Library·Patanjali: Vyakaranamahabhasya·1·1.3

Patanjali: Vyakaranamahabhasya 1.3

क्अ इ,२५३।२-२५४।१२ रो इइ,१७३-१७८ कुतः अयम् वकारः । यदि तावत् संहितया निर्देशः क्रियते भ्वादयः इति भवितव्यम् । अथ असंहितया भू-आदयः इति भवितव्यम् । अतः उत्तरम् पठति : भूवादीनाम् वकारः अयम् मङ्गलार्थः प्रयुज्यते । माङ्गलिकः आचार्यः महतः शास्त्रौघस्य मङ्गलार्थम् वकारम् आगमम् प्रयुङ्क्ते । मङ्गलादीनि मङ्गलमध्यानि मङ्गलान्तानि हि शास्त्राणि प्रथन्ते वीरपुरुषाणि च भवन्ति आयुष्मत्पुरुषाणि च । अध्येतारः च सिद्धार्थाः यथा स्युः इति । अथ आदिग्रहणम् किमर्थम् । यदि तावत् पठ्यन्ते न अर्थः आदिग्रहणेन । अन्यत्र अपि हि अयम् पठन् आदिग्रहणम् न करोति । क्व अन्यत्र । मृडमृदगुधकुषक्लिशवदवसः क्त्वा इति । अथ न पठ्यन्ते नतराम् अर्थः आदिग्रहणेन । न हि अपठिताः शक्याः आदिग्रहणेन विशेषयितुम् । एवम् तर्हि सिद्धे सति यत् आदिग्रहणम् करोति तत् ज्ञापयति आचार्यः अस्ति च पाठः बाह्यः च सूत्रात् इति । किम् एतस्य ज्ञापने प्रयोजनम् । पाठेन धातुसञ्ज्ञा इति एतत् उपपन्नम् भवति । पाठेन धातुसञ्ज्ञायाम् समानशब्दप्रतिषेधः । पाठेन धातुसञ्ज्ञायाम् समानशब्दानाम् प्रतिषेधः वक्तव्यः । या इति धातुः या इति आबन्तः । वा इति धातुः वा इति निपातः । नु इति धातुः नु इति प्रत्ययः च निपातः च । दिव् इति धातुः दिव् इति प्रातिपदिकम् । किम् च स्यात् यदि एतेषाम् अपि धातुसञ्ज्ञा स्यात् । धातोः इति तव्यादीनाम् उत्पत्तिः प्रसज्येत । न एषः दोषः । साधने तव्यादयः विधीयन्ते साधनम् च क्रियायाः । क्रियाभावात् साधनाभावः । साधनाभावात् सत्याम् अपि धातुसञ्ज्ञायाम् तव्यादयः न भविष्यन्ति । इह तर्हि : याः पश्य : आतः धातोः इति लोपः प्रसज्येत । न एषः दोषः । अनापः इति एवम् सः । अस्य तर्हि वाशब्दस्य निपातस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् । न एषः दोषः । निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् । तत्र अनर्थकग्रहणम् न करिष्यते : निपातः प्रातिपदिकम् इति एव । इह तर्हि : त्रस्नू इति : अचि श्नुधातुभ्रुवाम् य्वोः इयङुवङौ इति उवङादेशः प्रसज्येत । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न प्रत्ययस्य उवङादेशः भवति इति यत् अयम् तत्र श्नुग्रहणम् करोति । अस्य तर्हि दिव्शब्दस्य अधातुः इति प्रातिपदिकसञ्ज्ञायाः प्रतिषेधः प्रसज्येत । अप्रातिपदिकत्वात् स्वाद्युत्पत्तिः न स्यात् । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते दिव्शब्दात् स्वादयः इति यत् अयम् दिवः सौ औत्त्वम् शास्ति । न एतत् अस्ति ज्ञापकम् । अस्ति हि अन्यत् एतस्य वचने प्रयोजनम् । किम् । दिव्शब्दः यत् प्रातिपदिकम् तदर्थम् एतत् स्यात् : अक्षद्यूः इति । न वै अत्र इष्यते । अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति । एवम् तर्हि अननुबन्धकग्रहणे न सानुबन्धकस्य इति एवम् एतस्य न भविष्यति । एवम् अपि अननुबन्धकः दिव्शब्दः न अस्ति इति कृत्वा सानुबन्धकस्य ग्रहणम् विज्ञास्यते । परिमाणग्रहणम् च । परिमाणग्रहणम् च कर्तव्यम् । इयान् अवधिः धातुसञ्ज्ञः भवति इति वक्तव्यम् कुतः हि एतत् भूशब्दः धातुसञ्ज्ञः भविष्यति न पुनः भ्वेध्शब्दः इति ।

KA I,253.2-254.12 Ro II,173-178 kutaḥ ayam vakāraḥ . yadi tāvat saṃhitayā nirdeśaḥ kriyate bhvādayaḥ iti bhavitavyam . atha asaṃhitayā bhū-ādayaḥ iti bhavitavyam . ataḥ uttaram paṭhati : bhūvādīnām vakāraḥ ayam maṅgalārthaḥ prayujyate . māṅgalikaḥ ācāryaḥ mahataḥ śāstraughasya maṅgalārtham vakāram āgamam prayuṅkte . maṅgalādīni maṅgalamadhyāni maṅgalāntāni hi śāstrāṇi prathante vīrapuruṣāṇi ca bhavanti āyuṣmatpuruṣāṇi ca . adhyetāraḥ ca siddhārthāḥ yathā syuḥ iti . atha ādigrahaṇam kimartham . yadi tāvat paṭhyante na arthaḥ ādigrahaṇena . anyatra api hi ayam paṭhan ādigrahaṇam na karoti . kva anyatra . mṛḍamṛdagudhakuṣakliśavadavasaḥ ktvā iti . atha na paṭhyante natarām arthaḥ ādigrahaṇena . na hi apaṭhitāḥ śakyāḥ ādigrahaṇena viśeṣayitum . evam tarhi siddhe sati yat ādigrahaṇam karoti tat jñāpayati ācāryaḥ asti ca pāṭhaḥ bāhyaḥ ca sūtrāt iti . kim etasya jñāpane prayojanam . pāṭhena dhātusañjñā iti etat upapannam bhavati . pāṭhena dhātusañjñāyām samānaśabdapratiṣedhaḥ . pāṭhena dhātusañjñāyām samānaśabdānām pratiṣedhaḥ vaktavyaḥ . yā iti dhātuḥ yā iti ābantaḥ . vā iti dhātuḥ vā iti nipātaḥ . nu iti dhātuḥ nu iti pratyayaḥ ca nipātaḥ ca . div iti dhātuḥ div iti prātipadikam . kim ca syāt yadi eteṣām api dhātusañjñā syāt . dhātoḥ iti tavyādīnām utpattiḥ prasajyeta . na eṣaḥ doṣaḥ . sādhane tavyādayaḥ vidhīyante sādhanam ca kriyāyāḥ . kriyābhāvāt sādhanābhāvaḥ . sādhanābhāvāt satyām api dhātusañjñāyām tavyādayaḥ na bhaviṣyanti . iha tarhi : yāḥ paśya : ātaḥ dhātoḥ iti lopaḥ prasajyeta . na eṣaḥ doṣaḥ . anāpaḥ iti evam saḥ . asya tarhi vāśabdasya nipātasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ prasajyeta . aprātipadikatvāt svādyutpattiḥ na syāt . na eṣaḥ doṣaḥ . nipātasya anarthakasya prātipadikatvam coditam . tatra anarthakagrahaṇam na kariṣyate : nipātaḥ prātipadikam iti eva . iha tarhi : trasnū iti : aci śnudhātubhruvām yvoḥ iyaṅuvaṅau iti uvaṅādeśaḥ prasajyeta . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na pratyayasya uvaṅādeśaḥ bhavati iti yat ayam tatra śnugrahaṇam karoti . asya tarhi divśabdasya adhātuḥ iti prātipadikasañjñāyāḥ pratiṣedhaḥ prasajyeta . aprātipadikatvāt svādyutpattiḥ na syāt . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati utpadyante divśabdāt svādayaḥ iti yat ayam divaḥ sau auttvam śāsti . na etat asti jñāpakam . asti hi anyat etasya vacane prayojanam . kim . divśabdaḥ yat prātipadikam tadartham etat syāt : akṣadyūḥ iti . na vai atra iṣyate . aniṣṭam ca prāpnoti iṣṭam ca na sidhyati . evam tarhi ananubandhakagrahaṇe na sānubandhakasya iti evam etasya na bhaviṣyati . evam api ananubandhakaḥ divśabdaḥ na asti iti kṛtvā sānubandhakasya grahaṇam vijñāsyate . parimāṇagrahaṇam ca . parimāṇagrahaṇam ca kartavyam . iyān avadhiḥ dhātusañjñaḥ bhavati iti vaktavyam kutaḥ hi etat bhūśabdaḥ dhātusañjñaḥ bhaviṣyati na punaḥ bhvedhśabdaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२५४।१३-२५६।१७ रो इइ,१७९-१८५ यदि पुनः क्रियावचनः धातुः इति एतत् लक्षणम् क्रियेत । का पुनः क्रिया । ईहा । का पुनः ईहा । चेष्टा । का पुनः चेष्टा । व्यापारः । सर्वथा भवान् शब्देन एव शब्दान् आचष्टे । न किम् चिद् अर्थजातम् निदर्शयति : एवञ्जातीयिका क्रिया इति । क्रिया नाम इयम् अत्यन्तापरिदृष्टा । अशक्या क्रिया पिण्डीभूता निदर्शयितुम् यथा गर्भः निर्लुठितः । सा असौ अनुमानगम्या । कः असौ अनुमानः । इह सर्वेषु साधनेषु सन्निहितेषु कदा चित् पचति इति एतत् भवति कदाचित् न भवति । यस्मिन् साधने सन्निहिते पचति इति एतत् भवति सा नूनम् क्रिया । अथ वा यया देवदत्तः इह भूत्वा पाटलिपुत्रे भवति सा नूनम् क्रिया । कथम् पुनः ज्ञायते क्रियावचनाः पचादयः इति । यत् एषाम् करोतिना सामानाधिकरण्यम् : किम् करोति । पचति । किम् करिष्यति । पक्ष्यति । किम् अकार्षीत् । अपाक्षीत् इति । तत्र क्रियावचने उपसर्गप्रत्ययप्रतिषेधः । क्रियावचने धातौ उपसर्गप्रत्यययोः प्रतिषेधः वक्तव्यः । पचति प्रपचति । किम् पुनः कारणम् प्राप्नोति । सङ्घातेन अर्थगतेः । सङ्घातेन हि अर्थः गम्यते सप्रकृतिकेन सप्रत्ययकेन सोपसर्गेण च । अस्तिभवतिविद्यतीनाम् धातुत्वम् । अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा वक्तव्या । यथा हि भवता करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा अस्त्यादीनाम् निदर्श्यते । न हि भवति किम् करोति अस्ति इति । प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु । प्रत्ययार्थस्य अव्यतिरेकात् प्रकृत्यन्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति । पचति पठति : प्रकृत्यर्थः अन्यः च अन्यः च । प्रत्ययार्थः सः एव । धातोः च अर्थाभेदात् प्रत्ययान्तरेषु । धातोः च अर्थाभेदात् प्रत्ययान्तरेषु मन्यामहे धातुः एव क्रियाम् आह इति । पक्ता पचनम् पाकः इति : प्रत्ययार्थः अन्यः च अन्यः च भवति । प्रकृत्यर्थः सः एव। कथम् पुनः ज्ञायते अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति । सिद्धम् तु अन्वयव्यतिरेकाभ्याम् । अन्वयात् व्यतिरेकात् च । कः असौ अन्वयः व्यतिरेकः वा । इह पचति इति उक्ते कः चित् शब्दः श्रूयते : पच्शब्दः चकारान्तः अतिशब्दः च प्रत्ययः । अर्थः अपि कः चित् गम्यते : विक्लित्तिः कर्तृत्वम् एकत्वम् च । पठति इति उक्ते कः चित् शब्दः हीयते कः चित् उपजायते कः चित् अन्वयी : पच्शब्दः हीयते पठ्शब्दः उपजायते अतिशब्दः अन्वयी । अर्थः अपि कः चित् हीयते कः चित् उपजायते कः चित् अन्वयी : विक्लित्तिः हीयते पठिक्रिया उपजायते कर्तृत्वम् च एकत्वम् च अन्वयी । ते मन्यामहे : यः शब्दः हीयते तस्य असौ अर्थः यः अर्थः हीयते । यः शब्दः उपजायते तस्य असौ अर्थः यः अर्थः उपजायते । यः शब्दः अन्वयी तस्य असौ अर्थः यः अर्थः अन्वयी । विषमः उपन्यासः । बहवः हि शब्दाः एकार्थाः भवन्ति । तत् यथा : इन्द्रः शक्रः पुरुहूतः पुरन्दरः , कन्दुः कोष्ठः कुशूलः इति । एकः च शब्दः बह्वर्थः । तत् यथा : अक्षाः पादाः माषाः इति । अतः किम् न साधीयः अर्थवत्ता सिद्धा भवति । न अपि ब्रूमः अर्थवत्ता न सिध्यति इति ।वर्णिता अर्थवत्ता अन्वयव्यतिरेकाभ्याम् एव । तत्र कुतः एतत् : अयम् प्रकृत्यर्थः अयम् प्रत्ययार्थः इति न पुनः प्रकृतिः एव उभौ अर्थौ ब्रूयात् प्रत्ययः एव वा । सामान्यशब्दाः एते एवम् स्युः । सामान्यशब्दाः च न अन्तरेण प्रकरणम् विशेषम् वा विशेषेषु अवतिष्ठन्ते । यतः तु खलु नियोगतः पचति इति उक्ते स्वभावतः कस्मिन् चित् विशेषे पचतिशब्दः वर्तते अतः मन्यामहे न इमे सामान्यशब्दाः इति । न चेत् सामान्यशब्दाः प्रकृतिः प्रकृत्यर्थे वर्तते प्रत्ययः प्रत्ययार्थे । क्रियाविशेषकः उपसर्गः । पचति इति क्रिया गम्यते । ताम् प्रः विशिनष्टि । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र धातुः उपसर्गम् व्यभिचरति यत्र न खलु तम् व्यभिचरति तत्र कथम् : अध्येति , अधीते इति । यदि अपि अत्र धातुः उपसर्गम् न व्यभिचरति उपसर्गः तु धातुम् व्यभिचरति । ते मन्यामहे : यः एव अस्य अधेः अन्यत्र अर्थः स इह अपि इति । कः पुनः अन्यत्र अधेः अर्थः । अधिः उपरिभावे वर्तते । इह तर्हि व्यक्तम् अर्थान्तरम् गम्यते : तिष्ठति प्रतिष्ठते इति । तिष्ठति इति व्रजिक्रियायाः निवृत्तिः प्रतिष्ठते इति व्रजिक्रिया गम्यते । ते मन्यामहे उपसर्गकृतम् एतत् येन अत्र व्रजिक्रिया गम्यते । प्रः अयम् दृष्टापचारः आदिकर्मणि वर्तते । न च इदम् न अस्ति बह्वर्थाः अपि धातवः भवन्ति इति । तत् यथा :

