Library·Patanjali: Vyakaranamahabhasya·2

Patanjali: Vyakaranamahabhasya 2

क्अ इ,४६०।२ रो इइ,८०८ इह कस्मात् न भवति । अद्य पुष्यः । अद्य मघा इति । अधिकरणे इति वर्तते ।

KA I,460.2 Ro II,808 iha kasmāt na bhavati . adya puṣyaḥ . adya maghā iti . adhikaraṇe iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६१।२-२२ रो इइ,८०९-८१४ प्रातिपदिकग्रहणम् किमर्थम् । उच्चैः नीचैः इति आपि यथा स्यात् । किम् पुनः अत्र प्रथमया प्रार्थ्यते । पदत्वम् । न एतत् अस्ति ।षष्ठ्या अत्र पदत्वम् भविष्यति । इदम् तर्हि प्रयोजनम् । ग्रामः उचैः ते स्वम् । ग्रामः उच्चैः तव स्वम् । सपूर्वायाः प्रथमायाः विभाषा इति एषः विधिः यथा स्यात् । अथ लिङ्गग्रहणम् किमर्थम् । स्त्री पुमान् नपुंसकम् इति अत अपि यथा स्यात् । न एतत् अस्ति प्रयोजनम् । एषः एव अत्र प्रातिपदिकार्थः । इदम् तर्हि । कुमारी वृक्षः कुण्डम् इति । अथ परिमाणग्रहणम् किमर्थम् । द्रोणः खारी आढकम् इति अत्र अपि यथा स्यात् । अथ वचनग्रहणम् किमर्थम् । इह समुदाये वाक्यपरिसमाप्तिः दृश्यते । तत् यथा । गर्गाः शतम् दण्ड्यन्ताम् इति । अर्थिनः च राजानः हिरण्येन भवन्ति न च प्रत्येकम् दण्डयन्ति । सति एतस्मिन् दृष्टान्ते यत्र एतानि समुदितानि भवन्ति तत्र एव स्यात् । द्रोणः खारी आढकम् इति । इह न स्यात् । कुमारी वृक्षः कुण्डम् इति । न एतत् अस्ति प्रयोजनम् । प्रत्येकम् अपि वाक्यपरिसमाप्तिः दृश्यते । तत् यथा वृद्धिगुणसञ्ज्ञे प्रत्येकम् भवतः । इदम् तर्हि प्रयोजनम् उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् । एकः द्वौ बहवः इति । अथ मात्रग्रहणम् किमर्थम् । एतन्मात्रे एव प्रथमा यथा स्यात् कर्मादिविशिष्टे मा भूत् इति । कटम् करोति । न एतत् अस्ति प्रयोजनम् । कर्मादिषु द्वितीयाद्याः विभक्तयः ताः कर्मादिविशिष्टे बाधिकाः भविष्यन्ति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न कर्मादिविशिष्टे प्रथमा भवति इति यत् अयम् सम्बोधने प्रथमाम् शास्ति । न एतत् अस्ति ज्ञापकम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । सा आमन्त्रितम् इति वक्ष्यामि इति । यत् तर्हि योगविभागम् करोति । इतरथा हि सम्बोधने आमन्त्रितम् इति एव ब्रूयात् । इदम् तर्हि उक्तेषु अपि एकत्वादिषु प्रथमा यथा स्यात् । एकः द्वौ बहवः इति । वचनग्रहणस्य अपि एतत् प्रयोजनम् उक्तम् । अन्यतरत् शक्यम् अकर्तुम् ।

KA I,461.2-22 Ro II,809-814 prātipadikagrahaṇam kimartham . uccaiḥ nīcaiḥ iti āpi yathā syāt . kim punaḥ atra prathamayā prārthyate . padatvam . na etat asti .ṣaṣṭhyā atra padatvam bhaviṣyati . idam tarhi prayojanam . grāmaḥ ucaiḥ te svam . grāmaḥ uccaiḥ tava svam . sapūrvāyāḥ prathamāyāḥ vibhāṣā iti eṣaḥ vidhiḥ yathā syāt . atha liṅgagrahaṇam kimartham . strī pumān napuṃsakam iti ata api yathā syāt . na etat asti prayojanam . eṣaḥ eva atra prātipadikārthaḥ . idam tarhi . kumārī vṛkṣaḥ kuṇḍam iti . atha parimāṇagrahaṇam kimartham . droṇaḥ khārī āḍhakam iti atra api yathā syāt . atha vacanagrahaṇam kimartham . iha samudāye vākyaparisamāptiḥ dṛśyate . tat yathā . gargāḥ śatam daṇḍyantām iti . arthinaḥ ca rājānaḥ hiraṇyena bhavanti na ca pratyekam daṇḍayanti . sati etasmin dṛṣṭānte yatra etāni samuditāni bhavanti tatra eva syāt . droṇaḥ khārī āḍhakam iti . iha na syāt . kumārī vṛkṣaḥ kuṇḍam iti . na etat asti prayojanam . pratyekam api vākyaparisamāptiḥ dṛśyate . tat yathā vṛddhiguṇasañjñe pratyekam bhavataḥ . idam tarhi prayojanam ukteṣu api ekatvādiṣu prathamā yathā syāt . ekaḥ dvau bahavaḥ iti . atha mātragrahaṇam kimartham . etanmātre eva prathamā yathā syāt karmādiviśiṣṭe mā bhūt iti . kaṭam karoti . na etat asti prayojanam . karmādiṣu dvitīyādyāḥ vibhaktayaḥ tāḥ karmādiviśiṣṭe bādhikāḥ bhaviṣyanti . atha vā ācāryapravṛttiḥ jñāpayati na karmādiviśiṣṭe prathamā bhavati iti yat ayam sambodhane prathamām śāsti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . sā āmantritam iti vakṣyāmi iti . yat tarhi yogavibhāgam karoti . itarathā hi sambodhane āmantritam iti eva brūyāt . idam tarhi ukteṣu api ekatvādiṣu prathamā yathā syāt . ekaḥ dvau bahavaḥ iti . vacanagrahaṇasya api etat prayojanam uktam . anyatarat śakyam akartum .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६१।२३-४६३।७ रो इइ,८१४-८१८ प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् अधिकत्वात् । प्रातिपदिकार्थलिङ्गपरिमाणवचनमात्रे प्रथमालक्षणे पदसामानाधिकरण्ये उपसङ्ख्यानम् कर्तव्यम् । वीरः पुरुषः । किम् पुनः कारणम् न सिध्यति । अधिकत्वात् । व्यतिरिक्तः प्रातिपदिकार्थः इति कृत्वा प्रथमा न प्राप्नोति । कथम् व्यतिरिक्तिः । पुरुषे वीरत्वम् । न वा वाक्यार्थत्वात् । न वा वक्तव्यम् । किम् कारणम् । वाक्यार्थत्वात् । यत् अत्र आधिक्यम् वाक्यार्थः सः । अथ वा अभिहिते प्रथमा इति एतत् लक्षणम् करिय्ष्यते । अभिहितलक्षणायाम् अनभिहिते प्रथमाविधिः । अभिहितलक्षणायामनभिहिते प्रथमा विधेया । वृक्षः प्लक्षः इति । उक्तम् वा । किम् उक्तम् । अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति । वृक्षः प्लक्षः । अस्ति इति गम्यते । अभिहितानभिहिते प्रथमाभावः । अभिहितानभ्हिते प्रथमा प्राप्नोति । क्व । प्रासादे आस्ते । शयने आस्ते । सदिप्रत्ययेन अभिहितम् अधिकरणम् इति कृत्वा प्रथमा प्राप्नोति । एवम् तर्हि तिङ्समानाधिकरणे प्रथमा इति एतत् लक्षणं करिष्यते । तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमाविधिः । तिङ्समानाधिकरणे इति चेत् तिङः अप्रयोगे प्रथमा विधेया । वृक्षः प्लक्ष इति । उक्तम् पूर्वेण । किम् उक्तम् । अस्तिः भवन्तीपरः प्रथमपुरुषः अप्रयुज्यमानः अपि अस्ति इति । वृक्षः प्लक्षः । अस्ति इति गम्यते । शतृशानचोः च निमित्तभावात् तिङः अभावः तयोः अपवादत्वात् । शतृशानचोः च निमित्तभावात् तिङः अभावः । क्व । पचति ओदनम् देवदत्तः इति । किम् कारणम् । तयोः अपवादत्वात् । शतृशानचौ तिङपवादौ । तौ च अत्र बाधकौ । न च अपवादविषये उत्सर्गः अभिनिविशते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गः । प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते । तत् न तावत् अत्र कदा चित् तिङादेशो भवति । अपवादौ तावत् शतृशानचौ प्रतीक्षते । पाक्षिकः एषः दोषः । कतरस्मिन् पक्षे । शतृशानचोः द्वैतम् भवति । अप्रथमा वा विधिना आश्रीयते प्रथमा वा प्रतिषेधेन इति । विभक्तिनियमे च अपि द्वैतम् भवति । विभक्तिनियमः वा स्यात् अर्थनियमः वा इति । तत् यदा तावत् अर्थनियमः अप्रथमा च विधिना आश्रीयते तदा एष दोषः भवति । यदा हि विभक्तिनियमः यदि एव अप्रथमा विधिना आश्रीयते अथ अपि प्रथमा प्रतिषेधेन न तदा दोषः भवति

KA I,461.23-463.7 Ro II,814-818 prātipadikārthaliṅgaparimāṇavacanamātre prathamālakṣaṇe padasāmānādhikaraṇye upasaṅkhyānam adhikatvāt . prātipadikārthaliṅgaparimāṇavacanamātre prathamālakṣaṇe padasāmānādhikaraṇye upasaṅkhyānam kartavyam . vīraḥ puruṣaḥ . kim punaḥ kāraṇam na sidhyati . adhikatvāt . vyatiriktaḥ prātipadikārthaḥ iti kṛtvā prathamā na prāpnoti . katham vyatiriktiḥ . puruṣe vīratvam . na vā vākyārthatvāt . na vā vaktavyam . kim kāraṇam . vākyārthatvāt . yat atra ādhikyam vākyārthaḥ saḥ . atha vā abhihite prathamā iti etat lakṣaṇam kariyṣyate . abhihitalakṣaṇāyām anabhihite prathamāvidhiḥ . abhihitalakṣaṇāyāmanabhihite prathamā vidheyā . vṛkṣaḥ plakṣaḥ iti . uktam vā . kim uktam . astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti . vṛkṣaḥ plakṣaḥ . asti iti gamyate . abhihitānabhihite prathamābhāvaḥ . abhihitānabhhite prathamā prāpnoti . kva . prāsāde āste . śayane āste . sadipratyayena abhihitam adhikaraṇam iti kṛtvā prathamā prāpnoti . evam tarhi tiṅsamānādhikaraṇe prathamā iti etat lakṣaṇaṃ kariṣyate . tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamāvidhiḥ . tiṅsamānādhikaraṇe iti cet tiṅaḥ aprayoge prathamā vidheyā . vṛkṣaḥ plakṣa iti . uktam pūrveṇa . kim uktam . astiḥ bhavantīparaḥ prathamapuruṣaḥ aprayujyamānaḥ api asti iti . vṛkṣaḥ plakṣaḥ . asti iti gamyate . śatṛśānacoḥ ca nimittabhāvāt tiṅaḥ abhāvaḥ tayoḥ apavādatvāt . śatṛśānacoḥ ca nimittabhāvāt tiṅaḥ abhāvaḥ . kva . pacati odanam devadattaḥ iti . kim kāraṇam . tayoḥ apavādatvāt . śatṛśānacau tiṅapavādau . tau ca atra bādhakau . na ca apavādaviṣaye utsargaḥ abhiniviśate . pūrvam hi apavādāḥ abhiniviśante paścāt utsargaḥ . prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . tat na tāvat atra kadā cit tiṅādeśo bhavati . apavādau tāvat śatṛśānacau pratīkṣate . pākṣikaḥ eṣaḥ doṣaḥ . katarasmin pakṣe . śatṛśānacoḥ dvaitam bhavati . aprathamā vā vidhinā āśrīyate prathamā vā pratiṣedhena iti . vibhaktiniyame ca api dvaitam bhavati . vibhaktiniyamaḥ vā syāt arthaniyamaḥ vā iti . tat yadā tāvat arthaniyamaḥ aprathamā ca vidhinā āśrīyate tadā eṣa doṣaḥ bhavati . yadā hi vibhaktiniyamaḥ yadi eva aprathamā vidhinā āśrīyate atha api prathamā pratiṣedhena na tadā doṣaḥ bhavati

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६३।९-४६४।२७ रो इइ,८१९-८२५ शेषे इति उच्यते। कः शेषः नाम । कर्मादिभ्यः ये अन्ये अर्थाः सः शेषः । यदि एवम् शेषः न प्रकल्पते । न हि कर्मादिभ्यः अन्ये अर्थाः सन्ति । इह तावत् राज्ञः पुरुषः इति राजा कर्ता पुरुषः सम्प्रदानम् । वृक्षस्य शाखा इति वृक्षः शाख्यायाः अधिकरणम् । तथा यत् एतत् स्वम् नाम चतुर्भिः एतत् प्रकारैः भवति क्रयणात् अपहरणात् याञ्चायाः विनिमयात् इति । अत्र च सर्वत्र कर्मादयः सन्ति। एवम् तर्हि कर्मादीनाम् अविवक्षा शेषः । कथम् पुनः सतः नाम अवाविवक्षा स्यात् । सतः अपि अविवक्षा भवति । तत् यथा । अलोमिका एडका । अनुदरा कन्या इति । असतः च विवक्षा भवति । समुद्रः कुण्डिका । विन्ध्यः वर्धितकम् इति । किमर्थम् पुनः शेषग्रहणम् । प्रत्ययावधारणात् शेषवचनम् । प्रत्ययावधारणात् शेषवचनम् कर्तव्यम् । प्रत्ययाः नियताः अर्थाः अनियताः तत्र षष्ठी प्राप्नोति । तत्र शेषग्रहणम् कर्तव्यम् षष्ठीनियमार्थम् । शेषे एव षष्ठी भवति न अन्यत्र इति । अर्थावधारणात् वा । अथ वा अर्थाः नियताः प्रत्ययाः अनियताः ते शेषे अपि प्राप्नुवन्ति । तत्र शेषग्रहणम् कर्तव्यम् शेषनियमार्थम् । शेषे षष्ठी एव भवति न अन्या इति । अर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् । कथम् । अर्थाः नियताः प्रत्ययाः अनियताः । ततः वक्ष्यामि षष्ठी भवति इति । तत् नियमार्थम् भविष्यति । यत्र षष्ठी च अन्या च प्राप्नोति षष्ठी एव तत्र भवति इति । षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः । षष्ठी शेषे इति चेत् विशेष्यस्य प्रतिषेधः वक्तव्यः । राज्ञः पुरुषः इति अत्र राजा विशेषणम् पुरुषः विशेष्यः । तत्र प्रातिपदिकार्थः व्यतिरिक्तः इति कृत्वा प्रथमा न प्राप्नोति । तत्र षष्ठी स्यात् । तस्याः प्रतिषेधः वक्तव्यः । तत्र प्रथमाविधिः । तत्र षष्ठीम् प्रतिषिध्य प्रथमा विधेया । राज्ञः पुरुषः इति । उक्तम् पूर्वेण । किमुक्तम् । न वा वाक्यार्थत्वात् इति । यदत्रादिख्यम् वाक्यार्थः सः । कुतः नु खलु एतत् पुरुषे यत् आदिख्यम् सः वाक्यार्थः इति न पुनः राजनि यत् आधिक्यम् सः वाक्यार्थः स्यात् । अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते । न पुनः अन्तरेण राजशब्दप्रयोगम् पुरुषे सः अर्थः गम्यते । अस्ति कारणम् येन एतत् एवम् भवति । किम् कारणम् । राजशब्दात् हि भवान् षष्ठीम् उच्चारयति। अङ्ग हि भवान् पुरुषशब्दात् अपि उच्चारयतु गंस्यते सः अर्थः । ननु च न एतेन एवम् भवितव्यम् । न हि शब्दकृतेन नाम अर्थेन भवितव्यम् । अर्थकृतेन नाम शब्देन भवितव्यम् । तत् एतत् एवम् दृश्यताम् : अर्थरूपम् एव एतत् एवञ्जातीयकम् येन अत्र अन्तरेण अपि पुरुषशब्दप्रयोगम् राजनि सः अर्थः गम्यते । किम् पुनः तत् । स्वामित्वम् । किङ्कृतम् पुनः तत् । स्वकृतम् । तत् यथा : प्रातिपदिकार्थानाम् क्रियाकृताः विशेषाः उपजायन्ते तत्कृताः च आख्याः प्रादुर्भवन्ति कर्म करणम् अपादानं सम्प्रदानम् अधिकरणम् इति । ताः च पुनः विभक्तीनाम् उत्पत्तौ कदा चित् निमित्तत्वेन उपादीयन्ते कदा चित् न । कदा च विभक्तीनाम् उत्पत्तौ निमित्तत्वेन उपादीयन्ते । यदा व्यभिचरन्ति प्रातिपदिकार्थम् । यदा हि न व्यभिचरन्ति आख्याभूताः एव तदा भवन्ति कर्म करणम् अपादानम् सम्प्रदानम् अधिकरणम् इति । यथा एव तर्हि राजनि स्वकृतम् स्वामित्वम् तत्र षष्ठी एवम् पुरुषे अपि स्वामिकृतम् स्वत्वम् । तत्र षष्ठी प्राप्नोति । राजशब्दात् उत्पद्यमानया षष्ठ्या अभिहितः सः अर्थः इति कृत्वा पुरुषशब्दात् षष्ठी न भविष्यति । न तर्हि इदानीम् इदम् भवति पुरुषस्य राजा इति । भवति । राजशब्दात् तु तदा प्रथमा । न तर्हि इदानीम् इदम् भवति : राज्ञः पुरुषस्य इति । भवति । बाह्यम् अर्थम् अभिसमीक्ष्य ।

KA I,463.9-464.27 Ro II,819-825 śeṣe iti ucyate. kaḥ śeṣaḥ nāma . karmādibhyaḥ ye anye arthāḥ saḥ śeṣaḥ . yadi evam śeṣaḥ na prakalpate . na hi karmādibhyaḥ anye arthāḥ santi . iha tāvat rājñaḥ puruṣaḥ iti rājā kartā puruṣaḥ sampradānam . vṛkṣasya śākhā iti vṛkṣaḥ śākhyāyāḥ adhikaraṇam . tathā yat etat svam nāma caturbhiḥ etat prakāraiḥ bhavati krayaṇāt apaharaṇāt yāñcāyāḥ vinimayāt iti . atra ca sarvatra karmādayaḥ santi. evam tarhi karmādīnām avivakṣā śeṣaḥ . katham punaḥ sataḥ nāma avāvivakṣā syāt . sataḥ api avivakṣā bhavati . tat yathā . alomikā eḍakā . anudarā kanyā iti . asataḥ ca vivakṣā bhavati . samudraḥ kuṇḍikā . vindhyaḥ vardhitakam iti . kimartham punaḥ śeṣagrahaṇam . pratyayāvadhāraṇāt śeṣavacanam . pratyayāvadhāraṇāt śeṣavacanam kartavyam . pratyayāḥ niyatāḥ arthāḥ aniyatāḥ tatra ṣaṣṭhī prāpnoti . tatra śeṣagrahaṇam kartavyam ṣaṣṭhīniyamārtham . śeṣe eva ṣaṣṭhī bhavati na anyatra iti . arthāvadhāraṇāt vā . atha vā arthāḥ niyatāḥ pratyayāḥ aniyatāḥ te śeṣe api prāpnuvanti . tatra śeṣagrahaṇam kartavyam śeṣaniyamārtham . śeṣe ṣaṣṭhī eva bhavati na anyā iti . arthaniyame śeṣagrahaṇam śakyam akartum . katham . arthāḥ niyatāḥ pratyayāḥ aniyatāḥ . tataḥ vakṣyāmi ṣaṣṭhī bhavati iti . tat niyamārtham bhaviṣyati . yatra ṣaṣṭhī ca anyā ca prāpnoti ṣaṣṭhī eva tatra bhavati iti . ṣaṣṭhī śeṣe iti cet viśeṣyasya pratiṣedhaḥ . ṣaṣṭhī śeṣe iti cet viśeṣyasya pratiṣedhaḥ vaktavyaḥ . rājñaḥ puruṣaḥ iti atra rājā viśeṣaṇam puruṣaḥ viśeṣyaḥ . tatra prātipadikārthaḥ vyatiriktaḥ iti kṛtvā prathamā na prāpnoti . tatra ṣaṣṭhī syāt . tasyāḥ pratiṣedhaḥ vaktavyaḥ . tatra prathamāvidhiḥ . tatra ṣaṣṭhīm pratiṣidhya prathamā vidheyā . rājñaḥ puruṣaḥ iti . uktam pūrveṇa . kimuktam . na vā vākyārthatvāt iti . yadatrādikhyam vākyārthaḥ saḥ . kutaḥ nu khalu etat puruṣe yat ādikhyam saḥ vākyārthaḥ iti na punaḥ rājani yat ādhikyam saḥ vākyārthaḥ syāt . antareṇa api puruṣaśabdaprayogam rājani saḥ arthaḥ gamyate . na punaḥ antareṇa rājaśabdaprayogam puruṣe saḥ arthaḥ gamyate . asti kāraṇam yena etat evam bhavati . kim kāraṇam . rājaśabdāt hi bhavān ṣaṣṭhīm uccārayati. aṅga hi bhavān puruṣaśabdāt api uccārayatu gaṃsyate saḥ arthaḥ . nanu ca na etena evam bhavitavyam . na hi śabdakṛtena nāma arthena bhavitavyam . arthakṛtena nāma śabdena bhavitavyam . tat etat evam dṛśyatām : artharūpam eva etat evañjātīyakam yena atra antareṇa api puruṣaśabdaprayogam rājani saḥ arthaḥ gamyate . kim punaḥ tat . svāmitvam . kiṅkṛtam punaḥ tat . svakṛtam . tat yathā : prātipadikārthānām kriyākṛtāḥ viśeṣāḥ upajāyante tatkṛtāḥ ca ākhyāḥ prādurbhavanti karma karaṇam apādānaṃ sampradānam adhikaraṇam iti . tāḥ ca punaḥ vibhaktīnām utpattau kadā cit nimittatvena upādīyante kadā cit na . kadā ca vibhaktīnām utpattau nimittatvena upādīyante . yadā vyabhicaranti prātipadikārtham . yadā hi na vyabhicaranti ākhyābhūtāḥ eva tadā bhavanti karma karaṇam apādānam sampradānam adhikaraṇam iti . yathā eva tarhi rājani svakṛtam svāmitvam tatra ṣaṣṭhī evam puruṣe api svāmikṛtam svatvam . tatra ṣaṣṭhī prāpnoti . rājaśabdāt utpadyamānayā ṣaṣṭhyā abhihitaḥ saḥ arthaḥ iti kṛtvā puruṣaśabdāt ṣaṣṭhī na bhaviṣyati . na tarhi idānīm idam bhavati puruṣasya rājā iti . bhavati . rājaśabdāt tu tadā prathamā . na tarhi idānīm idam bhavati : rājñaḥ puruṣasya iti . bhavati . bāhyam artham abhisamīkṣya .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६५।२-१७ रो इइ,८२६-८२७ कर्मादिषु अकर्मकवद्वचनम् । कर्मादिषु अकर्मकवद्भावः वक्तव्यः । किम् प्रयोजनम् । अकर्मकाणाम् भावे लः भवति । भावे लः यथा स्यात् । मातुः स्मर्यते । पितुः स्मर्यते । अथ वत्करणम् किमर्थम् । स्वाश्रयम् अपि यथा स्यात् । माता स्मर्यते । पिता स्मर्यते इति । कर्माभिधाने हि लिङ्गवचनानुपपत्तिः । कर्माभिधाने हि सति लिङ्गवचनयोः अनुपपत्तिः स्यात् । मातुः स्मृतम् । मात्रोः स्मृतम् । माटॄणाम् स्मृतम् इति । मातुः यत् लिङ्गम् वचनम् च तत् स्मृतशब्दस्य अपि प्राप्नोति । षष्ठीप्रसण्गः च । षष्ठी च प्राप्नोति । कुतः । स्मृतशब्दात् । मातुः सामानाधिकरण्यात् षष्ठी प्राप्नोति । अपरः आह : षष्ठीप्रसङ्गः च । षष्ठी च प्रसङ्क्तव्या । कुतः । मातृशब्दात् । स्मृतशब्देन भिहितम् कर्म इति कृत्वा षष्ठी न प्राप्नोति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अविवक्षिते कर्मणि षष्ठी भवति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । शेषे इति वर्तते । शेषः च कः । कर्मादीनाम् अविवक्षा शेषः । यदा कर्म विवक्षितम् भवति तदा षष्ठी न भवति । तत् यथा । स्मरामि अहम् मातरम् । स्मरामि अहम् पितरम् इति ।

