Library·Patanjali: Vyakaranamahabhasya·8

Patanjali: Vyakaranamahabhasya 8

क्अ इइइ,४२६।२०-२२ रो व्,४३९ किमर्थम् इदम् उच्यते न खरवसानयोः विसर्जनीयः इति एव सिद्धम् । नियमार्थः अयम् आरम्भः । रोः एव सुपि न अन्यस्य सुपि । क्व मा भूत् । गीर्षु धूर्षु ।

KA III,426.20-22 Ro V,439 kimartham idam ucyate na kharavasānayoḥ visarjanīyaḥ iti eva siddham . niyamārthaḥ ayam ārambhaḥ . roḥ eva supi na anyasya supi . kva mā bhūt . gīrṣu dhūrṣu .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२७।१-१२ रो व्,४४०-४४१ अश्ग्रहणम् अनर्थकम् अन्यत्र अभावात् । अश्ग्रहणम् अनर्थकम् । किम् कारणम् । अन्यत्र अभावात् । न हि अन्यत्र रुः अस्ति अन्यत् अतः अशः । ननु च अयम् अस्ति। छन्दःसु पयःसु इति । किम् पुनः कारणम् सुकारपरः एव उदाह्रियते न पुनः अयम् वृक्षः तत्र प्लक्षः तत्र इति । अस्ति अत्र विशेषः । विसर्जनीये कृते न भविष्यति । इह अपि तर्हि विसर्जनीये कृते न भविष्यति । छन्दःसु पयःस्विति । स्थानिवद्भावात् प्राप्नोति । ननु च इह अपि स्थानिवद्भावात् प्राप्नोति । वृक्षः तत्र प्लक्षः तत्र इति । अनल्विधौ स्थानिवद्भावः । अथ अयम् अल्विधिः स्यात् शक्यम् अश्ग्रहणम् अवक्तुम् । बाढम् शक्यम् । अल्विधिः तर्हि भविष्यति । कथम् । इदम् अस्ति रोरि इति । ततः वक्ष्यामि खरवसानयोः विसर्जनीयः रः । ततः रोः सुपि विसर्जनीयः रः इति एव । उत्तरार्थम् तर्हि अश्ग्रहणम् कर्तव्यम् हलिसर्वेषाम् हलि अशि इति यथा स्यात् । इह मा भूत् : वृक्षवयतेः अप्रत्ययः वृक्षव् करोति ।

KA III,427.1-12 Ro V,440-441 aśgrahaṇam anarthakam anyatra abhāvāt . aśgrahaṇam anarthakam . kim kāraṇam . anyatra abhāvāt . na hi anyatra ruḥ asti anyat ataḥ aśaḥ . nanu ca ayam asti. chandaḥsu payaḥsu iti . kim punaḥ kāraṇam sukāraparaḥ eva udāhriyate na punaḥ ayam vṛkṣaḥ tatra plakṣaḥ tatra iti . asti atra viśeṣaḥ . visarjanīye kṛte na bhaviṣyati . iha api tarhi visarjanīye kṛte na bhaviṣyati . chandaḥsu payaḥsviti . sthānivadbhāvāt prāpnoti . nanu ca iha api sthānivadbhāvāt prāpnoti . vṛkṣaḥ tatra plakṣaḥ tatra iti . analvidhau sthānivadbhāvaḥ . atha ayam alvidhiḥ syāt śakyam aśgrahaṇam avaktum . bāḍham śakyam . alvidhiḥ tarhi bhaviṣyati . katham . idam asti rori iti . tataḥ vakṣyāmi kharavasānayoḥ visarjanīyaḥ raḥ . tataḥ roḥ supi visarjanīyaḥ raḥ iti eva . uttarārtham tarhi aśgrahaṇam kartavyam halisarveṣām hali aśi iti yathā syāt . iha mā bhūt : vṛkṣavayateḥ apratyayaḥ vṛkṣav karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२७।१३-१६ रो व्,४४२ किमर्थम् इदम् उच्यते न लोपः शाकल्यस्य इति एव सिद्धम् । ओकारात् लोपवचनम् नित्यार्थम् । ओकारात् लोपवचनम् क्रियते । नित्यार्थः अयम् आरम्भः ।

KA III,427.13-16 Ro V,442 kimartham idam ucyate na lopaḥ śākalyasya iti eva siddham . okārāt lopavacanam nityārtham . okārāt lopavacanam kriyate . nityārthaḥ ayam ārambhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२७।१७-२१ रो व्,४४२ पदे इति किमर्थम् । तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् । पदे इति शक्यम् अवक्तुम् । कस्मात् न भवति तन्त्रे , उतम् , तन्त्रयुतम् , तन्त्र*उतम् इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । उत्तरार्थम् तर्हि पदग्रहणम् कर्तव्यम् ङमोह्रस्वादचिङमुण्नित्यम् इति अपदे मा भूत् । दण्डिना शकटिना ।

KA III,427.17-21 Ro V,442 pade iti kimartham . tantre , utam , tantrayutam , tantra*utam . pade iti śakyam avaktum . kasmāt na bhavati tantre , utam , tantrayutam , tantra*utam iti . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . uttarārtham tarhi padagrahaṇam kartavyam ṅamohrasvādaciṅamuṇnityam iti apade mā bhūt . daṇḍinā śakaṭinā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२८।१-४ रो व्,४४३ यवलपरे यवलाः वा । यवलपरे हकारे यवलाः वा इति वक्तव्यम् । किय्ह्यः किम् ह्यः । किव्ह्वलयति किम् ह्वलयति । किल्ह्लादयति किम् ह्लादयति ।

KA III,428.1-4 Ro V,443 yavalapare yavalāḥ vā . yavalapare hakāre yavalāḥ vā iti vaktavyam . kiyhyaḥ kim hyaḥ . kivhvalayati kim hvalayati . kilhlādayati kim hlādayati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२८।५-४२९।६ रो व्,४४३-४४४ इह धुडादिषु केचित् पूर्वान्ताः केचित् परादयः । यदि पुनः सर्वे एव पूर्वान्ताः स्युः सर्वे एव परादयः । कः च अत्र विशेषः । धुगादिषु ष्टुत्वणत्वप्रतिषेधः । धुगादिषु सत्सु ष्टुत्वणत्वयोः प्रतिषेधः वक्तव्यः । ष्टुत्वस्य तावत् । श्वलिट्त्साये । मधुलिट्त्साये । ष्टुनाष्टुः इति ष्टुत्वम् प्राप्नोति । परादौ पुनः सति नपदान्ताट्टोरनाम् इति प्रतिषेधः सिद्धः भवति । णत्वस्य । कुर्वन्नास्ते । कृषन्नास्ते । रषाभ्यान्नोणःसमानपदे इत् णत्वम् प्राप्नोति । परादौ पुनः सति पदान्तस्य न इति प्रतिषेधः सिद्धः भवति । सन्तु तर्हि परादयः । परादौ छत्वषत्वविधिप्रतिषेधः । यदि परादयः छत्वम् विधेयम् षत्वम् च प्रतिषेध्यम् । छत्वम् विधेयम् । कुर्वञ्च्छेते । कृषञ्च्छेते । यत् हि तत् शश्छोऽटि इति झयः पदान्तात् इति एवम् तत् । किम् पुनः कारणम् झयः पदान्तात् इति एवम् तत् । इह मा भूत् । पुरा क्रूरस्य विसृपः विरप्शिन् इति । षत्वम् च प्रतिषेध्यम् । प्रत्यङ्क्सिञ्च । उदङ्क्सिञ्च । आदेशप्रत्यययोः इति षत्वम् प्राप्नोति । पूर्वान्ते पुनः सति सात्पदाद्योः इति प्रतिषेधः सिद्धः भवति । तस्मात् सन्तु यथान्यासम् एव केचित् पूर्वान्ताः केचित् परादयः ।

KA III,428.5-429.6 Ro V,443-444 iha dhuḍādiṣu kecit pūrvāntāḥ kecit parādayaḥ . yadi punaḥ sarve eva pūrvāntāḥ syuḥ sarve eva parādayaḥ . kaḥ ca atra viśeṣaḥ . dhugādiṣu ṣṭutvaṇatvapratiṣedhaḥ . dhugādiṣu satsu ṣṭutvaṇatvayoḥ pratiṣedhaḥ vaktavyaḥ . ṣṭutvasya tāvat . śvaliṭtsāye . madhuliṭtsāye . ṣṭunāṣṭuḥ iti ṣṭutvam prāpnoti . parādau punaḥ sati napadāntāṭṭoranām iti pratiṣedhaḥ siddhaḥ bhavati . ṇatvasya . kurvannāste . kṛṣannāste . raṣābhyānnoṇaḥsamānapade it ṇatvam prāpnoti . parādau punaḥ sati padāntasya na iti pratiṣedhaḥ siddhaḥ bhavati . santu tarhi parādayaḥ . parādau chatvaṣatvavidhipratiṣedhaḥ . yadi parādayaḥ chatvam vidheyam ṣatvam ca pratiṣedhyam . chatvam vidheyam . kurvañcchete . kṛṣañcchete . yat hi tat śaścho'ṭi iti jhayaḥ padāntāt iti evam tat . kim punaḥ kāraṇam jhayaḥ padāntāt iti evam tat . iha mā bhūt . purā krūrasya visṛpaḥ virapśin iti . ṣatvam ca pratiṣedhyam . pratyaṅksiñca . udaṅksiñca . ādeśapratyayayoḥ iti ṣatvam prāpnoti . pūrvānte punaḥ sati sātpadādyoḥ iti pratiṣedhaḥ siddhaḥ bhavati . tasmāt santu yathānyāsam eva kecit pūrvāntāḥ kecit parādayaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२९।६-१० रो व्,४४४ अयम् तु खलु शि तुक् छत्वार्थम् नियोगतः पूर्वान्तः कर्तव्यः तत्र कुर्वञ्च्छेते कृषञ्च्छेते इति रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति । न एषः दोषः । श्चुत्वे योगविभागः करिष्यते । इदम् अस्ति क्षुभ्नादिषु न णकारः भवति । ततः स्तोः श्चुना । स्तोः श्चुना सन्निपाते न णकारः भवति । ततः श्चुः । श्चुः च भवति स्तोः श्चुना सन्निपाते ।

KA III,429.6-10 Ro V,444 ayam tu khalu śi tuk chatvārtham niyogataḥ pūrvāntaḥ kartavyaḥ tatra kurvañcchete kṛṣañcchete iti raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti . na eṣaḥ doṣaḥ . ścutve yogavibhāgaḥ kariṣyate . idam asti kṣubhnādiṣu na ṇakāraḥ bhavati . tataḥ stoḥ ścunā . stoḥ ścunā sannipāte na ṇakāraḥ bhavati . tataḥ ścuḥ . ścuḥ ca bhavati stoḥ ścunā sannipāte .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४२९।११-२४ रो व्,४४४-४४६ ङमुटि पदादिग्रहणम् । ङमुटि पदादिग्रहणम् कर्तव्यम् । इह मा भूत् । दण्डिना शकटिना इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । पदात् इति वर्तते । एवम् अपि परमदण्डिना परमच्छत्त्रिणा इति प्राप्नोति । न एषः दोषः । उक्तम् एतत् उत्तरपदत्वे च अपदादिविधौ लुमता लुप्ते प्रत्ययलक्षणम् न भवति इति । एवम् अपि पदात् इति वक्तव्यम् । यत् हि तत् प्रकृतम् प्राक् सुपि कुत्सनात् इति एवम् तत् । एवम् तर्हि ङमः एव अयम् ङमुट् क्रियते । कथम् । पदस्य इति वर्तते ङमः इति च न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । पदान्तस्य ङमः ङमुट् भवति ह्रस्वात् उत्तरस्य अचि इति । यदि ङमः एव ङमुट् क्रियते कुर्वन्नास्ते कृषन्नास्ते रषाभ्यान्नोणःसमानपदे इति णत्वम् प्राप्नोति । पदान्तस्य न इति प्रतिषेधः भविष्यति । पदान्तस्य इति उच्यते न एषः पदान्तः । पदान्तभक्तः पदान्तग्रहणेन ग्राहिष्यते । एवम् अपि न सिध्यति । किम् कारणम् । उक्तम् एतत् न वा पदाधिकारस्य विशेषणत्वात् इति । एवम् तर्हि पदे इति वर्तते । क्व प्रकृतम् । उञि च पदे इति ।

KA III,429.11-24 Ro V,444-446 ṅamuṭi padādigrahaṇam . ṅamuṭi padādigrahaṇam kartavyam . iha mā bhūt . daṇḍinā śakaṭinā iti . tat tarhi vaktavyam . na vaktavyam . padāt iti vartate . evam api paramadaṇḍinā paramacchattriṇā iti prāpnoti . na eṣaḥ doṣaḥ . uktam etat uttarapadatve ca apadādividhau lumatā lupte pratyayalakṣaṇam na bhavati iti . evam api padāt iti vaktavyam . yat hi tat prakṛtam prāk supi kutsanāt iti evam tat . evam tarhi ṅamaḥ eva ayam ṅamuṭ kriyate . katham . padasya iti vartate ṅamaḥ iti ca na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . padāntasya ṅamaḥ ṅamuṭ bhavati hrasvāt uttarasya aci iti . yadi ṅamaḥ eva ṅamuṭ kriyate kurvannāste kṛṣannāste raṣābhyānnoṇaḥsamānapade iti ṇatvam prāpnoti . padāntasya na iti pratiṣedhaḥ bhaviṣyati . padāntasya iti ucyate na eṣaḥ padāntaḥ . padāntabhaktaḥ padāntagrahaṇena grāhiṣyate . evam api na sidhyati . kim kāraṇam . uktam etat na vā padādhikārasya viśeṣaṇatvāt iti . evam tarhi pade iti vartate . kva prakṛtam . uñi ca pade iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३०।१-६ रो व्,४४६ किमर्थम् मयः उत्तरस्य उञः वः वा इति उच्यते न इकः यणचि इति एव सिद्धम् । न सिध्यति । प्रगृह्यः प्रकृत्या इति प्रकृतिभावः प्राप्नोति । यदि पुनः तत्र एव उच्येत इकः यणचि मयः उञः वा इति । न एवम् शक्यम् । इह हि दोषः स्यात् । किम्वावपनम् महत् । मः अनुस्वारः हलि इति अनुस्वारः प्रसज्येत । वत्वे पुनः सति असिद्धत्वात् न भविष्यति ।

KA III,430.1-6 Ro V,446 kimartham mayaḥ uttarasya uñaḥ vaḥ vā iti ucyate na ikaḥ yaṇaci iti eva siddham . na sidhyati . pragṛhyaḥ prakṛtyā iti prakṛtibhāvaḥ prāpnoti . yadi punaḥ tatra eva ucyeta ikaḥ yaṇaci mayaḥ uñaḥ vā iti . na evam śakyam . iha hi doṣaḥ syāt . kimvāvapanam mahat . maḥ anusvāraḥ hali iti anusvāraḥ prasajyeta . vatve punaḥ sati asiddhatvāt na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३०।७-४३१।६ रो व्,४४७-४५० इह कस्मात् न भवति : वृक्षः , प्लक्षः इति । संहितायाम् इति वर्तते । एवम् अपि अत्र प्राप्नोति । किम् कारणम् । परः सन्निकर्षः संहिता इति उच्यते । सः यथा एव परेण परः सन्निकर्षः एवम् पूर्वेण अपि । एवम् तर्हि अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधिष्यते । अथ वा संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते : साधीयः यः परः सन्निकर्षः इति । कः च साधीयः । यः पूर्वपरयोः । यदि एव अनवकाशा अवसानसञ्ज्ञा संहितासञ्ज्ञाम् बाधते अथ अपि संहितासञ्ज्ञायाम् प्रकर्षगतिः विज्ञायते उभयथा दोषः भवति । इष्यन्ते इतः उत्तरम् अवसाने संहिताकार्याणि तानि न सिध्यन्ति । अणः अप्रगृह्यस्य अनुनासिकः इति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् खरवसानयोर्विस्जनीयः इति आह । इतरथा खरवसानयोः सः भवति इति एव ब्रूयात् । तत् च लघु भवति विसर्जनीयस्य सः इति एतत् च न वक्तव्यं भवति । अवश्यम् शर्परेविसर्जनीयः इति अत्र प्रकृतिनिर्देशार्थम् विसर्जनीयग्रहणम् कर्तव्यम् । अथ इदानीम् एतत् अपि रसान्निध्यार्थम् पुरस्तात् अपक्रक्ष्यते खरवसानयोः सः इति अत्र एव एवम् अपि कुप्वोः Xक्कXप्पौ च इति एवमादिना अनुक्रमणेन व्यवच्छिन्नम् भोभगोअघोअपूर्वस्ययोऽशि इति अत्र रुग्रहणम् कर्तव्यम् स्यात् । एवम् अपि एकम् विसर्जनीयग्रहणम् व्याजः भवति । सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः न सर्वस्य विसर्जनीयस्य सत्वम् भवति इति । एवम् अपि अनैकान्तिकम् ज्ञापकम् । एतावत् ज्ञाप्यते न सर्वस्य विजनीयस्य सत्वम् भवति इति तत्र कुतः एतत् इह भविष्यति वृक्षः तत्र प्लक्षः तत्र इति इह न भविष्यति वृक्षः प्लक्षः इति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न अस्य विसर्जनीयस्य सत्वम् भवति इति यत् अयम् शर्परे विसर्जनीयः इति आह । अथ वा हलि इति वर्तते । क्व प्रकृतम् । हलि सर्वेषाम् इति । यदि तत् अनुवर्तते मयः उञः वः वा हलि च इति हलि अपि वत्वम् प्राप्नोति । शमु नः । शमु योः अस्तु । एवम् तर्हि विसर्जनीयस्यसः इति अत्र खरि इति अनुवर्तिष्यते । अथ वा सम्बन्धम् अनुवर्तिष्यते ।

KA III,430.7-431.6 Ro V,447-450 iha kasmāt na bhavati : vṛkṣaḥ , plakṣaḥ iti . saṃhitāyām iti vartate . evam api atra prāpnoti . kim kāraṇam . paraḥ sannikarṣaḥ saṃhitā iti ucyate . saḥ yathā eva pareṇa paraḥ sannikarṣaḥ evam pūrveṇa api . evam tarhi anavakāśā avasānasañjñā saṃhitāsañjñām bādhiṣyate . atha vā saṃhitāsañjñāyām prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ paraḥ sannikarṣaḥ iti . kaḥ ca sādhīyaḥ . yaḥ pūrvaparayoḥ . yadi eva anavakāśā avasānasañjñā saṃhitāsañjñām bādhate atha api saṃhitāsañjñāyām prakarṣagatiḥ vijñāyate ubhayathā doṣaḥ bhavati . iṣyante itaḥ uttaram avasāne saṃhitākāryāṇi tāni na sidhyanti . aṇaḥ apragṛhyasya anunāsikaḥ iti . evam tarhi ācāryapravṛttiḥ jñāpayati na sarvasya visarjanīyasya satvam bhavati iti yat ayam kharavasānayorvisjanīyaḥ iti āha . itarathā kharavasānayoḥ saḥ bhavati iti eva brūyāt . tat ca laghu bhavati visarjanīyasya saḥ iti etat ca na vaktavyaṃ bhavati . avaśyam śarparevisarjanīyaḥ iti atra prakṛtinirdeśārtham visarjanīyagrahaṇam kartavyam . atha idānīm etat api rasānnidhyārtham purastāt apakrakṣyate kharavasānayoḥ saḥ iti atra eva evam api kupvoḥ XkkaXppau ca iti evamādinā anukramaṇena vyavacchinnam bhobhagoaghoapūrvasyayo'śi iti atra rugrahaṇam kartavyam syāt . evam api ekam visarjanīyagrahaṇam vyājaḥ bhavati . saḥ ayam evam laghīyasā nyāsena siddhe sati yat garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ na sarvasya visarjanīyasya satvam bhavati iti . evam api anaikāntikam jñāpakam . etāvat jñāpyate na sarvasya vijanīyasya satvam bhavati iti tatra kutaḥ etat iha bhaviṣyati vṛkṣaḥ tatra plakṣaḥ tatra iti iha na bhaviṣyati vṛkṣaḥ plakṣaḥ iti . evam tarhi ācāryapravṛttiḥ jñāpayati na asya visarjanīyasya satvam bhavati iti yat ayam śarpare visarjanīyaḥ iti āha . atha vā hali iti vartate . kva prakṛtam . hali sarveṣām iti . yadi tat anuvartate mayaḥ uñaḥ vaḥ vā hali ca iti hali api vatvam prāpnoti . śamu naḥ . śamu yoḥ astu . evam tarhi visarjanīyasyasaḥ iti atra khari iti anuvartiṣyate . atha vā sambandham anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३१।७-९ रो व्,४५० वाशर्प्रकरणे खर्परे लोपः । वाशर्प्रकरणे खर्परे लोपः वक्तव्यः । वृक्षाः स्थातारः । वृक्षाः स्थातारः ।

