirvīryaḥ śithilo yātayāmā sa etaṃ catūrātram apaśyat tam āharat tenāyajata tato vai tasya catvāro vīrā ājāyanta suhotā sūdgātā svadhvaryuḥ susabheyaḥ | ya evaṃ vidvām̐ś catūrātreṇa yajata āsya catvāro vīrā jāyante suhotā sūdgātā svadhvaryuḥ susabheyaḥ | ye caturvim̐śāḥ pavamānā brahmavarcasaṃ tat ya udyanta stomāḥ śrīḥ sā | atrim̐ śraddhādevaṃ yajamānaṃ catvāri vīryāṇi nopānaman teja indriyam brahmavarcasam annādyam | sa etām̐ś caturaś catuṣṭomānt somān apaśyat tān āharat tair ayajata teja eva prathamenāvārunddhendriyaṃ dvitīyena brahmavarcasaṃ tṛtīyenānnādyaṃ caturthena ya evaṃ vidvām̐ś caturaś catuṣṭomānt somān āharati tair yajate teja eva prathamenāva runddha indriyaṃ dvitīyena brahmavarcasaṃ tṛtīyenānnādyaṃ caturthena yām evātrir ṛddhim ārdhnot tām eva yajamānā ṛdhnoti ||

Sanskrit only: no published translation is held for this verse.

जमदग्निः पुष्टिकामश् चतूरात्रेणायजत स एतान् पोषाꣳ अपुष्यत् तस्मात् पलितौ जामदग्नियौ न सं जानाते एतान् एव पोषान् पुष्यति य एवं विद्वाꣳश् चतूरात्रेण यजते पुरोडाशिन्य उपसदो भवन्ति पशवो वै पुरोडाशः पशून् एवाव रुन्द्धे । अन्नं वै पुरोडाशः । अन्नम् एवाव रुन्द्धे । अन्नादः पशुमान् भवति य एवं विद्वाꣳश् चतूरात्रेण यजते ॥

jamadagniḥ puṣṭikāmaś catūrātreṇāyajata sa etān poṣām̐ apuṣyat tasmāt palitau jāmadagniyau na saṃ jānāte etān eva poṣān puṣyati ya evaṃ vidvām̐ś catūrātreṇa yajate puroḍāśinya upasado bhavanti paśavo vai puroḍāśaḥ paśūn evāva runddhe | annaṃ vai puroḍāśaḥ | annam evāva runddhe | annādaḥ paśumān bhavati ya evaṃ vidvām̐ś catūrātreṇa yajate ||

Sanskrit only: no published translation is held for this verse.

संवत्सरो वा इदम् एक आसीत् सो ऽकामयत । ऋतून्त् सृजेयेति स एतम् पञ्चरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै स ऋतून् असृजत य एवं विद्वान् पञ्चरात्रेण यजते प्रैव जायते त ऋतवः सृष्टा न व्यावर्तन्त त एतम् पञ्चरात्रम् अपश्यन् तम् आऽहरन् तेनायजन्त ततो वै ते व्यावर्तन्त य एवं विद्वान् पञ्चरात्रेण यजते वि पाप्मना भ्रातृव्येणाऽऽ वर्तते सार्वसेनिः शौचेयो ऽकामयत पशुमान्त् स्याम् इति स एतम् पञ्चरात्रम् आहरत् तेनायजत ततो वै स सहस्रम् पशून् प्राप्नोत् । य एवं विद्वान् पञ्चरात्रेण यजते प्र सहस्रम् पशून् आप्नोति बबरः प्रावाहणिर् अकामयत वाचः प्रवदिता स्याम् इति स एतम् पञ्चरात्रम् आ ॥ अहरत् तेनायजत ततो वै स वाचः प्रवदिताऽभवत् । य एवं विद्वान् पञ्चरात्रेण यजते प्रवदितैव वाचो भवति । अथो एनं वाचस् पतिर् इत्य् आहुः । अनाप्तश् चतूरात्रो ऽतिरिक्तः षड्रात्रो ऽथ वा एष सम्प्रति यज्ञो यत् पञ्चरात्रः । य एवं विद्वान् पञ्चरात्रेण यजते सम्प्रत्य् एव यज्ञेन यजते पञ्चरात्रो भवति पञ्च वा ऋतवः संवत्सरः ऋतुष्व् एव सम्वत्सरे प्रति तिष्ठति । अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्द्धे त्रिवृद् अग्निष्टोमो भवति तेज एवाव रुन्द्धे पञ्चदशो भवति । इन्द्रियम् एवाव रुन्द्धे सप्तदशो भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै ॥

saṃvatsaro vā idam eka āsīt so 'kāmayata | ṛtūnt sṛjeyeti sa etam pañcarātram apaśyat tam āharat tenāyajata tato vai sa ṛtūn asṛjata ya evaṃ vidvān pañcarātreṇa yajate praiva jāyate ta ṛtavaḥ sṛṣṭā na vyāvartanta ta etam pañcarātram apaśyan tam ā'haran tenāyajanta tato vai te vyāvartanta ya evaṃ vidvān pañcarātreṇa yajate vi pāpmanā bhrātṛvyeṇā'' vartate sārvaseniḥ śauceyo 'kāmayata paśumānt syām iti sa etam pañcarātram āharat tenāyajata tato vai sa sahasram paśūn prāpnot | ya evaṃ vidvān pañcarātreṇa yajate pra sahasram paśūn āpnoti babaraḥ prāvāhaṇir akāmayata vācaḥ pravaditā syām iti sa etam pañcarātram ā || aharat tenāyajata tato vai sa vācaḥ pravaditā'bhavat | ya evaṃ vidvān pañcarātreṇa yajate pravaditaiva vāco bhavati | atho enaṃ vācas patir ity āhuḥ | anāptaś catūrātro 'tiriktaḥ ṣaḍrātro 'tha vā eṣa samprati yajño yat pañcarātraḥ | ya evaṃ vidvān pañcarātreṇa yajate sampraty eva yajñena yajate pañcarātro bhavati pañca vā ṛtavaḥ saṃvatsaraḥ ṛtuṣv eva samvatsare prati tiṣṭhati | atho pañcākṣarā paṅktiḥ pāṅkto yajñaḥ | yajñam evāva runddhe trivṛd agniṣṭomo bhavati teja evāva runddhe pañcadaśo bhavati | indriyam evāva runddhe saptadaśo bhavati | annādyasyāvaruddhyai | atho praiva tena jāyate pañcavim̐śo 'gniṣṭomo bhavati prajāpater āptyai mahāvratavān annādyasyāvaruddhyai viśvajit sarvapṛṣṭho 'tirātro bhavati sarvasyābhijityai ||

Sanskrit only: no published translation is held for this verse.

देवस्य त्वा सवितुः प्रसवे ऽश्विनोर् बाहुभ्याम् पूष्णो हस्ताभ्याम् आ ददे । इमाम् अगृभ्णन् रशनाम् ऋतस्य पूर्व आयुषि विदथेषु कव्या । तया देवाः सुतम् आ बभूवुर् ऋतस्य सामन्त् सरम् आरपन्ती ॥ अभिधा असि भुवनम् असि यन्तासि धर्तासि सो ऽग्निं वैश्वानरꣳ सप्रथसं गच्छ स्वाहाकृतः पृथिव्यां यन्ता राड् यन्ताऽसि यमनो धर्ताऽसि धरुणः कृष्यै त्वा क्षेमाय त्वा रय्यै त्वा पोषाय त्वा पृथिव्यै त्वाऽन्तरिक्षाय त्वा दिवे त्वा सते त्वाऽसते त्वाऽद्भ्यस् त्वौषधीभ्यस् त्वा विश्वेभ्यस् त्वा भूतेभ्यः ॥

devasya tvā savituḥ prasave 'śvinor bāhubhyām pūṣṇo hastābhyām ā dade | imām agṛbhṇan raśanām ṛtasya pūrva āyuṣi vidatheṣu kavyā | tayā devāḥ sutam ā babhūvur ṛtasya sāmant saram ārapantī || abhidhā asi bhuvanam asi yantāsi dhartāsi so 'gniṃ vaiśvānaram̐ saprathasaṃ gaccha svāhākṛtaḥ pṛthivyāṃ yantā rāḍ yantā'si yamano dhartā'si dharuṇaḥ kṛṣyai tvā kṣemāya tvā rayyai tvā poṣāya tvā pṛthivyai tvā'ntarikṣāya tvā dive tvā sate tvā'sate tvā'dbhyas tvauṣadhībhyas tvā viśvebhyas tvā bhūtebhyaḥ ||

Sanskrit only: no published translation is held for this verse.

विभूर् मात्रा प्रभूः पित्राऽश्वो ऽसि हयो ऽस्य् अत्यो ऽसि नरो ऽस्य् अर्वाऽसि सप्तिर् असि वाज्य् असि वृषाऽसि नृमणा असि ययुर् नामास्य् आदित्यानाम् पत्वान्व् इहि । अग्नये स्वाहा स्वाहेन्द्राग्निभ्याꣳ स्वाहा प्रजापतये स्वाहा विश्वेभ्यो देवेभ्यः स्वाहा सर्वाभ्यो देवेताभ्यः । इह धृतिः स्वाहेह विधृतिः स्वाहेह रन्तिः स्वाहेह रमतिः स्वाहा भूर् असि भुवे त्वा भव्याय त्वा भविष्यते त्वा विश्वेभ्यस् त्वा भूतेभ्यः । देवा आशापाला एतं देवेभ्यो ऽश्वम् मेधाय प्रोक्षितं गोपायत ॥

vibhūr mātrā prabhūḥ pitrā'śvo 'si hayo 'sy atyo 'si naro 'sy arvā'si saptir asi vājy asi vṛṣā'si nṛmaṇā asi yayur nāmāsy ādityānām patvānv ihi | agnaye svāhā svāhendrāgnibhyām̐ svāhā prajāpataye svāhā viśvebhyo devebhyaḥ svāhā sarvābhyo devetābhyaḥ | iha dhṛtiḥ svāheha vidhṛtiḥ svāheha rantiḥ svāheha ramatiḥ svāhā bhūr asi bhuve tvā bhavyāya tvā bhaviṣyate tvā viśvebhyas tvā bhūtebhyaḥ | devā āśāpālā etaṃ devebhyo 'śvam medhāya prokṣitaṃ gopāyata ||

Sanskrit only: no published translation is held for this verse.

आयनाय स्वाहा प्रायणाय स्वाहा । उद्द्रावाय स्वाहा । उद्द्रुताय स्वाहा शूकाराय स्वाहा शूकृताय स्वाहा पलायिताय स्वाहा । आपलायिताय स्वाहा । आवल्गते स्वाहा परावल्गते स्वाहा । आयते स्वाहा प्रयते स्वाहा सर्वस्मै स्वाहा ॥

āyanāya svāhā prāyaṇāya svāhā | uddrāvāya svāhā | uddrutāya svāhā śūkārāya svāhā śūkṛtāya svāhā palāyitāya svāhā | āpalāyitāya svāhā | āvalgate svāhā parāvalgate svāhā | āyate svāhā prayate svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

अग्नये स्वाहा सोमाय स्वाहा वायवे स्वाहा । अपाम् मोदाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा । इन्द्राय स्वाहा बृहस्पतये स्वाहा मित्राय स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा ॥

agnaye svāhā somāya svāhā vāyave svāhā | apām modāya svāhā savitre svāhā sarasvatyai svāhā | indrāya svāhā bṛhaspataye svāhā mitrāya svāhā varuṇāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा दिवे स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा नक्षत्रेभ्यः स्वाहा प्राच्यै दिशे स्वाहा दक्षिणायै दिशे स्वाहा प्रतीच्यै दिशे स्वाहा । उदीच्यै दिशे स्वाहा । ऊर्ध्वायै दिशे स्वाहा दिग्भ्यः स्वाहा । अवान्तरदिशाभ्यः स्वाहा समाभ्यः स्वाहा शरद्भ्यः स्वाहा । अहोरात्रेभ्यः स्वाहा । अर्धमासेभ्यः स्वाहा मासेभ्यः स्वाहा । ऋतुभ्यः स्वाहा संवत्सराय स्वाहा सर्वस्मै स्वाहा ॥

pṛthivyai svāhā | antarikṣāya svāhā dive svāhā sūryāya svāhā candramase svāhā nakṣatrebhyaḥ svāhā prācyai diśe svāhā dakṣiṇāyai diśe svāhā pratīcyai diśe svāhā | udīcyai diśe svāhā | ūrdhvāyai diśe svāhā digbhyaḥ svāhā | avāntaradiśābhyaḥ svāhā samābhyaḥ svāhā śaradbhyaḥ svāhā | ahorātrebhyaḥ svāhā | ardhamāsebhyaḥ svāhā māsebhyaḥ svāhā | ṛtubhyaḥ svāhā saṃvatsarāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

अग्नये स्वाहा सोमाय स्वाहा सवित्रे स्वाहा सरस्वत्यै स्वाहा पूष्णे स्वाहा बृहस्पतये स्वाहा । अपाम् मोदाय स्वाहा वायवे स्वाहा मित्राय स्वाहा वरुणाय स्वाहा सर्वस्मै स्वाहा ॥

agnaye svāhā somāya svāhā savitre svāhā sarasvatyai svāhā pūṣṇe svāhā bṛhaspataye svāhā | apām modāya svāhā vāyave svāhā mitrāya svāhā varuṇāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

पृथिव्यै स्वाहा । अन्तरिक्षाय स्वाहा दिवे स्वाहा । अग्नये स्वाहा सोमाय स्वाहा सूर्याय स्वाहा चन्द्रमसे स्वाहा । अह्ने स्वाहा रात्रियै स्वाहा । ऋजवे स्वाहा साधवे स्वाहा सुक्षित्यै स्वाहा क्षुधे स्वाहा । आशितिम्ने स्वाहा रोगाय स्वाहा हिमाय स्वाहा शीताय स्वाहा । आतपाय स्वाहा । अरण्याय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥

pṛthivyai svāhā | antarikṣāya svāhā dive svāhā | agnaye svāhā somāya svāhā sūryāya svāhā candramase svāhā | ahne svāhā rātriyai svāhā | ṛjave svāhā sādhave svāhā sukṣityai svāhā kṣudhe svāhā | āśitimne svāhā rogāya svāhā himāya svāhā śītāya svāhā | ātapāya svāhā | araṇyāya svāhā suvargāya svāhā lokāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

भुवो देवानां कर्मणाऽपसर्तस्य पथ्याऽसि वसुभिर् देवेभिर् देवतया गायत्रेण त्वा छन्दसा युनज्मि वसन्तेन त्वर्तुना हविषा दीक्षयामि रुद्रेभिर् देवेभिर् देवतया त्रैष्टुभेन त्वा छन्दसा युनज्मि ग्रीष्मेण त्वर्तुना हविषा दीक्षयामि । आदित्येभिर् देवेभिर् देवतया जागतेन त्वा छन्दसा युनज्मि वर्षाभिर् त्वर्तुना हविषा दीक्षयामि विश्वेभिर् देवेभिर् देवतयाऽऽनुष्टुभेन त्वा छन्दसा युनज्मि ॥ शरदा त्वर्तुना हविषा दीक्षयामि । अङ्गिरोभिर् देवेभिर् देवतया पाङ्क्तेन त्वा छन्दसा युनज्मि हेमन्तशिशिराभ्यां त्वर्तुना हविषा दीक्षयामि । आऽहं दीक्षाम् अरुहम् ऋतस्य पत्नीं गायत्रेण छन्दसा ब्रह्मणा चर्तꣳ सत्ये ऽधाꣳ सत्यम् ऋते ऽधाम् ॥ महीमू षु सुत्रामाणम् इह धृतिः स्वाहा । इह विधृतिः स्वाहा । इह रन्तिः स्वाहा । इह रमतिः स्वाहा ॥

bhuvo devānāṃ karmaṇā'pasartasya pathyā'si vasubhir devebhir devatayā gāyatreṇa tvā chandasā yunajmi vasantena tvartunā haviṣā dīkṣayāmi rudrebhir devebhir devatayā traiṣṭubhena tvā chandasā yunajmi grīṣmeṇa tvartunā haviṣā dīkṣayāmi | ādityebhir devebhir devatayā jāgatena tvā chandasā yunajmi varṣābhir tvartunā haviṣā dīkṣayāmi viśvebhir devebhir devatayā''nuṣṭubhena tvā chandasā yunajmi || śaradā tvartunā haviṣā dīkṣayāmi | aṅgirobhir devebhir devatayā pāṅktena tvā chandasā yunajmi hemantaśiśirābhyāṃ tvartunā haviṣā dīkṣayāmi | ā'haṃ dīkṣām aruham ṛtasya patnīṃ gāyatreṇa chandasā brahmaṇā cartam̐ satye 'dhām̐ satyam ṛte 'dhām || mahīmū ṣu sutrāmāṇam iha dhṛtiḥ svāhā | iha vidhṛtiḥ svāhā | iha rantiḥ svāhā | iha ramatiḥ svāhā ||

Sanskrit only: no published translation is held for this verse.

ईंकाराय स्वाहा । ईंकृताय स्वाहा क्रन्दते स्वाहा । अवक्रन्दते स्वाहा प्रोथते स्वाहा प्रप्रोथते स्वाहा गन्धाय स्वाहा घ्राताय स्वाहा प्राणाय स्वाहा व्यानाय स्वाहा । अपानाय स्वाहा संदीयमानाय स्वाहा संदिताय स्वाहा विचृत्यमानाय स्वाहा विचृत्ताय स्वाहा पलायिष्यमाणाय स्वाहा पलायिताय स्वाहा । उपरꣳस्यते स्वाहा । उपरताय स्वाहा निवेक्ष्यते स्वाहा निविशमानाय स्वाहा निविष्टाय स्वाहा निषत्स्यते स्वाहा निषीदते स्वाहा निषण्णाय स्वाहा आसिष्यते स्वाहा । आसीनाय स्वाहा । आसिताय स्वाहा निपत्स्यते स्वाहा निपद्यमानाय स्वाहा निपन्नाय स्वाहा शयिष्यते स्वाहा शयानाय स्वाहा शयिताय स्वाहा सम्मीलिष्यते स्वाहा सम्मीलते स्वाहा सम्मीलिताय स्वाहा स्वप्स्यते स्वाहा स्वपते स्वाहा सुप्ताय स्वाहा प्रभोत्स्यते स्वाहा प्रबुध्यमानाय स्वाहा प्रबुद्धाय स्वाहा जागरिष्यते स्वाहा जाग्रते स्वाहा जागरिताय स्वाहा शुश्रूषमाणाय स्वाहा शृण्वते स्वाहा श्रुताय स्वाहा वीक्षिष्यते स्वाहा वीक्षमाणाय स्वाहा वीक्षिताय स्वाहा सꣳहास्यते स्वाहा स्माजिहानाय स्वाहा । उज्जिहानाय स्वाहा विवर्त्स्यते स्वाहा विवर्तमानाय स्वाहा विवृत्ताय स्वाहा । उत्थास्यते स्वाहा । उत्तिष्ठते स्वाहा । उत्थिताय स्वाहा विधविष्यते स्वाहा विधून्वानाय स्वाहा विधूताय स्वाहा । उत्क्रꣳस्यते स्वाहा । उत्क्रामते स्वाहा । उत्क्रान्ताय स्वाहा चंक्रमिष्यते स्वाहा चंक्रम्यमाणाय स्वाहा चंक्रमिताय स्वाहा कण्डूयिष्यते स्वाहा कण्डूयमानाय स्वाहा कण्डूयिताय स्वाहा निकषिष्यते स्वाहा निकषमाणाय स्वाहा निकषिताय स्वाहा यद् अत्ति तस्मै स्वाहा यत् पिबति तस्मै स्वाहा यन् मेहति तस्मै स्वाहा यच् छकृत् करोति तस्मै स्वाहा रेतसे स्वाहा प्रजाभ्यः स्वाहा प्रजननाय स्वाहा सर्वस्मै स्वाहा ॥

īṃkārāya svāhā | īṃkṛtāya svāhā krandate svāhā | avakrandate svāhā prothate svāhā praprothate svāhā gandhāya svāhā ghrātāya svāhā prāṇāya svāhā vyānāya svāhā | apānāya svāhā saṃdīyamānāya svāhā saṃditāya svāhā vicṛtyamānāya svāhā vicṛttāya svāhā palāyiṣyamāṇāya svāhā palāyitāya svāhā | uparam̐syate svāhā | uparatāya svāhā nivekṣyate svāhā niviśamānāya svāhā niviṣṭāya svāhā niṣatsyate svāhā niṣīdate svāhā niṣaṇṇāya svāhā āsiṣyate svāhā | āsīnāya svāhā | āsitāya svāhā nipatsyate svāhā nipadyamānāya svāhā nipannāya svāhā śayiṣyate svāhā śayānāya svāhā śayitāya svāhā sammīliṣyate svāhā sammīlate svāhā sammīlitāya svāhā svapsyate svāhā svapate svāhā suptāya svāhā prabhotsyate svāhā prabudhyamānāya svāhā prabuddhāya svāhā jāgariṣyate svāhā jāgrate svāhā jāgaritāya svāhā śuśrūṣamāṇāya svāhā śṛṇvate svāhā śrutāya svāhā vīkṣiṣyate svāhā vīkṣamāṇāya svāhā vīkṣitāya svāhā sam̐hāsyate svāhā smājihānāya svāhā | ujjihānāya svāhā vivartsyate svāhā vivartamānāya svāhā vivṛttāya svāhā | utthāsyate svāhā | uttiṣṭhate svāhā | utthitāya svāhā vidhaviṣyate svāhā vidhūnvānāya svāhā vidhūtāya svāhā | utkram̐syate svāhā | utkrāmate svāhā | utkrāntāya svāhā caṃkramiṣyate svāhā caṃkramyamāṇāya svāhā caṃkramitāya svāhā kaṇḍūyiṣyate svāhā kaṇḍūyamānāya svāhā kaṇḍūyitāya svāhā nikaṣiṣyate svāhā nikaṣamāṇāya svāhā nikaṣitāya svāhā yad atti tasmai svāhā yat pibati tasmai svāhā yan mehati tasmai svāhā yac chakṛt karoti tasmai svāhā retase svāhā prajābhyaḥ svāhā prajananāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

अग्नये स्वाहा वायवे स्वाहा सूर्याय स्वाहा । ऋतम् अस्य् ऋतस्यर्तम् असि सत्यम् असि सत्यस्य सत्यम् असि । ऋतस्य पन्था असि देवानां छायामृतस्य नाम तत् सत्यं यत् त्वम् प्रजापतिर् असि । अधि यद् अस्मिन् वाजिनीव शुभः स्पर्धन्ते दिवः सूर्येण विशो ऽपो वृणानः पवते कव्यन् पशुं न गोपा इर्यः परिज्मा ॥

agnaye svāhā vāyave svāhā sūryāya svāhā | ṛtam asy ṛtasyartam asi satyam asi satyasya satyam asi | ṛtasya panthā asi devānāṃ chāyāmṛtasya nāma tat satyaṃ yat tvam prajāpatir asi | adhi yad asmin vājinīva śubhaḥ spardhante divaḥ sūryeṇa viśo 'po vṛṇānaḥ pavate kavyan paśuṃ na gopā iryaḥ parijmā ||

Sanskrit only: no published translation is held for this verse.

साध्या वै देवाः सुवर्गकामा एतꣳ षड्रात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते सुवर्गं लोकम् आयन् य एवं विद्वाꣳसः षड्रात्रम् आसते सुवर्गम् एव लोकं यन्ति देवसत्त्रं वै षड्रात्रः प्रत्यक्षꣳ ह्य् एतानि पृष्ठानि य एवं विद्वाꣳसः षड्रात्रम् आसते साक्षाद् एव देवता अभ्यारोहन्ति षड्रात्रो भवति षड् वा ऋतवः षट् पृष्ठानि पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव प्रति तिष्ठन्ति बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति त्रिवृद् अग्निष्टोमो भवति तेज एवाव रुन्धते पञ्चदशो भवति । इन्द्रियम् एवाव रुन्धते सप्तदशः भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायन्ते । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते त्रिणवो भवति विजित्यै त्रयस्त्रिꣳशो भवति प्रतिष्ठित्यै सदोहविर्धानिन एतेन षड्रात्रेण यजेरन् । आश्वत्थी हविर्धानं चाग्नीध्रं च भवतस् तद् धि सुवर्ग्यम् । चक्रीवती भवतः सुवर्गस्य लोकस्य समष्ट्यै । उलूखलबुध्नो यूपो भवति प्रतिष्ठित्यै प्राञ्चो यान्ति प्राङ् इव हि सुवर्गः लोकः सरस्वत्या यान्ति । एष वै देवयानः पन्थास् तम् एवान्वारोहन्ति । आक्रोशन्तो यान्ति । अवर्तिम् एवान्यस्मिन् प्रतिषज्य प्रतिष्ठां गच्छन्ति यदा दश शतं कुर्वन्त्य् अथैकम् उत्थानम् । शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति यदा शतꣳ सहस्रं कुर्वन्त्य् अथैकम् उत्थानम् । सहस्रसम्मितो वा असौ लोकः । अमुम् एव लोकम् अभि जयन्ति यदैषाम् प्रमीयेत यदा वा जीयेरन्न् अथैकम् उत्थानम् । तद् धि तीर्थम् ॥

sādhyā vai devāḥ suvargakāmā etam̐ ṣaḍrātram apaśyan tam āharan tenāyajanta tato vai te suvargaṃ lokam āyan ya evaṃ vidvām̐saḥ ṣaḍrātram āsate suvargam eva lokaṃ yanti devasattraṃ vai ṣaḍrātraḥ pratyakṣam̐ hy etāni pṛṣṭhāni ya evaṃ vidvām̐saḥ ṣaḍrātram āsate sākṣād eva devatā abhyārohanti ṣaḍrātro bhavati ṣaḍ vā ṛtavaḥ ṣaṭ pṛṣṭhāni pṛṣṭhair evartūn anvārohanty ṛtubhiḥ saṃvatsaram | te saṃvatsara eva prati tiṣṭhanti bṛhadrathaṃtarābhyāṃ yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva yanti | atho anayor eva prati tiṣṭhanti | ete vai yajñasyāñjasāyanī srutī tābhyām eva suvargaṃ lokaṃ yanti trivṛd agniṣṭomo bhavati teja evāva rundhate pañcadaśo bhavati | indriyam evāva rundhate saptadaśaḥ bhavati | annādyasyāvaruddhyai | atho praiva tena jāyante | ekavim̐śo bhavati pratiṣṭhityai | atho rucam evātman dadhate triṇavo bhavati vijityai trayastrim̐śo bhavati pratiṣṭhityai sadohavirdhānina etena ṣaḍrātreṇa yajeran | āśvatthī havirdhānaṃ cāgnīdhraṃ ca bhavatas tad dhi suvargyam | cakrīvatī bhavataḥ suvargasya lokasya samaṣṭyai | ulūkhalabudhno yūpo bhavati pratiṣṭhityai prāñco yānti prāṅ iva hi suvargaḥ lokaḥ sarasvatyā yānti | eṣa vai devayānaḥ panthās tam evānvārohanti | ākrośanto yānti | avartim evānyasmin pratiṣajya pratiṣṭhāṃ gacchanti yadā daśa śataṃ kurvanty athaikam utthānam | śatāyuḥ puruṣaḥ śatendriyaḥ | āyuṣy evendriye prati tiṣṭhanti yadā śatam̐ sahasraṃ kurvanty athaikam utthānam | sahasrasammito vā asau lokaḥ | amum eva lokam abhi jayanti yadaiṣām pramīyeta yadā vā jīyerann athaikam utthānam | tad dhi tīrtham ||

Sanskrit only: no published translation is held for this verse.

कुसुरुबिन्द औद्दालकिर् अकामयत पशुमान्त् स्याम् इति स एतꣳ सप्तरात्रम् आहरत् तेनायजत तेन वै स यावन्तो ग्राम्याः पशवस् तान् अवारुन्द्ध य एवं विद्वान्त् सप्तरात्रेण यजते यावन्त एव ग्राम्याः पशवस् तान् एवाव रुन्द्धे सप्तरात्रो भवति सप्त ग्राम्याः पशवः सप्तारण्याः सप्त छन्दाꣳसि । उभयस्यावरुद्ध्यै त्रिवृद् अग्निष्टोमो भवति तेजः एवाव रुन्द्धे पञ्चदशो भवति । इन्द्रियम् एवाव रुन्द्धे सप्तदशो भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् धत्ते त्रिणवो भवति विजित्यै पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै यत् प्रत्यक्षम् पूर्वेष्व् अहःसु पृष्ठान्य् उपेयुः प्रत्यक्षम् विश्वजिति यथा दुग्धाम् उपसीदत्य् एवम् उत्तमम् अहः स्यात् । नैकरात्रश् चन स्यात् । बृहद्रथन्तरे पूर्वेष्व् अहःसूप यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव न यन्त्य् अथो अनयोर् एव प्रति तिष्ठन्ति यत् प्रत्यक्षं विश्वजिति पृष्ठान्य् उपयन्ति यथा प्रत्तां दुहे तादृग् एव तत् ॥

kusurubinda auddālakir akāmayata paśumānt syām iti sa etam̐ saptarātram āharat tenāyajata tena vai sa yāvanto grāmyāḥ paśavas tān avārunddha ya evaṃ vidvānt saptarātreṇa yajate yāvanta eva grāmyāḥ paśavas tān evāva runddhe saptarātro bhavati sapta grāmyāḥ paśavaḥ saptāraṇyāḥ sapta chandām̐si | ubhayasyāvaruddhyai trivṛd agniṣṭomo bhavati tejaḥ evāva runddhe pañcadaśo bhavati | indriyam evāva runddhe saptadaśo bhavati | annādyasyāvaruddhyai | atho praiva tena jāyate | ekavim̐śo bhavati pratiṣṭhityai | atho rucam evātman dhatte triṇavo bhavati vijityai pañcavim̐śo 'gniṣṭomo bhavati prajāpater āptyai mahāvratavān annādyasyāvaruddhyai viśvajit sarvapṛṣṭho 'tirātro bhavati sarvasyābhijityai yat pratyakṣam pūrveṣv ahaḥsu pṛṣṭhāny upeyuḥ pratyakṣam viśvajiti yathā dugdhām upasīdaty evam uttamam ahaḥ syāt | naikarātraś cana syāt | bṛhadrathantare pūrveṣv ahaḥsūpa yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva na yanty atho anayor eva prati tiṣṭhanti yat pratyakṣaṃ viśvajiti pṛṣṭhāny upayanti yathā prattāṃ duhe tādṛg eva tat ||

Sanskrit only: no published translation is held for this verse.

बृहस्पतिर् अकामयत ब्रह्मवर्चसी स्याम् इति स एतम् अष्टरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै स ब्रह्मवर्चस्य् अभवत् । य एवं विद्वान् अष्टरात्रेण यजते ब्रह्मवर्चस्य् एव भवति । अष्टरात्रो भवति । अष्टाक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसम् अव रुन्द्धे । अष्टरात्रो भवति चतस्रो वै दिशः । चतस्रो ऽवान्तरदिशाः । दिग्भ्य एव ब्रह्मवर्चसम् अव रुन्द्धे ॥ त्रिवृद् अग्निष्टोमो भवति तेज एवाव रुन्द्धे पञ्चदशो भवति । इन्द्रियम् एवाव रुन्द्धे सप्तदशो भवत्य् अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् धत्ते त्रिणवो भवति विजित्यै त्रयस्त्रिꣳशो भवति प्रतिष्ठित्यै पञ्चविꣳशो ऽग्निष्टोमो भवति प्रजापतेर् आप्त्यै महाव्रतवान् अन्नाद्यस्यावरुद्ध्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै ॥

bṛhaspatir akāmayata brahmavarcasī syām iti sa etam aṣṭarātram apaśyat tam āharat tenāyajata tato vai sa brahmavarcasy abhavat | ya evaṃ vidvān aṣṭarātreṇa yajate brahmavarcasy eva bhavati | aṣṭarātro bhavati | aṣṭākṣarā gāyatrī gāyatrī brahmavarcasam | gāyatriyaiva brahmavarcasam ava runddhe | aṣṭarātro bhavati catasro vai diśaḥ | catasro 'vāntaradiśāḥ | digbhya eva brahmavarcasam ava runddhe || trivṛd agniṣṭomo bhavati teja evāva runddhe pañcadaśo bhavati | indriyam evāva runddhe saptadaśo bhavaty annādyasyāvaruddhyai | atho praiva tena jāyate | ekavim̐śo bhavati pratiṣṭhityai | atho rucam evātman dhatte triṇavo bhavati vijityai trayastrim̐śo bhavati pratiṣṭhityai pañcavim̐śo 'gniṣṭomo bhavati prajāpater āptyai mahāvratavān annādyasyāvaruddhyai viśvajit sarvapṛṣṭho 'tirātro bhavati sarvasyābhijityai ||

Sanskrit only: no published translation is held for this verse.