KA I,254.13-256.17 Ro II,179-185 yadi punaḥ kriyāvacanaḥ dhātuḥ iti etat lakṣaṇam kriyeta . kā punaḥ kriyā . īhā . kā punaḥ īhā . ceṣṭā . kā punaḥ ceṣṭā . vyāpāraḥ . sarvathā bhavān śabdena eva śabdān ācaṣṭe . na kim cid arthajātam nidarśayati : evañjātīyikā kriyā iti . kriyā nāma iyam atyantāparidṛṣṭā . aśakyā kriyā piṇḍībhūtā nidarśayitum yathā garbhaḥ nirluṭhitaḥ . sā asau anumānagamyā . kaḥ asau anumānaḥ . iha sarveṣu sādhaneṣu sannihiteṣu kadā cit pacati iti etat bhavati kadācit na bhavati . yasmin sādhane sannihite pacati iti etat bhavati sā nūnam kriyā . atha vā yayā devadattaḥ iha bhūtvā pāṭaliputre bhavati sā nūnam kriyā . katham punaḥ jñāyate kriyāvacanāḥ pacādayaḥ iti . yat eṣām karotinā sāmānādhikaraṇyam : kim karoti . pacati . kim kariṣyati . pakṣyati . kim akārṣīt . apākṣīt iti . tatra kriyāvacane upasargapratyayapratiṣedhaḥ . kriyāvacane dhātau upasargapratyayayoḥ pratiṣedhaḥ vaktavyaḥ . pacati prapacati . kim punaḥ kāraṇam prāpnoti . saṅghātena arthagateḥ . saṅghātena hi arthaḥ gamyate saprakṛtikena sapratyayakena sopasargeṇa ca . astibhavatividyatīnām dhātutvam . astibhavatividyatīnām dhātusañjñā vaktavyā . yathā hi bhavatā karotinā pacādīnām sāmānādhikaraṇyam nidarśitam na tathā astyādīnām nidarśyate . na hi bhavati kim karoti asti iti . pratyayārthasya avyatirekāt prakṛtyantareṣu . pratyayārthasya avyatirekāt prakṛtyantareṣu manyāmahe dhātuḥ eva kriyām āha iti . pacati paṭhati : prakṛtyarthaḥ anyaḥ ca anyaḥ ca . pratyayārthaḥ saḥ eva . dhātoḥ ca arthābhedāt pratyayāntareṣu . dhātoḥ ca arthābhedāt pratyayāntareṣu manyāmahe dhātuḥ eva kriyām āha iti . paktā pacanam pākaḥ iti : pratyayārthaḥ anyaḥ ca anyaḥ ca bhavati . prakṛtyarthaḥ saḥ eva. katham punaḥ jñāyate ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti . siddham tu anvayavyatirekābhyām . anvayāt vyatirekāt ca . kaḥ asau anvayaḥ vyatirekaḥ vā . iha pacati iti ukte kaḥ cit śabdaḥ śrūyate : pacśabdaḥ cakārāntaḥ atiśabdaḥ ca pratyayaḥ . arthaḥ api kaḥ cit gamyate : viklittiḥ kartṛtvam ekatvam ca . paṭhati iti ukte kaḥ cit śabdaḥ hīyate kaḥ cit upajāyate kaḥ cit anvayī : pacśabdaḥ hīyate paṭhśabdaḥ upajāyate atiśabdaḥ anvayī . arthaḥ api kaḥ cit hīyate kaḥ cit upajāyate kaḥ cit anvayī : viklittiḥ hīyate paṭhikriyā upajāyate kartṛtvam ca ekatvam ca anvayī . te manyāmahe : yaḥ śabdaḥ hīyate tasya asau arthaḥ yaḥ arthaḥ hīyate . yaḥ śabdaḥ upajāyate tasya asau arthaḥ yaḥ arthaḥ upajāyate . yaḥ śabdaḥ anvayī tasya asau arthaḥ yaḥ arthaḥ anvayī . viṣamaḥ upanyāsaḥ . bahavaḥ hi śabdāḥ ekārthāḥ bhavanti . tat yathā : indraḥ śakraḥ puruhūtaḥ purandaraḥ , kanduḥ koṣṭhaḥ kuśūlaḥ iti . ekaḥ ca śabdaḥ bahvarthaḥ . tat yathā : akṣāḥ pādāḥ māṣāḥ iti . ataḥ kim na sādhīyaḥ arthavattā siddhā bhavati . na api brūmaḥ arthavattā na sidhyati iti .varṇitā arthavattā anvayavyatirekābhyām eva . tatra kutaḥ etat : ayam prakṛtyarthaḥ ayam pratyayārthaḥ iti na punaḥ prakṛtiḥ eva ubhau arthau brūyāt pratyayaḥ eva vā . sāmānyaśabdāḥ ete evam syuḥ . sāmānyaśabdāḥ ca na antareṇa prakaraṇam viśeṣam vā viśeṣeṣu avatiṣṭhante . yataḥ tu khalu niyogataḥ pacati iti ukte svabhāvataḥ kasmin cit viśeṣe pacatiśabdaḥ vartate ataḥ manyāmahe na ime sāmānyaśabdāḥ iti . na cet sāmānyaśabdāḥ prakṛtiḥ prakṛtyarthe vartate pratyayaḥ pratyayārthe . kriyāviśeṣakaḥ upasargaḥ . pacati iti kriyā gamyate . tām praḥ viśinaṣṭi . yadi api tāvat atra etat śakyate vaktum yatra dhātuḥ upasargam vyabhicarati yatra na khalu tam vyabhicarati tatra katham : adhyeti , adhīte iti . yadi api atra dhātuḥ upasargam na vyabhicarati upasargaḥ tu dhātum vyabhicarati . te manyāmahe : yaḥ eva asya adheḥ anyatra arthaḥ sa iha api iti . kaḥ punaḥ anyatra adheḥ arthaḥ . adhiḥ uparibhāve vartate . iha tarhi vyaktam arthāntaram gamyate : tiṣṭhati pratiṣṭhate iti . tiṣṭhati iti vrajikriyāyāḥ nivṛttiḥ pratiṣṭhate iti vrajikriyā gamyate . te manyāmahe upasargakṛtam etat yena atra vrajikriyā gamyate . praḥ ayam dṛṣṭāpacāraḥ ādikarmaṇi vartate . na ca idam na asti bahvarthāḥ api dhātavaḥ bhavanti iti . tat yathā :

Sanskrit only: no published translation is held for this verse.