KA III,431.7-9 Ro V,450 vāśarprakaraṇe kharpare lopaḥ . vāśarprakaraṇe kharpare lopaḥ vaktavyaḥ . vṛkṣāḥ sthātāraḥ . vṛkṣāḥ sthātāraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३१।१०-४३२।७ रो व्,४५०-४५३ सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः । सस्य कुप्वोः विसर्जनीयजिह्वामूलीयोपध्मानीयाः वक्तव्याः । विसर्जनीयादेशे हि शर्परयोः एव आदेशप्रसङ्गः । विसर्जनीयादेशे हि सति शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् । अद्भिः प्सातम् । वासः क्षौमम् । वचनात् न भविष्यतः । अस्ति वचने प्रयोजनम् । किम् । पुरुषः त्सरुकः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यत् एतत् विसर्जनीयस्य सः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवर्तिष्यते तस्मिन् च शर्परे विसर्जनीयः असिद्धः । न असिद्धः । कथम् । अधिकारः नाम त्रिप्रकारः । कः चित् एकदेशस्थः सर्वम् शास्त्रम् अभिज्वलयति यथा प्रदीपः सुप्रज्वलितः सर्वम् वेश्म अभिज्वलयति । अपरः यथा रज्ज्वा अयसा वा बद्धम् काष्ठम् अनुकृष्यते तद्वत् । अपरः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति योगे योगे उपतिष्ठते । तत् यदा एषः पक्षः अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः इति तदा हि यत् एतत् विसर्जनीयस्यसः इति अत्र विसर्जनीयग्रहणम् एतत् उत्तरत्र अनुवृत्तम् सत् अन्यत् सम्पद्यते तस्मिन् च शर्परे विसर्जनीयः सिद्धः । एवम् च क्र्त्वा शर्परयोः एव कुप्वोः ह्क्कह्प्पौ स्याताम् । अद्भिः प्सातम् । वासः क्षौमम् इति । एवम् तर्हि योगविभागः करिष्यते । शर्परे विसर्जनीयः । वा शरि । ततः कुप्वोः । कुप्वोः च शर्परयोः विसर्जनीयस्य विसर्जनीयः भवति इति । किमर्थम् इदम् । कुप्वोः ह्क्कह्प्पौ वक्ष्यति तद्बाधनार्थम् । ततः ह्क्कह्प्पौ भवतः कुप्वोः इति एव । शर्परयोः इति निवृत्तम् । अथ वा शर्परेविसर्जनीयः इति एतत् कुप्वोः ह्क्कह्प्पौ च इति अत्र अनुवर्तिष्यते ।

KA III,431.10-432.7 Ro V,450-453 sasya kupvoḥ visarjanīyajihvāmūlīyopadhmānīyāḥ . sasya kupvoḥ visarjanīyajihvāmūlīyopadhmānīyāḥ vaktavyāḥ . visarjanīyādeśe hi śarparayoḥ eva ādeśaprasaṅgaḥ . visarjanīyādeśe hi sati śarparayoḥ eva kupvoḥ hkkahppau syātām . adbhiḥ psātam . vāsaḥ kṣaumam . vacanāt na bhaviṣyataḥ . asti vacane prayojanam . kim . puruṣaḥ tsarukaḥ . tat tarhi vaktavyam . na vaktavyam . yat etat visarjanīyasya saḥ iti atra visarjanīyagrahaṇam etat uttaratra anuvartiṣyate tasmin ca śarpare visarjanīyaḥ asiddhaḥ . na asiddhaḥ . katham . adhikāraḥ nāma triprakāraḥ . kaḥ cit ekadeśasthaḥ sarvam śāstram abhijvalayati yathā pradīpaḥ suprajvalitaḥ sarvam veśma abhijvalayati . aparaḥ yathā rajjvā ayasā vā baddham kāṣṭham anukṛṣyate tadvat . aparaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti yoge yoge upatiṣṭhate . tat yadā eṣaḥ pakṣaḥ adhikāraḥ pratiyogam tasya anirdeśārthaḥ iti tadā hi yat etat visarjanīyasyasaḥ iti atra visarjanīyagrahaṇam etat uttaratra anuvṛttam sat anyat sampadyate tasmin ca śarpare visarjanīyaḥ siddhaḥ . evam ca krtvā śarparayoḥ eva kupvoḥ hkkahppau syātām . adbhiḥ psātam . vāsaḥ kṣaumam iti . evam tarhi yogavibhāgaḥ kariṣyate . śarpare visarjanīyaḥ . vā śari . tataḥ kupvoḥ . kupvoḥ ca śarparayoḥ visarjanīyasya visarjanīyaḥ bhavati iti . kimartham idam . kupvoḥ hkkahppau vakṣyati tadbādhanārtham . tataḥ hkkahppau bhavataḥ kupvoḥ iti eva . śarparayoḥ iti nivṛttam . atha vā śarparevisarjanīyaḥ iti etat kupvoḥ hkkahppau ca iti atra anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३२।८-२३ रो व्,४५३-४५४ सः अपदादौ अनव्ययस्य । सः अपदादौ अनव्ययस्य इति वक्तव्यम् । इह मा भूत् । प्रातःकल्पम् पुनःकल्पम् । रोः काम्ये नियमार्थम् । रोः काम्ये इति वक्तव्यम् । किम् प्रयोजनम् । नियमार्थम् । रोः एव काम्ये न अन्यस्य । पयस्काम्यति । क्व मा भूत् । गीःकाम्यति पूःकाम्यति । उपध्मानीयस्य च सत्वम् वक्तव्यम् । किम् प्रयोजनम् । अयम् उब्जिः उपध्मानीयोपधः पठ्यते तस्य सत्वे कृते जश्भावे च अभ्युद्गः समुद्गः इति एतत् रूपम् यथा स्यात् । यदि उपध्मानीयोपधः पठ्यते उब्जिजिषति इति उपध्मानीयस्य द्विर्वचनम् प्राप्नोति । दकारोपधे पुनः सति नन्द्राःसंयोगादयः इति प्रतिषेधः सिद्धः भवति । यदि दकारोपधः पठ्यते का रूपसिद्धिः : उब्जिता उब्जितुम् इति । असिद्धे भः उद्जेः । इदम् अस्ति स्तोःश्चुनाश्चुः । ततः वक्ष्यामि । भः उद्जेः । उद्जेः च श्चुना सन्निपाते भः भवति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । निपातनात् एतत् सिद्धम् । किम् निपातनम् । भुजन्युब्जौपाण्युपतापयोः इति । इह अपि प्राप्नोति । अभ्युद्गः समुद्गः । अकुत्वविषये निपातनम् । अथ वा न एतत् उब्जेः रूपम् । किम् तर्हि गमेः द्व्युपसर्गात् डः विधीयते । अभ्युद्गतः अभ्युद्गः । समुद्गतः समुद्गः ।

KA III,432.8-23 Ro V,453-454 saḥ apadādau anavyayasya . saḥ apadādau anavyayasya iti vaktavyam . iha mā bhūt . prātaḥkalpam punaḥkalpam . roḥ kāmye niyamārtham . roḥ kāmye iti vaktavyam . kim prayojanam . niyamārtham . roḥ eva kāmye na anyasya . payaskāmyati . kva mā bhūt . gīḥkāmyati pūḥkāmyati . upadhmānīyasya ca satvam vaktavyam . kim prayojanam . ayam ubjiḥ upadhmānīyopadhaḥ paṭhyate tasya satve kṛte jaśbhāve ca abhyudgaḥ samudgaḥ iti etat rūpam yathā syāt . yadi upadhmānīyopadhaḥ paṭhyate ubjijiṣati iti upadhmānīyasya dvirvacanam prāpnoti . dakāropadhe punaḥ sati nandrāḥsaṃyogādayaḥ iti pratiṣedhaḥ siddhaḥ bhavati . yadi dakāropadhaḥ paṭhyate kā rūpasiddhiḥ : ubjitā ubjitum iti . asiddhe bhaḥ udjeḥ . idam asti stoḥścunāścuḥ . tataḥ vakṣyāmi . bhaḥ udjeḥ . udjeḥ ca ścunā sannipāte bhaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . nipātanāt etat siddham . kim nipātanam . bhujanyubjaupāṇyupatāpayoḥ iti . iha api prāpnoti . abhyudgaḥ samudgaḥ . akutvaviṣaye nipātanam . atha vā na etat ubjeḥ rūpam . kim tarhi gameḥ dvyupasargāt ḍaḥ vidhīyate . abhyudgataḥ abhyudgaḥ . samudgataḥ samudgaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३२।२४-४३३।२८ रो व्,४५४-४५६ किम् अविशेषेण सत्वम् उक्त्वा ततः इणः उत्तरस्य सकारस्य षत्वम् उच्यते आहोस्वित् इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते । किम् च अतः । यदि अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति । अथ इणः उत्तरस्य विसर्जनीयस्य एव षत्वम् विधीयते सत्वम् अपि अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते सत्वम् अपि प्राप्नोति । अथ निवृत्तम् नमस्पुरसोर्गत्योः इति अत्र सकारग्रहणम् कर्तव्यम् । तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते षत्वम् अपि प्राप्नोति । अथ निवृत्तम् इदुदुपधस्य च अप्रत्यस्य इति अत्र षकारग्रहणम् कर्तव्यम् । तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते सत्वम् अपि प्राप्नोति । अथ निवृत्तम् तिरसः अन्यतरस्याम् इति अत्र सकारग्रहणम् कर्तव्यम् । तस्मिन् च क्रियमाणे षत्वम् अपि अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते षत्वम् अपि प्राप्नोति । अथ निवृत्तम् द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोः सामर्थ्ये नित्यंसमासे अनुत्तरपदस्थस्य इति षकारग्रहणम् कर्तव्यम् । तस्मिन् च क्रियमाणे सत्वम् अपि अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते सत्वम् अपि प्राप्नोति । अथ निवृत्तम् अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य इति सकारग्रहणम् कर्तव्यम् । यथा इच्छसि तथा अस्तु । अस्तु तावत् अविशेषेण सत्वम् उक्त्वा इणः उत्तरस्य सकारस्य षत्वम् उच्यते । ननु च उक्तम् निष्कृतम् , निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न योगे योगः असिद्धः । किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति यत् अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति असमासेपिग्रहणम् करोति । अथ वा पुनः अस्तु इणः उत्तरस्य विसर्जनीयस्य षत्वम् विधीयते । ननु च उक्तम् सत्वम् अपि अनुवर्तते उताहो न किम् च अतः यदि अनुवर्तते सत्वम् अपि प्राप्नोति इति । न एषः दोषः । सम्बन्धम् अनुवर्तिष्यते । सः अपदादौ । इणःषः । नमस्पुरसोः गत्योः सकारः इणः उत्तरस्य षकारः । इदुदुपधस्य च अप्रत्ययस्य षकारः नमस्पुरसोः गत्योः सकारः । तिरसः अन्यतरस्याम् सकारः इदुदुपधस्य च अप्रत्ययस्य षकारः । द्विस्त्रिश्चतुरितिकृत्वोऽर्थे इसुसोःसामर्थ्ये नित्यम्समासेऽनुत्तरपदस्थस्य इति षकारः तिरसः अन्यतरस्याम् सकारः । अतःकृकमिकंसकुम्भपात्रकुशाकर्णीष्वनव्ययस्य । सकारः अनुवर्तते षकारग्रहणम् निवृत्तम् ।

KA III,432.24-433.28 Ro V,454-456 kim aviśeṣeṇa satvam uktvā tataḥ iṇaḥ uttarasya sakārasya ṣatvam ucyate āhosvit iṇaḥ uttarasya visarjanīyasya eva ṣatvam vidhīyate . kim ca ataḥ . yadi aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate niṣkṛtam , niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti . atha iṇaḥ uttarasya visarjanīyasya eva ṣatvam vidhīyate satvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate satvam api prāpnoti . atha nivṛttam namaspurasorgatyoḥ iti atra sakāragrahaṇam kartavyam . tasmin ca kriyamāṇe ṣatvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate ṣatvam api prāpnoti . atha nivṛttam idudupadhasya ca apratyasya iti atra ṣakāragrahaṇam kartavyam . tasmin ca kriyamāṇe satvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate satvam api prāpnoti . atha nivṛttam tirasaḥ anyatarasyām iti atra sakāragrahaṇam kartavyam . tasmin ca kriyamāṇe ṣatvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate ṣatvam api prāpnoti . atha nivṛttam dvistriścaturitikṛtvo'rthe isusoḥ sāmarthye nityaṃsamāse anuttarapadasthasya iti ṣakāragrahaṇam kartavyam . tasmin ca kriyamāṇe satvam api anuvartate utāho na . kim ca ataḥ . yadi anuvartate satvam api prāpnoti . atha nivṛttam ataḥkṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya iti sakāragrahaṇam kartavyam . yathā icchasi tathā astu . astu tāvat aviśeṣeṇa satvam uktvā iṇaḥ uttarasya sakārasya ṣatvam ucyate . nanu ca uktam niṣkṛtam , niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti iti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na yoge yogaḥ asiddhaḥ . kim tarhi prakaraṇe prakaraṇam asiddham iti yat ayam upasargāt asamāse api ṇopadeśasya iti asamāsepigrahaṇam karoti . atha vā punaḥ astu iṇaḥ uttarasya visarjanīyasya ṣatvam vidhīyate . nanu ca uktam satvam api anuvartate utāho na kim ca ataḥ yadi anuvartate satvam api prāpnoti iti . na eṣaḥ doṣaḥ . sambandham anuvartiṣyate . saḥ apadādau . iṇaḥṣaḥ . namaspurasoḥ gatyoḥ sakāraḥ iṇaḥ uttarasya ṣakāraḥ . idudupadhasya ca apratyayasya ṣakāraḥ namaspurasoḥ gatyoḥ sakāraḥ . tirasaḥ anyatarasyām sakāraḥ idudupadhasya ca apratyayasya ṣakāraḥ . dvistriścaturitikṛtvo'rthe isusoḥsāmarthye nityamsamāse'nuttarapadasthasya iti ṣakāraḥ tirasaḥ anyatarasyām sakāraḥ . ataḥkṛkamikaṃsakumbhapātrakuśākarṇīṣvanavyayasya . sakāraḥ anuvartate ṣakāragrahaṇam nivṛttam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३४।१-१० रो व्,४५६-४५७ इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः । इदुदुपधस्य च अप्रत्ययस्य इति चेत् पुम्मुहुसोः प्रतिषेधः वक्तव्यः । पुंस्कामा मुहुःकामः इति । वृद्धिभूतानाम् षत्वम् वक्तव्यम् । दौष्कुल्यम् नैष्पुरुष्यम् । प्लुतानाम् तादौ च । प्लुतानाम् तादौ च कुप्वोः च इति वक्तव्यम् । सर्पि३ष्टर । बर्ही३ष्टर नि३ष्कुल दु३ष्पुरुष । न वा बहिरङ्गलक्षणत्वात् । न वा वक्तव्यम् । किम् कारणम् । बहिरन्गलक्षणत्वात् वृद्धेः । बहिरङ्गलक्षणा वृद्धिः ।

KA III,434.1-10 Ro V,456-457 idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ . idudupadhasya ca apratyayasya iti cet pummuhusoḥ pratiṣedhaḥ vaktavyaḥ . puṃskāmā muhuḥkāmaḥ iti . vṛddhibhūtānām ṣatvam vaktavyam . dauṣkulyam naiṣpuruṣyam . plutānām tādau ca . plutānām tādau ca kupvoḥ ca iti vaktavyam . sarpi3ṣṭara . barhī3ṣṭara ni3ṣkula du3ṣpuruṣa . na vā bahiraṅgalakṣaṇatvāt . na vā vaktavyam . kim kāraṇam . bahirangalakṣaṇatvāt vṛddheḥ . bahiraṅgalakṣaṇā vṛddhiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३४।१०-१६ रो व्,४५७-४५८ इह कस्मात् न भवति । पितुः करोति । मातुः करोति । अप्रत्ययविसर्जनीयस्य इति षत्वम् प्रसज्येत । अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् । लुप्यते अत्र प्रत्ययविसर्जनीयः रात्सस्य इति । एवम् तर्हि । भ्रातुष्पुत्रग्रहणम् ज्ञापकम् एकादेशनिमित्तात् षत्वप्रतिषेधस्य । यत् अयम् कस्कादिषु भ्रातुष्पुत्रशब्दम् पठति तत् ज्ञापयति आचार्यः न एकादेशनिमित्तात् षत्वम् भवति इति ।

KA III,434.10-16 Ro V,457-458 iha kasmāt na bhavati . pituḥ karoti . mātuḥ karoti . apratyayavisarjanīyasya iti ṣatvam prasajyeta . apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ ca ayam . lupyate atra pratyayavisarjanīyaḥ rātsasya iti . evam tarhi . bhrātuṣputragrahaṇam jñāpakam ekādeśanimittāt ṣatvapratiṣedhasya . yat ayam kaskādiṣu bhrātuṣputraśabdam paṭhati tat jñāpayati ācāryaḥ na ekādeśanimittāt ṣatvam bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३४।१७-१८ रो व्,४५८-४६० द्विस्त्रिश्चतुर्ग्रहणम् किमर्थम् । इह मा भूत् । पञ्चकृत्वः करोति । अथ कृत्वोर्थग्रहणम् किमर्थम् । इह मा भूत् । चतुष्कपालः चतुष्कण्टकः इति । न एतत् अस्ति । अस्तु एतेन विभाषा पूर्वेण नित्यः विधिः भविष्यति । न अप्राप्ते पूर्वेण इयम् विभाषा आरभ्यते सा यथा एव इह बाधिका भवति चतुः करोति चतुष्करोति इति एवम् चतुष्कपाले अपि बाधिका स्यात् । न अत्र पूर्वेण षत्वम् प्राप्नोति । किम् कारणम् । अप्रत्ययविसर्जनीयस्य इति उच्यते प्रत्ययविसर्जनीयः च अयम् । लुप्यते प्रत्ययविसर्जनीयः रात्सस्य इति । तस्मात् कृत्वोर्थग्रहणम् कर्तव्यम् । द्विस्त्रिश्चतुर्ग्रहणम् शक्यमवक्तुम् । कस्मात् न भवति पञ्चकृत्वः करोति इति । इदुदुपधस्य इति वर्तते । न एवम् शक्यम् । अक्रियमाणे द्विस्त्रिश्चतुर्ग्रहणे कृत्वोऽर्थग्रहणेन विसर्जनीयः विशेष्येत । तत्र कः दोषः । इह एव स्यात् द्विष्करोति द्विः करोति । इह न स्यात् चतुष्करोति चतुः करोति इति । द्विस्त्रिश्चतुर्ग्रहणे पुनः क्रियमाणे कृत्वोऽर्थग्रहणे द्विस्त्रिश्चतुरः विशेष्यन्ते । द्विस्त्रिश्चतुर्णाम् कृत्रोऽर्थे वर्तमानानाम् यः विसर्जनीयः इति । एतत् अपि न अस्ति प्रयोजनम् । पदस्य इति वर्तते तत् कृत्वोऽर्थग्रहणेन विशेषयिष्यः । पदस्य कृत्वोऽर्थे वर्तमानस्य यः विसर्जनीयः इति । कृत्वसुजर्थे षत्वम् ब्रवीति । कस्मात् चतुष्कपाले मा । षत्वम् विभाषया भूत् । ननु सिद्धम् तत्र पूर्वेण । सिद्धे हि अयम् विधत्ते चतुरः षत्वम् तदा अपि क्र्त्वोऽर्थे । लुप्ते कृत्वोऽर्थीये रेफस्य विसर्जनीयः हि । एवम् सति तु इदानीम् द्विः त्रिः चतुः इति अनेन किम् कार्यम् । अन्यः हि न इदुदुपधः कृत्वोऽर्थे कः चित् अपि अस्ति । अक्रियमाणे ग्रहणे विसर्जनीयः तदा विशेष्येत । चतुरः न सिध्यति तदा रेफस्य विसर्जनीयः हि । तस्मिन् तु गृह्यमाणे युक्तम् चतुरः विशेषणम् भवति । प्रकृतम् पदम् तदन्तम् तस्य अपि विशेषणम् न्याय्यम् ।

