इति। यत् तु विनियोगानर्थक्यम् उक्तं, तन् न। अर्थवादार्थत्वाद् वाक्यस्य। प्रथनं हि तत्र श्रूयते। ईदृशम् इदं प्रथनं प्रशस्तं यत् क्रियमाणम् अनेन मन्त्रेण क्रियत इति। सो ऽयं विध्यर्थवादमन्त्राणाम् अर्थो नासति बाह्ये ऽर्थे सिध्यति। तथा उद्भिदा यजेत पशुकामः इत्य् उदाहृत्य विचारितं किम् अयं गुणविधिः उत कर्मनाम् अधेयम् इति संशय्य, प्रवृत्तिविशेषकरतया गुणविधिर् इति पूर्वपक्षितम्। गुणं हि विदधतां प्रवृत्तिविशेषकरत्वम्। इतरथा नाममात्रम् अनर्थकम्। शक्नुवन्ति चोद्भेदनक्रियायोगवशेन किञ्चित् खनित्राद्यर्थम् अभिधातुम् इति गुणविधय इति प्राप्ते उक्तं - न गुणविधयः। कर्मसमानाधिकरणा ह्य् एते, तृतीयानिर्देशात्। कर्म खल्व् इह उद्भिदा यजेत पशुकामः इति पशुभावनाकरणत्वेनाभिहितं यजेत पशुकाम इति। किम् उक्तं, यागेन पशून् भावयेद् इति। अत उद्भिदा यागेनेति व्यक्तम् एव सामानाधिकरण्यम्। गुणविधौ तु यागस्योद्भित्त्वाभावाद् उद्भिद्वता यागेनेति मत्वर्थलक्षणया सामानाधिकरण्यं स्यात्। तत्र च लक्षणैव दोषः। नन्व् एवं व्रीहिभिर् यजेतेत्य् एवमादाव् अपि भावनाकरणेन यजिना समभिव्याहृता व्रीह्यादिशब्दाः कर्मनाम् अधेयतां प्रतिपद्येरन्। न। तेषां निरूढार्थत्वात्। अज्ञातसन्दिग्धार्थस्य हि पदस्य प्रसिद्धसामानाधिकरण्याद् एवार्थो निश्चीयते। निरूढं तु स्वार्थान् न प्रच्यावयितुं शक्यते। आह च -- पदम् अज्ञातसन्दिग्धं प्रसिद्धैर् अपृथक्श्रुति । निर्णीयते निरूढं तु न स्वार्थाद् अपनीयते ॥ २,२७ इति। अतः पशूनाम् उद्भेदनं प्रकाशनम् अनेन कर्मणा क्रियते इति योगाद् उद्भिच्छब्देन कर्माभिधीयते। गुणफलसम्बन्धविधानेनाम्नातानाम् अप्य् उपयोगो ऽस्तीति नानर्थक्यम्। अतः सिद्धं कर्मनाम् अधेयतयैवञ्जातीयकानां क्रियोपयोग इति। चित्रादिशब्दानां नामधेयत्वहेतवो विस्तरभयान् नानुक्रम्यन्ते। क्वचित् कर्मणः प्रापकशब्दान्तराभावाद् गुणविधित्वम् एव। यथा आग्नेयो ऽष्टाकपाल इत्य् आग्नेय इति सगुणकर्मविधायिनः शब्दस्य। न हि तत्र द्रव्यदेवतासम्बन्धविधानात् प्राक् कर्मणो रूपम् अवगम्यते यस्याग्नेयशब्दो नामधेयं भवेद् इत्येवमादि नामधेयपादोक्तम् आदिशब्देनानुक्रान्तं वेदितव्यम् अध्यायान्तम्। यावत्स्मृतिपादोक्तार्थो ऽप्य् अनेनैवानुक्तान्तो वेदितव्यः। प्रत्यक्षवेदोपयोगप्रतिपादनप्रसङ्गेन चार्थवादाद्युपयोगानन्तरं नामधेयपादार्थो ऽनुक्रान्तः। तत्रादिशब्देनानुक्रान्तः स्मृतिपादार्थः। तथा हि -- अश्रूयमाणवेदानष्टकादीन् उदाहृत्य तेषां धर्माधर्मत्वसंशये, धर्मस्य शब्दमूलत्वादशब्दम् अनपेक्ष्यं स्यात् (१।३।१।) इति पक्षं परिगृह्य वेदमूलतया सिद्धान्तितं - सर्वाः स्मृतयो हि नासति पूर्वज्ञाने आत्मानं लभन्ते। पूर्वज्ञानं च मूलभूतं विभ्रमो वा स्यात्, प्रत्यक्षानुभवो वा, पौरुषेयागमजन्यं वा, विप्रलम्भो वा, चोदनाजनितं वा। तत्र तावद् भ्राम्यताम् आप्तानां मन्वादीनां स्मृतिनिबन्धनप्रणयनम् अयुक्तम्। ते हि तावद् ऋषयो भ्राम्यन्तीत्य् एतद् एव दुर्भणम्। भ्राम्यतां तु यन्महाप्रबन्धरचनं तत् स्मृतिभ्यश् चाद्ययावदार्यैः पश्यद्भिः परि(?ग्रह।गृह्यते) इति नैतद् उत्प्रेक्षितुम् अपि शक्यम्। अनुभवश् चातीन्द्रियगोचरः प्रत्यक्षसूत्रे निराकृतः। पुरुषवाक्यम् अप्य् असम्भवन्मूलम् अप्रमाणम् एव। विप्रलम्भो ऽपि भ्रान्तिवन्निराकार्यः। चोदना तु सम्भवद्वेदसंयोगिनां त्रैवर्णिकानां स्मृतिमूलं भवतीति तत्कल्पनैव लघीयसीति। नन्व् एवम् अग्निहोत्रादिचोदनावदष्टकादिचोदना अपि किं नोपलभ्यन्ते। नेदम् अनुपपन्नम्। विप्रकीर्णानेकशाखाश्रया हि श्रुतयः क्रतुपुरुषार्थोपदेशसङ्कीर्णाः प्रमाद्यद्भिर् अद्यतनैर् न विविच्योपलभ्यन्त इति किं नोपपद्यन्ते। अतो यद् अश्रूयमाणम् अप्य् अष्टकादिधर्मस्य निमित्तं चोदनेति सिद्धम् अष्टकादयो धर्मा इति। तद् एवं प्रत्यक्षश्रुत्यविरुद्धाभ्यः श्रुत्यनुमानम्। प्रत्यक्षश्रुतिविरोधे तु न श्रुतिर् अनुमातुं शक्यत इति विरोधाधिकरणे २,२८ उक्तम्। उपरिष्टाच् चाचारप्रामाण्यं स्मृत्या च सह बलाबलपरीक्षेत्यादि दर्शयितव्यम्। सर्वेषु च भेदादिलक्षणेषु स्वप्रमाणगणैः शब्दान्तरादिभिः सिद्धान्तस्थिति(?ः।