प्रजापतिः प्रजा असृजत ताः सृष्टाः क्षुधं न्य् आयन् । स एतं नवरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै प्रजाभ्यो ऽकल्पत यर्हि प्रजाः क्षुधं निगच्छेयुस् तर्हि नवरात्रेण यजेत । इमे हि वा एतासां लोका अक्लृप्ता अथैताः क्षुधं नि गच्छन्ति । इमान् एवाभ्यो लोकान् कल्पयति तान् कल्पमानान् प्रजाभ्यो ऽनु कल्पते कल्पन्ते अस्मा इमे लोका ऊर्जम् प्रजासु दधाति त्रिरात्रेणैवेमं लोकं कल्पयति त्रिरात्त्रेणान्तरिक्षं त्रिरात्रेणामुं लोकम् । यथा गुणे गुणम् अन्वस्यत्य् एवम् एव तल् लोके लोकम् अन्व् अस्यति धृत्या अशिथिलम्भावाय ज्योतिर् गौर् आयुर् इति ज्ञाता स्तोमा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । एष्व् एव लोकेषु प्रति तिष्ठन्ति ज्ञात्रं प्रजानां गच्छति नवरात्रो भवति । अभिपूर्वम् एवास्मिन् तेजो दधाति यो ज्योगामयावी स्यात् स नवरात्रेण यजेत प्राणा हि वा एतस्याधृताः । अथैतस्य ज्योग् आमयति प्राणान् एवास्मिन् दाधार । उत यदीतासुर् भवति जीवत्य् एव ॥

prajāpatiḥ prajā asṛjata tāḥ sṛṣṭāḥ kṣudhaṃ ny āyan | sa etaṃ navarātram apaśyat tam āharat tenāyajata tato vai prajābhyo 'kalpata yarhi prajāḥ kṣudhaṃ nigaccheyus tarhi navarātreṇa yajeta | ime hi vā etāsāṃ lokā aklṛptā athaitāḥ kṣudhaṃ ni gacchanti | imān evābhyo lokān kalpayati tān kalpamānān prajābhyo 'nu kalpate kalpante asmā ime lokā ūrjam prajāsu dadhāti trirātreṇaivemaṃ lokaṃ kalpayati trirāttreṇāntarikṣaṃ trirātreṇāmuṃ lokam | yathā guṇe guṇam anvasyaty evam eva tal loke lokam anv asyati dhṛtyā aśithilambhāvāya jyotir gaur āyur iti jñātā stomā bhavanti | iyaṃ vāva jyotir antarikṣaṃ gaur asāv āyuḥ | eṣv eva lokeṣu prati tiṣṭhanti jñātraṃ prajānāṃ gacchati navarātro bhavati | abhipūrvam evāsmin tejo dadhāti yo jyogāmayāvī syāt sa navarātreṇa yajeta prāṇā hi vā etasyādhṛtāḥ | athaitasya jyog āmayati prāṇān evāsmin dādhāra | uta yadītāsur bhavati jīvaty eva ||

Sanskrit only: no published translation is held for this verse.

प्रजापतिर् अकामयत प्र जायेयेति स एतं दशहोतारम् अपश्यत् तम् अजुहोत् तेन दशरात्रम् असृजत तेन दशरात्रेण प्राजायत दशरात्राय दीक्षिष्यमाणो दशहोतारं जुहुयात् । दशहोत्रैव दशरात्रꣳ सृजते तेन दशरात्रेण प्र जायते वैराजो वा एष यज्ञो यद् दशरात्रः । य एवं विद्वान् दशरात्रेण यजते विराजम् एव गच्छति प्राजापत्यो वा एष यज्ञो यद् दशरात्रः ॥ य एवं विद्वान् दशरात्रेण यजते प्रैव जायते । इन्द्रो वै सदृङ् देवताभिर् आसीत् स न व्यावृतम् अगच्छत् स प्रजापतिम् उपाधावत् तस्मा एतं दशरात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् । य एवं विद्वान् दशरात्रेण यजते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छति त्रिककुद् वै एष यज्ञो यद् दशरात्रः ककुत् पञ्चदशः ककुद् एकविꣳशः ककुत् त्रयस्त्रिꣳशः । य एवं विद्वान् दशरात्रेण यजते त्रिककुद् एव समानानाम् भवति यजमानः पञ्चदशो यजमान एकविꣳशो यजमानस् त्रयस्त्रिꣳशः पुर इतराः अभिचर्यमाणो दशरात्रेण यजेत देवपुरा एव पर्यूहते तस्य न कुतश् चनोपाव्याधो भवति नैनम् अभिचरन्त् स्तृणुते देवासुराः संयत्ता आसन् ते देवा एताः देवपुरा अपश्यन् यद् दशरात्रस् ताः पर्य् औहन्त तेषां न कुतश् चनोपाव्याधो ऽभवत् ततो देवा अभवन् पराऽसुराः । यो भ्रातृव्यवान्त् स्यात् स दशरात्रेण यजेत देवपुरा एव पर्यूहते तस्य न कुतश् चनोपाव्याधो भवति भवत्य् आत्मना परास्य भ्रातृव्यो भवति स्तोम स्तोमस्योपस्तिर् भवति भ्रातृव्यम् एवोपस्तिं कुरुते जामि वै एतत् कुर्वन्ति यज् ज्यायाꣳसꣳ स्तोमम् उपेत्य कनीयाꣳसम् उपयन्ति यद् अग्निष्टोमसामान्य् अवस्ताच् च परस्ताच् च भवन्त्य् अजामित्वाय त्रिवृद् अग्निष्टोमो ऽग्निष्टुद् आग्नेयीषु भवति तेज एवाव रुन्द्धे पञ्चदश उक्थ्य ऐन्द्रीषु । इन्द्रियम् एवाव रुन्द्धे त्रिवृद् अग्निष्टोमो वैश्वदेवीषु पुष्टिम् एवाव रुन्द्धे सप्तदशो ऽग्निष्टोमः प्राजापत्यासु तीव्रसोमः । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायते ॥ एकविꣳश उक्थ्यः सौरीषु प्रतिष्ठित्यै । अथो रुचम् एवात्मन् धत्ते सप्तदशो ऽग्निष्टोमः प्राजापत्यासूपहव्यः । उपहवम् एव गच्छति त्रिणवाव् अग्निष्टोमाव् अभित ऐन्द्रीषु विजित्यै त्रयस्त्रिꣳश उक्थ्यो वैश्वदेवीषु प्रतिष्ठित्यै विश्वजित् सर्वपृष्ठो ऽतिरात्रो भवति सर्वस्याभिजित्यै ॥

prajāpatir akāmayata pra jāyeyeti sa etaṃ daśahotāram apaśyat tam ajuhot tena daśarātram asṛjata tena daśarātreṇa prājāyata daśarātrāya dīkṣiṣyamāṇo daśahotāraṃ juhuyāt | daśahotraiva daśarātram̐ sṛjate tena daśarātreṇa pra jāyate vairājo vā eṣa yajño yad daśarātraḥ | ya evaṃ vidvān daśarātreṇa yajate virājam eva gacchati prājāpatyo vā eṣa yajño yad daśarātraḥ || ya evaṃ vidvān daśarātreṇa yajate praiva jāyate | indro vai sadṛṅ devatābhir āsīt sa na vyāvṛtam agacchat sa prajāpatim upādhāvat tasmā etaṃ daśarātram prāyacchat tam āharat tenāyajata tato vai so 'nyābhir devatābhir vyāvṛtam agacchat | ya evaṃ vidvān daśarātreṇa yajate vyāvṛtam eva pāpmanā bhrātṛvyeṇa gacchati trikakud vai eṣa yajño yad daśarātraḥ kakut pañcadaśaḥ kakud ekavim̐śaḥ kakut trayastrim̐śaḥ | ya evaṃ vidvān daśarātreṇa yajate trikakud eva samānānām bhavati yajamānaḥ pañcadaśo yajamāna ekavim̐śo yajamānas trayastrim̐śaḥ pura itarāḥ abhicaryamāṇo daśarātreṇa yajeta devapurā eva paryūhate tasya na kutaś canopāvyādho bhavati nainam abhicarant stṛṇute devāsurāḥ saṃyattā āsan te devā etāḥ devapurā apaśyan yad daśarātras tāḥ pary auhanta teṣāṃ na kutaś canopāvyādho 'bhavat tato devā abhavan parā'surāḥ | yo bhrātṛvyavānt syāt sa daśarātreṇa yajeta devapurā eva paryūhate tasya na kutaś canopāvyādho bhavati bhavaty ātmanā parāsya bhrātṛvyo bhavati stoma stomasyopastir bhavati bhrātṛvyam evopastiṃ kurute jāmi vai etat kurvanti yaj jyāyām̐sam̐ stomam upetya kanīyām̐sam upayanti yad agniṣṭomasāmāny avastāc ca parastāc ca bhavanty ajāmitvāya trivṛd agniṣṭomo 'gniṣṭud āgneyīṣu bhavati teja evāva runddhe pañcadaśa ukthya aindrīṣu | indriyam evāva runddhe trivṛd agniṣṭomo vaiśvadevīṣu puṣṭim evāva runddhe saptadaśo 'gniṣṭomaḥ prājāpatyāsu tīvrasomaḥ | annādyasyāvaruddhyai | atho praiva tena jāyate || ekavim̐śa ukthyaḥ saurīṣu pratiṣṭhityai | atho rucam evātman dhatte saptadaśo 'gniṣṭomaḥ prājāpatyāsūpahavyaḥ | upahavam eva gacchati triṇavāv agniṣṭomāv abhita aindrīṣu vijityai trayastrim̐śa ukthyo vaiśvadevīṣu pratiṣṭhityai viśvajit sarvapṛṣṭho 'tirātro bhavati sarvasyābhijityai ||

Sanskrit only: no published translation is held for this verse.

ऋतवो वै प्रजाकामाः प्रजां नाविन्दन्त ते ऽकामयन्त प्रजाꣳ सृजेमहि प्रजाम् अव रुन्धीमहि प्रजां विन्देमहि प्रजावन्तः स्यामेति त एतम् एकादशरात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते प्रजाम् असृजन्त प्रजाम् अवारुन्धत प्रजाम् अविन्दन्त प्रजावन्तो ऽभवन् त ऋतवो ऽभवन् तद् आर्तवानाम् आर्तवत्वम् ऋतूनां वा एते पुत्रास् तस्मात् आर्तवा उच्यन्ते य एवं विद्वाꣳस एकादशरात्रम् आसते प्रजाम् एव सृजन्ते प्रजाम् अव रुन्धते प्रजां विन्दन्ते प्रजावन्तो भवन्ति ज्योतिर् अतिरात्रो भवति ज्योतिर् एव पुरस्ताद् दधते सुवर्गस्य लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति षड् वा ऋतवः षट् पृष्ठानि पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव प्रति तिष्ठन्ति चतुर्विꣳशो भवति चतुर्विꣳशत्यक्षरा गायत्री गायत्रम् ब्रह्मवर्चसम् । गायत्रियाम् एव ब्रह्मवर्चसे प्रति तिष्ठन्ति चतुश्चत्वारिꣳशो भवति चतुष्चत्वारिꣳशदक्षरा त्रिष्टुग् इन्द्रियं त्रिष्टुप् त्रिष्टुभ्य् एवेन्द्रिये प्रति तिष्ठन्ति । अष्टाचत्वारिꣳशो भवति । अष्टाचत्वारिꣳशदक्षरा जगती जागताः पशवः । जगत्याम् एव पशुषु प्रति तिष्ठन्ति । एकादशरात्रो भवति पञ्च वा ऋतव आर्तवाः पञ्च । ऋतुष्व् एवाऽऽर्तवेषु संवत्सरे प्रतिष्ठाय प्रजाम् अव रुन्धते । अतिरात्राव् अभितो भवतः प्रजायै परिगृहीत्यै ॥

ṛtavo vai prajākāmāḥ prajāṃ nāvindanta te 'kāmayanta prajām̐ sṛjemahi prajām ava rundhīmahi prajāṃ vindemahi prajāvantaḥ syāmeti ta etam ekādaśarātram apaśyan tam āharan tenāyajanta tato vai te prajām asṛjanta prajām avārundhata prajām avindanta prajāvanto 'bhavan ta ṛtavo 'bhavan tad ārtavānām ārtavatvam ṛtūnāṃ vā ete putrās tasmāt ārtavā ucyante ya evaṃ vidvām̐sa ekādaśarātram āsate prajām eva sṛjante prajām ava rundhate prajāṃ vindante prajāvanto bhavanti jyotir atirātro bhavati jyotir eva purastād dadhate suvargasya lokasyānukhyātyai pṛṣṭhyaḥ ṣaḍaho bhavati ṣaḍ vā ṛtavaḥ ṣaṭ pṛṣṭhāni pṛṣṭhair evartūn anvārohanty ṛtubhiḥ saṃvatsaram | te saṃvatsara eva prati tiṣṭhanti caturvim̐śo bhavati caturvim̐śatyakṣarā gāyatrī gāyatram brahmavarcasam | gāyatriyām eva brahmavarcase prati tiṣṭhanti catuścatvārim̐śo bhavati catuṣcatvārim̐śadakṣarā triṣṭug indriyaṃ triṣṭup triṣṭubhy evendriye prati tiṣṭhanti | aṣṭācatvārim̐śo bhavati | aṣṭācatvārim̐śadakṣarā jagatī jāgatāḥ paśavaḥ | jagatyām eva paśuṣu prati tiṣṭhanti | ekādaśarātro bhavati pañca vā ṛtava ārtavāḥ pañca | ṛtuṣv evā''rtaveṣu saṃvatsare pratiṣṭhāya prajām ava rundhate | atirātrāv abhito bhavataḥ prajāyai parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

ऐन्द्रवायवाग्रान् गृह्णीयाद् यः कामयेत यथापूर्वम् प्रजाः कल्पेरन्न् इति यज्ञस्य वै क्लृप्तिम् अनु प्रजाः कल्पन्ते यज्ञस्याक्लृप्तिम् अनु न कल्पन्ते यथापूर्वम् एव प्रजाः कल्पयति न ज्यायाꣳसं कनीयान् अति क्रामति । ऐन्द्रवायवाग्रान् गृह्णीयाद् आमयाविनः प्राणेन वा एष व्यृध्यते यस्याऽऽमयति प्राण ऐन्द्रवायवः प्राणेनैवैनꣳ सम् अर्धयति मैत्रावरुणाग्रान् गृह्णीरन् येषां दीक्षितानाम् प्रमीयेत । प्राणापानाभ्यां वा एते व्यृध्यन्ते येषां दीक्षितानाम् प्रमीयते प्राणापानौ मित्रावरुणौ प्राणापानाव् एव मुखतः परि हरन्ते । आश्विनाग्रान् गृह्णीताऽऽनुजावरः । अश्विनौ वै देवानाम् आनुजावरौ पश्चेवाग्रम् पर्य् ऐताम् अश्विनाव् एतस्या देवता य आनुजावरस् ताव् एवैनम् अग्रम् परि णयतः शुक्राग्रान् गृह्णीत गतश्रीः प्रतिष्ठाकामः । असौ वा आदित्यः शुक्र एषो ऽन्तः । अन्तम् मनुष्यः श्रियै गत्त्वा नि वर्तते । अन्ताद् एवान्तम् आ रभते न ततः पापीयान् भवति मन्थ्यग्रान् गृह्णीताभिचरन् । आर्तपात्रं वा एतद् यन् मन्थिपात्रम् मृत्युनैवैनं ग्राहयति ताजग् आर्तिम् आर्छति । आग्रयणाग्रान् गृह्णीत यस्य पिता पितामहः पुण्यः स्याद् अथ तन् न प्राप्नुयात् । वाचा वा एष इन्द्रियेण व्यृध्यते यस्य पिता पितामहः पुण्यः भवत्य् अथ तन् न प्राप्नोति । उर इवैतद् यज्ञस्य वाग् इव यद् आग्रयणः । वाचैवैनम् इन्द्रियेण सम् अर्धयति न ततः पापीयान् भवति । उक्थ्याग्रान् गृह्णीताभिचर्यमाणः सर्वेषां वा एतत् पात्राणाम् इन्द्रियं यद् उक्थ्यपात्रम् । सर्वेणैवैनम् इन्द्रियेणाति प्र युङ्क्ते सरस्वत्य् अभि नो नेषि वस्य इति पुरोरुचं कुर्यात् । वाग् वै सरस्वती वाचैवैनम् अति प्र युङ्क्ते मा त्वत् क्षेत्राण्य् अरणानि गन्मेत्य् आह मृत्योर् वै क्षेत्राण्य् अरणानि तेनैव मृत्योः क्षेत्राणि न गच्छति पूर्णान् ग्रहान् गृह्णीयाद् आमयाविनः प्राणान् वा एतस्य शुग् ऋच्छति यस्यामयति प्राणा ग्रहाः प्राणान् एवास्य शुचो मुञ्चति । उत यदीतासुर् भवति जीवत्य् एव पूर्णान् ग्रहान् गृह्णीयाद् यर्हि पर्जन्यो न वर्षेत् प्राणान् वा एतर्हि प्रजानाꣳ शुग् ऋच्छति यर्हि पर्जन्यो न वर्षति प्राणा ग्रहाः प्राणान् एव प्रजानाꣳ शुचो मुञ्चति ताजक् प्र वर्षति ॥

aindravāyavāgrān gṛhṇīyād yaḥ kāmayeta yathāpūrvam prajāḥ kalperann iti yajñasya vai klṛptim anu prajāḥ kalpante yajñasyāklṛptim anu na kalpante yathāpūrvam eva prajāḥ kalpayati na jyāyām̐saṃ kanīyān ati krāmati | aindravāyavāgrān gṛhṇīyād āmayāvinaḥ prāṇena vā eṣa vyṛdhyate yasyā''mayati prāṇa aindravāyavaḥ prāṇenaivainam̐ sam ardhayati maitrāvaruṇāgrān gṛhṇīran yeṣāṃ dīkṣitānām pramīyeta | prāṇāpānābhyāṃ vā ete vyṛdhyante yeṣāṃ dīkṣitānām pramīyate prāṇāpānau mitrāvaruṇau prāṇāpānāv eva mukhataḥ pari harante | āśvināgrān gṛhṇītā''nujāvaraḥ | aśvinau vai devānām ānujāvarau paścevāgram pary aitām aśvināv etasyā devatā ya ānujāvaras tāv evainam agram pari ṇayataḥ śukrāgrān gṛhṇīta gataśrīḥ pratiṣṭhākāmaḥ | asau vā ādityaḥ śukra eṣo 'ntaḥ | antam manuṣyaḥ śriyai gattvā ni vartate | antād evāntam ā rabhate na tataḥ pāpīyān bhavati manthyagrān gṛhṇītābhicaran | ārtapātraṃ vā etad yan manthipātram mṛtyunaivainaṃ grāhayati tājag ārtim ārchati | āgrayaṇāgrān gṛhṇīta yasya pitā pitāmahaḥ puṇyaḥ syād atha tan na prāpnuyāt | vācā vā eṣa indriyeṇa vyṛdhyate yasya pitā pitāmahaḥ puṇyaḥ bhavaty atha tan na prāpnoti | ura ivaitad yajñasya vāg iva yad āgrayaṇaḥ | vācaivainam indriyeṇa sam ardhayati na tataḥ pāpīyān bhavati | ukthyāgrān gṛhṇītābhicaryamāṇaḥ sarveṣāṃ vā etat pātrāṇām indriyaṃ yad ukthyapātram | sarveṇaivainam indriyeṇāti pra yuṅkte sarasvaty abhi no neṣi vasya iti purorucaṃ kuryāt | vāg vai sarasvatī vācaivainam ati pra yuṅkte mā tvat kṣetrāṇy araṇāni ganmety āha mṛtyor vai kṣetrāṇy araṇāni tenaiva mṛtyoḥ kṣetrāṇi na gacchati pūrṇān grahān gṛhṇīyād āmayāvinaḥ prāṇān vā etasya śug ṛcchati yasyāmayati prāṇā grahāḥ prāṇān evāsya śuco muñcati | uta yadītāsur bhavati jīvaty eva pūrṇān grahān gṛhṇīyād yarhi parjanyo na varṣet prāṇān vā etarhi prajānām̐ śug ṛcchati yarhi parjanyo na varṣati prāṇā grahāḥ prāṇān eva prajānām̐ śuco muñcati tājak pra varṣati ||

Sanskrit only: no published translation is held for this verse.

गायत्रो वा ऐन्द्रवायवः । गायत्रम् प्रायणीयम् अहर् । तस्मात् प्रायणीये ऽहन्न् ऐन्द्रवायवो गृह्यते स्व एवैनम् आयतने गृह्णाति त्रैष्टुभो वै शुक्रस् त्रैष्टुभम् द्वितीयम् अहर् । तस्माद् द्वितीये ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति जागतो वा आग्रयणः । जागतं तृतीयम् अहर् । तस्मात् तृतीये ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति । एतद् वै यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति यद् आग्रयणः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते जगन्मुखो वै द्वितीयस् त्रिरात्रः । जागत आग्रयणः । यच् चतुर्थे ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति । अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते राथंतरो वा ऐन्द्रवायवः । राथंतरम् पञ्चमम् अहर् । तस्मात् पञ्चमे ऽहन् ऐन्द्रवायवो गृह्यते स्व एवैनम् आयतने गृह्णाति बार्हतो वै शुक्रः । बार्हतꣳ षष्ठम् अहर् । तस्मात् षष्ठे ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति । एतद् वै द्वितीयं यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति यच् छुक्रः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते त्रिष्टुङ्मुखो वै तृतीयस् त्रिरात्रस् त्रैष्टुभः शुक्रः । यत् सप्तमे ऽहञ् छुक्रो गृह्यते स्व एवैनम् आयतने गृह्णाति । अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते वाग् वा आग्रयणः । वाग् अष्टमम् अहर् । तस्माद् अष्टमे ऽहन्न् आग्रयणो गृह्यते स्व एवैनम् आयतने गृह्णाति प्राणो वा ऐन्द्रवायवः प्राणो नवमम् अहर् । तस्मान् नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते स्व एवैनम् आयतने गृह्णाति । एतत् वै तृतीयं यज्ञम् आपद् यच् छन्दाꣳस्य् आप्नोति यद् ऐन्द्रवायवः श्वो गृह्यते यत्रैव यज्ञम् अदृशन् तत एवैनम् पुनः प्र युङ्क्ते । अथो स्वम् एव छन्दो ऽनु पर्यावर्तन्ते पथो वा एते ऽध्य् अपथेन यन्ति ये ऽन्येनैन्द्रवायवात् प्रतिपद्यन्ते । अन्तः खलु वा एष यज्ञस्य यद् दशमम् अहर् दशमे ऽहन्न् ऐन्द्रवायवो गृह्यते यज्ञस्य एवान्तं गत्वा पथात् पन्थाम् अपि यन्ति । अथो यथा वहीयसा प्रतिसारं वहन्ति तादृग् एव तत् । छन्दाꣳस्य् अन्योऽन्यस्य लोकम् अभ्यध्यायन् तान्य् एतेनैव देवा व्यवाहयन् । ऐन्द्रवायवस्य वा एतद् आयतनं यच् चतुर्थम् अहर् । तस्मिन्न् आग्रयणो गृह्यते तस्माद् आग्रयणस्यायतने नवमे ऽहन्न् ऐन्द्रवायवो गृह्यते शुक्रस्य वा एतद् आयतनं यत् पञ्चमम् अहर् । तस्मिन्न् ऐन्द्रवायवो गृह्यते तस्माद् ऐन्द्रवायवस्याऽऽयतने सप्तमे ऽहञ् छुक्रो गृह्यते । आग्रयणस्य वा एतद् आयतनं यत् षष्ठम् अहर् । तस्मिञ् छुक्रो गृह्यते तस्माच् छुक्रस्यायतने ऽष्टमे ऽहन्न् आग्रयणो गृह्यते छन्दाꣳस्य् एव तद् वि वाहयति प्र वस्यसो विवाहम् आप्नोति य एवं वेद । अथो देवताभ्य एव यज्ञे संविदं दधाति तस्माद् इदम् अन्योऽन्यस्मै दधाति ॥

gāyatro vā aindravāyavaḥ | gāyatram prāyaṇīyam ahar | tasmāt prāyaṇīye 'hann aindravāyavo gṛhyate sva evainam āyatane gṛhṇāti traiṣṭubho vai śukras traiṣṭubham dvitīyam ahar | tasmād dvitīye 'hañ chukro gṛhyate sva evainam āyatane gṛhṇāti jāgato vā āgrayaṇaḥ | jāgataṃ tṛtīyam ahar | tasmāt tṛtīye 'hann āgrayaṇo gṛhyate sva evainam āyatane gṛhṇāti | etad vai yajñam āpad yac chandām̐sy āpnoti yad āgrayaṇaḥ śvo gṛhyate yatraiva yajñam adṛśan tata evainam punaḥ pra yuṅkte jaganmukho vai dvitīyas trirātraḥ | jāgata āgrayaṇaḥ | yac caturthe 'hann āgrayaṇo gṛhyate sva evainam āyatane gṛhṇāti | atho svam eva chando 'nu paryāvartante rāthaṃtaro vā aindravāyavaḥ | rāthaṃtaram pañcamam ahar | tasmāt pañcame 'han aindravāyavo gṛhyate sva evainam āyatane gṛhṇāti bārhato vai śukraḥ | bārhatam̐ ṣaṣṭham ahar | tasmāt ṣaṣṭhe 'hañ chukro gṛhyate sva evainam āyatane gṛhṇāti | etad vai dvitīyaṃ yajñam āpad yac chandām̐sy āpnoti yac chukraḥ śvo gṛhyate yatraiva yajñam adṛśan tata evainam punaḥ pra yuṅkte triṣṭuṅmukho vai tṛtīyas trirātras traiṣṭubhaḥ śukraḥ | yat saptame 'hañ chukro gṛhyate sva evainam āyatane gṛhṇāti | atho svam eva chando 'nu paryāvartante vāg vā āgrayaṇaḥ | vāg aṣṭamam ahar | tasmād aṣṭame 'hann āgrayaṇo gṛhyate sva evainam āyatane gṛhṇāti prāṇo vā aindravāyavaḥ prāṇo navamam ahar | tasmān navame 'hann aindravāyavo gṛhyate sva evainam āyatane gṛhṇāti | etat vai tṛtīyaṃ yajñam āpad yac chandām̐sy āpnoti yad aindravāyavaḥ śvo gṛhyate yatraiva yajñam adṛśan tata evainam punaḥ pra yuṅkte | atho svam eva chando 'nu paryāvartante patho vā ete 'dhy apathena yanti ye 'nyenaindravāyavāt pratipadyante | antaḥ khalu vā eṣa yajñasya yad daśamam ahar daśame 'hann aindravāyavo gṛhyate yajñasya evāntaṃ gatvā pathāt panthām api yanti | atho yathā vahīyasā pratisāraṃ vahanti tādṛg eva tat | chandām̐sy anyo'nyasya lokam abhyadhyāyan tāny etenaiva devā vyavāhayan | aindravāyavasya vā etad āyatanaṃ yac caturtham ahar | tasminn āgrayaṇo gṛhyate tasmād āgrayaṇasyāyatane navame 'hann aindravāyavo gṛhyate śukrasya vā etad āyatanaṃ yat pañcamam ahar | tasminn aindravāyavo gṛhyate tasmād aindravāyavasyā''yatane saptame 'hañ chukro gṛhyate | āgrayaṇasya vā etad āyatanaṃ yat ṣaṣṭham ahar | tasmiñ chukro gṛhyate tasmāc chukrasyāyatane 'ṣṭame 'hann āgrayaṇo gṛhyate chandām̐sy eva tad vi vāhayati pra vasyaso vivāham āpnoti ya evaṃ veda | atho devatābhya eva yajñe saṃvidaṃ dadhāti tasmād idam anyo'nyasmai dadhāti ||

Sanskrit only: no published translation is held for this verse.

प्रजापतिर् अकामयत प्र जायेयेति स एतं द्वादशरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै स प्राजायत यः कामयेत प्र जायेयेति स द्वादशरात्रेण यजेत प्रैव जायते ब्रह्मवादिनो वदन्ति । अग्निष्टोमप्रायणा यज्ञा अथ कस्माद् अतिरात्रः पूर्वः प्र युज्यत इति चक्षुषी वा एते यज्ञस्य यद् अतिरात्रौ कनीनिके अग्निष्टोमौ यत् अग्निष्टोमं पूर्वम् प्रयुञ्जीरन् बहिर्धा कनीनिके दध्युस् तस्माद् अतिरात्रः पूर्वः प्र युज्यते चक्षुषी एव यज्ञे धित्वा मध्यतः कनीनिके प्रति दधति यो वै गायत्रीं ज्योतिःपक्षां वेद ज्योतिषा भासा सुवर्गं लोकम् एति याव् अग्निष्टोमौ तौ पक्षौ ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा । एषा वै गायत्री ज्योतिःपक्षा य एवं वेद ज्योतिषा भासा सुवर्गं लोकम् एति प्रजापतिर् वा एष द्वादशधा विहितो यद् द्वादशरात्रः । याव् अतिरात्रौ तौ पक्षौ ये ऽन्तरे ऽष्टाव् उक्थ्याः स आत्मा प्रजापतिर् वावैष सन्त् सद् ध वै सत्त्रेण स्पृणोति प्राणा वै सत् प्राणान् एव स्पृणोति सर्वासां वा एते प्रजानाम् प्राणैर् आसते ये सत्त्रम् आसते तस्मात् पृच्छन्ति किम् एते सत्त्रिण इति प्रियः प्रजानाम् उत्थितो भवति य एवं वेद ॥

prajāpatir akāmayata pra jāyeyeti sa etaṃ dvādaśarātram apaśyat tam āharat tenāyajata tato vai sa prājāyata yaḥ kāmayeta pra jāyeyeti sa dvādaśarātreṇa yajeta praiva jāyate brahmavādino vadanti | agniṣṭomaprāyaṇā yajñā atha kasmād atirātraḥ pūrvaḥ pra yujyata iti cakṣuṣī vā ete yajñasya yad atirātrau kanīnike agniṣṭomau yat agniṣṭomaṃ pūrvam prayuñjīran bahirdhā kanīnike dadhyus tasmād atirātraḥ pūrvaḥ pra yujyate cakṣuṣī eva yajñe dhitvā madhyataḥ kanīnike prati dadhati yo vai gāyatrīṃ jyotiḥpakṣāṃ veda jyotiṣā bhāsā suvargaṃ lokam eti yāv agniṣṭomau tau pakṣau ye 'ntare 'ṣṭāv ukthyāḥ sa ātmā | eṣā vai gāyatrī jyotiḥpakṣā ya evaṃ veda jyotiṣā bhāsā suvargaṃ lokam eti prajāpatir vā eṣa dvādaśadhā vihito yad dvādaśarātraḥ | yāv atirātrau tau pakṣau ye 'ntare 'ṣṭāv ukthyāḥ sa ātmā prajāpatir vāvaiṣa sant sad dha vai sattreṇa spṛṇoti prāṇā vai sat prāṇān eva spṛṇoti sarvāsāṃ vā ete prajānām prāṇair āsate ye sattram āsate tasmāt pṛcchanti kim ete sattriṇa iti priyaḥ prajānām utthito bhavati ya evaṃ veda ||

Sanskrit only: no published translation is held for this verse.