KA III,434.17-18 Ro V,458-460 dvistriścaturgrahaṇam kimartham . iha mā bhūt . pañcakṛtvaḥ karoti . atha kṛtvorthagrahaṇam kimartham . iha mā bhūt . catuṣkapālaḥ catuṣkaṇṭakaḥ iti . na etat asti . astu etena vibhāṣā pūrveṇa nityaḥ vidhiḥ bhaviṣyati . na aprāpte pūrveṇa iyam vibhāṣā ārabhyate sā yathā eva iha bādhikā bhavati catuḥ karoti catuṣkaroti iti evam catuṣkapāle api bādhikā syāt . na atra pūrveṇa ṣatvam prāpnoti . kim kāraṇam . apratyayavisarjanīyasya iti ucyate pratyayavisarjanīyaḥ ca ayam . lupyate pratyayavisarjanīyaḥ rātsasya iti . tasmāt kṛtvorthagrahaṇam kartavyam . dvistriścaturgrahaṇam śakyamavaktum . kasmāt na bhavati pañcakṛtvaḥ karoti iti . idudupadhasya iti vartate . na evam śakyam . akriyamāṇe dvistriścaturgrahaṇe kṛtvo'rthagrahaṇena visarjanīyaḥ viśeṣyeta . tatra kaḥ doṣaḥ . iha eva syāt dviṣkaroti dviḥ karoti . iha na syāt catuṣkaroti catuḥ karoti iti . dvistriścaturgrahaṇe punaḥ kriyamāṇe kṛtvo'rthagrahaṇe dvistriścaturaḥ viśeṣyante . dvistriścaturṇām kṛtro'rthe vartamānānām yaḥ visarjanīyaḥ iti . etat api na asti prayojanam . padasya iti vartate tat kṛtvo'rthagrahaṇena viśeṣayiṣyaḥ . padasya kṛtvo'rthe vartamānasya yaḥ visarjanīyaḥ iti . kṛtvasujarthe ṣatvam bravīti . kasmāt catuṣkapāle mā . ṣatvam vibhāṣayā bhūt . nanu siddham tatra pūrveṇa . siddhe hi ayam vidhatte caturaḥ ṣatvam tadā api krtvo'rthe . lupte kṛtvo'rthīye rephasya visarjanīyaḥ hi . evam sati tu idānīm dviḥ triḥ catuḥ iti anena kim kāryam . anyaḥ hi na idudupadhaḥ kṛtvo'rthe kaḥ cit api asti . akriyamāṇe grahaṇe visarjanīyaḥ tadā viśeṣyeta . caturaḥ na sidhyati tadā rephasya visarjanīyaḥ hi . tasmin tu gṛhyamāṇe yuktam caturaḥ viśeṣaṇam bhavati . prakṛtam padam tadantam tasya api viśeṣaṇam nyāyyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३५।२०-४३६।२४ रो व्,४६०-४६२ अनुत्तरपदस्थस्य इति किमर्थम् । परमसर्पिःकुण्डिका । अथ इदानीम् अनेन मुक्ते पूर्वेण षत्वम् विभाषा कस्मात् न भवति इसुसोः सामर्थ्ये इति । नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः । तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह । व्यपेक्षासामर्थ्ये पूर्वयोगः न च अत्र व्यपेक्षासामर्थ्यम् । किम् पुनः कारणम् व्यपेक्षासामर्थ्यम् आश्रीयते न पुनः एकार्थीभावः यथा अन्यत्र । ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत । ऐकार्थ्ये सामर्थ्ये सति वाक्ये षत्वम् न स्यात् : सर्पिष् करोति । सर्पिः करोति इति । तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते । अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः । यदि कृदन्तम् एतत् ततः अधिकस्य षत्वम् न प्राप्नोति । किम् कारणम् । प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति । वाक्ये अपि तर्हि न प्राप्नोति । परमसर्पिष्करोति परमसर्पिः करोति इति । वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत । यत् अयम् अनुत्तरपदस्थस्य इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति वाक्ये विभाषा इति । अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् । अथ अव्युत्पन्नम् प्रातिपदिकम् ततः नित्ये षत्वे प्राप्ते इयम् विभाषा आरभ्यते । सिद्धम् च मे समासे । षत्वम् । किमर्थम् तर्हि इदम् उच्यते । प्रतिषेधार्थः तु यत्नः अयम् । अनुत्तरपदस्थस्य इति प्रतिषेधम् वक्ष्यामि इति । नानापदार्थयोः वर्तमानयोः ख्यायते यदा योगः । तस्मिन् षत्वम् कार्यम् तत् युक्तम् तत् च मे न इह । ऐकार्थ्ये सामर्थ्ये वाक्ये षत्वम् न मे प्रसज्येत । तस्मात् इह व्यपेक्षाम् सामर्थ्यम् साधु मन्यन्ते । अथ चेत् कृदन्तम् एतत् ततः अधिके न एव मे भवेत् प्राप्तिः । वाक्ये च मे विभाषा प्रतिषेधः न प्रकल्पेत । अथ चेत् संविज्ञानम् नित्ये षत्वे ततः विभाषा इयम् । सिद्धम् च मे समासे प्रतिषेधार्थः तु यत्नः अयम् ।

KA III,435.20-436.24 Ro V,460-462 anuttarapadasthasya iti kimartham . paramasarpiḥkuṇḍikā . atha idānīm anena mukte pūrveṇa ṣatvam vibhāṣā kasmāt na bhavati isusoḥ sāmarthye iti . nānāpadārthayoḥ vartamānayoḥ khyāyate yadā yogaḥ . tasmin ṣatvam kāryam tat yuktam tat ca me na iha . vyapekṣāsāmarthye pūrvayogaḥ na ca atra vyapekṣāsāmarthyam . kim punaḥ kāraṇam vyapekṣāsāmarthyam āśrīyate na punaḥ ekārthībhāvaḥ yathā anyatra . aikārthye sāmarthye vākye ṣatvam na me prasajyeta . aikārthye sāmarthye sati vākye ṣatvam na syāt : sarpiṣ karoti . sarpiḥ karoti iti . tasmāt iha vyapekṣām sāmarthyam sādhu manyante . atha cet kṛdantam etat tataḥ adhike na eva me bhavet prāptiḥ . yadi kṛdantam etat tataḥ adhikasya ṣatvam na prāpnoti . kim kāraṇam . pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti . vākye api tarhi na prāpnoti . paramasarpiṣkaroti paramasarpiḥ karoti iti . vākye ca me vibhāṣā pratiṣedhaḥ na prakalpeta . yat ayam anuttarapadasthasya iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati vākye vibhāṣā iti . atha cet saṃvijñānam nitye ṣatve tataḥ vibhāṣā iyam . atha avyutpannam prātipadikam tataḥ nitye ṣatve prāpte iyam vibhāṣā ārabhyate . siddham ca me samāse . ṣatvam . kimartham tarhi idam ucyate . pratiṣedhārthaḥ tu yatnaḥ ayam . anuttarapadasthasya iti pratiṣedham vakṣyāmi iti . nānāpadārthayoḥ vartamānayoḥ khyāyate yadā yogaḥ . tasmin ṣatvam kāryam tat yuktam tat ca me na iha . aikārthye sāmarthye vākye ṣatvam na me prasajyeta . tasmāt iha vyapekṣām sāmarthyam sādhu manyante . atha cet kṛdantam etat tataḥ adhike na eva me bhavet prāptiḥ . vākye ca me vibhāṣā pratiṣedhaḥ na prakalpeta . atha cet saṃvijñānam nitye ṣatve tataḥ vibhāṣā iyam . siddham ca me samāse pratiṣedhārthaḥ tu yatnaḥ ayam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३६।२५-४३७।६ रो व्,४६३ अथ मूर्धन्यग्रहणम् किमर्थम् न अपदान्तस्य षः भवति इति एव उच्येत । तत्र अयम् अपि अर्थः षकारग्रहणम् न कर्तव्यम् भवति प्रकृतम् अनुवर्तते । क्व प्रकृतम् । इणःषः इति । न एवम् शक्यम् । अवश्यम् मूर्धन्यग्रहणम् कर्तव्यम् इहार्थम् उत्तरार्थम् च । इहार्थम् तावत् । इणःषीध्वंलुङ्लिटाम्धोऽङ्गात् इति अत्र ंऊर्धन्यग्रहणम् न कर्तव्यम् भवति । उत्तरार्थम् च । रषाभ्यान्नोणःसमानपदे इति अत्र णकारग्रहणम् न कर्तव्यम् भवति । तत्र अयम् अपि अर्थः पदान्तस्य न इति प्रतिषेधः न वक्तव्यः भवति । अपदान्ताभिसम्बद्धम् मूर्धन्यग्रहणम् अनुवर्तते ।

KA III,436.25-437.6 Ro V,463 atha mūrdhanyagrahaṇam kimartham na apadāntasya ṣaḥ bhavati iti eva ucyeta . tatra ayam api arthaḥ ṣakāragrahaṇam na kartavyam bhavati prakṛtam anuvartate . kva prakṛtam . iṇaḥṣaḥ iti . na evam śakyam . avaśyam mūrdhanyagrahaṇam kartavyam ihārtham uttarārtham ca . ihārtham tāvat . iṇaḥṣīdhvaṃluṅliṭāmdho'ṅgāt iti atra ṃūrdhanyagrahaṇam na kartavyam bhavati . uttarārtham ca . raṣābhyānnoṇaḥsamānapade iti atra ṇakāragrahaṇam na kartavyam bhavati . tatra ayam api arthaḥ padāntasya na iti pratiṣedhaḥ na vaktavyaḥ bhavati . apadāntābhisambaddham mūrdhanyagrahaṇam anuvartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३८।१-१९ रो व्,४६४-४६५ सग्रहणम् किमर्थम् न सहेः साडः मूर्धन्यः भवति इति एव उच्येत । सहेः साडः मूर्धन्यः भवति इति उच्यमाने अन्त्यस्य प्रसज्येत । ननु च अन्त्यस्य मूर्धन्यवचने प्रयोजनम् न अस्ति इति कृत्वा सकारस्य भविष्यति । कुतः नु खलु एतत् अनन्त्यार्थे आरम्भे सकारस्य भविष्यति । न पुनः आकारस्य स्यात् । स्थने अन्तरतमः भवति इति सकारस्य भविष्यति । भवेत् प्रकृतितः अन्तरतमनिर्वृत्तौ सत्याम् सिद्धम् स्यात् । आदेशतः तु अन्तरतमनिर्वृत्तौ सत्याम् आकारस्य प्रसज्येत । तस्मात् सकारग्रहणम् कर्तव्यम् । उत्तरार्थम् च सकारग्रहणम् क्रियते । आदेशप्रत्यययोः सकारस्य यथा स्यात् । इह मा भूत् । चितम् , स्तुतम् । अथ सहिग्रहणम् किमर्थम् न साडः सः भवति इति एव उच्येत । सहेः एव साड्रूपम् भवति न अन्यस्य । यदि एवं । साडः षत्वे समानशब्दप्रतिषेधः । साडः षत्वे समानशब्दानाम् प्रतिषेधः वक्तव्यः । साडः दण्डः। साडः वृश्चिकः इति । अर्थवद्ग्रहणात् सिद्धम् । अर्थवतः साड्शब्दस्य ग्रहणम् न च एषः अर्थवान् । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः । अर्थवद्ग्रहणात् सिद्धम् इति चेत् तद्धितलोपे अर्थवत्त्वात् प्रतिषेधः वक्तव्यः । सह अडेन साडः साडस्य अपत्यम् साडिः अत्र प्राप्नोति । न वक्तव्यः । षत्वतुकोः एकादेशस्य असिद्धत्वात् न एषः साड्शब्दः । एवम् अपि सह डेन सडः सडस्य अपत्रम् साडिः अत्र प्राप्नोति । तस्मात् सहिग्रहणम् कर्तव्यम् ।

KA III,438.1-19 Ro V,464-465 sagrahaṇam kimartham na saheḥ sāḍaḥ mūrdhanyaḥ bhavati iti eva ucyeta . saheḥ sāḍaḥ mūrdhanyaḥ bhavati iti ucyamāne antyasya prasajyeta . nanu ca antyasya mūrdhanyavacane prayojanam na asti iti kṛtvā sakārasya bhaviṣyati . kutaḥ nu khalu etat anantyārthe ārambhe sakārasya bhaviṣyati . na punaḥ ākārasya syāt . sthane antaratamaḥ bhavati iti sakārasya bhaviṣyati . bhavet prakṛtitaḥ antaratamanirvṛttau satyām siddham syāt . ādeśataḥ tu antaratamanirvṛttau satyām ākārasya prasajyeta . tasmāt sakāragrahaṇam kartavyam . uttarārtham ca sakāragrahaṇam kriyate . ādeśapratyayayoḥ sakārasya yathā syāt . iha mā bhūt . citam , stutam . atha sahigrahaṇam kimartham na sāḍaḥ saḥ bhavati iti eva ucyeta . saheḥ eva sāḍrūpam bhavati na anyasya . yadi evaṃ . sāḍaḥ ṣatve samānaśabdapratiṣedhaḥ . sāḍaḥ ṣatve samānaśabdānām pratiṣedhaḥ vaktavyaḥ . sāḍaḥ daṇḍaḥ. sāḍaḥ vṛścikaḥ iti . arthavadgrahaṇāt siddham . arthavataḥ sāḍśabdasya grahaṇam na ca eṣaḥ arthavān . arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt pratiṣedhaḥ . arthavadgrahaṇāt siddham iti cet taddhitalope arthavattvāt pratiṣedhaḥ vaktavyaḥ . saha aḍena sāḍaḥ sāḍasya apatyam sāḍiḥ atra prāpnoti . na vaktavyaḥ . ṣatvatukoḥ ekādeśasya asiddhatvāt na eṣaḥ sāḍśabdaḥ . evam api saha ḍena saḍaḥ saḍasya apatram sāḍiḥ atra prāpnoti . tasmāt sahigrahaṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३८।२०-४३९।९ रो व्,४६५-४६६ नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेधः । नुम्विसर्जनीयशर्व्यवाये निंसेः प्रतिषेदः वक्तव्यः । निंस्से निंस्स्व इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । नुमा एव व्यवाये विसर्जनीयेन एव व्यवाये शरा एव व्यवाये इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति । तत् यथा । गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । एवम् तर्हि । योगविभागात् सिद्धम् । योगविभागः करिष्यते । नुम्व्यवाये । ततः विसर्जनीयव्यवाये । ततः शर्व्यवाये । सः तर्हि योगविभागः कर्तव्यः । न कर्तव्यः । प्रत्येकम् व्यवायशब्दः परिसमाप्यते ।

KA III,438.20-439.9 Ro V,465-466 numvisarjanīyaśarvyavāye niṃseḥ pratiṣedhaḥ . numvisarjanīyaśarvyavāye niṃseḥ pratiṣedaḥ vaktavyaḥ . niṃsse niṃssva iti . tat tarhi vaktavyam . na vaktavyam . numā eva vyavāye visarjanīyena eva vyavāye śarā eva vyavāye iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . pratyekam vākyaparisamāptiḥ dṛṣṭā iti . tat yathā . guṇavṛddhisañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ . tat yathā . gargāḥ śatam daṇḍyantām . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . evam tarhi . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . numvyavāye . tataḥ visarjanīyavyavāye . tataḥ śarvyavāye . saḥ tarhi yogavibhāgaḥ kartavyaḥ . na kartavyaḥ . pratyekam vyavāyaśabdaḥ parisamāpyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३९।१०-१८ रो व्,४६६-४६७ आदेशप्रत्यययोः षत्वे सरकः प्रतिषेधः । आदेशप्रत्यययोः षत्वे सरकः प्रतिषेदः वक्तव्यः : कृसरः , धूसरः । अत्यल्पम् इदम् उच्यते : सरकः इति । सरगादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : वर्सम् तर्सम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । न वै एतत् षत्वे शक्यम् विज्ञातुम् उणदयः अव्युत्पन्नानि प्रातिपदिकानि इति । इह हि न स्यात् । सर्पिषः यजुषः इति । एवम् तर्हि । बहुलवचनात् सिद्धम् । बहुलम् प्रत्ययसञ्ज्ञा भवति ।

KA III,439.10-18 Ro V,466-467 ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedhaḥ . ādeśapratyayayoḥ ṣatve sarakaḥ pratiṣedaḥ vaktavyaḥ : kṛsaraḥ , dhūsaraḥ . atyalpam idam ucyate : sarakaḥ iti . saragādīnām iti vaktavyam iha api yathā syāt : varsam tarsam iti . tat tarhi vaktavyam . na vaktavyam . uṇādayaḥ avyutpannāni prātipadikāni . na vai etat ṣatve śakyam vijñātum uṇadayaḥ avyutpannāni prātipadikāni iti . iha hi na syāt . sarpiṣaḥ yajuṣaḥ iti . evam tarhi . bahulavacanāt siddham . bahulam pratyayasañjñā bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४३९।१९-४४१।५ रो व्,४६७-४६९ किम् पुनः इयम् अवयवषष्ठी : आदेशस्य यः सकारः प्रत्ययस्य यः सकारः इति । आहोस्वित् समानाधिकरणा : आदेशः यः सकारः प्रत्ययः यः सकारः इति । कः च अत्र विशेषः । आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः । आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः वक्तव्यः । बिसम् बिसम् । मुसलम् मुसलम् । समानाधिकरणानाम् च अप्राप्तिः । समानाधिकरणानाम् च षत्वस्य अप्राप्तिः । एषः , अकार्षीत् । अस्तु तर्हि समानाधिकरणा । यदि समानाधिकरणा सिषेच सुष्वाप , अत्र न प्राप्नोति । न धातुद्विर्वचने स्थाने द्विर्वचनम् शक्यम् आस्थातुम् । इह अपि हि प्रसज्येत सरीसृप्यते इति । तस्मात् तत्र द्विःप्रयोगः द्विर्वचनम् । इह तर्हि करिष्यति हरिष्यति प्रत्ययः यः सकारः इति षत्वम् न प्राप्नोति । अस्तु तर्हि आदेशः यः सकारः प्रत्ययस्य यः सकारः इति । इह तर्हि अकार्षीत् प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति । मा भूत् एवम् आदेशः यः सकारः इति एवम् भविष्यति । इह तर्हि : जोषिषत् , मन्दिषत् इति प्रत्ययस्य यः सकारः इति षत्वम् न प्राप्नोति । एषः अपि इटि कृते प्रत्ययस्य सकारः । इह तर्हि इन्द्रः मा वक्षत् सः , सः देवन् यक्षत् । नानाविभक्तीनाम् च समासानुपपत्तिः । नानाविभक्तीनाम् च समासः न उपपद्यते आदेशप्रत्यययोः इति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । आदेशस्य षः भवति इति । ततः प्रत्ययसकारस्य षः भवति इति । स तर्हि योगविभागः कर्तव्यः । न कर्तव्यः । कथम् । अस्तु तावत् अवयवषष्ठी । ननु च उक्तम् आदेशप्रत्यययोः इति अवयवषष्ठी चेत् द्विर्वचने प्रतिषेधः इति । न एषः दोषः । द्विःप्रयोगः द्विर्वचनम् । यत् अपि उच्यते समानाधिकरणानाम् च अप्राप्तिः इति व्यपदेशिवद्भावेन भविष्यति । अथ वा पुनः अस्तु समानाधिकरणा । कथम् करिष्यति हरिष्यति । आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् षत्वम् इति यत् अयम् सात्पदाद्योः इति सात्प्रतिषेधम् शास्ति । अथ वा पुनः अस्तु आदेशः यः सकारः प्रत्ययस्य यः सकारः इति । कथम् इन्द्रः मा , वक्षत् सः देवान् यक्षत् । व्यपदेशिवद्भावेन भविष्यति । सः तर्हि व्यपदेशिवद्भावः वक्तव्यः । न वक्तव्यः । उक्तम् वा । किम् उक्तम् । तत्र व्यपदेशिवद्वचनम् एकाचः द्वे प्रथमार्थम् षत्वे च आदेशसम्प्रत्ययार्थम् अवचनात् लोकविज्ञनात् सिद्धम् इति । यत् अपि नानाविभक्तीनाम् च समासानुपपत्तिः इति आचार्यप्रवृत्तिः ज्ञापयति नानाविभक्त्योः एषः समासः इति यत् अयम् शासिवसिघसीनाञ्च इति घसिग्रहणम् करोति । कथम् कृत्वा ज्ञापकम् । यदि हि आदेशस्य यः सकारः इति एवम् स्यात् घसिग्रहणम् अनर्थकम् स्यात् । पश्यति तु आचार्यः आदेशः यः सकारः तस्य षत्वम् इति ततः घसिग्रहणम् करोति ।