KA I,465.2-17 Ro II,826-827 karmādiṣu akarmakavadvacanam . karmādiṣu akarmakavadbhāvaḥ vaktavyaḥ . kim prayojanam . akarmakāṇām bhāve laḥ bhavati . bhāve laḥ yathā syāt . mātuḥ smaryate . pituḥ smaryate . atha vatkaraṇam kimartham . svāśrayam api yathā syāt . mātā smaryate . pitā smaryate iti . karmābhidhāne hi liṅgavacanānupapattiḥ . karmābhidhāne hi sati liṅgavacanayoḥ anupapattiḥ syāt . mātuḥ smṛtam . mātroḥ smṛtam . māṭṝṇām smṛtam iti . mātuḥ yat liṅgam vacanam ca tat smṛtaśabdasya api prāpnoti . ṣaṣṭhīprasaṇgaḥ ca . ṣaṣṭhī ca prāpnoti . kutaḥ . smṛtaśabdāt . mātuḥ sāmānādhikaraṇyāt ṣaṣṭhī prāpnoti . aparaḥ āha : ṣaṣṭhīprasaṅgaḥ ca . ṣaṣṭhī ca prasaṅktavyā . kutaḥ . mātṛśabdāt . smṛtaśabdena bhihitam karma iti kṛtvā ṣaṣṭhī na prāpnoti . tat tarhi vaktavyam . na vaktavyam . avivakṣite karmaṇi ṣaṣṭhī bhavati . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . śeṣe iti vartate . śeṣaḥ ca kaḥ . karmādīnām avivakṣā śeṣaḥ . yadā karma vivakṣitam bhavati tadā ṣaṣṭhī na bhavati . tat yathā . smarāmi aham mātaram . smarāmi aham pitaram iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६५।१९-२२ रो इइ,८२८ अज्वरिसन्ताप्योः इति वक्तव्यम् । इह अपि यथा स्यात् । चौरम् सन्तापयति । वृषलम् सन्तापयति । अथ किमर्थम् भाववचनानाम् इति उच्यते यावता रुजार्थाः भाववचनाः एव भवन्ति । भावकर्तृकात् यथा स्यात् । इह मा भूत् । नदी कूलानि रुजति इति ।

KA I,465.19-22 Ro II,828 ajvarisantāpyoḥ iti vaktavyam . iha api yathā syāt . cauram santāpayati . vṛṣalam santāpayati . atha kimartham bhāvavacanānām iti ucyate yāvatā rujārthāḥ bhāvavacanāḥ eva bhavanti . bhāvakartṛkāt yathā syāt . iha mā bhūt . nadī kūlāni rujati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६६।२-३ रो इइ,८२८-८२९ किम् उदाहरणम् । गाम् घ्नन्ति । गाम् प्रदीव्यन्ति । गाम् सभासद्भ्यः उपहरन्ति । न एतत् अस्ति । पूर्वेण अपि एतत् सिद्धम् । इदम् तर्हि । गामस्य तदहः सभायाम् दीव्येयुः ।

KA I,466.2-3 Ro II,828-829 kim udāharaṇam . gām ghnanti . gām pradīvyanti . gām sabhāsadbhyaḥ upaharanti . na etat asti . pūrveṇa api etat siddham . idam tarhi . gāmasya tadahaḥ sabhāyām dīvyeyuḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६६।५-६ रो इइ,८२९ हविषः अप्रस्थितस्य । हविषः अप्रस्थितस्य इति वक्तव्यम् । इन्द्राग्निभ्याम् छागम् हविः वपाम् मेदः प्रस्थितम् प्रेष्य ।

KA I,466.5-6 Ro II,829 haviṣaḥ aprasthitasya . haviṣaḥ aprasthitasya iti vaktavyam . indrāgnibhyām chāgam haviḥ vapām medaḥ prasthitam preṣya .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६६।१०-१७ रो इइ,८३० षष्ठ्यर्थे चतुर्थीवचनम् । षष्ठ्यर्थे चतुर्थी वक्तव्या । या खर्वेण पिबति तस्यै खर्वः तिस्रः रात्रीः । तस्याः इति प्राप्ते । यः ततः जायते सः भिशस्तः याम् अरण्ये तस्यै स्तेनः याम् पराचीम् तस्यै ह्रीतमुखी अपगगल्भः या स्नाति तस्यै अप्सु मारुकः या अभ्यङ्क्ते तस्यै दुश्चर्मा या प्रलिखते तस्यै खलतिः अपमारी या आङ्क्ते तस्यै काणः या दतः धावते तस्यै श्यावदन् या नखनि निकृन्तते तस्यै कुनखॄ या कृणत्ति तस्यै क्लीबः या रज्जुम् सृजति तस्यै उद्बन्धुकः या पर्णेन पिबति तस्यै उन्मादुकः जायते । अहल्यायै जारः । मनाय्यै तन्तुः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । योगविभागात् सिद्धम् । चतुर्थी । ततः अर्थे बहुलम् छन्दसि इति ।

KA I,466.10-17 Ro II,830 ṣaṣṭhyarthe caturthīvacanam . ṣaṣṭhyarthe caturthī vaktavyā . yā kharveṇa pibati tasyai kharvaḥ tisraḥ rātrīḥ . tasyāḥ iti prāpte . yaḥ tataḥ jāyate saḥ bhiśastaḥ yām araṇye tasyai stenaḥ yām parācīm tasyai hrītamukhī apagagalbhaḥ yā snāti tasyai apsu mārukaḥ yā abhyaṅkte tasyai duścarmā yā pralikhate tasyai khalatiḥ apamārī yā āṅkte tasyai kāṇaḥ yā dataḥ dhāvate tasyai śyāvadan yā nakhani nikṛntate tasyai kunakhṝ yā kṛṇatti tasyai klībaḥ yā rajjum sṛjati tasyai udbandhukaḥ yā parṇena pibati tasyai unmādukaḥ jāyate . ahalyāyai jāraḥ . manāyyai tantuḥ . tat tarhi vaktavyam . na vaktavyam . yogavibhāgāt siddham . caturthī . tataḥ arthe bahulam chandasi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६६।१९-४६८।४ रो इइ,८३१-८३६ कृद्ग्रहणम् किमर्थम् । इह मा भूत् । पचति ओदनम् देवदत्तः इति । कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणानर्थक्यम् लप्रतिषेधात् । कर्तृकर्मणोः षष्ठीविधाने कृद्ग्रहणम् अनर्थकम् । किम् कारणम् । लप्रतिषेधात् । प्रतिषिध्यते तत्र षष्थी लप्रयोगे न इति । तस्य कर्मकर्त्रर्थम् तर्हि कृद्ग्रहणम् कर्तव्यम् । कृतः ये कर्तृकर्मणी तत्र यथा स्यात् । अन्यस्य ये कर्तृकर्मणी तत्र मा भूत् इति । न एतत् अस्ति प्रयोजनम् । धातोः हि द्वये प्रत्ययाः विधीयन्ते तिङः च कृतः च । तत्र कृत्प्रयोगे इष्यते तिङ्प्रयोगे प्रतिषिध्यते । न ब्रूमः इहार्थम् तस्य कर्मकर्त्रर्थम् कृद्ग्रहणम् कर्तव्यम् इति । किम् तर्हि । उत्तरार्थम् । अव्ययप्रयोगे न इति षष्ठ्याः प्रतिषेधम् वक्ष्यति । सः कृतः अव्ययस्य ये कर्तृकर्मणी तत्र यथा स्यात् । अकृतः अव्ययस्य ये कर्तृकर्मणी तत्र मा भूत् इति । उच्चैः कटानाम् स्रष्टा इति । तस्य कर्मकर्त्रर्थम् इति चेत् प्रतिषेधे अपि तदन्तकर्मकर्तृत्वात् सिद्धम् । कृतः एते कर्तृकर्मणी न अव्ययस्य । अधिकरणम् अत्र अव्ययम् । इदम् तर्हि प्रयोजनम् । उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधम् वक्ष्यति । सः कृतः ये कर्तृकर्मणी तत्र यथा स्यात् । कृतोः ये कर्तृकर्मणी तत्र मा भूत् इति । आश्चर्यम् इदम् वृत्तम् ओदनस्य च नाम पाकः ब्राह्मणानाम् च प्रादुर्भावः इति । अथ क्रियमाणे अपि कृद्ग्रहणे कस्मात् एव अत्र न भवति । उभयप्राप्तौ इति न एवम् विज्ञायते उभयोः प्राप्तिः उभयप्राप्तिः उभयप्राप्तौ इति । कथम् तर्हि । उभयोः प्राप्तिः यस्मिन् कृति सः अयम् उभयप्राप्तिः कृत् उभयप्राप्तौ इति । अथ वा कृतः ये कर्तृकर्मणी तत्र यथा स्यात् । तद्धितस्य ये कर्तृकर्मणी तत्र मा भूत् इति । कृतपूर्वी कटम् । भुक्तपूर्वी ओदनम् इति । ननु च वाक्येन एव अनेन न भवितव्यम् । द्वितीयया तावत् न भवितव्यम् । किम् कारणम् । क्तेन अभिहितम् कर्म इति कृत्वा । इनिप्रत्ययेन च अपि न उत्पत्तव्यम् । किम् कारणम् । असामर्थ्यात् । कथम् असमार्थ्यम् । सापेक्षम् असमर्थम् भवति इति । यत् तावत् उच्यते द्वितीयया तावत् न भवितव्यम् । किम् कारणम् । क्तेन अभिहितम् कर्म इति कृत्वा इति । यः असौ कृतकटयोः अभिसंबन्धः सः उत्पन्ने प्रत्यये निवर्तते । अस्ति च करोतेः कटेन सामर्थ्यम् इति कृत्वा द्वितीया भविष्यति । यत् अपि उच्यते इनिप्रत्ययेन च अपि न उत्पत्तव्यम् । किम् कारणम् । असामर्थ्यात् । कथम् असमार्थ्यम् । सापेक्षम् असमर्थम् भवति इति । न इदम् उभयम् युगपत् भवति वाक्यम् च प्रत्ययः च । यदा वाक्यम् न तदा प्रत्ययः । यदा प्रत्ययः सामान्येन तदा वृत्तिः । तत्र अवश्यं विशेषार्थिना विशेषः अनुप्रयोक्तव्यः । कृतपूर्वी । किम् । कटम् । भुक्तपूर्वी । किम् । ओदनम् इति । अथ वा इदम् प्रयोजनम् कर्तृभूतपूर्वमात्रात् अपि षष्ठीयथा स्यात् । भेदिका देवदत्तस्य यज्ञदत्तस्य काष्ठानाम् इति ।

KA I,466.19-468.4 Ro II,831-836 kṛdgrahaṇam kimartham . iha mā bhūt . pacati odanam devadattaḥ iti . kartṛkarmaṇoḥ ṣaṣṭhīvidhāne kṛdgrahaṇānarthakyam lapratiṣedhāt . kartṛkarmaṇoḥ ṣaṣṭhīvidhāne kṛdgrahaṇam anarthakam . kim kāraṇam . lapratiṣedhāt . pratiṣidhyate tatra ṣaṣthī laprayoge na iti . tasya karmakartrartham tarhi kṛdgrahaṇam kartavyam . kṛtaḥ ye kartṛkarmaṇī tatra yathā syāt . anyasya ye kartṛkarmaṇī tatra mā bhūt iti . na etat asti prayojanam . dhātoḥ hi dvaye pratyayāḥ vidhīyante tiṅaḥ ca kṛtaḥ ca . tatra kṛtprayoge iṣyate tiṅprayoge pratiṣidhyate . na brūmaḥ ihārtham tasya karmakartrartham kṛdgrahaṇam kartavyam iti . kim tarhi . uttarārtham . avyayaprayoge na iti ṣaṣṭhyāḥ pratiṣedham vakṣyati . saḥ kṛtaḥ avyayasya ye kartṛkarmaṇī tatra yathā syāt . akṛtaḥ avyayasya ye kartṛkarmaṇī tatra mā bhūt iti . uccaiḥ kaṭānām sraṣṭā iti . tasya karmakartrartham iti cet pratiṣedhe api tadantakarmakartṛtvāt siddham . kṛtaḥ ete kartṛkarmaṇī na avyayasya . adhikaraṇam atra avyayam . idam tarhi prayojanam . ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedham vakṣyati . saḥ kṛtaḥ ye kartṛkarmaṇī tatra yathā syāt . kṛtoḥ ye kartṛkarmaṇī tatra mā bhūt iti . āścaryam idam vṛttam odanasya ca nāma pākaḥ brāhmaṇānām ca prādurbhāvaḥ iti . atha kriyamāṇe api kṛdgrahaṇe kasmāt eva atra na bhavati . ubhayaprāptau iti na evam vijñāyate ubhayoḥ prāptiḥ ubhayaprāptiḥ ubhayaprāptau iti . katham tarhi . ubhayoḥ prāptiḥ yasmin kṛti saḥ ayam ubhayaprāptiḥ kṛt ubhayaprāptau iti . atha vā kṛtaḥ ye kartṛkarmaṇī tatra yathā syāt . taddhitasya ye kartṛkarmaṇī tatra mā bhūt iti . kṛtapūrvī kaṭam . bhuktapūrvī odanam iti . nanu ca vākyena eva anena na bhavitavyam . dvitīyayā tāvat na bhavitavyam . kim kāraṇam . ktena abhihitam karma iti kṛtvā . inipratyayena ca api na utpattavyam . kim kāraṇam . asāmarthyāt . katham asamārthyam . sāpekṣam asamartham bhavati iti . yat tāvat ucyate dvitīyayā tāvat na bhavitavyam . kim kāraṇam . ktena abhihitam karma iti kṛtvā iti . yaḥ asau kṛtakaṭayoḥ abhisaṃbandhaḥ saḥ utpanne pratyaye nivartate . asti ca karoteḥ kaṭena sāmarthyam iti kṛtvā dvitīyā bhaviṣyati . yat api ucyate inipratyayena ca api na utpattavyam . kim kāraṇam . asāmarthyāt . katham asamārthyam . sāpekṣam asamartham bhavati iti . na idam ubhayam yugapat bhavati vākyam ca pratyayaḥ ca . yadā vākyam na tadā pratyayaḥ . yadā pratyayaḥ sāmānyena tadā vṛttiḥ . tatra avaśyaṃ viśeṣārthinā viśeṣaḥ anuprayoktavyaḥ . kṛtapūrvī . kim . kaṭam . bhuktapūrvī . kim . odanam iti . atha vā idam prayojanam kartṛbhūtapūrvamātrāt api ṣaṣṭhīyathā syāt . bhedikā devadattasya yajñadattasya kāṣṭhānām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६८।६-१२ रो इइ,८३६ उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे अप्रतिषेधः । उभयप्राप्तौ कर्मणि षष्ठ्याः प्रतिषेधे अकादिप्रयोगे प्रतिषेधः न भवति इति वक्तव्यम् । भेदिका देवदत्तस्य काष्ठानाम् । चिकीर्षा विष्णुमित्रस्य कटस्य । अपरः आह : अकाकारयोः प्रयोगे प्रतिषेधः न इति वक्तव्यम् । शेषे विभाषा । शोभना खलु पाणिनेः सूत्रस्य कृतिः । शोभना खलु पाणिनिना सूत्रस्य कृतिः । शोभना खलु दाक्षायणस्य सङ्ग्रहस्य कृतिः । शोभना खलु दाक्षायेण सङ्ग्रहस्य कृतिः इति ।

KA I,468.6-12 Ro II,836 ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge apratiṣedhaḥ . ubhayaprāptau karmaṇi ṣaṣṭhyāḥ pratiṣedhe akādiprayoge pratiṣedhaḥ na bhavati iti vaktavyam . bhedikā devadattasya kāṣṭhānām . cikīrṣā viṣṇumitrasya kaṭasya . aparaḥ āha : akākārayoḥ prayoge pratiṣedhaḥ na iti vaktavyam . śeṣe vibhāṣā . śobhanā khalu pāṇineḥ sūtrasya kṛtiḥ . śobhanā khalu pāṇininā sūtrasya kṛtiḥ . śobhanā khalu dākṣāyaṇasya saṅgrahasya kṛtiḥ . śobhanā khalu dākṣāyeṇa saṅgrahasya kṛtiḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६८।१४-२३ रो इइ,८३७-८३८ क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् । क्तस्य च वर्तमाने नापुंसके भावे उपसङ्ख्यानम् कर्तव्यम् : छात्त्रस्य हसितम् , नटस्य भुक्तम् , मयूरस्य नृत्तम् , कोकिलस्य व्याहृतम् इति । शेषविज्ञानात् सिद्धम् । शेषलक्षणा अत्र षष्ठी भविष्यति । शेषः इति उच्यते । कः च शेषः । कर्मादीनाम् अविवक्षा शेषः । कथम् पुनः सतः नाम अविवक्षा स्यात् यदा छात्रः हसति , नटः भुङ्क्ते , मयूरः नृत्यति , कोकिलः व्याहरति । सतः अपि अविवक्षा भवति । तत् यथा : अलोमिका एडका , अनुदरा कन्या इति । असतः च विवक्षा भवति । समुद्रः कुण्डिका । विन्ध्यः वर्धितकम् इति । यदि एवम् उत्तरत्र चातुःशब्द्यम् प्राप्नोति । इदम् अहेः सृप्तम् , इह अहिना सृप्तम् , इह अहिः सृप्तः , इह अहेः सृप्तम् , ग्रामस्य पार्श्वे ग्रामस्य मध्ये इति । इष्यते एव चातुःशब्द्यम् ।

KA I,468.14-23 Ro II,837-838 ktasya ca vartamāne nāpuṃsake bhāve upasaṅkhyānam . ktasya ca vartamāne nāpuṃsake bhāve upasaṅkhyānam kartavyam : chāttrasya hasitam , naṭasya bhuktam , mayūrasya nṛttam , kokilasya vyāhṛtam iti . śeṣavijñānāt siddham . śeṣalakṣaṇā atra ṣaṣṭhī bhaviṣyati . śeṣaḥ iti ucyate . kaḥ ca śeṣaḥ . karmādīnām avivakṣā śeṣaḥ . katham punaḥ sataḥ nāma avivakṣā syāt yadā chātraḥ hasati , naṭaḥ bhuṅkte , mayūraḥ nṛtyati , kokilaḥ vyāharati . sataḥ api avivakṣā bhavati . tat yathā : alomikā eḍakā , anudarā kanyā iti . asataḥ ca vivakṣā bhavati . samudraḥ kuṇḍikā . vindhyaḥ vardhitakam iti . yadi evam uttaratra cātuḥśabdyam prāpnoti . idam aheḥ sṛptam , iha ahinā sṛptam , iha ahiḥ sṛptaḥ , iha aheḥ sṛptam , grāmasya pārśve grāmasya madhye iti . iṣyate eva cātuḥśabdyam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६९।२-४७०।६ रो इइ,८३८-८४० लादेशे सल्लिड्ग्रहणम् किकिनोः प्रतिषेधार्थम् । लादेशे सल्लिड्गग्रहणम् कर्तव्यम् । सल्लिटोः प्रयोगे न इति वक्तव्यम् । किम् प्रयोजनम् । किकिनोः प्रतिषेधार्थम् । किकिनोः अपि प्रयोगे प्रतिषेधः यथा स्यात् । । पपिः सोमं ददिः गाः । किम् पुनः कारणम् न सिध्यति । तयोः अलादेशत्वात् । न हि तौ लादेशौ । अथ तौ लादेशौ स्याताम् स्यात् प्रतिषेधः । बाढम् स्यात् । लादेशौ तर्हि भविष्यतः । तत् कथम् । आदृगमहनजनः किकिनौ लिट् च इति लिड्वत् इति वक्ष्यामि । सः तर्हि वतिनिर्देशः कर्तव्यः । न हि अन्तरेण वतिम् अतिदेशः गम्यते । अन्तरेण अपि वतिम् अतिदेशः गम्यते । तत् यथा । एषः ब्रह्मदत्तः । अब्रह्मदत्तम् ब्रह्मदत्तः इति आह । ते मन्यामहे : ब्रह्मदत्तवत् अयम् भवति इति । एवम् इह अपि अलिटम् लिट् इति आह । लिड्वत् इति विज्ञास्यते । उकारप्रयोगे न इति वक्तव्यम् । कटम् चिकीर्षुः । ओदनम् बुभुक्षुः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । उकारः अपि अत्र निर्दिश्यते । कथम् । प्रश्लिष्टनिर्देशः अयम् । उ उक ऊक ल ऊक लोक इति । उकप्रतिषेधे कमेः भाषायाम् अप्रतिषेधः । उकप्रतिषेधे कमेः भाषायाम् प्रतिषेधः न भवति इति वक्तव्यम् । दस्याः कामुकः । वृषल्याः कामुकः । अव्ययप्रतिषेधे तोसुन्कसुनोः अप्रतिषेधः । अव्ययप्रतिषेधे तोसुन्कसुनोः प्रतिषेधः न भवति इति वक्तव्यम् । पुरा सूर्यस्य उदेतोः आधेयः । पुरा वत्सानाम् अपाकर्तोः । पुरा क्रूरस्य विसृपः विरप्शिन् । शानंश्चानश्शतॄऋणाम् उपसङ्ख्यानम् । शानंश्चानश्शतॄऋणाम् उपसङ्ख्यानम् कर्तव्यम् । सोमम् पवमानः । नडम् आघ्नानः । अधीयन् पारायणम् । लप्रयोगे न इति प्रतिषेधः न प्राप्नोति । मा भूत् एवम् । तृन् इति एवम् भविष्यति । कथम् । तृन् इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व संनिविष्टानाम् प्रत्याहारः । लटः शतृ इति अतः प्रभृति आ तृनः नकारात् । यदि प्रत्याहारग्रहणम् चौरस्य द्विषन् वृषलस्य द्विषन् अत्र अपि प्राप्नोति । द्विषः शतुः वावचनम् । द्विषः शतुः वा इति वक्तव्यम् । तत् च अवश्यं वक्तव्यम् प्रत्ययग्र्हणे सति प्रतिषेधार्थम् । तत् एव प्रत्याहारग्रहणे सति विध्यर्थम् भविष्यति ।