न वा एषो ऽन्यतोवैश्वानरः सुवर्गाय लोकाय प्राभवत् । ऊर्ध्वो ह वा एष आतत आसीत् ते देवा एतं वैश्वानरम् पर्य् औहन्त् सुवर्गस्य लोकस्य प्रभूत्यै । ऋतवो वा एतेन प्रजापतिम् अयाजयन् तेष्व् आर्ध्नोद् अधि तत् ऋध्नोति ह वा ऋत्विक्षु य एवं विद्वान् द्वादशाहेन यजते ते ऽस्मिन्न् ऐच्छन्त स रसम् अह वसन्ताय प्रायच्छत् यवं ग्रीष्मायौषधीर् वर्षाभ्यो व्रीहीञ् छरदे माषतिलौ हेमन्तशिशिराभ्याम् । तेनेन्द्रम् प्रजापतिर् अयाजयत् ततो वा इन्द्र इन्द्रो ऽभवत् तस्माद् आहुः । आनुजावरस्य यज्ञ इति स ह्य् एतेनाग्रे ऽयजत । एष ह वै कुणपम् अत्ति यः सत्त्रे प्रतिगृह्णाति पुरुषकुणपम् अश्वकुणपम् । गौर् वा अन्नम् । येन पात्रेणान्नम् बिभ्रति यत् तन् न निर्णेनिजति ततो ऽधि मलं जायते । एक एव यजेत । एको हि प्रजापतिर् आर्ध्नोत् । द्वादश रात्रीर् दीक्षितः स्यात् । द्वादश मासाः संवत्सरः संवत्सरः प्रजापतिः प्रजापतिर् वावैष एष ह त्वै जायते यस् तपसो ऽधि जायते चतुर्धा वा एतास् तिस्रस्तिस्रो रात्रयो यद् द्वादशोपसदः । याः प्रथमा यज्ञं ताभिः सम् भरति या द्वितीया यज्ञं ताभिर् आ रभते यास् तृतीयाः पात्राणि ताभिर् निर्णेनिक्ते याश् चतुर्थीर् अपि ताभिर् आत्मानम् अन्तरतः शुन्धते यो वा अस्य पशुम् अत्ति माꣳसꣳ सो ऽत्ति यः पुरोडाशम् मस्तिष्कꣳ स यः परिवापम् पुरीषꣳ स य आज्यम् मज्जानꣳ स यः सोमꣳ स्वेदꣳ सः । अपि ह वा अस्य शीर्षण्या निष्पदः प्रति गृह्णाति यो द्वादशाहे प्रतिगृह्णाति तस्माद् द्वादशाहेन न याज्यम् पाप्मनो व्यावृत्त्यै ॥

na vā eṣo 'nyatovaiśvānaraḥ suvargāya lokāya prābhavat | ūrdhvo ha vā eṣa ātata āsīt te devā etaṃ vaiśvānaram pary auhant suvargasya lokasya prabhūtyai | ṛtavo vā etena prajāpatim ayājayan teṣv ārdhnod adhi tat ṛdhnoti ha vā ṛtvikṣu ya evaṃ vidvān dvādaśāhena yajate te 'sminn aicchanta sa rasam aha vasantāya prāyacchat yavaṃ grīṣmāyauṣadhīr varṣābhyo vrīhīñ charade māṣatilau hemantaśiśirābhyām | tenendram prajāpatir ayājayat tato vā indra indro 'bhavat tasmād āhuḥ | ānujāvarasya yajña iti sa hy etenāgre 'yajata | eṣa ha vai kuṇapam atti yaḥ sattre pratigṛhṇāti puruṣakuṇapam aśvakuṇapam | gaur vā annam | yena pātreṇānnam bibhrati yat tan na nirṇenijati tato 'dhi malaṃ jāyate | eka eva yajeta | eko hi prajāpatir ārdhnot | dvādaśa rātrīr dīkṣitaḥ syāt | dvādaśa māsāḥ saṃvatsaraḥ saṃvatsaraḥ prajāpatiḥ prajāpatir vāvaiṣa eṣa ha tvai jāyate yas tapaso 'dhi jāyate caturdhā vā etās tisrastisro rātrayo yad dvādaśopasadaḥ | yāḥ prathamā yajñaṃ tābhiḥ sam bharati yā dvitīyā yajñaṃ tābhir ā rabhate yās tṛtīyāḥ pātrāṇi tābhir nirṇenikte yāś caturthīr api tābhir ātmānam antarataḥ śundhate yo vā asya paśum atti mām̐sam̐ so 'tti yaḥ puroḍāśam mastiṣkam̐ sa yaḥ parivāpam purīṣam̐ sa ya ājyam majjānam̐ sa yaḥ somam̐ svedam̐ saḥ | api ha vā asya śīrṣaṇyā niṣpadaḥ prati gṛhṇāti yo dvādaśāhe pratigṛhṇāti tasmād dvādaśāhena na yājyam pāpmano vyāvṛttyai ||

Sanskrit only: no published translation is held for this verse.

एकस्मै स्वाहा द्वाभ्याꣳ स्वाहा त्रिभ्यः स्वाहा चतुर्भ्यः स्वाहा पञ्चभ्यः स्वाहा षड्भ्यः स्वाहा सप्तभ्यः स्वाहा । अष्टाभ्यः स्वाहा नवभ्यः स्वाहा दशभ्यः स्वाहा । एकादशभ्यः स्वाहा द्वादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा चतुर्दशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा षोडशभ्यः स्वाहा सप्तदशभ्यः स्वाहा । अष्टादशभ्यः स्वाहा । एकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहा । एकान्न चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहा । एकान्न षष्ट्यै स्वाहा नवषष्ट्यै स्वाहा । एकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहा । एकान्न शताय स्वाहा शताय स्वाहा द्वाभ्याꣳ शताभ्याꣳ स्वाहा सर्वस्मै स्वाहा ॥

ekasmai svāhā dvābhyām̐ svāhā tribhyaḥ svāhā caturbhyaḥ svāhā pañcabhyaḥ svāhā ṣaḍbhyaḥ svāhā saptabhyaḥ svāhā | aṣṭābhyaḥ svāhā navabhyaḥ svāhā daśabhyaḥ svāhā | ekādaśabhyaḥ svāhā dvādaśabhyaḥ svāhā trayodaśabhyaḥ svāhā caturdaśabhyaḥ svāhā pañcadaśabhyaḥ svāhā ṣoḍaśabhyaḥ svāhā saptadaśabhyaḥ svāhā | aṣṭādaśabhyaḥ svāhā | ekānna vim̐śatyai svāhā navavim̐śatyai svāhā | ekānna catvārim̐śate svāhā navacatvārim̐śate svāhā | ekānna ṣaṣṭyai svāhā navaṣaṣṭyai svāhā | ekānnāśītyai svāhā navāśītyai svāhā | ekānna śatāya svāhā śatāya svāhā dvābhyām̐ śatābhyām̐ svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

एकस्मै स्वाहा त्रिभ्यः स्वाहा पञ्चभ्यः स्वाहा सप्तभ्यः स्वाहा नवभ्यः स्वाहा । एकादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा सप्तदशभ्यः स्वाहा । एकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहा । एकान्न चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहा । एकान्न षष्ट्यै स्वाहा नवषष्ट्यै स्वाहा । एकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहा । एकान्न शताय स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

ekasmai svāhā tribhyaḥ svāhā pañcabhyaḥ svāhā saptabhyaḥ svāhā navabhyaḥ svāhā | ekādaśabhyaḥ svāhā trayodaśabhyaḥ svāhā pañcadaśabhyaḥ svāhā saptadaśabhyaḥ svāhā | ekānna vim̐śatyai svāhā navavim̐śatyai svāhā | ekānna catvārim̐śate svāhā navacatvārim̐śate svāhā | ekānna ṣaṣṭyai svāhā navaṣaṣṭyai svāhā | ekānnāśītyai svāhā navāśītyai svāhā | ekānna śatāya svāhā śatāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

द्वाभ्याꣳ स्वाहा चतुर्भ्यः स्वाहा षड्भ्यः स्वाहा । अष्टाभ्यः स्वाहा दशभ्यः स्वाहा द्वादशभ्यः स्वाहा चतुर्दशभ्यः स्वाहा षोडशभ्यः स्वाहा । अष्टादशभ्यः स्वाहा विꣳशत्यै स्वाहा । अष्टानवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

dvābhyām̐ svāhā caturbhyaḥ svāhā ṣaḍbhyaḥ svāhā | aṣṭābhyaḥ svāhā daśabhyaḥ svāhā dvādaśabhyaḥ svāhā caturdaśabhyaḥ svāhā ṣoḍaśabhyaḥ svāhā | aṣṭādaśabhyaḥ svāhā vim̐śatyai svāhā | aṣṭānavatyai svāhā śatāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

त्रिभ्यः स्वाहा पञ्चभ्यः स्वाहा सप्तभ्यः स्वाहा नवभ्यः स्वाहा । एकादशभ्यः स्वाहा त्रयोदशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा सप्तदशभ्यः स्वाहा । एकान्न विꣳशत्यै स्वाहा नवविꣳशत्यै स्वाहा । एकान्न चत्वारिꣳशते स्वाहा नवचत्वारिꣳशते स्वाहा । एकान्न षष्ट्यै स्वाहा नवषष्ट्यै स्वाहा । एकान्नाशीत्यै स्वाहा नवाशीत्यै स्वाहा । एकान्न शताय स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

tribhyaḥ svāhā pañcabhyaḥ svāhā saptabhyaḥ svāhā navabhyaḥ svāhā | ekādaśabhyaḥ svāhā trayodaśabhyaḥ svāhā pañcadaśabhyaḥ svāhā saptadaśabhyaḥ svāhā | ekānna vim̐śatyai svāhā navavim̐śatyai svāhā | ekānna catvārim̐śate svāhā navacatvārim̐śate svāhā | ekānna ṣaṣṭyai svāhā navaṣaṣṭyai svāhā | ekānnāśītyai svāhā navāśītyai svāhā | ekānna śatāya svāhā śatāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

चतुर्भ्यः स्वाहा । अष्टाभ्यः स्वाहा द्वादशभ्यः स्वाहा षोडशभ्यः स्वाहा विꣳशत्यै स्वाहा षण्णवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

caturbhyaḥ svāhā | aṣṭābhyaḥ svāhā dvādaśabhyaḥ svāhā ṣoḍaśabhyaḥ svāhā vim̐śatyai svāhā ṣaṇṇavatyai svāhā śatāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

पञ्चभ्यः स्वाहा दशभ्यः स्वाहा पञ्चदशभ्यः स्वाहा विꣳशत्यै स्वाहा पञ्चनवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

pañcabhyaḥ svāhā daśabhyaḥ svāhā pañcadaśabhyaḥ svāhā vim̐śatyai svāhā pañcanavatyai svāhā śatāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

दशभ्यः स्वाहा विꣳशत्यै स्वाहा त्रिꣳशते स्वाहा चत्वारिꣳशते स्वाहा पञ्चाशते स्वाहा षष्ट्यै स्वाहा सप्तत्यै स्वाहा । अशीत्यै स्वाहा नवत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥

daśabhyaḥ svāhā vim̐śatyai svāhā trim̐śate svāhā catvārim̐śate svāhā pañcāśate svāhā ṣaṣṭyai svāhā saptatyai svāhā | aśītyai svāhā navatyai svāhā śatāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

विꣳशत्यै स्वाहा चत्वारिꣳशते स्वाहा षष्ट्यै स्वाहा । अशीत्यै स्वाहा शताय स्वाहा सर्वस्मै स्वाहा ॥ 7.2.19अनुवाक 19 अश्वमेधगतमन्त्रकथनम् पञ्चाशते स्वाहा शताय स्वाहा द्वाभ्याꣳ शताभ्याꣳ स्वाहा त्रिभ्यः शतेभ्यः स्वाहा चतुर्भ्यः शतेभ्यः स्वाहा पञ्चभ्यः शतेभ्यः स्वाहा षड्भ्यः शतेभ्यः स्वाहा सप्तभ्यः शतेभ्यः स्वाहा । अष्टाभ्यः शतेभ्यः स्वाहा नवभ्यः शतेभ्यः स्वाहा सहस्राय स्वाहा सर्वस्मै स्वाहा ॥

vim̐śatyai svāhā catvārim̐śate svāhā ṣaṣṭyai svāhā | aśītyai svāhā śatāya svāhā sarvasmai svāhā || 7.2.19anuvāka 19 aśvamedhagatamantrakathanam pañcāśate svāhā śatāya svāhā dvābhyām̐ śatābhyām̐ svāhā tribhyaḥ śatebhyaḥ svāhā caturbhyaḥ śatebhyaḥ svāhā pañcabhyaḥ śatebhyaḥ svāhā ṣaḍbhyaḥ śatebhyaḥ svāhā saptabhyaḥ śatebhyaḥ svāhā | aṣṭābhyaḥ śatebhyaḥ svāhā navabhyaḥ śatebhyaḥ svāhā sahasrāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

शताय स्वाहा सहस्राय स्वाहा । अयुताय स्वाहा नियुताय स्वाहा प्रयुताय स्वाहा । अर्बुदाय स्वाहा न्यर्बुदाय स्वाहा समुद्राय स्वाहा मध्याय स्वाहा । अन्ताय स्वाहा परार्धाय स्वाहा । उषसे स्वाहा व्युष्ट्यै स्वाहा । उदेष्यते स्वाहा । उद्यते स्वाहा । उदिताय स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥

śatāya svāhā sahasrāya svāhā | ayutāya svāhā niyutāya svāhā prayutāya svāhā | arbudāya svāhā nyarbudāya svāhā samudrāya svāhā madhyāya svāhā | antāya svāhā parārdhāya svāhā | uṣase svāhā vyuṣṭyai svāhā | udeṣyate svāhā | udyate svāhā | uditāya svāhā suvargāya svāhā lokāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

प्रजवं वा एतेन यन्ति यद् दशमम् अहर् । पापावहीयं वा एतेन भवन्ति यद् दशमम् अहर् यो वै प्रजवं यताम् अपथेन प्रतिपद्यते य स्थाणुꣳ हन्ति यो भ्रेषं न्येति स हीयते स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स हीयते तस्मै य उपहताय व्याह तम् एवान्वारभ्य सम् अश्नुते । अथ यो व्याह सः हीयते तस्माद् दशमे ऽहन्न् अविवाक्य उपहताय न व्युच्यम् अथो खल्व् आहुर् यज्ञस्य वै समृद्धेन देवाः सुवर्गं लोकम् आयन् यज्ञस्य व्यृद्धेनासुरान् पराऽभावयन्न् इति यत् खलु वै यज्ञस्य समृद्धं तद् यजमानस्य यद् व्यृद्धं तद् भ्रातृव्यस्य स यो वै दशमे ऽहन्न् अविवाक्य उपहन्यते स एवाति रेचयति ते ये बाह्या दृशीकवः स्युस् ते वि ब्रूयुः । यदि तत्र न विन्देयुर् अन्तःसदसाद् व्युच्यम् । तद् व्युच्यम् एव । अथ वा एतत् सर्पराज्ञिया ऋग्भिः स्तुवन्ति । इयं वै सर्पतो राज्ञी यद् वा अस्यां किं चार्चन्ति यद् आनृचुस् तेनेयꣳ सर्पराज्ञी ते यद् एव किं च वाचाऽऽनृचुर् यद् अतो ऽध्य् अर्चितारः तद् उभयम् आप्त्वाऽवरुध्योत् तिष्ठामेति ताभिर् मनसा स्तुवते न वा इमाम् अश्वरथो नाश्वतरीरथः सद्यः पर्याप्तुम् अर्हति मनो वा इमाꣳ सद्यः पर्याप्तुम् अर्हति मनः परिभवितुम् अथ ब्रह्म वदन्ति परिमिता वा ऋचः परिमितानि सामानि परिमितानि यजूꣳष्य् अथैतस्यैवान्तो नास्ति यद् ब्रह्म तत् प्रतिगृणत आ चक्षीत स प्रतिगरः ॥

prajavaṃ vā etena yanti yad daśamam ahar | pāpāvahīyaṃ vā etena bhavanti yad daśamam ahar yo vai prajavaṃ yatām apathena pratipadyate ya sthāṇum̐ hanti yo bhreṣaṃ nyeti sa hīyate sa yo vai daśame 'hann avivākya upahanyate sa hīyate tasmai ya upahatāya vyāha tam evānvārabhya sam aśnute | atha yo vyāha saḥ hīyate tasmād daśame 'hann avivākya upahatāya na vyucyam atho khalv āhur yajñasya vai samṛddhena devāḥ suvargaṃ lokam āyan yajñasya vyṛddhenāsurān parā'bhāvayann iti yat khalu vai yajñasya samṛddhaṃ tad yajamānasya yad vyṛddhaṃ tad bhrātṛvyasya sa yo vai daśame 'hann avivākya upahanyate sa evāti recayati te ye bāhyā dṛśīkavaḥ syus te vi brūyuḥ | yadi tatra na vindeyur antaḥsadasād vyucyam | tad vyucyam eva | atha vā etat sarparājñiyā ṛgbhiḥ stuvanti | iyaṃ vai sarpato rājñī yad vā asyāṃ kiṃ cārcanti yad ānṛcus teneyam̐ sarparājñī te yad eva kiṃ ca vācā''nṛcur yad ato 'dhy arcitāraḥ tad ubhayam āptvā'varudhyot tiṣṭhāmeti tābhir manasā stuvate na vā imām aśvaratho nāśvatarīrathaḥ sadyaḥ paryāptum arhati mano vā imām̐ sadyaḥ paryāptum arhati manaḥ paribhavitum atha brahma vadanti parimitā vā ṛcaḥ parimitāni sāmāni parimitāni yajūm̐ṣy athaitasyaivānto nāsti yad brahma tat pratigṛṇata ā cakṣīta sa pratigaraḥ ||

Sanskrit only: no published translation is held for this verse.

ब्रह्मवादिनो वदन्ति किं द्वादशाहस्य प्रथमेनाह्नर्त्विजां यजमानो वृङ्क्त इति तेज इन्द्रियम् इति किं द्वितीयेनेति प्राणान् अन्नाद्यम् इति किं तृतीयेनेति त्रीन् इमाँल्लोकान् इति किं चतुर्थेनेति चतुष्पदः पशून् इति किम् पञ्चमेनेति पञ्चाक्षराम् पङ्क्तिम् इति किꣳ षष्ठेनेति षड् ऋतून् इति किꣳ सप्तमेनेति सप्तपदाꣳ शक्वरीम् इति किम् अष्टमेनेति । अष्टाक्षरां गायत्रीम् इति किं नवमेनेति त्रिवृतꣳ स्तोमम् इति किं दशमेनेति दशाक्षरां विराजम् इति किम् एकादशेनेति । एकादशाक्षरां त्रिष्टुभम् इति किं द्वादशेनेति द्वादशाक्षरां जगतीम् इति । एतावद् वा अस्ति यावद् एतत् । यावद् एवास्ति तद् एषां वृङ्क्ते ॥

brahmavādino vadanti kiṃ dvādaśāhasya prathamenāhnartvijāṃ yajamāno vṛṅkta iti teja indriyam iti kiṃ dvitīyeneti prāṇān annādyam iti kiṃ tṛtīyeneti trīn imā~llokān iti kiṃ caturtheneti catuṣpadaḥ paśūn iti kim pañcameneti pañcākṣarām paṅktim iti kim̐ ṣaṣṭheneti ṣaḍ ṛtūn iti kim̐ saptameneti saptapadām̐ śakvarīm iti kim aṣṭameneti | aṣṭākṣarāṃ gāyatrīm iti kiṃ navameneti trivṛtam̐ stomam iti kiṃ daśameneti daśākṣarāṃ virājam iti kim ekādaśeneti | ekādaśākṣarāṃ triṣṭubham iti kiṃ dvādaśeneti dvādaśākṣarāṃ jagatīm iti | etāvad vā asti yāvad etat | yāvad evāsti tad eṣāṃ vṛṅkte ||

Sanskrit only: no published translation is held for this verse.

एष वा आप्तो द्वादशाहो यत् त्रयोदशरात्रः समानꣳ ह्य् एतद् अहर् यत् प्रायणीयश् चोदयनीयश् च त्र्यतिरात्रो भवति त्रय इमे लोकाः । एषां लोकानाम् आप्त्यै प्राणो वै प्रथमो ऽतिरात्रो व्यानो द्वितीयो ऽपानस् तृतीयः प्राणापानोदानेष्व् एवान्नाद्ये प्रति तिष्ठन्ति सर्वम् आयुर् यन्ति य एवं विद्वाꣳसस् त्रयोदशरात्रम् आसते तद् आहुः । वाग् वा एषा वितता यद् द्वादशाहस् तां वि छिन्द्युर् यन् मध्ये ऽतिरात्रं कुर्युर् उपदासुका गृहपतेर् वाक् स्यात् । उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति संतताम् एव वाचम् अव रुन्द्धे ऽनुपदासुका गृहपतेर् वाग् भवति पशवो वै छन्दोमा अन्नम् महाव्रतम् । यद् उपरिष्टाच् छन्दोमानाम् महाव्रतं कुर्वन्ति पशुषु चैवान्नाद्ये च प्रति तिष्ठन्ति ॥

eṣa vā āpto dvādaśāho yat trayodaśarātraḥ samānam̐ hy etad ahar yat prāyaṇīyaś codayanīyaś ca tryatirātro bhavati traya ime lokāḥ | eṣāṃ lokānām āptyai prāṇo vai prathamo 'tirātro vyāno dvitīyo 'pānas tṛtīyaḥ prāṇāpānodāneṣv evānnādye prati tiṣṭhanti sarvam āyur yanti ya evaṃ vidvām̐sas trayodaśarātram āsate tad āhuḥ | vāg vā eṣā vitatā yad dvādaśāhas tāṃ vi chindyur yan madhye 'tirātraṃ kuryur upadāsukā gṛhapater vāk syāt | upariṣṭāc chandomānām mahāvrataṃ kurvanti saṃtatām eva vācam ava runddhe 'nupadāsukā gṛhapater vāg bhavati paśavo vai chandomā annam mahāvratam | yad upariṣṭāc chandomānām mahāvrataṃ kurvanti paśuṣu caivānnādye ca prati tiṣṭhanti ||

Sanskrit only: no published translation is held for this verse.

आदित्या अकामयन्त । उभयोर् लोकयोर् ऋध्नुयामेति त एतं चतुर्दशरात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै त उभयोर् लोकयोर् आर्ध्नुवन्न् अस्मिꣳश् चामुष्मिꣳश् च य एवं विद्वाꣳसश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिꣳश् चामुष्मिꣳश् च चतुर्दशरात्रो भवति सप्त ग्राम्या ओषधयः सप्तारण्या उभयीषाम् अवरुद्ध्यै यत् पराचीनानि पृष्ठानि भवन्त्य् अमुम् एव तैर् लोकम् अभि जयन्ति यत् प्रतीचीनानि पृष्ठानि भवन्तीमम् एव तैर् लोकम् अभि जयन्ति त्रयस्त्रिꣳशौ मध्यत स्तोमौ भवतः साम्राज्यम् एव गच्छन्ति । अधिराजौ भवतो ऽधिराजा एव समानानाम् भवन्ति । अतिरात्रावभितो भवतः परिगृहीत्यै ॥

ādityā akāmayanta | ubhayor lokayor ṛdhnuyāmeti ta etaṃ caturdaśarātram apaśyan tam āharan tenāyajanta tato vai ta ubhayor lokayor ārdhnuvann asmim̐ś cāmuṣmim̐ś ca ya evaṃ vidvām̐saś caturdaśarātram āsata ubhayor eva lokayor ṛdhnuvanty asmim̐ś cāmuṣmim̐ś ca caturdaśarātro bhavati sapta grāmyā oṣadhayaḥ saptāraṇyā ubhayīṣām avaruddhyai yat parācīnāni pṛṣṭhāni bhavanty amum eva tair lokam abhi jayanti yat pratīcīnāni pṛṣṭhāni bhavantīmam eva tair lokam abhi jayanti trayastrim̐śau madhyata stomau bhavataḥ sāmrājyam eva gacchanti | adhirājau bhavato 'dhirājā eva samānānām bhavanti | atirātrāvabhito bhavataḥ parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

प्रजापतिः सुवर्गं लोकम् ऐत् तं देवा अन्व् आयन् तान् आदित्याश् च पशवश् चान्वायन् ते देवा अब्रुवन् यान् पशून् उपाजीविष्म त इमे ऽन्वाग्मन्न् इति तेभ्य एतं चतुर्दशरात्रम् प्रत्य् औहन् त आदित्याः पृष्ठैः सुवर्गं लोकम् आरोहन् त्र्यहाभ्याम् अस्मिम्̐ लोके पशून् प्रत्य् औहन् पृष्ठैर् आदित्या अमुष्मिम्̐ लोक आर्ध्नुवन् त्र्यहाभ्याम् अस्मिन् लोके पशवः । य एवं विद्वाꣳसश् चतुर्दशरात्रम् आसत उभयोर् एव लोकयोर् ऋध्नुवन्त्य् अस्मिꣳश् चामुष्मिꣳश् च पृष्ठैर् एवामुष्मिम्̐ लोक ऋध्नुवन्ति त्र्यहाभ्याम् अस्मिम्̐ लोके ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । इमान् एव लोकान् अभ्यारोहन्ति यद् अन्यतः पृष्ठानि स्युर् विविवधꣳ स्यात् । मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥ ओजो वै वीर्यम् पृष्ठानि । ओज एव वीर्यम् मध्यतो दधते बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति चतुर्दशैताः । तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते याश् चतस्रश् चतस्रो दिशो दिक्ष्व् एव प्रति तिष्ठन्ति । अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

prajāpatiḥ suvargaṃ lokam ait taṃ devā anv āyan tān ādityāś ca paśavaś cānvāyan te devā abruvan yān paśūn upājīviṣma ta ime 'nvāgmann iti tebhya etaṃ caturdaśarātram praty auhan ta ādityāḥ pṛṣṭhaiḥ suvargaṃ lokam ārohan tryahābhyām asmim̐ loke paśūn praty auhan pṛṣṭhair ādityā amuṣmim̐ loka ārdhnuvan tryahābhyām asmin loke paśavaḥ | ya evaṃ vidvām̐saś caturdaśarātram āsata ubhayor eva lokayor ṛdhnuvanty asmim̐ś cāmuṣmim̐ś ca pṛṣṭhair evāmuṣmim̐ loka ṛdhnuvanti tryahābhyām asmim̐ loke jyotir gaur āyur iti tryaho bhavati | iyaṃ vāva jyotir antarikṣaṃ gaur asāv āyuḥ | imān eva lokān abhyārohanti yad anyataḥ pṛṣṭhāni syur vivivadham̐ syāt | madhye pṛṣṭhāni bhavanti savivadhatvāya || ojo vai vīryam pṛṣṭhāni | oja eva vīryam madhyato dadhate bṛhadrathaṃtarābhyāṃ yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva yanti | atho anayor eva prati tiṣṭhanti | ete vai yajñasyāñjasāyanī srutī tābhyām eva suvargaṃ lokaṃ yanti parāñco vā ete suvargaṃ lokam abhyārohanti ye parācīnāni pṛṣṭhāny upayanti pratyañ tryaho bhavati pratyavarūḍhyā atho pratiṣṭhityai | ubhayor lokayor ṛddhvot tiṣṭhanti caturdaśaitāḥ | tāsāṃ yā daśa daśākṣarā virāḍ annaṃ virāḍ virājaivānnādyam ava rundhate yāś catasraś catasro diśo dikṣv eva prati tiṣṭhanti | atirātrāv abhito bhavataḥ parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

इन्द्रो वै सदृङ् देवताभिर् आसीत् स न व्यावृतम् अगच्छत् स प्रजापतिम् उपाधावत् तस्मा एतम् पञ्चदशरात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै सो ऽन्याभिर् देवताभिर् व्यावृतम् अगच्छत् । य एवं विद्वाꣳसः पञ्चदशरात्रम् आसते व्यावृतम् एव पाप्मना भ्रातृव्येण गच्छन्ति ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । इयं वाव ज्योतिर् अन्तरिक्षम् गौर् असाव् आयुः । एष्व् एव लोकेषु प्रति तिष्ठन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति पञ्चदशरात्रो भवति पञ्चदशो वज्रः । वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति । अतिरात्राव् अभितो भवतः । इन्द्रियस्य परिगृहीत्यै ॥

indro vai sadṛṅ devatābhir āsīt sa na vyāvṛtam agacchat sa prajāpatim upādhāvat tasmā etam pañcadaśarātram prāyacchat tam āharat tenāyajata tato vai so 'nyābhir devatābhir vyāvṛtam agacchat | ya evaṃ vidvām̐saḥ pañcadaśarātram āsate vyāvṛtam eva pāpmanā bhrātṛvyeṇa gacchanti jyotir gaur āyur iti tryaho bhavati | iyaṃ vāva jyotir antarikṣam gaur asāv āyuḥ | eṣv eva lokeṣu prati tiṣṭhanti | asattraṃ vā etad yad acchandomam | yac chandomā bhavanti tena sattram | devatā eva pṛṣṭhair ava rundhate paśūñ chandomaiḥ | ojasy eva vīrye paśuṣu prati tiṣṭhanti pañcadaśarātro bhavati pañcadaśo vajraḥ | vajram eva bhrātṛvyebhyaḥ pra haranti | atirātrāv abhito bhavataḥ | indriyasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

इन्द्रो वै शिथिल इवाप्रतिष्ठित आसीत् सो ऽसुरेभ्यो ऽबिभेत् स प्रजापतिम् उपाधावत् तस्मा एतम् पञ्चदशरात्रं वज्रम् प्रायच्छत् तेनासुरान् पराभाव्य विजित्य श्रियम् अगच्छत् । अग्निष्टुता पाप्मानं निर् अदहत पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन्न् अधत्त य एवं विद्वाꣳसः पञ्चदशरात्रम् आसते भ्रातृव्यान् एव पराभाव्य विजित्य श्रियं गच्छन्ति । अग्निष्टुता पाप्मानं निः दहन्ते पञ्चदशरात्रेणौजो बलम् इन्द्रियं वीर्यम् आत्मन् दधते । एता एव पशव्याः पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते संवत्सरम् पशवो ऽनु प्र जायन्ते तस्मात् पशव्याः । एता एव सुवर्ग्याः पञ्चदश वा अर्धमासस्य रात्रयः । अर्धमासशः संवत्सर आप्यते संवत्सरः सुवर्गो लोकस् तस्माद् सुवर्ग्याः । ज्योतिर् गौर् आयुर् इति त्र्यहो भवति । इयं वाव ज्योतिर् अन्तरिक्षम् गौर् असाव् आयुः । इमान् एव लोकान् अभ्यारोहन्ति यद् अन्यतः पृष्ठानि स्युर् विविवधꣳ स्यात् । मध्ये पृष्ठानि भवन्ति सविवधत्वाय । ओजो वै वीर्यम् पृष्ठानि । ओज एव वीर्यम् मध्यतो दधते बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकम् यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति पञ्चदशैतास् तासां या दश दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते याः पञ्च पञ्च दिशः दिक्ष्व् एव प्रति तिष्ठन्ति । अतिरात्राव् अभितो भवतः । इन्द्रियस्य वीर्यस्य प्रजायै पशूनाम् परिगृहीत्यै ॥

indro vai śithila ivāpratiṣṭhita āsīt so 'surebhyo 'bibhet sa prajāpatim upādhāvat tasmā etam pañcadaśarātraṃ vajram prāyacchat tenāsurān parābhāvya vijitya śriyam agacchat | agniṣṭutā pāpmānaṃ nir adahata pañcadaśarātreṇaujo balam indriyaṃ vīryam ātmann adhatta ya evaṃ vidvām̐saḥ pañcadaśarātram āsate bhrātṛvyān eva parābhāvya vijitya śriyaṃ gacchanti | agniṣṭutā pāpmānaṃ niḥ dahante pañcadaśarātreṇaujo balam indriyaṃ vīryam ātman dadhate | etā eva paśavyāḥ pañcadaśa vā ardhamāsasya rātrayaḥ | ardhamāsaśaḥ saṃvatsara āpyate saṃvatsaram paśavo 'nu pra jāyante tasmāt paśavyāḥ | etā eva suvargyāḥ pañcadaśa vā ardhamāsasya rātrayaḥ | ardhamāsaśaḥ saṃvatsara āpyate saṃvatsaraḥ suvargo lokas tasmād suvargyāḥ | jyotir gaur āyur iti tryaho bhavati | iyaṃ vāva jyotir antarikṣam gaur asāv āyuḥ | imān eva lokān abhyārohanti yad anyataḥ pṛṣṭhāni syur vivivadham̐ syāt | madhye pṛṣṭhāni bhavanti savivadhatvāya | ojo vai vīryam pṛṣṭhāni | oja eva vīryam madhyato dadhate bṛhadrathaṃtarābhyāṃ yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva yanti | atho anayor eva prati tiṣṭhanti | ete vai yajñasyāñjasāyanī srutī tābhyām eva suvargaṃ lokam yanti parāñco vā ete suvargaṃ lokam abhyārohanti ye parācīnāni pṛṣṭhāny upayanti pratyañ tryaho bhavati pratyavarūḍhyā atho pratiṣṭhityai | ubhayor lokayor ṛddhvot tiṣṭhanti pañcadaśaitās tāsāṃ yā daśa daśākṣarā virāḍ annaṃ virāḍ virājaivānnādyam ava rundhate yāḥ pañca pañca diśaḥ dikṣv eva prati tiṣṭhanti | atirātrāv abhito bhavataḥ | indriyasya vīryasya prajāyai paśūnām parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