KA III,439.19-441.5 Ro V,467-469 kim punaḥ iyam avayavaṣaṣṭhī : ādeśasya yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti . āhosvit samānādhikaraṇā : ādeśaḥ yaḥ sakāraḥ pratyayaḥ yaḥ sakāraḥ iti . kaḥ ca atra viśeṣaḥ . ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ . ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ vaktavyaḥ . bisam bisam . musalam musalam . samānādhikaraṇānām ca aprāptiḥ . samānādhikaraṇānām ca ṣatvasya aprāptiḥ . eṣaḥ , akārṣīt . astu tarhi samānādhikaraṇā . yadi samānādhikaraṇā siṣeca suṣvāpa , atra na prāpnoti . na dhātudvirvacane sthāne dvirvacanam śakyam āsthātum . iha api hi prasajyeta sarīsṛpyate iti . tasmāt tatra dviḥprayogaḥ dvirvacanam . iha tarhi kariṣyati hariṣyati pratyayaḥ yaḥ sakāraḥ iti ṣatvam na prāpnoti . astu tarhi ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti . iha tarhi akārṣīt pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti . mā bhūt evam ādeśaḥ yaḥ sakāraḥ iti evam bhaviṣyati . iha tarhi : joṣiṣat , mandiṣat iti pratyayasya yaḥ sakāraḥ iti ṣatvam na prāpnoti . eṣaḥ api iṭi kṛte pratyayasya sakāraḥ . iha tarhi indraḥ mā vakṣat saḥ , saḥ devan yakṣat . nānāvibhaktīnām ca samāsānupapattiḥ . nānāvibhaktīnām ca samāsaḥ na upapadyate ādeśapratyayayoḥ iti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . ādeśasya ṣaḥ bhavati iti . tataḥ pratyayasakārasya ṣaḥ bhavati iti . sa tarhi yogavibhāgaḥ kartavyaḥ . na kartavyaḥ . katham . astu tāvat avayavaṣaṣṭhī . nanu ca uktam ādeśapratyayayoḥ iti avayavaṣaṣṭhī cet dvirvacane pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . dviḥprayogaḥ dvirvacanam . yat api ucyate samānādhikaraṇānām ca aprāptiḥ iti vyapadeśivadbhāvena bhaviṣyati . atha vā punaḥ astu samānādhikaraṇā . katham kariṣyati hariṣyati . ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām ṣatvam iti yat ayam sātpadādyoḥ iti sātpratiṣedham śāsti . atha vā punaḥ astu ādeśaḥ yaḥ sakāraḥ pratyayasya yaḥ sakāraḥ iti . katham indraḥ mā , vakṣat saḥ devān yakṣat . vyapadeśivadbhāvena bhaviṣyati . saḥ tarhi vyapadeśivadbhāvaḥ vaktavyaḥ . na vaktavyaḥ . uktam vā . kim uktam . tatra vyapadeśivadvacanam ekācaḥ dve prathamārtham ṣatve ca ādeśasampratyayārtham avacanāt lokavijñanāt siddham iti . yat api nānāvibhaktīnām ca samāsānupapattiḥ iti ācāryapravṛttiḥ jñāpayati nānāvibhaktyoḥ eṣaḥ samāsaḥ iti yat ayam śāsivasighasīnāñca iti ghasigrahaṇam karoti . katham kṛtvā jñāpakam . yadi hi ādeśasya yaḥ sakāraḥ iti evam syāt ghasigrahaṇam anarthakam syāt . paśyati tu ācāryaḥ ādeśaḥ yaḥ sakāraḥ tasya ṣatvam iti tataḥ ghasigrahaṇam karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४१।६-२१ रो व्,४७०-४७१ स्तौतिणिग्रहणम् किमर्थम् । अस्तौतिण्यन्तानाम् मा भूत् । सिसिक्षति । अथ एवकारः किमर्थः । नियमार्थः । स्थौतिण्यन्तानाम् एव न अन्येषाम् इति । न एतत् अस्ति प्रयोजनम् । सिद्धे विधिः आरभ्यमाणः अन्तरेण एवकारकरणम् नियमार्थः भविष्यति । इष्टतः अवधारणार्थः तर्हि । यथा एवम् विज्ञायेत स्तौतिण्योः एव षणि इति । मा एवम् विज्ञायि स्तौतिण्योः षणि एव इति । इह न स्यात् तुष्टाव । अथ षणि इति किमर्थम् । सेषीव्यते । कः विनते अनुरोधः । अविनते नियमः मा भूत् । सुषुप्सति इति । कः सानुबन्धे अनुरोधः । षशब्दमात्रे नियमः मा भूत् । सुषुपिषे इन्द्रम् । सुषुपिषे इह इति । अभ्यासात् इति किमर्थम् । अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् उपसर्गात् या प्राप्तिः तस्याः नियमः मा भूत् । अभिषिषिक्षति । न एतत् अस्ति । असिद्धम् उपसर्गात् षत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति । इदम् तर्हि प्रयोजनम् । सनि यः अभ्यासः तस्मात् या प्राप्तिः तस्याः नियमः यथा स्यात् यङि यः अभ्यासः तस्मात् या प्राप्तिः तत्र नियमः मा भूत् इति । सोषुप्यतेः सन् सोषुपिषते । अथ वा अभ्यासात् या प्राप्तिः तस्याः नियमः यथा स्यात् धातोः या प्राप्तिः तस्याः नियमः मा भूत् । अधीषिषति । ननु च षणि इति उच्यते । षणि इति न एषा परसप्तमी शक्या विज्ञातुम् सन्यङन्तम् हि द्विरुच्यते । तस्मात् एषा सत्सप्तमी षणि सति इति । सत्सप्तमी चेत् प्राप्नोति ।

KA III,441.6-21 Ro V,470-471 stautiṇigrahaṇam kimartham . astautiṇyantānām mā bhūt . sisikṣati . atha evakāraḥ kimarthaḥ . niyamārthaḥ . sthautiṇyantānām eva na anyeṣām iti . na etat asti prayojanam . siddhe vidhiḥ ārabhyamāṇaḥ antareṇa evakārakaraṇam niyamārthaḥ bhaviṣyati . iṣṭataḥ avadhāraṇārthaḥ tarhi . yathā evam vijñāyeta stautiṇyoḥ eva ṣaṇi iti . mā evam vijñāyi stautiṇyoḥ ṣaṇi eva iti . iha na syāt tuṣṭāva . atha ṣaṇi iti kimartham . seṣīvyate . kaḥ vinate anurodhaḥ . avinate niyamaḥ mā bhūt . suṣupsati iti . kaḥ sānubandhe anurodhaḥ . ṣaśabdamātre niyamaḥ mā bhūt . suṣupiṣe indram . suṣupiṣe iha iti . abhyāsāt iti kimartham . abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt upasargāt yā prāptiḥ tasyāḥ niyamaḥ mā bhūt . abhiṣiṣikṣati . na etat asti . asiddham upasargāt ṣatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati . idam tarhi prayojanam . sani yaḥ abhyāsaḥ tasmāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt yaṅi yaḥ abhyāsaḥ tasmāt yā prāptiḥ tatra niyamaḥ mā bhūt iti . soṣupyateḥ san soṣupiṣate . atha vā abhyāsāt yā prāptiḥ tasyāḥ niyamaḥ yathā syāt dhātoḥ yā prāptiḥ tasyāḥ niyamaḥ mā bhūt . adhīṣiṣati . nanu ca ṣaṇi iti ucyate . ṣaṇi iti na eṣā parasaptamī śakyā vijñātum sanyaṅantam hi dvirucyate . tasmāt eṣā satsaptamī ṣaṇi sati iti . satsaptamī cet prāpnoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४१।२२-४४२।८ रो व्,४७२ किमर्थम् इदम् उच्यते । स्थादिषु अभ्यासवचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः । स्थादिषु एव अभ्यासस्य यथा स्यात् । इह मा भूत् । अभिसुसूषति । अथ किमर्थम् अभ्यासेन च इति उच्यते । तद्व्यवाये च अषोपदेशार्थम् । तद्व्यवाये अभ्यासव्यवाये च अषोपदेशस्य अपि यथा स्यात् । अभिषिषेणयिषति । अवर्णार्थम् षणि प्रतिषेधार्थम् च । अवणार्थम् तवत् । अभितष्ठौ । षणि प्रतिषेधार्थम् । अभिषिषिक्षति ।

KA III,441.22-442.8 Ro V,472 kimartham idam ucyate . sthādiṣu abhyāsavacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . sthādiṣu eva abhyāsasya yathā syāt . iha mā bhūt . abhisusūṣati . atha kimartham abhyāsena ca iti ucyate . tadvyavāye ca aṣopadeśārtham . tadvyavāye abhyāsavyavāye ca aṣopadeśasya api yathā syāt . abhiṣiṣeṇayiṣati . avarṇārtham ṣaṇi pratiṣedhārtham ca . avaṇārtham tavat . abhitaṣṭhau . ṣaṇi pratiṣedhārtham . abhiṣiṣikṣati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४२।९-२१ रो व्,४७३-४७४ उपसर्गात् षत्वे निसः उपसङ्ख्यानम् अनिणन्तत्वात् । उपसर्गात् षत्वे निसः उपसङ्ख्यानम् कर्तव्यम् । निःषुणोति निःषिञ्चति । किम् पुनः कारणम् न सिध्यति । अनिणन्तत्वात् । इणन्तात् उपसर्गात् षत्वम् उच्यते न च निस्* इणन्तः । न वा वर्णाश्रयत्वात् षत्वस्य तद्विशेषकः उपसर्गः धातुः च । न वा वक्तव्यम् । किम् कारणम् । वर्णाश्रयत्वात् षत्वस्य । वर्णाश्रयम् षत्वम् । तद्विशेषकः उपसर्गः धातुः च । न एवम् विज्ञायते इणन्तात् उपसर्गात् इति । कथम् तर्हि । इणः उत्तरस्य सकारस्य सः चेत् इण् उपसर्गस्य सः चेत् सकारः सुनोत्यादीनाम् इति । तत्र शर्व्यवाये इति एव सिद्धम् । यदि एवम् धातूपसर्गयोः अभिसम्बन्धः अकृतः भवति । तत्र कः दोषः । इह अपि प्राप्नोति । विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः । धातूपसर्गयोः च अभिसम्बन्धः कृतः । कथम् । सुनोत्यादिभिः अत्र उपसर्गम् विशेषयिष्यामः सुनोत्यादीनाम् यः उपसर्गः तस्य यः इण् इति ।

KA III,442.9-21 Ro V,473-474 upasargāt ṣatve nisaḥ upasaṅkhyānam aniṇantatvāt . upasargāt ṣatve nisaḥ upasaṅkhyānam kartavyam . niḥṣuṇoti niḥṣiñcati . kim punaḥ kāraṇam na sidhyati . aniṇantatvāt . iṇantāt upasargāt ṣatvam ucyate na ca nis* iṇantaḥ . na vā varṇāśrayatvāt ṣatvasya tadviśeṣakaḥ upasargaḥ dhātuḥ ca . na vā vaktavyam . kim kāraṇam . varṇāśrayatvāt ṣatvasya . varṇāśrayam ṣatvam . tadviśeṣakaḥ upasargaḥ dhātuḥ ca . na evam vijñāyate iṇantāt upasargāt iti . katham tarhi . iṇaḥ uttarasya sakārasya saḥ cet iṇ upasargasya saḥ cet sakāraḥ sunotyādīnām iti . tatra śarvyavāye iti eva siddham . yadi evam dhātūpasargayoḥ abhisambandhaḥ akṛtaḥ bhavati . tatra kaḥ doṣaḥ . iha api prāpnoti . vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ . dhātūpasargayoḥ ca abhisambandhaḥ kṛtaḥ . katham . sunotyādibhiḥ atra upasargam viśeṣayiṣyāmaḥ sunotyādīnām yaḥ upasargaḥ tasya yaḥ iṇ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४२।२१-४४३।४ रो व्,४७४ सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् अधिकत्वात् । सुनोत्यादीनाम् षत्वे ण्यन्तस्य उपसङ्ख्यानम् कर्तव्यम् । अभिषावयति । किम् कारणम् । अधिकत्वात् । व्यतिरिक्तः सुनोत्यादिः इति कृत्वा उपसर्गात् सुनोत्यादीनाम् इति षत्वम् न प्राप्नोति । न वा अवयवस्य अनन्यत्वात् । न वा वक्तव्यम् । किम् कारणम् । अवयवस्य अनन्यत्वात् । अवयवः अत्र अनन्यः ।

KA III,442.21-443.4 Ro V,474 sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam adhikatvāt . sunotyādīnām ṣatve ṇyantasya upasaṅkhyānam kartavyam . abhiṣāvayati . kim kāraṇam . adhikatvāt . vyatiriktaḥ sunotyādiḥ iti kṛtvā upasargāt sunotyādīnām iti ṣatvam na prāpnoti . na vā avayavasya ananyatvāt . na vā vaktavyam . kim kāraṇam . avayavasya ananyatvāt . avayavaḥ atra ananyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४३।५-४४३।१२ रो व्,४७४-४७५ नामधातोः तु प्रतिषेधः । नामधातोः तु प्रतिषेधः वक्तव्यः । सावकम् इच्छति अभिसावकीयति परिसावकीयति । न वा अनुपसर्गत्वात् । न वा वक्तव्यः । किम् कारणम् । अनुपसर्गत्वात् । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च अत्र सुनोतिम् प्रति क्रियायोगः । किम् तर्हि सावकीयतिम् प्रति । इह अपि तर्हि न प्राप्नोति : अभिषावयति । अत्र अपि न सुनोतिम् प्रति क्रियायोगः । किम् तर्हि सावयतिम् प्रति । सुनोतिम् प्रति अत्र क्रियायोगः । कथम् । न असौ एवम् प्रेष्यते सुनु अभि इति । किम् तर्हि । उपसर्गविशिष्टाम् असौ क्रियाम् प्रेष्यते अभिषुणु इति ।

KA III,443.5-443.12 Ro V,474-475 nāmadhātoḥ tu pratiṣedhaḥ . nāmadhātoḥ tu pratiṣedhaḥ vaktavyaḥ . sāvakam icchati abhisāvakīyati parisāvakīyati . na vā anupasargatvāt . na vā vaktavyaḥ . kim kāraṇam . anupasargatvāt . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca atra sunotim prati kriyāyogaḥ . kim tarhi sāvakīyatim prati . iha api tarhi na prāpnoti : abhiṣāvayati . atra api na sunotim prati kriyāyogaḥ . kim tarhi sāvayatim prati . sunotim prati atra kriyāyogaḥ . katham . na asau evam preṣyate sunu abhi iti . kim tarhi . upasargaviśiṣṭām asau kriyām preṣyate abhiṣuṇu iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४३।१३-१८ रो व्,४७५ अप्रतेः इति वर्तते उताहो निवृत्तम् । निवृत्तम् इति आह । कथम् ज्ञायते । योगविभागकरणसामर्थ्यात् । इतरथा हि सदिस्तम्भ्योः अप्रतेः इति एव ब्रूयात् । अस्ति अन्यत् योगविभागकरणे प्रयोजनम् । किम् । अवाच्चालम्बनाविदूर्वयोः इति वक्ष्यति तत् स्तम्भेः एव यथा स्यात् सदेः मा भूत् इति । न एतत् अस्ति प्रयोजनम् । एकयोगे अपि सति यस्य आलम्बनाविदूर्ये स्तः तस्य भविष्यति । कस्य च आलम्बनाविदूर्ये स्तः । स्तम्भेः एव ।

KA III,443.13-18 Ro V,475 aprateḥ iti vartate utāho nivṛttam . nivṛttam iti āha . katham jñāyate . yogavibhāgakaraṇasāmarthyāt . itarathā hi sadistambhyoḥ aprateḥ iti eva brūyāt . asti anyat yogavibhāgakaraṇe prayojanam . kim . avāccālambanāvidūrvayoḥ iti vakṣyati tat stambheḥ eva yathā syāt sadeḥ mā bhūt iti . na etat asti prayojanam . ekayoge api sati yasya ālambanāvidūrye staḥ tasya bhaviṣyati . kasya ca ālambanāvidūrye staḥ . stambheḥ eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४३।१९-२३ रो व्,४७५ अथ यः प्राणी अप्राणी च कथम् तत्र भवितव्यम् । अनुष्यन्देते मत्स्योदके इति । आहोस्वित् अनुस्यन्देते मत्स्योदके इति । यदि तावत् अप्राणी विधिना आश्रीयते अस्ति अत्र अप्राणी इति कृत्वा भवितव्यम् षत्वेन । अथ प्राणी प्रतिषेधेन आश्रीयते अस्ति अत्र प्राणी इति कृत्वा भवितव्यम् प्रतिषेएधेन । किम् पुनः अत्र अर्थसतत्त्वम् । देवाः ज्ञातुम् अर्हन्ति ।

KA III,443.19-23 Ro V,475 atha yaḥ prāṇī aprāṇī ca katham tatra bhavitavyam . anuṣyandete matsyodake iti . āhosvit anusyandete matsyodake iti . yadi tāvat aprāṇī vidhinā āśrīyate asti atra aprāṇī iti kṛtvā bhavitavyam ṣatvena . atha prāṇī pratiṣedhena āśrīyate asti atra prāṇī iti kṛtvā bhavitavyam pratiṣeedhena . kim punaḥ atra arthasatattvam . devāḥ jñātum arhanti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४४।१-४ रो व्,४७६ अनिष्ठायाम् इति वर्तते उताहो निवृत्तम् । निवृत्तम् इति आह । कथम् ज्ञायते । योगविभागकरणसामर्थ्यात् । इतरथा हि विपरिभ्याम् च स्कन्देः अनिष्ठायाम् इति एव ब्रूयात् ।

KA III,444.1-4 Ro V,476 aniṣṭhāyām iti vartate utāho nivṛttam . nivṛttam iti āha . katham jñāyate . yogavibhāgakaraṇasāmarthyāt . itarathā hi viparibhyām ca skandeḥ aniṣṭhāyām iti eva brūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४४।५-९ रो व्,४७६ इण्ग्रहणम् किमर्थम् । इण्ग्रहणम् ढत्वे कवर्गनिवृत्त्यर्थम् । इण्घ्रहणम् क्रियते कवर्गात् ढत्वम् मा भूत् इति । पक्षीध्वम् यक्षीध्वम् ।

KA III,444.5-9 Ro V,476 iṇgrahaṇam kimartham . iṇgrahaṇam ḍhatve kavarganivṛttyartham . iṇghrahaṇam kriyate kavargāt ḍhatvam mā bhūt iti . pakṣīdhvam yakṣīdhvam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४४।१०-४४५।१४ रो व्,४७६-४७८ किम् पुनः इदम् इण्ग्रहणम् प्रत्ययविशेषणम् : इणः उत्तरेषाम् षीध्वंलुङ्लिटाम् यः धकारः इति । आहोस्वित् धकारविशेषणम् : इणः उत्तरस्य धकारस्य सः चेत् षीध्वंलुङ्लिटाम् धकारः इति । कः च अत्र विशेषः । तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् । तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् न प्राप्नोति । लुलुविढ्वे लुलुविध्वे इति । किम् कारणम् । परादित्वात् । इट् परादिः । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । अलविढ्वम् अलविध्वम् । अस्तु तर्हि धकारविशेषणम् । धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः । धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषा न प्राप्नोति । लविषीढ्वम् लविषीध्वम् इति । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । लुलुविढ्वे लुलुविध्वे इति । इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः । इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वम् प्राप्नोति : पक्षीध्वम् , यक्षीध्वम् इति । न एषः दोषः । अङ्गात् इति वक्ष्यामि । अङ्गग्रहणात् च दोषः । इह न प्राप्नोति : उपदिदीयिध्वे , उपदिदीयिढ्वे । यः हि अत्र अङ्गान्त्यः इण् न तस्मात् उत्तरः इट् यस्मात् च उत्तरः इट् न असौ अङ्गान्त्यः इण् इति । यथा इच्छसि तथा अस्तु । अस्तु तावत् प्रत्ययविशेषणम् । ननु च उक्तम् तत्र प्रत्ययपरत्वे इटः लिटि ढत्वम् परादित्वात् लुलुविढ्वे लुलुविध्वे इति । वचनात् भविष्यति । ननु च उक्तम् अस्ति वचने प्रयोजनम् । किम् । अलविढ्वम् अलविध्वम् इति । यत् एतस्मिन् योगे लिड्ग्रहणम् तदनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति । अथ वा पुनः अस्तु धकारविशेषणम् इति । ननु च उक्तम् धकारपरत्वे षीध्वमि अननन्तरत्वात् इटः विभाषाभावः लविषीढ्वम् लविषीध्वम् इति । वचनात् भविष्यति । ननु च उक्तम् अस्ति वचने प्रयोजनम् । किम् । लुलुविढ्वे लुलुविध्वे इति । यत् एतस्मिन् योगे षीध्वङ्ग्रहणम् तत् अनवकाशम् तस्य अनवकाशत्वात् वचनात् भविष्यति । यत् अपि उच्यते इण्ग्रहणस्य च अविशेषणत्वात् ष्यादिमात्रे ढत्वप्रसङ्गः इति अङ्गात् इति वक्ष्यामि । ननु च उक्तम् अङ्गग्रहणात् च दोषः इति । पूर्वस्मिन् योगे यत् अङ्गग्रहणम् तत् उत्तरत्र निवृत्तम् । अथ वा पूर्वस्मिन् योगे इण्ग्रहणम् प्रत्ययविशेषणम् उत्तरत्र धकारविशेषणम् ।