क्अ इ,२५६।१८-२५८।६ रो इइ,१८५-१९२ यदि पुनः भाववचनः धातुः इति एवम् लक्षणम् क्रियेत । कथम् पुनः ज्ञायते भाववचनाः पचादयः इति । यत् एषाम् भवतिना सामानाधिकरण्यम् : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति । कः पुनः भावः । भवतेः स्वपदार्थः भवनम् भावः इति । यदि भवतेः स्वपदार्थः भवनम् भावः विप्रतिषिद्धानाम् धातुसञ्ज्ञा न प्राप्नोति : भेदः , छेदः । अन्यः हि भावः अन्यः हि अभावः । आतः च अन्यः भावः अन्यः अभावः इति । यः हि यस्य भावम् इच्छति सः न तस्य अभावम् यस्य च अभावम् न तस्य भावम् । पचादीनाम् च धातुसञ्ज्ञा न प्राप्नोति । यथा हि भवता क्रियावचने धातौ करोतिना पचादीनाम् सामानाधिकरण्यम् निदर्शितम् न तथा भाववचने धातौ निदर्श्यते । करोतिः पचाचीनाम् सर्वान् कालान् सर्वान् पुरुषान् सर्वाणि च वचनानि अनुवर्तते । भवतिः पुनः वर्तमानकालम् च एव एकत्वम् च । का तर्हि इयम् वाचोयुक्तिः : भवति पचति , भवति पक्ष्यति , भवति अपाक्षीत् इति । एषा एषा वाचोयुक्तिः : पचादयः क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् यत्र अन्या च अन्या च क्रिया यत्र खलु सा एव क्रिया तत्र कथम् : भवेत् अपि भवेत् , स्यात् अपि स्यात् इति । अत्र अपि अन्यत्वम् अस्ति । कुतः । कालभेदात् साधनभेदात् च । एकस्य अत्र भवतेः भवतिः साधनम् सर्वकालः च प्रत्ययः । अपरस्य बाह्यम् साधनम् वर्तमानकालः च प्रत्ययः । यावता अत्र अपि अन्यत्वम् अस्ति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः इति । किम् कृतम् भवति । विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा भवति । भवेत् विप्रतिषिद्धानाम् धातुसञ्ज्ञा सिद्धा स्यात् प्रातिपदिकानाम् अपि प्राप्नोति : वृक्षः , प्लक्षः इति । किम् कारणम् । एतानि अपि हि भवन्ति । एवम् तर्हि कर्मसाधनः भविष्यति : भाव्यते यः सः भावः इति । क्रिया च एव हि भाव्यते स्वभावसिद्धम् तु द्रव्यम् । एवम् अपि भवेत् केषाम् चित् न स्यात् यानि न भाव्यन्ते । ये तु एते सम्बन्धिशब्दाः तेषाम् प्राप्नोति : माता पिता भ्राता इति । सर्वथा वयम् प्रातिपदिकपर्युदासात् न मुच्यामहे । पठिष्यति हि आचार्यः : भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः इति । यावता पठिष्यति पचादयः च क्रियाः भवतिक्रियायाः कर्त्र्यः भवन्ति इति अस्तु अयम् कर्तृसाधनः : भवति इति भावः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । एतेन एव अभिहितम् सूत्रेण भूवादयः धातवः इति । कथम् । न इदम् आदिग्रहणम् । वदेः अयम् औणादिकः इञ् कर्तृसाधनः : भुवम् वदन्ति इति भूवादयः इति । भाववचने तदर्थप्रत्ययप्रतिषेधः । भाववचने धातौ तदर्थस्य प्रत्ययस्य प्रतिषेधः वक्तव्यः : शिश्ये इति । किम् च स्यात् । अशिति इति आत्त्वम् प्रसज्येत । तत् हि धातोः विहितम् । इतरेतराश्रयम् च प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः । इतरेतराश्रयम् च भवति । का इतरेतराश्रयता । प्रत्यये भाववचनत्वम् तस्मात् च प्रत्ययः । उत्पन्ने हि प्रत्यये भाववचनत्वम् गम्यते सः च तावत् भाववचनात् उत्पन्नः । तत् एतत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि च न प्रकल्पन्ते । सिद्धम् तु नित्यशब्दत्वात् अनाश्रित्य भाववचनत्वम् प्रत्ययः । सिद्धम् एतत् । कथम् । नित्याः शब्दाः । नित्येषु च शब्देषु अनाश्रित्य भाववचनत्वम् प्रत्ययः उत्पद्यते । प्रथमभावग्रहणम् च । प्रथमभावग्रहणम् च कर्तव्यम् । प्रथमम् यः भावम् आह इति । कुतः पुनः प्राथम्यम् । किम् शब्दतः आहोस्वित् अर्थतः । किम् च अतः । यदि शब्दतः सनादीनाम् धातुसञ्ज्ञा न प्राप्नोति : पुत्रीयति वस्त्रीयति इति । अथ अर्थतः सिद्धा सनादीनाम् धातुसञ्ज्ञा सः एव तु दोषः भवति : भाववचने तदर्थप्रत्ययप्रतिषेधः इति । एवम् तर्हि न एव अर्थतः न एव शब्दतः । किम् तर्हि । अभिधानतः । सुमध्यमे अभिधाने यः प्रथमम् भावम् आह।

KA I,256.18-258.6 Ro II,185-192 yadi punaḥ bhāvavacanaḥ dhātuḥ iti evam lakṣaṇam kriyeta . katham punaḥ jñāyate bhāvavacanāḥ pacādayaḥ iti . yat eṣām bhavatinā sāmānādhikaraṇyam : bhavati pacati , bhavati pakṣyati , bhavati apākṣīt iti . kaḥ punaḥ bhāvaḥ . bhavateḥ svapadārthaḥ bhavanam bhāvaḥ iti . yadi bhavateḥ svapadārthaḥ bhavanam bhāvaḥ vipratiṣiddhānām dhātusañjñā na prāpnoti : bhedaḥ , chedaḥ . anyaḥ hi bhāvaḥ anyaḥ hi abhāvaḥ . ātaḥ ca anyaḥ bhāvaḥ anyaḥ abhāvaḥ iti . yaḥ hi yasya bhāvam icchati saḥ na tasya abhāvam yasya ca abhāvam na tasya bhāvam . pacādīnām ca dhātusañjñā na prāpnoti . yathā hi bhavatā kriyāvacane dhātau karotinā pacādīnām sāmānādhikaraṇyam nidarśitam na tathā bhāvavacane dhātau nidarśyate . karotiḥ pacācīnām sarvān kālān sarvān puruṣān sarvāṇi ca vacanāni anuvartate . bhavatiḥ punaḥ vartamānakālam ca eva ekatvam ca . kā tarhi iyam vācoyuktiḥ : bhavati pacati , bhavati pakṣyati , bhavati apākṣīt iti . eṣā eṣā vācoyuktiḥ : pacādayaḥ kriyāḥ bhavatikriyāyāḥ kartryaḥ bhavanti iti . yadi api tāvat atra etat śakyate vaktum yatra anyā ca anyā ca kriyā yatra khalu sā eva kriyā tatra katham : bhavet api