KA I,469.2-470.6 Ro II,838-840 lādeśe salliḍgrahaṇam kikinoḥ pratiṣedhārtham . lādeśe salliḍgagrahaṇam kartavyam . salliṭoḥ prayoge na iti vaktavyam . kim prayojanam . kikinoḥ pratiṣedhārtham . kikinoḥ api prayoge pratiṣedhaḥ yathā syāt . | papiḥ somaṃ dadiḥ gāḥ . kim punaḥ kāraṇam na sidhyati . tayoḥ alādeśatvāt . na hi tau lādeśau . atha tau lādeśau syātām syāt pratiṣedhaḥ . bāḍham syāt . lādeśau tarhi bhaviṣyataḥ . tat katham . ādṛgamahanajanaḥ kikinau liṭ ca iti liḍvat iti vakṣyāmi . saḥ tarhi vatinirdeśaḥ kartavyaḥ . na hi antareṇa vatim atideśaḥ gamyate . antareṇa api vatim atideśaḥ gamyate . tat yathā . eṣaḥ brahmadattaḥ . abrahmadattam brahmadattaḥ iti āha . te manyāmahe : brahmadattavat ayam bhavati iti . evam iha api aliṭam liṭ iti āha . liḍvat iti vijñāsyate . ukāraprayoge na iti vaktavyam . kaṭam cikīrṣuḥ . odanam bubhukṣuḥ . tat tarhi vaktavyam . na vaktavyam . ukāraḥ api atra nirdiśyate . katham . praśliṣṭanirdeśaḥ ayam . u uka ūka la ūka loka iti . ukapratiṣedhe kameḥ bhāṣāyām apratiṣedhaḥ . ukapratiṣedhe kameḥ bhāṣāyām pratiṣedhaḥ na bhavati iti vaktavyam . dasyāḥ kāmukaḥ . vṛṣalyāḥ kāmukaḥ . avyayapratiṣedhe tosunkasunoḥ apratiṣedhaḥ . avyayapratiṣedhe tosunkasunoḥ pratiṣedhaḥ na bhavati iti vaktavyam . purā sūryasya udetoḥ ādheyaḥ . purā vatsānām apākartoḥ . purā krūrasya visṛpaḥ virapśin . śānaṃścānaśśatṝṛṇām upasaṅkhyānam . śānaṃścānaśśatṝṛṇām upasaṅkhyānam kartavyam . somam pavamānaḥ . naḍam āghnānaḥ . adhīyan pārāyaṇam . laprayoge na iti pratiṣedhaḥ na prāpnoti . mā bhūt evam . tṛn iti evam bhaviṣyati . katham . tṛn iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva saṃniviṣṭānām pratyāhāraḥ . laṭaḥ śatṛ iti ataḥ prabhṛti ā tṛnaḥ nakārāt . yadi pratyāhāragrahaṇam caurasya dviṣan vṛṣalasya dviṣan atra api prāpnoti . dviṣaḥ śatuḥ vāvacanam . dviṣaḥ śatuḥ vā iti vaktavyam . tat ca avaśyaṃ vaktavyam pratyayagrhaṇe sati pratiṣedhārtham . tat eva pratyāhāragrahaṇe sati vidhyartham bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७०।८-१३ रो इइ,८४०-८४१ अकस्य भविष्यति । अकस्य भविष्यति इति वक्तव्यम् । यवान् लावकः व्रजति । ओदनम् भोजकः व्रजति । सक्तून्पायकः व्रजति । इनः आधमर्ण्ये च । ततः इनः आधमर्ण्ये च भविष्यति च इति वक्तव्यम् । शतम् दायी । सहस्रम् दायी । ग्रामम् गामी ।

KA I,470.8-13 Ro II,840-841 akasya bhaviṣyati . akasya bhaviṣyati iti vaktavyam . yavān lāvakaḥ vrajati . odanam bhojakaḥ vrajati . saktūnpāyakaḥ vrajati . inaḥ ādhamarṇye ca . tataḥ inaḥ ādhamarṇye ca bhaviṣyati ca iti vaktavyam . śatam dāyī . sahasram dāyī . grāmam gāmī .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७०।१५-४७१।६ रो इइ,८४१-८४२ कर्तृग्रहणम् किमर्थम् । कर्मणि मा भूत् इति । न एतत् अस्ति प्रयोजनम् । भावकर्मणोः कृत्याः विधीयन्ते टत्र कृत्यैः अभिहितत्वात् कर्मणि षष्ठी न भविष्यति । अतः उत्तरम् पठति । भव्यादीनाम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् । भव्यादीनाम् कर्म कृत्यैः अनभितम् । गेयः माणवकः साम्नाम् । भव्यादीनम् कर्मणः अनभिधानात् कृत्यानाम् कर्तृग्रहणम् क्रियते । किम् उच्यते भव्यादीनाम् कर्म कृत्यैः अनभितम् इति । न इह अपि अनभिहितं भवति । आक्रष्टव्या ग्रांअम् शाखा इति । एवम् तर्हि योगविभागः करिष्यते । कृत्यानाम् । कृत्यानाम् प्रयोगे षष्ठी न भवति इति । किम् उदाहरणम् । ग्रामम् आक्रष्टव्या शाखा । ततः कर्तरि वा इति । इह अपि तर्हि प्राप्नोति । गेयः माणवकः साम्नाम् इति । उभयप्राप्तौ इति वर्तते । ननु च उभयप्राप्तिः एषा । गेयः माणवकः साम्नाम् इति च गेयानि माणवकेन सामानि इति च भवति । उभयप्राप्तिः नाम सा भवति यत्र उभयस्य युगपत्प्रसङ्गः अत्र च यदा कर्मणि न तदा कर्तरि यदा कर्तरि न तदा कर्मणि इति।

KA I,470.15-471.6 Ro II,841-842 kartṛgrahaṇam kimartham . karmaṇi mā bhūt iti . na etat asti prayojanam . bhāvakarmaṇoḥ kṛtyāḥ vidhīyante ṭatra kṛtyaiḥ abhihitatvāt karmaṇi ṣaṣṭhī na bhaviṣyati . ataḥ uttaram paṭhati . bhavyādīnām karmaṇaḥ anabhidhānāt kṛtyānām kartṛgrahaṇam . bhavyādīnām karma kṛtyaiḥ anabhitam . geyaḥ māṇavakaḥ sāmnām . bhavyādīnam karmaṇaḥ anabhidhānāt kṛtyānām kartṛgrahaṇam kriyate . kim ucyate bhavyādīnām karma kṛtyaiḥ anabhitam iti . na iha api anabhihitaṃ bhavati . ākraṣṭavyā grāṃam śākhā iti . evam tarhi yogavibhāgaḥ kariṣyate . kṛtyānām . kṛtyānām prayoge ṣaṣṭhī na bhavati iti . kim udāharaṇam . grāmam ākraṣṭavyā śākhā . tataḥ kartari vā iti . iha api tarhi prāpnoti . geyaḥ māṇavakaḥ sāmnām iti . ubhayaprāptau iti vartate . nanu ca ubhayaprāptiḥ eṣā . geyaḥ māṇavakaḥ sāmnām iti ca geyāni māṇavakena sāmāni iti ca bhavati . ubhayaprāptiḥ nāma sā bhavati yatra ubhayasya yugapatprasaṅgaḥ atra ca yadā karmaṇi na tadā kartari yadā kartari na tadā karmaṇi iti.

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७२।२ - ४७३।१० रो इइ,८४३ - ८४६ किमर्थम् इदम् उच्यते । प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च द्विगोः एकवचनविधानम् । प्रत्यधिकरणम् वचनोत्पत्तिः भवति । किम् इदम् प्रत्यधिकरणम् इति । अधिकरणम् अधिकरणम् प्रति प्रत्यधिकरणम् । सङ्ख्यासामानाधिकरण्यात् च । सङ्ख्यया बह्वर्थया च अस्य सामानाधिकरण्यम् । प्रत्यधिकरणम् वचनोत्पत्तेः सङ्ख्यासामानाधिकरण्यात् च बहुषु बहुवचनम् इति बहुवचनम् प्राप्नोति । इष्यते च एकवचनम् स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति द्विगोः एकवचनविधानम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र अनुप्रयोगस्य एकवचनाभावः अद्विगुत्वात् । तत्र अनुप्रयोगस्य एकवचनम् न प्राप्नोति : पञ्चपूली इयम् इति । किम् कारणम् । अद्विगुत्वात् । द्विगोः एकवचन्म् इति उच्यते । न च अत्र अनुप्रयोगः द्विगुसञ्ज्ञः । सिद्धम् तु द्विग्वर्थस्य एकवद्वचनात् । सिद्धम् एतत् । कथम् । द्विग्वर्थः एकवत् भवति इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । न इदम् पाऋइभाषिकस्य वचनस्य ग्रहणम् । किम् तर्हि । अन्वर्थग्रहणम् । उच्यते वचनम् । एकस्य अर्थस्य वचनम् एकवचनम् । एकशेषप्रतिषेधः च । एकशेषस्य च प्रतिषेधः वक्तव्यः । पञ्चपूली च पञ्चपूली च पञ्चपूली च पञ्चपूल्यः । न वा अन्यस्य अनेकत्वात् । न वा वक्तव्यः । किम् कारणम् । अन्यस्य अनेकत्वात् । न एतत् द्विगोः अनेकत्वम् । कस्य तर्हि । द्विग्वर्थसमुदायस्य । समाहारग्रहणम् च तद्धितार्थप्रतिषेधार्थम् । समाहारग्रहणम् च कर्तव्यम् । किम् प्रयोजनम् । तद्धितार्थप्रतिषेधार्थम् । तद्धितार्थे यः द्विगुः तस्य मा भूत् इति । पञ्चकपालौ पञ्चकपालाः इति । किम् पुनः अयम् पञ्चकपालशब्दः प्रत्येकम् परिसमाप्यते आहोस्वित् समुदाये वर्तते । किम् च अतः । यदि प्रत्येकम् परिसमाप्यते पुरस्तात् एव चोदितम् परिहृतम् च। अथ समुदाये वर्तते । न वा समाहारैकत्वात् । न वा एतत् समाहारैकत्वात् अपि सिध्यति । एवम् तर्हि प्रत्येकम् परिसमाप्यते । पुरस्तात् एव चोदितम् परिहृतम् च। अपरः आह : न वा समाहारैकत्वात् । न वा योगारम्भेण एव अर्थः । किम् कारणम् । समाहारैकत्वात् । एकः अयम् समाहारः नाम । तस्य एकत्वात् एकवचनम् भविष्यति ।

KA I,472.2 - 473.10 Ro II,843 - 846 kimartham idam ucyate . pratyadhikaraṇam vacanotpatteḥ saṅkhyāsāmānādhikaraṇyāt ca dvigoḥ ekavacanavidhānam . pratyadhikaraṇam vacanotpattiḥ bhavati . kim idam pratyadhikaraṇam iti . adhikaraṇam adhikaraṇam prati pratyadhikaraṇam . saṅkhyāsāmānādhikaraṇyāt ca . saṅkhyayā bahvarthayā ca asya sāmānādhikaraṇyam . pratyadhikaraṇam vacanotpatteḥ saṅkhyāsāmānādhikaraṇyāt ca bahuṣu bahuvacanam iti bahuvacanam prāpnoti . iṣyate ca ekavacanam syāt iti . tat ca antareṇa yatnam na sidhyati iti dvigoḥ ekavacanavidhānam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti . tatra anuprayogasya ekavacanābhāvaḥ advigutvāt . tatra anuprayogasya ekavacanam na prāpnoti : pañcapūlī iyam iti . kim kāraṇam . advigutvāt . dvigoḥ ekavacanm iti ucyate . na ca atra anuprayogaḥ dvigusañjñaḥ . siddham tu dvigvarthasya ekavadvacanāt . siddham etat . katham . dvigvarthaḥ ekavat bhavati iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . na idam pāṛibhāṣikasya vacanasya grahaṇam . kim tarhi . anvarthagrahaṇam . ucyate vacanam . ekasya arthasya vacanam ekavacanam . ekaśeṣapratiṣedhaḥ ca . ekaśeṣasya ca pratiṣedhaḥ vaktavyaḥ . pañcapūlī ca pañcapūlī ca pañcapūlī ca pañcapūlyaḥ . na vā anyasya anekatvāt . na vā vaktavyaḥ . kim kāraṇam . anyasya anekatvāt . na etat dvigoḥ anekatvam . kasya tarhi . dvigvarthasamudāyasya . samāhāragrahaṇam ca taddhitārthapratiṣedhārtham . samāhāragrahaṇam ca kartavyam . kim prayojanam . taddhitārthapratiṣedhārtham . taddhitārthe yaḥ dviguḥ tasya mā bhūt iti . pañcakapālau pañcakapālāḥ iti . kim punaḥ ayam pañcakapālaśabdaḥ pratyekam parisamāpyate āhosvit samudāye vartate . kim ca ataḥ . yadi pratyekam parisamāpyate purastāt eva coditam parihṛtam ca. atha samudāye vartate . na vā samāhāraikatvāt . na vā etat samāhāraikatvāt api sidhyati . evam tarhi pratyekam parisamāpyate . purastāt eva coditam parihṛtam ca. aparaḥ āha : na vā samāhāraikatvāt . na vā yogārambheṇa eva arthaḥ . kim kāraṇam . samāhāraikatvāt . ekaḥ ayam samāhāraḥ nāma . tasya ekatvāt ekavacanam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७३।१२-१९ रो इइ,८४६-८४७ प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् । प्राणितूर्यसेनाङ्गानाम् तत्पूर्वपदोत्तरपदग्रहणम् कर्तव्यम् । प्राण्यङ्गानाम् प्राण्यङैः इति वक्तव्यम् । तूर्याङ्गाणां तूर्याङ्गैः । सेनाङ्गानाम् सेनाङ्गैः इति । किम् प्रयोजनम् । व्यतिकरः मा भूत् इति । तत् तर्हि वक्तव्यम् । योगविभागात् सिद्धम् । योगविभागः करिष्यते । द्वन्द्वः च प्राण्यङ्गानाम् । ततः तूर्याङ्गाणाम् । ततः सेनाङ्गानाम् इति । सः तर्हि योगविभागः कर्तव्यः । न कर्तव्यः । प्रत्येकम् अङ्गशब्दः परिसमाप्यते ।

KA I,473.12-19 Ro II,846-847 prāṇitūryasenāṅgānām tatpūrvapadottarapadagrahaṇam . prāṇitūryasenāṅgānām tatpūrvapadottarapadagrahaṇam kartavyam . prāṇyaṅgānām prāṇyaṅaiḥ iti vaktavyam . tūryāṅgāṇāṃ tūryāṅgaiḥ . senāṅgānām senāṅgaiḥ iti . kim prayojanam . vyatikaraḥ mā bhūt iti . tat tarhi vaktavyam . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . dvandvaḥ ca prāṇyaṅgānām . tataḥ tūryāṅgāṇām . tataḥ senāṅgānām iti . saḥ tarhi yogavibhāgaḥ kartavyaḥ . na kartavyaḥ . pratyekam aṅgaśabdaḥ parisamāpyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७३।२१-४७४।५ रो इइ,८४७ इह कस्मात् न भवति । नन्दन्तु कठकालापाः । वर्धन्ताम् कठकौथुमाः । स्थेणोः । स्थेणोः इति वक्तव्यम् । एवम् अपि तिष्ठन्तु कठकालापाः इति अत्र अपि प्राप्नोति । अद्यतन्याम् च । अद्यतन्याम् च इति वक्तव्यम् । उदगात् कठकापालम् । प्रत्यष्ठात् कठकौथुमम् । उदगात् मौदपैप्पलादम् ।

KA I,473.21-474.5 Ro II,847 iha kasmāt na bhavati . nandantu kaṭhakālāpāḥ . vardhantām kaṭhakauthumāḥ . stheṇoḥ . stheṇoḥ iti vaktavyam . evam api tiṣṭhantu kaṭhakālāpāḥ iti atra api prāpnoti . adyatanyām ca . adyatanyām ca iti vaktavyam . udagāt kaṭhakāpālam . pratyaṣṭhāt kaṭhakauthumam . udagāt maudapaippalādam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७४।७-११ रो इइ,८४८ ग्रामप्रतिषेधे नगरप्रतिषेधः । अग्रामाः इति अत्र अनगराणाम् इति वक्तव्यम् । इह मा भूत् । मथुरापाटलिपुत्रम् इति । उभयतः च ग्रामाणाम् । उभयतः च ग्रामाणाम् प्रतिषेधः वक्तव्यः । इह मा भूत् । शौर्यम् च केतवता च शौर्यकेतवते । जाम्बवम् च शालुकिनी च जाम्बवशालुकिन्यौ ।

KA I,474.7-11 Ro II,848 grāmapratiṣedhe nagarapratiṣedhaḥ . agrāmāḥ iti atra anagarāṇām iti vaktavyam . iha mā bhūt . mathurāpāṭaliputram iti . ubhayataḥ ca grāmāṇām . ubhayataḥ ca grāmāṇām pratiṣedhaḥ vaktavyaḥ . iha mā bhūt . śauryam ca ketavatā ca śauryaketavate . jāmbavam ca śālukinī ca jāmbavaśālukinyau .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७४।१३-१७ रो इइ,८४८ क्षुद्र्जन्तवः इति उच्यते । के पुनः क्षुद्रजन्तवः । क्षोत्तव्याः जन्तवः । यदि एवम् यूकालिक्षम् कीटपिपीलिकम् इति न सिध्यति । एवम् तर्हि अनथिकाः क्षुद्रजन्तवः । अथ वा येषाम् न शोणितम् ते क्षुद्रजन्तवः । अथ वा येषाम् आ सहस्रात् अञ्जलिः न पूर्यते ते क्षुद्रजन्तवः । अथ वा येषाम् गोचर्ममात्रम् न पतितः भवति ते क्षुद्रजन्तवः । अथ व नकुलपर्यन्ताः क्षुद्रजन्तवः ।

KA I,474.13-17 Ro II,848 kṣudrjantavaḥ iti ucyate . ke punaḥ kṣudrajantavaḥ . kṣottavyāḥ jantavaḥ . yadi evam yūkālikṣam kīṭapipīlikam iti na sidhyati . evam tarhi anathikāḥ kṣudrajantavaḥ . atha vā yeṣām na śoṇitam te kṣudrajantavaḥ . atha vā yeṣām ā sahasrāt añjaliḥ na pūryate te kṣudrajantavaḥ . atha vā yeṣām gocarmamātram na patitaḥ bhavati te kṣudrajantavaḥ . atha va nakulaparyantāḥ kṣudrajantavaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७४।१९-२१ रो इइ,८४९ किमर्थः चकारः । एवकारार्थः चकारः । येषाम् विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् । अन्यत् यत् प्राप्नोति तत् मा भूत् इति । किम् च अन्यत् प्राप्नोति । पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् इति उक्तम् सः पूर्वविप्रतिषेधः न वक्तव्यः भवति ।

KA I,474.19-21 Ro II,849 kimarthaḥ cakāraḥ . evakārārthaḥ cakāraḥ . yeṣām virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt . anyat yat prāpnoti tat mā bhūt iti . kim ca anyat prāpnoti . paśuśakunidvandve virodhinām pūrvavipratiṣiddham iti uktam saḥ pūrvavipratiṣedhaḥ na vaktavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७५।२-१० रो इइ,८४९-८५० अनिरवसितानाम् इति उच्यते । कुतः अनिरवसितानाम् । आर्यावर्तात् अनिरवसितानाम् । कः पुनः आर्यावर्तः । प्राग् आदर्शात् प्रत्यक् कालकवनात् दक्षिणेन हिमवन्तम् उत्तरेण पारियात्रम् । यदि एवम् किष्किन्धगन्दिकम् शकयवनम् शौर्यक्रौञ्चम् इति न सिध्यति । एवम् तर्हि आर्यनिवासात् अनिरवसितानाम् । कः पुनः आर्यनिवासः । ग्रामः घोषः नगरम् संवाहः इति । एवम् अपि ये एते महान्तः संस्त्यायाः तेषु अभ्यन्तराः चण्डालाः मृतपाः च वसन्ति तत्र चण्डालमृतपाः इति न सिध्यति । एवम् तर्हि याज्ञात् कर्मणः अनिरवसितानाम् । एवम् अपि तक्षायस्कारम् रजकतन्तुवायम् इति न सिध्यति । एवम् तर्हि पात्रात् अनिरवसितानाम् । यैः भुक्ते पात्रम् संस्कारेण शुध्यति ते अनिरवसिताः । यैः भुक्ते संस्कारेण अपि न शुध्यति ते निरवसिताः ।

KA I,475.2-10 Ro II,849-850 aniravasitānām iti ucyate . kutaḥ aniravasitānām . āryāvartāt aniravasitānām . kaḥ punaḥ āryāvartaḥ . prāg ādarśāt pratyak kālakavanāt dakṣiṇena himavantam uttareṇa pāriyātram . yadi evam kiṣkindhagandikam śakayavanam śauryakrauñcam iti na sidhyati . evam tarhi āryanivāsāt aniravasitānām . kaḥ punaḥ āryanivāsaḥ . grāmaḥ ghoṣaḥ nagaram saṃvāhaḥ iti . evam api ye ete mahāntaḥ saṃstyāyāḥ teṣu abhyantarāḥ caṇḍālāḥ mṛtapāḥ ca vasanti tatra caṇḍālamṛtapāḥ iti na sidhyati . evam tarhi yājñāt karmaṇaḥ aniravasitānām . evam api takṣāyaskāram rajakatantuvāyam iti na sidhyati . evam tarhi pātrāt aniravasitānām . yaiḥ bhukte pātram saṃskāreṇa śudhyati te aniravasitāḥ . yaiḥ bhukte saṃskāreṇa api na śudhyati te niravasitāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७५।१२-१४ रो इइ,८५१ गवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् । अवाश्वप्रभृतिषु यथोच्चारितम् द्वन्द्ववृत्तम् द्रष्टव्यम् । गवाश्वम् गवाविकम् गवैडकम् ।