प्रजापतिर् अकामयत । अन्नादः स्याम् इति स एतꣳ सप्तदशरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै सो ऽन्नादो ऽभवत् । य एवं विद्वाꣳसः सप्तदशरात्रम् आसते ऽन्नादा एव भवन्ति पञ्चाहो भवति पञ्च वा ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति । अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्धते । असत्त्रं वा एतत् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति सप्तदशरात्रो भवति सप्तदशः प्रजापतिः प्रजापतेर् आप्त्यै । अतिरात्राव् अभितो भवतः । अन्नाद्यस्य परिगृहीत्यै ॥

prajāpatir akāmayata | annādaḥ syām iti sa etam̐ saptadaśarātram apaśyat tam āharat tenāyajata tato vai so 'nnādo 'bhavat | ya evaṃ vidvām̐saḥ saptadaśarātram āsate 'nnādā eva bhavanti pañcāho bhavati pañca vā ṛtavaḥ saṃvatsaraḥ | ṛtuṣv eva saṃvatsare prati tiṣṭhanti | atho pañcākṣarā paṅktiḥ pāṅkto yajñaḥ | yajñam evāva rundhate | asattraṃ vā etat yad acchandomam | yac chandomā bhavanti tena sattram | devatā eva pṛṣṭhair ava rundhate paśūñ chandomaiḥ | ojasy eva vīrye paśuṣu prati tiṣṭhanti saptadaśarātro bhavati saptadaśaḥ prajāpatiḥ prajāpater āptyai | atirātrāv abhito bhavataḥ | annādyasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

सा विराड् विक्रम्यातिष्ठद् ब्रह्मणा देवेष्व् अन्नेनासुरेषु ते देवा अकामयन्त । उभयꣳ सं वृञ्जीमहि ब्रह्म चान्नं चेति त एता विꣳशतिꣳ रात्रीर् अपश्यन् ततो वै त उभयꣳ सम् अवृञ्जत ब्रह्म चान्नं च ब्रह्मवर्चसिनो ऽन्नादा अभवन् य एवं विद्वाꣳस एता आसत उभयम् एव सं वृञ्जते ब्रह्म चान्नं च । ब्रह्मवर्चसिनो ऽन्नादा भवन्ति द्वे वा एते विराजौ तयोर् एव नाना प्रति तिष्ठन्ति विꣳशो वै पुरुषो दश हस्त्या अङ्गुलयो दश पद्याः । यावान् एव पुरुषस् तम् आप्त्वोत् तिष्ठन्ति ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । इमान् एव लोकान् अभ्यारोहन्ति । अभिपूर्वं त्र्यहा भवन्ति । अभिपूर्वम् एव सुवर्गम् लोकम् अभ्यारोहन्ति यद् अन्यतः पृष्ठानि मध्ये पृष्ठानि भवन्ति सविवधत्वाय ॥ ओजो वै वीर्यम् पृष्ठानि । ओज एव वीर्यम् मध्यतो दधते बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यञ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति । अतिरात्राव् अभितो भवतः । ब्रह्मवर्चसस्यान्नाद्यस्य परि गृहीत्यै ॥

sā virāḍ vikramyātiṣṭhad brahmaṇā deveṣv annenāsureṣu te devā akāmayanta | ubhayam̐ saṃ vṛñjīmahi brahma cānnaṃ ceti ta etā vim̐śatim̐ rātrīr apaśyan tato vai ta ubhayam̐ sam avṛñjata brahma cānnaṃ ca brahmavarcasino 'nnādā abhavan ya evaṃ vidvām̐sa etā āsata ubhayam eva saṃ vṛñjate brahma cānnaṃ ca | brahmavarcasino 'nnādā bhavanti dve vā ete virājau tayor eva nānā prati tiṣṭhanti vim̐śo vai puruṣo daśa hastyā aṅgulayo daśa padyāḥ | yāvān eva puruṣas tam āptvot tiṣṭhanti jyotir gaur āyur iti tryahā bhavanti | iyaṃ vāva jyotir antarikṣaṃ gaur asāv āyuḥ | imān eva lokān abhyārohanti | abhipūrvaṃ tryahā bhavanti | abhipūrvam eva suvargam lokam abhyārohanti yad anyataḥ pṛṣṭhāni madhye pṛṣṭhāni bhavanti savivadhatvāya || ojo vai vīryam pṛṣṭhāni | oja eva vīryam madhyato dadhate bṛhadrathaṃtarābhyāṃ yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva yanti | atho anayor eva prati tiṣṭhanti | ete vai yajñasyāñjasāyanī srutī tābhyām eva suvargaṃ lokaṃ yanti parāñco vā ete suvargaṃ lokam abhyārohanti ye parācīnāni pṛṣṭhāny upayanti pratyañ tryaho bhavati pratyavarūḍhyā atho pratiṣṭhityai | ubhayor lokayor ṛddhvot tiṣṭhanti | atirātrāv abhito bhavataḥ | brahmavarcasasyānnādyasya pari gṛhītyai ||

Sanskrit only: no published translation is held for this verse.

असाव आदित्यो ऽस्मिम्̐ लोक आसीत् तं देवाः पृष्ठैः परिगृह्य सुवर्गं लोकम् अगमयन् परैर् अवस्तात् पर्य् अगृह्णन् दिवाकीर्त्येन सुवर्गे लोके प्रत्य् अस्थापयन् परैः परस्तात् पर्य् अगृह्णन् पृष्ठैर् उपावारोहन् । स वा असाव् आदित्यो ऽमुष्मिम्̐ लोके परैर् उभयतः परिगृहीतः । यत् पृष्ठानि भवन्ति सुवर्गम् एव तैर् लोकं यजमाना यन्ति परैर् अवस्तात् परि गृह्णन्ति दिवाकीर्त्येन सुवर्गे लोके प्रति तिष्ठन्ति परैः परस्तात् परि गृह्णन्ति पृष्ठैर् उपावरोहन्ति यत् परे परस्तान् न स्युः पराञ्चः सुवर्गाल् लोकान् निष्पद्येरन् यद् अवस्तान् न स्युः प्रजा निर् दहेयुः । अभितो दिवाकीर्त्यम् परःसामानो भवन्ति सुवर्ग एवैनाम्̐ लोक उभयतः परि गृह्णन्ति यजमाना वै दिवाकीर्त्यम् । संवत्सरः परःसामानः । अभितो दिवाकीर्त्यम् परःसामानो भवन्ति संवत्सर एवोभयतः प्रति तिष्ठन्ति पृष्ठं वै दिवाकीर्त्यम् पार्श्वे परःसामानः । अभितो दिवाकीर्त्यम् परःसामानो भवन्ति तस्मादभितः पृष्ठम् पार्श्वे भूयिष्ठा ग्रहा गृह्यन्ते भूयिष्ठꣳ शस्यते यज्ञस्यैव तन् मध्यतो ग्रन्थिं ग्रथ्नन्त्य् अविस्रꣳसाय सप्त गृह्यन्ते सप्त वै शीर्षण्याः प्राणाः प्राणान् एव यजमानेषु दधति यत् पराचीनानि पृष्ठानि भवन्त्य् अमुम् एव तैर् लोकम् अभ्यारोहन्ति यद् इमं लोकं न प्रत्यवरोहेयुर् उद् वा माद्येयुर् यजमानाः प्र वा मीयेरन् यत् प्रतीचीनानि पृष्ठानि भवन्ति । इमम् एव तैर् लोकम् प्रत्यवरोहन्ति । अथो अस्मिन्न् एव लोके प्रति तिष्ठन्त्य् अनुन्मादाय । इन्द्रो वा अप्रतिष्ठित आसीत् स प्रजापतिम् उपाधावत् तस्मा एतम् एकविꣳशतिरात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै स प्रत्य् अतिष्ठत् । ये बहुयाजिनो ऽप्रतिष्ठिताः स्युस् त एकविꣳशतिरात्रम् आसीरन् द्वादश मासाः पञ्चर्तवस् त्रय इमे लोका असाव् आदित्य एकविꣳशः । एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति । असाव् आदित्यो न व्यरोचत स प्रजापतिम् उपाधावत् तस्मा एतम् एकविꣳशति रात्रम् प्रायच्छत् तम् आहरत् तेनायजत ततो वै सो ऽरोचत य एवं विद्वाꣳस एकविꣳशतिरात्रम् आसते रोचन्त एव । एकविꣳशतिरात्रो भवति रुग् वा एकविꣳशः । रुचम् एव गच्छन्त्य् अथो प्रतिष्ठाम् एव प्रतिष्ठा ह्य् एकविꣳशः । अतिरात्राव् अभितो भवतो ब्रह्मवर्चसस्य परिगृहीत्यै ॥

asāva ādityo 'smim̐ loka āsīt taṃ devāḥ pṛṣṭhaiḥ parigṛhya suvargaṃ lokam agamayan parair avastāt pary agṛhṇan divākīrtyena suvarge loke praty asthāpayan paraiḥ parastāt pary agṛhṇan pṛṣṭhair upāvārohan | sa vā asāv ādityo 'muṣmim̐ loke parair ubhayataḥ parigṛhītaḥ | yat pṛṣṭhāni bhavanti suvargam eva tair lokaṃ yajamānā yanti parair avastāt pari gṛhṇanti divākīrtyena suvarge loke prati tiṣṭhanti paraiḥ parastāt pari gṛhṇanti pṛṣṭhair upāvarohanti yat pare parastān na syuḥ parāñcaḥ suvargāl lokān niṣpadyeran yad avastān na syuḥ prajā nir daheyuḥ | abhito divākīrtyam paraḥsāmāno bhavanti suvarga evainām̐ loka ubhayataḥ pari gṛhṇanti yajamānā vai divākīrtyam | saṃvatsaraḥ paraḥsāmānaḥ | abhito divākīrtyam paraḥsāmāno bhavanti saṃvatsara evobhayataḥ prati tiṣṭhanti pṛṣṭhaṃ vai divākīrtyam pārśve paraḥsāmānaḥ | abhito divākīrtyam paraḥsāmāno bhavanti tasmādabhitaḥ pṛṣṭham pārśve bhūyiṣṭhā grahā gṛhyante bhūyiṣṭham̐ śasyate yajñasyaiva tan madhyato granthiṃ grathnanty avisram̐sāya sapta gṛhyante sapta vai śīrṣaṇyāḥ prāṇāḥ prāṇān eva yajamāneṣu dadhati yat parācīnāni pṛṣṭhāni bhavanty amum eva tair lokam abhyārohanti yad imaṃ lokaṃ na pratyavaroheyur ud vā mādyeyur yajamānāḥ pra vā mīyeran yat pratīcīnāni pṛṣṭhāni bhavanti | imam eva tair lokam pratyavarohanti | atho asminn eva loke prati tiṣṭhanty anunmādāya | indro vā apratiṣṭhita āsīt sa prajāpatim upādhāvat tasmā etam ekavim̐śatirātram prāyacchat tam āharat tenāyajata tato vai sa praty atiṣṭhat | ye bahuyājino 'pratiṣṭhitāḥ syus ta ekavim̐śatirātram āsīran dvādaśa māsāḥ pañcartavas traya ime lokā asāv āditya ekavim̐śaḥ | etāvanto vai devalokās teṣv eva yathāpūrvam prati tiṣṭhanti | asāv ādityo na vyarocata sa prajāpatim upādhāvat tasmā etam ekavim̐śati rātram prāyacchat tam āharat tenāyajata tato vai so 'rocata ya evaṃ vidvām̐sa ekavim̐śatirātram āsate rocanta eva | ekavim̐śatirātro bhavati rug vā ekavim̐śaḥ | rucam eva gacchanty atho pratiṣṭhām eva pratiṣṭhā hy ekavim̐śaḥ | atirātrāv abhito bhavato brahmavarcasasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

अर्वाङ् यज्ञः सं क्रामत्व् अमुष्माद् अधि माम् अभि । ऋषीणां यः पुरोहितः । निर्देवं निर्वीरं कृत्वा विष्कन्धं तस्मिन् हीयतां यो ऽस्मान् द्वेष्टि शरीरं यज्ञशमलं कुसीदं तस्मिन्त् सीदतु यो ऽस्मान् द्वेष्टि । यज्ञ यज्ञस्य यत् तेजस् तेन सं क्राममाम् अभि । ब्राह्मणान् ऋत्विजो देवान् यज्ञस्य तपसा ते सवाहम् आ हुवे । इष्टेन पक्व प ते हुवे सवाहम् । सं ते वृञ्जे सुकृतꣳ सम् प्रजाम् पशून् । प्रैषान्त् सामिधेनीर् आघाराव् आज्यभागाव् आश्रुतम् प्रत्याश्रुतम् आ शृणामि ते । प्रयाजानूयाजान्त् स्विष्टकृतम् इडाम् आशिष आ वृञ्जे सुवः । अग्निनेन्द्रेण सोमेन सरस्वत्या विष्णुना देवताभिः । याज्यानुवाक्याभ्याम् उप ते हुवे सवाहं यज्ञम् आ ददे ते वषट्कृतम् । स्तुतꣳ शस्त्रम् प्रतिगरं ग्रहम् इडाम् आशिषः । आ वृञ्जे सुवः । पत्नीसंयाजान् उप ते हुवे सवाहꣳ समिष्टयजुर् आ ददे तव ॥ पशून्त् सुतम् पुरोडाशान्त् सवनान्य् ओत यज्ञम् । देवान्त् सेन्द्रान् उप ते हुवे सवाहम् अग्निमुखान्त् सोमवतो ये च विश्वे ॥

arvāṅ yajñaḥ saṃ krāmatv amuṣmād adhi mām abhi | ṛṣīṇāṃ yaḥ purohitaḥ | nirdevaṃ nirvīraṃ kṛtvā viṣkandhaṃ tasmin hīyatāṃ yo 'smān dveṣṭi śarīraṃ yajñaśamalaṃ kusīdaṃ tasmint sīdatu yo 'smān dveṣṭi | yajña yajñasya yat tejas tena saṃ krāmamām abhi | brāhmaṇān ṛtvijo devān yajñasya tapasā te savāham ā huve | iṣṭena pakva pa te huve savāham | saṃ te vṛñje sukṛtam̐ sam prajām paśūn | praiṣānt sāmidhenīr āghārāv ājyabhāgāv āśrutam pratyāśrutam ā śṛṇāmi te | prayājānūyājānt sviṣṭakṛtam iḍām āśiṣa ā vṛñje suvaḥ | agninendreṇa somena sarasvatyā viṣṇunā devatābhiḥ | yājyānuvākyābhyām upa te huve savāhaṃ yajñam ā dade te vaṣaṭkṛtam | stutam̐ śastram pratigaraṃ graham iḍām āśiṣaḥ | ā vṛñje suvaḥ | patnīsaṃyājān upa te huve savāham̐ samiṣṭayajur ā dade tava || paśūnt sutam puroḍāśānt savanāny ota yajñam | devānt sendrān upa te huve savāham agnimukhānt somavato ye ca viśve ||

Sanskrit only: no published translation is held for this verse.

भूतम् भव्यम् भविष्यद् वषट् स्वाहा नमः । ऋक् साम यजुर् वषट् स्वाहा नमः । गायत्री त्रिष्टुब् जगती वषट् स्वाहा नमः पृथिव्यन्तरिक्षं द्यौर् वषट् स्वाहा नमः । अग्निर् वायुः सूर्यो वषट् स्वाहा नमः प्राणो व्यानो ऽपानो वषट् स्वाहा नमः । अन्नं कृषिर् वृष्टिर् वषट् स्वाहा नमः पिता पुत्रः पौत्रो वषट् स्वाहा नमः । भूर् भुवः सुवर् वषट् स्वाहा नमः ॥

bhūtam bhavyam bhaviṣyad vaṣaṭ svāhā namaḥ | ṛk sāma yajur vaṣaṭ svāhā namaḥ | gāyatrī triṣṭub jagatī vaṣaṭ svāhā namaḥ pṛthivyantarikṣaṃ dyaur vaṣaṭ svāhā namaḥ | agnir vāyuḥ sūryo vaṣaṭ svāhā namaḥ prāṇo vyāno 'pāno vaṣaṭ svāhā namaḥ | annaṃ kṛṣir vṛṣṭir vaṣaṭ svāhā namaḥ pitā putraḥ pautro vaṣaṭ svāhā namaḥ | bhūr bhuvaḥ suvar vaṣaṭ svāhā namaḥ ||

Sanskrit only: no published translation is held for this verse.

आ मे गृहा भवन्त्व् आ प्रजा म आ मा यज्ञो विशतु वीर्यावान् । आपो देवीर् यज्ञिया मा विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् । आ मे ग्रहो भवत्व् आ पुरोरुक् स्तुतशस्त्रे मा विशताꣳ समीची । आदित्या रुद्रा वसवो मे सदस्याः सहस्रस्य मा भूमा मा प्र हासीत् । आ माग्निष्टोमो विशतूक्थ्यश् चातिरात्रो मा विशत्व् आपिशर्वरः । तिरोअह्निया मा सुहुता आ विशन्तु सहस्रस्य मा भूमा मा प्र हासीत् ॥

ā me gṛhā bhavantv ā prajā ma ā mā yajño viśatu vīryāvān | āpo devīr yajñiyā mā viśantu sahasrasya mā bhūmā mā pra hāsīt | ā me graho bhavatv ā puroruk stutaśastre mā viśatām̐ samīcī | ādityā rudrā vasavo me sadasyāḥ sahasrasya mā bhūmā mā pra hāsīt | ā māgniṣṭomo viśatūkthyaś cātirātro mā viśatv āpiśarvaraḥ | tiroahniyā mā suhutā ā viśantu sahasrasya mā bhūmā mā pra hāsīt ||

Sanskrit only: no published translation is held for this verse.

अग्निना तपो ऽन्व् अभवत् । वाचा ब्रह्म मणिना रूपाणि । इन्द्रेण देवान् वातेन प्राणान् । सूर्येण द्याम् । चन्द्रमसा नक्षत्राणि यमेन पितॄन् राज्ञा मनुष्यान् फलेन नादेयान् अजगरेण सर्पान् व्याघ्रेणाऽऽरण्यान् पशून् । श्येनेन पतत्रिणः । वृष्णाऽश्वान् ऋषभेण गाः । बस्तेनाजाः । वृष्णिनाऽवीः । व्रीहिणाऽन्नानि यवेनौषधीः । न्यग्रोधेन वनस्पतीन् उदुम्बरेणोर्जम् । गायत्रिया छन्दाꣳसि त्रिवृता स्तोमान् ब्राह्मणेन वाचम् ॥

agninā tapo 'nv abhavat | vācā brahma maṇinā rūpāṇi | indreṇa devān vātena prāṇān | sūryeṇa dyām | candramasā nakṣatrāṇi yamena pitṝn rājñā manuṣyān phalena nādeyān ajagareṇa sarpān vyāghreṇā''raṇyān paśūn | śyenena patatriṇaḥ | vṛṣṇā'śvān ṛṣabheṇa gāḥ | bastenājāḥ | vṛṣṇinā'vīḥ | vrīhiṇā'nnāni yavenauṣadhīḥ | nyagrodhena vanaspatīn udumbareṇorjam | gāyatriyā chandām̐si trivṛtā stomān brāhmaṇena vācam ||

Sanskrit only: no published translation is held for this verse.

स्वाहाऽऽधिम् आधीताय स्वाहा स्वाहाऽऽधीतम् मनसे स्वाहा स्वाहा मनः प्रजापतये स्वाहा काय स्वाहा कस्मै स्वाहा कतमस्मै स्वाहा । अदित्यै स्वाहा । अदित्यै मह्यै स्वाहा । अदित्यै सुमृडीकायै स्वाहा सरस्वत्यै स्वाहा सरस्वत्यै बृहत्यै स्वाहा सरस्वत्यै पावकायै स्वाहा पूष्णे स्वाहा पूष्णे प्रपथ्याय स्वाहा पूष्णे नरंधिषाय स्वाहा त्वष्ट्रे स्वाहा त्वष्ट्रे तुरीपाय स्वाहा त्वष्ट्रे पुरुरूपाय स्वाहा विष्णवे स्वाहा विष्णवे निखुर्यपाय स्वाहा विष्णवे निभूयपाय स्वाहा ॥

svāhā''dhim ādhītāya svāhā svāhā''dhītam manase svāhā svāhā manaḥ prajāpataye svāhā kāya svāhā kasmai svāhā katamasmai svāhā | adityai svāhā | adityai mahyai svāhā | adityai sumṛḍīkāyai svāhā sarasvatyai svāhā sarasvatyai bṛhatyai svāhā sarasvatyai pāvakāyai svāhā pūṣṇe svāhā pūṣṇe prapathyāya svāhā pūṣṇe naraṃdhiṣāya svāhā tvaṣṭre svāhā tvaṣṭre turīpāya svāhā tvaṣṭre pururūpāya svāhā viṣṇave svāhā viṣṇave nikhuryapāya svāhā viṣṇave nibhūyapāya svāhā ||

Sanskrit only: no published translation is held for this verse.

दद्भ्यः स्वाहा हनूभ्याꣳ स्वाहा ओष्ठाभ्याꣳ स्वाहा मुखाय स्वाहा नासिकाभ्याꣳ स्वाहा । अक्षीभ्याꣳ स्वाहा कर्णाभ्याꣳ स्वाहा पार इक्षवो ऽवार्येभ्यः पक्ष्मभ्यः स्वाहा । अवार इक्षवः पार्येभ्यः पक्ष्मभ्यः स्वाहा शीर्ष्णे स्वाहा भ्रूभ्याꣳ स्वाहा ललाटाय स्वाहा मूर्ध्ने स्वाहा मस्तिष्काय स्वाहा केशेभ्यः स्वाहा वहाय स्वाहा ग्रीवाभ्यः स्वाहा स्कन्धेभ्यः स्वाहा कीकसाभ्यः स्वाहा पृष्टीभ्यः स्वाहा पाजस्याय स्वाहा पार्श्वाभ्याꣳ स्वाहा अꣳसाभ्याꣳ स्वाहा दोषभ्याꣳ स्वाहा बाहुभ्याꣳ स्वाहा जङ्घाभ्याꣳ स्वाहा श्रोणीभ्याꣳ स्वाहा ऊरुभ्याꣳ स्वाहा अष्ठीवद्भ्याꣳ स्वाहा जङ्घाभ्याꣳ स्वाहा भसदे स्वाहा शिखण्डेभ्यः स्वाहा वालधानाय स्वाहा । आण्डाभ्याꣳ स्वाहा शेपाय स्वाहा रेतसे स्वाहा प्रजाभ्यः स्वाहा प्रजननाय स्वाहा पद्भ्यः स्वाहा शफेभ्यः स्वाहा लोमभ्यः स्वाहा त्वचे स्वाहा लोहिताय स्वाहा माꣳसाय स्वाहा स्नावभ्यः स्वाहा । अस्थभ्यः स्वाहा मज्जभ्यः स्वाहा । अङ्गेभ्यः स्वाहा । आत्मने स्वाहा सर्वस्मै स्वाहा ॥

dadbhyaḥ svāhā hanūbhyām̐ svāhā oṣṭhābhyām̐ svāhā mukhāya svāhā nāsikābhyām̐ svāhā | akṣībhyām̐ svāhā karṇābhyām̐ svāhā pāra ikṣavo 'vāryebhyaḥ pakṣmabhyaḥ svāhā | avāra ikṣavaḥ pāryebhyaḥ pakṣmabhyaḥ svāhā śīrṣṇe svāhā bhrūbhyām̐ svāhā lalāṭāya svāhā mūrdhne svāhā mastiṣkāya svāhā keśebhyaḥ svāhā vahāya svāhā grīvābhyaḥ svāhā skandhebhyaḥ svāhā kīkasābhyaḥ svāhā pṛṣṭībhyaḥ svāhā pājasyāya svāhā pārśvābhyām̐ svāhā am̐sābhyām̐ svāhā doṣabhyām̐ svāhā bāhubhyām̐ svāhā jaṅghābhyām̐ svāhā śroṇībhyām̐ svāhā ūrubhyām̐ svāhā aṣṭhīvadbhyām̐ svāhā jaṅghābhyām̐ svāhā bhasade svāhā śikhaṇḍebhyaḥ svāhā vāladhānāya svāhā | āṇḍābhyām̐ svāhā śepāya svāhā retase svāhā prajābhyaḥ svāhā prajananāya svāhā padbhyaḥ svāhā śaphebhyaḥ svāhā lomabhyaḥ svāhā tvace svāhā lohitāya svāhā mām̐sāya svāhā snāvabhyaḥ svāhā | asthabhyaḥ svāhā majjabhyaḥ svāhā | aṅgebhyaḥ svāhā | ātmane svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

अञ्ज्येताय स्वाहा । अञ्जिसक्थाय स्वाहा शितिपदे स्वाहा शितिककुदे स्वाहा शितिरन्ध्राय स्वाहा शितिपृष्ठाय स्वाहा शित्यꣳसाय स्वाहा पुष्पकर्णाय स्वाहा शित्योष्ठाय स्वाहा शितिभ्रवे स्वाहा शितिभसदे स्वाहा श्वेतानूकाशाय स्वाहा । अञ्जये स्वाहा ललामाय स्वाहा । असितज्ञवे स्वाहा कृष्णैताय स्वाहा रोहितैताय स्वाहा । अरुणैताय स्वाहा । ईदृशाय स्वाहा कीदृशाय स्वाहा तादृशाय स्वाहा सदृशाय स्वाहा विसदृशाय स्वाहा सुसदृशाय स्वाहा रूपाय स्वाहा सर्वस्मै स्वाहा ॥

añjyetāya svāhā | añjisakthāya svāhā śitipade svāhā śitikakude svāhā śitirandhrāya svāhā śitipṛṣṭhāya svāhā śityam̐sāya svāhā puṣpakarṇāya svāhā śityoṣṭhāya svāhā śitibhrave svāhā śitibhasade svāhā śvetānūkāśāya svāhā | añjaye svāhā lalāmāya svāhā | asitajñave svāhā kṛṣṇaitāya svāhā rohitaitāya svāhā | aruṇaitāya svāhā | īdṛśāya svāhā kīdṛśāya svāhā tādṛśāya svāhā sadṛśāya svāhā visadṛśāya svāhā susadṛśāya svāhā rūpāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

कृष्णाय स्वाहा श्वेताय स्वाहा पिशंगाय स्वाहा सारंगाय स्वाहा । अरुणाय स्वाहा गौराय स्वाहा बभ्रवे स्वाहा नकुलाय स्वाहा रोहिताय स्वाहा शोणाय स्वाहा श्यावाय स्वाहा श्यामाय स्वाहा पाकलाय स्वाहा सुरूपाय स्वाहा । अनुरूपाय स्वाहा विरूपाय स्वाहा सरूपाय स्वाहा प्रतिरूपाय स्वाहा शबलाय स्वाहा कमलाय स्वाहा पृश्नये स्वाहा पृश्निसक्थाय स्वाहा सर्वस्मै स्वाहा ॥

kṛṣṇāya svāhā śvetāya svāhā piśaṃgāya svāhā sāraṃgāya svāhā | aruṇāya svāhā gaurāya svāhā babhrave svāhā nakulāya svāhā rohitāya svāhā śoṇāya svāhā śyāvāya svāhā śyāmāya svāhā pākalāya svāhā surūpāya svāhā | anurūpāya svāhā virūpāya svāhā sarūpāya svāhā pratirūpāya svāhā śabalāya svāhā kamalāya svāhā pṛśnaye svāhā pṛśnisakthāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

ओषधीभ्यः स्वाहा मूलेभ्यः स्वाहा तूलेभ्यः स्वाहा काण्डेभ्यः स्वाहा वल्शेभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहा गृहीतेभ्यः स्वाहा । अगृहीतेभ्यः स्वाहा । अवपन्नेभ्यः स्वाहा शयानेभ्यः स्वाहा सर्वस्मै स्वाहा ॥

oṣadhībhyaḥ svāhā mūlebhyaḥ svāhā tūlebhyaḥ svāhā kāṇḍebhyaḥ svāhā valśebhyaḥ svāhā puṣpebhyaḥ svāhā phalebhyaḥ svāhā gṛhītebhyaḥ svāhā | agṛhītebhyaḥ svāhā | avapannebhyaḥ svāhā śayānebhyaḥ svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

वनस्पतिभ्यः स्वाहा मूलेभ्यः स्वाहा तूलेभ्यः स्वाहा स्कन्धोभ्यः स्वाहा शाखाभ्यः स्वाहा पर्णेभ्यः स्वाहा पुष्पेभ्यः स्वाहा फलेभ्यः स्वाहा गृहीतेभ्यः स्वाहा । अगृहीतेभ्यः स्वाहा । अवपन्नेभ्यः स्वाहा शयानेभ्यः स्वाहा शिष्टाय स्वाहा । अतिशिष्टाय स्वाहा परिशिष्टाय स्वाहा सꣳशिष्टाय स्वाहा । उच्छिष्टाय स्वाहा रिक्ताय स्वाहा । अरिक्ताय स्वाहा प्ररिक्ताय स्वाहा सꣳरिक्ताय स्वाहा । उद्रिक्ताय स्वाहा सर्वस्मै स्वाहा ॥

vanaspatibhyaḥ svāhā mūlebhyaḥ svāhā tūlebhyaḥ svāhā skandhobhyaḥ svāhā śākhābhyaḥ svāhā parṇebhyaḥ svāhā puṣpebhyaḥ svāhā phalebhyaḥ svāhā gṛhītebhyaḥ svāhā | agṛhītebhyaḥ svāhā | avapannebhyaḥ svāhā śayānebhyaḥ svāhā śiṣṭāya svāhā | atiśiṣṭāya svāhā pariśiṣṭāya svāhā sam̐śiṣṭāya svāhā | ucchiṣṭāya svāhā riktāya svāhā | ariktāya svāhā prariktāya svāhā sam̐riktāya svāhā | udriktāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

बृहस्पतिर् अकामयत श्रन् मे देवा दधीरन् गच्छेयम् पुरोधाम् इति स एतं चतुर्विꣳशतिरात्रम् अपश्यत् तम् आहरत् तेनायजत ततो वै तस्मै श्रद् देवा अदधतागच्छत् पुरोधाम् । य एवं विद्वाꣳसश् चतुर्विꣳशतिरात्रम् आसते श्रद् एभ्यो मनुष्या दधते गच्छन्ति पुरोधाम् । ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुः । इमान् एव लोकान् अभ्यारोहन्ति । अभिपूर्वं त्र्यहा भवन्ति । अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजो वै वीर्यं पृष्ठानि पशवश् छन्दोमाः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति चतुर्विꣳशतिरात्रो भवति चतुर्विꣳशतिर् अर्धमासाः संवत्सरः संवत्सरः सुवर्गो लोकः संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । अथो चतुर्विꣳशत्यक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते । अतिरात्राव् अभितो भवतः । ब्रह्मवर्चसस्य परिगृहीत्यै ॥

bṛhaspatir akāmayata śran me devā dadhīran gaccheyam purodhām iti sa etaṃ caturvim̐śatirātram apaśyat tam āharat tenāyajata tato vai tasmai śrad devā adadhatāgacchat purodhām | ya evaṃ vidvām̐saś caturvim̐śatirātram āsate śrad ebhyo manuṣyā dadhate gacchanti purodhām | jyotir gaur āyur iti tryahā bhavanti | iyaṃ vāva jyotir antarikṣaṃ gaur asāv āyuḥ | imān eva lokān abhyārohanti | abhipūrvaṃ tryahā bhavanti | abhipūrvam eva suvargaṃ lokam abhyārohanti | asattraṃ vā etad yad acchandomam | yac chandomā bhavanti tena sattram | devatā eva pṛṣṭhair ava rundhate paśūñ chandomaiḥ | ojo vai vīryaṃ pṛṣṭhāni paśavaś chandomāḥ | ojasy eva vīrye paśuṣu prati tiṣṭhanti bṛhadrathaṃtarābhyāṃ yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva yanti atho anayor eva prati tiṣṭhanti | ete vai yajñasyāñjasāyanī srutī tābhyām eva suvargaṃ lokaṃ yanti caturvim̐śatirātro bhavati caturvim̐śatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaraḥ suvargo lokaḥ saṃvatsara eva suvarge loke prati tiṣṭhanti | atho caturvim̐śatyakṣarā gāyatrī gāyatrī brahmavarcasam | gāyatriyaiva brahmavarcasam ava rundhate | atirātrāv abhito bhavataḥ | brahmavarcasasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