bhavet , syāt api syāt iti . atra api anyatvam asti . kutaḥ . kālabhedāt sādhanabhedāt ca . ekasya atra bhavateḥ bhavatiḥ sādhanam sarvakālaḥ ca pratyayaḥ . aparasya bāhyam sādhanam vartamānakālaḥ ca pratyayaḥ . yāvatā atra api anyatvam asti pacādayaḥ ca kriyāḥ bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : bhavati iti bhāvaḥ iti . kim kṛtam bhavati . vipratiṣiddhānām dhātusañjñā siddhā bhavati . bhavet vipratiṣiddhānām dhātusañjñā siddhā syāt prātipadikānām api prāpnoti : vṛkṣaḥ , plakṣaḥ iti . kim kāraṇam . etāni api hi bhavanti . evam tarhi karmasādhanaḥ bhaviṣyati : bhāvyate yaḥ saḥ bhāvaḥ iti . kriyā ca eva hi bhāvyate svabhāvasiddham tu dravyam . evam api bhavet keṣām cit na syāt yāni na bhāvyante . ye tu ete sambandhiśabdāḥ teṣām prāpnoti : mātā pitā bhrātā iti . sarvathā vayam prātipadikaparyudāsāt na mucyāmahe . paṭhiṣyati hi ācāryaḥ : bhūvādipāṭhaḥ prātipadikāṇapayatyādinivṛttyarthaḥ iti . yāvatā paṭhiṣyati pacādayaḥ ca kriyāḥ bhavatikriyāyāḥ kartryaḥ bhavanti iti astu ayam kartṛsādhanaḥ : bhavati iti bhāvaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . etena eva abhihitam sūtreṇa bhūvādayaḥ dhātavaḥ iti . katham . na idam ādigrahaṇam . vadeḥ ayam auṇādikaḥ iñ kartṛsādhanaḥ : bhuvam vadanti iti bhūvādayaḥ iti . bhāvavacane tadarthapratyayapratiṣedhaḥ . bhāvavacane dhātau tadarthasya pratyayasya pratiṣedhaḥ vaktavyaḥ : śiśye iti . kim ca syāt . aśiti iti āttvam prasajyeta . tat hi dhātoḥ vihitam . itaretarāśrayam ca pratyaye bhāvavacanatvam tasmāt ca pratyayaḥ . itaretarāśrayam ca bhavati . kā itaretarāśrayatā . pratyaye bhāvavacanatvam tasmāt ca pratyayaḥ . utpanne hi pratyaye bhāvavacanatvam gamyate saḥ ca tāvat bhāvavacanāt utpannaḥ . tat etat itaretarāśrayam bhavati . itaretarāśrayāṇi ca na prakalpante . siddham tu nityaśabdatvāt anāśritya bhāvavacanatvam pratyayaḥ . siddham etat . katham . nityāḥ śabdāḥ . nityeṣu ca śabdeṣu anāśritya bhāvavacanatvam pratyayaḥ utpadyate . prathamabhāvagrahaṇam ca . prathamabhāvagrahaṇam ca kartavyam . prathamam yaḥ bhāvam āha iti . kutaḥ punaḥ prāthamyam . kim śabdataḥ āhosvit arthataḥ . kim ca ataḥ . yadi śabdataḥ sanādīnām dhātusañjñā na prāpnoti : putrīyati vastrīyati iti . atha arthataḥ siddhā sanādīnām dhātusañjñā saḥ eva tu doṣaḥ bhavati : bhāvavacane tadarthapratyayapratiṣedhaḥ iti . evam tarhi na eva arthataḥ na eva śabdataḥ . kim tarhi . abhidhānataḥ . sumadhyame abhidhāne yaḥ prathamam bhāvam āha.

Sanskrit only: no published translation is held for this verse.

क्अ इ,२५८।७-२१ रो इइ,१९३-१९६ इह ये एव भाववचने धातौ दोषाः ते एव क्रियावचने अपि । तत्र ते एव परिहाराः । तत्र इदम् अपरिहृतम् : अस्तिभवतिविद्यतीनाम् धातुत्वम् इति । तस्य परिहारः । काम् पुनः क्रियाम् भवान् मत्वा आह अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा न प्राप्नोति इति । किम् यत् तत् देवदत्तः कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति । न ब्रूमः कारकाणि क्रिया इति । किम् तर्हि । कारकाणाम् प्रवृत्तिविशेषः क्रिया । अन्यथा च कारकाणि शुष्कौदने प्रवर्तन्ते अन्यथा च मांसौदने । यदि एवम् सिद्धा अस्तिभवतिविद्यतीनाम् धातुसञ्ज्ञा । अन्यथा हि कारकाणि अस्तौ प्रवर्तन्ते अन्यथा हि म्रियतौ । षट् भावविकाराः इति ह स्म आह भगवान् वार्ष्यायणिः : जायते अस्ति विपरिणमते वर्धते अपक्षीयते विनश्यति इति । सर्वथा स्थितः इति अत्र धातुसञ्ज्ञा न प्राप्नोति । बाह्यः हि एभ्यः तिष्ठतिः । एवम् तर्हि क्रियायाः क्रिया निवर्तिका भवति द्रव्यम् द्रव्यस्य निवर्तकम् । एवम् हि कः चित् कम् चित् पृच्छति । किमवस्थः देवदत्तस्य व्याधिः इति । सः आह : वर्धते इति । अपरः आह : अपक्षीयते इति । अपरः आह : स्थितः इति । स्थितः इति उक्ते वर्धतेः च अपक्षीयतेः च निवृत्तिः भवति । अथ वा न अन्तरेण क्रियाम् भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते । अस्त्यादिभिः च अपि भूतभविष्यद्वर्तमानाः कालाः व्यज्यन्ते । अथ वा न अन्यत् प्र्ष्टेन अन्यत् आख्येयम् । तेन न भविष्यति किम् करोति अस्ति इति ।