KA I,475.12-14 Ro II,851 gavāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam . avāśvaprabhṛtiṣu yathoccāritam dvandvavṛttam draṣṭavyam . gavāśvam gavāvikam gavaiḍakam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७५।१७-४७७।५ रो इइ,८५१-८५५ बहुप्रकृतिः फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् । फलसेनावनस्पतिमृगशकुन्त्क्षुद्रजन्तुधान्यतृणानाम् द्वन्द्वः विभाषा एकवत् भवति बहुप्रकृतिः इति वक्तव्यम् । फल। बदरामल्कम् बदरामलकनि । सेना । हस्त्यश्वम् हस्त्यश्वाः । वनस्पति । प्लक्षन्यग्रोधम् प्लक्षन्यरोधाः । मृग । रुरुपृषतम् रुरुपृषताः । शकुन्त । हंसचक्रवाकम् हंसचक्रवाकाः । क्षुद्रजन्तु । यूकालिक्षम् यूकालिक्षाः । धान्य । व्रीहियवम् व्रीहियवाः माषतिलम् माषतिलाः । तृण । कुशकासम् कुशकाशाः शरशीर्यम् शरशीर्याः । किम् प्रयोजनम् । बहुप्रकृतिः एव यथा स्यात् । क्व मा भूत् । बदरामलके तिष्ठतः । किम् पुनः अनेन या प्राप्तिः सा नियम्यते आहोस्वित् अविशेषेण । किम् च अतः । यदि अनेन या प्राप्तिः सा नियम्यते प्लक्षन्यग्रोधौ जातिः अप्राणिनाम् इति नित्यः द्वन्द्वैकवद्भावः प्राप्नोति । अथ अविशेषेण न दोषः भवति । यथा न दोषः तथाउ अस्तु । पशुशकुनिद्वन्द्वे विरोधिनाम् पूर्वविप्रतिषिद्धम् । पशुशकुनिद्वन्द्वे येषाम् च विरोधः शाश्वतिकः इति एतत् भवति पूर्वविप्रतिषेधेन । पशुशकुनिद्वन्द्वस्य अवकाशः महाजोरभ्रम् महाजोरभ्राः हंसचक्रवाकम् हंसचक्रवाकाः । येषाम् च विरोधः इति अस्य अवकाशः श्रमणब्राह्मणम् । इह उभयम् प्राप्नोति । काकोलूकम् श्वशृगालम् इति । येषाम् च विरोधः इति एतत् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । उक्तम् तत्र चकारकरणस्य प्रयोजनम् येषाम् च विरोधः शाश्वतिकः तेषाम् द्वन्द्वे एकवचनम् यथा स्यात् । अन्यत् यत् प्राप्नोति तत् मा भूत् इति । अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् । अश्ववडवयोः पूर्वलिङ्गत्वात् पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन । अश्ववडवयोः पूर्वलिङ्गत्वस्य अवकाशः । विभाषा पशुद्वन्द्वनपुंसकम् । यदा न पशुद्वन्द्वनपुंसकम् सः अवकाशः । अश्ववडवौ । पशुद्वन्द्वनपुंसकस्य अवकाशः अन्ये पशुद्वन्द्वाः । महाजोरभ्रम् महाजोरभ्राः । पशुद्वन्द्वनपुंसकप्रसङ्गे उभयम् प्राप्नोति । अश्ववडवम् । पशुद्वन्द्वनपुंसकम् भवति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । प्रतिपदविधानात् सिद्धम् । प्रतिपदम् अत्र नपुंसकम् विधीयते । अश्ववडवपूर्वापर इति । एकवचनम् अनर्थकम् समाहारैकत्वात् । एकवद्भावः अनर्थकः । किम् कारणम् । समाहारैकत्वात् । एकः अयम् अर्थः समाहारः नाम । तस्य एकत्वात् एकवचनम् भविष्यति । इदम् तर्हि प्रयोजनम् । एतत् ज्ञास्यामि । इह नित्यः विधिः इह विभाषा इति । न एतत् अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति सर्वः द्वन्द्वः विभाषा एकवत् भवति इति यत् अयम् तिष्यपुनर्वस्वोः नक्षत्रद्वन्द्वे बहुवचनस्य द्विवचनम् नित्यम् इति आह । इदम् तर्हि प्रयोजनम् । सः नपुंसकम् इति वक्ष्यामि इति । एतत् अपि न अस्ति प्रयोजनम् । लिङ्गम् अशिष्यम् लोकाश्रयत्वात् लिङ्गस्य । न तर्हि इदानीम् इदम् वक्तव्यम् । वक्तव्यम् च । किम् प्रयोजनम् । पूर्वत्र नित्यार्थम् उत्तरत्र व्यभिचारार्थम् विभाषा वृक्षमृग इति ।

KA I,475.17-477.5 Ro II,851-855 bahuprakṛtiḥ phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām . phalasenāvanaspatimṛgaśakuntkṣudrajantudhānyatṛṇānām dvandvaḥ vibhāṣā ekavat bhavati bahuprakṛtiḥ iti vaktavyam . phala. badarāmalkam badarāmalakani . senā . hastyaśvam hastyaśvāḥ . vanaspati . plakṣanyagrodham plakṣanyarodhāḥ . mṛga . rurupṛṣatam rurupṛṣatāḥ . śakunta . haṃsacakravākam haṃsacakravākāḥ . kṣudrajantu . yūkālikṣam yūkālikṣāḥ . dhānya . vrīhiyavam vrīhiyavāḥ māṣatilam māṣatilāḥ . tṛṇa . kuśakāsam kuśakāśāḥ śaraśīryam śaraśīryāḥ . kim prayojanam . bahuprakṛtiḥ eva yathā syāt . kva mā bhūt . badarāmalake tiṣṭhataḥ . kim punaḥ anena yā prāptiḥ sā niyamyate āhosvit aviśeṣeṇa . kim ca ataḥ . yadi anena yā prāptiḥ sā niyamyate plakṣanyagrodhau jātiḥ aprāṇinām iti nityaḥ dvandvaikavadbhāvaḥ prāpnoti . atha aviśeṣeṇa na doṣaḥ bhavati . yathā na doṣaḥ tathāu astu . paśuśakunidvandve virodhinām pūrvavipratiṣiddham . paśuśakunidvandve yeṣām ca virodhaḥ śāśvatikaḥ iti etat bhavati pūrvavipratiṣedhena . paśuśakunidvandvasya avakāśaḥ mahājorabhram mahājorabhrāḥ haṃsacakravākam haṃsacakravākāḥ . yeṣām ca virodhaḥ iti asya avakāśaḥ śramaṇabrāhmaṇam . iha ubhayam prāpnoti . kākolūkam śvaśṛgālam iti . yeṣām ca virodhaḥ iti etat bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uktam tatra cakārakaraṇasya prayojanam yeṣām ca virodhaḥ śāśvatikaḥ teṣām dvandve ekavacanam yathā syāt . anyat yat prāpnoti tat mā bhūt iti . aśvavaḍavayoḥ pūrvaliṅgatvāt paśudvandvanapuṃsakam . aśvavaḍavayoḥ pūrvaliṅgatvāt paśudvandvanapuṃsakam bhavati pūrvavipratiṣedhena . aśvavaḍavayoḥ pūrvaliṅgatvasya avakāśaḥ . vibhāṣā paśudvandvanapuṃsakam . yadā na paśudvandvanapuṃsakam saḥ avakāśaḥ . aśvavaḍavau . paśudvandvanapuṃsakasya avakāśaḥ anye paśudvandvāḥ . mahājorabhram mahājorabhrāḥ . paśudvandvanapuṃsakaprasaṅge ubhayam prāpnoti . aśvavaḍavam . paśudvandvanapuṃsakam bhavati pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . pratipadavidhānāt siddham . pratipadam atra napuṃsakam vidhīyate . aśvavaḍavapūrvāpara iti . ekavacanam anarthakam samāhāraikatvāt . ekavadbhāvaḥ anarthakaḥ . kim kāraṇam . samāhāraikatvāt . ekaḥ ayam arthaḥ samāhāraḥ nāma . tasya ekatvāt ekavacanam bhaviṣyati . idam tarhi prayojanam . etat jñāsyāmi . iha nityaḥ vidhiḥ iha vibhāṣā iti . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati sarvaḥ dvandvaḥ vibhāṣā ekavat bhavati iti yat ayam tiṣyapunarvasvoḥ nakṣatradvandve bahuvacanasya dvivacanam nityam iti āha . idam tarhi prayojanam . saḥ napuṃsakam iti vakṣyāmi iti . etat api na asti prayojanam . liṅgam aśiṣyam lokāśrayatvāt liṅgasya . na tarhi idānīm idam vaktavyam . vaktavyam ca . kim prayojanam . pūrvatra nityārtham uttaratra vyabhicārārtham vibhāṣā vṛkṣamṛga iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७७।७-११ रो इइ,८५५-८५६ किम् उदाहरणम् । उपदशम् पाणिपादम् उपदशाः पाणिपादाः । न एतत् अस्ति प्रयोजनम् । अयम् द्वन्द्वैकवद्भावः आरभ्यते । तत्र कः प्रसङ्गः यत् अनुप्रयोगस्य स्यात् । एवम् तर्हि अव्ययस्य सङ्खया अव्ययीभावः अपि आरभ्यते बहुव्रीहिः अपि । तत् यदा तावत् एकवचनम् तदा अव्ययीभावः अनुप्रयुज्यते एकार्थस्य एकार्थः इति । यदा बहुवचनम् तदा बहुव्रीहिः अनुप्रयुज्यते बह्वर्थस्य बह्वर्थः इति ।

KA I,477.7-11 Ro II,855-856 kim udāharaṇam . upadaśam pāṇipādam upadaśāḥ pāṇipādāḥ . na etat asti prayojanam . ayam dvandvaikavadbhāvaḥ ārabhyate . tatra kaḥ prasaṅgaḥ yat anuprayogasya syāt . evam tarhi avyayasya saṅkhayā avyayībhāvaḥ api ārabhyate bahuvrīhiḥ api . tat yadā tāvat ekavacanam tadā avyayībhāvaḥ anuprayujyate ekārthasya ekārthaḥ iti . yadā bahuvacanam tadā bahuvrīhiḥ anuprayujyate bahvarthasya bahvarthaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७७।१३-४७८।३ रो इइ,८५६-८५७ किमर्थम् इदम् उच्यते । सञ्ज्ञायाम् कन्थोशीनरेषु इति वक्ष्यति । तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति । न एतत् अस्ति प्रयोजनम् । न हि सञ्ज्ञायाम् कन्थान्तः उशीनरेषु अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति । उत्तरार्थम् तर्हि । उपज्ञोपक्रमम् तदाद्याचिख्यासायाम् इति वक्ष्यति । तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । न हि तदाद्याचिख्यासायाम् उपज्ञोपक्रमान्तः अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति । उत्तरार्थम् एव तर्हि । छाया बाहुल्ये इति वक्ष्यति । तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । न हि छायान्तः बाहुल्ये अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति । उत्तरार्थम् एव तर्हि । सभा राजामनुष्यपूर्वा अशाला च इति वक्ष्यति । तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । न हि सभान्तः अशालायाम् अतत्पुरुषः नञ्समासः कर्मधारयः वा अस्ति । इदम् तर्हि । विभाषा सेनासुरा इति वक्ष्यति । तत् अतत्पुरुषस्य नञ्समासस्य कर्मधारयस्य वा मा भूत् इति । दृढसेनः राजा । अनञ् इति किमर्थम् । असेना । अकर्मधारयः इति किमर्थम् । परम्सेना उत्तमसेना ।

KA I,477.13-478.3 Ro II,856-857 kimartham idam ucyate . sañjñāyām kanthośīnareṣu iti vakṣyati . tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . na etat asti prayojanam . na hi sañjñāyām kanthāntaḥ uśīnareṣu atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . uttarārtham tarhi . upajñopakramam tadādyācikhyāsāyām iti vakṣyati . tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . etat api na asti prayojanam . na hi tadādyācikhyāsāyām upajñopakramāntaḥ atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . uttarārtham eva tarhi . chāyā bāhulye iti vakṣyati . tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . etat api na asti prayojanam . na hi chāyāntaḥ bāhulye atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . uttarārtham eva tarhi . sabhā rājāmanuṣyapūrvā aśālā ca iti vakṣyati . tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . etat api na asti prayojanam . na hi sabhāntaḥ aśālāyām atatpuruṣaḥ nañsamāsaḥ karmadhārayaḥ vā asti . idam tarhi . vibhāṣā senāsurā iti vakṣyati . tat atatpuruṣasya nañsamāsasya karmadhārayasya vā mā bhūt iti . dṛḍhasenaḥ rājā . anañ iti kimartham . asenā . akarmadhārayaḥ iti kimartham . paramsenā uttamasenā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७८।५-४७९ रो इइ,८५७-८६२ किमर्थम् इदम् उच्यते । द्वन्द्वः अयम् उभयपदार्थप्रधानः । तत्र कदा चित् पूर्वपदस्य यत् लिङ्गम् तत् समासस्य अपि स्यात् कदा चित् उत्तरपदस्य । इष्यते च परस्य यत् लिङ्गम् तत् समासस्य स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति । एवमर्थम् इदम् उच्यते । तत्पुरुषः च कः प्रयोजयति । यः पूर्वपदार्थप्रधानः एकदेशिसमासः अर्धपिप्पली इति । यः हि उत्तरपदार्थप्रधानः दैवकृतम् तस्य परवत् लिङ्गम् । परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः । परवत् लिङ्गम् द्वन्द्वतत्पुरुषयोः इति चेत् प्राप्तापन्नालम्पूर्वगतिसमासेषु प्रतिषेधः वक्तव्यः । प्राप्तः जीविकाम् प्रप्तजीविकः आपन्नः जीविकाम् अपन्नजीविकः । अलम्पूर्वः । अलम् जीविकायाः अलम्जीविकः । गतिसमास । निष्कौशाम्बिः निर्वाराणसिः । पूर्वपदस्य च । पूर्वपदस्य च प्रतिषेधः वक्तव्यः । मयूरीकुक्कुटौ । यदि पुनः यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासात् अन्यत् अतिदिश्येत । समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् । समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टापः लुक् वक्तव्यः । अश्ववडवौ । निपातनात् सिद्धम् । निपातनात् सिद्धम् एतत् । किम् निपातनम् । आश्ववडवपूर्वापर इति । उपसर्जनह्रस्वत्वम् वा । अथ वा उपसर्जनस्य इति ह्रस्वत्वम् भविष्यति । इह अपि तर्हि प्राप्नोति । कुक्कुटमयूर्यौ । अस्तु । परवत् लिङ्गम् इति शब्दशब्दार्थौ । परवत् लिङ्गम् इति शब्दशब्दार्थौ अतिदिश्येते । तत्र औपदेशिकस्य ह्रस्वत्वम् आतिदेशिकस्य श्रवणम् भविष्यति । इदम् तर्हि । दत्ता च कारीषगन्ध्या च दत्ताकारीषगन्ध्ये दत्ता च गार्ग्यायणी दत्तागार्ग्यायण्यौ । द्वौ ष्यङौ द्वौ ष्फौ च प्राप्नुतः । स्ताम् ।पूम्वद्भावेन एकस्य निवृत्तिः भविष्यति । इदम् तर्हि । दत्ता च युवतिः च दत्तायुवती । द्वौ तिशब्दौ प्राप्नुतः । तस्मात् न एतत् शक्यम् वक्तुम् शब्दशब्दार्थौ अतिदिश्येते इति । ननु च उक्तम् समासात् अन्यत् लिङ्गम् इति चेत् अश्ववडवयोः टाब्लुग्वचनम् इति । परिहृतम् एतत् : निपातनात् सिद्धम् इति । अथ वा न एवम् विज्ञायते परस्य एव परवत् इति । कथम् तर्हि । परस्य इव परवत् इति । यथाजातीयकम् परस्य लिङ्गम् तथाजातीयकम् समासस्य अतिदिश्यते । अथ पूर्वपदस्य न प्रतिषिध्यते प्राप्तादिषु कथम् । प्राप्तादिषु च एकदेशिग्रहणात् सिद्धम् । द्वन्द्वैकदेशिनोः इति वक्ष्यामि । तत् एकदेशिग्रहणम् कर्तव्यम् । न कर्तव्यम् । एकदेशिसमासः न आरप्स्यते । कथम् अर्धपिप्पली इति । समानाधिकरणसमासः भविष्यति । अर्धम् च सा पिप्पली च अर्धपिप्पली इति । न सिध्यति । परत्वात् षष्ठीसमासः प्राप्नोति । अद्य पुनः अयम् एकदेशिसमासः आरभ्यमाणः षष्ठीसमासम् बाधते । इष्यते च षष्ठीसमासः अपि । तत् यथा । अपूपार्धम् मया भक्षितम् । ग्रामार्धम् मया लब्धम् इति । एवम् पिप्पल्यर्धम् इति भवितव्यम् । कथम् अर्धपिप्पली इति । समानाधिकरणः भविष्यति ।

KA I,478.5-479 Ro II,857-862 kimartham idam ucyate . dvandvaḥ ayam ubhayapadārthapradhānaḥ . tatra kadā cit pūrvapadasya yat liṅgam tat samāsasya api syāt kadā cit uttarapadasya . iṣyate ca parasya yat liṅgam tat samāsasya syāt iti . tat ca antareṇa yatnam na sidhyati iti paravat liṅgam dvandvatatpuruṣayoḥ iti . evamartham idam ucyate . tatpuruṣaḥ ca kaḥ prayojayati . yaḥ pūrvapadārthapradhānaḥ ekadeśisamāsaḥ ardhapippalī iti . yaḥ hi uttarapadārthapradhānaḥ daivakṛtam tasya paravat liṅgam . paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ . paravat liṅgam dvandvatatpuruṣayoḥ iti cet prāptāpannālampūrvagatisamāseṣu pratiṣedhaḥ vaktavyaḥ . prāptaḥ jīvikām praptajīvikaḥ āpannaḥ jīvikām apannajīvikaḥ . alampūrvaḥ . alam jīvikāyāḥ alamjīvikaḥ . gatisamāsa . niṣkauśāmbiḥ nirvārāṇasiḥ . pūrvapadasya ca . pūrvapadasya ca pratiṣedhaḥ vaktavyaḥ . mayūrīkukkuṭau . yadi punaḥ yathājātīyakam parasya liṅgam tathājātīyakam samāsāt anyat atidiśyeta . samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam . samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāpaḥ luk vaktavyaḥ . aśvavaḍavau . nipātanāt siddham . nipātanāt siddham etat . kim nipātanam . āśvavaḍavapūrvāpara iti . upasarjanahrasvatvam vā . atha vā upasarjanasya iti hrasvatvam bhaviṣyati . iha api tarhi prāpnoti . kukkuṭamayūryau . astu . paravat liṅgam iti śabdaśabdārthau . paravat liṅgam iti śabdaśabdārthau atidiśyete . tatra aupadeśikasya hrasvatvam ātideśikasya śravaṇam bhaviṣyati . idam tarhi . dattā ca kārīṣagandhyā ca dattākārīṣagandhye dattā ca gārgyāyaṇī dattāgārgyāyaṇyau . dvau ṣyaṅau dvau ṣphau ca prāpnutaḥ . stām .pūmvadbhāvena ekasya nivṛttiḥ bhaviṣyati . idam tarhi . dattā ca yuvatiḥ ca dattāyuvatī . dvau tiśabdau prāpnutaḥ . tasmāt na etat śakyam vaktum śabdaśabdārthau atidiśyete iti . nanu ca uktam samāsāt anyat liṅgam iti cet aśvavaḍavayoḥ ṭāblugvacanam iti . parihṛtam etat : nipātanāt siddham iti . atha vā na evam vijñāyate parasya eva paravat iti . katham tarhi . parasya iva paravat iti . yathājātīyakam parasya liṅgam tathājātīyakam samāsasya atidiśyate . atha pūrvapadasya na pratiṣidhyate prāptādiṣu katham . prāptādiṣu ca ekadeśigrahaṇāt siddham . dvandvaikadeśinoḥ iti vakṣyāmi . tat ekadeśigrahaṇam kartavyam . na kartavyam . ekadeśisamāsaḥ na ārapsyate . katham ardhapippalī iti . samānādhikaraṇasamāsaḥ bhaviṣyati . ardham ca sā pippalī ca ardhapippalī iti . na sidhyati . paratvāt ṣaṣṭhīsamāsaḥ prāpnoti . adya punaḥ ayam ekadeśisamāsaḥ ārabhyamāṇaḥ ṣaṣṭhīsamāsam bādhate . iṣyate ca ṣaṣṭhīsamāsaḥ api . tat yathā . apūpārdham mayā bhakṣitam . grāmārdham mayā labdham iti . evam pippalyardham iti bhavitavyam . katham ardhapippalī iti . samānādhikaraṇaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७९।१९-२१ रो इइ,८६२ अनुवाकादयः पुंसि । अनुवाकादयः पुंसि भाष्यन्ते इति वक्तव्यम् । अनुवाकः शम्युवाकः सूक्तवाकः ।

KA I,479.19-21 Ro II,862 anuvākādayaḥ puṃsi . anuvākādayaḥ puṃsi bhāṣyante iti vaktavyam . anuvākaḥ śamyuvākaḥ sūktavākaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४७९।२२-४८०।१२ रो इइ,८६६३-८६४ पुण्यसुदिनाभ्याम् अह्नः नपुंसकत्वम् वक्तव्यम् । पुण्याहम् सुदिनाहम् । पथः सङ्ख्याव्ययादेः । पथः सङ्ख्याव्ययादेः इति वक्तव्यम् । द्विपथम् त्रिपथम् चतुष्पथम् उत्पथम् विपथम् । द्विगुः च । द्विगुः च समासः नपुंसकलिङ्गः भवति इति वक्तव्यम् । पञ्चगवम् दशगवम् । अकारान्तोत्तरपदः द्विगुः स्त्रियाम् भाष्यते इति वक्तव्यम् । पञ्चपूली दशपूली । वा आबन्तः । वा आबन्तः स्त्रियाम् भाष्यते इति वक्तव्यम् । पञ्चखट्वम् पञ्चखट्वी दशखट्वम् दशखट्वी । अनः नलोपः च वा च स्त्रियाम् भाष्यते इति वक्तव्यम् । पञ्चतक्षम् पञ्चतक्षी दशतक्षम् दशतक्षी । पात्रादिभ्यः प्रतिषेधः वक्तव्यः । द्विपात्रम् पञ्चपात्रम् ।

KA I,479.22-480.12 Ro II,8663-864 puṇyasudinābhyām ahnaḥ napuṃsakatvam vaktavyam . puṇyāham sudināham . pathaḥ saṅkhyāvyayādeḥ . pathaḥ saṅkhyāvyayādeḥ iti vaktavyam . dvipatham tripatham catuṣpatham utpatham vipatham . dviguḥ ca . dviguḥ ca samāsaḥ napuṃsakaliṅgaḥ bhavati iti vaktavyam . pañcagavam daśagavam . akārāntottarapadaḥ dviguḥ striyām bhāṣyate iti vaktavyam . pañcapūlī daśapūlī . vā ābantaḥ . vā ābantaḥ striyām bhāṣyate iti vaktavyam . pañcakhaṭvam pañcakhaṭvī daśakhaṭvam daśakhaṭvī . anaḥ nalopaḥ ca vā ca striyām bhāṣyate iti vaktavyam . pañcatakṣam pañcatakṣī daśatakṣam daśatakṣī . pātrādibhyaḥ pratiṣedhaḥ vaktavyaḥ . dvipātram pañcapātram .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८०।१४-१६ रो इइ,८६४ अर्धर्चादयः इति वक्तव्यम् । अर्धर्चम् अर्धर्चः कार्षापणम् कार्षापणः गोमयम् गोमयः सारम् सारः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । बहुवचननिर्देशात् आद्यर्थः गम्यते ।