यथा वै मनुष्या एवं देवा अग्र आसन् ते ऽकामयन्त । अवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीꣳ सꣳसदं गच्छेमेति त एतं चतुर्विꣳशतिरात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते ऽवर्तिम् पाप्मानम् मृत्युम् अपहत्य दैवीꣳ सꣳसदम् अगच्छन् य एवं विद्वाꣳसश् चतुर्विꣳशतिरात्रम् आसते ऽवर्तिम् एव पाप्मानम् अपहत्य श्रियं गच्छन्ति श्रीर् हि मनुष्यस्य दैवी सꣳसद् । ज्योतिर् अतिरात्रो भवति सुवर्गस्य लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति षड् वा ऋतवः संवत्सरस् तम् मासा अर्धमासा ऋतवः प्रविश्य दैवीꣳ सꣳसदम् अगच्छन् य एवं विद्वाꣳसश् चतुर्विꣳशतिरात्रम् आसते संवत्सरम् एव प्रविश्य वस्यसीꣳ सꣳसदं गच्छन्ति त्रयस् त्रयस्त्रिꣳशा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिꣳशाः परस्तात् त्रयस्त्रिꣳशैर् एवोभवयतो ऽवर्तिम् पाप्मानम् अपहत्य दैवीꣳ सꣳसदम् मध्यतः गच्छन्ति पृष्ठानि हि दैवी सꣳसद् । जामि वा एतत् कुर्वन्ति यत् त्रयस् त्रयस्त्रिꣳशा अन्वञ्चः । मध्ये ऽनिरुक्तो भवति तेनाजामि । ऊर्ध्वानि पृष्ठानि भवन्त्य् ऊर्ध्वाश् छन्दोमाः । उभाभ्याꣳ रूपाभ्याꣳ सुवर्गं लोकं यन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजो वै वीर्यम् पृष्ठानि पशवः छन्दोमाः । ओजस्य् एव वीर्ये पशुषु प्रति तिष्ठन्ति त्रयस् त्रयस्त्रिꣳशा अवस्ताद् भवन्ति त्रयस् त्रयस्त्रिꣳशाः परस्तान् मध्ये पृष्ठानि । उरो वै त्रयस्त्रिꣳशा आत्मा पृष्ठानि । आत्मन एव तद् यजमानाः शर्म नह्यन्ते ऽनार्त्यै बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचीनानि पृष्ठान्य् उपयन्ति प्रत्यङ् षडहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति त्रिवृतो ऽधि त्रिवृतम् उप यन्ति स्तोमानाꣳ सम्पत्त्यै प्रभवाय ज्योतिर् अग्निष्टोमो भवति । अयं वाव स क्षयः । अस्माद् एव तेन क्षयान् न यन्ति चतुर्विꣳशतिरात्रो भवति चतुर्विꣳशतिर् अर्धमासाः संवत्सरः संवत्सरः सुवर्गो लोकः संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । अथो चतुर्विꣳशत्यक्षरा गायत्री गायत्री ब्रह्मवर्चसम् । गायत्रियैव ब्रह्मवर्चसम् अव रुन्धते । अतिरात्राव् अभितो भवतः । ब्रह्मवर्चसस्य परिगृहीत्यै ॥

yathā vai manuṣyā evaṃ devā agra āsan te 'kāmayanta | avartim pāpmānam mṛtyum apahatya daivīm̐ sam̐sadaṃ gacchemeti ta etaṃ caturvim̐śatirātram apaśyan tam āharan tenāyajanta tato vai te 'vartim pāpmānam mṛtyum apahatya daivīm̐ sam̐sadam agacchan ya evaṃ vidvām̐saś caturvim̐śatirātram āsate 'vartim eva pāpmānam apahatya śriyaṃ gacchanti śrīr hi manuṣyasya daivī sam̐sad | jyotir atirātro bhavati suvargasya lokasyānukhyātyai pṛṣṭhyaḥ ṣaḍaho bhavati ṣaḍ vā ṛtavaḥ saṃvatsaras tam māsā ardhamāsā ṛtavaḥ praviśya daivīm̐ sam̐sadam agacchan ya evaṃ vidvām̐saś caturvim̐śatirātram āsate saṃvatsaram eva praviśya vasyasīm̐ sam̐sadaṃ gacchanti trayas trayastrim̐śā avastād bhavanti trayas trayastrim̐śāḥ parastāt trayastrim̐śair evobhavayato 'vartim pāpmānam apahatya daivīm̐ sam̐sadam madhyataḥ gacchanti pṛṣṭhāni hi daivī sam̐sad | jāmi vā etat kurvanti yat trayas trayastrim̐śā anvañcaḥ | madhye 'nirukto bhavati tenājāmi | ūrdhvāni pṛṣṭhāni bhavanty ūrdhvāś chandomāḥ | ubhābhyām̐ rūpābhyām̐ suvargaṃ lokaṃ yanti | asattraṃ vā etad yad acchandomam | yac chandomā bhavanti tena sattram | devatā eva pṛṣṭhair ava rundhate paśūñ chandomaiḥ | ojo vai vīryam pṛṣṭhāni paśavaḥ chandomāḥ | ojasy eva vīrye paśuṣu prati tiṣṭhanti trayas trayastrim̐śā avastād bhavanti trayas trayastrim̐śāḥ parastān madhye pṛṣṭhāni | uro vai trayastrim̐śā ātmā pṛṣṭhāni | ātmana eva tad yajamānāḥ śarma nahyante 'nārtyai bṛhadrathaṃtarābhyāṃ yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva yanti | atho anayor eva prati tiṣṭhanti | ete vai yajñasyāñjasāyanī srutī tābhyām eva suvargaṃ lokaṃ yanti parāñco vā ete suvargaṃ lokam abhyārohanti ye parācīnāni pṛṣṭhāny upayanti pratyaṅ ṣaḍaho bhavati pratyavarūḍhyā atho pratiṣṭhityai | ubhayor lokayor ṛddhvot tiṣṭhanti trivṛto 'dhi trivṛtam upa yanti stomānām̐ sampattyai prabhavāya jyotir agniṣṭomo bhavati | ayaṃ vāva sa kṣayaḥ | asmād eva tena kṣayān na yanti caturvim̐śatirātro bhavati caturvim̐śatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaraḥ suvargo lokaḥ saṃvatsara eva suvarge loke prati tiṣṭhanti | atho caturvim̐śatyakṣarā gāyatrī gāyatrī brahmavarcasam | gāyatriyaiva brahmavarcasam ava rundhate | atirātrāv abhito bhavataḥ | brahmavarcasasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

ऋक्षा वा इयम् अलोमकाऽऽसीत् साकामयत । ओषधीभिर् वनस्पतिभिः प्र जायेयेति सैतास् त्रिꣳशतꣳ रात्रीर् अपश्यत् ततो वा इयम् ओषधीभिर् वनस्पतिभिः प्राजायत ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन् प्रैव जायन्ते प्रजया पशुभिः । इयं वा अक्षुध्यत् सैतां विराजम् अपश्यत् ताम् आत्मन् धित्वान्नाद्यम् अवारुन्द्धौषधीः वनस्पतीन् प्रजाम् पशून् तेनावर्धत स जेमानम् महिमानम् अगच्छत् । य एवं विद्वाꣳस एता आसते विराजम् एवात्मन् धित्वान्नाद्यम् अव रुन्धते वर्धन्ते प्रजया पशुभिः । जेमानम् महिमानं गच्छन्ति ज्योतिर् अतिरात्रो भवति सुवर्गस्य लोकस्यानुख्यात्यै पृष्ठ्यः षडहो भवति षड् वा ऋतवः षट् पृष्ठानि पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव प्रति तिष्ठन्ति त्रयस्त्रिꣳशात् त्रयस्त्रिꣳशम् उप यन्ति यज्ञस्य संतत्यै । अथो प्रजापतिर् वै त्रयस्त्रिꣳशः प्रजापतिम् एवा रभन्ते प्रतिष्ठित्यै त्रिणवो भवति विजित्यै । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते त्रिवृद् अग्निष्टुद् भवति पाप्मानम् एव तेन निर् दहन्ते ऽथो तेजो वै त्रिवृत् तेज एवात्मन् दधते पञ्चदश इन्द्रस्तोमो भवति । इन्द्रियम् एवाव रुन्धते सप्तदशो भवति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायन्ते । एकविꣳशो भवति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते चतुर्विꣳशो भवति चतुर्विꣳशतिर् अर्धमासाः संवत्सरः संवत्सरः सुवर्गो लोकः संवत्सर एव सुवर्गे लोके प्रति तिष्ठन्ति । अथो एष वै विषूवान् विषूवन्तो भवन्ति य एवं विद्वाꣳस एता आसते चतुर्विꣳशात् पृष्ठान्य् उप यन्ति संवत्सर एव प्रतिष्ठाय ॥ देवता अभ्यारोहन्ति त्रयस्त्रिꣳशात् त्रयस्त्रिꣳशम् उप यन्ति त्रयस्त्रिꣳशद् वै देवताः । देवतास्व् एव प्रति तिष्ठन्ति त्रिणवो भवति । इमे वै लोकास् त्रिणवः । एष्व् एव लोकेषु प्रति तिष्ठन्ति द्वाव् एकविꣳशौ भवतः प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते बहवः षोडशिनो भवन्ति तस्माद् बहवः प्रजासु वृषाणः । यद् एते स्तोमा व्यतिषक्ता भवन्ति तस्माद् इयम् ओषधीभिर् वनस्पतिभिर् व्यतिषक्ता । व्यतिषज्यन्ते प्रजया पशुभिर् य एवं विद्वाꣳस एता आसते । अक्लृप्ता वा एते सुवर्गं लोकं यन्ति । उच्चावचान् हि स्तोमान् उपयन्ति यद् एत ऊर्ध्वाः क्लृप्ता स्तोमा भवन्ति क्लृप्ता एव सुवर्गं लोकं यन्त्य् उभयोर् एभ्यो लोकयोः कल्पते त्रिꣳशद् एतास् त्रिꣳशदक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते । अतिरात्राव् अभितो भवतः । अन्नाद्यस्य परिगृहीत्यै ॥

ṛkṣā vā iyam alomakā''sīt sākāmayata | oṣadhībhir vanaspatibhiḥ pra jāyeyeti saitās trim̐śatam̐ rātrīr apaśyat tato vā iyam oṣadhībhir vanaspatibhiḥ prājāyata ye prajākāmāḥ paśukāmāḥ syus ta etā āsīran praiva jāyante prajayā paśubhiḥ | iyaṃ vā akṣudhyat saitāṃ virājam apaśyat tām ātman dhitvānnādyam avārunddhauṣadhīḥ vanaspatīn prajām paśūn tenāvardhata sa jemānam mahimānam agacchat | ya evaṃ vidvām̐sa etā āsate virājam evātman dhitvānnādyam ava rundhate vardhante prajayā paśubhiḥ | jemānam mahimānaṃ gacchanti jyotir atirātro bhavati suvargasya lokasyānukhyātyai pṛṣṭhyaḥ ṣaḍaho bhavati ṣaḍ vā ṛtavaḥ ṣaṭ pṛṣṭhāni pṛṣṭhair evartūn anvārohanty ṛtubhiḥ saṃvatsaram | te saṃvatsara eva prati tiṣṭhanti trayastrim̐śāt trayastrim̐śam upa yanti yajñasya saṃtatyai | atho prajāpatir vai trayastrim̐śaḥ prajāpatim evā rabhante pratiṣṭhityai triṇavo bhavati vijityai | ekavim̐śo bhavati pratiṣṭhityai | atho rucam evātman dadhate trivṛd agniṣṭud bhavati pāpmānam eva tena nir dahante 'tho tejo vai trivṛt teja evātman dadhate pañcadaśa indrastomo bhavati | indriyam evāva rundhate saptadaśo bhavati | annādyasyāvaruddhyai | atho praiva tena jāyante | ekavim̐śo bhavati pratiṣṭhityai | atho rucam evātman dadhate caturvim̐śo bhavati caturvim̐śatir ardhamāsāḥ saṃvatsaraḥ saṃvatsaraḥ suvargo lokaḥ saṃvatsara eva suvarge loke prati tiṣṭhanti | atho eṣa vai viṣūvān viṣūvanto bhavanti ya evaṃ vidvām̐sa etā āsate caturvim̐śāt pṛṣṭhāny upa yanti saṃvatsara eva pratiṣṭhāya || devatā abhyārohanti trayastrim̐śāt trayastrim̐śam upa yanti trayastrim̐śad vai devatāḥ | devatāsv eva prati tiṣṭhanti triṇavo bhavati | ime vai lokās triṇavaḥ | eṣv eva lokeṣu prati tiṣṭhanti dvāv ekavim̐śau bhavataḥ pratiṣṭhityai | atho rucam evātman dadhate bahavaḥ ṣoḍaśino bhavanti tasmād bahavaḥ prajāsu vṛṣāṇaḥ | yad ete stomā vyatiṣaktā bhavanti tasmād iyam oṣadhībhir vanaspatibhir vyatiṣaktā | vyatiṣajyante prajayā paśubhir ya evaṃ vidvām̐sa etā āsate | aklṛptā vā ete suvargaṃ lokaṃ yanti | uccāvacān hi stomān upayanti yad eta ūrdhvāḥ klṛptā stomā bhavanti klṛptā eva suvargaṃ lokaṃ yanty ubhayor ebhyo lokayoḥ kalpate trim̐śad etās trim̐śadakṣarā virāḍ annaṃ virāḍ virājaivānnādyam ava rundhate | atirātrāv abhito bhavataḥ | annādyasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

प्रजापतिः सुवर्गं लोकम् ऐत् तं देवा येनयेन छन्दसाऽनु प्रायुञ्जत तेन नाऽऽप्नुवन् त एता द्वात्रिꣳशतꣳ रात्रीर् अपश्यन् द्वात्रिꣳशदक्षरानुष्टुग् आनुष्टुभः प्रजापतिः स्वेनैव छन्दसा प्रजापतिम् आप्त्वाभ्यारुह्य सुवर्गं लोकम् आयन् य एवं विद्वाꣳस एता आसते द्वात्रिꣳशद् एताः । द्वात्रिꣳशदक्षरानुष्टुग् आनुष्टुभः प्रजापतिः स्वेनैव छन्दसा प्रजापतिम् आप्त्वा श्रियं गच्छन्ति । श्रीर् हि मनुष्यस्य सुवर्गो लोकः । द्वात्रिꣳशद् एताः । द्वात्रिꣳशदक्षरानुष्टुग् वाग् अनुष्टुप् सर्वाम् एव वाचम् आप्नुवन्ति सर्वे वाचो वदितारो भवन्ति सर्वे हि श्रियं गच्छन्ति ज्योतिर् गौर् आयुर् इति त्र्यहा भवन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौर् असाव् आयुर् इमान् एव लोकान् अभ्यारोहन्ति । अभिपूर्वं त्र्यहा भवन्ति । अभिपूर्वम् एव सुवर्गं लोकम् अभ्यारोहन्ति बृहद्रथंतराभ्यां यन्ति । इयं वाव रथंतरम् असौ बृहत् । आभ्याम् एव यन्ति । अथो अनयोर् एव प्रति तिष्ठन्ति । एते वै यज्ञस्याञ्जसायनी स्रुती ताभ्याम् एव सुवर्गं लोकं यन्ति पराञ्चो वा एते सुवर्गं लोकम् अभ्यारोहन्ति ये पराचस् त्र्यहान् उपयन्ति प्रत्यङ् त्र्यहो भवति प्रत्यवरूढ्या अथो प्रतिष्ठित्यै । उभयोर् लोकयोर् ऋद्ध्वोत् तिष्ठन्ति द्वात्रिꣳशद् एतास् तासां यास् त्रिꣳशत् त्रिꣳशदक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते ये द्वे अहोरात्रे एव ते उभाभ्याꣳ रूपाभ्याꣳ सुवर्गं लोकं यन्ति । अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

prajāpatiḥ suvargaṃ lokam ait taṃ devā yenayena chandasā'nu prāyuñjata tena nā''pnuvan ta etā dvātrim̐śatam̐ rātrīr apaśyan dvātrim̐śadakṣarānuṣṭug ānuṣṭubhaḥ prajāpatiḥ svenaiva chandasā prajāpatim āptvābhyāruhya suvargaṃ lokam āyan ya evaṃ vidvām̐sa etā āsate dvātrim̐śad etāḥ | dvātrim̐śadakṣarānuṣṭug ānuṣṭubhaḥ prajāpatiḥ svenaiva chandasā prajāpatim āptvā śriyaṃ gacchanti | śrīr hi manuṣyasya suvargo lokaḥ | dvātrim̐śad etāḥ | dvātrim̐śadakṣarānuṣṭug vāg anuṣṭup sarvām eva vācam āpnuvanti sarve vāco vaditāro bhavanti sarve hi śriyaṃ gacchanti jyotir gaur āyur iti tryahā bhavanti | iyaṃ vāva jyotir antarikṣaṃ gaur asāv āyur imān eva lokān abhyārohanti | abhipūrvaṃ tryahā bhavanti | abhipūrvam eva suvargaṃ lokam abhyārohanti bṛhadrathaṃtarābhyāṃ yanti | iyaṃ vāva rathaṃtaram asau bṛhat | ābhyām eva yanti | atho anayor eva prati tiṣṭhanti | ete vai yajñasyāñjasāyanī srutī tābhyām eva suvargaṃ lokaṃ yanti parāñco vā ete suvargaṃ lokam abhyārohanti ye parācas tryahān upayanti pratyaṅ tryaho bhavati pratyavarūḍhyā atho pratiṣṭhityai | ubhayor lokayor ṛddhvot tiṣṭhanti dvātrim̐śad etās tāsāṃ yās trim̐śat trim̐śadakṣarā virāḍ annaṃ virāḍ virājaivānnādyam ava rundhate ye dve ahorātre eva te ubhābhyām̐ rūpābhyām̐ suvargaṃ lokaṃ yanti | atirātrāv abhito bhavataḥ parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

द्वे वाव देवसत्त्रे द्वादशाहश् च त्रयस्त्रिꣳशदहश् च य एवं विद्वाꣳसस् त्रयस्त्रिꣳशदहम् आसते साक्षाद् एव देवता अभ्यारोहन्ति यथा खलु वै श्रेयान् अभ्यारूढः कामयते तथा करोति यद्य् अवविध्यति पापीयान् भवति यदि नावविध्यति सदृङ् य एवं विद्वाꣳसस् त्रयस्त्रिꣳशदहम् आसते वि पाप्मना भ्रातृव्येणा वर्तन्ते ऽहर्भाजो वा एता देवा अग्र आऽहरन् । अहर् एको ऽभजताहर् एकस् ताभिर् वै ते प्रबाहुग् आर्ध्नुवन् य एवं विद्वाꣳसस् त्रयस्त्रिꣳशदहम् आसते सर्व एव प्रबाहुग् ऋध्नुवन्ति सर्वे ग्रामणीयम् प्राप्नुवन्ति पञ्चाहा भवन्ति पञ्च वा ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति । अथो पञ्चाक्षरा पङ्क्तिः पाङ्क्तो यज्ञः । यज्ञम् एवाव रुन्धते त्रीण्य् आश्विनानि भवन्ति त्रय इमे लोकाः । एषु एव लोकेषु प्रति तिष्ठन्ति । अथो त्रीणि वै यज्ञस्येन्द्रियाणि तान्य् एवाव रुन्धते विश्वजिद् भवत्य् अन्नाद्यस्यावरुद्ध्यै सर्वपृष्ठो भवति सर्वस्याभिजित्यै वाग् वै द्वादशाहः । यत् पुरस्ताद् द्वादशाहम् उपेयुर् अनाप्तां वाचम् उपेयुर् उपदासुकैषां वाक् स्यात् । उपरिष्टाद् द्वादशाहम् उप यन्त्य् आप्ताम् एव वाचम् उप यन्ति तस्माद् उपरिष्टाद् वाचा वदामः । अवान्तरम् वै दशरात्रेण प्रजापतिः प्रजा असृजत यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते । एताꣳ ह वा उदङ्कः शौल्बायन सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः । द्व्यनीका वा एता रात्रयो यजमाना विश्वजित् सहातिरात्रेण पूर्वाः षोडश सहातिरात्रेणोत्तराः षोडश य एवं विद्वाꣳसस् त्रयस्त्रिꣳशदहम् आसत ऐषां द्व्यनीका प्रजा जायते । अतिरात्राव् अभितो भवतः परिगृहीत्यै ॥

dve vāva devasattre dvādaśāhaś ca trayastrim̐śadahaś ca ya evaṃ vidvām̐sas trayastrim̐śadaham āsate sākṣād eva devatā abhyārohanti yathā khalu vai śreyān abhyārūḍhaḥ kāmayate tathā karoti yady avavidhyati pāpīyān bhavati yadi nāvavidhyati sadṛṅ ya evaṃ vidvām̐sas trayastrim̐śadaham āsate vi pāpmanā bhrātṛvyeṇā vartante 'harbhājo vā etā devā agra ā'haran | ahar eko 'bhajatāhar ekas tābhir vai te prabāhug ārdhnuvan ya evaṃ vidvām̐sas trayastrim̐śadaham āsate sarva eva prabāhug ṛdhnuvanti sarve grāmaṇīyam prāpnuvanti pañcāhā bhavanti pañca vā ṛtavaḥ saṃvatsaraḥ | ṛtuṣv eva saṃvatsare prati tiṣṭhanti | atho pañcākṣarā paṅktiḥ pāṅkto yajñaḥ | yajñam evāva rundhate trīṇy āśvināni bhavanti traya ime lokāḥ | eṣu eva lokeṣu prati tiṣṭhanti | atho trīṇi vai yajñasyendriyāṇi tāny evāva rundhate viśvajid bhavaty annādyasyāvaruddhyai sarvapṛṣṭho bhavati sarvasyābhijityai vāg vai dvādaśāhaḥ | yat purastād dvādaśāham upeyur anāptāṃ vācam upeyur upadāsukaiṣāṃ vāk syāt | upariṣṭād dvādaśāham upa yanty āptām eva vācam upa yanti tasmād upariṣṭād vācā vadāmaḥ | avāntaram vai daśarātreṇa prajāpatiḥ prajā asṛjata yad daśarātro bhavati prajā eva tad yajamānāḥ sṛjante | etām̐ ha vā udaṅkaḥ śaulbāyana sattrasyarddhim uvāca yad daśarātraḥ | yad daśarātro bhavati sattrasyarddhyai | atho yad eva pūrveṣv ahaḥsu viloma kriyate tasyaivaiṣā śāntiḥ | dvyanīkā vā etā rātrayo yajamānā viśvajit sahātirātreṇa pūrvāḥ ṣoḍaśa sahātirātreṇottarāḥ ṣoḍaśa ya evaṃ vidvām̐sas trayastrim̐śadaham āsata aiṣāṃ dvyanīkā prajā jāyate | atirātrāv abhito bhavataḥ parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

आदित्या अकामयन्त सुवर्गं लोकम् इयामेति ते सुवर्गं लोकं न प्राजानन् न सुवर्गं लोकम् आयन् त एतꣳ षट्त्रिꣳशद्रात्रम् अपश्यन् तम् आहरन् तेनायजन्त ततो वै ते सुवर्गं लोकम् प्राजानन्त् सुवर्गं लोकम् आयन् य एवं विद्वाꣳसः षट्त्रिꣳशद्रात्रम् आसते सुवर्गम् एव लोकम् प्र जानन्ति सुवर्गं लोकं यन्ति ज्योतिर् अतिरात्रः भवति ज्योतिर् एव पुरस्ताद् दधते सुवर्गस्य लोकस्यानुख्यात्यै षडहा भवन्ति षड् वा ऋतवः । ऋतुष्व् एव प्रति तिष्ठन्ति चत्वारो भवन्ति चतस्रो दिशः । दिक्ष्व् एव प्रति तिष्ठन्ति । असत्त्रं वा एतद् यद् अच्छन्दोमम् । यच् छन्दोमा भवन्ति तेन सत्त्रम् । देवता एव पृष्ठैर् अव रुन्धते पशूञ् छन्दोमैः । ओजो वै वीर्यम् पृष्ठानि पशवश् छन्दोमाः । ओजस्य् एव वीर्ये प्रति तिष्ठन्ति षट्त्रिꣳशद्रात्रो भवति षट्त्रिꣳशदक्षरा बृहती बार्हताः पशवः । बृहत्यैव पशून् अव रुन्धते बृहती छन्दसाꣳ स्वाराज्यम् आश्नुत । अश्नुवते स्वाराज्यं य एवं विद्वाꣳसः षट्त्रिꣳशद्रात्रम् आसते सुवर्गम् एव लोकं यन्ति । अतिरात्राव् अभितो भवतः सुवर्गस्य लोकस्य परिगृहीत्यै ॥

ādityā akāmayanta suvargaṃ lokam iyāmeti te suvargaṃ lokaṃ na prājānan na suvargaṃ lokam āyan ta etam̐ ṣaṭtrim̐śadrātram apaśyan tam āharan tenāyajanta tato vai te suvargaṃ lokam prājānant suvargaṃ lokam āyan ya evaṃ vidvām̐saḥ ṣaṭtrim̐śadrātram āsate suvargam eva lokam pra jānanti suvargaṃ lokaṃ yanti jyotir atirātraḥ bhavati jyotir eva purastād dadhate suvargasya lokasyānukhyātyai ṣaḍahā bhavanti ṣaḍ vā ṛtavaḥ | ṛtuṣv eva prati tiṣṭhanti catvāro bhavanti catasro diśaḥ | dikṣv eva prati tiṣṭhanti | asattraṃ vā etad yad acchandomam | yac chandomā bhavanti tena sattram | devatā eva pṛṣṭhair ava rundhate paśūñ chandomaiḥ | ojo vai vīryam pṛṣṭhāni paśavaś chandomāḥ | ojasy eva vīrye prati tiṣṭhanti ṣaṭtrim̐śadrātro bhavati ṣaṭtrim̐śadakṣarā bṛhatī bārhatāḥ paśavaḥ | bṛhatyaiva paśūn ava rundhate bṛhatī chandasām̐ svārājyam āśnuta | aśnuvate svārājyaṃ ya evaṃ vidvām̐saḥ ṣaṭtrim̐śadrātram āsate suvargam eva lokaṃ yanti | atirātrāv abhito bhavataḥ suvargasya lokasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

वसिष्ठो हतपुत्रो ऽकामयत विन्देय प्रजाम् अभि सौदासान् भवेयम् इति स एतम् एकस्मान्नपञ्चाशम् अपश्यत् तम् आहरत् तेनायजत ततो वै सो ऽविन्दत प्रजाम् अभि सौदासान् अभवत् । य एवं विद्वाꣳस एकस्मान्नपञ्चाशम् आसते विन्दन्ते प्रजाम् अभि भ्रातृव्यान् भवन्ति त्रयस् त्रिवृतो ऽग्निष्टोमा भवन्ति वज्रस्यैव मुखꣳ सꣳ श्यन्ति दश पञ्चदशा भवन्ति पञ्चदशो वज्रः ॥ वज्रम् एव भ्रातृव्येभ्यः प्र हरन्ति षोडशिमद् दशमम् अहर् भवति वज्र एव वीर्यं दधति द्वादश सप्तदशा भवन्ति । अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तैर् जायन्ते पृष्ठ्यः षडहो भवति षड् वा ऋतवः षट् पृष्ठानि पृष्ठैर् एवर्तून् अन्वारोहन्त्य् ऋतुभिः संवत्सरम् । ते संवत्सर एव प्रति तिष्ठन्ति द्वादशैकविꣳशा भवन्ति प्रतिष्ठित्यै । अथो रुचम् एवात्मन् दधते बहवः षोडशिनो भवन्ति विजित्यै षड् आश्विनानि भवन्ति षड् वा ऋतवः । ऋतुष्व् एव प्रति तिष्ठन्ति । ऊनातिरिक्ता वा एता रात्रयः । ऊनास् तद् यद् एकस्यै न पञ्चाशद् अतिरिक्तास् तद् यद् भूयसीर् अष्टाचत्वारिꣳशतः । ऊनाच् च खलु वा अतिरिक्ताच् च प्रजापतिः प्राजायत । ये प्रजाकामाः पशुकामाः स्युस् त एता आसीरन् प्रैव जायन्ते प्रजया पशुभिः । वैराजो वा एष यज्ञो यद् एकस्मान्नपञ्चाशः । य एवं विद्वाꣳस एकस्मान्नपञ्चाशम् आसते विराजम् एव गच्छन्त्य् अन्नादा भवन्ति । अतिरात्राव् अभितो भवतः । अन्नाद्यस्य परिगृहीत्यै ॥

vasiṣṭho hataputro 'kāmayata vindeya prajām abhi saudāsān bhaveyam iti sa etam ekasmānnapañcāśam apaśyat tam āharat tenāyajata tato vai so 'vindata prajām abhi saudāsān abhavat | ya evaṃ vidvām̐sa ekasmānnapañcāśam āsate vindante prajām abhi bhrātṛvyān bhavanti trayas trivṛto 'gniṣṭomā bhavanti vajrasyaiva mukham̐ sam̐ śyanti daśa pañcadaśā bhavanti pañcadaśo vajraḥ || vajram eva bhrātṛvyebhyaḥ pra haranti ṣoḍaśimad daśamam ahar bhavati vajra eva vīryaṃ dadhati dvādaśa saptadaśā bhavanti | annādyasyāvaruddhyai | atho praiva tair jāyante pṛṣṭhyaḥ ṣaḍaho bhavati ṣaḍ vā ṛtavaḥ ṣaṭ pṛṣṭhāni pṛṣṭhair evartūn anvārohanty ṛtubhiḥ saṃvatsaram | te saṃvatsara eva prati tiṣṭhanti dvādaśaikavim̐śā bhavanti pratiṣṭhityai | atho rucam evātman dadhate bahavaḥ ṣoḍaśino bhavanti vijityai ṣaḍ āśvināni bhavanti ṣaḍ vā ṛtavaḥ | ṛtuṣv eva prati tiṣṭhanti | ūnātiriktā vā etā rātrayaḥ | ūnās tad yad ekasyai na pañcāśad atiriktās tad yad bhūyasīr aṣṭācatvārim̐śataḥ | ūnāc ca khalu vā atiriktāc ca prajāpatiḥ prājāyata | ye prajākāmāḥ paśukāmāḥ syus ta etā āsīran praiva jāyante prajayā paśubhiḥ | vairājo vā eṣa yajño yad ekasmānnapañcāśaḥ | ya evaṃ vidvām̐sa ekasmānnapañcāśam āsate virājam eva gacchanty annādā bhavanti | atirātrāv abhito bhavataḥ | annādyasya parigṛhītyai ||

Sanskrit only: no published translation is held for this verse.