KA I,258.7-21 Ro II,193-196 iha ye eva bhāvavacane dhātau doṣāḥ te eva kriyāvacane api . tatra te eva parihārāḥ . tatra idam aparihṛtam : astibhavatividyatīnām dhātutvam iti . tasya parihāraḥ . kām punaḥ kriyām bhavān matvā āha astibhavatividyatīnām dhātusañjñā na prāpnoti iti . kim yat tat devadattaḥ kaṃsapātryām pāṇinā odanam bhuṅkte iti . na brūmaḥ kārakāṇi kriyā iti . kim tarhi . kārakāṇām pravṛttiviśeṣaḥ kriyā . anyathā ca kārakāṇi śuṣkaudane pravartante anyathā ca māṃsaudane . yadi evam siddhā astibhavatividyatīnām dhātusañjñā . anyathā hi kārakāṇi astau pravartante anyathā hi mriyatau . ṣaṭ bhāvavikārāḥ iti ha sma āha bhagavān vārṣyāyaṇiḥ : jāyate asti vipariṇamate vardhate apakṣīyate vinaśyati iti . sarvathā sthitaḥ iti atra dhātusañjñā na prāpnoti . bāhyaḥ hi ebhyaḥ tiṣṭhatiḥ . evam tarhi kriyāyāḥ kriyā nivartikā bhavati dravyam dravyasya nivartakam . evam hi kaḥ cit kam cit pṛcchati . kimavasthaḥ devadattasya vyādhiḥ iti . saḥ āha : vardhate iti . aparaḥ āha : apakṣīyate iti . aparaḥ āha : sthitaḥ iti . sthitaḥ iti ukte vardhateḥ ca apakṣīyateḥ ca nivṛttiḥ bhavati . atha vā na antareṇa kriyām bhūtabhaviṣyadvartamānāḥ kālāḥ vyajyante . astyādibhiḥ ca api bhūtabhaviṣyadvartamānāḥ kālāḥ vyajyante . atha vā na anyat prṣṭena anyat ākhyeyam . tena na bhaviṣyati kim karoti asti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२५८।२२-२५९।१४ रो इइ,१९६-१९८ अथ यदि एव क्रियावचनः धातुः इति एषः पक्षः अथ अपि भाववचनः धातुः किम् गतम् एतत् इयता सूत्रेण आहोस्वित् अन्यतरस्मिन् पक्षे भूयः सूत्रम् कर्तव्यम् । गतम् इति आह । कथम् । अयम् आदिशब्दः अस्ति एव व्यवस्थायाम् वर्तते । तत् यथा : देवदत्तादीन् समुपविष्टान् आह : देवदत्तादयः आनीयन्ताम् इति । ते उत्थाप्य आनीयन्ते । अस्ति प्रकारे वर्तते । तत् यथा : देवदत्तादयः आढ्याः अभिरूपाः दर्शनीयाः पक्षवन्तः । देवदत्तप्रकाराः इति गम्यते । प्रत्येकम् च आदिशब्दः परिसमाप्यते । भ्वादयः इति च वादयः इति च । तत् यदा तावत् क्रियावचनः धातुः इति एषः पक्षः तदा भू इति अत्र यः आदिशब्दः सः व्यवस्थायाम् वर्तते वा इति अत्र यः आदिशब्दः सः प्रकारे । भू इति एवमादयः वा इति एवम्प्रकाराः इति । यदा तु भाववचनः धातुः इति एषः पक्षः तदा वा इति अत्र यः आदिशब्दः सः व्यवस्थायाम् भू इति अत्र यः आदिशब्दः सः प्रकारे । वा इति एवमादयः भू इति एवम्प्रकाराः इति । यदि तर्हि लक्षणम् क्रियते न इदानीम् पाठः कर्तव्यः । कर्तव्यः च । किम् प्रयोजनम् । भूवादिपाठः प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः । भूवादिपाठः कर्तव्यः । किम् प्रयोजनम् । प्रातिपदिकाणपयत्यादिनिवृत्त्यर्थः । प्रातिपदिकनिवृत्त्यर्थः आणपयत्यादिनिवृत्त्यर्थः च । के पुनः आणपयत्यादयः । आणपयति वट्टति वड्ढति इति । स्वरानुबन्धज्ञापनाय च । स्वरानुबन्धज्ञापनाय च पाठः कर्तव्यः : स्वरान् अनुबन्धान् च ज्ञास्यामि इति । न हि अन्तरेण पाथम् स्वराः अनुबन्धाः वा शक्याः विज्ञातुम् । ये तु एते न्याय्यविकरणाः उदात्ताः अननुबन्धकाः पठ्यन्ते एतेषाम् पाठः शक्यः अकर्तुम् । एतेषाम् अपि अवश्यम् आणपयत्यादिनिवृत्त्यर्थः पाठः कर्तव्यः । न कर्तव्यः । शिष्टप्रयोगात् आणपयत्यादीनाम् निवृत्तिः भविष्यति । सः च अवश्यम् शिष्टप्रयोगः उपास्यः ये अपि पठ्यन्ते तेषाम् अपि विपर्यासनिवृत्त्यर्थः । लोके हि कृष्यर्थे कसिम् प्रयुञ्जते दृश्यर्थे च दिशिम् ।

KA I,258.22-259.14 Ro II,196-198 atha yadi eva kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ atha api bhāvavacanaḥ dhātuḥ kim gatam etat iyatā sūtreṇa āhosvit anyatarasmin pakṣe bhūyaḥ sūtram kartavyam . gatam iti āha . katham . ayam ādiśabdaḥ asti eva vyavasthāyām vartate . tat yathā : devadattādīn samupaviṣṭān āha : devadattādayaḥ ānīyantām iti . te utthāpya ānīyante . asti prakāre vartate . tat yathā : devadattādayaḥ āḍhyāḥ abhirūpāḥ darśanīyāḥ pakṣavantaḥ . devadattaprakārāḥ iti gamyate . pratyekam ca ādiśabdaḥ parisamāpyate . bhvādayaḥ iti ca vādayaḥ iti ca . tat yadā tāvat kriyāvacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā bhū iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām vartate vā iti atra yaḥ ādiśabdaḥ saḥ prakāre . bhū iti evamādayaḥ vā iti evamprakārāḥ iti . yadā tu bhāvavacanaḥ dhātuḥ iti eṣaḥ pakṣaḥ tadā vā iti atra yaḥ ādiśabdaḥ saḥ vyavasthāyām bhū iti atra yaḥ ādiśabdaḥ saḥ prakāre . vā iti evamādayaḥ bhū iti evamprakārāḥ iti . yadi tarhi lakṣaṇam kriyate na idānīm pāṭhaḥ kartavyaḥ . kartavyaḥ ca . kim prayojanam . bhūvādipāṭhaḥ prātipadikāṇapayatyādinivṛttyarthaḥ . bhūvādipāṭhaḥ kartavyaḥ . kim prayojanam . prātipadikāṇapayatyādinivṛttyarthaḥ . prātipadikanivṛttyarthaḥ āṇapayatyādinivṛttyarthaḥ ca . ke punaḥ āṇapayatyādayaḥ . āṇapayati vaṭṭati vaḍḍhati iti . svarānubandhajñāpanāya ca . svarānubandhajñāpanāya ca pāṭhaḥ kartavyaḥ : svarān anubandhān ca jñāsyāmi iti . na hi antareṇa pātham svarāḥ anubandhāḥ vā śakyāḥ vijñātum . ye tu ete nyāyyavikaraṇāḥ udāttāḥ ananubandhakāḥ paṭhyante eteṣām pāṭhaḥ śakyaḥ akartum . eteṣām api avaśyam āṇapayatyādinivṛttyarthaḥ pāṭhaḥ kartavyaḥ . na kartavyaḥ . śiṣṭaprayogāt āṇapayatyādīnām nivṛttiḥ bhaviṣyati . saḥ ca avaśyam śiṣṭaprayogaḥ upāsyaḥ ye api paṭhyante teṣām api viparyāsanivṛttyarthaḥ . loke hi kṛṣyarthe kasim prayuñjate dṛśyarthe ca diśim .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२५९।