र्) सति बाह्ये ऽर्थे न सम्भवति। सोमेन यजेत दाक्षिणानि जुहोति हिरण्यमात्रेयाय ददातीति यागहोमदानभावनानां शब्दभेदाद् एव भेदो वक्ष्यते। तथा च समिधो यजतीत्येवमादीनां पञ्चानां प्रयाजानाम् असत्य् अपि शब्दभेदे ऽभ्यासानर्थक्यप्रसङ्गाद् भेदो दर्शितः। तिस्र आहुतीर् जुहोतीति पृथक्त्वनिवेशित्वात् संख्याया आहुतीनां भेदो दर्शितः। अथैष ज्योतिर् एतेन यजेतेति ज्योतिष्टोमाज् ज्योतिर् इति संज्ञान्तरेण कर्मभेदः। वैश्वदेव्याम् इक्षा वाजिभ्यो वाजिनम् इति च उत्पत्तिशिष्टश्रौताम् इक्षाविरोधाद् वाजिनं वैश्वदेवे कर्मणि निवेशम् अलभमानं स्वाश्रयं यागान्तरम् उपकल्पयति। सो ऽयं वाजिनगुणाद् भेदः। कुण्डपायिनामयने मासम् अग्निहोत्रं जुहोतीति नैयमिकाग्निहोत्रात् प्रकरणान्तरेण कौण्डपायिनहोमस्य भेदः। तद् एवं षोढा कर्मभेदो द्वितीये। अन्यदुपोद्धातादिना। तृतीये तु पारार्थ्यलक्षणस्य शेषत्वस्य षोढैव विनियोगसिद्धिर् उक्ता। यथा तावदरुणिम्नः तृतीयाश्रुत्या क्रियाङ्गभावे सामान्यतो ऽवगते अरुणया क्रीणातीति क्रियाविशेषलाभो वाक्यात्। लिङ्गविनियोगस् तु -- यथाप्रकरणाम्नानसामर्थ्यावधृतसामान्याङ्गभावस्य बहिर्मन्त्रस्य सामर्थ्यापरनाम्नो लिङ्गाद् बर्हिर्लवने विनियोगः। प्रकरणविनियोगस् तु -- इष्टिप्रकरणाम्नातानां प्रयाजादीनां साध्याकाङ्क्षिणाम् उपकाराकाङ्क्षिण्या तया सह सम्बन्धः। उभयाकाङ्क्षालक्षणम् एव हि प्रकरणम् आचक्ष्महे। क्रमविनियोगस् तु -- प्राकृतोपकारनिराकाङ्क्षायां विकृतौ सन्निधिसमाम्नातानाम् अङ्गानाम्। न हि तत्र प्रकरणविनियोगः सम्भवति। उभयगामिनी ह्य् आकाङ्क्षा प्रकरणम्। अनाकाङ्क्षा चेह विकृतिः प्राकृतोपकारद्वारपरिप्राप्तपदार्थपरिष्वक्ता वैकृतम् एव त्व् अङ्गानां सन्निहितसमाम्नानम् अनर्थकं मा भूद् इति तत्सन्निधिपाठाद् एव तेषां तत्र विनियोगो निश्चीयते। समाख्याविनियोगस् तु -- आध्वर्यवसमाख्यातेषु पदार्थेष्व् अध्वर्योर् अनेनामी कर्तव्या इति। चतुर्थे ऽपि श्रुत्यादिभिर् एवावधृताङ्गाङ्गिभावानां दध्यानयनाम् इक्षादीनां प्रयोज्यप्रयोजकत्वे वक्ष्येते। यद् धि श्रुत्यादिभिर् यच्छेषतयावगम्यते तत् तेन २,२९ प्रयुज्यत इति स्थापितम्। तद् इह प्रयुक्तिलक्षणे ऽपि श्रुत्यादिर् एव प्रमाणगणः, शेषलक्षणे ऽपि शेषिणां शेषाणाम् उभयेषां वा क्रमनियमः किञ्चिन्मात्रविशेषभिन्नश्रुत्यादिभिर् एव क्रियते। यथा तावद् अध्वर्युर् गृहपतिं दीक्षयित्वा ब्रह्माणं दीक्षयति इति क्त्वाश्रुत्या क्रमनियमः। अग्निहोत्रं जुहोति यवागूं पचति इति पाठाद् अन्यादृशे ऽपि क्रमे ऽवगम्यमाने ऽर्थात् क्रमनियमविपर्ययः। होमोत्तरकालं हि पाकः क्रियमाणो ऽनर्थकः स्यात्। होमो ऽपि नासति हविषि सं(प्र)वर्तत इत्य् अर्थात् पाकोत्तरकालम् एव निश्चीयते। तद् इदं लिङ्गम् एवार्थ इति नाममात्रभिन्नं, सामर्थ्यम् एव हि भावानां लिङ्गम् इति निश्चीयते। इहापि द्रव्यक्रिययोः शक्तिनिरीक्षणाद् एव क्रमनियमावधारणम्। पञ्चानां तु प्रयाजादीनां समिधो यजतीत्येवमादीनां पाठात् क्रमनियमः। बहूनां हि पदार्थानां युगपदेकेन कर्त्रानुष्ठातुम् अशक्तेर् अवश्यम्भाविनि क्रमे ऽवगमाधीनत्वाद् अनुष्ठानस्य क्रमेण तूच्यमानेषु तथैवावगमाद् अनुष्ठाने क्रमापेक्षायां स एव क्रमो निश्चीयते। प्रतीतहानाप्रतीतोपादानयोर् अनुपपत्तेः। अयम् अपि पाठापरनाम्ना स्थानेनैव क्रमनियमः। स्थानात् क्रमनियमो यथा -- साद्यस्के कर्मणि सह पशूनालभते इत्य् अग्नीषोमीयसवनीयानुबन्ध्यानां सवनीयस्थाने सहोपलम्भे चोदिते कः प्रथमं प्रयुज्यताम् इत्य् अपेक्षायां स्थानात् सवनीयो बुद्धो भवन् प्रथमं नियम्यते। तस्य तदनुष्ठानस्थानम्। सो ऽयम् अनुष्ठानसादेश्यलक्षणः क्रमः। पूर्वं तु पाठसादेश्यलक्षणः। द्वेधा च तार्तीयक्रमो विभक्तः। यथोक्तं - तत्र क्रमो द्विधैवेष्टो देशसामान्यलक्षणः । पाठानुष्ठानसादेश्याद् विनियोगस्य कारणम् ॥ इति। प्रवृत्त्या च क्रमनियमो यथा -- सप्तदश प्राजापत्यान् पशूनालभते इति चोदितेषु पशुषु चोदकप्राप्तानां प्रोक्षणादीनां यत्रक्वचिद् एकस्मिन्न् एकस्यानुष्ठाने द्वितीयादिषु किं प्रथमप्रवृत्त्यैव अथानियम इति संशये नियमकारणाभावात् प्रथमप्रवृत्तेश् चानियमात्मकत्वाद् अनियमः इति पक्षं परिगृह्य प्रथमप्रवृत्त्यैव नियमो दर्शितः। प्रयोगवचनबलेन हि पशूनां यौगपद्यम् अवधारितम्। तच् चावर्जनीयाद् विलम्बनान् न व्यवधानान्तरम् अङ्गानाम् अनुजानीते। साङ्गेषु हि पशुषु युगपदनुष्ठातव्यतया चोदितेष्व् अपीश्वरेणापि तथा सम्भावयितुम् २,३० अशक्तेः अवर्जनीयव्यवधानं तु विधेर् अनुमतं भवति। तत्र च वैषम्यकारणाभावात् सर्वेषां सदृशम् एवाङ्गव्यवधानम्। प्रथमपदार्थकर्त्रानुष्ठिते तदैवाङ्गान्तरानुष्ठानाय तेनैव प्रधानेन चोद्यमाने कर्तरि प्रयोगवचनप्रमाणकयौगपद्यबलेन पश्वन्तरैर् आकृष्यमाणे तत्पदार्थमात्रस्य पश्वन्तरेष्व् अनुष्ठानं स पशुः प्रतीक्षते। तदन्ते च द्वितीयपदार्थानुष्ठानाय कर्तारम् आकर्षति। एवं सप्तदशानां पशूनां षोडशभिर् एकैकस्य व्यवधानं विध्यनुमतम्। व्यवधानविशेषस् तु विशेषाग्रहणान् नाश्रयितुं शक्यम्। अतो द्वितीयादीनाम् अप्य् अनुष्ठानं तत एवारभ्येति सिद्धान्तात् क्रमनियमः। अयं च प्रकरणान्तर्गत एवाकाङ्क्षैकप्रमाणकत्वाद् एकैको ऽपि पशुर् अव्यवधानेन पदार्थानुष्ठानम् आक्षिपति। पदार्थश् च तत्सन्निधावात्मनो ऽनुष्ठानम्। अत उभयाकाङ्क्षया क्रमनियमो जायमानः प्राकरणिको भवति। मुख्यक्रमेण चांशानां क्रमनियमो यथा -- सारस्वतौ भवत इति युगपदुत्पन्नयोः स्त्रीपुंदेवतयोः कर्मणोर् याज्याक्रमेणानुष्ठाने ऽवगते ऽङ्गेषु क्रमापेक्षायां मुख्यक्रमेणैव क्रमो नियम्यते। न ह्य् अङ्गानां प्रधानकालाद् बहिर्भावो ऽस्ति। साङ्गं प्रधानम् ऐकशब्द्याद् इति वक्ष्यति। सो ऽयं वाक्येनैव क्रमनियमः। साङ्गं हि प्रधानम् एकवाक्यचोदितम् एकोपक्रमावसानम् इति प्रधानक्रमेणैवाङ्गानां क्रमनियमो जायते। अत्रापि श्रुत्यादिर् एव प्रमाणगणः। एवमधिकारविचारादाव् अपि शेषशेषिप्रपञ्चार्थत्वात् शेषलक्षणोक्तान्य् एव श्रुत्यादीनि सिद्धान्तस्थितिहेतुतया दर्शयितव्यानीति। यथा तावदाद्य एव स्वर्गकामो यजेतेति यागस्वर्गयोः कः शेषः को वा शेषीति चिन्तायां द्रव्याणां कर्मसंयोगे गुणत्वेनाभिसम्बन्धः (६।१।१) इति स्वर्गस्य यागशेषतया लिङ्गबलेन पूर्वपक्षः परिगृहीतः। तद् धि भूतस्य द्रव्यस्य सामर्थ्यं यद् भाव्यं कर्म निष्पादयति। द्रव्यं च स्वर्हः, स्रक्चन्दनवासस्सु तत्प्रयोगात् सूक्ष्माणि वासांसि स्वर्ग इति यथा। अतो द्रव्यम् एव कर्मार्थं, कामपदसम्बन्धश् च साधनविषयतया दर्शयितव्यः। यो हि यदर्थी स तत्साधनम् अपि कामयत एवेति लिङ्गबलेन पूर्वपक्षिते विधिश्रुतिबलात् सिद्धान्तितम्। विधिर् हि चेतनप्रवर्तनात्मकः। न चानर्थे पुरुषः प्रवर्तयितुं शक्यते इति यागार्थे स्वर्गे कर्मासाधकम् आपद्यते। यथोक्तम् असाधकं तु तादर्थ्यात् (६।१।२) इति। अतो विधेः प्रवर्तनाशक्तिर् मा व्याघानीति कर्मैव स्वर्गार्थम्। २,३१ न च द्रव्यं स्वर्गः। अन्वयव्यतिरेकाभ्यां प्रीतिवचनत्वावगमात्। तद् एव हि द्रव्यम् अप्रीतिकरं न स्वर्गशब्देनोपचरन्तो दृश्यन्ते इति प्रीत्यन्वयव्यतिरेकानुविधायित्वात् स्वर्गपदं तद्वचनम् इति निश्चीयते। न च सर्वस्येष्टतमा प्रीतिर् अन्यनिष्पत्तये भवतीति साम्प्रतम्। अतो यद् एव किञ्चित् प्रीत्या समभिव्याहृतं तत् तदर्थम् एवेति लिङ्गम् अपि विपरीतम्। अतः सिद्धं यागः स्वर्गार्थ इति सिद्धश् चाधिकार इति। परस्ताद् अपि शेषभूतस्यैव कर्तुस् तत्राधिकारो दर्शयिष्यत इति श्रुत्यादिबलेनैवाधिकारलक्षणे ऽपि सिद्धान्तस्थितिः। उत्तरषट्के तु शेषा एव किं सर्वत्रोपदेशेनैव सम्बध्यन्ते, अथ यथा प्रकृति व्यवतिष्ठन्त इति श्रुत्यादिबलेनैव निर्णेष्यन्ते। औपदेशिके हि धर्मसम्बन्धे नातिदेशः सिध्यति, पारिप्लवा हि तदा धर्मा भवेयुः। तद् इहातिदेशोपोद्धातेनैव सप्तमाद्ये यज्यपूर्वप्रयुक्तत्वं विचारितं यज्युद्देशेन धर्मविधानात् यजेश् च सामान्यवचनत्वात् सर्वत्रेति प्राप्तम्, न च दर्शपूर्णमासपदं नियामकं, परिसंख्यानाद् विशिष्टोद्देशेन विशिष्टानुवादाद् इति प्राप्ते निरूपितं - नात्र दर्शपूर्णमासाभ्यां स्वर्गकामो यजेतेति यागोद्देशेनाङ्गानि विधीयन्ते, किं तर्हि, साङ्गप्रधानविशिष्टापूर्वभावनैव चोद्यते। पश्चात् त्व् एकभावनापरिगृहीतानाम् अङ्गानां प्रधानानां चारुणैकहायनीवत् परस्परान्वयसिद्धिः। भिध्यन्ते च शब्दान्तरादिभिः प्रतिप्रकरणम् अपूर्वभावनेति कुतो धर्मसङ्करः। सेयं