संवत्सराय दीक्षिष्यमाणा एकाष्टकायां दीक्षेरन् । एषा वै संवत्सरस्य पत्नी यद् एकाष्टका । एतस्यां वा एष एताꣳ रात्रिं वसति साक्षाद् एव संवत्सरम् आरभ्य दीक्षन्ते । आर्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः । व्यस्तं वा एते संवत्सरस्याभि दीक्षन्ते य एकाष्टकायां दीक्षन्ते ऽन्तनामानाव् ऋतू भवतः फल्गुनीपूर्णमासे दीक्षेरन् मुखं वा एतत् संवत्सरस्य यत् फल्गुनीपूर्णमासः । मुखत एव संवत्सरम् आरभ्य दीक्षन्ते तस्यैकैव निर्या यत् साम्मेध्ये विषूवान्त् सम्पद्यते चित्रापूर्णमासे दीक्षेरन् मुखं वा एतत् संवत्सरस्य यच् चित्रापूर्णमासः । मुखत एव संवत्सरम् आरभ्य दीक्षन्ते तस्य न का चन निर्या भवति चतुरहे पुरस्तात् पौर्णमास्यै दीक्षेरन् तेषाम् एकाष्टकायां क्रयः सम् पद्यते तेनैकाष्टकां न छम्बट् कुर्वन्ति तेषाम् पूर्वपक्षे सुत्या सम् पद्यते पूर्वपक्षम् मासा अभि सम् पद्यन्ते ते पूर्वपक्ष उत् तिष्ठन्ति तान् उत्तिष्ठत ओषधयो वनस्पतयो ऽनूत् तिष्ठन्ति तान् कल्याणी कीर्तिर् अनूत् तिष्ठति । अरात्सुर् इमे यजमाना इति तद् अनु सर्वे राध्नुवन्ति ॥

saṃvatsarāya dīkṣiṣyamāṇā ekāṣṭakāyāṃ dīkṣeran | eṣā vai saṃvatsarasya patnī yad ekāṣṭakā | etasyāṃ vā eṣa etām̐ rātriṃ vasati sākṣād eva saṃvatsaram ārabhya dīkṣante | ārtaṃ vā ete saṃvatsarasyābhi dīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavataḥ | vyastaṃ vā ete saṃvatsarasyābhi dīkṣante ya ekāṣṭakāyāṃ dīkṣante 'ntanāmānāv ṛtū bhavataḥ phalgunīpūrṇamāse dīkṣeran mukhaṃ vā etat saṃvatsarasya yat phalgunīpūrṇamāsaḥ | mukhata eva saṃvatsaram ārabhya dīkṣante tasyaikaiva niryā yat sāmmedhye viṣūvānt sampadyate citrāpūrṇamāse dīkṣeran mukhaṃ vā etat saṃvatsarasya yac citrāpūrṇamāsaḥ | mukhata eva saṃvatsaram ārabhya dīkṣante tasya na kā cana niryā bhavati caturahe purastāt paurṇamāsyai dīkṣeran teṣām ekāṣṭakāyāṃ krayaḥ sam padyate tenaikāṣṭakāṃ na chambaṭ kurvanti teṣām pūrvapakṣe sutyā sam padyate pūrvapakṣam māsā abhi sam padyante te pūrvapakṣa ut tiṣṭhanti tān uttiṣṭhata oṣadhayo vanaspatayo 'nūt tiṣṭhanti tān kalyāṇī kīrtir anūt tiṣṭhati | arātsur ime yajamānā iti tad anu sarve rādhnuvanti ||

Sanskrit only: no published translation is held for this verse.

सुवर्गं वा एते लोकं यन्ति ये सत्त्रम् उपयन्ति । अभीन्धत एव दीक्षाभिर् आत्मानꣳ श्रपयन्त उपसद्भिः । द्वाभ्यां लोमावद्यन्ति द्वाभ्यां त्वचम् । द्वाभ्याम् असृत् । द्वाभ्याम् माꣳसम् । द्वाभ्याम् अस्थि द्वाभ्याम् मज्जानम् आत्मदक्षिणं वै सत्त्रम् आत्मानम् एव दक्षिणां नीत्वा सुवर्गं लोकं यन्ति शिखाम् अनु प्र वपन्ते । ऋद्ध्यै । अथो रघीयाꣳसः सुवर्गं लोकम् अयामेति ॥

suvargaṃ vā ete lokaṃ yanti ye sattram upayanti | abhīndhata eva dīkṣābhir ātmānam̐ śrapayanta upasadbhiḥ | dvābhyāṃ lomāvadyanti dvābhyāṃ tvacam | dvābhyām asṛt | dvābhyām mām̐sam | dvābhyām asthi dvābhyām majjānam ātmadakṣiṇaṃ vai sattram ātmānam eva dakṣiṇāṃ nītvā suvargaṃ lokaṃ yanti śikhām anu pra vapante | ṛddhyai | atho raghīyām̐saḥ suvargaṃ lokam ayāmeti ||

Sanskrit only: no published translation is held for this verse.

ब्रह्मवादिनो वदन्ति । अतिरात्रः परमो यज्ञक्रतूनां कस्मात् तम् प्रथमम् उप यन्तीति । एतद् वा अग्निष्टोमम् प्रथमम् उप यन्त्य् अथोक्थ्यम् अथ षोडशिनम् अथातिरात्रम् अनुपूर्वम् एवैतद् यज्ञक्रतून् उपेत्य तान् आलभ्य परिगृह्य सोमम् एवैतत् पिबन्त आसते ज्योतिष्टोमम् प्रथमम् उप यन्ति ज्योतिष्टोमो वै स्तोमानाम् मुखम् मुखत एव स्तोमान् प्र युञ्जते ते सꣳस्तुता विराजम् अभि सम् पद्यन्ते द्वे चर्चाव् अति रिच्येते एकया गौर् अतिरिक्त एकयायुर् ऊनः सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराट् सुवर्गम् एव तेन लोकं यन्ति रथंतरं दिवा भवति रथंतरं नक्तम् इत्य् आहुर् ब्रह्मवादिनः केन तद् अजामीति सौभरं तृतीयसवने ब्रह्मसामम् बृहत् तन् मध्यतो दधति विधृत्यै तेनाजामि ॥

brahmavādino vadanti | atirātraḥ paramo yajñakratūnāṃ kasmāt tam prathamam upa yantīti | etad vā agniṣṭomam prathamam upa yanty athokthyam atha ṣoḍaśinam athātirātram anupūrvam evaitad yajñakratūn upetya tān ālabhya parigṛhya somam evaitat pibanta āsate jyotiṣṭomam prathamam upa yanti jyotiṣṭomo vai stomānām mukham mukhata eva stomān pra yuñjate te sam̐stutā virājam abhi sam padyante dve carcāv ati ricyete ekayā gaur atirikta ekayāyur ūnaḥ suvargo vai loko jyotir ūrg virāṭ suvargam eva tena lokaṃ yanti rathaṃtaraṃ divā bhavati rathaṃtaraṃ naktam ity āhur brahmavādinaḥ kena tad ajāmīti saubharaṃ tṛtīyasavane brahmasāmam bṛhat tan madhyato dadhati vidhṛtyai tenājāmi ||

Sanskrit only: no published translation is held for this verse.

ज्योतिष्टोमम् प्रथमम् उप यन्ति । अस्मिन्न् एव तेन लोके प्रति तिष्ठन्ति गोष्टोमं द्वितीयम् उप यन्ति । अन्तरिक्ष एव तेन प्रति तिष्ठन्ति । आयुष्टोमं तृतीयम् उप यन्ति । अमुष्मिन्न् एव तेन लोके प्रति तिष्ठन्ति । इयं वाव ज्योतिर् अन्तरिक्षं गौः । असाव् आयुः । यद् एतान्त् स्तोमान् उपयन्त्य् एष्व् एव तल् लोकेषु सत्त्रिणः प्रतितिष्ठन्तो यन्ति ते सꣳस्तुता विराजम् अभि सम् पद्यन्ते द्वे चर्चाव् अति रिच्येते एकया गौर् अतिरिक्त एकयायुर् ऊनः सुवर्गो वै लोको ज्योतिर् ऊर्ग् विराड् ऊर्जम् एवाव रुन्धते ते न क्षुधार्तिम् आर्छन्ति । अक्षोधुका भवन्ति क्षुत्सम्बाधा इव हि सत्त्रिणः । अग्निष्टोमाव् अभितः प्रधी तौ उक्थ्या मध्ये नभ्यं तत् तद् एतत् परियद् देवचक्रम् । यद् एतेन षडहेन यन्ति देवचक्रम् एव समारोहन्त्य् अरिष्ट्यै ते स्वस्ति सम् अश्नुवते षडहेन यन्ति षड् वा ऋतवः । ऋतुष्व् एव प्रति तिष्ठन्ति । उभयतोज्योतिषा यन्ति । उभयत एव सुवर्गे लोके प्रतितिष्ठन्तो यन्ति द्वौ षडहौ भवतस् तानि द्वादशाहानि सम् पद्यन्ते द्वादशो वै पुरुषो द्वे सक्थ्यौ द्वौ बाहू आत्मा च शिरश् च चत्वार्य् अङ्गानि स्तनौ द्वादशौ । तत् पुरुषम् अनु पर्यावर्तन्ते त्रयः षडहा भवन्ति तान्य् अष्टादशाहानि सम् पद्यन्ते नवान्यानि नवान्यानि नव वै पुरुषे प्राणास् तत् प्राणान् अनु पर्यावर्तन्ते चत्वारः षडहा भवन्ति तानि चतुर्विꣳशतिर् अहानि सम् पद्यन्ते चतुर्विꣳशतिर् अर्धमासाः संवत्सरस् तत् संवत्सरम् अनु पर्यावर्तन्ते । अप्रतिष्ठितः संवत्सर इति खलु वा आहुर् वर्षीयान् प्रतिष्ठाया इति । एतावद् वै संवत्सरस्य ब्राह्मणं यावन् मासः । मासिमास्य् एव प्रतितिष्ठन्तो यन्ति ॥

jyotiṣṭomam prathamam upa yanti | asminn eva tena loke prati tiṣṭhanti goṣṭomaṃ dvitīyam upa yanti | antarikṣa eva tena prati tiṣṭhanti | āyuṣṭomaṃ tṛtīyam upa yanti | amuṣminn eva tena loke prati tiṣṭhanti | iyaṃ vāva jyotir antarikṣaṃ gauḥ | asāv āyuḥ | yad etānt stomān upayanty eṣv eva tal lokeṣu sattriṇaḥ pratitiṣṭhanto yanti te sam̐stutā virājam abhi sam padyante dve carcāv ati ricyete ekayā gaur atirikta ekayāyur ūnaḥ suvargo vai loko jyotir ūrg virāḍ ūrjam evāva rundhate te na kṣudhārtim ārchanti | akṣodhukā bhavanti kṣutsambādhā iva hi sattriṇaḥ | agniṣṭomāv abhitaḥ pradhī tau ukthyā madhye nabhyaṃ tat tad etat pariyad devacakram | yad etena ṣaḍahena yanti devacakram eva samārohanty ariṣṭyai te svasti sam aśnuvate ṣaḍahena yanti ṣaḍ vā ṛtavaḥ | ṛtuṣv eva prati tiṣṭhanti | ubhayatojyotiṣā yanti | ubhayata eva suvarge loke pratitiṣṭhanto yanti dvau ṣaḍahau bhavatas tāni dvādaśāhāni sam padyante dvādaśo vai puruṣo dve sakthyau dvau bāhū ātmā ca śiraś ca catvāry aṅgāni stanau dvādaśau | tat puruṣam anu paryāvartante trayaḥ ṣaḍahā bhavanti tāny aṣṭādaśāhāni sam padyante navānyāni navānyāni nava vai puruṣe prāṇās tat prāṇān anu paryāvartante catvāraḥ ṣaḍahā bhavanti tāni caturvim̐śatir ahāni sam padyante caturvim̐śatir ardhamāsāḥ saṃvatsaras tat saṃvatsaram anu paryāvartante | apratiṣṭhitaḥ saṃvatsara iti khalu vā āhur varṣīyān pratiṣṭhāyā iti | etāvad vai saṃvatsarasya brāhmaṇaṃ yāvan māsaḥ | māsimāsy eva pratitiṣṭhanto yanti ||

Sanskrit only: no published translation is held for this verse.

मेषस् त्वा पचतैर् अवतु लोहितग्रीवश् छागैः शल्मलिर् वृद्ध्या पर्णो ब्रह्मणा प्लक्षो मेधेन न्यग्रोधश् चमसैर् उदुम्बर ऊर्जा गायत्री छन्दोभिस् त्रिवृत् स्तोमैः । अवन्ती स्थावन्तीस् त्वाऽवन्तु प्रियं त्वा प्रियाणां वर्षिष्ठम् आप्यानां निधीनां त्वा निधिपतिꣳ हवामहे वसो मम ॥

meṣas tvā pacatair avatu lohitagrīvaś chāgaiḥ śalmalir vṛddhyā parṇo brahmaṇā plakṣo medhena nyagrodhaś camasair udumbara ūrjā gāyatrī chandobhis trivṛt stomaiḥ | avantī sthāvantīs tvā'vantu priyaṃ tvā priyāṇāṃ varṣiṣṭham āpyānāṃ nidhīnāṃ tvā nidhipatim̐ havāmahe vaso mama ||

Sanskrit only: no published translation is held for this verse.

कूप्याभ्यः स्वाहा कूल्याभ्यः स्वाहा विकर्याभ्यः स्वाहा । अवट्याभ्यः स्वाहा खन्याभ्यः स्वाहा ह्रद्याभ्यः स्वाहा सूद्याभ्यः स्वाहा सरस्याभ्यः स्वाहा वैशन्तीभ्यः स्वाहा पल्वल्याभ्यः स्वाहा वर्ष्याभ्यः स्वाहा । अवर्ष्याभ्यः स्वाहा ह्रादुनीभ्यः स्वाहा पृष्वाभ्यः स्वाहा स्यन्दमानाभ्यः स्वाहा स्थावराभ्यः स्वाहा नादेयीभ्यः स्वाहा सैन्धवीभ्यः स्वाहा समुद्रियाभ्यः स्वाहा सर्वाभ्यः स्वाहा ॥

kūpyābhyaḥ svāhā kūlyābhyaḥ svāhā vikaryābhyaḥ svāhā | avaṭyābhyaḥ svāhā khanyābhyaḥ svāhā hradyābhyaḥ svāhā sūdyābhyaḥ svāhā sarasyābhyaḥ svāhā vaiśantībhyaḥ svāhā palvalyābhyaḥ svāhā varṣyābhyaḥ svāhā | avarṣyābhyaḥ svāhā hrādunībhyaḥ svāhā pṛṣvābhyaḥ svāhā syandamānābhyaḥ svāhā sthāvarābhyaḥ svāhā nādeyībhyaḥ svāhā saindhavībhyaḥ svāhā samudriyābhyaḥ svāhā sarvābhyaḥ svāhā ||

Sanskrit only: no published translation is held for this verse.

अद्भ्यः स्वाहा वहन्तीभ्यः स्वाहा परिवहन्तीभ्यः स्वाहा समन्तं वहन्तीभ्यः स्वाहा शीघ्रं वहन्तीभ्यः स्वाहा शीभं वहन्तीभ्यः स्वाहा । उग्रं वहन्तीभ्यः स्वाहा भीमं वहन्तीभ्यः स्वाहा । अम्भोभ्यः स्वाहा नभोभ्यः स्वाहा महोभ्यः स्वाहा सर्वस्मै स्वाहा ॥

adbhyaḥ svāhā vahantībhyaḥ svāhā parivahantībhyaḥ svāhā samantaṃ vahantībhyaḥ svāhā śīghraṃ vahantībhyaḥ svāhā śībhaṃ vahantībhyaḥ svāhā | ugraṃ vahantībhyaḥ svāhā bhīmaṃ vahantībhyaḥ svāhā | ambhobhyaḥ svāhā nabhobhyaḥ svāhā mahobhyaḥ svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

यो अर्वन्तं जिघाꣳसति तम् अभ्यमीति वरुणः । परो मर्तः परः श्वा ॥ अहं च त्वं च वृत्रहन्त् सम् बभूव सनिभ्य आ । अरातीवा चिद् अद्रिवो ऽनु नौ शूर मꣳसतै भद्रा इन्द्रस्य रातयः ॥ अभि क्रत्वेन्द्र भूर् अध ज्मन् न ते विव्यङ् महिमानꣳ रजाꣳसि । स्वेना हि वृत्रꣳ शवसा जघन्थ न शत्रुर् अन्तं विविदद् युधा ते ॥

yo arvantaṃ jighām̐sati tam abhyamīti varuṇaḥ | paro martaḥ paraḥ śvā || ahaṃ ca tvaṃ ca vṛtrahant sam babhūva sanibhya ā | arātīvā cid adrivo 'nu nau śūra mam̐satai bhadrā indrasya rātayaḥ || abhi kratvendra bhūr adha jman na te vivyaṅ mahimānam̐ rajām̐si | svenā hi vṛtram̐ śavasā jaghantha na śatrur antaṃ vividad yudhā te ||

Sanskrit only: no published translation is held for this verse.

नमो राज्ञे नमो वरुणाय नमो ऽश्वाय नमः प्रजापतये नमो ऽधिपतये । अधिपतिर् अस्य् अधिपतिम् मा कुर्व् अधिपतिर् अहम् प्रजानाम् भूयासम् मां धेहि मयि धेहि । उपाकृताय स्वाहा । आलब्धाय स्वाहा हुताय स्वाहा ॥

namo rājñe namo varuṇāya namo 'śvāya namaḥ prajāpataye namo 'dhipataye | adhipatir asy adhipatim mā kurv adhipatir aham prajānām bhūyāsam māṃ dhehi mayi dhehi | upākṛtāya svāhā | ālabdhāya svāhā hutāya svāhā ||

Sanskrit only: no published translation is held for this verse.

मयोभूर् वातो अभि वातूस्रा ऊर्जस्वतीर् ओषधीर् आ रिशन्ताम् । पीवस्वतीर् जीवधन्याः पिबन्त्व् अवसाय पद्वते रुद्र मृड । याः सरूपा विरूपा एकरूपा यासाम् अग्निर् इष्ट्या नामानि वेद । या अङ्गिरसस् तपसेह चक्रुस् ताभ्यः पर्जन्य महि शर्म यच्छ । या देवेषु तनुवम् ऐरयन्त यासाꣳ सोमो विश्वा रूपाणि वेद । ता अस्मभ्यम् पयसा पिन्वमानाः प्रजावतीर् इन्द्र गोष्ठे रिरीहि । प्रजापतिर् मह्यम् एता रराणो विश्वैर् देवैः पितृभिः संविदानः । शिवाः सतीर् उप नो गोष्ठम् आकस् तासां वयम् प्रजया सꣳ सदेम । इह धृतिः स्वाहा । इह विधृतिः स्वाहा । इह रन्तिः स्वाहा । इह रमतिः स्वाहा महीमू षु सुत्रामाणम् ॥

mayobhūr vāto abhi vātūsrā ūrjasvatīr oṣadhīr ā riśantām | pīvasvatīr jīvadhanyāḥ pibantv avasāya padvate rudra mṛḍa | yāḥ sarūpā virūpā ekarūpā yāsām agnir iṣṭyā nāmāni veda | yā aṅgirasas tapaseha cakrus tābhyaḥ parjanya mahi śarma yaccha | yā deveṣu tanuvam airayanta yāsām̐ somo viśvā rūpāṇi veda | tā asmabhyam payasā pinvamānāḥ prajāvatīr indra goṣṭhe rirīhi | prajāpatir mahyam etā rarāṇo viśvair devaiḥ pitṛbhiḥ saṃvidānaḥ | śivāḥ satīr upa no goṣṭham ākas tāsāṃ vayam prajayā sam̐ sadema | iha dhṛtiḥ svāhā | iha vidhṛtiḥ svāhā | iha rantiḥ svāhā | iha ramatiḥ svāhā mahīmū ṣu sutrāmāṇam ||

Sanskrit only: no published translation is held for this verse.

किꣳ स्विद् आसीत् पूर्वचित्तिः किꣳ स्विद् आसीद् बृहद् वयः । किꣳ स्विद् आसीत् पिशंगिला किꣳ स्विद् आसीत् पिलिप्पिला । द्यौर् आसीत् पूर्वचित्तिर् अश्व आसीद् बृहद् वयः । रात्रिर् आसीत् पिशंगिलाविर् आसीत् पिलिप्पिला । कः स्विद् एकाकी चरति क उ स्विज् जायते पुनः । किꣳ स्विद् धिमस्य भेषजं किꣳ स्विद् आवपनम् महत् । सूर्य एकाकी चरति चन्द्रमा जायते पुनः । अग्निर् हिमस्य भेषजम् भूमिर् आवपनम् महत् । पृच्छामि त्वा परम् अन्तम् पृथिव्याः पृच्छामि त्वा भुवनस्य नाभिम् । पृच्छामि त्वा वृष्णो अश्वस्य रेतः पृच्छामि वाचः परमं व्योम ॥ वेदिम् आहुः परम् अन्तम् पृथिव्या यज्ञम् आहुर् भुवनस्य नाभिम् । सोमम् आहुर् वृष्णो अश्वस्य रेतो ब्रह्मैव वाचः परमं व्योम ॥

kim̐ svid āsīt pūrvacittiḥ kim̐ svid āsīd bṛhad vayaḥ | kim̐ svid āsīt piśaṃgilā kim̐ svid āsīt pilippilā | dyaur āsīt pūrvacittir aśva āsīd bṛhad vayaḥ | rātrir āsīt piśaṃgilāvir āsīt pilippilā | kaḥ svid ekākī carati ka u svij jāyate punaḥ | kim̐ svid dhimasya bheṣajaṃ kim̐ svid āvapanam mahat | sūrya ekākī carati candramā jāyate punaḥ | agnir himasya bheṣajam bhūmir āvapanam mahat | pṛcchāmi tvā param antam pṛthivyāḥ pṛcchāmi tvā bhuvanasya nābhim | pṛcchāmi tvā vṛṣṇo aśvasya retaḥ pṛcchāmi vācaḥ paramaṃ vyoma || vedim āhuḥ param antam pṛthivyā yajñam āhur bhuvanasya nābhim | somam āhur vṛṣṇo aśvasya reto brahmaiva vācaḥ paramaṃ vyoma ||

Sanskrit only: no published translation is held for this verse.

अम्बे अम्बाल्य् अम्बिके न मा नयति कश् चन । ससस्त्य् अश्वकः । सुभगे काम्पीलवासिनि सुवर्गे लोके सम् प्रोर्ण्वाथाम् । आहम् अजानि गर्भधम् आ त्वम् अजासि गर्भधम् । तौ सह चतुरः पदः सम् प्र सारयावहै । वृषा वाꣳ रेतोधा रेतो दधातु । उत् सक्थ्योर् गृदं धेह्य् अञ्जिम् उदञ्जिम्म् अन्व् अज । य स्त्रीणां जीवभोजनो य आसाम् बिलधावनः । प्रिय स्त्रीणाम् अपीच्यः । य आसां कृष्णे लक्ष्मणि सर्दिगृदिम् परावधीत् । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । ऊर्ध्वाम् एनाम् उच् छ्रयताद् वेणुभारं गिराव् इव । अथास्या मध्यम् एधताꣳ शीते वाते पुनन्न् इव । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । यद् धरिणी यवम् अत्ति न पुष्टम् पशु मन्यते । शूद्रा यद् अर्यजारा न पोषाय धनायति । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । इयं यका शकुन्तिकाऽऽहलम् इति सर्पति । आहतं गभे पसो नि जल्गुलीति धाणिका । अम्बे अम्बाल्य् अम्बिके न मा यभति कश् चन । ससस्त्य् अश्वकः । माता च ते पिता च ते ऽग्रं वृक्षस्य रोहतः । प्र सुलामीति ते पिता गभे मुष्टिम् अतꣳसयत् । दधिक्राव्णो अकारिषं जिष्णोर् अश्वस्य वाजिनः । सुरभि नो मुखा करत् प्र ण आयूꣳषि तारिषत् । आपो हि ष्ठा मयोभुवस् ता न ऊर्जे दधातन । महे रणाय चक्षसे ॥ यो वः शिवतमो रसस् तस्य भाजयतेह नः । उशतीर् इव मातरः ॥ तस्मा अरं गमाम वो यस्य क्षयाय जिन्वथ । आपो जनयथा च नः ॥

ambe ambāly ambike na mā nayati kaś cana | sasasty aśvakaḥ | subhage kāmpīlavāsini suvarge loke sam prorṇvāthām | āham ajāni garbhadham ā tvam ajāsi garbhadham | tau saha caturaḥ padaḥ sam pra sārayāvahai | vṛṣā vām̐ retodhā reto dadhātu | ut sakthyor gṛdaṃ dhehy añjim udañjimm anv aja | ya strīṇāṃ jīvabhojano ya āsām biladhāvanaḥ | priya strīṇām apīcyaḥ | ya āsāṃ kṛṣṇe lakṣmaṇi sardigṛdim parāvadhīt | ambe ambāly ambike na mā yabhati kaś cana | sasasty aśvakaḥ | ūrdhvām enām uc chrayatād veṇubhāraṃ girāv iva | athāsyā madhyam edhatām̐ śīte vāte punann iva | ambe ambāly ambike na mā yabhati kaś cana | sasasty aśvakaḥ | yad dhariṇī yavam atti na puṣṭam paśu manyate | śūdrā yad aryajārā na poṣāya dhanāyati | ambe ambāly ambike na mā yabhati kaś cana | sasasty aśvakaḥ | iyaṃ yakā śakuntikā''halam iti sarpati | āhataṃ gabhe paso ni jalgulīti dhāṇikā | ambe ambāly ambike na mā yabhati kaś cana | sasasty aśvakaḥ | mātā ca te pitā ca te 'graṃ vṛkṣasya rohataḥ | pra sulāmīti te pitā gabhe muṣṭim atam̐sayat | dadhikrāvṇo akāriṣaṃ jiṣṇor aśvasya vājinaḥ | surabhi no mukhā karat pra ṇa āyūm̐ṣi tāriṣat | āpo hi ṣṭhā mayobhuvas tā na ūrje dadhātana | mahe raṇāya cakṣase || yo vaḥ śivatamo rasas tasya bhājayateha naḥ | uśatīr iva mātaraḥ || tasmā araṃ gamāma vo yasya kṣayāya jinvatha | āpo janayathā ca naḥ ||

Sanskrit only: no published translation is held for this verse.

भूर् भुवः सुवर् वसवस् त्वाञ्जन्तु गायत्रेण छन्दसा रुद्रास् त्वाञ्जन्तु त्रैष्टुभेन छन्दसादित्यास् त्वाञ्जन्तु जागतेन छन्दसा यद् वातो अपो अगमद् इन्द्रस्य तनुवम् प्रियाम् । एतꣳ स्तोतर् एतेन पथा पुनर् अश्वम् आ वर्तयासि नः । लाजी3ञ् छाची3न् यशो ममा3म् । यव्यायै गव्याया एतद् देवा अन्नम् अत्तैतद् अन्नम् अद्धि प्रजापते युञ्जन्ति ब्रध्नम् अरुषं चरन्तम् परि तस्थुषः । रोचन्ते रोचना दिवि । युञ्जन्त्य् अस्य काम्या हरी विपक्षसा रथे । शोणा धृष्णू नृवाहसा । केतुं कृण्वन्न् अकेतवे पेशो मर्या अपेशसे । सम् उषद्भिर् अजायथाः ।

bhūr bhuvaḥ suvar vasavas tvāñjantu gāyatreṇa chandasā rudrās tvāñjantu traiṣṭubhena chandasādityās tvāñjantu jāgatena chandasā yad vāto apo agamad indrasya tanuvam priyām | etam̐ stotar etena pathā punar aśvam ā vartayāsi naḥ | lājī3ñ chācī3n yaśo mamā3m | yavyāyai gavyāyā etad devā annam attaitad annam addhi prajāpate yuñjanti bradhnam aruṣaṃ carantam pari tasthuṣaḥ | rocante rocanā divi | yuñjanty asya kāmyā harī vipakṣasā rathe | śoṇā dhṛṣṇū nṛvāhasā | ketuṃ kṛṇvann aketave peśo maryā apeśase | sam uṣadbhir ajāyathāḥ |

Sanskrit only: no published translation is held for this verse.