KA I,480.14-16 Ro II,864 ardharcādayaḥ iti vaktavyam . ardharcam ardharcaḥ kārṣāpaṇam kārṣāpaṇaḥ gomayam gomayaḥ sāram sāraḥ . tat tarhi vaktavyam . na vaktavyam . bahuvacananirdeśāt ādyarthaḥ gamyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८०।१८-४८१।४ रो इइ,८६५ अन्वादेशे समानाधिकरणग्रहणम् । अन्वादेशे समानाधिकरणग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । देवदत्तम् भोजय इमम् च इति अप्रसङ्गार्थम् । इह मा भूत् । देवदत्तम् भोजय इमम् च यज्ञ दत्तम् भोजय इति । अन्वादेशः च कथितानुकथनमात्रम् । अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् । तत् द्वेष्यम् विजानीयात् : इदमा कथितम् इदमा यदा अनुकथ्यते इति । तत् आचार्यः सुहृत् भूत्वा आचष्टे : अन्वादेशः च कथितानुकथनमात्रम् द्रष्टव्यम् इति ।

KA I,480.18-481.4 Ro II,865 anvādeśe samānādhikaraṇagrahaṇam . anvādeśe samānādhikaraṇagrahaṇam kartavyam . kim prayojanam . devadattam bhojaya imam ca iti aprasaṅgārtham . iha mā bhūt . devadattam bhojaya imam ca yajña dattam bhojaya iti . anvādeśaḥ ca kathitānukathanamātram . anvādeśaḥ ca kathitānukathanamātram draṣṭavyam . tat dveṣyam vijānīyāt : idamā kathitam idamā yadā anukathyate iti . tat ācāryaḥ suhṛt bhūtvā ācaṣṭe : anvādeśaḥ ca kathitānukathanamātram draṣṭavyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८१।५-२६ रो इइ,८६६-८६७ अथ किमर्थम् अशादेशः क्रियते न तृतीयादिषु इति एव उच्येत । तत्र टायाम् ओसि च एनेन भवितव्यम् । अन्याः सर्वाः हलादयः विभक्तयः । तत्र इद्रूपलोपे कृते केवलम् इदमः अनुदात्तत्वम् वक्तव्यम् । अतः उत्तरम् पठति । आदेशवचनम् साकच्कार्थम् । आदेशवचनम् साकच्कार्थम् क्रियते । साकच्कस्य अपि आदेशः यथा स्यात् । इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो आभ्याम् अपि अधीतम् । अथ किमर्थम् शित्करणम् । शित्करणम् सर्वादेशार्थम् । शित्करणम् क्रियते सर्वादेशार्थम् । शित् सर्वस्य इति सर्वादेशः यथा स्यात् : इमकाभ्याम् छात्राभ्याम् रात्रिः अधीता अथो* आभ्याम् अपि अधीतम् इति । अक्रियमाणे हि शित्करणे अलः अन्त्यस्य विधयः भवन्ति इति अन्त्यस्य प्रसज्येत । न वा अन्त्यस्य विकारवचनानर्थक्यात् । न वा कर्तव्यम् । किम् कारणम् । अन्त्यस्य विकारवचनानर्थक्यात् । अकारस्य अकारवचने प्रयोजनम् न अस्ति इति कृत्वा अन्तरेण अपि शकारम् सर्वादेशः भविष्यति । अर्थवत् तु आदेशप्रतिषेधाऋथम् । अर्थवत् तु अस्य अकारवचनम् । कः अर्थः । आदेशप्रतिषेधाऋथम् । ये अन्ये अकारस्य आदेशाः प्राप्नुवन्ति तद्बाधनार्थम् । तत् यथा । मः राजि समः क्वौ इति : मकारस्य मकारवचने प्रयोजनम् न अस्ति इति कृत्वा अनुस्वारादयः बाध्यन्ते । तस्मात् शित्करणम् । तस्मात् शकारः कर्तव्यः । न कर्तव्यः । प्रश्लिष्टनिर्देशः अयम् । अ* अ इति । अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । अथ वा विचित्राः तद्धितवृत्तयः । न अन्वादेशे अकच् उत्पत्स्यते ।

KA I,481.5-26 Ro II,866-867 atha kimartham aśādeśaḥ kriyate na tṛtīyādiṣu iti eva ucyeta . tatra ṭāyām osi ca enena bhavitavyam . anyāḥ sarvāḥ halādayaḥ vibhaktayaḥ . tatra idrūpalope kṛte kevalam idamaḥ anudāttatvam vaktavyam . ataḥ uttaram paṭhati . ādeśavacanam sākackārtham . ādeśavacanam sākackārtham kriyate . sākackasya api ādeśaḥ yathā syāt . imakābhyām chātrābhyām rātriḥ adhītā atho ābhyām api adhītam . atha kimartham śitkaraṇam . śitkaraṇam sarvādeśārtham . śitkaraṇam kriyate sarvādeśārtham . śit sarvasya iti sarvādeśaḥ yathā syāt : imakābhyām chātrābhyām rātriḥ adhītā atho* ābhyām api adhītam iti . akriyamāṇe hi śitkaraṇe alaḥ antyasya vidhayaḥ bhavanti iti antyasya prasajyeta . na vā antyasya vikāravacanānarthakyāt . na vā kartavyam . kim kāraṇam . antyasya vikāravacanānarthakyāt . akārasya akāravacane prayojanam na asti iti kṛtvā antareṇa api śakāram sarvādeśaḥ bhaviṣyati . arthavat tu ādeśapratiṣedhāṛtham . arthavat tu asya akāravacanam . kaḥ arthaḥ . ādeśapratiṣedhāṛtham . ye anye akārasya ādeśāḥ prāpnuvanti tadbādhanārtham . tat yathā . maḥ rāji samaḥ kvau iti : makārasya makāravacane prayojanam na asti iti kṛtvā anusvārādayaḥ bādhyante . tasmāt śitkaraṇam . tasmāt śakāraḥ kartavyaḥ . na kartavyaḥ . praśliṣṭanirdeśaḥ ayam . a* a iti . anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . atha vā vicitrāḥ taddhitavṛttayaḥ . na anvādeśe akac utpatsyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८२।२-८ रो इइ,८६७-८६८ किमर्थम् त्रतसोः अनुदात्तत्वम् उच्यते । उदात्तौ मा भूताम् इति । न एतत् अस्ति प्रयोजनम् । लित्स्वरे कृते निघाते एतदः अनुदात्तत्वेन सिद्धम् । इदम् इह सम्प्रधार्यम् । अनुदात्तत्वम् क्रियताम् लित्स्वरः इति । किम् अत्र कर्तव्यम् । परत्वात् लित्स्वरः । नित्यत्वात् अनुदात्तत्वम् । कृते अपि लित्स्वरे प्राप्त्नोति अकृते अपि । तत्र नित्यत्वात् अनुदात्तत्वे कृते लिति पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः प्रसज्येत । तत् यथा गोष्पदप्रम् वृष्टः देवः इति ऊलोपे कृते पूर्वः उदात्तभावी न अस्ति इति कृत्वा यथाप्राप्तः प्रत्ययस्वरः भवति । तस्मात् त्रतसोः अनुदात्तत्वम् वक्तव्यम् ।

KA I,482.2-8 Ro II,867-868 kimartham tratasoḥ anudāttatvam ucyate . udāttau mā bhūtām iti . na etat asti prayojanam . litsvare kṛte nighāte etadaḥ anudāttatvena siddham . idam iha sampradhāryam . anudāttatvam kriyatām litsvaraḥ iti . kim atra kartavyam . paratvāt litsvaraḥ . nityatvāt anudāttatvam . kṛte api litsvare prāptnoti akṛte api . tatra nityatvāt anudāttatve kṛte liti pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ prasajyeta . tat yathā goṣpadapram vṛṣṭaḥ devaḥ iti ūlope kṛte pūrvaḥ udāttabhāvī na asti iti kṛtvā yathāprāptaḥ pratyayasvaraḥ bhavati . tasmāt tratasoḥ anudāttatvam vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८२।१०-२४ रो इइ,८६८-८६९ कस्य अयम् एनः विधीयते । एतदः प्राप्नोति । इदमः अपि तु इष्यते । तत् इदमः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति । यदि तत् अनुवर्तते एतदः त्रतसोः त्रतसौ च अनुदात्तौ इति इदमः च इति इदमः अपि प्राप्नोति । न एषः दोषः । सम्बन्धम् अनुवर्तिष्यते । इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ । एतदः त्रतसोः त्रतसौ च अनुदात्तौ इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ अश् भवति । ततः द्वितीयाटौस्सु एनः इदमः एतदः च । तृतीयादौ इति निवृत्तम् । अथ वा मण्डूकगतयः अधिकाराः । तत् यथा मण्डूकाः उत्प्लुत्य उत्प्लुत्य गच्छन्ति तद्वत् अधिकाराः । अथ वा एकयोगः करिष्यते । इदमः अन्वादेशे अश् अनुदात्तः तृतीयादौ इति एतदः त्रतसोः त्रतसौ च अनुदात्तौ । ततः द्वितीयाटौस्सु एनः इदमः एतदः च । अथ वा उभयम् निवृत्तम् । तत् अपेक्षिष्यामहे । एनत् इति नपुंसकैकवचने । एनत् इति नपुंसकैकवचनेकर्तव्यम् । कुण्डम् आनय प्रक्षालय एनत् परिवर्तय एनत् । यदि एनत् क्रियते एनः न कर्तव्यः । का रूपसिद्धिः : अथो एनम् अथो एने अथो एनान् इति ट्यदाद्यत्वेन सिद्धम् । यदि एवम् एनश्रितकः न सिध्यति । एनच्छ्रितकः इति पाप्नोति । यथालक्षणम् अप्रयुक्ते ।

KA I,482.10-24 Ro II,868-869 kasya ayam enaḥ vidhīyate . etadaḥ prāpnoti . idamaḥ api tu iṣyate . tat idamaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti . yadi tat anuvartate etadaḥ tratasoḥ tratasau ca anudāttau iti idamaḥ ca iti idamaḥ api prāpnoti . na eṣaḥ doṣaḥ . sambandham anuvartiṣyate . idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau . etadaḥ tratasoḥ tratasau ca anudāttau idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau aś bhavati . tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca . tṛtīyādau iti nivṛttam . atha vā maṇḍūkagatayaḥ adhikārāḥ . tat yathā maṇḍūkāḥ utplutya utplutya gacchanti tadvat adhikārāḥ . atha vā ekayogaḥ kariṣyate . idamaḥ anvādeśe aś anudāttaḥ tṛtīyādau iti etadaḥ tratasoḥ tratasau ca anudāttau . tataḥ dvitīyāṭaussu enaḥ idamaḥ etadaḥ ca . atha vā ubhayam nivṛttam . tat apekṣiṣyāmahe . enat iti napuṃsakaikavacane . enat iti napuṃsakaikavacanekartavyam . kuṇḍam ānaya prakṣālaya enat parivartaya enat . yadi enat kriyate enaḥ na kartavyaḥ . kā rūpasiddhiḥ : atho enam atho ene atho enān iti ṭyadādyatvena siddham . yadi evam enaśritakaḥ na sidhyati . enacchritakaḥ iti pāpnoti . yathālakṣaṇam aprayukte .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४६३।२-४८४।२१ रो इइ,८७०-८७२ जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् । जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् आर्धधातुके जग्ध्यादिभिः भवितव्यम् । किम् अतः यत् सति भवितव्यम् । तत्र उत्सर्गलक्षणप्रतिषेधः । तत्र उत्सर्गलक्षणम् कार्यम् प्राप्नोति । तस्य प्रतिषेधः वक्तव्यः । भव्यम् प्रवेयम् आख्येयम् । ण्यति अवस्थिते अनिष्टे प्रत्यये आदेशः स्यात् । ण्यतः श्रवणम् प्रसज्येत । न एषः दोषः । सामान्याश्रयत्वात् विशेषस्य अनाश्रयः । सामान्येन हि आश्रीयमाणे विशेषः न आश्रितः भवति । तत्र आर्धधातुकसामान्ये जग्ध्यादिषु कृतेषु यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति । सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः । सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यत् प्राप्नोति । लव्यम् पव्यम् इति । आर्धधातुकसामान्ये गुणे कृति यि प्रत्ययसामान्य च वान्तादेशे हलन्तात् इति ण्यत् प्राप्नोति । इह च दित्स्यम् धित्स्यम् आर्धधातुकसामान्ये अकारलोपे कृते हलन्तात् इति ण्यत् प्राप्नोति । पौर्वापर्याभात् च सामान्येन अनुपपत्तिः । पौर्वापर्याभात् च सामान्येन जग्ध्यादीनाम् अनुपपत्तिः । न हि सामान्येन पौर्वापर्यम् अस्ति । सिद्धम् तु सार्वधातुके प्रतिषेधात् । सिद्धम् एतत् । कथम् । अविशेषेण जग्ध्यादीन् उक्त्वा सार्वधातुके न इति प्रतिषेधम् वक्ष्यामि । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् जग्ध्यादिषु आर्धधातुकाश्रयत्वात् सति तस्मिन् विधानम् इति । परिहृतम् एतत् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति । ननु च उक्तम् सामान्याश्रयत्वात् विशेषस्य अनाश्रयः इति चेत् उवर्णाकारान्तेभ्यः ण्यद्विधिप्रसङ्गः इति । न एषः दोषः । वक्ष्यति तत्र अज्ग्रहणस्य प्रयोजनम् अजन्तभूतपूर्वमात्रात् अपि यथा स्यात् इति । यत् अपि उच्यते पौर्वापर्याभात् च सामान्येन अनुपपत्तिः इति । अर्थसिद्धिः एव एषा यत् सामान्येन पौर्वापर्यम् न अस्ति । असति पौर्वापर्ये विषयसप्तमी विज्ञास्यते । आर्धधातुकविषये इति । अथ वा आर्धधातुकासु इति वक्ष्यामि । कासु आर्धधातुकासु । उक्तिषु युक्तिषु रूढिषु प्रतीतिषु श्रुतिषु सञ्ज्ञासु ।

KA I,463.2-484.21 Ro II,870-872 jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam . jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin ārdhadhātuke jagdhyādibhiḥ bhavitavyam . kim ataḥ yat sati bhavitavyam . tatra utsargalakṣaṇapratiṣedhaḥ . tatra utsargalakṣaṇam kāryam prāpnoti . tasya pratiṣedhaḥ vaktavyaḥ . bhavyam praveyam ākhyeyam . ṇyati avasthite aniṣṭe pratyaye ādeśaḥ syāt . ṇyataḥ śravaṇam prasajyeta . na eṣaḥ doṣaḥ . sāmānyāśrayatvāt viśeṣasya anāśrayaḥ . sāmānyena hi āśrīyamāṇe viśeṣaḥ na āśritaḥ bhavati . tatra ārdhadhātukasāmānye jagdhyādiṣu kṛteṣu yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati . sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ . sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyat prāpnoti . lavyam pavyam iti . ārdhadhātukasāmānye guṇe kṛti yi pratyayasāmānya ca vāntādeśe halantāt iti ṇyat prāpnoti . iha ca ditsyam dhitsyam ārdhadhātukasāmānye akāralope kṛte halantāt iti ṇyat prāpnoti . paurvāparyābhāt ca sāmānyena anupapattiḥ . paurvāparyābhāt ca sāmānyena jagdhyādīnām anupapattiḥ . na hi sāmānyena paurvāparyam asti . siddham tu sārvadhātuke pratiṣedhāt . siddham etat . katham . aviśeṣeṇa jagdhyādīn uktvā sārvadhātuke na iti pratiṣedham vakṣyāmi . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam jagdhyādiṣu ārdhadhātukāśrayatvāt sati tasmin vidhānam iti . parihṛtam etat sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti . nanu ca uktam sāmānyāśrayatvāt viśeṣasya anāśrayaḥ iti cet uvarṇākārāntebhyaḥ ṇyadvidhiprasaṅgaḥ iti . na eṣaḥ doṣaḥ . vakṣyati tatra ajgrahaṇasya prayojanam ajantabhūtapūrvamātrāt api yathā syāt iti . yat api ucyate paurvāparyābhāt ca sāmānyena anupapattiḥ iti . arthasiddhiḥ eva eṣā yat sāmānyena paurvāparyam na asti . asati paurvāparye viṣayasaptamī vijñāsyate . ārdhadhātukaviṣaye iti . atha vā ārdhadhātukāsu iti vakṣyāmi . kāsu ārdhadhātukāsu . uktiṣu yuktiṣu rūḍhiṣu pratītiṣu śrutiṣu sañjñāsu .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८४।११-२१ रो इइ,८७३ ल्यब्ग्रहणम् किमर्थम् न ति किति इति एव सिद्धम् । ल्यपि कृते न प्राप्नोति । इदम् इह सम्प्रधार्यम् । ल्यप् क्रियताम् आदेशः इति । किम् अत्र कर्तव्यम् । परत्वात् ल्यप् । अन्तरङ्गः आदेशः । एवम् तर्हि सिद्धे सति यत् ल्यब्ग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्तरङ्गान् अपि विधीन् बहिरङ्गः ल्यप् बाधते इति । किम् एतस्य ज्ञापने प्रयोजनम् । ल्यबदेशे उपदेशिवद्वचनम् अनादिष्टार्थम् बहिरङ्गलक्षणत्वात् इति वक्ष्यति । तत् न वक्तव्यम् भवति । जग्धिः विधिः ल्यपि यत् तत् अकस्मात् सिद्धम् अस्ति किति इति विधानात् । हिप्रभृतीन् तु सदा बहिरङ्गः ल्यप् भरति इति कृतम् तत् उ विद्धि । एषः एव अर्थः जग्धौ सिद्धे अन्तरङ्गत्वात् ति किति इति ल्यप् उच्यते । ज्ञापयति अन्तरङ्गाणाम् ल्यपा भवति बाधनम् ।

KA I,484.11-21 Ro II,873 lyabgrahaṇam kimartham na ti kiti iti eva siddham . lyapi kṛte na prāpnoti . idam iha sampradhāryam . lyap kriyatām ādeśaḥ iti . kim atra kartavyam . paratvāt lyap . antaraṅgaḥ ādeśaḥ . evam tarhi siddhe sati yat lyabgrahaṇam karoti tat jñāpayati ācāryaḥ antaraṅgān api vidhīn bahiraṅgaḥ lyap bādhate iti . kim etasya jñāpane prayojanam . lyabadeśe upadeśivadvacanam anādiṣṭārtham bahiraṅgalakṣaṇatvāt iti vakṣyati . tat na vaktavyam bhavati . jagdhiḥ vidhiḥ lyapi yat tat akasmāt siddham asti kiti iti vidhānāt . hiprabhṛtīn tu sadā bahiraṅgaḥ lyaP bharati iti kṛtam tat u viddhi . eṣaḥ eva arthaḥ jagdhau siddhe antaraṅgatvāt ti kiti iti lyap ucyate . jñāpayati antaraṅgāṇām lyapā bhavati bādhanam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८४।२३-२४ रो इइ,८७४ घसॢभावे अचि उपसङ्ख्यानम् । घसॢभावे अचि उपसङ्ख्यानम् कर्तव्यम् । प्रात्ति इति प्रघसः ।

KA I,484.23-24 Ro II,874 ghasḷbhāve aci upasaṅkhyānam . ghasḷbhāve aci upasaṅkhyānam kartavyam . prātti iti praghasaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८५। २-५ रो इइ,८७४ किमयम् वधिः व्यञ्जन्तः आहोस्वित् अदन्तः । किम् च अतः । यदि व्यञ्जनान्तः वधौ व्यञ्जनान्ते उक्तम् । किम् उक्तम् । वध्यादेशे वृद्धितत्वप्रतिषेधः इड्विधिः च इति । अथ अदन्तः न दोषः भवति । यथा न दोषः तथा अस्तु ।

KA I,485. 2-5 Ro II,874 kimayam vadhiḥ vyañjantaḥ āhosvit adantaḥ . kim ca ataḥ . yadi vyañjanāntaḥ vadhau vyañjanānte uktam . kim uktam . vadhyādeśe vṛddhitatvapratiṣedhaḥ iḍvidhiḥ ca iti . atha adantaḥ na doṣaḥ bhavati . yathā na doṣaḥ tathā astu .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८५।७-९ रो इइ,८७४ इण्वत् इकः । इण्वत् इकः इति वक्तव्यम् । इह अपि यथा स्यात् । अध्यगात् अध्यगाताम् ।

KA I,485.7-9 Ro II,874 iṇvat ikaḥ . iṇvat ikaḥ iti vaktavyam . iha api yathā syāt . adhyagāt adhyagātām .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८४।११ रो इइ,८७५ इण्वत् इकः इति एव । अधिगमयति अधिगमयतः अघिगमयन्ति ।

KA I,484.11 Ro II,875 iṇvat ikaḥ iti eva . adhigamayati adhigamayataḥ aghigamayanti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८४।१३ रो इइ,८७५ इण्वत् इकः इति एव । अघिजिगमिषति अधिजिगमिशतः अधिजिगमिषन्ति ।

KA I,484.13 Ro II,875 iṇvat ikaḥ iti eva . aghijigamiṣati adhijigamiśataḥ adhijigamiṣanti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८५।१५-४८६।२१ रो इइ,८७५-८७७ ङित्करणम् किमर्थम् । गाङि अनुबन्धकरणम् विशेषणाऋथम् । गाङि अनुबन्धकरणम् क्रियते विशेषणाऋथम् । क्व विशेषणार्थेन अर्थः । गाङ्कुटादिभ्यः अञ्णित् ङित् इति । गाकुटादिभ्यः अञ्णित् ङित् इति इयति उच्यमाने इणादेशस्य अपि प्रसज्येत । ज्ञापकम् वा सानुबन्धकस्य आदेशवचने इत्कार्याभावस्य । अथ वा एतत् ज्ञापयति आचार्यः सानुबन्धकस्य आदेशे इत्कार्यम् न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । प्रयोजनम् चक्षिङः ख्याञ् । ङितः इति आत्मनेपदम् न भवति । लटः शतृशानचौ । लटः शतृशानचौ प्रयोजनम् । पचमानः यजमानः इति । टितः इति एत्वम् न भवति । युवोः अनाकौ । युवोः अनाकौ च प्रयोजनम् । नन्दनः कारकः नन्दना कारिका इति । उगिल्लक्षणौ ङीब्नुमौ न भवतः । मेः च अननुबन्धकस्य अम्वचनम् । मेः च अननुबन्धकस्य अम्वक्तव्यः । अचिनवम् अकरवम् असुनवम् । अत्यल्पम् इदम् उच्यते । तिप्तिब्मिपाम् इति वक्तव्यम् । इह अपि यथा स्यात् : वेद वेत्थ । अस्य ज्ञापकस्य सन्ति दोषाः सन्ति प्रयोजनानि । दोषाः समाः भूयांसः वा । तस्मात् न अर्थः अनेन ज्ञापकेन । कथम् यानि प्रयोजनानि । न एतानि सन्ति । इह तावत् । चक्षिङः ख्याञ् इति । ञित्करणसामर्थ्यात् विभाषा आत्मनेपदम् भविष्यति । लटः शतृशानचौ इति । वक्ष्यति एतत् । प्रकृतानाम् आत्मनेपदानाम् एत्वम् भवति इति । युवोः अनाकौ इति । वक्ष्यति एतत् । सिद्धम् तु युवोः अननुनासिकत्वात् इति ।

KA I,485.15-486.21 Ro II,875-877 ṅitkaraṇam kimartham . gāṅi anubandhakaraṇam viśeṣaṇāṛtham . gāṅi anubandhakaraṇam kriyate viśeṣaṇāṛtham . kva viśeṣaṇārthena arthaḥ . gāṅkuṭādibhyaḥ añṇit ṅit iti . gākuṭādibhyaḥ añṇit ṅit iti iyati ucyamāne iṇādeśasya api prasajyeta . jñāpakam vā sānubandhakasya ādeśavacane itkāryābhāvasya . atha vā etat jñāpayati ācāryaḥ sānubandhakasya ādeśe itkāryam na bhavati iti . kim etasya jñāpane prayojanam . prayojanam cakṣiṅaḥ khyāñ . ṅitaḥ iti ātmanepadam na bhavati . laṭaḥ śatṛśānacau . laṭaḥ śatṛśānacau prayojanam . pacamānaḥ yajamānaḥ iti . ṭitaḥ iti etvam na bhavati . yuvoḥ anākau . yuvoḥ anākau ca prayojanam . nandanaḥ kārakaḥ nandanā kārikā iti . ugillakṣaṇau ṅībnumau na bhavataḥ . meḥ ca ananubandhakasya amvacanam . meḥ ca ananubandhakasya amvaktavyaḥ . acinavam akaravam asunavam . atyalpam idam ucyate . tiptibmipām iti vaktavyam . iha api yathā syāt : veda vettha . asya jñāpakasya santi doṣāḥ santi prayojanāni . doṣāḥ samāḥ bhūyāṃsaḥ vā . tasmāt na arthaḥ anena jñāpakena . katham yāni prayojanāni . na etāni santi . iha tāvat . cakṣiṅaḥ khyāñ iti . ñitkaraṇasāmarthyāt vibhāṣā ātmanepadam bhaviṣyati . laṭaḥ śatṛśānacau iti . vakṣyati etat . prakṛtānām ātmanepadānām etvam bhavati iti . yuvoḥ anākau iti . vakṣyati etat . siddham tu yuvoḥ ananunāsikatvāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८६।२३-४८७।१८ रो इइ,८७७-८७९ किम् अयम् कशादिः आहोश्वित् खयादिः । चक्षिङः क्शाञ्ख्याञौ । चकिङः ख्याञ् कशादिः खयादिः च । खशादिः वा । अथ वा खशादिः भविष्यति । केन इदानीम् कशादिः भविष्यति । चर्त्वेन । अथ खयादिः कथम् । असिद्धे शस्य यवचनम् विभाषा । असिद्धे शस्य विभाषा यत्वम् वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् सौप्रख्ये वुञ्विधिः । सौप्रख्यः इति योपधलक्षणः वुञ्विधिः न भवति । सौप्रख्यीयः । वृद्धात् छः भवति । निष्ठानत्वम् आख्याते । आख्यातः इति निष्ठानत्वम् न भवति । रुविधिः पुङ्ख्याने । पुङ्ख्यानम् इति रुविधिः न भवति । णत्वम् पर्याख्याते । पर्याख्यानम् इति णत्वम् न भवति । सस्थानत्वम् नमः ख्यात्रे । नमः ख्यात्रे इति सस्थानत्वम् न भवति।

KA I,486.23-487.18 Ro II,877-879 kim ayam kaśādiḥ āhośvit khayādiḥ . cakṣiṅaḥ kśāñkhyāñau . cakiṅaḥ khyāñ kaśādiḥ khayādiḥ ca . khaśādiḥ vā . atha vā khaśādiḥ bhaviṣyati . kena idānīm kaśādiḥ bhaviṣyati . cartvena . atha khayādiḥ katham . asiddhe śasya yavacanam vibhāṣā . asiddhe śasya vibhāṣā yatvam vaktavyam . kim prayojanam . prayojanam sauprakhye vuñvidhiḥ . sauprakhyaḥ iti yopadhalakṣaṇaḥ vuñvidhiḥ na bhavati . sauprakhyīyaḥ . vṛddhāt chaḥ bhavati . niṣṭhānatvam ākhyāte . ākhyātaḥ iti niṣṭhānatvam na bhavati . ruvidhiḥ puṅkhyāne . puṅkhyānam iti ruvidhiḥ na bhavati . ṇatvam paryākhyāte . paryākhyānam iti ṇatvam na bhavati . sasthānatvam namaḥ khyātre . namaḥ khyātre iti sasthānatvam na bhavati.

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८७।१९-४८८।६ रो इइ,८७९ वर्जने प्रतिषेधः । वर्जने प्रतिषेधः वक्तव्यः । अवसञ्चक्ष्याः परिसञ्चक्ष्याः । असनयोः च । असनयोः च प्रतिषेधः वक्तव्यः । नृचक्षाः रक्षः । विचक्षणः इति । बहुलम् तणि । बहुलम् तणि इति वक्तव्यम् । किम् इदम् तणि इति । सञ्ज्ञाछन्दसोः ग्रहणम् । किम् प्रयोजनम् । अन्नवधकगात्रविचक्षणाजिराद्यर्थम् । अन्न । अन्नम् । वधक । वधकम् । गात्र । गात्रम् पश्य । विचक्षण । विचक्षणः । अजिर । अजिरे तिष्ठति ।

KA I,487.19-488.6 Ro II,879 varjane pratiṣedhaḥ . varjane pratiṣedhaḥ vaktavyaḥ . avasañcakṣyāḥ parisañcakṣyāḥ . asanayoḥ ca . asanayoḥ ca pratiṣedhaḥ vaktavyaḥ . nṛcakṣāḥ rakṣaḥ . vicakṣaṇaḥ iti . bahulam taṇi . bahulam taṇi iti vaktavyam . kim idam taṇi iti . sañjñāchandasoḥ grahaṇam . kim prayojanam . annavadhakagātravicakṣaṇājirādyartham . anna . annam . vadhaka . vadhakam . gātra . gātram paśya . vicakṣaṇa . vicakṣaṇaḥ . ajira . ajire tiṣṭhati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८८।८-२४ रो इइ,८८०-८८१ घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् । घञपोः प्रतिषेधे क्यपः उपसङ्ख्यानम् कर्तव्यम् । इह अपि यथा स्यात् । समजनम् समज्या इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अपि इति एव भविष्यति । कथम् । अपि इति न इदम् प्रत्ययग्रहणम् । किम् तर्हि । प्रत्याहारग्रहणम् । क्व सन्निविष्टानाम् प्रत्याहारः । अपः अकातात् प्रभृति आ क्यपः पकारात् । यदि प्रत्याहारग्रहणम् संवीतिः न सिध्यति । एवम् तर्हि न अर्थः उअप्सङ्ख्यानेन न अपि घञ्नपोः प्रतिषेधेन । इदम् अस्ति । चक्षिङः ख्याञ् वा लिटि इति । ततः वक्ष्यामि । अजेः वी भवति वा व्यवस्थितविभाषा च इति । तेन इह च भविष्यति : प्रवेता प्रवेतुम् प्रवीतः रथः , संवीतिः इति । इह च न भविष्यति : समाजः , उदाजः , समजः , उदजः , समजनम् उदजनम् , समज्या इति । तत्र अयम् अपि अर्थः । इदम् अपि सिद्धम् भवति : प्राजिता इति । किम् च भोः इष्यते एतत् रूपम् । बाढम् इष्यते । एवम् हि कः चित् वैयाकरणः आह । कः अस्य रथस्य प्रवेता इति । सूतः आह । आयुष्मन् अहम् प्राजिता इति । वैयाकरणः आह । अपशब्दः इति । सूतः आह । प्रापित्ज्ञः देवानाम् प्रियः न तु इष्टज्ञः । इष्यते एतत् रूपम् इति । वैयाकरणः आह । आहो खलु अनेन दुरुतेन बाध्यामहे इति । सूतः आह । न खलु वेञः सूतः । सुवतेः एव सूतः । यदि सुवतेः कुत्सा प्रयोक्तव्या । दुःसूतेन इति वक्तव्यम् । न तर्हि इदानीम् इदम् वा यौ इति वक्तव्यम् । वक्तव्यम् च । किम् प्रयोजनम् । न इयम् विभाषा । किम् तर्हि । आदेशः अयम् विधीयते । वा इति अयम् आदेशः भवति अजेः यौ परतः । वायुः इति ।

KA I,488.8-24 Ro II,880-881 ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam . ghañapoḥ pratiṣedhe kyapaḥ upasaṅkhyānam kartavyam . iha api yathā syāt . samajanam samajyā iti . tat tarhi vaktavyam . na vaktavyam . api iti eva bhaviṣyati . katham . api iti na idam pratyayagrahaṇam . kim tarhi . pratyāhāragrahaṇam . kva sanniviṣṭānām pratyāhāraḥ . apaḥ akātāt prabhṛti ā kyapaḥ pakārāt . yadi pratyāhāragrahaṇam saṃvītiḥ na sidhyati . evam tarhi na arthaḥ uapsaṅkhyānena na api ghañnapoḥ pratiṣedhena . idam asti . cakṣiṅaḥ khyāñ vā liṭi iti . tataḥ vakṣyāmi . ajeḥ vī bhavati vā vyavasthitavibhāṣā ca iti . tena iha ca bhaviṣyati : pravetā pravetum pravītaḥ rathaḥ , saṃvītiḥ iti . iha ca na bhaviṣyati : samājaḥ , udājaḥ , samajaḥ , udajaḥ , samajanam udajanam , samajyā iti . tatra ayam api arthaḥ . idam api siddham bhavati : prājitā iti . kim ca bhoḥ iṣyate etat rūpam . bāḍham iṣyate . evam hi kaḥ cit vaiyākaraṇaḥ āha . kaḥ asya rathasya pravetā iti . sūtaḥ āha . āyuṣman aham prājitā iti . vaiyākaraṇaḥ āha . apaśabdaḥ iti . sūtaḥ āha . prāpitjñaḥ devānām priyaḥ na tu iṣṭajñaḥ . iṣyate etat rūpam iti . vaiyākaraṇaḥ āha . āho khalu anena durutena bādhyāmahe iti . sūtaḥ āha . na khalu veñaḥ sūtaḥ . suvateḥ eva sūtaḥ . yadi suvateḥ kutsā prayoktavyā . duḥsūtena iti vaktavyam . na tarhi idānīm idam vā yau iti vaktavyam . vaktavyam ca . kim prayojanam . na iyam vibhāṣā . kim tarhi . ādeśaḥ ayam vidhīyate . vā iti ayam ādeśaḥ bhavati ajeḥ yau parataḥ . vāyuḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४८९।२-९ रो इइ,८८१-८८२ अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् । अणिञोः लुकि तद्राजात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् । बौधिः पिता बौधीः पुत्रः औदुम्बरिः पिता औदुम्बरिः पुत्रः । अपरः आह : अणिञोः लुकि क्षत्रियगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति । जाबालिः पिता जाबालिः पुत्रः । अपरः आह । अब्राह्मणगोत्रमात्रात् युवप्रत्ययस्य उपसङ्ख्यानम् कर्तव्यम् इति । किम् प्रयोजनम् । इदम् अपि सिद्धम् भवति । भाण्डिजङ्घिः पिता भाण्डिजङ्घिः पुत्रः कार्णखरकिः पिता कार्णखरकिः पुत्रः ।

KA I,489.2-9 Ro II,881-882 aṇiñoḥ luki tadrājāt yuvapratyayasya upasaṅkhyānam . aṇiñoḥ luki tadrājāt yuvapratyayasya upasaṅkhyānam kartavyam . baudhiḥ pitā baudhīḥ putraḥ audumbariḥ pitā audumbariḥ putraḥ . aparaḥ āha : aṇiñoḥ luki kṣatriyagotramātrāt yuvapratyayasya upasaṅkhyānam kartavyam iti . jābāliḥ pitā jābāliḥ putraḥ . aparaḥ āha . abrāhmaṇagotramātrāt yuvapratyayasya upasaṅkhyānam kartavyam iti . kim prayojanam . idam api siddham bhavati . bhāṇḍijaṅghiḥ pitā bhāṇḍijaṅghiḥ putraḥ kārṇakharakiḥ pitā kārṇakharakiḥ putraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९०।२-४९२।२६ रो इइ,८८२-८९३ तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः । तद्राजादीनाम् लुकि समासबहुत्वे प्रतिषेधः । प्रियः आङ्गः एषाम् ते इमे प्रियाङ्गाः । प्रियः वाङ्गः एषाम् ते इमे प्रियवाङ्गाः इति । किम् उच्यते समासबहुत्वे प्रतिषेधः इति यावता तेन एव चेत् कृतम् बहुत्वम् इति उच्यते न च अत्र तेन एव कृतम् बहुत्वम् । भवति वै किम् चित् आचार्याः क्रियमाणम् अपि चोदयन्ति । तत् वा कर्तव्यम् तेन एव चेत् बहुत्वम् इति समासबहुत्वे वा प्रतिषेधः वक्तव्यः इति । अबहुत्वे च लुग्वचनम् । अबहुत्वे च लुक् वक्तव्यः । अतिक्रान्तः अङ्गान् अत्यङ्गः । बहुवचने परतः यः तद्राजः इति एवम् कृत्वा चोद्यते । अथ किमर्थम् पुनः इदम् न बहुवचने इति एव सिद्धम् । न सिध्यति । बहुवचने इति उच्यते न च अत्र बहुवचनम् पश्यामः । प्रत्ययलक्षणेन भविष्यति । न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः । न लुमता आङ्गस्य इति वक्ष्यामि । न एवम् शक्यम् । इह हि दोषः स्यात् । पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति । द्वन्द्वे अबहुषु लुग्वचनम् । द्वन्द्वे अबहुषु लुक् वक्तव्यः । गर्गवत्सवाजाः इति । इह च लुक् वक्तव्यः । गर्गेभ्यः आगतम् गर्गरूप्यम् गर्गमयम् इति । इह च अत्रयः इति उदात्तनिवृत्तिस्वरः प्राप्नोति । सिद्धम् तु प्रत्ययार्थबहुत्वे लुग्वचनात् । सिद्धम् एतत् । कथम् । प्रत्ययार्थबहुत्वे लुक् वक्तव्यः । यदि प्रत्ययार्थबहुत्वे लुक् उच्यते अस्त्रियाम् इति वक्तव्यम् । इह मा भूत् : आङ्ग्यः स्त्रियः , वाङ्ग्यः स्त्रियः इति । यस्य पुनः बहुवचने परतः लुक् उच्यते तस्य ईकारेण व्यवहितत्वात् न भविष्यति । यस्य अपि बहुवचने परतः लुक् उच्यते तेन अपि अस्त्रियाम् इति वक्तव्यम् आम्बष्ठ्याः स्त्रियः सौवीर्याः स्त्रियः इति एवमर्थम् । अत्र अपि चापा व्यवधानम् । एकादेशे कृते न अस्ति व्यव्हदानम् । एकादेशः पूवविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव । द्वन्द्वे अबहुषु लुग्वचनम् । द्वन्द्वे अबहुषु लुक् वक्तव्यः । गर्गवत्सवाजाः इति । गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् । गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् वक्तव्यः । बिदानाम् अपत्यम् माणवकः बैदः बैदौ । किमर्थम् इदम् न अचि इति एव अलुक् सिद्धः । अचि इति उच्यते । न च अत्र अजादिम् पश्यामः । प्रत्ययलक्षणेन । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि । एकवचनद्विवचनान्तस्य प्रवृत्तौ बहुषु लोपः यूनि वक्तव्यः । बैदस्य अपत्यम् बहवः माणवकाः बिदाः बैदयोः वा बिदाः । अञ् यः बहुषु यञ् यः बहुषु इति उच्यमानः लुक् न प्राप्नोति । मा भूत् एवम् । अञन्तम् यत् बहुषु यञन्तम् यत् बहुषु इति एवम् भविष्यति । न एवम् शक्यम् । इह हि दोषः स्यात् । काश्यपप्रतिकृतयः काश्यपाः इति । न वा सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् । न वा एषः दोषः । किम् कारणम् । सर्वेषाम् द्वन्द्वे बह्वर्थत्वात् । सर्वाणि द्वन्द्वे बह्वर्थानि । कथम् । युगपत् अधिकरणविवक्षायाम् द्वन्द्वः भवति । ततः अयम् आह यस्य बहुवचने परतः लुक् । यदि सर्वाणि द्वन्द्वे बह्वर्थानि अहम् अपि इदम् अचोद्यम् चोद्ये । द्वन्द्वे अबहुषु लुग्वचनम् इति । मम अपि सर्वत्र बहुवचनम् परम् भवति । लुके कृते न प्राप्नोति । प्रत्ययलक्षणेन । न लुमता तस्मिन् इति प्रत्ययलक्षणस्य प्रतिषेधः । न लुमता आङ्गस्य इति वक्ष्यामि । ननु च उक्तम् न एवम् शक्यम् । इह हि दोषः स्यात् । पञ्चभिः गार्गीभिः क्रीतः पटः पञ्चगार्ग्यः दशगार्ग्यः इति । इष्तम् एव एतत् सङ्गृहीतम् । पञ्चगर्गः दशगर्गः इति एव भवितव्यम् । तथा इदम् अपरम् अचोद्यम् चोद्ये । गर्गरूप्यम् गर्गमयम् । अत्र अपि बहुवचने इति एव सिद्धम् कथम् । समर्थात् तद्धितः उत्पद्यते । सामर्थ्यम् च सुबन्तेन । ततः अयम् आह यस्य प्र्तययार्थबहुत्वे लुक् । यदि समर्थात् तद्धितः उत्पद्यते अहम् अपि इदम् अचोद्यम् चोद्ये । गोत्रस्य बहुषु लोपिनः बहुवचनान्तस्य प्रवृत्तौ द्व्येकयोः अलुक् इति । कथम् । यस्य अपि बहुवचने परतः लुक् तेन अपि अत्र अलुक् वक्तव्यः । तस्य अपि हि अत्र बहुवचनम् परम् भवति । न वक्तव्यः । अचि इति एवम् अलुक् सिद्धः । अचि इति उच्यते । न च अत्र अजादिम् पश्यामः । ननु च उक्तम् प्रत्ययलक्षणेन । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् इति । यदि

KA I,490.2-492.26 Ro II,882-893 tadrājādīnām luki samāsabahutve pratiṣedhaḥ . tadrājādīnām luki samāsabahutve pratiṣedhaḥ . priyaḥ āṅgaḥ eṣām te ime priyāṅgāḥ . priyaḥ vāṅgaḥ eṣām te ime priyavāṅgāḥ iti . kim ucyate samāsabahutve pratiṣedhaḥ iti yāvatā tena eva cet kṛtam bahutvam iti ucyate na ca atra tena eva kṛtam bahutvam . bhavati vai kim cit ācāryāḥ kriyamāṇam api codayanti . tat vā kartavyam tena eva cet bahutvam iti samāsabahutve vā pratiṣedhaḥ vaktavyaḥ iti . abahutve ca lugvacanam . abahutve ca luk vaktavyaḥ . atikrāntaḥ aṅgān atyaṅgaḥ . bahuvacane parataḥ yaḥ tadrājaḥ iti evam kṛtvā codyate . atha kimartham punaḥ idam na bahuvacane iti eva siddham . na sidhyati . bahuvacane iti ucyate na ca atra bahuvacanam paśyāmaḥ . pratyayalakṣaṇena bhaviṣyati . na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . na lumatā āṅgasya iti vakṣyāmi . na evam śakyam . iha hi doṣaḥ syāt . pañcabhiḥ gārgībhiḥ krītaḥ paṭaḥ pañcagārgyaḥ daśagārgyaḥ iti . dvandve abahuṣu lugvacanam . dvandve abahuṣu luk vaktavyaḥ . gargavatsavājāḥ iti . iha ca luk vaktavyaḥ . gargebhyaḥ āgatam gargarūpyam gargamayam iti . iha ca atrayaḥ iti udāttanivṛttisvaraḥ prāpnoti . siddham tu pratyayārthabahutve lugvacanāt . siddham etat . katham . pratyayārthabahutve luk vaktavyaḥ . yadi pratyayārthabahutve luk ucyate astriyām iti vaktavyam . iha mā bhūt : āṅgyaḥ striyaḥ , vāṅgyaḥ striyaḥ iti . yasya punaḥ bahuvacane parataḥ luk ucyate tasya īkāreṇa vyavahitatvāt na bhaviṣyati . yasya api bahuvacane parataḥ luk ucyate tena api astriyām iti vaktavyam āmbaṣṭhyāḥ striyaḥ sauvīryāḥ striyaḥ iti evamartham . atra api cāpā vyavadhānam . ekādeśe kṛte na asti vyavhadānam . ekādeśaḥ pūvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . dvandve abahuṣu lugvacanam . dvandve abahuṣu luk vaktavyaḥ . gargavatsavājāḥ iti . gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk . gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk vaktavyaḥ . bidānām apatyam māṇavakaḥ baidaḥ baidau . kimartham idam na aci iti eva aluk siddhaḥ . aci iti ucyate . na ca atra ajādim paśyāmaḥ . pratyayalakṣaṇena . varṇāśraye na asti pratyayalakṣaṇam . ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni . ekavacanadvivacanāntasya pravṛttau bahuṣu lopaḥ yūni vaktavyaḥ . baidasya apatyam bahavaḥ māṇavakāḥ bidāḥ baidayoḥ vā bidāḥ . añ yaḥ bahuṣu yañ yaḥ bahuṣu iti ucyamānaḥ luk na prāpnoti . mā bhūt evam . añantam yat bahuṣu yañantam yat bahuṣu iti evam bhaviṣyati . na evam śakyam . iha hi doṣaḥ syāt . kāśyapapratikṛtayaḥ kāśyapāḥ iti . na vā sarveṣām dvandve bahvarthatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . sarveṣām dvandve bahvarthatvāt . sarvāṇi dvandve bahvarthāni . katham . yugapat adhikaraṇavivakṣāyām dvandvaḥ bhavati . tataḥ ayam āha yasya bahuvacane parataḥ luk . yadi sarvāṇi dvandve bahvarthāni aham api idam acodyam codye . dvandve abahuṣu lugvacanam iti . mama api sarvatra bahuvacanam param bhavati . luke kṛte na prāpnoti . pratyayalakṣaṇena . na lumatā tasmin iti pratyayalakṣaṇasya pratiṣedhaḥ . na lumatā āṅgasya iti vakṣyāmi . nanu ca uktam na evam śakyam . iha hi doṣaḥ syāt . pañcabhiḥ gārgībhiḥ krītaḥ paṭaḥ pañcagārgyaḥ daśagārgyaḥ iti . iṣtam eva etat saṅgṛhītam . pañcagargaḥ daśagargaḥ iti eva bhavitavyam . tathā idam aparam acodyam codye . gargarūpyam gargamayam . atra api bahuvacane iti eva siddham katham . samarthāt taddhitaḥ utpadyate . sāmarthyam ca subantena . tataḥ ayam āha yasya prtayayārthabahutve luk . yadi samarthāt taddhitaḥ utpadyate aham api idam acodyam codye . gotrasya bahuṣu lopinaḥ bahuvacanāntasya pravṛttau dvyekayoḥ aluk iti . katham . yasya api bahuvacane parataḥ luk tena api atra aluk vaktavyaḥ . tasya api hi atra bahuvacanam param bhavati . na vaktavyaḥ . aci iti evam aluk siddhaḥ . aci iti ucyate . na ca atra ajādim paśyāmaḥ . nanu ca uktam pratyayalakṣaṇena . varṇāśraye na asti pratyayalakṣaṇam iti . yadi