श्रुत्यादिप्रमाणकविनियोगपरामर्शाद् एव व्यवस्था सिध्यति। यदा ह्य् अपूर्वभावनान्वयगर्भो विनियोगो धर्माणां न यागसामान्योद्देशेनेति सिद्धं भवति, तदा व्यवस्था सिध्यति। तत्सिद्ध्या चाश्रुतेतिकर्तव्यताकेषु सौर्यादिषु विध्यन्तापेक्षायां सामान्यातिदेशसिद्धौ प्रत्यक्षवचननामाव्यक्तचोदनातदवयवद्रव्यदेवतासामान्यबाहुल्येन विशेषातिदेशसिद्धिः। यथेष्टौ समानम् इतरत् श्येनेनेति श्येनवैशेषिकाणां वाचनिको ऽतिदेशः। मासम् अग्निहोत्रं जुहोतीति कुण्डपायिनामयने होमनाम्ना नित्याग्निहोत्रधर्मातिदेशः। एकाहाहीनसत्राणाम् अव्यक्तचोदनाचोदितत्वेन सोमसादृश्यात् तद्धर्मातिदेशः इत्यादि दर्शयितव्यम्। सर्वश् चायम् अतिदेशः श्रुत्या विनियोगानुसारेणैव शेषाणां सिध्यतीति तत्प्रमाणगणकारित एव। ऊहो ऽपि षोढा विभक्तः। प्राकृतोपदेशानुसारेणैव मन्त्रादीनां सिध्यतीति सो ऽपि श्रुत्यादिप्रमाणक एव। सो ऽपि ह्य् अपूर्वार्थो धर्मविनियोग इति सिद्धे सेत्स्यति। अत २,३२ एवापूर्वप्रयुक्तिर् आद्ये साधिता। बाधो ऽपि श्रुत्यादिप्रमाणानुसारेणैव। तत्रापि प्राकृतशास्त्रातिदेशात् सर्वानुष्ठानेन पूर्वपक्षिते उपकारप्रधानत्वाद् अतिदेशस्य तदभावे ऽन्यतो वा तल्लाभे प्रतिषेधेन वा बाधो वक्ष्यते। यथा कृष्णलचराव् अवघातस्य, खलेवालीशराभ्यां यूपबर्हिषोर् इत्यादि दर्शयितव्यम्। एतद् अपि प्रकृताव् एवोपकारपर्यन्तश्रुत्यादिविनियोग इति निर्णीयते। (?सिध्यति) एतावांस् तु विशेषः -- प्रकृतौ पदार्थपरिग्रहपुरस्सर्युपकारकल्पना, प्राक् तदसिद्धेः। विकृतौ तु प्रकृतिपरिकल्पितोपकारसन्दर्शनेन तत्परिग्रहपुरस्सरं पदार्थपरिग्रहः। स एव हि विधिनापेक्ष्य्ते। स तु प्रकृतावसिद्धो (ऽपि) कल्पयित्वा गृह्यते। विकृतौ च प्रकृतिसिद्ध एवोपादीयत इति। अत एव शास्त्रपदार्थयोर् अनतिदेशः, तयोर् विध्यनपेक्षितत्वाद् इति। तन्त्रावापलक्षणे ऽपि विशेषा एव प्रधानानां किं तन्त्रेणोपकारका उतावृत्त्येति शेषाणाम् एव विचार्यमाणत्वात् तत्प्रमाणगणानुसारी निर्णयो दर्शयितव्यः। तत्र हि देशकालफलादीनां तन्त्रसम्बन्ध आग्नेयादीन् प्रति प्रयाजादीनां तन्त्रानुष्ठाने हेतुर् भविष्यति। स च श्रुत्यादिप्रमाणक एवेति तत्रापि स एव प्रमाणगणः। प्रसङ्गलक्षणे ऽपि पश्वर्थानुष्ठितानां प्रयाजादिशेषाणां पशुतन्त्रमध्यपातिपुरोडाशोपकारकत्वं देशादितन्त्रनिबन्धनम् एवेति पूर्ववत् प्रमाणगणः। अत एव भाष्यकारेण प्रथमसूत्रे दशाध्याय एव शेषलक्षणशब्दः प्रयुक्तः। यो ऽपि वचनव्यक्तिभेदेन पूर्वपक्षसिद्धान्तविभागः यथा स्वर्गकामो यजेतेति स्वर्गकामो यागं कुर्याद् इति पूर्वः पक्षः यागेन स्वर्गं कुर्याद् इति सिद्धान्त इति, सो ऽपि नार्थशून्यासु बुद्धिषु सिध्यति। कर्मभ्यश् च दर्शपूर्णमासकारीर्यादिभ्यः परलोके इहलोके भवत्स्वर्गवृष्ट्यादिफलसम्बन्धो बाह्याश्रय एव, असति तस्मिन् द्वैविध्यानुपपत्तेः। अतः सर्वम् इदं बाह्यार्थसिद्धाव् असत्याम् अयुक्तम् आपद्येतेति तदुपपादनाय धर्मार्थिभिर् मीमांसकैर् लोकप्रसिद्धैः प्रत्यक्षादिभिः प्रमाणैः पूर्वोत्तरपक्षविभागेनार्थस्य सदसद्भावयोर् यत्नः कार्यः। पूर्वपक्षविशुद्धा हि बुद्धिः सिद्धान्तकरी भवति। अतो ऽनुमानेनैवार्थापह्नवपूर्वपक्षं कृत्वा प्रत्यक्षेण तत्सद्भावसिद्धान्तो दर्शयितव्यः। सर्वश् चायं प्रयासः सकललौकिकवैदिकक्रियां २,३३ प्रति तत्सिद्ध्यर्थम् इति यावत्। अन्यथा सर्वार्थक्रियाणाम् उच्छेदो भवेत्। अतः प्रयोजनवद् बाह्यार्थप्रतिपादनम्। अक्रियाङ्गस्य तु प्रतिपादितस्याप्य् अनर्थ(त्व)म् एवेति क्रियां प्रतीति युक्तम् एवेति
iti. yat tu viniyogānarthakyam uktaṃ, tan na. arthavādārthatvād vākyasya. prathanaṃ hi tatra śrūyate. īdṛśam idaṃ prathanaṃ praśastaṃ yat kriyamāṇam anena mantreṇa kriyata iti. so 'yaṃ vidhyarthavādamantrāṇām artho nāsati bāhye 'rthe sidhyati. tathā udbhidā yajeta paśukāmaḥ ity udāhṛtya vicāritaṃ kim ayaṃ guṇavidhiḥ uta karmanām adheyam iti saṃśayya, pravṛttiviśeṣakaratayā guṇavidhir iti pūrvapakṣitam. guṇaṃ hi vidadhatāṃ pravṛttiviśeṣakaratvam. itarathā nāmamātram anarthakam. śaknuvanti codbhedanakriyāyogavaśena