१६-२३ रो इइ,१९८-१९९ उपदेशे इति किमर्थम् । अभ्रे आं अपः : उद्देशे यः अनुनासिकः तस्य मा भूत् इति । कः पुनः उद्देशोपदेशयोः विशेषः । प्रत्यक्षम् आख्यानम् उपदेशः , गुणैः प्रापणम् उद्देशः । प्रत्यक्षम् तावत् आख्यानम् उपदेशः । तत् यथा : अगोज्ञाय कः चित् गाम् सख्थनि कर्णे वा गृहीत्वा उपदिशति : अयम् गौः इति । सः प्रत्यक्षम् आख्यातम् आह : उपदिष्टः मे गौः इति । गुणैः प्रापणम् उद्देशः । तत् यथा : कः चित् कम् चित् आह : देवदत्तम् मे भवान् उद्दिशतु इति । सः इहस्थः पाटलिपुत्रस्थम् देवदत्तम् उद्दिशति : अङ्गदी कुण्डली किरीटी व्यूढोरस्कः वृत्तबाहुः लोहिताक्षः तुङ्गनासः चित्राभरणः ईदृशः देवदत्तः इति । सः गुणैः प्राप्यमाणम् आह : उद्दिष्टः मे देवदत्तः इति ।

KA I,259.16-23 Ro II,198-199 upadeśe iti kimartham . abhre āṃ apaḥ : uddeśe yaḥ anunāsikaḥ tasya mā bhūt iti . kaḥ punaḥ uddeśopadeśayoḥ viśeṣaḥ . pratyakṣam ākhyānam upadeśaḥ , guṇaiḥ prāpaṇam uddeśaḥ . pratyakṣam tāvat ākhyānam upadeśaḥ . tat yathā : agojñāya kaḥ cit gām sakhthani karṇe vā gṛhītvā upadiśati : ayam gauḥ iti . saḥ pratyakṣam ākhyātam āha : upadiṣṭaḥ me gauḥ iti . guṇaiḥ prāpaṇam uddeśaḥ . tat yathā : kaḥ cit kam cit āha : devadattam me bhavān uddiśatu iti . saḥ ihasthaḥ pāṭaliputrastham devadattam uddiśati : aṅgadī kuṇḍalī kirīṭī vyūḍhoraskaḥ vṛttabāhuḥ lohitākṣaḥ tuṅganāsaḥ citrābharaṇaḥ īdṛśaḥ devadattaḥ iti . saḥ guṇaiḥ prāpyamāṇam āha : uddiṣṭaḥ me devadattaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२५९।२४-२६१।३ रो इइ,१९९-२०२ इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् । इत्सञ्ज्ञायाम् सर्वप्रसङ्गः । सर्वस्य अनुनासिकस्य इत्सञ्ज्ञा प्राप्नोति । अस्य अपि प्राप्नोति : अभ्रे आं अपः । किम् कारणम् । अविशेषात् । न हि कः चित् विशेषः : उपादीयते एवञ्जातीयकस्य अनुनासिकस्य इत्सञ्ज्ञा भवति इति । अनुपादीयमाने विशेषे सर्वप्रसङ्गः । किम् उच्यते अनुपादीयमाने विशेषे इति । कथम् न नाम उपादीयते यदा उपदेशे इति उच्यते । लक्षणेन हि उपदेशः । सङ्कीर्णौ उद्देशोपदेशौ । प्रत्यक्षम् आख्यानम् उद्देशः गुणैः च प्रापणम् उपदेशः । प्रत्यक्षम् तावत् आख्यानम् उद्देशः । तत् यथा : कः चित् कम् चित् आह : अनुवाकम् मे भवान् उद्दिशतु इति । सः तस्मै आचष्टे : इषेत्वकम् अधीष्व । शन्नोदेवीयम् अधीष्व इति । सः प्रत्यक्षम् आख्यातम् आह : उद्दिष्टः मे अनुवाकः । तम् अध्येष्ये इति । गुणैः च प्रापणम् उपदेशः । तत् यथा : कः चित् कम् चित् आह : ग्रामन्तरम् गमिष्यामि । पन्थानम् मे भवान् उपदिशतु इति । सः तस्मै आचष्टे : अमुष्मिन् अवकाशे हस्तदक्षिणः ग्रहीतव्यः , अमुष्मिन् हस्तवामः इति । सः गुणैः प्राप्यमाणम् आह : उपदिष्टः मे पन्थाः इति । एवम् एतौ सङ्कीर्णौ उद्देशोपदेशौ । एवम् तर्हि इत्कार्याभावात् इत्सञ्ज्ञा न भविष्यति । ननु च लोपः एव इत्कार्यम् स्यात् । अकार्यम् लोपः । इह हि शब्दस्य द्व्यर्थः उपदेशः । कार्यार्थः वा भवति उपदेशः श्रवणार्थः वा । कार्यम् च इह न अस्ति । कार्ये च असति यदि श्रवणम् अपि न स्यात् उपदेशः अनर्थकः स्यात् । इदम् अस्ति इत्कार्यम् : अभ्रे आं अटितः : अनन्तरलक्षणायाम् इत्सञ्ज्ञायाम् सत्याम् आदितः च इति इट्प्रतिषेधः प्रसज्येत । सिद्धम् तु उपदेशने अनुनासिकवचनात् । सिद्धम् एतत् कथम् । उपदेशने यः अनुनासिकः सः इत्सञ्ज्ञः भवति इति वक्तव्यम् । किम् पुनः उपदेशनम् । शास्त्रम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् इत्सञ्ज्ञायाम् सर्वप्रसङ्गः अविशेषात् इति । न एषः दोषः । उपदेशः इति घञ् अयम् करणसाधनः । न सिध्यति । परत्वात् ल्युट् प्राप्नोति । न ब्रूमः अकर्तरि च कारके सञ्ज्ञायाम् इति । किम् तर्हि । हलः च इति । तत्र अपि सञ्ज्ञायाम् इति वर्तते । न च एषा सञ्ज्ञा । प्रायवचनात् असञ्ज्ञायाम् अपि भविष्यति । प्रायवचनात् सञ्ज्ञायाम् एव स्यात् वा न वा । न हि उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् । यदि न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् कल्याण्यादीनाम् इनङ् कुलटायाः वा इनङ् विभाषा न प्राप्नोति । इनङ् एव अत्र प्रधानम् । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । इह तर्हि : वाकिनादीनाम् कुक् च पुत्रात् अन्यतरस्याम् इति कुक् विभाषा न प्राप्नोति । अत्र अपि कुक् एव प्रधानम् । विहितः प्रत्ययः प्रकृतः च अनुवर्तते । एवम् न च इदम् अकृतम् भवति न उपाधेः उपाधिः भवति विशेषणस्य वा विशेषणम् इति न च कः चित् दोषः भवति । एवम् च कृत्वा घञ् न प्राप्नोति । एवम् तर्हि कृत्यल्युटः बहुलम् इति एवम् अत्र घञ् भविष्यति ।