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९३।२-८ रो इइ,८९३ यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् । यञादीनाम् एकद्वयोः वा तत्पुरुषे षष्ठ्याः उपसङ्ख्यानम् कर्तव्यम् । गार्ग्यस्य कुलम् गार्ग्यकुलम् गर्गकुलम् वा । गार्ग्ययोः कुलम् गार्ग्यकुलम् गर्गकुलम् वा । बैदस्य कुलम् बैदकुलम् बिदकुलम् वा । बैदयोः कुलम् बैदकुलम् बिदकुलम् वा । यञादीनाम् इति किमर्थम् । आङ्गस्य कुलम् आङ्गकुलम्। आङ्गयोः कुलम् आङ्गकुलम् । एकद्वयोः इति किमर्थम् । गर्गाणाम् कुलम् गर्गकुलम् । तत्पुरुषे इति किमर्थम्। गार्ग्यस्य समीपम् उपगार्ग्यम् । षष्ठ्याः इति किम् । शोभनगार्ग्यः परमगार्ग्यः ।

KA I,493.2-8 Ro II,893 yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam . yañādīnām ekadvayoḥ vā tatpuruṣe ṣaṣṭhyāḥ upasaṅkhyānam kartavyam . gārgyasya kulam gārgyakulam gargakulam vā . gārgyayoḥ kulam gārgyakulam gargakulam vā . baidasya kulam baidakulam bidakulam vā . baidayoḥ kulam baidakulam bidakulam vā . yañādīnām iti kimartham . āṅgasya kulam āṅgakulam. āṅgayoḥ kulam āṅgakulam . ekadvayoḥ iti kimartham . gargāṇām kulam gargakulam . tatpuruṣe iti kimartham. gārgyasya samīpam upagārgyam . ṣaṣṭhyāḥ iti kim . śobhanagārgyaḥ paramagārgyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९३।१०-१६ रो इइ,८९३-८९४ किम् अयम् समुच्चयः । प्राक्षु भरतेषु च इति । आहोस्वित् भरतविशेषणम् प्राग्ग्रहणम् । प्राञ्चः ये भरताः इति । किम् च अतः । यदि समुच्चयः भरतग्रहणम् अनर्थकम् । न हि अन्यत्र भरता सन्ति । अथ प्राग्ग्रहणम् भरतविशेषणम् प्राग्ग्रहणम् अनर्थकम् । न हि अप्राञ्चः भरताः सन्ति । एवम् तर्हि समुच्चयः । ननु च उक्तम् भरतग्रहणम् अनर्थकम् । न हि अन्यत्र भरता सन्ति इति । न अनर्थकम्। ज्ञापकार्थम् । किम् ज्ञाप्यते । एतत् ज्ञापयति आचार्यः अन्यत्र प्राग्ग्रहणे भरतग्रहणम् न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । इञः प्राचाम् भरत्ग्रहणम् न भवति । औद्दालकिः पिता औद्दालकायनः पुत्रः इति ।

KA I,493.10-16 Ro II,893-894 kim ayam samuccayaḥ . prākṣu bharateṣu ca iti . āhosvit bharataviśeṣaṇam prāggrahaṇam . prāñcaḥ ye bharatāḥ iti . kim ca ataḥ . yadi samuccayaḥ bharatagrahaṇam anarthakam . na hi anyatra bharatā santi . atha prāggrahaṇam bharataviśeṣaṇam prāggrahaṇam anarthakam . na hi aprāñcaḥ bharatāḥ santi . evam tarhi samuccayaḥ . nanu ca uktam bharatagrahaṇam anarthakam . na hi anyatra bharatā santi iti . na anarthakam. jñāpakārtham . kim jñāpyate . etat jñāpayati ācāryaḥ anyatra prāggrahaṇe bharatagrahaṇam na bhavati iti . kim etasya jñāpane prayojanam . iñaḥ prācām bharatgrahaṇam na bhavati . auddālakiḥ pitā auddālakāyanaḥ putraḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९३।१८-२० रो इइ,८९४ गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः । गोपवनादिप्रतिषेधः प्राक् हरितादिभ्यः द्रष्टव्यः । हारितः हारितौ बहुषु हरिताः ।

KA I,493.18-20 Ro II,894 gopavanādipratiṣedhaḥ prāk haritādibhyaḥ . gopavanādipratiṣedhaḥ prāk haritādibhyaḥ draṣṭavyaḥ . hāritaḥ hāritau bahuṣu haritāḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९४।२-६ रो इइ,८९४-८९५ किमर्थम् अद्वन्द्वे इति उच्यते । द्वन्द्वे मा भूत् इति । न एतत् अस्ति प्रयोजनम् । इष्यते एव द्वन्द्वे : भ्रष्टककपिष्ठलाः भ्राष्टकिकापिष्थलयः इति । अतः उत्तरम् पठति अद्वन्द्वे इति द्वन्द्वाधिकारनिवृत्त्यर्थम् । अद्वन्द्वे इति उच्यते द्वन्द्वाधिकारनिवृत्त्यर्थम् । द्वन्द्वाधिकारः निवर्तते । तस्मिन् निवृत्ते अविशेषेण द्वन्द्वे च अद्वन्द्वे च भविष्यति ।

KA I,494.2-6 Ro II,894-895 kimartham advandve iti ucyate . dvandve mā bhūt iti . na etat asti prayojanam . iṣyate eva dvandve : bhraṣṭakakapiṣṭhalāḥ bhrāṣṭakikāpiṣthalayaḥ iti . ataḥ uttaram paṭhati advandve iti dvandvādhikāranivṛttyartham . advandve iti ucyate dvandvādhikāranivṛttyartham . dvandvādhikāraḥ nivartate . tasmin nivṛtte aviśeṣeṇa dvandve ca advandve ca bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९४।८-४९५।२ रो इइ,८९५-८९६ आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् । आगस्त्यकौण्डिन्ययोः प्रकृतिनिपातनम् कर्तव्यम् । अगस्तिकौण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः इति वक्तव्यम् । किम् प्रयोजनम् । लुक्प्रतिषेधे वृद्ध्यर्थम् । लुक्प्रतिषेधे वृद्धिः यथा स्यात् । प्रत्ययान्तनिपातने हि वृद्ध्यभावः । प्रत्ययान्तनिपातने हि सति वृद्ध्यभावः स्यात् । आगस्तीयाः कौण्डिन्याः इति । यदि प्रक्र्टिनिपातनम् क्रियते केन इदानीम् प्रत्ययस्य लोपः भविष्यति । अधिकारात् प्रत्ययलोपः । अधिकारात् प्रत्ययलोपः भविष्यति । तत् तर्हि प्रकृतिनिपातनम् कर्तव्यम् । न कर्तव्यम् । योगविभागः करिष्यते । आगस्त्यकौण्डिन्ययोः बहुषु लुक् भवति । ततः अगस्तिकुण्डिनच् इति एतौ प्रकृत्यादेशौ भवतः आगस्त्यकौण्डिन्ययोः इति । एवम् अपि प्रत्ययान्तयोः एव प्राप्नोति । प्रत्ययान्तात् हि भवान् षष्ठीम् उच्चारयति । आगस्त्यकौण्डिन्ययोः इति । न एषः दोषः । यथा हि परिभाषितम् प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति प्रत्ययस्य एव भविष्यति । अवशिष्टस्य आदेशौ भविष्यतः ।

KA I,494.8-495.2 Ro II,895-896 āgastyakauṇḍinyayoḥ prakṛtinipātanam . āgastyakauṇḍinyayoḥ prakṛtinipātanam kartavyam . agastikauṇḍinac iti etau prakṛtyādeśau bhavataḥ iti vaktavyam . kim prayojanam . lukpratiṣedhe vṛddhyartham . lukpratiṣedhe vṛddhiḥ yathā syāt . pratyayāntanipātane hi vṛddhyabhāvaḥ . pratyayāntanipātane hi sati vṛddhyabhāvaḥ syāt . āgastīyāḥ kauṇḍinyāḥ iti . yadi prakrṭinipātanam kriyate kena idānīm pratyayasya lopaḥ bhaviṣyati . adhikārāt pratyayalopaḥ . adhikārāt pratyayalopaḥ bhaviṣyati . tat tarhi prakṛtinipātanam kartavyam . na kartavyam . yogavibhāgaḥ kariṣyate . āgastyakauṇḍinyayoḥ bahuṣu luk bhavati . tataḥ agastikuṇḍinac iti etau prakṛtyādeśau bhavataḥ āgastyakauṇḍinyayoḥ iti . evam api pratyayāntayoḥ eva prāpnoti . pratyayāntāt hi bhavān ṣaṣṭhīm uccārayati . āgastyakauṇḍinyayoḥ iti . na eṣaḥ doṣaḥ . yathā hi paribhāṣitam pratyayasya lukślulupaḥ bhavanti iti pratyayasya eva bhaviṣyati . avaśiṣṭasya ādeśau bhaviṣyataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९५।४-१५ रो इइ,८९६-८९७ ऊतः अचि ।ऊतः अचि इति वक्तव्यम् । इह मा भूत् । सनीस्रसः दनीध्वसः इति । अथ ऊतः इति उच्यमाने इह कस्मात् न भवति । योयूयः रोरूवः । विहितविशेषणम् ऊकारान्तग्रहणन् । ऊकारान्तात् यः विहितः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इष्टम् एव एतत् सङ्गृहीतम् । सनीस्रंसः दनीध्वंसः इति एव भवितव्यम् ।

KA I,495.4-15 Ro II,896-897 ūtaḥ aci .ūtaḥ aci iti vaktavyam . iha mā bhūt . sanīsrasaḥ danīdhvasaḥ iti . atha ūtaḥ iti ucyamāne iha kasmāt na bhavati . yoyūyaḥ rorūvaḥ . vihitaviśeṣaṇam ūkārāntagrahaṇan . ūkārāntāt yaḥ vihitaḥ iti . tat tarhi vaktavyam . na vaktavyam . iṣṭam eva etat saṅgṛhītam . sanīsraṃsaḥ danīdhvaṃsaḥ iti eva bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९५।१०-१५ रो इइ,८९७-८९८ गापोः ग्रहणे इण्पिबत्योः ग्रहणम् । गापोः ग्रहणे इण्पिबत्योः ग्रहणम् कर्तव्यम् । इणः यः गाशब्दः पिबतेः यः पाशब्दः इति वक्तव्यम् । इह मा भूत् । अगासीत् नटः । अपासीत् धनम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इणः ग्रहणे तावत् वार्तम् । निर्देशात् एव इदम् व्यक्तम् लुग्विकरणस्य ग्रहणम् इति । पाग्रहणे च अपि वार्तम् । वक्तव्यम् एव एतत् सर्वत्र एव पाग्रहणे अलुग्विकरणस्य ग्रहणम् इति ।

KA I,495.10-15 Ro II,897-898 gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam . gāpoḥ grahaṇe iṇpibatyoḥ grahaṇam kartavyam . iṇaḥ yaḥ gāśabdaḥ pibateḥ yaḥ pāśabdaḥ iti vaktavyam . iha mā bhūt . agāsīt naṭaḥ . apāsīt dhanam iti . tat tarhi vaktavyam . na vaktavyam . iṇaḥ grahaṇe tāvat vārtam . nirdeśāt eva idam vyaktam lugvikaraṇasya grahaṇam iti . pāgrahaṇe ca api vārtam . vaktavyam eva etat sarvatra eva pāgrahaṇe alugvikaraṇasya grahaṇam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९५।१७-४९६।७ रो इइ,८९८ तथासोः आत्मनेपदवचनम् । तथासोः आत्मनेपदस्य ग्रहणम् कर्तव्यम् । आत्मनेपदम् यौ तथासौ इति वक्तव्यम् । एकवचनग्रहणम् वा । अथ वा एकवचने ये तथासी इति वक्तव्यम् । तत् च अवश्यम् अन्यतरत् कर्तव्यम् । अवचने हि अनिष्टप्रसङ्गः । अनुच्यमाने हि एतस्मिन् अनिष्टम् प्रसज्येत । अतनिष्ट यूपम् । असनिष्ट यूपम् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यदि अपि तावत् अयम् तशब्दः दृष्टापचारः अस्ति आत्मनेपदम् अस्ति एव परस्मैपदम् अस्ति एकवचनम् अस्ति बहुवचनम् अयम् खलु थास्शब्दः अदृष्टापचारः आत्मनेपदम् एकवचनम् एव । तस्य अस्य कः अन्यः सहायः भवितुम् अर्हति अन्यत् अतः आत्मनेपदात् एकवचनात् च । तत् यथा अस्यस् गोः द्वितीयेन अर्थः इति । गौः एव आनीयते न अश्वः न गर्दभः ।

KA I,495.17-496.7 Ro II,898 tathāsoḥ ātmanepadavacanam . tathāsoḥ ātmanepadasya grahaṇam kartavyam . ātmanepadam yau tathāsau iti vaktavyam . ekavacanagrahaṇam vā . atha vā ekavacane ye tathāsī iti vaktavyam . tat ca avaśyam anyatarat kartavyam . avacane hi aniṣṭaprasaṅgaḥ . anucyamāne hi etasmin aniṣṭam prasajyeta . ataniṣṭa yūpam . asaniṣṭa yūpam iti . tat tarhi vaktavyam . na vaktavyam . yadi api tāvat ayam taśabdaḥ dṛṣṭāpacāraḥ asti ātmanepadam asti eva parasmaipadam asti ekavacanam asti bahuvacanam ayam khalu thāsśabdaḥ adṛṣṭāpacāraḥ ātmanepadam ekavacanam eva . tasya asya kaḥ anyaḥ sahāyaḥ bhavitum arhati anyat ataḥ ātmanepadāt ekavacanāt ca . tat yathā asyas goḥ dvitīyena arthaḥ iti . gauḥ eva ānīyate na aśvaḥ na gardabhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९६।९-२३ रो इइ,८९८-८९९ आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् । आमः लेः लोपे लुङ्लोटोः उपसङ्ख्यानम् कर्तव्यम् : ताम् बैजवापयः विदाम् अक्रन् । अत्र भवन्तः विदाम् कुर्वन्तु। तत् तर्हि वक्तव्यम् । न वक्तव्यम् । लिग्रहणम् निवर्तिष्यते । यदि निवर्तते प्रत्ययमात्रस्य प्राप्नोति । इष्यते च प्रत्ययमात्रस्य । आतः च इष्यते । एवम् हि आह : कृञ् च अनुप्रयुज्यते लिटि इति । यदि च प्रत्ययमात्रस्य लुक् भवति ततः एतत् उपपन्नम् भवति । आमन्तेभ्यः णलः प्रतिषेधः । आमन्तेभ्यः णलः प्रतिषेधः वक्तव्यः । शशाम तताम । वृद्धौ कृत्यायाम् आमः इति लुक् प्राप्नोति । आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः । आमन्तेभ्यः णलः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । लुक् कस्मात् न भवति : शशाम तताम इति । अर्थवतः आम्शब्दस्य ग्रहणम् । न च एषः अर्थवान् । आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः । आमन्तेभ्यः अर्थवद्ग्रहणात् णलः अप्रतिषेधः इति चेत् अमः प्रतिषेधः वक्तव्यः । आम । उक्तम् वा । किम् उक्तम् । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति ।

KA I,496.9-23 Ro II,898-899 āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam . āmaḥ leḥ lope luṅloṭoḥ upasaṅkhyānam kartavyam : tām baijavāpayaḥ vidām akran . atra bhavantaḥ vidām kurvantu. tat tarhi vaktavyam . na vaktavyam . ligrahaṇam nivartiṣyate . yadi nivartate pratyayamātrasya prāpnoti . iṣyate ca pratyayamātrasya . ātaḥ ca iṣyate . evam hi āha : kṛñ ca anuprayujyate liṭi iti . yadi ca pratyayamātrasya luk bhavati tataḥ etat upapannam bhavati . āmantebhyaḥ ṇalaḥ pratiṣedhaḥ . āmantebhyaḥ ṇalaḥ pratiṣedhaḥ vaktavyaḥ . śaśāma tatāma . vṛddhau kṛtyāyām āmaḥ iti luk prāpnoti . āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ . āmantebhyaḥ ṇalaḥ apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . luk kasmāt na bhavati : śaśāma tatāma iti . arthavataḥ āmśabdasya grahaṇam . na ca eṣaḥ arthavān . āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ . āmantebhyaḥ arthavadgrahaṇāt ṇalaḥ apratiṣedhaḥ iti cet amaḥ pratiṣedhaḥ vaktavyaḥ . āma . uktam vā . kim uktam . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९६।२४-४९८।१२ रो इइ,९००-९०२ किम् पुनः लुक् आदेशानाम् अपवादः आहोस्वित् कृतेषु आदेशेषु भवति । लुक् आदेशापवादः । लुक् आदेशानाम् अपवादः । तिङ्कृताभावः तु । तिङ्कृतस्य तु अभावः । कस्य । पदत्वस्य । सुबन्तपदत्वात् सिद्धम् । सुबन्तम् पदम् इति पदसञ्ज्ञा भविष्यति । कथम् स्वाद्युत्पत्तिः । लकारस्य कृत्त्वात् प्रातिपदिकत्वम् तदाश्रयम् प्रत्ययविधानम् । लकारः कृत् । कृत् प्रातिपदिकम् इति प्रातिपदिकसञ्ज्ञा । तदाश्रयम् प्रत्ययविधानम् । प्रातिपदिकाश्रयत्वात् स्वाद्युत्पत्तिः भविष्यति । सुपः श्रवणम् प्राप्नोति । अव्ययात् इति लुक् भविष्यति । कथम् अव्ययत्वम् । अव्ययत्वम् मकारान्तत्वात् । कृदन्तम् मान्तम् अव्ययसञ्ज्ञम् भवति इति अव्ययसञ्ज्ञा भविष्यति । स्वरः कथम् । यत् प्रकारयाम् चकार । स्वरः कृदन्तप्रकृतिस्वरत्वात् । कृदन्तम् उत्तरपदम् प्रकृतिस्वरम् भवति इति एषः स्वरः भविष्यति । तथा च निघातानिघातसिद्धिः । तथा च निघातानिघातसिद्धिः भवति । चक्षुष्कामम् याजयाम् चकार । तिङ् अतिङः इति तस्य च अनिघातः । तस्मात् च निघातः सिद्धः भवति । नञा तु समासप्रसङ्गः । नञा तु समासः प्राप्नोति । न कारयम् न हारयाम् । नञ् सुबन्तेन सह समस्यते इति समासः प्राप्नोति । उक्तम् वा । किम् उक्तम् । असामर्थ्यात् इति । न अत्र नञः आमन्तेन सामर्थ्यम् । केन तर्हि । तिङन्तेन । न चकार कारयाम् । न चकार हारयाम् इति ।

KA I,496.24-498.12 Ro II,900-902 kim punaḥ luk ādeśānām apavādaḥ āhosvit kṛteṣu ādeśeṣu bhavati . luk ādeśāpavādaḥ . luk ādeśānām apavādaḥ . tiṅkṛtābhāvaḥ tu . tiṅkṛtasya tu abhāvaḥ . kasya . padatvasya . subantapadatvāt siddham . subantam padam iti padasañjñā bhaviṣyati . katham svādyutpattiḥ . lakārasya kṛttvāt prātipadikatvam tadāśrayam pratyayavidhānam . lakāraḥ kṛt . kṛt prātipadikam iti prātipadikasañjñā . tadāśrayam pratyayavidhānam . prātipadikāśrayatvāt svādyutpattiḥ bhaviṣyati . supaḥ śravaṇam prāpnoti . avyayāt iti luk bhaviṣyati . katham avyayatvam . avyayatvam makārāntatvāt . kṛdantam māntam avyayasañjñam bhavati iti avyayasañjñā bhaviṣyati . svaraḥ katham . yat prakārayām cakāra . svaraḥ kṛdantaprakṛtisvaratvāt . kṛdantam uttarapadam prakṛtisvaram bhavati iti eṣaḥ svaraḥ bhaviṣyati . tathā ca nighātānighātasiddhiḥ . tathā ca nighātānighātasiddhiḥ bhavati . cakṣuṣkāmam yājayām cakāra . tiṅ atiṅaḥ iti tasya ca anighātaḥ . tasmāt ca nighātaḥ siddhaḥ bhavati . nañā tu samāsaprasaṅgaḥ . nañā tu samāsaḥ prāpnoti . na kārayam na hārayām . nañ subantena saha samasyate iti samāsaḥ prāpnoti . uktam vā . kim uktam . asāmarthyāt iti . na atra nañaḥ āmantena sāmarthyam . kena tarhi . tiṅantena . na cakāra kārayām . na cakāra hārayām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९८।२-१२ रो इइ,९०२-९०३ अव्ययात् आपः लुग्वचनानर्थक्यम् लिङ्गाभावात् ।अव्ययात् आपः लुग्वचनम् अनर्थकम् । किम् कारणम् । लिङ्गाभावात् । अलिङ्गम् अव्ययम् । किम् इदम् भवान् सुपः लुकम् मृष्यति आपः लुकम् न मृष्यति । यथा एव हि अलिङ्गम् अव्ययम् एवम् असङ्ख्यम् अपि । सत्यम् एतत् । प्रत्ययलक्षणम् आचार्यः प्रार्थयमानः सुपः लुकम् मृष्यति । आपः पुनः अस्य लुकि सति न किम् चित् अपि प्रयोजनम् अस्ति । उच्यमाने अपि एतस्मिन् स्वाद्युत्पत्तिः न प्राप्नोति । किम् कारणम् । एकत्वादीनाम् अभावात् । एकत्वादिषु अर्थेषु स्वादयः विधीयन्ते । न च एषाम् एकत्वादयः सन्ति । अविशेषेण उत्पद्यन्ते । उत्पन्नानाम् नियमः क्रियते । अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् न एकस्मिन् न बहुषु । बहुषु एव बहुवचनम् न एकस्मिन् न द्वयोः इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आपसुपः इति सुब्लुकम् शास्ति ।