kiñcit khanitrādyartham abhidhātum iti guṇavidhaya iti prāpte uktaṃ - na guṇavidhayaḥ. karmasamānādhikaraṇā hy ete, tṛtīyānirdeśāt. karma khalv iha udbhidā yajeta paśukāmaḥ iti paśubhāvanākaraṇatvenābhihitaṃ yajeta paśukāma iti. kim uktaṃ, yāgena paśūn bhāvayed iti. ata udbhidā yāgeneti vyaktam eva sāmānādhikaraṇyam. guṇavidhau tu yāgasyodbhittvābhāvād udbhidvatā yāgeneti matvarthalakṣaṇayā sāmānādhikaraṇyaṃ syāt. tatra ca lakṣaṇaiva doṣaḥ. nanv evaṃ vrīhibhir yajetety evamādāv api bhāvanākaraṇena yajinā samabhivyāhṛtā vrīhyādiśabdāḥ karmanām adheyatāṃ pratipadyeran. na. teṣāṃ nirūḍhārthatvāt. ajñātasandigdhārthasya hi padasya prasiddhasāmānādhikaraṇyād evārtho niścīyate. nirūḍhaṃ tu svārthān na pracyāvayituṃ śakyate. āha ca -- padam ajñātasandigdhaṃ prasiddhair apṛthakśruti | nirṇīyate nirūḍhaṃ tu na svārthād apanīyate || 2,27 iti. ataḥ paśūnām udbhedanaṃ prakāśanam anena karmaṇā kriyate iti yogād udbhicchabdena karmābhidhīyate. guṇaphalasambandhavidhānenāmnātānām apy upayogo 'stīti nānarthakyam. ataḥ siddhaṃ karmanām adheyatayaivañjātīyakānāṃ kriyopayoga iti. citrādiśabdānāṃ nāmadheyatvahetavo vistarabhayān nānukramyante. kvacit karmaṇaḥ prāpakaśabdāntarābhāvād guṇavidhitvam eva. yathā āgneyo 'ṣṭākapāla ity āgneya iti saguṇakarmavidhāyinaḥ śabdasya. na hi tatra dravyadevatāsambandhavidhānāt prāk karmaṇo rūpam avagamyate yasyāgneyaśabdo nāmadheyaṃ bhaved ityevamādi nāmadheyapādoktam ādiśabdenānukrāntaṃ veditavyam adhyāyāntam. yāvatsmṛtipādoktārtho 'py anenaivānuktānto veditavyaḥ. pratyakṣavedopayogapratipādanaprasaṅgena cārthavādādyupayogānantaraṃ nāmadheyapādārtho 'nukrāntaḥ. tatrādiśabdenānukrāntaḥ smṛtipādārthaḥ. tathā hi -- aśrūyamāṇavedānaṣṭakādīn udāhṛtya teṣāṃ dharmādharmatvasaṃśaye, dharmasya śabdamūlatvādaśabdam anapekṣyaṃ syāt (1.3.1.) iti pakṣaṃ parigṛhya vedamūlatayā siddhāntitaṃ - sarvāḥ smṛtayo hi nāsati pūrvajñāne ātmānaṃ labhante. pūrvajñānaṃ ca mūlabhūtaṃ vibhramo vā syāt, pratyakṣānubhavo vā, pauruṣeyāgamajanyaṃ vā, vipralambho vā, codanājanitaṃ vā. tatra tāvad bhrāmyatām āptānāṃ manvādīnāṃ smṛtinibandhanapraṇayanam ayuktam. te hi tāvad ṛṣayo bhrāmyantīty etad eva durbhaṇam. bhrāmyatāṃ tu yanmahāprabandharacanaṃ tat smṛtibhyaś cādyayāvadāryaiḥ paśyadbhiḥ pari(?graha/gṛhyate) iti naitad utprekṣitum api śakyam. anubhavaś cātīndriyagocaraḥ pratyakṣasūtre nirākṛtaḥ. puruṣavākyam apy asambhavanmūlam apramāṇam eva. vipralambho 'pi bhrāntivannirākāryaḥ. codanā tu sambhavadvedasaṃyogināṃ traivarṇikānāṃ smṛtimūlaṃ bhavatīti tatkalpanaiva laghīyasīti. nanv evam agnihotrādicodanāvadaṣṭakādicodanā api kiṃ nopalabhyante. nedam anupapannam. viprakīrṇānekaśākhāśrayā hi śrutayaḥ kratupuruṣārthopadeśasaṅkīrṇāḥ pramādyadbhir adyatanair na vivicyopalabhyanta iti kiṃ nopapadyante. ato yad aśrūyamāṇam apy aṣṭakādidharmasya nimittaṃ codaneti siddham aṣṭakādayo dharmā iti. tad evaṃ pratyakṣaśrutyaviruddhābhyaḥ śrutyanumānam. pratyakṣaśrutivirodhe tu na śrutir anumātuṃ śakyata iti virodhādhikaraṇe 2,28 uktam. upariṣṭāc cācāraprāmāṇyaṃ smṛtyā ca saha balābalaparīkṣetyādi darśayitavyam. sarveṣu ca bhedādilakṣaṇeṣu svapramāṇagaṇaiḥ śabdāntarādibhiḥ siddhāntasthiti(?