KA III,444.10-445.14 Ro V,476-478 kim punaḥ idam iṇgrahaṇam pratyayaviśeṣaṇam : iṇaḥ uttareṣām ṣīdhvaṃluṅliṭām yaḥ dhakāraḥ iti . āhosvit dhakāraviśeṣaṇam : iṇaḥ uttarasya dhakārasya saḥ cet ṣīdhvaṃluṅliṭām dhakāraḥ iti . kaḥ ca atra viśeṣaḥ . tatra pratyayaparatve iṭaḥ liṭi ḍhatvam parāditvāt . tatra pratyayaparatve iṭaḥ liṭi ḍhatvam na prāpnoti . luluviḍhve luluvidhve iti . kim kāraṇam . parāditvāt . iṭ parādiḥ . vacanāt bhaviṣyati . asti vacane prayojanam . kim . alaviḍhvam alavidhvam . astu tarhi dhakāraviśeṣaṇam . dhakāraparatve ṣīdhvami ananantaratvāt iṭaḥ vibhāṣābhāvaḥ . dhakāraparatve ṣīdhvami ananantaratvāt iṭaḥ vibhāṣā na prāpnoti . laviṣīḍhvam laviṣīdhvam iti . vacanāt bhaviṣyati . asti vacane prayojanam . kim . luluviḍhve luluvidhve iti . iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvaprasaṅgaḥ . iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvam prāpnoti : pakṣīdhvam , yakṣīdhvam iti . na eṣaḥ doṣaḥ . aṅgāt iti vakṣyāmi . aṅgagrahaṇāt ca doṣaḥ . iha na prāpnoti : upadidīyidhve , upadidīyiḍhve . yaḥ hi atra aṅgāntyaḥ iṇ na tasmāt uttaraḥ iṭ yasmāt ca uttaraḥ iṭ na asau aṅgāntyaḥ iṇ iti . yathā icchasi tathā astu . astu tāvat pratyayaviśeṣaṇam . nanu ca uktam tatra pratyayaparatve iṭaḥ liṭi ḍhatvam parāditvāt luluviḍhve luluvidhve iti . vacanāt bhaviṣyati . nanu ca uktam asti vacane prayojanam . kim . alaviḍhvam alavidhvam iti . yat etasmin yoge liḍgrahaṇam tadanavakāśam tasya anavakāśatvāt vacanāt bhaviṣyati . atha vā punaḥ astu dhakāraviśeṣaṇam iti . nanu ca uktam dhakāraparatve ṣīdhvami ananantaratvāt iṭaḥ vibhāṣābhāvaḥ laviṣīḍhvam laviṣīdhvam iti . vacanāt bhaviṣyati . nanu ca uktam asti vacane prayojanam . kim . luluviḍhve luluvidhve iti . yat etasmin yoge ṣīdhvaṅgrahaṇam tat anavakāśam tasya anavakāśatvāt vacanāt bhaviṣyati . yat api ucyate iṇgrahaṇasya ca aviśeṣaṇatvāt ṣyādimātre ḍhatvaprasaṅgaḥ iti aṅgāt iti vakṣyāmi . nanu ca uktam aṅgagrahaṇāt ca doṣaḥ iti . pūrvasmin yoge yat aṅgagrahaṇam tat uttaratra nivṛttam . atha vā pūrvasmin yoge iṇgrahaṇam pratyayaviśeṣaṇam uttaratra dhakāraviśeṣaṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४५।१५-२३ रो व्,४७८-४७९ अग्नेः दीर्घात् सोमस्य । अग्नेः दीर्घात् सोमस्य इति वक्तव्यम् । अग्नीषोमौ । इतरथा हि अनिष्टप्रसङ्गः । इतरथा हि अनिष्टम् प्रसज्येत । अग्निसोमौ माणवकौ इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । गौणमुख्ययोः मुख्ये सम्प्रतिप्रत्तिः । तत् यथा । गौः अनुबन्ध्यः अजः अग्नीषोमीयः इति न बाहीकः अनुबध्यते । कथम् तर्हि बाहीके वृद्ध्यात्त्वे भवतः । गौः तिष्ठति । गाम् आनय इति । अर्थाश्रये एतत् एवम् भवति । यत् हि शब्दाश्रयम् शब्दमात्रे तत् भवति । शब्दाश्रये च वृद्ध्यात्वे ।

KA III,445.15-23 Ro V,478-479 agneḥ dīrghāt somasya . agneḥ dīrghāt somasya iti vaktavyam . agnīṣomau . itarathā hi aniṣṭaprasaṅgaḥ . itarathā hi aniṣṭam prasajyeta . agnisomau māṇavakau iti . tat tarhi vaktavyam . na vaktavyam . gauṇamukhyayoḥ mukhye sampratiprattiḥ . tat yathā . gauḥ anubandhyaḥ ajaḥ agnīṣomīyaḥ iti na bāhīkaḥ anubadhyate . katham tarhi bāhīke vṛddhyāttve bhavataḥ . gauḥ tiṣṭhati . gām ānaya iti . arthāśraye etat evam bhavati . yat hi śabdāśrayam śabdamātre tat bhavati . śabdāśraye ca vṛddhyātve .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४६।१-६ रो व्,४८० सान्ताभ्याम् च इति वक्तव्यम् । इह अपि यथा स्यात् । मातुःष्वसा मातुःस्वसा । पितुःष्वसा पितुःस्वसेति । मातुः पितुः इति सान्तग्रहणानर्थक्यम् एकदेशविकृतस्य अनन्यत्वात् । मातुः पितुः इति सान्तग्रहणम् अनर्थकम् । किम् कारणम् । एकदेशविकृतस्य अनन्यत्वात् । एकदेशविकृतम् अनन्यवत् भवति इति सान्तस्य अपि भविष्यति ।

KA III,446.1-6 Ro V,480 sāntābhyām ca iti vaktavyam . iha api yathā syāt . mātuḥṣvasā mātuḥsvasā . pituḥṣvasā pituḥsvaseti . mātuḥ pituḥ iti sāntagrahaṇānarthakyam ekadeśavikṛtasya ananyatvāt . mātuḥ pituḥ iti sāntagrahaṇam anarthakam . kim kāraṇam . ekadeśavikṛtasya ananyatvāt . ekadeśavikṛtam ananyavat bhavati iti sāntasya api bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४६।७-१८ रो व्,४८०-४८१ अस्तिग्रहणम् किमर्थम् । इह मा भूत् । अनुसृतम् , विसृतम् इति । न एतत् अस्ति प्रयोजनम् । यद्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् सकारम् प्रति क्रियायोगः । इह अपि तर्हि न प्राप्नोति अभिषन्ति विषन्ति इति न हि अस्तिः क्रियावचनः । कः पुनः आह न अस्तिः क्रियावचनः इति । क्रियावचनः अस्तिः । आतः च क्रियावचनः व्यत्यनुषते कर्तरिकर्मव्यतिहारे इति अनेन आत्मनेपदम् भवति । कर्मव्यतिहारः च कः । क्रियाव्यतिहारः । प्रादुःशब्दात् तर्हि मा भूत् । प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते । उपसर्गात् तर्हि स्यतेः मा भूत् इति । इष्यते उपसर्गात् स्यतेः षत्वम् । आतश् च इष्यते । एवम् हि आह : उपसर्गात् सुनोतिसुवतिस्यतिस्तौतिस्तोभतिस्थासेनयसेधसिचसञ्जस्वङ्जाम् इति । प्रादुःशब्दात् तर्हि स्यतेः मा भूत् इति । प्रादुःशब्दः च नियतविषयः कृभ्वस्तियोगे एव वर्तते । इदम् तर्हि प्रयोजनम् इह मा भूत् : अनुसूतेः अप्रत्ययः अनुसूः अनुस्वः अपत्यम् आनुसेयः ।

KA III,446.7-18 Ro V,480-481 astigrahaṇam kimartham . iha mā bhūt . anusṛtam , visṛtam iti . na etat asti prayojanam . yadkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca etam sakāram prati kriyāyogaḥ . iha api tarhi na prāpnoti abhiṣanti viṣanti iti na hi astiḥ kriyāvacanaḥ . kaḥ punaḥ āha na astiḥ kriyāvacanaḥ iti . kriyāvacanaḥ astiḥ . ātaḥ ca kriyāvacanaḥ vyatyanuṣate kartarikarmavyatihāre iti anena ātmanepadam bhavati . karmavyatihāraḥ ca kaḥ . kriyāvyatihāraḥ . prāduḥśabdāt tarhi mā bhūt . prāduḥśabdaḥ ca niyataviṣayaḥ kṛbhvastiyoge eva vartate . upasargāt tarhi syateḥ mā bhūt iti . iṣyate upasargāt syateḥ ṣatvam . ātaś ca iṣyate . evam hi āha : upasargāt sunotisuvatisyatistautistobhatisthāsenayasedhasicasañjasvaṅjām iti . prāduḥśabdāt tarhi syateḥ mā bhūt iti . prāduḥśabdaḥ ca niyataviṣayaḥ kṛbhvastiyoge eva vartate . idam tarhi prayojanam iha mā bhūt : anusūteḥ apratyayaḥ anusūḥ anusvaḥ apatyam ānuseyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४६।१९-४४७।२० रो व्,४८१-४८३ किमर्थम् स्वपेः सुपिभूतस्य ग्रहणम् क्रियते । सुपेः षत्वम् स्वपेः मा भूत् । सुपेः षत्वम् उच्यते तत् स्वपेः मा भूत् इति । सुस्वप्नः विस्वप्नक् इति । विसुष्वाप इति केन न । विसुष्वाप इति अत्र कस्मात् न भवति । हलादिशेषात् न सुपिः । हलादिशेषे कृते न एषः सुपिः भवति । इदम् इह सम्प्रधार्यम् । हलादिशेषः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् । परत्वात् हलादिशेषः । इष्टम् पूर्वम् प्रसारणम् । इष्यते हलादिशेषात् पूर्वम् सम्प्रसारणम् । आतः च इष्यते । एवम् हि आह : अभ्याससम्प्रसारणम् हलादिशेषात् विप्रतिषेधेन इति । एवम् तर्हि स्थादिषु अभ्यासस्य इति एतस्मात् नियमात् न भविष्यति । स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः । प्राक् सितसंशब्दनात् सः नियमः उत्तरः च सुपिः पठ्यते । एवम् तर्हि अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति । अनर्थके विषुषुपुः । यदि अर्थवतः ग्रहणम् विषुषुपुः इति न सिध्यति । न एषः दोषः । कथम् । सुपिभूतः द्विः उच्यते । सुपिभुतस्य द्विर्वचनम् । सुपेः षत्वम् स्वपेः मा भूत् । विसुष्वाप इति केन न । हलादिशेषात् न सुपिः । इष्टम् पूर्वम् प्रसारणम् । स्थादीनाम् नियमः न अत्र प्राक् सितात् उत्तरः सुपिः । अनर्थके विषुषुपुः सुपिभूतः द्विः उच्यते ।

KA III,446.19-447.20 Ro V,481-483 kimartham svapeḥ supibhūtasya grahaṇam kriyate . supeḥ ṣatvam svapeḥ mā bhūt . supeḥ ṣatvam ucyate tat svapeḥ mā bhūt iti . susvapnaḥ visvapnak iti . visuṣvāpa iti kena na . visuṣvāpa iti atra kasmāt na bhavati . halādiśeṣāt na supiḥ . halādiśeṣe kṛte na eṣaḥ supiḥ bhavati . idam iha sampradhāryam . halādiśeṣaḥ kriyatām samprasāraṇam iti kim atra kartavyam . paratvāt halādiśeṣaḥ . iṣṭam pūrvam prasāraṇam . iṣyate halādiśeṣāt pūrvam samprasāraṇam . ātaḥ ca iṣyate . evam hi āha : abhyāsasamprasāraṇam halādiśeṣāt vipratiṣedhena iti . evam tarhi sthādiṣu abhyāsasya iti etasmāt niyamāt na bhaviṣyati . sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ supiḥ . prāk sitasaṃśabdanāt saḥ niyamaḥ uttaraḥ ca supiḥ paṭhyate . evam tarhi arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . anarthake viṣuṣupuḥ . yadi arthavataḥ grahaṇam viṣuṣupuḥ iti na sidhyati . na eṣaḥ doṣaḥ . katham . supibhūtaḥ dviḥ ucyate . supibhutasya dvirvacanam . supeḥ ṣatvam svapeḥ mā bhūt . visuṣvāpa iti kena na . halādiśeṣāt na supiḥ . iṣṭam pūrvam prasāraṇam . sthādīnām niyamaḥ na atra prāk sitāt uttaraḥ supiḥ . anarthake viṣuṣupuḥ supibhūtaḥ dviḥ ucyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४७।२१-४४८।२ रो व्,४८३-४८४ कपिष्ठलः गोत्रप्रकृतौ । कपिष्ठलः गोत्रप्रकृतौ इति वक्तव्यम् । गोत्रे इति उच्यमाने इह एव स्यात् । कापिष्ठलिः । इह न स्यात् । कपिष्ठलः कापिष्ठलायनः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एवम् विज्ञायते कपिष्ठलः इति गोत्रे निपात्यते इति । कथम् तर्हि । गोत्रे यः कपिष्ठलशब्दः तस्य षत्वम् निपात्यते यत्र वा तत्र वा इति ।

KA III,447.21-448.2 Ro V,483-484 kapiṣṭhalaḥ gotraprakṛtau . kapiṣṭhalaḥ gotraprakṛtau iti vaktavyam . gotre iti ucyamāne iha eva syāt . kāpiṣṭhaliḥ . iha na syāt . kapiṣṭhalaḥ kāpiṣṭhalāyanaḥ . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate kapiṣṭhalaḥ iti gotre nipātyate iti . katham tarhi . gotre yaḥ kapiṣṭhalaśabdaḥ tasya ṣatvam nipātyate yatra vā tatra vā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४८।३-९ रो व्,४८४ स्थः इति किम् इदम् धातुग्रहणम् आहोस्वित् रूपग्रहणम् । किम् च अतः । यदि धातुग्रहणम् गोस्थानम् इति अत्र प्राप्नोति । अथ रूपग्रहणम् सव्येष्ठाः , परमेष्ठी , सव्येष्ठा सारथिः इति अत्र न प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत् धातुग्रहणम् । कथम् गोस्थानम् इति । सवनादिषु पाठः करिष्यते । अथ वा पुनः अस्तु रूपग्रहणम् । कथम् सव्येष्ठाः , पर्मेष्ठी , सव्येष्ठा सारथिः इति । स्थः स्थास्थिन्स्थॄणाम् इति वक्तव्यम् ।

KA III,448.3-9 Ro V,484 sthaḥ iti kim idam dhātugrahaṇam āhosvit rūpagrahaṇam . kim ca ataḥ . yadi dhātugrahaṇam gosthānam iti atra prāpnoti . atha rūpagrahaṇam savyeṣṭhāḥ , parameṣṭhī , savyeṣṭhā sārathiḥ iti atra na prāpnoti . yathā icchasi tathā astu . astu tāvat dhātugrahaṇam . katham gosthānam iti . savanādiṣu pāṭhaḥ kariṣyate . atha vā punaḥ astu rūpagrahaṇam . katham savyeṣṭhāḥ , parmeṣṭhī , savyeṣṭhā sārathiḥ iti . sthaḥ sthāsthinsthṝṇām iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४८।१०-११ रो व्,४८५ अविहितलक्षणः मूर्धन्यः सुषामादिषु द्रष्टव्यः ।

KA III,448.10-11 Ro V,485 avihitalakṣaṇaḥ mūrdhanyaḥ suṣāmādiṣu draṣṭavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४८।१२-१४ रो व्,४८५ ह्रस्वात् तादौ तिङि प्रतिषेधः । ह्रस्वात् तादौ तिङि प्रतिषेधः वक्तव्यः । भिन्द्युस्तराम् छिन्द्युस्तराम् इति ।

KA III,448.12-14 Ro V,485 hrasvāt tādau tiṅi pratiṣedhaḥ . hrasvāt tādau tiṅi pratiṣedhaḥ vaktavyaḥ . bhindyustarām chindyustarām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४८।१५-१८ रो व्,४८५ स्तुतस्तोमयोः छन्दसि अनर्थकम् वचनम् पूर्वपदात् इति सिद्धत्वात् । स्तुतस्तोमयोः छन्दसि वचनम् अनर्थकम् । किम् कारणम् । पूर्वपदात् इति सिद्धत्वात् । पूर्वपदात् इति एव सिद्धम् ।

KA III,448.15-18 Ro V,485 stutastomayoḥ chandasi anarthakam vacanam pūrvapadāt iti siddhatvāt . stutastomayoḥ chandasi vacanam anarthakam . kim kāraṇam . pūrvapadāt iti siddhatvāt . pūrvapadāt iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४९।१-१३ रो व्,४८५-४८६ सनोतेः अनः इति च । किम् । वचनम् अनर्थकम् इति एव । किम् कारणम् । पूर्वपदात् इति सिद्धत्वात् । नियमार्थम् तर्हि इदम् वक्तव्यम् । सनोतेः अनकारस्य एव यथा स्यात् । इह मा भूत् । गोसनिम् इति । सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिकृतत्वात् सिद्धम् । सनोतेः अनः इति नियमार्थम् इति चेत् सवनादिषु पाठः करिष्यते । सनर्थम् तु । सनर्थम् तु इदम् वक्तव्यम् । सिसनिषति । एतत् अपि न अस्ति प्रयोजनम् । स्तौतिण्योरेवषण्यभ्यासात् इति एतस्मात् नियमात् न भविष्यति । ण्यर्थम् तर्हि इदम् वक्तव्यम् । सिसानयिषति । कथम् पुनः अण्यन्तस्य प्रतिषेधे ण्यन्तः शक्यः विज्ञातुम् । सामर्थ्यात् । अण्यन्तस्य प्रतिषेधवचने प्रयोजनम् न अस्ति इति कृत्वा ण्यन्ते विज्ञास्यते । अथ वा अयम् अस्ति अण्यन्तः : सिसनिषतेः अप्रत्ययः सिसनीः ।

KA III,449.1-13 Ro V,485-486 sanoteḥ anaḥ iti ca . kim . vacanam anarthakam iti eva . kim kāraṇam . pūrvapadāt iti siddhatvāt . niyamārtham tarhi idam vaktavyam . sanoteḥ anakārasya eva yathā syāt . iha mā bhūt . gosanim iti . sanoteḥ anaḥ iti niyamārtham iti cet savanādikṛtatvāt siddham . sanoteḥ anaḥ iti niyamārtham iti cet savanādiṣu pāṭhaḥ kariṣyate . sanartham tu . sanartham tu idam vaktavyam . sisaniṣati . etat api na asti prayojanam . stautiṇyorevaṣaṇyabhyāsāt iti etasmāt niyamāt na bhaviṣyati . ṇyartham tarhi idam vaktavyam . sisānayiṣati . katham punaḥ aṇyantasya pratiṣedhe ṇyantaḥ śakyaḥ vijñātum . sāmarthyāt . aṇyantasya pratiṣedhavacane prayojanam na asti iti kṛtvā ṇyante vijñāsyate . atha vā ayam asti aṇyantaḥ : sisaniṣateḥ apratyayaḥ sisanīḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४४९।१४-२० रो व्,४८६ किमर्थम् सवादिषु अश्वसनिशब्दः पठ्यते । पूर्वपदात् इति षत्वम् प्राप्नोति । तद्बाधनार्थम् । न एतत् अस्ति प्रयोजनम् । इणन्तात् इति तत्र अनुवर्तते अनिणन्तः च अयम् । न एव प्राप्नोति न अर्थः प्रतिषेधेन । एवम् तर्हि सिद्धे सति यत् सवनादिषु अश्वसनिशब्दम् पठति तत् ज्ञापयति आचार्यः अनिणन्तात् अपि षत्वम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । जलाषाहम् माषः इति एतत् सिद्धम् भवति । अथ वा एकदेशविकृतार्थः अयम् आरम्भः । अश्वषाः इति ।

KA III,449.14-20 Ro V,486 kimartham savādiṣu aśvasaniśabdaḥ paṭhyate . pūrvapadāt iti ṣatvam prāpnoti . tadbādhanārtham . na etat asti prayojanam . iṇantāt iti tatra anuvartate aniṇantaḥ ca ayam . na eva prāpnoti na arthaḥ pratiṣedhena . evam tarhi siddhe sati yat savanādiṣu aśvasaniśabdam paṭhati tat jñāpayati ācāryaḥ aniṇantāt api ṣatvam bhavati iti . kim etasya jñāpane prayojanam . jalāṣāham māṣaḥ iti etat siddham bhavati . atha vā ekadeśavikṛtārthaḥ ayam ārambhaḥ . aśvaṣāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५०।१-८ रो व्,४८६-४८७ उपसर्गात् इति या प्राप्तिः भवितव्यम् तस्याः प्रतिषेधेन उताहो न । न भवितव्यम् । किम् कारणम् । उपसर्गात् षत्वम् प्रतिषेधविषये आरभ्यते तत् यथा एव पदादिलक्षणम् प्रतिषेधम् बाधते एवम् सिचः यङि इति एतम् अपि बाधते । न बाधते । किम् कारणम् । येन न अप्राप्ते तस्य बाधनम् भवति न च अप्राप्ते पदादिलक्षणे प्रतिषेधे उपसर्गात् षत्वम् आरभ्यते सिचः यङि इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च । अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् उपसर्गात् षत्वम् पदादिलक्षणम् प्रतिषेधम् बाधिष्यते सिचः यङि इति एतम् न बाधिष्यते । तस्मात् अभिसेसिच्यते इति भवितव्यम् ।

KA III,450.1-8 Ro V,486-487 upasargāt iti yā prāptiḥ bhavitavyam tasyāḥ pratiṣedhena utāho na . na bhavitavyam . kim kāraṇam . upasargāt ṣatvam pratiṣedhaviṣaye ārabhyate tat yathā eva padādilakṣaṇam pratiṣedham bādhate evam sicaḥ yaṅi iti etam api bādhate . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam bhavati na ca aprāpte padādilakṣaṇe pratiṣedhe upasargāt ṣatvam ārabhyate sicaḥ yaṅi iti etasmin punaḥ prāpte ca aprāpte ca . atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam upasargāt ṣatvam padādilakṣaṇam pratiṣedham bādhiṣyate sicaḥ yaṅi iti etam na bādhiṣyate . tasmāt abhisesicyate iti bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५०।९-११ रो व्,४८७ किमर्थम् सहिः सोढभूतः गृह्यते । यत्र अस्य एतत् रूपम् तत्र यथा स्यात् । इह मा भूत् । परिषहते इति ।

KA III,450.9-11 Ro V,487 kimartham sahiḥ soḍhabhūtaḥ gṛhyate . yatra asya etat rūpam tatra yathā syāt . iha mā bhūt . pariṣahate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५०।१२-१६ रो व्,४८७ स्तम्भुसिवुसहाम् चङि उपसर्गात् । स्तम्भुसिवुसहाम् चङि उपसर्गात् इति वक्तव्यम् । किम् प्रयोजनम् । उपसर्गात् या प्राप्तिः तस्याः प्रतिषेधः यथा स्यात् । अभ्यासात् या प्राप्तिः तस्याः प्रतिषेधः मा भूत् इति । पर्यसीषहत् ।