KA I,498.2-12 Ro II,902-903 avyayāt āpaḥ lugvacanānarthakyam liṅgābhāvāt .avyayāt āpaḥ lugvacanam anarthakam . kim kāraṇam . liṅgābhāvāt . aliṅgam avyayam . kim idam bhavān supaḥ lukam mṛṣyati āpaḥ lukam na mṛṣyati . yathā eva hi aliṅgam avyayam evam asaṅkhyam api . satyam etat . pratyayalakṣaṇam ācāryaḥ prārthayamānaḥ supaḥ lukam mṛṣyati . āpaḥ punaḥ asya luki sati na kim cit api prayojanam asti . ucyamāne api etasmin svādyutpattiḥ na prāpnoti . kim kāraṇam . ekatvādīnām abhāvāt . ekatvādiṣu artheṣu svādayaḥ vidhīyante . na ca eṣām ekatvādayaḥ santi . aviśeṣeṇa utpadyante . utpannānām niyamaḥ kriyate . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam na ekasmin na bahuṣu . bahuṣu eva bahuvacanam na ekasmin na dvayoḥ iti . atha vā ācāryapravṛttiḥ jñāpayati utpadyante avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpasupaḥ iti sublukam śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९८।१४-२३ रो इइ,९०३ न अव्ययीभावात् अतः इति योगव्यवसानम् । न अव्ययीभावात् अतः इति योगः व्यवसेयः । न अव्ययीभावात् अकारान्तात् सुपः लुक् भवति । ततः अम् तु अपञ्चम्याः इति । किमर्थः योगविभागः । पञ्चम्याः अम्प्रतिषेधार्थम् । पञ्चम्याः अमः प्रतिषेधः यथा स्यात् । एकयोगे हि उभयोः प्रतिषेधः । एकयोगे हि सति उभयोः प्रतिषेधः स्यात् अमः अलुकः च । सः तर्हि योगविभागः कर्तव्यः । न कर्तव्यः । तुः नियामकः । तुः क्रियते । स नियामकः भविष्यति । अम् एव अपञ्चम्याः इति ।

KA I,498.14-23 Ro II,903 na avyayībhāvāt ataḥ iti yogavyavasānam . na avyayībhāvāt ataḥ iti yogaḥ vyavaseyaḥ . na avyayībhāvāt akārāntāt supaḥ luk bhavati . tataḥ am tu apañcamyāḥ iti . kimarthaḥ yogavibhāgaḥ . pañcamyāḥ ampratiṣedhārtham . pañcamyāḥ amaḥ pratiṣedhaḥ yathā syāt . ekayoge hi ubhayoḥ pratiṣedhaḥ . ekayoge hi sati ubhayoḥ pratiṣedhaḥ syāt amaḥ alukaḥ ca . saḥ tarhi yogavibhāgaḥ kartavyaḥ . na kartavyaḥ . tuḥ niyāmakaḥ . tuḥ kriyate . sa niyāmakaḥ bhaviṣyati . am eva apañcamyāḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९९।१-९ रो इइ,९०३-९०४ अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् । अमि पञ्चमीप्रतिषेधे अपादानग्रहणम् कर्तव्यम् । अपादानपञ्चम्याः इति वक्तव्यम् । किम् प्रयोजनम् । कर्मप्रवचनीययुक्ते अप्रतिषेधार्थम् । कर्मप्रवचनीययुक्ते मा भूत् । आपाटलिपुत्रम् वृष्टः देवः । न वा उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चम्यभावः । न वा वक्तव्यम् । किम् कारणम् । उत्तरपदम् अत्र कर्मप्रवचनीययुक्तम् । उत्तरपदस्य कर्मप्रवचनीययोगात् समासात् पञ्चमी न भविष्यति । यदा च समासः कर्मप्रवचनीययुक्तः भवति तदा प्रतिषेधः । तत् यथा । आ उपकुम्भात् आ उपमणिकात् इति ।

KA I,499.1-9 Ro II,903-904 ami pañcamīpratiṣedhe apādānagrahaṇam . ami pañcamīpratiṣedhe apādānagrahaṇam kartavyam . apādānapañcamyāḥ iti vaktavyam . kim prayojanam . karmapravacanīyayukte apratiṣedhārtham . karmapravacanīyayukte mā bhūt . āpāṭaliputram vṛṣṭaḥ devaḥ . na vā uttarapadasya karmapravacanīyayogāt samāsāt pañcamyabhāvaḥ . na vā vaktavyam . kim kāraṇam . uttarapadam atra karmapravacanīyayuktam . uttarapadasya karmapravacanīyayogāt samāsāt pañcamī na bhaviṣyati . yadā ca samāsaḥ karmapravacanīyayuktaḥ bhavati tadā pratiṣedhaḥ . tat yathā . ā upakumbhāt ā upamaṇikāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९९।११-१४ रो इइ,९०४ सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् । सप्तम्याः ऋद्धिनदीसमाससङ्ख्यावयवेभ्यः नित्यम् इति वक्तव्यम् । ऋद्धि । सुमरम् सुमगधम् । नदीसमासः । उन्मत्तगङ्गम् लोहितगङ्गम् । सङ्ख्यावयव । एकविंसतिभारद्वाजम् त्रिपञ्चाशत्गौतमम् ।

KA I,499.11-14 Ro II,904 saptamyāḥ ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam . saptamyāḥ ṛddhinadīsamāsasaṅkhyāvayavebhyaḥ nityam iti vaktavyam . ṛddhi . sumaram sumagadham . nadīsamāsaḥ . unmattagaṅgam lohitagaṅgam . saṅkhyāvayava . ekaviṃsatibhāradvājam tripañcāśatgautamam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,४९९।१६-५००।२७ रो इइ,९०५-९०७ टिताम् टेः एविधेः लुटः डारौरसः पूर्वविप्रतिषिद्धम् । टिताम् टेः एविधेः लुटः डारौरसः भवन्ति पूर्वविप्रतिषेधेन । टेः एत्वस्य अवकाशः पचते पचेते पचन्ते । डारौरसाम् अवकाशः श्वः कर्ता श्वः कर्तारौ श्वः कर्तारः । इह उभयम् प्राप्नोति । श्वः अधेता श्वः अध्येतारौ श्वः अध्येतारः । डारौरसः भवन्ति पूर्वविप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । आत्मनेपदानाम् च इति वचनात् सिद्धम् । आत्मनेपदानाम् च डारौरसः भवन्ति इति वक्तव्यम् । तत् च समसङ्ख्यार्थम् । तत् च अवश्यम् आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् । सङ्ख्यातनुदेशः यथा स्यात् । अक्रियमाणे हि आत्मनेपदग्रहणे शट् स्थानिनः त्रयः आदेशाः । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । पूर्वविप्रतिषेधार्थेन तावत् न अर्थः आत्मनेपदग्रहणेन । इदम् इह सम्प्रधार्यम् । डारौरसः क्रियन्ताम् टेः एत्वम् इति । किम् अत्र कर्तव्यम् । परत्वात् एत्वम् । नित्याः डारौरसः । कृते अपि एत्वे प्रप्नुवन्ति अकृते अपि प्राप्नुवन्ति । टेः एत्वम् अपि नित्यम् । कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति । अनित्यम् एत्वम् । अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । डारौरसः अपि अनित्याः । अन्यस्य कृते एत्वे प्राप्नुवन्ति अन्यस्य अकृते । शब्दान्तरस्य प्राप्नुवन्तः अनित्या भवन्ति । उभयोः अनित्ययोः परत्वात् एत्वम् । एत्वे कृते पुनःप्रसङ्गविज्ञानात् डारौरसः भविष्यन्ति । समसङ्ख्यार्थेन च अपि न अर्थः आत्मनेपदग्रहणेन । स्थाने अन्तरमेन व्यवस्था भविष्यति । कुतः आन्तर्यम् । अर्थतः । एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः । अथ वा आदेशाः अपि षट् एव निर्दिश्यन्ते । कथम् । एकशेषनिर्देशात् । एकशेषनिर्देशः अयम् । अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः । डा च डा च डा रौ च रौ च रौ रः च रः च रः। डा च रौ च रः च डारौरसः इति । आहोस्वित् कृतद्वन्द्वानाम् एकशेषः । डा च रौ च रः च डारौरसः । डारौरसः च डारौरसः च डारौरसः इति । किम् च अतः । यदि कृतैकशेषाणाम् द्वन्द्वः अनिष्टः समसङ्ख्यः प्राप्नोति एकवचनद्विवचनयोः डा प्राप्नोति । बहुवचनैकवचनयोः रौ प्राप्नोति द्विवचनबहुवचनयोः च रः प्राप्नोति । अथ कृतद्वन्द्वानाम् एकशेषः न दोषः भवति । यथा न दोषः तथा अस्तु । किम् पुनः अत्र ज्यायः । उभयम् इति आह । उभयम् हि दृश्यते । बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठरानि । डारौरसः कृते टेः ए यथात् द्वित्वम् प्रसारणे समस्ङ्ख्येन न अर्थ अस्ति । सिद्धम् स्थाने अर्थतः अन्तराः । आन्तर्यतः व्यवस्था । त्रयः एव इमे भवन्तु सर्वेषाम् । टेः एत्वम् च परत्वात् कृते अपि तस्मिन् इमे सन्तु ।

KA I,499.16-500.27 Ro II,905-907 ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ pūrvavipratiṣiddham . ṭitām ṭeḥ evidheḥ luṭaḥ ḍāraurasaḥ bhavanti pūrvavipratiṣedhena . ṭeḥ etvasya avakāśaḥ pacate pacete pacante . ḍāraurasām avakāśaḥ śvaḥ kartā śvaḥ kartārau śvaḥ kartāraḥ . iha ubhayam prāpnoti . śvaḥ adhetā śvaḥ adhyetārau śvaḥ adhyetāraḥ . ḍāraurasaḥ bhavanti pūrvavipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . ātmanepadānām ca iti vacanāt siddham . ātmanepadānām ca ḍāraurasaḥ bhavanti iti vaktavyam . tat ca samasaṅkhyārtham . tat ca avaśyam ātmanepadagrahaṇam kartavyam samasaṅkhyārtham . saṅkhyātanudeśaḥ yathā syāt . akriyamāṇe hi ātmanepadagrahaṇe śaṭ sthāninaḥ trayaḥ ādeśāḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . pūrvavipratiṣedhārthena tāvat na arthaḥ ātmanepadagrahaṇena . idam iha sampradhāryam . ḍāraurasaḥ kriyantām ṭeḥ etvam iti . kim atra kartavyam . paratvāt etvam . nityāḥ ḍāraurasaḥ . kṛte api etve prapnuvanti akṛte api prāpnuvanti . ṭeḥ etvam api nityam . kṛteṣu api ḍāraurassu prāpnoti akṛteṣu api prāpnoti . anityam etvam . anyasya kṛteṣu ḍāraurassu prāpnoti anyasya akṛteṣu . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ḍāraurasaḥ api anityāḥ . anyasya kṛte etve prāpnuvanti anyasya akṛte . śabdāntarasya prāpnuvantaḥ anityā bhavanti . ubhayoḥ anityayoḥ paratvāt etvam . etve kṛte punaḥprasaṅgavijñānāt ḍāraurasaḥ bhaviṣyanti . samasaṅkhyārthena ca api na arthaḥ ātmanepadagrahaṇena . sthāne antaramena vyavasthā bhaviṣyati . kutaḥ āntaryam . arthataḥ . ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahvarthaḥ . atha vā ādeśāḥ api ṣaṭ eva nirdiśyante . katham . ekaśeṣanirdeśāt . ekaśeṣanirdeśaḥ ayam . atha etasmin ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām dvandvaḥ . ḍā ca ḍā ca ḍā rau ca rau ca rau raḥ ca raḥ ca raḥ. ḍā ca rau ca raḥ ca ḍāraurasaḥ iti . āhosvit kṛtadvandvānām ekaśeṣaḥ . ḍā ca rau ca raḥ ca ḍāraurasaḥ . ḍāraurasaḥ ca ḍāraurasaḥ ca ḍāraurasaḥ iti . kim ca ataḥ . yadi kṛtaikaśeṣāṇām dvandvaḥ aniṣṭaḥ samasaṅkhyaḥ prāpnoti ekavacanadvivacanayoḥ ḍā prāpnoti . bahuvacanaikavacanayoḥ rau prāpnoti dvivacanabahuvacanayoḥ ca raḥ prāpnoti . atha kṛtadvandvānām ekaśeṣaḥ na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . kim punaḥ atra jyāyaḥ . ubhayam iti āha . ubhayam hi dṛśyate . bahu śaktikiṭakam bahūni śaktikiṭakāni bahu sthālīpiṭharam bahūni sthālīpiṭharāni . ḍāraurasaḥ kṛte ṭeḥ e yathāt dvitvam prasāraṇe samasṅkhyena na artha asti . siddham sthāne arthataḥ antarāḥ . āntaryataḥ vyavasthā . trayaḥ eva ime bhavantu sarveṣām . ṭeḥ etvam ca paratvāt kṛte api tasmin ime santu .

Sanskrit only: no published translation is held for this verse.

क्अ इ,५०१।१-५०२।२४ रो इइ,९०७-९११ डाविकारस्य शित्करणम् सर्वादेशार्थम् । डाविकारः शित् कर्तव्यः । किम् प्रयोजनम् । सर्वादेशार्थम् । शित् सर्वस्य इति सर्वादेशः यथा स्यात् । अक्रियमाणे हि शकारे अलः अन्त्यस्य विधयः भवन्ति इति अन्तस्य प्रसज्येत । निघातप्रसङ्गः तु । निघातः तु प्रप्नोति । श्वः कर्ता । तासेः परम् लसार्वधातुकम् अनुदात्तम् भवति इति एषः स्वरः प्राप्नोति । यत् तावत् उच्यते डाविकारस्य शित्करणम् सर्वादेशार्थम् इति । सिद्धम् अलः अन्त्यविकारात् । सिद्धम् एतत् । कथम् ।अलः अन्त्यविकारात् । अस्तु अयम् अलः अन्त्यस्य । का रूपसिद्धिः : कर्ता । डिति टेः लोपात् लोपः । डिति टेः लोपेन लोपः भविष्यति । अभत्वात् न प्राप्नोति । डित्करणसामर्थ्यात् भविष्यति । अनित्त्वात् वा । अथ वा अनित्त्वात् एतत् सिद्धम् । किम् इदम् अनित्त्वात् इति । अन्त्यस्य अयम् स्थाने भवन् न प्रत्ययः स्यात् । असत्याम् प्रत्ययसञ्ज्ञायाम् इत्सञ्ज्ञा न । असत्याम् इत्सञ्ज्ञायाम् लोपः न । असति लोपे अनेकाल् । यद अनेकाल् तदा सर्वादेशः । यदा सर्वादेशः तदा प्रत्ययः । यदा प्रत्ययः तदा इत्सञ्ज्ञा । यदा इत्सञ्ज्ञा तदा लोपः । प्रश्लिष्टनिर्देशात् वा । अथ वा प्रश्लिष्टनिर्देशः अयम् । डा आ डा । सः अनेकाल्शित् सर्वस्य इति सर्वादेशः भविष्यति । यदा तर्हि अयम् अन्त्यस्य स्थाने भवति तदा तिङ्ग्रहणेन ग्रहणम् न प्राप्नोति । तिङ्ग्रहणम् एकदेशविकृतस्य अनन्यत्वात् । एकदेशविकृतम् अनन्यवत् भवति इति तिङ्ग्रहणेन ग्रहणम् भविष्यति स्वरः कथम् । स्वरे विप्रतिषेधात् सिद्धम् । डारौरसः क्रियन्ताम् अनुदात्तत्वम् इति किम् अत्र कर्तव्यम् । परत्वात् अनुदात्तत्वम् । नित्याः डारौरसः । कृते अपि अनुदात्तत्वे प्रप्नुवन्ति अकृते अपि प्रप्नुवन्ति । अनुदात्तत्वम् अपि नित्यम् । कृतेषु कृतेषु अपि डारौरस्सु प्राप्नोति अकृतेषु अपि प्राप्नोति । अनित्यम् अनुदात्तत्वम् । अन्यस्य कृतेषु डारौरस्सु प्राप्नोति अन्यस्य अकृतेषु । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । डारौरसः अपि अनित्याः । अन्यथास्वरस्य कृते अनुदात्तत्वे प्राप्नुवन्ति अन्यथास्वरस्य अकृते । स्वरभिन्नस्य च प्राप्नुवन्तः अनित्याः भवन्ति । उभयोः अनित्ययोः परत्वात् अनुदात्तत्वम् । अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञातात् डारौरसः । टिलोपे उदात्तनिवृत्तिस्वरेण सिद्धम् । न सिध्यति । किम् कारणम् । अन्तरङ्गत्वात् डारौरसः । तत्र अन्तरङ्गत्वात् डारौरस्सु कृतेषु अनुदात्तत्वम् क्रियताम् टिलोपः इति किम् अत्र कर्तव्यम् । परत्वात् टिलोपेन भवितव्यम् । एवम् तर्हि स्वरे विप्रतिषेधात् सिद्धम् । न्याय्यः एव अयम् स्वरे विप्रतिषेधः । इदम् इह सम्प्रधार्यम् । अनुदात्तत्वम् क्रियताम् उदात्तनिवृत्तिस्वरः इति । किम् अत्र कर्तव्यम् । परत्वात् अनुदात्तत्वम् । अनुदात्तत्वे कृते पुनःप्रसङ्गविज्ञानात् उदात्तनिवृत्तिस्वरः भविष्यति । तत् एतत् क्व सिद्धम् भवति । यत् पित् वचनम् । यत् अपित् वचनम् तत्र न सिध्यति । तत्र अपि सिद्धम् । कथम् इदम् अद्य लसार्वधातुकानुदात्तत्वम् प्रत्ययस्वरस्य अपवादः । न च अपवादविषये उत्सर्गः अभिनिविशते । पूर्वम् हि अपवादाः अभिनिविशन्ते पश्चात् उत्सर्गाः । प्रकल्प्य वा अपवादविषयम् ततः उत्सर्गः अभिनिविशते । तत् न तावत् कदा चित् प्रत्ययस्वरः भवति । अपवादम् लसार्वधातुकनुदात्तत्वम् प्रतीक्षते । तत्र अनुदात्तत्वम् क्रियताम् लोपः इति । यदि अपि परत्वात् लोपः सः असौ अविद्यमानोदात्तत्वे अनुदात्ते उदात्तः लुप्यते । प्रत्ययस्वरापवादः लसार्वधातुकानुदात्तम् । तेन तत्र न प्रसक्तः प्रत्ययस्वरः कदा चित् । प्रत्ययस्वरः तु तासेः वृत्तिसन्नियोगशिष्टः । तेन च अपि असौ उदात्तः लोप्स्यते । तथा न दोषः ।

KA I,501.1-502.24 Ro II,907-911 ḍāvikārasya śitkaraṇam sarvādeśārtham . ḍāvikāraḥ śit kartavyaḥ . kim prayojanam . sarvādeśārtham . śit sarvasya iti sarvādeśaḥ yathā syāt . akriyamāṇe hi śakāre alaḥ antyasya vidhayaḥ bhavanti iti antasya prasajyeta . nighātaprasaṅgaḥ tu . nighātaḥ tu prapnoti . śvaḥ kartā . tāseḥ param lasārvadhātukam anudāttam bhavati iti eṣaḥ svaraḥ prāpnoti . yat tāvat ucyate ḍāvikārasya śitkaraṇam sarvādeśārtham iti . siddham alaḥ antyavikārāt . siddham etat . katham .alaḥ antyavikārāt . astu ayam alaḥ antyasya . kā rūpasiddhiḥ : kartā . ḍiti ṭeḥ lopāt lopaḥ . ḍiti ṭeḥ lopena lopaḥ bhaviṣyati . abhatvāt na prāpnoti . ḍitkaraṇasāmarthyāt bhaviṣyati . anittvāt vā . atha vā anittvāt etat siddham . kim idam anittvāt iti . antyasya ayam sthāne bhavan na pratyayaḥ syāt . asatyām pratyayasañjñāyām itsañjñā na . asatyām itsañjñāyām lopaḥ na . asati lope anekāl . yada anekāl tadā sarvādeśaḥ . yadā sarvādeśaḥ tadā pratyayaḥ . yadā pratyayaḥ tadā itsañjñā . yadā itsañjñā tadā lopaḥ . praśliṣṭanirdeśāt vā . atha vā praśliṣṭanirdeśaḥ ayam . ḍā ā ḍā . saḥ anekālśit sarvasya iti sarvādeśaḥ bhaviṣyati . yadā tarhi ayam antyasya sthāne bhavati tadā tiṅgrahaṇena grahaṇam na prāpnoti . tiṅgrahaṇam ekadeśavikṛtasya ananyatvāt . ekadeśavikṛtam ananyavat bhavati iti tiṅgrahaṇena grahaṇam bhaviṣyati svaraḥ katham . svare vipratiṣedhāt siddham . ḍāraurasaḥ kriyantām anudāttatvam iti kim atra kartavyam . paratvāt anudāttatvam . nityāḥ ḍāraurasaḥ . kṛte api anudāttatve prapnuvanti akṛte api prapnuvanti . anudāttatvam api nityam . kṛteṣu kṛteṣu api ḍāraurassu prāpnoti akṛteṣu api prāpnoti . anityam anudāttatvam . anyasya kṛteṣu ḍāraurassu prāpnoti anyasya akṛteṣu . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ḍāraurasaḥ api anityāḥ . anyathāsvarasya kṛte anudāttatve prāpnuvanti anyathāsvarasya akṛte . svarabhinnasya ca prāpnuvantaḥ anityāḥ bhavanti . ubhayoḥ anityayoḥ paratvāt anudāttatvam . anudāttatve kṛte punaḥprasaṅgavijñātāt ḍāraurasaḥ . ṭilope udāttanivṛttisvareṇa siddham . na sidhyati . kim kāraṇam . antaraṅgatvāt ḍāraurasaḥ . tatra antaraṅgatvāt ḍāraurassu kṛteṣu anudāttatvam kriyatām ṭilopaḥ iti kim atra kartavyam . paratvāt ṭilopena bhavitavyam . evam tarhi svare vipratiṣedhāt siddham . nyāyyaḥ eva ayam svare vipratiṣedhaḥ . idam iha sampradhāryam . anudāttatvam kriyatām udāttanivṛttisvaraḥ iti . kim atra kartavyam . paratvāt anudāttatvam . anudāttatve kṛte punaḥprasaṅgavijñānāt udāttanivṛttisvaraḥ bhaviṣyati . tat etat kva siddham bhavati . yat pit vacanam . yat apit vacanam tatra na sidhyati . tatra api siddham . katham idam adya lasārvadhātukānudāttatvam pratyayasvarasya apavādaḥ . na ca apavādaviṣaye utsargaḥ abhiniviśate . pūrvam hi apavādāḥ abhiniviśante paścāt utsargāḥ . prakalpya vā apavādaviṣayam tataḥ utsargaḥ abhiniviśate . tat na tāvat kadā cit pratyayasvaraḥ bhavati . apavādam lasārvadhātukanudāttatvam pratīkṣate . tatra anudāttatvam kriyatām lopaḥ iti . yadi api paratvāt lopaḥ saḥ asau avidyamānodāttatve anudātte udāttaḥ lupyate . pratyayasvarāpavādaḥ lasārvadhātukānudāttam . tena tatra na prasaktaḥ pratyayasvaraḥ kadā cit . pratyayasvaraḥ tu tāseḥ vṛttisanniyogaśiṣṭaḥ . tena ca api asau udāttaḥ lopsyate . tathā na doṣaḥ .

Sanskrit only: no published translation is held for this verse.