ḥ/r) sati bāhye 'rthe na sambhavati. somena yajeta dākṣiṇāni juhoti hiraṇyamātreyāya dadātīti yāgahomadānabhāvanānāṃ śabdabhedād eva bhedo vakṣyate. tathā ca samidho yajatītyevamādīnāṃ pañcānāṃ prayājānām asaty api śabdabhede 'bhyāsānarthakyaprasaṅgād bhedo darśitaḥ. tisra āhutīr juhotīti pṛthaktvaniveśitvāt saṃkhyāyā āhutīnāṃ bhedo darśitaḥ. athaiṣa jyotir etena yajeteti jyotiṣṭomāj jyotir iti saṃjñāntareṇa karmabhedaḥ. vaiśvadevyām ikṣā vājibhyo vājinam iti ca utpattiśiṣṭaśrautām ikṣāvirodhād vājinaṃ vaiśvadeve karmaṇi niveśam alabhamānaṃ svāśrayaṃ yāgāntaram upakalpayati. so 'yaṃ vājinaguṇād bhedaḥ. kuṇḍapāyināmayane māsam agnihotraṃ juhotīti naiyamikāgnihotrāt prakaraṇāntareṇa kauṇḍapāyinahomasya bhedaḥ. tad evaṃ ṣoḍhā karmabhedo dvitīye. anyadupoddhātādinā. tṛtīye tu pārārthyalakṣaṇasya śeṣatvasya ṣoḍhaiva viniyogasiddhir uktā. yathā tāvadaruṇimnaḥ tṛtīyāśrutyā kriyāṅgabhāve sāmānyato 'vagate aruṇayā krīṇātīti kriyāviśeṣalābho vākyāt. liṅgaviniyogas tu -- yathāprakaraṇāmnānasāmarthyāvadhṛtasāmānyāṅgabhāvasya bahirmantrasya sāmarthyāparanāmno liṅgād barhirlavane viniyogaḥ. prakaraṇaviniyogas tu -- iṣṭiprakaraṇāmnātānāṃ prayājādīnāṃ sādhyākāṅkṣiṇām upakārākāṅkṣiṇyā tayā saha sambandhaḥ. ubhayākāṅkṣālakṣaṇam eva hi prakaraṇam ācakṣmahe. kramaviniyogas tu -- prākṛtopakāranirākāṅkṣāyāṃ vikṛtau sannidhisamāmnātānām aṅgānām. na hi tatra prakaraṇaviniyogaḥ sambhavati. ubhayagāminī hy ākāṅkṣā prakaraṇam. anākāṅkṣā ceha vikṛtiḥ prākṛtopakāradvārapariprāptapadārthapariṣvaktā vaikṛtam eva tv aṅgānāṃ sannihitasamāmnānam anarthakaṃ mā bhūd iti tatsannidhipāṭhād eva teṣāṃ tatra viniyogo niścīyate. samākhyāviniyogas tu -- ādhvaryavasamākhyāteṣu padārtheṣv adhvaryor anenāmī kartavyā iti. caturthe 'pi śrutyādibhir evāvadhṛtāṅgāṅgibhāvānāṃ dadhyānayanām ikṣādīnāṃ prayojyaprayojakatve vakṣyete. yad dhi śrutyādibhir yaccheṣatayāvagamyate tat tena 2,29 prayujyata iti sthāpitam. tad iha prayuktilakṣaṇe 'pi śrutyādir eva pramāṇagaṇaḥ, śeṣalakṣaṇe 'pi śeṣiṇāṃ śeṣāṇām ubhayeṣāṃ vā kramaniyamaḥ kiñcinmātraviśeṣabhinnaśrutyādibhir eva kriyate. yathā tāvad adhvaryur gṛhapatiṃ dīkṣayitvā brahmāṇaṃ dīkṣayati iti ktvāśrutyā kramaniyamaḥ. agnihotraṃ juhoti yavāgūṃ pacati iti pāṭhād anyādṛśe 'pi krame 'vagamyamāne 'rthāt kramaniyamaviparyayaḥ. homottarakālaṃ hi pākaḥ kriyamāṇo 'narthakaḥ syāt. homo 'pi nāsati haviṣi saṃ(pra)vartata ity arthāt pākottarakālam eva niścīyate. tad idaṃ liṅgam evārtha iti nāmamātrabhinnaṃ, sāmarthyam eva hi bhāvānāṃ liṅgam iti niścīyate. ihāpi dravyakriyayoḥ śaktinirīkṣaṇād eva kramaniyamāvadhāraṇam. pañcānāṃ tu prayājādīnāṃ samidho yajatītyevamādīnāṃ pāṭhāt kramaniyamaḥ. bahūnāṃ hi padārthānāṃ yugapadekena kartrānuṣṭhātum aśakter avaśyambhāvini krame 'vagamādhīnatvād anuṣṭhānasya krameṇa tūcyamāneṣu tathaivāvagamād anuṣṭhāne kramāpekṣāyāṃ sa eva kramo niścīyate. pratītahānāpratītopādānayor anupapatteḥ. ayam api pāṭhāparanāmnā sthānenaiva kramaniyamaḥ. sthānāt kramaniyamo yathā -- sādyaske karmaṇi saha paśūnālabhate ity agnīṣomīyasavanīyānubandhyānāṃ savanīyasthāne sahopalambhe codite kaḥ prathamaṃ prayujyatām ity apekṣāyāṃ sthānāt savanīyo buddho bhavan prathamaṃ niyamyate. tasya tadanuṣṭhānasthānam. so 'yam anuṣṭhānasādeśyalakṣaṇaḥ kramaḥ. pūrvaṃ tu pāṭhasādeśyalakṣaṇaḥ. dvedhā ca tārtīyakramo vibhaktaḥ. yathoktaṃ - tatra kramo dvidhaiveṣṭo deśasāmānyalakṣaṇaḥ | pāṭhānuṣṭhānasādeśyād viniyogasya kāraṇam || iti. pravṛttyā ca kramaniyamo yathā -- saptadaśa prājāpatyān paśūnālabhate iti coditeṣu paśuṣu codakaprāptānāṃ prokṣaṇādīnāṃ yatrakvacid ekasminn ekasyānuṣṭhāne dvitīyādiṣu kiṃ prathamapravṛttyaiva athāniyama iti saṃśaye niyamakāraṇābhāvāt prathamapravṛtteś cāniyamātmakatvād aniyamaḥ iti pakṣaṃ parigṛhya prathamapravṛttyaiva niyamo darśitaḥ. prayogavacanabalena hi paśūnāṃ yaugapadyam avadhāritam. tac cāvarjanīyād vilambanān na vyavadhānāntaram aṅgānām anujānīte. sāṅgeṣu hi paśuṣu yugapadanuṣṭhātavyatayā coditeṣv apīśvareṇāpi tathā sambhāvayitum 2,30 aśakteḥ avarjanīyavyavadhānaṃ tu vidher anumataṃ bhavati. tatra ca vaiṣamyakāraṇābhāvāt sarveṣāṃ sadṛśam evāṅgavyavadhānam. prathamapadārthakartrānuṣṭhite tadaivāṅgāntarānuṣṭhānāya tenaiva pradhānena codyamāne kartari prayogavacanapramāṇakayaugapadyabalena paśvantarair ākṛṣyamāṇe tatpadārthamātrasya paśvantareṣv anuṣṭhānaṃ sa paśuḥ pratīkṣate. tadante ca dvitīyapadārthānuṣṭhānāya kartāram ākarṣati. evaṃ saptadaśānāṃ paśūnāṃ ṣoḍaśabhir ekaikasya vyavadhānaṃ vidhyanumatam. vyavadhānaviśeṣas tu viśeṣāgrahaṇān nāśrayituṃ śakyam. ato dvitīyādīnām apy anuṣṭhānaṃ tata evārabhyeti siddhāntāt kramaniyamaḥ. ayaṃ ca prakaraṇāntargata evākāṅkṣaikapramāṇakatvād ekaiko 'pi paśur avyavadhānena padārthānuṣṭhānam ākṣipati. padārthaś ca tatsannidhāvātmano 'nuṣṭhānam. ata ubhayākāṅkṣayā kramaniyamo jāyamānaḥ prākaraṇiko bhavati. mukhyakrameṇa cāṃśānāṃ kramaniyamo yathā -- sārasvatau bhavata iti yugapadutpannayoḥ strīpuṃdevatayoḥ karmaṇor yājyākrameṇānuṣṭhāne 'vagate 'ṅgeṣu kramāpekṣāyāṃ mukhyakrameṇaiva kramo niyamyate. na hy aṅgānāṃ pradhānakālād bahirbhāvo 'sti. sāṅgaṃ pradhānam aikaśabdyād iti vakṣyati. so 'yaṃ vākyenaiva kramaniyamaḥ. sāṅgaṃ hi pradhānam ekavākyacoditam ekopakramāvasānam iti pradhānakrameṇaivāṅgānāṃ kramaniyamo jāyate. atrāpi śrutyādir eva pramāṇagaṇaḥ. evamadhikāravicārādāv api śeṣaśeṣiprapañcārthatvāt śeṣalakṣaṇoktāny eva śrutyādīni siddhāntasthitihetutayā darśayitavyānīti. yathā tāvadādya eva svargakāmo yajeteti yāgasvargayoḥ kaḥ śeṣaḥ ko vā śeṣīti cintāyāṃ dravyāṇāṃ karmasaṃyoge guṇatvenābhisambandhaḥ (6.1.1) iti svargasya yāgaśeṣatayā liṅgabalena pūrvapakṣaḥ parigṛhītaḥ. tad dhi bhūtasya dravyasya sāmarthyaṃ yad bhāvyaṃ karma niṣpādayati. dravyaṃ ca svarhaḥ, srakcandanavāsassu tatprayogāt sūkṣmāṇi vāsāṃsi svarga iti yathā. ato dravyam eva karmārthaṃ, kāmapadasambandhaś ca sādhanaviṣayatayā darśayitavyaḥ. yo hi yadarthī sa tatsādhanam api kāmayata eveti liṅgabalena pūrvapakṣite vidhiśrutibalāt siddhāntitam. vidhir hi cetanapravartanātmakaḥ. na cānarthe puruṣaḥ pravartayituṃ śakyate iti yāgārthe svarge karmāsādhakam āpadyate. yathoktam asādhakaṃ tu tādarthyāt (6.1.2) iti. ato vidheḥ pravartanāśaktir mā vyāghānīti karmaiva svargārtham. 2,31 na ca dravyaṃ svargaḥ. anvayavyatirekābhyāṃ prītivacanatvāvagamāt. tad eva hi dravyam aprītikaraṃ na svargaśabdenopacaranto dṛśyante iti prītyanvayavyatirekānuvidhāyitvāt svargapadaṃ tadvacanam iti niścīyate. na ca sarvasyeṣṭatamā prītir anyaniṣpattaye bhavatīti sāmpratam. ato yad eva kiñcit prītyā samabhivyāhṛtaṃ tat tadartham eveti liṅgam api viparītam. ataḥ siddhaṃ yāgaḥ svargārtha iti siddhaś cādhikāra iti. parastād api śeṣabhūtasyaiva kartus tatrādhikāro darśayiṣyata iti śrutyādibalenaivādhikāralakṣaṇe 'pi siddhāntasthitiḥ. uttaraṣaṭke tu śeṣā eva kiṃ sarvatropadeśenaiva sambadhyante, atha yathā prakṛti vyavatiṣṭhanta iti śrutyādibalenaiva nirṇeṣyante. aupadeśike hi dharmasambandhe nātideśaḥ sidhyati, pāriplavā hi tadā dharmā bhaveyuḥ. tad ihātideśopoddhātenaiva saptamādye yajyapūrvaprayuktatvaṃ vicāritaṃ yajyuddeśena dharmavidhānāt yajeś ca sāmānyavacanatvāt sarvatreti prāptam, na ca darśapūrṇamāsapadaṃ niyāmakaṃ, parisaṃkhyānād viśiṣṭoddeśena viśiṣṭānuvādād iti prāpte nirūpitaṃ - nātra darśapūrṇamāsābhyāṃ svargakāmo yajeteti yāgoddeśenāṅgāni