KA III,450.12-16 Ro V,487 stambhusivusahām caṅi upasargāt . stambhusivusahām caṅi upasargāt iti vaktavyam . kim prayojanam . upasargāt yā prāptiḥ tasyāḥ pratiṣedhaḥ yathā syāt . abhyāsāt yā prāptiḥ tasyāḥ pratiṣedhaḥ mā bhūt iti . paryasīṣahat .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५०।१७-२१ रो व्,४८७ सनि किम् उदाहरणम् । सुसूषति । न एतत् अस्ति प्रयोजनम् । स्तौतिण्योः एव षणि इति एतस्मात् नियमात् न भविष्यति । इदम् तर्हि । अभिसुसूषति । एतत् अपि न अस्ति प्रयोजनम् । स्थादिष्वभ्यासेनचाभ्यासस्य इति एतस्मात् नियमात् न भविष्यति । इदम् तर्हि प्रयोजनम् : अभिसुसूषतेः अप्रत्ययः अभिसुसूः ।

KA III,450.17-21 Ro V,487 sani kim udāharaṇam . susūṣati . na etat asti prayojanam . stautiṇyoḥ eva ṣaṇi iti etasmāt niyamāt na bhaviṣyati . idam tarhi . abhisusūṣati . etat api na asti prayojanam . sthādiṣvabhyāsenacābhyāsasya iti etasmāt niyamāt na bhaviṣyati . idam tarhi prayojanam : abhisusūṣateḥ apratyayaḥ abhisusūḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५१।१-३ रो व्,४८७ सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यनम् । सदः लिटि प्रतिषेधे स्वञ्जेः उपसङ्ख्यानम् कर्तव्यम् । परिषस्वजे ।

KA III,451.1-3 Ro V,487 sadaḥ liṭi pratiṣedhe svañjeḥ upasaṅkhyanam . sadaḥ liṭi pratiṣedhe svañjeḥ upasaṅkhyānam kartavyam . pariṣasvaje .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५२।१-२० रो व्,४८८-४९० रषाभ्याम् णत्वे ऋकारग्रहणम् । रषाभ्याम् णत्वे ऋकारग्रहणम् कर्तव्यम् । रषाभ्याम् नः णः समानपदे ऋकारात् च इति वक्तव्यम् । इह अपि यथा स्यात् : मातॄणाम् , पितॄणाम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यः असौ ऋकारे रेफः तदाश्रयम् णत्वम् भविष्यति । न सिध्यति । किम् कारणम् । न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते । एकदेशे नुडादिषु च उक्तम् । किम् उक्तम् । अग्रहणम् चेत् नुड्विधिलादेशविनामेषु ऋकारग्रहणम् इति । तस्मात् गृह्यन्ते । एवम् अपि न सिध्यति । किम् कारणम् । अननन्तरत्वात् । यत् तत् रेफात् परम् भक्तेः तेन व्यवहितत्वात् न प्राप्नोति । अड्व्यवाये इति एवम् भविष्यति । न सिध्यति । किम् कारणम् । वर्णैकदेशाः के वर्णग्रहणेन गृह्यन्ते । ये व्यपवृक्ताः अपि वर्णाः भवन्ति । यत् च अत्र रेफात् परम् भक्तेः न तत् क्व चित् अपि व्यपवृक्तम् दृश्यते । एवम् तर्हि योगविभागः करिष्यते । रषाभ्याम् नः णः समानपदे । ततः व्यवाये । व्यवाये च रषाभ्याम् नः णः भवति इति । ततः अट्कुप्वाङ्नुम्भिः इति । इदम् इदानीम् किमर्थम् । नियमार्थम् । एतैः एव अक्षरसमाम्नायिकैः व्यवाये न अन्यैः इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति ऋकारात् णत्वम् इति यत् अयम् क्षुभ्नादिषु नृनमनशब्दम् पठति । न एतत् अस्ति ज्ञापकम् । वृद्ध्यर्थम् एतत् स्यात् । नार्नमनिः इति । यत् तर्हि तत्र एव तृप्नोतिशब्दम् पठति । यत् च अपि नृनमनशब्दम् पठति । ननु च उक्तम् वृद्ध्यर्थम् एतत् स्यात् इति । बहिरङ्गा वृद्धिः । अन्तरङ्गम् णत्वम् । असिद्धम् बहिरङ्गम् अन्तरङ्गे । अथ वा उपरिष्टात् योगविभागः करिष्यते । ऋतः नः णः भवति । ततः छन्दसि अवग्रहात् ऋतः इति एव ।

KA III,452.1-20 Ro V,488-490 raṣābhyām ṇatve ṛkāragrahaṇam . raṣābhyām ṇatve ṛkāragrahaṇam kartavyam . raṣābhyām naḥ ṇaḥ samānapade ṛkārāt ca iti vaktavyam . iha api yathā syāt : mātṝṇām , pitṝṇām iti . tat tarhi vaktavyam . na vaktavyam . yaḥ asau ṛkāre rephaḥ tadāśrayam ṇatvam bhaviṣyati . na sidhyati . kim kāraṇam . na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante . ekadeśe nuḍādiṣu ca uktam . kim uktam . agrahaṇam cet nuḍvidhilādeśavināmeṣu ṛkāragrahaṇam iti . tasmāt gṛhyante . evam api na sidhyati . kim kāraṇam . ananantaratvāt . yat tat rephāt param bhakteḥ tena vyavahitatvāt na prāpnoti . aḍvyavāye iti evam bhaviṣyati . na sidhyati . kim kāraṇam . varṇaikadeśāḥ ke varṇagrahaṇena gṛhyante . ye vyapavṛktāḥ api varṇāḥ bhavanti . yat ca atra rephāt param bhakteḥ na tat kva cit api vyapavṛktam dṛśyate . evam tarhi yogavibhāgaḥ kariṣyate . raṣābhyām naḥ ṇaḥ samānapade . tataḥ vyavāye . vyavāye ca raṣābhyām naḥ ṇaḥ bhavati iti . tataḥ aṭkupvāṅnumbhiḥ iti . idam idānīm kimartham . niyamārtham . etaiḥ eva akṣarasamāmnāyikaiḥ vyavāye na anyaiḥ iti . atha vā ācāryapravṛttiḥ jñāpayati bhavati ṛkārāt ṇatvam iti yat ayam kṣubhnādiṣu nṛnamanaśabdam paṭhati . na etat asti jñāpakam . vṛddhyartham etat syāt . nārnamaniḥ iti . yat tarhi tatra eva tṛpnotiśabdam paṭhati . yat ca api nṛnamanaśabdam paṭhati . nanu ca uktam vṛddhyartham etat syāt iti . bahiraṅgā vṛddhiḥ . antaraṅgam ṇatvam . asiddham bahiraṅgam antaraṅge . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . ṛtaḥ naḥ ṇaḥ bhavati . tataḥ chandasi avagrahāt ṛtaḥ iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५२।२१-४५३।८ रो व्,४९०-४९१ अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः । अड्व्यवाये णत्वे अन्यव्यवाये प्रतिषेधः वक्तव्यः । आदर्शेन अक्षदर्शेन । न वा अन्येन व्यपेतत्वात् । न वा वक्तव्यः । किम् कारणम् । अन्येन व्यपेतत्वात् । अन्येन अत्र व्यवायः । यदि अपि अत्र अन्येन व्यवायः अटा अपि तु व्यवायः अस्ति तत्र अस्ति अड्व्यवाये इति प्राप्नोति । अटा एव व्यवाये भवति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अड्ग्रहणसामर्थ्यात् । यदि हि यत्र अटा च अन्येन च व्यवायः तत्र स्यात् अड्ग्रहणम् अनर्थकम् स्यात् । व्यवाये नः णः भवति इति एव ब्रूयात् । अस्ति अन्यत् अड्ग्रहणस्य प्रयोजनम् । किम् । यः अनिर्दिष्टैः एव व्यवायः तत्र मा भूत् । कृत्स्नम् मृत्स्ना इति । यदि एतावत् प्रयोजनम् स्यात् शर्व्यवाये न इति एव ब्रूयात् ।

KA III,452.21-453.8 Ro V,490-491 aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ . aḍvyavāye ṇatve anyavyavāye pratiṣedhaḥ vaktavyaḥ . ādarśena akṣadarśena . na vā anyena vyapetatvāt . na vā vaktavyaḥ . kim kāraṇam . anyena vyapetatvāt . anyena atra vyavāyaḥ . yadi api atra anyena vyavāyaḥ aṭā api tu vyavāyaḥ asti tatra asti aḍvyavāye iti prāpnoti . aṭā eva vyavāye bhavati . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . aḍgrahaṇasāmarthyāt . yadi hi yatra aṭā ca anyena ca vyavāyaḥ tatra syāt aḍgrahaṇam anarthakam syāt . vyavāye naḥ ṇaḥ bhavati iti eva brūyāt . asti anyat aḍgrahaṇasya prayojanam . kim . yaḥ anirdiṣṭaiḥ eva vyavāyaḥ tatra mā bhūt . kṛtsnam mṛtsnā iti . yadi etāvat prayojanam syāt śarvyavāye na iti eva brūyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५३।९-१७ रो व्,४९१ तत्समुदाये णत्वाप्रसिद्धिः यथा अन्यत्र । तत्समुदाये व्यवायसमुदाये णत्वस्य अप्रसिद्धिः । अर्केण अर्घेण । यथा अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति । क्व अन्यत्र । नुम्विसर्जनीयशर्व्यवायेऽपि निंस्से निंस्स्व इति । किम् पुनः कारणम् अन्यत्र अपि व्यवायसमुदाये कार्यम् न भवति । प्रत्येकम् वाक्यपरिसमाप्तिः दृष्टा इति । तत् यथा । गुणवृद्धिसञ्ज्ञे प्रत्येकम् भवतः । ननु च अयम् अपि अस्ति दृष्टान्तः समुदाये वाक्यपरिसमाप्तिः इति । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । यदि एवम् एकेन व्यवाये न प्राप्नोति । किरिणा रिरिणा इति । उभयथा अपि वाक्यपरिसमाप्तिः दृश्यते । तत् यथा । गर्गैः सह न भोक्तव्यम् इति प्रत्येकम् च न सम्भुज्यते समुदितैः च ।

KA III,453.9-17 Ro V,491 tatsamudāye ṇatvāprasiddhiḥ yathā anyatra . tatsamudāye vyavāyasamudāye ṇatvasya aprasiddhiḥ . arkeṇa argheṇa . yathā anyatra api vyavāyasamudāye kāryam na bhavati . kva anyatra . numvisarjanīyaśarvyavāye'pi niṃsse niṃssva iti . kim punaḥ kāraṇam anyatra api vyavāyasamudāye kāryam na bhavati . pratyekam vākyaparisamāptiḥ dṛṣṭā iti . tat yathā . guṇavṛddhisañjñe pratyekam bhavataḥ . nanu ca ayam api asti dṛṣṭāntaḥ samudāye vākyaparisamāptiḥ iti . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . yadi evam ekena vyavāye na prāpnoti . kiriṇā ririṇā iti . ubhayathā api vākyaparisamāptiḥ dṛśyate . tat yathā . gargaiḥ saha na bhoktavyam iti pratyekam ca na sambhujyate samuditaiḥ ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५३।१८-४५४।७ रो व्,४९१-४९२ कुव्यवाये हादेशेषु प्रतिषेधः । कुव्यवाये हादेशेषु प्रतिषेधः वकव्यः । किम् प्रयोजनम् । प्रयोजनम् वृत्रघ्नः स्रुघ्नः प्राघानि इति । हन्तेरत्पूर्वस्य इति अत्पूर्वग्रहणम् न कर्तव्यम् भवति । नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः । नुम्व्यवाये णत्वे अनुस्वाराभावे प्रतिषेधः वक्तव्यः । प्रेन्वनम् प्रेन्वनीयम् । अनागमे च णत्वम् । अनागमे च णत्वम् वक्तव्यम् । तृम्पणीयम् । अनुस्वारव्यवायवचनात् तु सिद्धम् । अनुस्वारव्यवाये नः णः भवति इति वक्तव्यम् । तदनुस्वारग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते न्यासे एव । नकारे अनुस्वारः परसवर्णीभूतः निर्दिश्यते । इह अपि तर्हि प्राप्नोति । प्रेन्वनम् प्रेन्वनीयम् । अनुस्वारविशेषणम् नुम्ग्रहणम् । नुमः यः अनुस्वारः इति । इह अपि तर्हि न प्राप्नोति । तृम्पणम् तृम्पणीयम् । एवम् तर्हि अयोगवाहानाम् अविशेषेण उपदेशः चोदितः तत्र अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् । यदि एवम् न अर्थः नुम्ग्रहणेन । अनुस्वारे कृते अड्व्यवाये इति एव सिद्धम् ।

KA III,453.18-454.7 Ro V,491-492 kuvyavāye hādeśeṣu pratiṣedhaḥ . kuvyavāye hādeśeṣu pratiṣedhaḥ vakavyaḥ . kim prayojanam . prayojanam vṛtraghnaḥ srughnaḥ prāghāni iti . hanteratpūrvasya iti atpūrvagrahaṇam na kartavyam bhavati . numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ . numvyavāye ṇatve anusvārābhāve pratiṣedhaḥ vaktavyaḥ . prenvanam prenvanīyam . anāgame ca ṇatvam . anāgame ca ṇatvam vaktavyam . tṛmpaṇīyam . anusvāravyavāyavacanāt tu siddham . anusvāravyavāye naḥ ṇaḥ bhavati iti vaktavyam . tadanusvāragrahaṇam kartavyam . na kartavyam . kriyate nyāse eva . nakāre anusvāraḥ parasavarṇībhūtaḥ nirdiśyate . iha api tarhi prāpnoti . prenvanam prenvanīyam . anusvāraviśeṣaṇam numgrahaṇam . numaḥ yaḥ anusvāraḥ iti . iha api tarhi na prāpnoti . tṛmpaṇam tṛmpaṇīyam . evam tarhi ayogavāhānām aviśeṣeṇa upadeśaḥ coditaḥ tatra anusvāre kṛte aḍvyavāye iti eva siddham . yadi evam na arthaḥ numgrahaṇena . anusvāre kṛte aḍvyavāye iti eva siddham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५४।८-१६ रो व्,४९३ पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् । पूर्वपदात् सञ्ज्ञायाम् उत्तरपदग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । तद्धितपूर्वपदस्थाप्रतिषेधार्थम् । तद्धितस्थस्य पूर्वपदस्थस्य च प्रतिषेधः मा भूत् । खारपायणः करणप्रियः ॥ तत् तर्हि वक्तव्यम् । न वक्तव्यम् । पूर्वपदम् उत्तरपदम् इति सम्बन्धिशब्दौ एतौ । सति पूर्वपदे उत्तरपदम् भवति सति च उत्तरपदे पूर्वपदम् भवति । तत्र सम्बन्धात् एतत् गन्तव्यम् यत् प्रति पूर्वपदम् इति एतत् भवति तत्स्थस्य नियमः इति । किम् च प्रति एतत् भवति । उत्तरपदम् प्रति ।

KA III,454.8-16 Ro V,493 pūrvapadāt sañjñāyām uttarapadagrahaṇam . pūrvapadāt sañjñāyām uttarapadagrahaṇam kartavyam . kim prayojanam . taddhitapūrvapadasthāpratiṣedhārtham . taddhitasthasya pūrvapadasthasya ca pratiṣedhaḥ mā bhūt . khārapāyaṇaḥ karaṇapriyaḥ .. tat tarhi vaktavyam . na vaktavyam . pūrvapadam uttarapadam iti sambandhiśabdau etau . sati pūrvapade uttarapadam bhavati sati ca uttarapade pūrvapadam bhavati . tatra sambandhāt etat gantavyam yat prati pūrvapadam iti etat bhavati tatsthasya niyamaḥ iti . kim ca prati etat bhavati . uttarapadam prati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५४।१७-४५५।९ रो व्,४९३-४९४ सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमप्रतिषेधः । सञ्ज्ञायाम् नियमवचने गप्रतिषेधात् नियमस्य अयम् प्रतिषेधः विज्ञायते अगः इति । तत्र कः दोषः । तत्र नित्यम् णत्वप्रसङ्गः । तत्र पूर्वेण सञ्ज्ञायाम् च असञ्ज्ञायाम् च नित्यम् णत्वम् प्राप्नोति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । पूर्वपदात् सञ्ज्ञायाम् । ततः अगः । गान्तात् पूर्वपदात् या च यावती णत्वप्राप्तिः तस्याः सर्वस्याः प्रतिषेधः । अप्रतिषेधः वा यथा सर्वनामसञ्ज्ञायाम् । न वा अर्थः प्रतिषेधेन । णत्वम् कस्मात् न भवति । यथा सर्वनामसञ्ज्ञायाम् । उक्तम् च सर्वनामसञ्ज्ञायाम् सर्वनामसञ्ज्ञायाम् निपातनात् णत्वाभावः इति । यथा पुनः तत्र निपातनम् क्रियते सर्वादीनि सर्वनामानि इति इह इदानीम् किम् निपातनम् । इह अपि निपातनम् अस्ति । किम् । अणृगयनादिभ्यः इति । न एव वा पुनः अत्र पूर्वेण णत्वम् प्राप्नोति । किम् कारणम् । समानपदे इति उच्यते न च एतत् समानपदम् । समासे कृते समानपदम् । समानम् एव यत् नित्यम् न च एतत् नित्यम् समानपदम् एव । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । समानग्रहणसामर्थ्यात्। यदि हि यत् समानम् च असमानम् च तत्र स्यात् समनग्रहणम् अनर्थकम् स्यात् ।

KA III,454.17-455.9 Ro V,493-494 sañjñāyām niyamavacane gapratiṣedhāt niyamapratiṣedhaḥ . sañjñāyām niyamavacane gapratiṣedhāt niyamasya ayam pratiṣedhaḥ vijñāyate agaḥ iti . tatra kaḥ doṣaḥ . tatra nityam ṇatvaprasaṅgaḥ . tatra pūrveṇa sañjñāyām ca asañjñāyām ca nityam ṇatvam prāpnoti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . pūrvapadāt sañjñāyām . tataḥ agaḥ . gāntāt pūrvapadāt yā ca yāvatī ṇatvaprāptiḥ tasyāḥ sarvasyāḥ pratiṣedhaḥ . apratiṣedhaḥ vā yathā sarvanāmasañjñāyām . na vā arthaḥ pratiṣedhena . ṇatvam kasmāt na bhavati . yathā sarvanāmasañjñāyām . uktam ca sarvanāmasañjñāyām sarvanāmasañjñāyām nipātanāt ṇatvābhāvaḥ iti . yathā punaḥ tatra nipātanam kriyate sarvādīni sarvanāmāni iti iha idānīm kim nipātanam . iha api nipātanam asti . kim . aṇṛgayanādibhyaḥ iti . na eva vā punaḥ atra pūrveṇa ṇatvam prāpnoti . kim kāraṇam . samānapade iti ucyate na ca etat samānapadam . samāse kṛte samānapadam . samānam eva yat nityam na ca etat nityam samānapadam eva . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . samānagrahaṇasāmarthyāt. yadi hi yat samānam ca asamānam ca tatra syāt samanagrahaṇam anarthakam syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५५।१०-१२ रो व्,४९४ द्व्यक्षरत्र्यक्षरेभ्यः इति वक्तव्यम् । इह मा भूत् । देवदारुवनम् । इरिकादिभ्यः प्रतिषेधः वक्तव्यः । इरिकावनम् तिमिरवनम् ।

KA III,455.10-12 Ro V,494 dvyakṣaratryakṣarebhyaḥ iti vaktavyam . iha mā bhūt . devadāruvanam . irikādibhyaḥ pratiṣedhaḥ vaktavyaḥ . irikāvanam timiravanam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५५।१३-१६ रो व्,४९४-४९५ अदन्तात् अदन्तस्य इति वक्तव्यम् । इह मा भूत् । दीर्घाह्नी शरत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एषा अहन्शब्दात् षष्ठी । का तर्हि । अह्नशब्दात् प्रथमा पूर्वसूत्रनिर्देशः च । अथ वा युवादिषु पाठः करिष्यते ।

KA III,455.13-16 Ro V,494-495 adantāt adantasya iti vaktavyam . iha mā bhūt . dīrghāhnī śarat iti . tat tarhi vaktavyam . na vaktavyam . na eṣā ahanśabdāt ṣaṣṭhī . kā tarhi . ahnaśabdāt prathamā pūrvasūtranirdeśaḥ ca . atha vā yuvādiṣu pāṭhaḥ kariṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५५।१७-२१ रो व्,४९५ आहितोपस्थितयोः इति वक्तव्यम् । इह अपि यथा स्यात् । इक्षुवाहणम् शरवाहणम् । अपरः आह : वाहनम् वाह्यात् इति वक्तव्यम् । यदा हि गर्गाणाम् वाहनम् अपविद्धम् तिष्ठति तदा मा भूत् । गर्गवाहनम् इति ।