प्राणाय स्वाहा व्यानाय स्वाहा । अपानाय स्वाहा स्नावभ्यः स्वाहा संतानेभ्यः स्वाहा परिसंतानेभ्यः स्वाहा पर्वभ्यः स्वाहा संधानेभ्यः स्वाहा शरीरेभ्यः स्वाहा यज्ञाय स्वाहा दक्षिणाभ्यः स्वाहा सुवर्गाय स्वाहा लोकाय स्वाहा सर्वस्मै स्वाहा ॥

prāṇāya svāhā vyānāya svāhā | apānāya svāhā snāvabhyaḥ svāhā saṃtānebhyaḥ svāhā parisaṃtānebhyaḥ svāhā parvabhyaḥ svāhā saṃdhānebhyaḥ svāhā śarīrebhyaḥ svāhā yajñāya svāhā dakṣiṇābhyaḥ svāhā suvargāya svāhā lokāya svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

सिताय स्वाहा । असिताय स्वाहा । अभिहिताय स्वाहा । अनभिहिताय स्वाहा युक्ताय स्वाहा । अयुक्ताय स्वाहा सुयुक्ताय स्वाहा । उद्युक्ताय स्वाहा विमुक्ताय स्वाहा प्रमुक्ताय स्वाहा वञ्चते स्वाहा परिवञ्चते स्वाहा संवञ्चते स्वाहा । अनुवञ्चते स्वाहा । उद्वञ्चते स्वाहा । यते स्वाहा धावते स्वाहा तिष्ठते स्वाहा सर्वस्मै स्वाहा ॥

sitāya svāhā | asitāya svāhā | abhihitāya svāhā | anabhihitāya svāhā yuktāya svāhā | ayuktāya svāhā suyuktāya svāhā | udyuktāya svāhā vimuktāya svāhā pramuktāya svāhā vañcate svāhā parivañcate svāhā saṃvañcate svāhā | anuvañcate svāhā | udvañcate svāhā | yate svāhā dhāvate svāhā tiṣṭhate svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः शृङ्गाणि नो जायन्ता इति कामेन तासां दश मासा निषण्णा आसन्न् अथ शृङ्गाण्य् अजायन्त ता उद् अतिष्ठन् । अरात्स्मेति । अथ यासां नाजायन्त ताः संवत्सरम् आप्त्वोद् अतिष्ठन् । अरात्स्मेति यासां चाजायन्त यासां च न ता उभयीर् उद् अतिष्ठन् । अरात्स्मेति गोसत्त्रं वै संवत्सरः । य एवं विद्वाꣳसः संवत्सरम् उपयन्त्य् ऋध्नुवन्त्य् एव तस्मात् तूपरा वार्षिकौ मासौ पर्त्वा चरति सत्त्राभिजितꣳ ह्य् अस्यै तस्मात् संवत्सरसदो यत् किं च गृहे क्रियते तद् आप्तम् अवरुद्धम् अभिजितं क्रियते समुद्रं वा एते प्र प्लवन्ते ये संवत्सरम् उपयन्ति यो वै समुद्रस्य पारं न पश्यति न वै स तत उदेति संवत्सरः वै समुद्रस् तस्यैतत् पारं यद् अतिरात्रौ य एवं विद्वाꣳसः संवत्सरम् उपयन्त्य् अनार्ता एवोदृचम् गच्छन्ति । इयं वै पूर्वो ऽतिरात्रो ऽसाव् उत्तरः । मनः पूर्वो वाग् उत्तरः प्राणः पूर्वो ऽपान उत्तरः प्ररोधनम् पूर्व उदयनम् उत्तरः । ज्योतिष्टोमो वैश्वानरो ऽतिरात्रो भवति ज्योतिर् एव पुरस्ताद् दधते सुवर्गस्य लोकस्यानुख्यात्यै चतुर्विꣳशः प्रायणीयो भवति चतुर्विꣳशतिर् अर्धमासाः संवत्सरः प्रयन्त एव संवत्सरे प्रति तिष्ठन्ति तस्य त्रीणि च शतानि षष्टिश् च स्तोत्रीयस् तावतीः संवत्सरस्य रात्रयः । उभे एव संवत्सरस्य रूपे आप्नुवन्ति ते सꣳस्थित्या अरिष्ट्या उत्तरैर् अहोभिश् चरन्ति षडहा भवन्ति षड् वा ऋतवः संवत्सरः । ऋतुष्व् एव संवत्सरे प्रति तिष्ठन्ति गौश् चायुश् च मध्यत स्तोमौ भवतः संवत्सरस्यैव तन् मिथुनम् मध्यतः दधति प्रजननाय ज्योतिर् अभितो भवति विमोचनम् एव तत् । छन्दाꣳस्य् एव तद् विमोकं यन्ति । अथो उभयतोज्योतिषैव षडहेन सुवर्गं लोकं यन्ति ब्रह्मवदिनो वदन्ति । आसते केन यन्तीति देवयानेन पथेति ब्रूयात् । छन्दाꣳसि वै देवयानः पन्था गायत्री त्रिष्टुब् जगती ज्योतिर् वै गायत्री गौस् त्रिष्टुग् आयुर् जगती यद् एते स्तोमा भवन्ति देवयानेनैव तत् पथा यन्ति समानꣳ साम भवति देवलोको वै साम देवलोकाद् एव न यन्ति । अन्याअन्या ऋचो भवन्ति मनुष्यलोको वा ऋचः । मनुष्यलोकाद् एवान्यमन्यं देवलोकम् अभ्यारोहन्तो यन्ति । अभिवर्तो ब्रह्मसामम् भवति सुवर्गस्य लोकस्याभिवृत्त्यै । अभिजिद् भवति सुवर्गस्य लोकस्याभिजित्यै विश्वजिद् भवति विश्वस्य जित्यै मासिमासि पृष्ठान्य् उप यन्ति मासिमास्य् अतिग्राह्या गृह्यन्ते मासिमास्य् एव वीर्यं दधति मासाम् प्रतिष्ठित्यै । उपरिष्टान् मासाम् पृष्ठान्य् उप यन्ति तस्माद् उपरिष्टाद् ओषधयः फलं गृह्णन्ति ॥

gāvo vā etat sattram āsatāśṛṅgāḥ satīḥ śṛṅgāṇi no jāyantā iti kāmena tāsāṃ daśa māsā niṣaṇṇā āsann atha śṛṅgāṇy ajāyanta tā ud atiṣṭhan | arātsmeti | atha yāsāṃ nājāyanta tāḥ saṃvatsaram āptvod atiṣṭhan | arātsmeti yāsāṃ cājāyanta yāsāṃ ca na tā ubhayīr ud atiṣṭhan | arātsmeti gosattraṃ vai saṃvatsaraḥ | ya evaṃ vidvām̐saḥ saṃvatsaram upayanty ṛdhnuvanty eva tasmāt tūparā vārṣikau māsau partvā carati sattrābhijitam̐ hy asyai tasmāt saṃvatsarasado yat kiṃ ca gṛhe kriyate tad āptam avaruddham abhijitaṃ kriyate samudraṃ vā ete pra plavante ye saṃvatsaram upayanti yo vai samudrasya pāraṃ na paśyati na vai sa tata udeti saṃvatsaraḥ vai samudras tasyaitat pāraṃ yad atirātrau ya evaṃ vidvām̐saḥ saṃvatsaram upayanty anārtā evodṛcam gacchanti | iyaṃ vai pūrvo 'tirātro 'sāv uttaraḥ | manaḥ pūrvo vāg uttaraḥ prāṇaḥ pūrvo 'pāna uttaraḥ prarodhanam pūrva udayanam uttaraḥ | jyotiṣṭomo vaiśvānaro 'tirātro bhavati jyotir eva purastād dadhate suvargasya lokasyānukhyātyai caturvim̐śaḥ prāyaṇīyo bhavati caturvim̐śatir ardhamāsāḥ saṃvatsaraḥ prayanta eva saṃvatsare prati tiṣṭhanti tasya trīṇi ca śatāni ṣaṣṭiś ca stotrīyas tāvatīḥ saṃvatsarasya rātrayaḥ | ubhe eva saṃvatsarasya rūpe āpnuvanti te sam̐sthityā ariṣṭyā uttarair ahobhiś caranti ṣaḍahā bhavanti ṣaḍ vā ṛtavaḥ saṃvatsaraḥ | ṛtuṣv eva saṃvatsare prati tiṣṭhanti gauś cāyuś ca madhyata stomau bhavataḥ saṃvatsarasyaiva tan mithunam madhyataḥ dadhati prajananāya jyotir abhito bhavati vimocanam eva tat | chandām̐sy eva tad vimokaṃ yanti | atho ubhayatojyotiṣaiva ṣaḍahena suvargaṃ lokaṃ yanti brahmavadino vadanti | āsate kena yantīti devayānena patheti brūyāt | chandām̐si vai devayānaḥ panthā gāyatrī triṣṭub jagatī jyotir vai gāyatrī gaus triṣṭug āyur jagatī yad ete stomā bhavanti devayānenaiva tat pathā yanti samānam̐ sāma bhavati devaloko vai sāma devalokād eva na yanti | anyāanyā ṛco bhavanti manuṣyaloko vā ṛcaḥ | manuṣyalokād evānyamanyaṃ devalokam abhyārohanto yanti | abhivarto brahmasāmam bhavati suvargasya lokasyābhivṛttyai | abhijid bhavati suvargasya lokasyābhijityai viśvajid bhavati viśvasya jityai māsimāsi pṛṣṭhāny upa yanti māsimāsy atigrāhyā gṛhyante māsimāsy eva vīryaṃ dadhati māsām pratiṣṭhityai | upariṣṭān māsām pṛṣṭhāny upa yanti tasmād upariṣṭād oṣadhayaḥ phalaṃ gṛhṇanti ||

Sanskrit only: no published translation is held for this verse.

गावो वा एतत् सत्त्रम् आसताशृङ्गाः सतीः शृङ्गाणि सिषासन्तीस् तासां दश मासा निषण्णा आसन् । अथ शृङ्गाण्य् अजायन्त ता अब्रुवन् । अरात्स्मोत् तिष्ठामाव तं कामम् अरुत्स्महि येन कामेन न्यषदामेति तासाम् उ त्वा अब्रुवन्न् अर्धा वा यावतीर् वा । आसमहा एवेमौ द्वादशौ मासौ संवत्सरꣳ सम्पाद्योत् तिष्ठामेति तासाम् द्वादशे मासि शृङ्गाणि प्रावर्तन्त श्रद्धया वाऽश्रद्धया वा ता इमा यास् तूपराः । उभय्यो वाव ता आर्ध्नुवन् याश् च शृङ्गाण्य् असन्वन् याश् चोर्जम् अवारुन्धत । ऋध्नोति दशसु मासूत्तिष्ठन्न् ऋध्नोति द्वादशसु य एवं वेद पदेन खलु वा एते यन्ति विन्दति खलु वै पदेन यन् तद् वा एतद् ऋद्धम् अयनम् । तस्माद् एतद् गोसनि ॥

gāvo vā etat sattram āsatāśṛṅgāḥ satīḥ śṛṅgāṇi siṣāsantīs tāsāṃ daśa māsā niṣaṇṇā āsan | atha śṛṅgāṇy ajāyanta tā abruvan | arātsmot tiṣṭhāmāva taṃ kāmam arutsmahi yena kāmena nyaṣadāmeti tāsām u tvā abruvann ardhā vā yāvatīr vā | āsamahā evemau dvādaśau māsau saṃvatsaram̐ sampādyot tiṣṭhāmeti tāsām dvādaśe māsi śṛṅgāṇi prāvartanta śraddhayā vā'śraddhayā vā tā imā yās tūparāḥ | ubhayyo vāva tā ārdhnuvan yāś ca śṛṅgāṇy asanvan yāś corjam avārundhata | ṛdhnoti daśasu māsūttiṣṭhann ṛdhnoti dvādaśasu ya evaṃ veda padena khalu vā ete yanti vindati khalu vai padena yan tad vā etad ṛddham ayanam | tasmād etad gosani ||

Sanskrit only: no published translation is held for this verse.

प्रथमे मासि पृष्ठान्य् उप यन्ति मध्यम उप यन्त्य् उत्तम उप यन्ति तद् आहुः । यां वै त्रिर् एकस्याह्न उपसीदन्ति दह्रं वै साऽपराभ्यां दोहाभ्यां दुहे ऽथ कुतः सा धोक्ष्यते यां द्वादश कृत्व उपसीदन्तीति संवत्सरꣳ सम्पाद्योत्तमे मासि सकृत् पृष्ठान्य् उपेयुस् तद् यजमाना यज्ञम् पशून् अव रुन्धते समुद्रं वै एते ऽनवारम् अपारम् प्र प्लवन्ते ये संवत्सरम् उपयन्ति यद् बृहद्रथंतरे अन्वर्जेयुर् यथा मध्ये समुद्रस्य प्लवम् अन्वर्जेयुस् तादृक् तत् । अनुत्सर्गम् बृहद्रथंतराभ्याम् इत्वा प्रतिष्ठां गच्छन्ति सर्वेभ्यो वै कामेभ्यः संधिर् दुहे तद् यजमानाः सर्वान् कामान् अव रुन्धते ॥

prathame māsi pṛṣṭhāny upa yanti madhyama upa yanty uttama upa yanti tad āhuḥ | yāṃ vai trir ekasyāhna upasīdanti dahraṃ vai sā'parābhyāṃ dohābhyāṃ duhe 'tha kutaḥ sā dhokṣyate yāṃ dvādaśa kṛtva upasīdantīti saṃvatsaram̐ sampādyottame māsi sakṛt pṛṣṭhāny upeyus tad yajamānā yajñam paśūn ava rundhate samudraṃ vai ete 'navāram apāram pra plavante ye saṃvatsaram upayanti yad bṛhadrathaṃtare anvarjeyur yathā madhye samudrasya plavam anvarjeyus tādṛk tat | anutsargam bṛhadrathaṃtarābhyām itvā pratiṣṭhāṃ gacchanti sarvebhyo vai kāmebhyaḥ saṃdhir duhe tad yajamānāḥ sarvān kāmān ava rundhate ||

Sanskrit only: no published translation is held for this verse.

समान्य ऋचो भवन्ति मनुष्यलोको वा ऋचः । मनुष्यलोकाद् एव न यन्ति । अन्यदन्यत् साम भवति देवलोको वै साम देवलोकाद् एवान्यमन्यम् मनुष्यलोकम् प्रत्यवरोहन्तो यन्ति जगतीम् अग्रे उप यन्ति जगतीं वै छन्दाꣳसि प्रत्यवरोहन्त्य् आग्रयणं ग्रहा बृहत् पृष्ठानि त्रयस्त्रिꣳशꣳ स्तोमास् तस्माज् ज्यायाꣳसं कनीयान् प्रत्यवरोहति वैश्वकर्मणो गृह्यते विश्वान्य् एव तेन कर्माणि यजमाना अव रुन्धते । आदित्यः गृह्यते । इयं वा अदितिः । अस्याम् एव प्रति तिष्ठन्ति । अन्योऽन्यो गृह्येते मिथुनत्वाय प्रजात्यै । अवान्तरं वै दशरात्रेण प्रजापतिः प्रजा असृजत यद् दशरात्रो भवति प्रजा एव तद् यजमानाः सृजन्ते । एताꣳ ह वा उदङ्कः शौल्बायनः सत्त्रस्यर्द्धिम् उवाच यद् दशरात्रः । यद् दशरात्रो भवति सत्त्रस्यर्द्ध्यै । अथो यद् एव पूर्वेष्व् अहःसु विलोम क्रियते तस्यैवैषा शान्तिः ॥

samānya ṛco bhavanti manuṣyaloko vā ṛcaḥ | manuṣyalokād eva na yanti | anyadanyat sāma bhavati devaloko vai sāma devalokād evānyamanyam manuṣyalokam pratyavarohanto yanti jagatīm agre upa yanti jagatīṃ vai chandām̐si pratyavarohanty āgrayaṇaṃ grahā bṛhat pṛṣṭhāni trayastrim̐śam̐ stomās tasmāj jyāyām̐saṃ kanīyān pratyavarohati vaiśvakarmaṇo gṛhyate viśvāny eva tena karmāṇi yajamānā ava rundhate | ādityaḥ gṛhyate | iyaṃ vā aditiḥ | asyām eva prati tiṣṭhanti | anyo'nyo gṛhyete mithunatvāya prajātyai | avāntaraṃ vai daśarātreṇa prajāpatiḥ prajā asṛjata yad daśarātro bhavati prajā eva tad yajamānāḥ sṛjante | etām̐ ha vā udaṅkaḥ śaulbāyanaḥ sattrasyarddhim uvāca yad daśarātraḥ | yad daśarātro bhavati sattrasyarddhyai | atho yad eva pūrveṣv ahaḥsu viloma kriyate tasyaivaiṣā śāntiḥ ||

Sanskrit only: no published translation is held for this verse.

यदि सोमौ सꣳसुतौ स्याताम् महति रात्रियै प्रातरनुवाकम् उपाकुर्यात् पूर्वो वाचम् पूर्वो देवताः पूर्वश् छन्दाꣳसि वृङ्क्ते वृषण्वतीम् प्रतिपदं कुर्यात् प्रातःसवनाद् एवैषाम् इन्द्रं वृङ्क्ते । अथो खल्व् आहुः सवनमुखेसवनमुखे कार्येति सवनमुखात्सवनमुखाद् एवैषाम् इन्द्रं वृङ्क्ते संवेशायोपवेशाय गायत्रियास् त्रिष्टुभो जगत्या अनुष्टुभः पङ्क्त्या अभिभूत्यै स्वाहा छन्दाꣳसि वै संवेश उपवेशः । छन्दोभिर् एवैषां छन्दाꣳसि वृङ्क्ते सजनीयꣳ शस्यम् । विहव्यꣳ शस्यम् अगस्त्यस्य कयाशुभीयꣳ शस्यम् एतावद् वा अस्ति यावद् एतत् । यावद् एवास्ति तद् एषां वृङ्क्ते यदि प्रातःसवने कलशो दीर्येत वैष्णवीषु शिपिविष्टवतीषु स्तुवीरन् यद् वै यज्ञस्यातिरिच्यते विष्णुं तच् छिपिविष्टम् अभ्य् अति रिच्यते तद् विष्णुः शिपिविष्टो ऽतिरिक्त एवातिरिक्तं दधाति । अथो अतिरिक्तेनैवातिरिक्तम् आप्त्वाव रुन्धते यदि मध्यंदिने दीर्येत वषट्कारनिधनꣳ साम कुर्युः । वषट्कारो वै यज्ञस्य प्रतिष्ठा प्रतिष्ठाम् एवैनद् गमयन्ति यदि तृतीयसवन एतद् एव ॥

yadi somau sam̐sutau syātām mahati rātriyai prātaranuvākam upākuryāt pūrvo vācam pūrvo devatāḥ pūrvaś chandām̐si vṛṅkte vṛṣaṇvatīm pratipadaṃ kuryāt prātaḥsavanād evaiṣām indraṃ vṛṅkte | atho khalv āhuḥ savanamukhesavanamukhe kāryeti savanamukhātsavanamukhād evaiṣām indraṃ vṛṅkte saṃveśāyopaveśāya gāyatriyās triṣṭubho jagatyā anuṣṭubhaḥ paṅktyā abhibhūtyai svāhā chandām̐si vai saṃveśa upaveśaḥ | chandobhir evaiṣāṃ chandām̐si vṛṅkte sajanīyam̐ śasyam | vihavyam̐ śasyam agastyasya kayāśubhīyam̐ śasyam etāvad vā asti yāvad etat | yāvad evāsti tad eṣāṃ vṛṅkte yadi prātaḥsavane kalaśo dīryeta vaiṣṇavīṣu śipiviṣṭavatīṣu stuvīran yad vai yajñasyātiricyate viṣṇuṃ tac chipiviṣṭam abhy ati ricyate tad viṣṇuḥ śipiviṣṭo 'tirikta evātiriktaṃ dadhāti | atho atiriktenaivātiriktam āptvāva rundhate yadi madhyaṃdine dīryeta vaṣaṭkāranidhanam̐ sāma kuryuḥ | vaṣaṭkāro vai yajñasya pratiṣṭhā pratiṣṭhām evainad gamayanti yadi tṛtīyasavana etad eva ||

Sanskrit only: no published translation is held for this verse.

षडहैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति षडहैर् हि मासान्त् सम्पश्यन्ति । अर्धमासैर् मासान्त् सम्पाद्याहर् उत् सृजन्ति । अर्धमासैर् हि मासान्त् सम्पश्यन्ति । अमावास्यया मासान्त् सम्पाद्याहर् उत् सृजन्ति । अमावास्यया हि मासान्त् सम्पश्यन्ति पौर्णमास्या मासान्त् सम्पाद्याहर् उत् सृजन्ति पौर्णमास्या हि मासान्त् सम्पश्यन्ति यो वै पूर्ण आसिञ्चति परा स सिञ्चति यः पूर्णाद् उदचति प्राणम् अस्मिन्त् स दधाति यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तत् प्राणं दधति तद् अनु सत्त्रिणः प्राणन्ति यद् अहर् नोत्सृजेयुर् यथा दृतिर् उपनद्धो विपतत्य् एवꣳ संवत्सरो वि पतेत् । आर्तिम् आर्छेयुः । यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति संवत्सरायैव तद् उदानं दधति तद् अनु सत्त्रिण उत् अनन्ति नार्तिम् आर्छन्ति पूर्णमासे वै देवानाꣳ सुतः । यत् पौर्णमास्या मासान्त् सम्पाद्याहर् उत्सृजन्ति देवानाम् एव तद् यज्ञेन यज्ञम् प्रत्यवरोहन्ति वि वा एतद् यज्ञं छिन्दन्ति यत् षडहसंततꣳ सन्तम् अथाहर् उत्सृजन्ति प्राजापत्यम् पशुम् आलभन्ते प्रजापतिः सर्वा देवताः । देवताभिर् एव यज्ञꣳ सं तन्वन्ति यन्ति वा एते सवनाद् ये ऽहः उत्सृजन्ति तुरीयं खलु वा एतत् सवनं यत् सांनाय्यम् । यत् सांनाय्यम् भवति तेनैव सवनान् न यन्ति समुपहूय भक्षयन्ति । एतत्सोमपीथा ह्य् एतर्हि यथायतनं वा एतेषाꣳ सवनभाजो देवता गच्छन्ति ये ऽहर् उत्सृजन्ति । अनुसवनम् पुरोडाशान् निर् वपन्ति यथायतनाद् एव सवनभाजो देवता अव रुन्धते । ऽष्टाकपालान् प्रातःसवन एकादशकपालान् माध्यंदिने सवने द्वादशकपालाꣳस् तृतीयसवने छन्दाꣳस्य् एवाप्त्वाव रुन्धते वैश्वदेवं चरुं तृतीयसवने निर् वपन्ति वैश्वदेवं वै तृतीयसवनम् । तेनैव तृतीयसवनान् न यन्ति ॥

ṣaḍahair māsānt sampādyāhar ut sṛjanti ṣaḍahair hi māsānt sampaśyanti | ardhamāsair māsānt sampādyāhar ut sṛjanti | ardhamāsair hi māsānt sampaśyanti | amāvāsyayā māsānt sampādyāhar ut sṛjanti | amāvāsyayā hi māsānt sampaśyanti paurṇamāsyā māsānt sampādyāhar ut sṛjanti paurṇamāsyā hi māsānt sampaśyanti yo vai pūrṇa āsiñcati parā sa siñcati yaḥ pūrṇād udacati prāṇam asmint sa dadhāti yat paurṇamāsyā māsānt sampādyāhar utsṛjanti saṃvatsarāyaiva tat prāṇaṃ dadhati tad anu sattriṇaḥ prāṇanti yad ahar notsṛjeyur yathā dṛtir upanaddho vipataty evam̐ saṃvatsaro vi patet | ārtim ārcheyuḥ | yat paurṇamāsyā māsānt sampādyāhar utsṛjanti saṃvatsarāyaiva tad udānaṃ dadhati tad anu sattriṇa ut ananti nārtim ārchanti pūrṇamāse vai devānām̐ sutaḥ | yat paurṇamāsyā māsānt sampādyāhar utsṛjanti devānām eva tad yajñena yajñam pratyavarohanti vi vā etad yajñaṃ chindanti yat ṣaḍahasaṃtatam̐ santam athāhar utsṛjanti prājāpatyam paśum ālabhante prajāpatiḥ sarvā devatāḥ | devatābhir eva yajñam̐ saṃ tanvanti yanti vā ete savanād ye 'haḥ utsṛjanti turīyaṃ khalu vā etat savanaṃ yat sāṃnāyyam | yat sāṃnāyyam bhavati tenaiva savanān na yanti samupahūya bhakṣayanti | etatsomapīthā hy etarhi yathāyatanaṃ vā eteṣām̐ savanabhājo devatā gacchanti ye 'har utsṛjanti | anusavanam puroḍāśān nir vapanti yathāyatanād eva savanabhājo devatā ava rundhate | 'ṣṭākapālān prātaḥsavana ekādaśakapālān mādhyaṃdine savane dvādaśakapālām̐s tṛtīyasavane chandām̐sy evāptvāva rundhate vaiśvadevaṃ caruṃ tṛtīyasavane nir vapanti vaiśvadevaṃ vai tṛtīyasavanam | tenaiva tṛtīyasavanān na yanti ||

Sanskrit only: no published translation is held for this verse.

उत्सृज्या3ं नोत्सृज्या3म् इति मीमाꣳसन्ते ब्रह्मवादिनस् तद् व् आहुः । उत्सृज्यम् एवेति । अमावास्यायां च पौर्णमास्यां चोत्सृज्यम् इत्य् आहुः । एते हि यज्ञं वहत इति ते त्वाव नोत्सृज्ये इत्य् आहुर् ये अवान्तरं यज्ञम् भेजाते इति या प्रथमा व्यष्टका तस्याम् उत्सृज्यम् इत्य् आहुः । एष वै मासो विशर इति नाऽऽदिष्टम् ॥ उत् सृजेयुः । यद् आदिष्टम् उत्सृजेयुर् यादृशे पुनः पर्याप्लावे मध्ये षडहस्य सम्पद्येत षडहैर् मासान्त् सम्पाद्य यत् सप्तमम् अहस् तस्मिन्न् उत् सृज्येयुस् तद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर् वपेयुर् ऐन्द्रं दधीन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं वैश्वदेवं द्वादशकपालम् अग्नेर् वै वसुमतः प्रातःसवनम् । यद् अग्नये वसुमते पुरोडाशम् अष्टाकपालं निर्वपति देवताम् एव तद् भागिनीं कुर्वन्ति । सवनम् अष्टाभिर् उप यन्ति यद् ऐन्द्रं दधि भवतीन्द्रम् एव तद् भागधेयान् न च्यावयन्ति । इन्द्रस्य वै मरुत्वतो माध्यंदिनꣳ सवनम् । यद् इन्द्राय मरुत्वते पुरोडाशम् एकादशकपालं निर्वपन्ति देवताम् एव तद् भागिनीं कुर्वन्ति सवनम् एकादशभिर् उप यन्ति विश्वेषां वै देवानाम् ऋभुमतां तृतीयसवनम् । यद् वैश्वदेवं द्वादशकपालं निर्वपन्ति देवता एव तद् भागिनीः कुर्वन्ति सवनं द्वादशभिः उप यन्ति प्राजापत्यम् पशुम् आ लभन्ते यज्ञो वै प्रजापतिर् यज्ञस्याननुसर्गाय । अभिवर्त इतः षण् मासो ब्रह्मसामम् भवति ब्रह्म वा अभिवर्तः । ब्रह्मणैव तत् सुवर्गं लोकम् अभिवर्तयन्तो यन्ति प्रतिकूलम् इव हीतः सुवर्गो लोकः । इन्द्र क्रतुं न आ भर पिता पुत्रेभ्यो यथा । शिक्षा नो अस्मिन् पुरुहूत यामनि जीवा ज्योतिर् अशीमहीत्य् अमुत आयताꣳ षण् मासो ब्रह्मसामम् भवति । अयं वै लोको ज्योतिः प्रजा ज्योतिः । इमम् एव तल् लोकम् पश्यन्तो ऽभिवदन्त आ यन्ति ॥

utsṛjyā3ṃ notsṛjyā3m iti mīmām̐sante brahmavādinas tad v āhuḥ | utsṛjyam eveti | amāvāsyāyāṃ ca paurṇamāsyāṃ cotsṛjyam ity āhuḥ | ete hi yajñaṃ vahata iti te tvāva notsṛjye ity āhur ye avāntaraṃ yajñam bhejāte iti yā prathamā vyaṣṭakā tasyām utsṛjyam ity āhuḥ | eṣa vai māso viśara iti nā''diṣṭam || ut sṛjeyuḥ | yad ādiṣṭam utsṛjeyur yādṛśe punaḥ paryāplāve madhye ṣaḍahasya sampadyeta ṣaḍahair māsānt sampādya yat saptamam ahas tasminn ut sṛjyeyus tad agnaye vasumate puroḍāśam aṣṭākapālaṃ nir vapeyur aindraṃ dadhīndrāya marutvate puroḍāśam ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam agner vai vasumataḥ prātaḥsavanam | yad agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapati devatām eva tad bhāginīṃ kurvanti | savanam aṣṭābhir upa yanti yad aindraṃ dadhi bhavatīndram eva tad bhāgadheyān na cyāvayanti | indrasya vai marutvato mādhyaṃdinam̐ savanam | yad indrāya marutvate puroḍāśam ekādaśakapālaṃ nirvapanti devatām eva tad bhāginīṃ kurvanti savanam ekādaśabhir upa yanti viśveṣāṃ vai devānām ṛbhumatāṃ tṛtīyasavanam | yad vaiśvadevaṃ dvādaśakapālaṃ nirvapanti devatā eva tad bhāginīḥ kurvanti savanaṃ dvādaśabhiḥ upa yanti prājāpatyam paśum ā labhante yajño vai prajāpatir yajñasyānanusargāya | abhivarta itaḥ ṣaṇ māso brahmasāmam bhavati brahma vā abhivartaḥ | brahmaṇaiva tat suvargaṃ lokam abhivartayanto yanti pratikūlam iva hītaḥ suvargo lokaḥ | indra kratuṃ na ā bhara pitā putrebhyo yathā | śikṣā no asmin puruhūta yāmani jīvā jyotir aśīmahīty amuta āyatām̐ ṣaṇ māso brahmasāmam bhavati | ayaṃ vai loko jyotiḥ prajā jyotiḥ | imam eva tal lokam paśyanto 'bhivadanta ā yanti ||

Sanskrit only: no published translation is held for this verse.

देवानां वा अन्तं जग्मुषाम् इन्द्रियं वीर्यम् अपाक्रामत् तत् क्रोशेनावारुन्धत तत् क्रोशस्य क्रोशत्वम् । यत् क्रोशेन चात्वालस्यान्ते स्तुवन्ति यज्ञस्यैवान्तं गत्वेन्द्रियं वीर्यम् अव रुन्धते सत्त्रस्यर्द्ध्याऽऽहवनीयस्यान्ते स्तुवन्ति । अग्निम् एवोपद्रष्टारं कृत्वर्द्धिम् उप यन्ति प्रजापतेर्हृदयेन हविर्धाने ऽन्तः स्तुवन्ति प्रेमाणम् एवास्य गच्छन्ति श्लोकेन पुरस्तात् सदसः स्तुवन्त्य् अनुश्लोकेन पश्चात् । यज्ञस्यैवान्तं गत्वा श्लोकभाजो भवन्ति नवभिर् अध्वर्युर् उद् गायति नव वै पुरुषे प्राणाः प्राणान् एव यजमानेषु दधाति सर्वा ऐन्द्रियो भवन्ति प्राणेष्व् एवेन्द्रियं दधति । अप्रतिहृताभिर् उद् गायति तस्मात् पुरुषः सर्वाण्य् अन्यानि शीर्ष्णो ऽङ्गानि प्रत्य् अचति शिर एव न पञ्चदशꣳ रथंतरम् भवतीन्द्रियम् एवाव रुन्धते सप्तदशम् बृहद् अन्नाद्यस्यावरुद्ध्यै । अथो प्रैव तेन जायन्ते । एकविꣳशम् भद्रं द्विपदासु प्रतिष्ठित्यै पत्नय उप गायन्ति मिथुनत्वाय प्रजात्यै प्रजापतिः प्रजा असृजत सो ऽकामयत । आसाम् अहꣳ राज्यम् परीयाम् इति तासाꣳ राजनेनैव राज्यम् पर्य् ऐत् तद् राजनस्य राजनत्वम् । यद् राजनम् भवति प्रजानाम् एव तद् यजमाना राज्यम् परि यन्ति पञ्चविꣳशम् भवति प्रजापतेः आप्त्यै पञ्चभिस् तिष्ठन्त स्तुवन्ति देवलोकम् एवाभि जयन्ति पञ्चभिर् आसीना मनुष्यलोकम् एवाभि जयन्ति दश सम् पद्यन्ते दशाक्षरा विराड् अन्नं विराड् विराजैवान्नाद्यम् अव रुन्धते पञ्चधा विनिषद्य स्तुवन्ति पञ्च दिशः । दिक्ष्वेव प्रति तिष्ठन्ति । एकैकयाऽस्तुतया समायन्ति दिग्भ्य एवान्नाद्यꣳ सम् भरन्ति ताभिर् उद्गातोद् गायति दिग्भ्य एवान्नाद्यम् सम्भृत्य तेज आत्मन् दधते तस्माद् एकः प्राणः सर्वाण्य् अङ्गान्य् अवति । अथो यथा सुपर्ण उत्पतिष्यञ् छिर उत्तमं कुरुत एवम् एव तद् यजमानाः प्रजानाम् उत्तमा भवन्ति । आसन्दीम् उद्गाता रोहति साम्राज्यम् एव गच्छन्ति प्लेङ्खꣳ होता नाकस्यैव पृष्ठꣳ रोहन्ति कूर्चाव् अध्वर्युर् ब्रध्नस्यैव विष्टपं गच्छन्ति । एतावन्तो वै देवलोकास् तेष्व् एव यथापूर्वम् प्रति तिष्ठन्ति । अथो आक्रमणम् एव तत् सेतुं यजमानाः कुर्वते सुवर्गस्य लोकस्य समष्ट्यै ॥

devānāṃ vā antaṃ jagmuṣām indriyaṃ vīryam apākrāmat tat krośenāvārundhata tat krośasya krośatvam | yat krośena cātvālasyānte stuvanti yajñasyaivāntaṃ gatvendriyaṃ vīryam ava rundhate sattrasyarddhyā''havanīyasyānte stuvanti | agnim evopadraṣṭāraṃ kṛtvarddhim upa yanti prajāpaterhṛdayena havirdhāne 'ntaḥ stuvanti premāṇam evāsya gacchanti ślokena purastāt sadasaḥ stuvanty anuślokena paścāt | yajñasyaivāntaṃ gatvā ślokabhājo bhavanti navabhir adhvaryur ud gāyati nava vai puruṣe prāṇāḥ prāṇān eva yajamāneṣu dadhāti sarvā aindriyo bhavanti prāṇeṣv evendriyaṃ dadhati | apratihṛtābhir ud gāyati tasmāt puruṣaḥ sarvāṇy anyāni śīrṣṇo 'ṅgāni praty acati śira eva na pañcadaśam̐ rathaṃtaram bhavatīndriyam evāva rundhate saptadaśam bṛhad annādyasyāvaruddhyai | atho praiva tena jāyante | ekavim̐śam bhadraṃ dvipadāsu pratiṣṭhityai patnaya upa gāyanti mithunatvāya prajātyai prajāpatiḥ prajā asṛjata so 'kāmayata | āsām aham̐ rājyam parīyām iti tāsām̐ rājanenaiva rājyam pary ait tad rājanasya rājanatvam | yad rājanam bhavati prajānām eva tad yajamānā rājyam pari yanti pañcavim̐śam bhavati prajāpateḥ āptyai pañcabhis tiṣṭhanta stuvanti devalokam evābhi jayanti pañcabhir āsīnā manuṣyalokam evābhi jayanti daśa sam padyante daśākṣarā virāḍ annaṃ virāḍ virājaivānnādyam ava rundhate pañcadhā viniṣadya stuvanti pañca diśaḥ | dikṣveva prati tiṣṭhanti | ekaikayā'stutayā samāyanti digbhya evānnādyam̐ sam bharanti tābhir udgātod gāyati digbhya evānnādyam sambhṛtya teja ātman dadhate tasmād ekaḥ prāṇaḥ sarvāṇy aṅgāny avati | atho yathā suparṇa utpatiṣyañ chira uttamaṃ kuruta evam eva tad yajamānāḥ prajānām uttamā bhavanti | āsandīm udgātā rohati sāmrājyam eva gacchanti pleṅkham̐ hotā nākasyaiva pṛṣṭham̐ rohanti kūrcāv adhvaryur bradhnasyaiva viṣṭapaṃ gacchanti | etāvanto vai devalokās teṣv eva yathāpūrvam prati tiṣṭhanti | atho ākramaṇam eva tat setuṃ yajamānāḥ kurvate suvargasya lokasya samaṣṭyai ||

Sanskrit only: no published translation is held for this verse.