vidhīyante, kiṃ tarhi, sāṅgapradhānaviśiṣṭāpūrvabhāvanaiva codyate. paścāt tv ekabhāvanāparigṛhītānām aṅgānāṃ pradhānānāṃ cāruṇaikahāyanīvat parasparānvayasiddhiḥ. bhidhyante ca śabdāntarādibhiḥ pratiprakaraṇam apūrvabhāvaneti kuto dharmasaṅkaraḥ. seyaṃ śrutyādipramāṇakaviniyogaparāmarśād eva vyavasthā sidhyati. yadā hy apūrvabhāvanānvayagarbho viniyogo dharmāṇāṃ na yāgasāmānyoddeśeneti siddhaṃ bhavati, tadā vyavasthā sidhyati. tatsiddhyā cāśrutetikartavyatākeṣu sauryādiṣu vidhyantāpekṣāyāṃ sāmānyātideśasiddhau pratyakṣavacananāmāvyaktacodanātadavayavadravyadevatāsāmānyabāhulyena viśeṣātideśasiddhiḥ. yatheṣṭau samānam itarat śyeneneti śyenavaiśeṣikāṇāṃ vācaniko 'tideśaḥ. māsam agnihotraṃ juhotīti kuṇḍapāyināmayane homanāmnā nityāgnihotradharmātideśaḥ. ekāhāhīnasatrāṇām avyaktacodanācoditatvena somasādṛśyāt taddharmātideśaḥ ityādi darśayitavyam. sarvaś cāyam atideśaḥ śrutyā viniyogānusāreṇaiva śeṣāṇāṃ sidhyatīti tatpramāṇagaṇakārita eva. ūho 'pi ṣoḍhā vibhaktaḥ. prākṛtopadeśānusāreṇaiva mantrādīnāṃ sidhyatīti so 'pi śrutyādipramāṇaka eva. so 'pi hy apūrvārtho dharmaviniyoga iti siddhe setsyati. ata 2,32 evāpūrvaprayuktir ādye sādhitā. bādho 'pi śrutyādipramāṇānusāreṇaiva. tatrāpi prākṛtaśāstrātideśāt sarvānuṣṭhānena pūrvapakṣite upakārapradhānatvād atideśasya tadabhāve 'nyato vā tallābhe pratiṣedhena vā bādho vakṣyate. yathā kṛṣṇalacarāv avaghātasya, khalevālīśarābhyāṃ yūpabarhiṣor ityādi darśayitavyam. etad api prakṛtāv evopakāraparyantaśrutyādiviniyoga iti nirṇīyate. (?sidhyati) etāvāṃs tu viśeṣaḥ -- prakṛtau padārthaparigrahapurassaryupakārakalpanā, prāk tadasiddheḥ. vikṛtau tu prakṛtiparikalpitopakārasandarśanena tatparigrahapurassaraṃ padārthaparigrahaḥ. sa eva hi vidhināpekṣyte. sa tu prakṛtāvasiddho ('pi) kalpayitvā gṛhyate. vikṛtau ca prakṛtisiddha evopādīyata iti. ata eva śāstrapadārthayor anatideśaḥ, tayor vidhyanapekṣitatvād iti. tantrāvāpalakṣaṇe 'pi viśeṣā eva pradhānānāṃ kiṃ tantreṇopakārakā utāvṛttyeti śeṣāṇām eva vicāryamāṇatvāt tatpramāṇagaṇānusārī nirṇayo darśayitavyaḥ. tatra hi deśakālaphalādīnāṃ tantrasambandha āgneyādīn prati prayājādīnāṃ tantrānuṣṭhāne hetur bhaviṣyati. sa ca śrutyādipramāṇaka eveti tatrāpi sa eva pramāṇagaṇaḥ. prasaṅgalakṣaṇe 'pi paśvarthānuṣṭhitānāṃ prayājādiśeṣāṇāṃ paśutantramadhyapātipuroḍāśopakārakatvaṃ deśāditantranibandhanam eveti pūrvavat pramāṇagaṇaḥ. ata eva bhāṣyakāreṇa prathamasūtre daśādhyāya eva śeṣalakṣaṇaśabdaḥ prayuktaḥ. yo 'pi vacanavyaktibhedena pūrvapakṣasiddhāntavibhāgaḥ yathā svargakāmo yajeteti svargakāmo yāgaṃ kuryād iti pūrvaḥ pakṣaḥ yāgena svargaṃ kuryād iti siddhānta iti, so 'pi nārthaśūnyāsu buddhiṣu sidhyati. karmabhyaś ca darśapūrṇamāsakārīryādibhyaḥ paraloke ihaloke bhavatsvargavṛṣṭyādiphalasambandho bāhyāśraya eva, asati tasmin dvaividhyānupapatteḥ. ataḥ sarvam idaṃ bāhyārthasiddhāv asatyām ayuktam āpadyeteti tadupapādanāya dharmārthibhir mīmāṃsakair lokaprasiddhaiḥ pratyakṣādibhiḥ pramāṇaiḥ pūrvottarapakṣavibhāgenārthasya sadasadbhāvayor yatnaḥ kāryaḥ. pūrvapakṣaviśuddhā hi buddhiḥ siddhāntakarī bhavati. ato 'numānenaivārthāpahnavapūrvapakṣaṃ kṛtvā pratyakṣeṇa tatsadbhāvasiddhānto darśayitavyaḥ. sarvaś cāyaṃ prayāsaḥ sakalalaukikavaidikakriyāṃ 2,33 prati tatsiddhyartham iti yāvat. anyathā sarvārthakriyāṇām ucchedo bhavet. ataḥ prayojanavad bāhyārthapratipādanam. akriyāṅgasya tu pratipāditasyāpy anartha(tva)m eveti kriyāṃ pratīti yuktam eveti
Sanskrit only: no published translation is held for this verse.