स्त्री-ग्रहणेन टाबादि-प्रत्ययान्ताः शब्दा गृह्यन्ते । स्त्रीभ्यो ऽपत्ये ढक् प्रत्ययो भवति । सौपर्णेयः । वैनतेयः । स्त्रीप्रत्यय-विज्ञापनाद् असत्यर्थ-ग्रहणे इह न भवति, इडबिडो ऽपत्यम् ऐडविडः, दरदो ऽपत्यम् दारदः इति । वडवाया वृषे वाच्ये । वाडवेयो वृषः स्मृतः । अपत्ये प्राप्तः ततो ऽपकृष्य विधीयते । तेन अपत्ये वाडवः इति । अण् क्रुञ्चाकोकिलात् स्मृतः । क्रुञ्चाया अपत्यं क्रौञ्चः । कौकिलः ॥ द्व्यचः
strī-grahaṇena ṭābādi-pratyayāntāḥ śabdā gṛhyante / strībhyo 'patye ḍhak pratyayo bhavati / sauparṇeyaḥ / vainateyaḥ / strīpratyaya-vijñāpanād asatyartha-grahaṇe iha na bhavati, iḍabiḍo 'patyam aiḍaviḍaḥ, darado 'patyam dāradaḥ iti / vaḍavāyā vṛṣe vācye / vāḍaveyo vṛṣaḥ smṛtaḥ / apatye prāptaḥ tato 'pakṛṣya vidhīyate / tena apatye vāḍavaḥ iti / aṇ kruñcākokilāt smṛtaḥ / kruñcāyā apatyaṃ krauñcaḥ / kaukilaḥ // dvyacaḥ
Sanskrit only: no published translation is held for this verse.