अर्क्येण वै सहस्रशः प्रजापतिः प्रजा असृजत ताभ्य इलांदेनेरां लूताम् अवारुन्द्ध यद् अर्क्यम् भवति प्रजा एव तद् यजमानाः सृजन्ते । इलांदम् भवति प्रजाभ्य एव सृष्टाभ्य इरां लूताम् अव रुन्धते तस्माद् याꣳ समाꣳ सत्त्रꣳ समृद्धं क्षोधुकास् ताꣳ समाम् प्रजा इषꣳ ह्य् आसामूर्जम् आददते याꣳ समां व्यृद्धम् अक्षोधुकास् ताꣳ समाम् प्रजाः न ह्य् आसाम् इषमूर्जम् आददते । उत्क्रोदं कुर्वते यथा बन्धान् मुमुचाना उत्क्रोदं कुर्वत एवम् एव तद् यजमाना देवबन्धान् मुमुचाना उत्क्रोदं कुर्वत इषमूर्जं आत्मन् दधानाः । वाणः शततन्तुर् भवति शतायुः पुरुषः शतेन्द्रियः । आयुष्य् एवेन्द्रिये प्रति तिष्ठन्ति । आजिं धावन्त्य् अनभिजितस्याभिजित्यै दुन्दुभीन्त् समाघ्नन्ति परमा वा एषा वाग् या दुन्दुभौ परमाम् एव वाचम् अव रुन्धते भूमिदुन्दुभिम् आ घ्नन्ति यैवेमां वाक् प्रविष्टा ताम् एवाव रुन्धते । अथो इमाम् एव जयन्ति सर्वा वाचो वदन्ति सर्वासां वाचाम् अवरुद्ध्यै । आर्द्रे चर्मन् व्यायच्छेते इन्द्रियस्यावरुद्ध्यै । आन्यः क्रोशति प्रान्यः शꣳसति य आक्रोशति पुनात्य् एवैनान्त् स यः प्रशꣳसति पूतेष्व् एवान्नाद्यं दधाति । 2़ ऋषिकृतं च वा एते देवकृतं च पूर्वैर् मासैर् अव रुन्धते यद् भूतेच्छदाꣳ सामानि भवन्त्य् उभयस्यावरुद्ध्यै यन्ति वा एते मिथुनाद् ये संवत्सरम् उपयन्ति । अन्तर्वेदि मिथुनौ सम् भवतस् तेनैव मिथुनान् न यन्ति ॥

arkyeṇa vai sahasraśaḥ prajāpatiḥ prajā asṛjata tābhya ilāṃdenerāṃ lūtām avārunddha yad arkyam bhavati prajā eva tad yajamānāḥ sṛjante | ilāṃdam bhavati prajābhya eva sṛṣṭābhya irāṃ lūtām ava rundhate tasmād yām̐ samām̐ sattram̐ samṛddhaṃ kṣodhukās tām̐ samām prajā iṣam̐ hy āsāmūrjam ādadate yām̐ samāṃ vyṛddham akṣodhukās tām̐ samām prajāḥ na hy āsām iṣamūrjam ādadate | utkrodaṃ kurvate yathā bandhān mumucānā utkrodaṃ kurvata evam eva tad yajamānā devabandhān mumucānā utkrodaṃ kurvata iṣamūrjaṃ ātman dadhānāḥ | vāṇaḥ śatatantur bhavati śatāyuḥ puruṣaḥ śatendriyaḥ | āyuṣy evendriye prati tiṣṭhanti | ājiṃ dhāvanty anabhijitasyābhijityai dundubhīnt samāghnanti paramā vā eṣā vāg yā dundubhau paramām eva vācam ava rundhate bhūmidundubhim ā ghnanti yaivemāṃ vāk praviṣṭā tām evāva rundhate | atho imām eva jayanti sarvā vāco vadanti sarvāsāṃ vācām avaruddhyai | ārdre carman vyāyacchete indriyasyāvaruddhyai | ānyaḥ krośati prānyaḥ śam̐sati ya ākrośati punāty evainānt sa yaḥ praśam̐sati pūteṣv evānnādyaṃ dadhāti | 2़ ṛṣikṛtaṃ ca vā ete devakṛtaṃ ca pūrvair māsair ava rundhate yad bhūtecchadām̐ sāmāni bhavanty ubhayasyāvaruddhyai yanti vā ete mithunād ye saṃvatsaram upayanti | antarvedi mithunau sam bhavatas tenaiva mithunān na yanti ||

Sanskrit only: no published translation is held for this verse.

चर्माव भिन्दन्ति पाप्मानम् एवैषाम् अव भिन्दन्ति माऽप रात्सीर् माऽति व्यात्सीर् इत्य् आह सम्प्रत्य् एवैषाम् पाप्मानम् अव भिन्दन्ति । उदकुम्भान् अधिनिधाय दास्यो मार्जालीयम् परि नृत्यन्ति पदो निघ्नतीर् इदम्मधुं गायन्त्यः । मधु वै देवानाम् परमम् अन्नाद्यम् परमम् एवान्नाद्यम् अव रुन्धते पदो नि घ्नन्ति महीयाम् एवैषु दधति ॥

carmāva bhindanti pāpmānam evaiṣām ava bhindanti mā'pa rātsīr mā'ti vyātsīr ity āha sampraty evaiṣām pāpmānam ava bhindanti | udakumbhān adhinidhāya dāsyo mārjālīyam pari nṛtyanti pado nighnatīr idammadhuṃ gāyantyaḥ | madhu vai devānām paramam annādyam paramam evānnādyam ava rundhate pado ni ghnanti mahīyām evaiṣu dadhati ||

Sanskrit only: no published translation is held for this verse.

पृथिव्यै स्वाहान्तरिक्षाय स्वाहा दिवे स्वाहा सम्प्लोष्यते स्वाहा सम्प्लवमानाय स्वाहा सम्प्लुताय स्वाहा मेघायिष्यते स्वाहा मेघायते स्वाहा मेघिताय स्वाहा मेघाय स्वाहा नीहाराय स्वाहा निहाकायै स्वाहा प्रासचाय स्वाहा प्रचलाकायै स्वाहा विद्योतिष्यते स्वाहा विद्योतमानाय स्वाहा संविद्योतमानाय स्वाहा स्तनयिष्यते स्वाहा स्तनयते स्वाहोग्रꣳ स्तनयते स्वाहा वर्षिष्यते स्वाहा वर्षते स्वाहाभिवर्षते स्वाहा परिवर्षते स्वाहा संवर्षते स्वाहानुवर्षते स्वाहा शीकायिष्यते स्वाहा शीकायते स्वाहा शीकिताय स्वाहा प्रोषिष्यते स्वाहा प्रुष्णते स्वाहा परिप्रुष्णते स्वाहा । उद्ग्रहीष्यते स्वाहोद्ग्रृह्णते स्वाहोद्ग्रृहीताय स्वाहा विप्लोष्यते स्वाहा विप्लवमानाय स्वाहा विप्लुताय स्वाहा । आतप्स्यते स्वाहाऽऽतपते स्वाहोग्रम् आतपते स्वाहा । ऋग्भ्यः स्वाहा यजुर्भ्यः स्वाहा सामभ्यः स्वाहाङ्गिरोभ्यः स्वाहा वेदेभ्यः स्वाहा गाथाभ्यः स्वाहा नाराशꣳसीभ्यः स्वाहा रैभीभ्यः स्वाहा सर्वस्मै स्वाहा ॥

pṛthivyai svāhāntarikṣāya svāhā dive svāhā samploṣyate svāhā samplavamānāya svāhā samplutāya svāhā meghāyiṣyate svāhā meghāyate svāhā meghitāya svāhā meghāya svāhā nīhārāya svāhā nihākāyai svāhā prāsacāya svāhā pracalākāyai svāhā vidyotiṣyate svāhā vidyotamānāya svāhā saṃvidyotamānāya svāhā stanayiṣyate svāhā stanayate svāhogram̐ stanayate svāhā varṣiṣyate svāhā varṣate svāhābhivarṣate svāhā parivarṣate svāhā saṃvarṣate svāhānuvarṣate svāhā śīkāyiṣyate svāhā śīkāyate svāhā śīkitāya svāhā proṣiṣyate svāhā pruṣṇate svāhā paripruṣṇate svāhā | udgrahīṣyate svāhodgrṛhṇate svāhodgrṛhītāya svāhā viploṣyate svāhā viplavamānāya svāhā viplutāya svāhā | ātapsyate svāhā''tapate svāhogram ātapate svāhā | ṛgbhyaḥ svāhā yajurbhyaḥ svāhā sāmabhyaḥ svāhāṅgirobhyaḥ svāhā vedebhyaḥ svāhā gāthābhyaḥ svāhā nārāśam̐sībhyaḥ svāhā raibhībhyaḥ svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

दत्वते स्वाहाऽदन्तकाय स्वाहा प्राणिने स्वाहाऽप्राणाय स्वाहा मुखवते स्वाहाऽमुखाय स्वाहा नासिकवते स्वाहाऽनासिकाय स्वाहा । अक्षण्वते स्वाहाऽनक्षिकाय स्वाहा कर्णिने स्वाहाऽकर्णकाय स्वाहा शीर्षण्वते स्वाहाऽशीर्षकाय स्वाहा पद्वते स्वाहाऽपादकाय स्वाहा प्राणते स्वाहाऽप्राणते स्वाहा वदते स्वाहाऽवदते स्वाहा पश्यते स्वाहाऽपश्यते स्वाहा शृण्वते स्वाहाऽशृण्वते स्वाहा मनस्विने स्वाहा अमनसे स्वाहा रेतस्विने स्वाहाऽरेतस्काय स्वाहा प्रजाभ्यः स्वाहा प्रजननाय स्वाहा लोमवते स्वाहाऽलोमकाय स्वाहा त्वचे स्वाहाऽत्वक्काय स्वाहा चर्मण्वते स्वाहाऽचर्मकाय स्वाहा लोहितवते स्वाहाऽलोहिताय स्वाहा माꣳसन्वते स्वाहाऽमाꣳसकाय स्वाहा स्नावभ्यः स्वाहाऽस्नावकाय स्वाहा । अस्थन्वते स्वाहाऽनस्थिकाय स्वाहा मज्जन्वते स्वाहाऽमज्जकाय स्वाहा । अङ्गिने स्वाहाऽनङ्गाय स्वाहा । आत्मने स्वाहाऽनात्मने स्वाहा सर्वस्मै स्वाहा ॥

datvate svāhā'dantakāya svāhā prāṇine svāhā'prāṇāya svāhā mukhavate svāhā'mukhāya svāhā nāsikavate svāhā'nāsikāya svāhā | akṣaṇvate svāhā'nakṣikāya svāhā karṇine svāhā'karṇakāya svāhā śīrṣaṇvate svāhā'śīrṣakāya svāhā padvate svāhā'pādakāya svāhā prāṇate svāhā'prāṇate svāhā vadate svāhā'vadate svāhā paśyate svāhā'paśyate svāhā śṛṇvate svāhā'śṛṇvate svāhā manasvine svāhā amanase svāhā retasvine svāhā'retaskāya svāhā prajābhyaḥ svāhā prajananāya svāhā lomavate svāhā'lomakāya svāhā tvace svāhā'tvakkāya svāhā carmaṇvate svāhā'carmakāya svāhā lohitavate svāhā'lohitāya svāhā mām̐sanvate svāhā'mām̐sakāya svāhā snāvabhyaḥ svāhā'snāvakāya svāhā | asthanvate svāhā'nasthikāya svāhā majjanvate svāhā'majjakāya svāhā | aṅgine svāhā'naṅgāya svāhā | ātmane svāhā'nātmane svāhā sarvasmai svāhā ||

Sanskrit only: no published translation is held for this verse.

कस् त्वा युनक्ति स त्वा युनक्तु विष्णुस् त्वा युनक्तु । अस्य यज्ञस्यर्द्ध्यै मह्यꣳ संनत्यै । अमुष्मै कामाय । आयुषे त्वा प्राणाय त्वाऽपानाय त्वा व्यानाय त्वा व्युष्ट्यै त्वा रय्यै त्वा राधसे त्वा घोषाय त्वा पोषाय त्वाऽऽराद्घोषाय त्वा प्रच्युत्यै त्वा ॥

kas tvā yunakti sa tvā yunaktu viṣṇus tvā yunaktu | asya yajñasyarddhyai mahyam̐ saṃnatyai | amuṣmai kāmāya | āyuṣe tvā prāṇāya tvā'pānāya tvā vyānāya tvā vyuṣṭyai tvā rayyai tvā rādhase tvā ghoṣāya tvā poṣāya tvā''rādghoṣāya tvā pracyutyai tvā ||

Sanskrit only: no published translation is held for this verse.

अग्नये गायत्राय त्रिवृते राथंतराय वासन्तायाष्टाकपालः । इन्द्राय त्रैष्टुभाय पञ्चदशाय बार्हताय ग्रीष्मायैकादशकपालः । विश्वेभ्यो देवेभ्यो जागतेभ्यः सप्तदशेभ्यो वैरूपेभ्यो वार्षिकेभ्यो द्वादशकपालः । मित्रावरुणाभ्याम् आनुष्टुभाभ्याम् एकविꣳशाभ्यां वैराजाभ्याꣳ शारदाभ्याम् पयस्या बृहस्पतये पाङ्क्ताय त्रिणवाय शाक्वराय हैमन्तिकाय चरुः सवित्र आतिच्छन्दसाय त्रयस्त्रिꣳशाय रैवताय शैशिराय द्वादशकपालः । अदित्यै विष्णुपत्न्यै चरुः । अग्नये वैश्वानराय द्वादशकपालः । अनुमत्यै चरुः काय एककपालः ॥

agnaye gāyatrāya trivṛte rāthaṃtarāya vāsantāyāṣṭākapālaḥ | indrāya traiṣṭubhāya pañcadaśāya bārhatāya grīṣmāyaikādaśakapālaḥ | viśvebhyo devebhyo jāgatebhyaḥ saptadaśebhyo vairūpebhyo vārṣikebhyo dvādaśakapālaḥ | mitrāvaruṇābhyām ānuṣṭubhābhyām ekavim̐śābhyāṃ vairājābhyām̐ śāradābhyām payasyā bṛhaspataye pāṅktāya triṇavāya śākvarāya haimantikāya caruḥ savitra āticchandasāya trayastrim̐śāya raivatāya śaiśirāya dvādaśakapālaḥ | adityai viṣṇupatnyai caruḥ | agnaye vaiśvānarāya dvādaśakapālaḥ | anumatyai caruḥ kāya ekakapālaḥ ||

Sanskrit only: no published translation is held for this verse.

यो वा अग्नाव् अग्निः प्रह्रियते यश् च सोमो राजा तयोर् एष आतिथ्यं यद् अग्नीषोमीयः । अथैष रुद्रो यश् चीयते यत् संचिते ऽग्नाव् एतानि हवीꣳषि न निर्वपेत् । एष एव रुद्रो ऽशान्त उपोत्थाय प्रजाम् पशून् यजमानस्याभि मन्येत यत् संचिते ऽग्नाव् एतानि हवीꣳषि निर्वपति भागधेयेनैवैनꣳ शमयति नास्य रुद्रो ऽशान्तः उपोत्थाय प्रजाम् पशून् अभि मन्यते दश हवीꣳषि भवन्ति नव वै पुरुषे प्राणा नाभिर् दशमी प्राणान् एव यजमाने दधाति । अथो दशाक्षरा विराड् अन्नं विराड् विराज्य् एवान्नाद्ये प्रति तिष्ठति । ऋतुभिर् वा एष छन्दोभिः स्तोमैः पृष्ठैश् चेतव्य इत्य् आहुः । यद् एतानि हवीꣳषि निर्वपत्य् ऋतुभिर् एवैनं छन्दोभिः स्तोमैः पृष्ठैश् चिनुते दिशः सुषुवाणेन अभिजित्या इत्य् आहुः । यद् एतानि हवीꣳषि निर्वपति दिशाम् अभिजित्यै । एतया वा इन्द्रं देवा अयाजयन् तस्माद् इन्द्रसवः । एतया मनुम् मनुष्यास् तस्मान् मनुसवः । यथेन्द्रो देवानां यथा मनुर् मनुष्याणाम् एवम् भवति य एवं विद्वान् एतयेष्ट्या यजते दिग्वतीः पुरोऽनुवाक्या भवन्ति सर्वासां दिशाम् अभिजित्यै ॥

yo vā agnāv agniḥ prahriyate yaś ca somo rājā tayor eṣa ātithyaṃ yad agnīṣomīyaḥ | athaiṣa rudro yaś cīyate yat saṃcite 'gnāv etāni havīm̐ṣi na nirvapet | eṣa eva rudro 'śānta upotthāya prajām paśūn yajamānasyābhi manyeta yat saṃcite 'gnāv etāni havīm̐ṣi nirvapati bhāgadheyenaivainam̐ śamayati nāsya rudro 'śāntaḥ upotthāya prajām paśūn abhi manyate daśa havīm̐ṣi bhavanti nava vai puruṣe prāṇā nābhir daśamī prāṇān eva yajamāne dadhāti | atho daśākṣarā virāḍ annaṃ virāḍ virājy evānnādye prati tiṣṭhati | ṛtubhir vā eṣa chandobhiḥ stomaiḥ pṛṣṭhaiś cetavya ity āhuḥ | yad etāni havīm̐ṣi nirvapaty ṛtubhir evainaṃ chandobhiḥ stomaiḥ pṛṣṭhaiś cinute diśaḥ suṣuvāṇena abhijityā ity āhuḥ | yad etāni havīm̐ṣi nirvapati diśām abhijityai | etayā vā indraṃ devā ayājayan tasmād indrasavaḥ | etayā manum manuṣyās tasmān manusavaḥ | yathendro devānāṃ yathā manur manuṣyāṇām evam bhavati ya evaṃ vidvān etayeṣṭyā yajate digvatīḥ puro'nuvākyā bhavanti sarvāsāṃ diśām abhijityai ||

Sanskrit only: no published translation is held for this verse.

यः प्राणतो निमिषतो महित्वैक इद् राजा जगतो बभूव । य ईशे अस्य द्विपदश् चतुष्पदः कस्मै देवाय हविषा विधेम ॥ उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते द्यौर् महिमा नक्षत्राणि रूपम् आदित्यस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥

yaḥ prāṇato nimiṣato mahitvaika id rājā jagato babhūva | ya īśe asya dvipadaś catuṣpadaḥ kasmai devāya haviṣā vidhema || upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmi tasya te dyaur mahimā nakṣatrāṇi rūpam ādityas te tejas tasmai tvā mahimne prajāpataye svāhā ||

Sanskrit only: no published translation is held for this verse.

य आत्मदा बलदा यस्य विश्व उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम ॥ उपयामगृहीतो ऽसि प्रजापतये त्वा जुष्टं गृह्णामि तस्य ते पृथिवी महिमौषधयो वनस्पतयो रूपम् अग्निस् ते तेजस् तस्मै त्वा महिम्ने प्रजापतये स्वाहा ॥

ya ātmadā baladā yasya viśva upāsate praśiṣaṃ yasya devāḥ | yasya chāyā'mṛtaṃ yasya mṛtyuḥ kasmai devāya haviṣā vidhema || upayāmagṛhīto 'si prajāpataye tvā juṣṭaṃ gṛhṇāmi tasya te pṛthivī mahimauṣadhayo vanaspatayo rūpam agnis te tejas tasmai tvā mahimne prajāpataye svāhā ||

Sanskrit only: no published translation is held for this verse.

आ ब्रह्मन् ब्राह्मणो ब्रह्मवर्चसी जायताम् आऽस्मिन् राष्ट्रे राजन्य इषव्यः शूरो महारथो जायताम् । दोग्ध्री धेनुः । वोढाऽनड्वान् आशुः सप्तिः पुरंधिर् योषा जिष्णू रथेष्ठाः सभेयो युवा । आऽस्य यजमानस्य वीरो जायताम् । निकामेनिकामे नः पर्जन्यो वर्षतु फलिन्यो न ओषधयः पच्यन्ताम् । योगक्षेमो नः कल्पताम् ॥

ā brahman brāhmaṇo brahmavarcasī jāyatām ā'smin rāṣṭre rājanya iṣavyaḥ śūro mahāratho jāyatām | dogdhrī dhenuḥ | voḍhā'naḍvān āśuḥ saptiḥ puraṃdhir yoṣā jiṣṇū ratheṣṭhāḥ sabheyo yuvā | ā'sya yajamānasya vīro jāyatām | nikāmenikāme naḥ parjanyo varṣatu phalinyo na oṣadhayaḥ pacyantām | yogakṣemo naḥ kalpatām ||

Sanskrit only: no published translation is held for this verse.

आऽक्रान् वाजी पृथिवीम् अग्निं युजम् अकृत वाज्य् अर्वाऽक्रान् वाज्य् अन्तरिक्षं वायुं युजम् अकृत वाज्य् अर्वा द्यां वाज्य् आऽक्रꣳस्त सूर्यं युजम् अकृत वाज्य् अर्वा । अग्निस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय वायुस् ते वाजिन् युङ्ङ् अनु त्वाऽऽ रभे स्वस्ति मा सम् 2 पारयाऽऽदित्यस् ते वाजिन् युङ्ङ् अनु त्वा रभे स्वस्ति मा सम् पारय प्राणधृग् असि प्राणम् मे दृꣳह व्यानधृग् असि व्यानम् मे दृꣳहापानधृग् अस्य् अपानम् मे दृꣳह चक्षुर् असि चक्षुर् मयि धेहि श्रोत्रम् असि श्रोत्रम् मयि धेह्य् आयुर् अस्य् आयुर् मयि धेहि ॥

ā'krān vājī pṛthivīm agniṃ yujam akṛta vājy arvā'krān vājy antarikṣaṃ vāyuṃ yujam akṛta vājy arvā dyāṃ vājy ā'kram̐sta sūryaṃ yujam akṛta vājy arvā | agnis te vājin yuṅṅ anu tvā rabhe svasti mā sam pāraya vāyus te vājin yuṅṅ anu tvā'' rabhe svasti mā sam 2 pārayā''dityas te vājin yuṅṅ anu tvā rabhe svasti mā sam pāraya prāṇadhṛg asi prāṇam me dṛm̐ha vyānadhṛg asi vyānam me dṛm̐hāpānadhṛg asy apānam me dṛm̐ha cakṣur asi cakṣur mayi dhehi śrotram asi śrotram mayi dhehy āyur asy āyur mayi dhehi ||

Sanskrit only: no published translation is held for this verse.

जज्ञि बीजम् । वर्ष्टा पर्जन्यः पक्ता सस्यम् । सुपिप्पला ओषधयः स्वधिचरणेयम् । सूपसदनो ऽग्निः स्वध्यक्षम् अन्तरिक्षम् । सुपावः पवमानः सूपस्थाना द्यौः शिवम् असौ तपन् यथापूर्वम् अहोरात्रे पञ्चदशिनो ऽर्धमासास् त्रिꣳशिनो मासाः क्लृप्ता ऋतवः शान्तः संवत्सरः ॥

jajñi bījam | varṣṭā parjanyaḥ paktā sasyam | supippalā oṣadhayaḥ svadhicaraṇeyam | sūpasadano 'gniḥ svadhyakṣam antarikṣam | supāvaḥ pavamānaḥ sūpasthānā dyauḥ śivam asau tapan yathāpūrvam ahorātre pañcadaśino 'rdhamāsās trim̐śino māsāḥ klṛptā ṛtavaḥ śāntaḥ saṃvatsaraḥ ||

Sanskrit only: no published translation is held for this verse.

आग्नेयो ऽष्टाकपालः सौम्यश् चरुः सावित्रो ऽष्टाकपालः पौष्णश् चरुः । रौद्रश् चरुः । अग्नये वैश्वानराय द्वादशकपालो मृगाखरे यदि नाऽऽगच्छेत् । अग्नये ऽꣳहोमुचे ऽष्टाकपालः सौर्यम् पयः । वायव्य आज्यभागः ॥

āgneyo 'ṣṭākapālaḥ saumyaś caruḥ sāvitro 'ṣṭākapālaḥ pauṣṇaś caruḥ | raudraś caruḥ | agnaye vaiśvānarāya dvādaśakapālo mṛgākhare yadi nā''gacchet | agnaye 'm̐homuce 'ṣṭākapālaḥ sauryam payaḥ | vāyavya ājyabhāgaḥ ||

Sanskrit only: no published translation is held for this verse.

अग्नये ऽꣳहोमुचे ऽष्टाकपालः । इन्द्रायाꣳहोमुच एकादशकपालः । मित्रावरुणाभ्याम् आगोमुग्भ्याम् पयस्या वायोसावित्र आगोमुग्भ्यां चरुः । अश्विभ्याम् आगोमुग्भ्यां धानाः । मरुद्भ्य एनोमुग्भ्यः सप्तकपालः । विश्वेभ्यो देवेभ्य एनोमुग्भ्यो द्वादशकपालः । अनुमत्यै चरुः । अग्नये वैश्वानराय द्वादशकपालः । द्यावापृथिवीभ्याम् अꣳहोमुग्भ्यां द्विकपालः ॥

agnaye 'm̐homuce 'ṣṭākapālaḥ | indrāyām̐homuca ekādaśakapālaḥ | mitrāvaruṇābhyām āgomugbhyām payasyā vāyosāvitra āgomugbhyāṃ caruḥ | aśvibhyām āgomugbhyāṃ dhānāḥ | marudbhya enomugbhyaḥ saptakapālaḥ | viśvebhyo devebhya enomugbhyo dvādaśakapālaḥ | anumatyai caruḥ | agnaye vaiśvānarāya dvādaśakapālaḥ | dyāvāpṛthivībhyām am̐homugbhyāṃ dvikapālaḥ ||

Sanskrit only: no published translation is held for this verse.

अग्नये समनमत् पृथिव्यै समनमत् । यथाग्निः पृथिव्या समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु वायवे समनमद् अन्तरिक्षाय समनमत् । यथा वायुर् अन्तरिक्षेण सूर्याय समनमद् दिवे समनमत् । यथा सूर्यो दिवा चन्द्रमसे समनमन् नक्षत्रेभ्यः समनमत् । यथा चन्द्रमा नक्षत्रैः वरुणाय समनमद् अद्भ्यः समनमत् । यथा वरुणो ऽद्भिः साम्ने समनमद् ऋचे समनमत् । यथा सामर्चा ब्रह्मणे समनमत् क्षत्राय समनमत् । यथा ब्रह्म क्षत्रेण राज्ञे समनमद् विशे समनमत् । यथा राजा विशा रथाय समनमद् अश्वेभ्यः समनमत् । यथा रथो ऽश्वैः प्रजापतये समनमद् भूतेभ्यः समनमत् । यथा प्रजापतिर् भूतैः समनमद् एवम् मह्यम् भद्राः संनतयः सं नमन्तु ॥

agnaye samanamat pṛthivyai samanamat | yathāgniḥ pṛthivyā samanamad evam mahyam bhadrāḥ saṃnatayaḥ saṃ namantu vāyave samanamad antarikṣāya samanamat | yathā vāyur antarikṣeṇa sūryāya samanamad dive samanamat | yathā sūryo divā candramase samanaman nakṣatrebhyaḥ samanamat | yathā candramā nakṣatraiḥ varuṇāya samanamad adbhyaḥ samanamat | yathā varuṇo 'dbhiḥ sāmne samanamad ṛce samanamat | yathā sāmarcā brahmaṇe samanamat kṣatrāya samanamat | yathā brahma kṣatreṇa rājñe samanamad viśe samanamat | yathā rājā viśā rathāya samanamad aśvebhyaḥ samanamat | yathā ratho 'śvaiḥ prajāpataye samanamad bhūtebhyaḥ samanamat | yathā prajāpatir bhūtaiḥ samanamad evam mahyam bhadrāḥ saṃnatayaḥ saṃ namantu ||

Sanskrit only: no published translation is held for this verse.

ये ते पन्थानः सवितः पूर्व्यासो ऽरेणवो वितता अन्तरिक्षे । तेभिर् नो अद्य पथिभिः सुगेभी रक्षा च नो अधि च देव ब्रूहि ॥ नमो ऽग्नये पृथिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमो वायवे ऽन्तरिक्षक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि नमः सूर्याय दिविक्षिते लोकस्पृते लोकम् अस्मै यजमानाय देहि ॥

ye te panthānaḥ savitaḥ pūrvyāso 'reṇavo vitatā antarikṣe | tebhir no adya pathibhiḥ sugebhī rakṣā ca no adhi ca deva brūhi || namo 'gnaye pṛthivikṣite lokaspṛte lokam asmai yajamānāya dehi namo vāyave 'ntarikṣakṣite lokaspṛte lokam asmai yajamānāya dehi namaḥ sūryāya divikṣite lokaspṛte lokam asmai yajamānāya dehi ||

Sanskrit only: no published translation is held for this verse.

यो वा अश्वस्य मेध्यस्य शिरो वेद शीर्षण्वान् मेध्यो भवति । उषा वा अश्वस्य मेध्यस्य शिरः सूर्यश् चक्षुः । वातः प्राणः । चन्द्रमाः श्रोत्रम् । दिशः पादौ । अवान्तरदिशाः पर्शवः । अहोरात्रे निमेषः । अर्धमासाः पर्वाणि मासाः संधानानि । ऋतवो ऽङ्गानि संवत्सर आत्मा रश्मयः केशाः । नक्षत्राणि रूपम् । तारका अस्थानि नभो माꣳसानि । ओषधयो लोमानि वनस्पतयो वालाः । अग्निर् मुखम् । वैश्वानरो व्यात्तम् । समुद्र उदरम् अन्तरिक्षम् पायुः । द्यावापृथिवी आण्डौ ग्रावा शेपः सोमो रेतः । यज् जञ्जभ्यते तद् वि द्योतते यद् विधूनुते तत् स्तनयति यन् मेहति तद् वर्षति वाग् एवास्य वाग् अहर् वा अश्वस्य जायमानस्य महिमा पुरस्ताज् जायते रात्रिर् एनम् महिमा पश्चाद् अनु जायते । एतौ वै महिमानाव् अश्वम् अभितः सम् बभूवतुः । हयो देवान् अवहद् अर्वाऽसुरान् वाजी गन्धर्वान् अश्वो मनुष्यान् । समुद्रो वा अश्वस्य योनिः समुद्रो बन्धुः ॥

yo vā aśvasya medhyasya śiro veda śīrṣaṇvān medhyo bhavati | uṣā vā aśvasya medhyasya śiraḥ sūryaś cakṣuḥ | vātaḥ prāṇaḥ | candramāḥ śrotram | diśaḥ pādau | avāntaradiśāḥ parśavaḥ | ahorātre nimeṣaḥ | ardhamāsāḥ parvāṇi māsāḥ saṃdhānāni | ṛtavo 'ṅgāni saṃvatsara ātmā raśmayaḥ keśāḥ | nakṣatrāṇi rūpam | tārakā asthāni nabho mām̐sāni | oṣadhayo lomāni vanaspatayo vālāḥ | agnir mukham | vaiśvānaro vyāttam | samudra udaram antarikṣam pāyuḥ | dyāvāpṛthivī āṇḍau grāvā śepaḥ somo retaḥ | yaj jañjabhyate tad vi dyotate yad vidhūnute tat stanayati yan mehati tad varṣati vāg evāsya vāg ahar vā aśvasya jāyamānasya mahimā purastāj jāyate rātrir enam mahimā paścād anu jāyate | etau vai mahimānāv aśvam abhitaḥ sam babhūvatuḥ | hayo devān avahad arvā'surān vājī gandharvān aśvo manuṣyān | samudro vā aśvasya yoniḥ samudro bandhuḥ ||

Sanskrit only: no published translation is held for this verse.