KA III,455.17-21 Ro V,495 āhitopasthitayoḥ iti vaktavyam . iha api yathā syāt . ikṣuvāhaṇam śaravāhaṇam . aparaḥ āha : vāhanam vāhyāt iti vaktavyam . yadā hi gargāṇām vāhanam apaviddham tiṣṭhati tadā mā bhūt . gargavāhanam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५६।१-४ रो व्,४९५ वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् । वाप्रकरणे गिरिनद्यादीनाम् उपसङ्ख्यानम् कर्तव्यम् । गिरिणदी गिरिनदी । चक्रणितम्बा चक्रनितम्बा ।

KA III,456.1-4 Ro V,495 vāprakaraṇe girinadyādīnām upasaṅkhyānam . vāprakaraṇe girinadyādīnām upasaṅkhyānam kartavyam . giriṇadī girinadī . cakraṇitambā cakranitambā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५६।५-१४ रो व्,४९५-४९६ प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् असमासान्तप्रतिषेधार्थम् । प्रातिपदिकान्तस्य णत्वे समासान्तग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । असमासान्तप्रतिषेधार्थम् । असमासान्तस्य मा भूत् । गर्गभगिनी दक्षभगिनी इति । न वा भवति गर्गभगिणी इति । भवति यदा एतत् वाक्यम् गर्गाणाम् भगः गर्गभगः गर्गभगः अस्याः अस्ति इति । यदा तु एतत् वाक्यम् भवति गर्गाणाम् भगिनी गर्गभगिनी इति तदा न भवितव्यम् । तदा मा भूत् इति । यदि समासान्तग्रहणम् क्रियते माषवापिणी वृईहिवापिणी अत्र न प्राप्नोति । लिङ्गविशिष्टग्रहणे च उक्तम् । किम् उक्तम् । गतिकारकोपपदानाम् कृद्भिः सह समासवचनम् प्राक् सुबुत्पत्तेः इति । क्अ इइइ,४५६।१५-१७ रो व्,४९६ तत्र युवादिप्रतिषेधः । तत्र युवादीनाम् प्रतिषेदः वक्तव्यः । आर्ययूना क्षत्रिययूना प्रपक्वानि परिपक्वानि दीर्घाह्नी शरत् इति ।

KA III,456.5-14 Ro V,495-496 prātipadikāntasya ṇatve samāsāntagrahaṇam asamāsāntapratiṣedhārtham . prātipadikāntasya ṇatve samāsāntagrahaṇam kartavyam . kim prayojanam . asamāsāntapratiṣedhārtham . asamāsāntasya mā bhūt . gargabhaginī dakṣabhaginī iti . na vā bhavati gargabhagiṇī iti . bhavati yadā etat vākyam gargāṇām bhagaḥ gargabhagaḥ gargabhagaḥ asyāḥ asti iti . yadā tu etat vākyam bhavati gargāṇām bhaginī gargabhaginī iti tadā na bhavitavyam . tadā mā bhūt iti . yadi samāsāntagrahaṇam kriyate māṣavāpiṇī vṛīhivāpiṇī atra na prāpnoti . liṅgaviśiṣṭagrahaṇe ca uktam . kim uktam . gatikārakopapadānām kṛdbhiḥ saha samāsavacanam prāk subutpatteḥ iti . KA III,456.15-17 Ro V,496 tatra yuvādipratiṣedhaḥ . tatra yuvādīnām pratiṣedaḥ vaktavyaḥ . āryayūnā kṣatriyayūnā prapakvāni paripakvāni dīrghāhnī śarat iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५६।१८-४५७।२ रो व्,४९६-४९७ अथ इह कथम् भवितव्यम् । माषकुम्भवापेण व्रीहिकुम्भवापेण इति । किम् नित्यम् णत्वेन भवितव्यम् आहोस्वित् विभाषया । यदा तावत् एतत् वाक्यम् भवति कुम्भस्य वापः कुम्भवापः माषाणाम् कुम्भवापः माषकुम्भवाप इति तदा नित्यम् णत्वेन भवितव्यम् । यदा तु एतत् वाक्यम् भवति माषाणाम् कुम्भः माषकुम्भः माषकुम्भस्य वापः माषकुम्भवापः इति तदा विभाषया भवितव्यम् ।

KA III,456.18-457.2 Ro V,496-497 atha iha katham bhavitavyam . māṣakumbhavāpeṇa vrīhikumbhavāpeṇa iti . kim nityam ṇatvena bhavitavyam āhosvit vibhāṣayā . yadā tāvat etat vākyam bhavati kumbhasya vāpaḥ kumbhavāpaḥ māṣāṇām kumbhavāpaḥ māṣakumbhavāpa iti tadā nityam ṇatvena bhavitavyam . yadā tu etat vākyam bhavati māṣāṇām kumbhaḥ māṣakumbhaḥ māṣakumbhasya vāpaḥ māṣakumbhavāpaḥ iti tadā vibhāṣayā bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५७।३-१४ रो व्,४९७-४९८ असमासग्रहणम् किमर्थम् । समासे इति वर्तते असमासे अपि यथा स्यात् । प्रणमति परिणमति । क्व पुनः समासग्रहणम् प्रकृतम् । पूर्वपदात्सञ्ज्ञायामगः इति । कथम् पुनः तेन समासग्रहणम् शक्यम् विज्ञातुम् । पूर्वपदग्रहणसामर्थ्यात् । समासे एव एतत् भवति पूर्वपदम् उत्तरपदम् इति । अथ अपिग्रहणम् किमर्थम् । समासे अपि यथा स्यात् । प्रणामकः परिणामकः । यदि तर्हि समासे च असमासे च इष्यते न अर्थः असमासेपिग्रहणेन । निवृत्तम् पूर्वपदात् इति । अविशेषेण उपसर्गात् णत्वम् वक्ष्यामि । समासे नियमात् न प्राप्नोति । असिद्धम् उपसर्गात् णत्वम् तस्य असिद्धत्वात् नियमः न भविष्यति । एवम् तर्हि सिद्धे सति यत् असमासे अपिग्रहणम् करोति तत् ज्ञापयति आचार्यः न योगे योगः असिद्धः । किम् तर्हि प्रकरणे प्रकरणम् असिद्धम् इति । किम् एतस्य ज्ञपने प्रयोजनम् । यत् तत् उक्तम् निष्कृतम् निष्पीतम् इति अत्र सत्वस्य असिद्धत्वात् षत्वम् न प्राप्नोति इति सः न दोषः भवति ।

KA III,457.3-14 Ro V,497-498 asamāsagrahaṇam kimartham . samāse iti vartate asamāse api yathā syāt . praṇamati pariṇamati . kva punaḥ samāsagrahaṇam prakṛtam . pūrvapadātsañjñāyāmagaḥ iti . katham punaḥ tena samāsagrahaṇam śakyam vijñātum . pūrvapadagrahaṇasāmarthyāt . samāse eva etat bhavati pūrvapadam uttarapadam iti . atha apigrahaṇam kimartham . samāse api yathā syāt . praṇāmakaḥ pariṇāmakaḥ . yadi tarhi samāse ca asamāse ca iṣyate na arthaḥ asamāsepigrahaṇena . nivṛttam pūrvapadāt iti . aviśeṣeṇa upasargāt ṇatvam vakṣyāmi . samāse niyamāt na prāpnoti . asiddham upasargāt ṇatvam tasya asiddhatvāt niyamaḥ na bhaviṣyati . evam tarhi siddhe sati yat asamāse apigrahaṇam karoti tat jñāpayati ācāryaḥ na yoge yogaḥ asiddhaḥ . kim tarhi prakaraṇe prakaraṇam asiddham iti . kim etasya jñapane prayojanam . yat tat uktam niṣkṛtam niṣpītam iti atra satvasya asiddhatvāt ṣatvam na prāpnoti iti saḥ na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५७।१५-४५८।२ रो व्,४९८ णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः । अगमकः निर्देशः अनिर्देशः । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च णोपदेशम् प्रति क्रियायोगः । एवम् तर्हि आह अयम् उपसर्गात् असमासे अपि णोपदेशस्य इति न च णोपदेशम् प्रति उपसर्गः अस्ति तत्र वचनात् भविष्यति । वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः । वचनप्रामाण्यात् इति चेत् पदलोपे प्रतिषेधः वक्तव्यः । प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः इति । सिद्धम् तु यम् प्रति उपसर्गः तत्स्थस्य इति वचनात् । सिद्धम् एतत् । कथम् । यम् प्रति उपसर्गः तत्स्थस्य णः भवति इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् णोपदेशम् प्रति उपसर्गाभावात् अनिर्देशः इति । न एषः दोषः । णोपदेशः इति न एवम् विज्ञायते णः उपदेशः णोपदेशः णोपदेशस्य इति । कथम् तर्हि । णः उपदेशः अस्य सः अयम् णोपदेशः णोपदेशस्य इति ।

KA III,457.15-458.2 Ro V,498 ṇopadeśam prati upasargābhāvāt anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca ṇopadeśam prati kriyāyogaḥ . evam tarhi āha ayam upasargāt asamāse api ṇopadeśasya iti na ca ṇopadeśam prati upasargaḥ asti tatra vacanāt bhaviṣyati . vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ . vacanaprāmāṇyāt iti cet padalope pratiṣedhaḥ vaktavyaḥ . pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ iti . siddham tu yam prati upasargaḥ tatsthasya iti vacanāt . siddham etat . katham . yam prati upasargaḥ tatsthasya ṇaḥ bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam ṇopadeśam prati upasargābhāvāt anirdeśaḥ iti . na eṣaḥ doṣaḥ . ṇopadeśaḥ iti na evam vijñāyate ṇaḥ upadeśaḥ ṇopadeśaḥ ṇopadeśasya iti . katham tarhi . ṇaḥ upadeśaḥ asya saḥ ayam ṇopadeśaḥ ṇopadeśasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५८।३-१० रो व्,४९९ हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् । हिनुमीनाग्रहणे विकृतस्य उपसङ्ख्यानम् कर्तव्यम् । प्रहिणोति प्रमीणीते । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । प्रहिणुतः प्रमीणाति । सिद्धम् अचः स्थानिवत्त्वात् । सिद्धम् एतत् । कथम् । अचः स्थानिवत्त्वात् । स्थानिवद्भावात् अत्र णत्वम् भविष्यति । प्रतिषिध्यते अत्र स्थानिवद्भावः पूर्वत्रासेद्धे न स्थानिवत् इति । दोषाः एव एते तस्याः परिभाषायाः तस्य दोषः संयोगादिलोपलत्वणत्वेषु इति ।

KA III,458.3-10 Ro V,499 hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam . hinumīnāgrahaṇe vikṛtasya upasaṅkhyānam kartavyam . prahiṇoti pramīṇīte . vacanāt bhaviṣyati . asti vacane prayojanam . kim . prahiṇutaḥ pramīṇāti . siddham acaḥ sthānivattvāt . siddham etat . katham . acaḥ sthānivattvāt . sthānivadbhāvāt atra ṇatvam bhaviṣyati . pratiṣidhyate atra sthānivadbhāvaḥ pūrvatrāseddhe na sthānivat iti . doṣāḥ eva ete tasyāḥ paribhāṣāyāḥ tasya doṣaḥ saṃyogādilopalatvaṇatveṣu iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५८।११-२२ रो व्,४९९ लोट् इति किमर्थम् । प्रहिमानि कुलानि । प्रवपानि मांसानि । आनि लोड्ग्रहणानर्थक्यम् अर्थवद्ग्रहणात् । आनि लोड्ग्रहणम् अनर्थकम् । किम् कारणम् । अर्थवद्ग्रहणात् । अर्थवतः आनिशब्दस्य ग्रहणम् न एषः अर्थवान् । अनुपसर्गात् वा । अथ वा यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च एतम् आनिशब्दम् प्रति क्रियायोगः । इह अपि तर्हि न प्राप्नोति । प्रयाणि परियाणि इति । अत्र अपि न आनिशब्दम् प्रति क्रियायोगः । आनिशब्दम् प्रति अत्र क्रियायोगः । कथम् । यत्क्रिययुक्ताः इति न एवम् विज्ञायते यस्य क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति । कथम् तर्हि । या क्रिया यत्क्रिया यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः इति ।

KA III,458.11-22 Ro V,499 loṭ iti kimartham . prahimāni kulāni . pravapāni māṃsāni . āni loḍgrahaṇānarthakyam arthavadgrahaṇāt . āni loḍgrahaṇam anarthakam . kim kāraṇam . arthavadgrahaṇāt . arthavataḥ āniśabdasya grahaṇam na eṣaḥ arthavān . anupasargāt vā . atha vā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca etam āniśabdam prati kriyāyogaḥ . iha api tarhi na prāpnoti . prayāṇi pariyāṇi iti . atra api na āniśabdam prati kriyāyogaḥ . āniśabdam prati atra kriyāyogaḥ . katham . yatkriyayuktāḥ iti na evam vijñāyate yasya kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti . katham tarhi . yā kriyā yatkriyā yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५९।१-१० रो व्,५०० नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् । नेः गदादिषु अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् । प्रण्यगदत् परिण्यगदत् । आङा च इति वक्तव्यम् । प्रण्यागदत् । ननु च अयम् अट् गदादिभक्तः गदादिग्रहणेन ग्राहिष्यते । न सिध्यति । अङ्गस्य अट् उच्यते विकरणान्तम् च अङ्गम् सः असौ सङ्घातभक्तः अशक्यः गदादिग्रहणेन ग्रहीतुम् । एवम् तर्हि अड्व्यवाये इति वर्तते । क्व प्रकृतम् । अट्कुप्वाङ्नुम्व्यवाये अपि इति । तत् वै कार्यिविशेषणम् निमित्तविशेषणेन च इह अर्थः । तत्र अपि निमित्तविशेषणम् एव ।

KA III,459.1-10 Ro V,500 neḥ gadādiṣu aḍvyavāye upasaṅkhyānam . neḥ gadādiṣu aḍvyavāye upasaṅkhyānam kartavyam . praṇyagadat pariṇyagadat . āṅā ca iti vaktavyam . praṇyāgadat . nanu ca ayam aṭ gadādibhaktaḥ gadādigrahaṇena grāhiṣyate . na sidhyati . aṅgasya aṭ ucyate vikaraṇāntam ca aṅgam saḥ asau saṅghātabhaktaḥ aśakyaḥ gadādigrahaṇena grahītum . evam tarhi aḍvyavāye iti vartate . kva prakṛtam . aṭkupvāṅnumvyavāye api iti . tat vai kāryiviśeṣaṇam nimittaviśeṣaṇena ca iha arthaḥ . tatra api nimittaviśeṣaṇam eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४५९।११-२२ रो व्,५००-५०१ अन्तग्रहणम् किमर्थम् । अनितेः अन्तग्रहणम् सम्बुद्ध्यर्थम् । अनितेः अन्तग्रहणम् क्रियते सम्बुद्ध्यर्थम् । हे प्राण् । अप्ररः आह । अनितेः अन्तः पदान्तस्य । अनितेः अन्तग्रहणम् क्रियते पदान्तस्य न इति प्रतिषेधः प्राप्नोति तद्बाधनार्थम् । यः वा तस्मात् अनन्तरः । अथ वा अयम् अन्तशब्दः अस्ति एव अवयववाची । तत् यथा : वस्त्रान्तः वसनान्तः इति । अस्ति सामीप्ये वर्तते । तत् यथा । उदकान्तम् गतः । उदकसमीपम् गतः इति गम्यते । तत् यः सामीप्ये वर्तते तस्य ग्रहणम् विज्ञायते । अनितेः समीपे यः रेफः तस्मात् नस्य यथा स्यात् । प्राणिति । इह मा भूत् । पर्यनिति ।

KA III,459.11-22 Ro V,500-501 antagrahaṇam kimartham . aniteḥ antagrahaṇam sambuddhyartham . aniteḥ antagrahaṇam kriyate sambuddhyartham . he prāṇ . apraraḥ āha . aniteḥ antaḥ padāntasya . aniteḥ antagrahaṇam kriyate padāntasya na iti pratiṣedhaḥ prāpnoti tadbādhanārtham . yaḥ vā tasmāt anantaraḥ . atha vā ayam antaśabdaḥ asti eva avayavavācī . tat yathā : vastrāntaḥ vasanāntaḥ iti . asti sāmīpye vartate . tat yathā . udakāntam gataḥ . udakasamīpam gataḥ iti gamyate . tat yaḥ sāmīpye vartate tasya grahaṇam vijñāyate . aniteḥ samīpe yaḥ rephaḥ tasmāt nasya yathā syāt . prāṇiti . iha mā bhūt . paryaniti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।१-३ रो व्,५०१ साभ्यासस्य द्वयोः इष्टम् । साभ्यासस्य द्वयोः णत्वम् इष्यते । प्राणिणिषति ।

KA III,460.1-3 Ro V,501 sābhyāsasya dvayoḥ iṣṭam . sābhyāsasya dvayoḥ ṇatvam iṣyate . prāṇiṇiṣati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।४-७ रो व्,५०१ अत्पूर्वस्य इति किमर्थम् । प्रघ्नन्ति परिघ्नन्ति । हन्तेः अत्पूर्वस्य वचने उक्तम् । किम् उक्तम् । कुव्यवाये हादेशेषु प्रतिषेधः इति ।

KA III,460.4-7 Ro V,501 atpūrvasya iti kimartham . praghnanti parighnanti . hanteḥ atpūrvasya vacane uktam . kim uktam . kuvyavāye hādeśeṣu pratiṣedhaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।८-१६ रो व्,५०२ कथम् इदम् विज्ञयते । ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति । आहोस्वित् ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति । किम् च अतः । यदि विज्ञयते ओकारात् परः ओत्परः न ओत्परः अनोत्परः इति प्र नः मुञ्चतम् अत्र अपि प्राप्नोति । अथ विज्ञायते ओकारः परः अस्मात् सः अयम् ओत्परः न ओत्परः अनोत्परः इति प्र णः वनिः देवकृता अत्र न प्राप्नोति । उभयथा च प्रक्रमे दोषः भवति । प्र नः* मुञ्चतम् , प्र नः मुञ्चतम् । प्र* उ नः , प्र उ नः । भाविनि अपि ओति न इष्यते । भाविनि अपि ओकारे णत्वम् न इष्यते । एवम् तर्हि उपसर्गात् बहुलम् इति वक्तव्यम् ।

KA III,460.8-16 Ro V,502 katham idam vijñayate . okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti . āhosvit okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti . kim ca ataḥ . yadi vijñayate okārāt paraḥ otparaḥ na otparaḥ anotparaḥ iti pra naḥ muñcatam atra api prāpnoti . atha vijñāyate okāraḥ paraḥ asmāt saḥ ayam otparaḥ na otparaḥ anotparaḥ iti pra ṇaḥ vaniḥ devakṛtā atra na prāpnoti . ubhayathā ca prakrame doṣaḥ bhavati . pra naḥ* muñcatam , pra naḥ muñcatam . pra* u naḥ , pra u naḥ . bhāvini api oti na iṣyate . bhāvini api okāre ṇatvam na iṣyate . evam tarhi upasargāt bahulam iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६०।१७-१९ रो व्,५०३ कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् । कृत्स्थस्य णत्वे निर्विण्णस्य उपसङ्ख्यानम् कर्तव्यम् । निर्विण्णः अहम् अनेन वासेन ।

KA III,460.17-19 Ro V,503 kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam . kṛtsthasya ṇatve nirviṇṇasya upasaṅkhyānam kartavyam . nirviṇṇaḥ aham anena vāsena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६१।१-७ रो व्,५०३ णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् । णेर्विभाषायाम् साधनव्यवाये उपसङ्ख्यानम् कर्तव्यम् । प्राप्यमाणम् प्राप्यमानम् । तद्विधानात् सिद्धम् । विहितविशेषणम् णिग्रहणम् । ण्यन्तात् यः विहितः इति । अडधिकारात् वा । अथ वा अड्व्यवाये इति वर्तते ।

KA III,461.1-7 Ro V,503 ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam . ṇervibhāṣāyām sādhanavyavāye upasaṅkhyānam kartavyam . prāpyamāṇam prāpyamānam . tadvidhānāt siddham . vihitaviśeṣaṇam ṇigrahaṇam . ṇyantāt yaḥ vihitaḥ iti . aḍadhikārāt vā . atha vā aḍvyavāye iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६१।८-४६२।६ रो व्,५०३-५०४ किमर्थम् इदम् उच्यते न कृत्यचः इति एव सिद्धम् । नियमार्थः अयम् आरम्भः । इजादेः एव च सनुम्कात् न अन्यस्मात् सनुम्कात् इति । क्व मा भूत् । प्रमङ्कनम् परिमङ्कनम् । सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् । सनुमः णत्वे अवधारणस्य अप्राप्तिः । किम् कारणम् । विधेयभावात् । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । ण्यन्तात् विभाषा प्राप्ता तत्र नित्यम् णत्वम् विधेयम् । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः विधिः भविष्यति न नियमः । सिद्धम् तु प्रतिषेधाधिकारे सनुम्ग्रहणात् । सिद्धम् एतत् । कथम् । प्रतिषेधाधिकारे सनुम्ग्रहणात् । प्रतिषेधाधिकारे सनुम्ग्रहणम् कर्तव्यम् । न भाभूपूकमिगमिप्यायिवेपिसनुमाम् इति । इह अपि तर्हि न प्राप्नोति । प्रेङ्गणम् प्रेङ्गणीयम् । कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् । कृत्स्थस्य च णत्वे इजादेः सनुमः ग्रहणम् कर्तव्यम् । सिध्यति सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् सनुमः णत्वे अवधारणाप्रसिद्धिः विधेयभावात् इति । न एषः दोषः । हलः इति वर्तते । क्व प्रकृतम् । हलश्चेजुपधात् इति । तत् वै तत्र आदिविशेषणम् अन्तविशेषणेन च इह अर्थः । कथम् पुनः ज्ञायते तत्र आदिविशेषणम् इति । इजुपधात् इति उच्यते अत्र न अर्थः अन्तविशेषणेन । तत्र आदिविशेषणम् सत् इह अन्तविशेषणम् भविष्यति । कथम् । इजादेः इति उच्यते तत्र न अर्थः आदिविशेषणेन । अथ वा इजादेः सनुमः इति अत्र णेर्विभाषा इति एतत् अनुवर्तिष्यते ।

KA III,461.8-462.6 Ro V,503-504 kimartham idam ucyate na kṛtyacaḥ iti eva siddham . niyamārthaḥ ayam ārambhaḥ . ijādeḥ eva ca sanumkāt na anyasmāt sanumkāt iti . kva mā bhūt . pramaṅkanam parimaṅkanam . sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt . sanumaḥ ṇatve avadhāraṇasya aprāptiḥ . kim kāraṇam . vidheyabhāvāt . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . ṇyantāt vibhāṣā prāptā tatra nityam ṇatvam vidheyam . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ vidhiḥ bhaviṣyati na niyamaḥ . siddham tu pratiṣedhādhikāre sanumgrahaṇāt . siddham etat . katham . pratiṣedhādhikāre sanumgrahaṇāt . pratiṣedhādhikāre sanumgrahaṇam kartavyam . na bhābhūpūkamigamipyāyivepisanumām iti . iha api tarhi na prāpnoti . preṅgaṇam preṅgaṇīyam . kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam . kṛtsthasya ca ṇatve ijādeḥ sanumaḥ grahaṇam kartavyam . sidhyati sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam sanumaḥ ṇatve avadhāraṇāprasiddhiḥ vidheyabhāvāt iti . na eṣaḥ doṣaḥ . halaḥ iti vartate . kva prakṛtam . halaścejupadhāt iti . tat vai tatra ādiviśeṣaṇam antaviśeṣaṇena ca iha arthaḥ . katham punaḥ jñāyate tatra ādiviśeṣaṇam iti . ijupadhāt iti ucyate atra na arthaḥ antaviśeṣaṇena . tatra ādiviśeṣaṇam sat iha antaviśeṣaṇam bhaviṣyati . katham . ijādeḥ iti ucyate tatra na arthaḥ ādiviśeṣaṇena . atha vā ijādeḥ sanumaḥ iti atra ṇervibhāṣā iti etat anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६२।७-१२ रो व्,५०५ भादिषु पूञ्ग्रहणम् । भादिषु पूञ्ग्रहणम् कर्तव्यम् । इह मा भूत् । प्रपवणम् सोमस्य इति । ण्यन्तस्य च उपसङ्ख्यनम् । ण्यन्तस्य च उपसङ्ख्यानम् कर्तव्यम् । किम् पूञः एव । न इति आह । अविशेषेण । प्रभापनम् परिभापनम् ।

KA III,462.7-12 Ro V,505 bhādiṣu pūñgrahaṇam . bhādiṣu pūñgrahaṇam kartavyam . iha mā bhūt . prapavaṇam somasya iti . ṇyantasya ca upasaṅkhyanam . ṇyantasya ca upasaṅkhyānam kartavyam . kim pūñaḥ eva . na iti āha . aviśeṣeṇa . prabhāpanam paribhāpanam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६२।१३-१७ रो व्,५०५ षात् पदादिपरवचनम् । षात्पदादिपरग्रहणम् कर्तव्यम् । इह एव यथा स्यात् । निष्पानम् दुष्पानम् । इह मा भूत् । ससर्पिष्केण सयजुष्केण । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एवम् विज्ञायते पदस्य अन्तः पदान्तः पदान्तात् इति । कथम् तर्हि । पदे अन्तः पदान्तः पदान्तात् इति ।

KA III,462.13-17 Ro V,505 ṣāt padādiparavacanam . ṣātpadādiparagrahaṇam kartavyam . iha eva yathā syāt . niṣpānam duṣpānam . iha mā bhūt . sasarpiṣkeṇa sayajuṣkeṇa . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate padasya antaḥ padāntaḥ padāntāt iti . katham tarhi . pade antaḥ padāntaḥ padāntāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६२।१८-२२ रो व्,५०५ नशेः अशः । नशेः अशः इति वक्तव्यम् । इह अपि यथा स्यात् । प्रनङ्क्ष्यति परिनङ्क्ष्यति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह नशेः षः इति इयता सिद्धम् । सः अयम् एवम् सिद्धे सति यत् अन्तग्रहणम् करोति तस्य एतत् प्रयोजनम् षान्तभूतपूर्वस्य अपि यथा स्यात् ।

KA III,462.18-22 Ro V,505 naśeḥ aśaḥ . naśeḥ aśaḥ iti vaktavyam . iha api yathā syāt . pranaṅkṣyati parinaṅkṣyati . tat tarhi vaktavyam . na vaktavyam . iha naśeḥ ṣaḥ iti iyatā siddham . saḥ ayam evam siddhe sati yat antagrahaṇam karoti tasya etat prayojanam ṣāntabhūtapūrvasya api yathā syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।१-५ रो व्,५०६ पदव्यवाये अतद्धिते । पदव्यवाये अतद्धिते इति वक्तव्यम् । इह मा भूत् । आर्द्रगोमयेण शुष्कगोमयेण इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न एवम् विज्ञायते पदेन व्यवाये पदव्यवाये इति । कथम् तर्हि । पदे व्यवायः पदव्यवायः पद्व्यवाये इति ।

KA III,463.1-5 Ro V,506 padavyavāye ataddhite . padavyavāye ataddhite iti vaktavyam . iha mā bhūt . ārdragomayeṇa śuṣkagomayeṇa iti . tat tarhi vaktavyam . na vaktavyam . na evam vijñāyate padena vyavāye padavyavāye iti . katham tarhi . pade vyavāyaḥ padavyavāyaḥ padvyavāye iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।६-७ रो व्,५०६ अविहितलक्षणः णत्वप्रतिषेधः क्षुभ्नादिषु द्रष्टव्यः ।

KA III,463.6-7 Ro V,506 avihitalakṣaṇaḥ ṇatvapratiṣedhaḥ kṣubhnādiṣu draṣṭavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।८-११ रो व्,५०६ किमर्थम् तृतीयानिर्देशः क्रियते न श्चौ इति एव उच्येत । आनन्तर्यमात्रे श्चुत्वम् यथा स्यात् । यज्ञः राज्ञः याच्ञा । अथ सङ्ख्यातानुदेशः कस्मात् न भवति । आचार्यप्रवृत्तिः ज्ञापयति सङ्ख्यातानुदेशः न इह इति यत् अयम् शात् प्रतिषेधम् शास्ति ।

KA III,463.8-11 Ro V,506 kimartham tṛtīyānirdeśaḥ kriyate na ścau iti eva ucyeta . ānantaryamātre ścutvam yathā syāt . yajñaḥ rājñaḥ yācñā . atha saṅkhyātānudeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati saṅkhyātānudeśaḥ na iha iti yat ayam śāt pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।१२-१५ रो व्,५०७ किमर्थम् त्र्तीयानिर्देशः क्रियते न ष्टौ इति एव उच्येत । आनन्तर्यमात्रे ष्टुत्वम् यथा स्यात् । पेष्टा लेढा । अथ सङ्ख्यातानुदेशः कस्मात् न भवति । आचार्यप्रवृत्तिः ज्ञापयति न इह सङ्ख्यातानुदेशः भवति इति यत् अयम् तोःषि इति प्रतिषेधम् शास्ति ।

KA III,463.12-15 Ro V,507 kimartham trtīyānirdeśaḥ kriyate na ṣṭau iti eva ucyeta . ānantaryamātre ṣṭutvam yathā syāt . peṣṭā leḍhā . atha saṅkhyātānudeśaḥ kasmāt na bhavati . ācāryapravṛttiḥ jñāpayati na iha saṅkhyātānudeśaḥ bhavati iti yat ayam toḥṣi iti pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६३।१६-१८ रो व्,५०७ अनाम् इति किम् । षण्णाम् भवति कश्यपः । अत्यल्पम् इदम् उच्यते अनाम् इति । अनान्नवतिनगरीणाम् च इति वक्तव्यम् : षण्णाम् , षण्णवतिः , षण्णगरी ।

KA III,463.16-18 Ro V,507 anām iti kim . ṣaṇṇām bhavati kaśyapaḥ . atyalpam idam ucyate anām iti . anānnavatinagarīṇām ca iti vaktavyam : ṣaṇṇām , ṣaṇṇavatiḥ , ṣaṇṇagarī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६४।१-४ रो व्,५०७ यरः अनुनासिके प्रत्यये भाषायाम् नित्यवचनम् । यरः अनुनासिके प्रत्यये भाषायाम् नित्यम् इति च वक्तव्यम् । वाङ्मयम् । त्वङ्मयम् इति ।

KA III,464.1-4 Ro V,507 yaraḥ anunāsike pratyaye bhāṣāyām nityavacanam . yaraḥ anunāsike pratyaye bhāṣāyām nityam iti ca vaktavyam . vāṅmayam . tvaṅmayam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६४।५-१७ रो व्,५०७-५०८ द्विर्वचने यणः मयः । द्विर्वचने यणः मयः इति वक्तव्यम् । किम् उदाहरणम् । यदि यणः इति पञ्चमी मयः इति षष्ठी उल्क्का वल्म्मीकम् इति उदहरणम् । अथ मयः इति पञ्चमी यणः इति षष्ठी दध्य्यत्र मध्व्वत्र इति उदाहरणम् । शरः खयः । शरः खयः इति वक्तव्यम् । किम् उदाहरणम् । यदि शरः इति पञ्चमी खयः इति षष्ठी स्थ्थाली स्थ्थाता इति उदाहरणम् । अथ खयः इति पञ्चमी शरः इति षष्ठी वत्स्सः क्ष्षीरम् अप्स्सराः इति उदाहरणम् । अवसाने च । अवसाने च द्वे भवतः इति वक्तव्यम् । वाक्क् वाक् । त्वक्क् त्वक् । स्रुक्क् स्रुक् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न अयम् प्रसज्यप्रतिषेधः । अचि न इति । किम् तर्हि पर्युदसः अयम् । यत् अन्यत् अचः इति ।

KA III,464.5-17 Ro V,507-508 dvirvacane yaṇaḥ mayaḥ . dvirvacane yaṇaḥ mayaḥ iti vaktavyam . kim udāharaṇam . yadi yaṇaḥ iti pañcamī mayaḥ iti ṣaṣṭhī ulkkā valmmīkam iti udaharaṇam . atha mayaḥ iti pañcamī yaṇaḥ iti ṣaṣṭhī dadhyyatra madhvvatra iti udāharaṇam . śaraḥ khayaḥ . śaraḥ khayaḥ iti vaktavyam . kim udāharaṇam . yadi śaraḥ iti pañcamī khayaḥ iti ṣaṣṭhī sththālī sththātā iti udāharaṇam . atha khayaḥ iti pañcamī śaraḥ iti ṣaṣṭhī vatssaḥ kṣṣīram apssarāḥ iti udāharaṇam . avasāne ca . avasāne ca dve bhavataḥ iti vaktavyam . vākk vāk . tvakk tvak . srukk sruk . tat tarhi vaktavyam . na vaktavyam . na ayam prasajyapratiṣedhaḥ . aci na iti . kim tarhi paryudasaḥ ayam . yat anyat acaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६४।१८-२० रो व्,५०८ न आदिनि आक्रोशे पुत्रस्य इति तत्परे च । न आदिनि आक्रोशे पुत्रस्य इति अत्र तत्परे च इति वक्तव्यम् । पुत्रपुत्रादिनि । क्अ इइइ,४६४।२१-२२ रो व्,५०८ वा हतजग्धपरे च । वा हतजग्धपरे इति वक्तव्यम् । पुत्रहती पुत्त्रहती । पुत्रजग्धी पुत्त्रजग्धी । क्अ इइइ,४६५।१-३ रो व्,५०८ चयः द्वितीयाः शरि पौष्करसादेः । चयः द्वितीयाः भवन्ति शरि परतः पौष्करसादेः आचार्यस्य मतेन । वथ्सः , ख्षीरम् , अफ्सराः ।

KA III,464.18-20 Ro V,508 na ādini ākrośe putrasya iti tatpare ca . na ādini ākrośe putrasya iti atra tatpare ca iti vaktavyam . putraputrādini . KA III,464.21-22 Ro V,508 vā hatajagdhapare ca . vā hatajagdhapare iti vaktavyam . putrahatī puttrahatī . putrajagdhī puttrajagdhī . KA III,465.1-3 Ro V,508 cayaḥ dvitīyāḥ śari pauṣkarasādeḥ . cayaḥ dvitīyāḥ bhavanti śari parataḥ pauṣkarasādeḥ ācāryasya matena . vathsaḥ , khṣīram , aphsarāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।४-६ रो व्,५०९ उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् । उदः पूर्वत्वे स्कन्देः छन्दसि उपसङ्ख्यानम् कर्तव्यम् । अघ्न्ये दूरम् उत्कन्द । क्अ इइइ,४६५।७ रो व्,५०९ रोगे च इति वक्तव्यम् । उत्कन्दकः रोगः ।

KA III,465.4-6 Ro V,509 udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam . udaḥ pūrvatve skandeḥ chandasi upasaṅkhyānam kartavyam . aghnye dūram utkanda . KA III,465.7 Ro V,509 roge ca iti vaktavyam . utkandakaḥ rogaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।८-१० रो व्,५०९ छत्वम् अमि तच्छ्लोकेन तच्छ्मश्रुणा इति प्रयोजनम् । छत्वम् अमि इति वक्तव्यम् । किम् प्रयोजनम् । तच्छ्लोकेन । तच्छ्मश्रुणा इति ।

KA III,465.8-10 Ro V,509 chatvam ami tacchlokena tacchmaśruṇā iti prayojanam . chatvam ami iti vaktavyam . kim prayojanam . tacchlokena . tacchmaśruṇā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।११-१५ रो व्,५०९ सवर्णग्रहणम् किमर्थम् । झरः झरि सवर्णग्रहणम् समसङ्ख्यप्रतिषेधार्थम् । झरः झरि सवर्णग्रहणम् क्रियते समसङ्ख्यप्रतिषेधार्थम् । सङ्ख्यातानुदेशः मा भूत् इति । किम् च स्यात् । इह न स्यात् । शिण्ढि पिण्ढि इति ।

KA III,465.11-15 Ro V,509 savarṇagrahaṇam kimartham . jharaḥ jhari savarṇagrahaṇam samasaṅkhyapratiṣedhārtham . jharaḥ jhari savarṇagrahaṇam kriyate samasaṅkhyapratiṣedhārtham . saṅkhyātānudeśaḥ mā bhūt iti . kim ca syāt . iha na syāt . śiṇḍhi piṇḍhi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,४६५।१६-४६७।३ रो व्,५०९-५१२ किमर्थम् इदम् उच्यते । अकारः अयम् अक्षरसमाम्नाये विवृतः उपदिष्टः तस्य संवृतताप्रत्यापत्तिः क्रियते । किम् पुनः कारणम् विवृतः उपदिश्यते । आदेशार्थम् सवर्णार्थम् अकारः विवृतः स्मृतः । आकारस्य तथा ह्रस्वः तदर्थम् पाणिनेः अ अ । आदेशार्थम् तावत् । वृक्षाभ्याम् , देवदत्ता३ । आन्तर्यतः विवृतस्य विवृतौ दीर्घप्लुतौ यथा स्याताम् । सवर्णार्थम् च । अकारः सवर्णग्रहणेन आकारम् अपि यथा गृह्णीयात् । आकारस्य तथा ह्रस्वः । तथा च अतिखट्वः , अतिमालः इति अत्र आकारस्य ह्रस्वः उच्यमानः विवृतः प्राप्नोति सः संवृतः स्यात् इति एवमर्था प्रयापत्तिः । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः । खट्वा माला । न एषः दोषः । यथा एव प्रकृतितः सवर्णग्रहणम् एवम् आदेशतः अपि भवितव्यम् तत्र आन्तर्यतः ह्रस्वस्य ह्रस्वः दीर्घस्य दीर्घः भविष्यति । आदेशस्य च अनण्त्वात् न सवर्णग्रहणम् । आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति । केषाम् । उदात्तानुदात्तस्वरितानुनासिकानाम् । सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् । कथम् । तपरनिर्देशात् । तपरनिर्देशः कर्तव्यः । अत् अ* इति । अपरः आह : अकारस्य प्रत्यापत्तौ दीर्घप्रतिषेधः । अकारस्य प्रत्यापत्तौ दीर्घस्य प्रतिषेधः वक्तव्यः : खट्वा माला । न एषः दोषः । दीर्घोच्चारणसामर्थ्यात् न भविष्यति । इदम् तर्हि प्रयोजनम् । वृक्षाभ्याम् प्लक्षाभ्याम् । अत्र अपि दीर्घवचनसामर्थ्यात् न भविष्यति । इदम् तर्हि । अपि काकः श्येनायते । ननु च अत्र अपि दीर्घवचनसमर्थ्यात् एव न भविष्यति । अस्ति अन्यत् दीर्घवचने प्रयोजनम् । किम् । दधीयति मधूयति । अत्र एव च एषः दोषः आदेशस्य च अनण्त्वात् सवर्णानाम् ग्रहणम् न प्राप्नोति । केषाम् । उदात्तानुदात्तस्वरितानुनासिकानाम् । सिद्धम् तु तपरनिर्देशात् । सिद्धम् एतत् । कथम् । तपरनिर्देशात् । तपरनिर्देशः कर्तव्यः । अत् अत् इति । एकशेषनिर्देशात् वा स्वरभिन्नानाम् भगवतः पाणिनेः सिद्धम् । एकशेषनिर्देशात् वा स्वरभिन्नानम् भगवतः पाणिनेः आचार्यस्य सिद्धम् । एकशेषनिर्देसः अयम् । अ , अ , अ इति ।

KA III,465.16-467.3 Ro V,509-512 kimartham idam ucyate . akāraḥ ayam akṣarasamāmnāye vivṛtaḥ upadiṣṭaḥ tasya saṃvṛtatāpratyāpattiḥ kriyate . kim punaḥ kāraṇam vivṛtaḥ upadiśyate . ādeśārtham savarṇārtham akāraḥ vivṛtaḥ smṛtaḥ . ākārasya tathā hrasvaḥ tadartham pāṇineḥ a a . ādeśārtham tāvat . vṛkṣābhyām , devadattā3 . āntaryataḥ vivṛtasya vivṛtau dīrghaplutau yathā syātām . savarṇārtham ca . akāraḥ savarṇagrahaṇena ākāram api yathā gṛhṇīyāt . ākārasya tathā hrasvaḥ . tathā ca atikhaṭvaḥ , atimālaḥ iti atra ākārasya hrasvaḥ ucyamānaḥ vivṛtaḥ prāpnoti saḥ saṃvṛtaḥ syāt iti evamarthā prayāpattiḥ . asti prayojanam etat . kim tarhi iti . akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ . khaṭvā mālā . na eṣaḥ doṣaḥ . yathā eva prakṛtitaḥ savarṇagrahaṇam evam ādeśataḥ api bhavitavyam tatra āntaryataḥ hrasvasya hrasvaḥ dīrghasya dīrghaḥ bhaviṣyati . ādeśasya ca anaṇtvāt na savarṇagrahaṇam . ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at a* iti . aparaḥ āha : akārasya pratyāpattau dīrghapratiṣedhaḥ . akārasya pratyāpattau dīrghasya pratiṣedhaḥ vaktavyaḥ : khaṭvā mālā . na eṣaḥ doṣaḥ . dīrghoccāraṇasāmarthyāt na bhaviṣyati . idam tarhi prayojanam . vṛkṣābhyām plakṣābhyām . atra api dīrghavacanasāmarthyāt na bhaviṣyati . idam tarhi . api kākaḥ śyenāyate . nanu ca atra api dīrghavacanasamarthyāt eva na bhaviṣyati . asti anyat dīrghavacane prayojanam . kim . dadhīyati madhūyati . atra eva ca eṣaḥ doṣaḥ ādeśasya ca anaṇtvāt savarṇānām grahaṇam na prāpnoti . keṣām . udāttānudāttasvaritānunāsikānām . siddham tu taparanirdeśāt . siddham etat . katham . taparanirdeśāt . taparanirdeśaḥ kartavyaḥ . at at iti . ekaśeṣanirdeśāt vā svarabhinnānām bhagavataḥ pāṇineḥ siddham . ekaśeṣanirdeśāt vā svarabhinnānam bhagavataḥ pāṇineḥ ācāryasya siddham . ekaśeṣanirdesaḥ ayam . a , a , a iti .

Sanskrit only: no published translation is held for this verse.