KA I,259.24-261.3 Ro II,199-202 itsañjñāyām sarvaprasaṅgaḥ aviśeṣāt . itsañjñāyām sarvaprasaṅgaḥ . sarvasya anunāsikasya itsañjñā prāpnoti . asya api prāpnoti : abhre āṃ apaḥ . kim kāraṇam . aviśeṣāt . na hi kaḥ cit viśeṣaḥ : upādīyate evañjātīyakasya anunāsikasya itsañjñā bhavati iti . anupādīyamāne viśeṣe sarvaprasaṅgaḥ . kim ucyate anupādīyamāne viśeṣe iti . katham na nāma upādīyate yadā upadeśe iti ucyate . lakṣaṇena hi upadeśaḥ . saṅkīrṇau uddeśopadeśau . pratyakṣam ākhyānam uddeśaḥ guṇaiḥ ca prāpaṇam upadeśaḥ . pratyakṣam tāvat ākhyānam uddeśaḥ . tat yathā : kaḥ cit kam cit āha : anuvākam me bhavān uddiśatu iti . saḥ tasmai ācaṣṭe : iṣetvakam adhīṣva . śannodevīyam adhīṣva iti . saḥ pratyakṣam ākhyātam āha : uddiṣṭaḥ me anuvākaḥ . tam adhyeṣye iti . guṇaiḥ ca prāpaṇam upadeśaḥ . tat yathā : kaḥ cit kam cit āha : grāmantaram gamiṣyāmi . panthānam me bhavān upadiśatu iti . saḥ tasmai ācaṣṭe : amuṣmin avakāśe hastadakṣiṇaḥ grahītavyaḥ , amuṣmin hastavāmaḥ iti . saḥ guṇaiḥ prāpyamāṇam āha : upadiṣṭaḥ me panthāḥ iti . evam etau saṅkīrṇau uddeśopadeśau . evam tarhi itkāryābhāvāt itsañjñā na bhaviṣyati . nanu ca lopaḥ eva itkāryam syāt . akāryam lopaḥ . iha hi śabdasya dvyarthaḥ upadeśaḥ . kāryārthaḥ vā bhavati upadeśaḥ śravaṇārthaḥ vā . kāryam ca iha na asti . kārye ca asati yadi śravaṇam api na syāt upadeśaḥ anarthakaḥ syāt . idam asti itkāryam : abhre āṃ aṭitaḥ : anantaralakṣaṇāyām itsañjñāyām satyām āditaḥ ca iti iṭpratiṣedhaḥ prasajyeta . siddham tu upadeśane anunāsikavacanāt . siddham etat katham . upadeśane yaḥ anunāsikaḥ saḥ itsañjñaḥ bhavati iti vaktavyam . kim punaḥ upadeśanam . śāstram . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam itsañjñāyām sarvaprasaṅgaḥ aviśeṣāt iti . na eṣaḥ doṣaḥ . upadeśaḥ iti ghañ ayam karaṇasādhanaḥ . na sidhyati . paratvāt lyuṭ prāpnoti . na brūmaḥ akartari ca kārake sañjñāyām iti . kim tarhi . halaḥ ca iti . tatra api sañjñāyām iti vartate . na ca eṣā sañjñā . prāyavacanāt asañjñāyām api bhaviṣyati . prāyavacanāt sañjñāyām eva syāt vā na vā . na hi upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam . yadi na upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam kalyāṇyādīnām inaṅ kulaṭāyāḥ vā inaṅ vibhāṣā na prāpnoti . inaṅ eva atra pradhānam . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . iha tarhi : vākinādīnām kuk ca putrāt anyatarasyām iti kuk vibhāṣā na prāpnoti . atra api kuk eva pradhānam . vihitaḥ pratyayaḥ prakṛtaḥ ca anuvartate . evam na ca idam akṛtam bhavati na upādheḥ upādhiḥ bhavati viśeṣaṇasya vā viśeṣaṇam iti na ca kaḥ cit doṣaḥ bhavati . evam ca kṛtvā ghañ na prāpnoti . evam tarhi kṛtyalyuṭaḥ bahulam iti evam atra ghañ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६१।५-१५ रो इइ,२०२-२०३ हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् । हलन्त्ये सर्व्प्रसङ्गः । सर्वस्य हलः इत्सञ्ज्ञा प्राप्नोति । किम् कारणम् । सर्वान्त्यत्वात् । सर्वः हि हल् तम् तम् अवधिम् प्रति अन्त्यः भवति । सिद्धम् तु व्यवसितान्त्यत्वात् । सिद्धम् एतत् । कथम् । व्यवसितान्त्यत्वात् । व्यवसितान्त्यः हल् इत्सञ्ज्ञः भवति इति वक्तव्यम् । के पुनः व्यवसिताः । धातुप्रातिपदिकप्रत्ययनिपातागमादेशाः । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् हलन्त्ये सर्व्प्रसङ्गः सर्वान्त्यत्वात् इति । न एषः दोषः । आह अयम् हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति । सर्वः च हल् तम् तम् अवधिम् प्रति अन्त्यः भवति । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः अन्त्यः इति । कः च साधीयः । यः व्यवसितान्त्यः । अथ वा सापेक्षः अयम् निर्देशः क्रियते । न च अन्यत् किम् चित् अपेक्ष्यम् अस्ति । ते व्यवसितम् एव अपेक्षिष्यामहे ।

KA I,261.5-15 Ro II,202-203 halantye sarvprasaṅgaḥ sarvāntyatvāt . halantye sarvprasaṅgaḥ . sarvasya halaḥ itsañjñā prāpnoti . kim kāraṇam . sarvāntyatvāt . sarvaḥ hi hal tam tam avadhim prati antyaḥ bhavati . siddham tu vyavasitāntyatvāt . siddham etat . katham . vyavasitāntyatvāt . vyavasitāntyaḥ hal itsañjñaḥ bhavati iti vaktavyam . ke punaḥ vyavasitāḥ . dhātuprātipadikapratyayanipātāgamādeśāḥ . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam halantye sarvprasaṅgaḥ sarvāntyatvāt iti . na eṣaḥ doṣaḥ . āha ayam hal antyam itsañjñam bhavati iti . sarvaḥ ca hal tam tam avadhim prati antyaḥ bhavati . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ antyaḥ iti . kaḥ ca sādhīyaḥ . yaḥ vyavasitāntyaḥ . atha vā sāpekṣaḥ ayam nirdeśaḥ kriyate . na ca anyat kim cit apekṣyam asti . te vyavasitam eva apekṣiṣyāmahe .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६१।१६-२६२।३ रो इइ,२०३-२०५ लकारस्य अनुबन्धाज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः । लकारस्य अनुबन्धत्वेन अज्ञापितत्वात् हल्ग्रहणाप्रसिद्धिः । हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति उच्यते । लकारस्य एव तावत् इत्सञ्ज्ञा न प्राप्नोति । सिद्धम् तु लकारनिर्देशात् । सिद्धम् एतत् । कथम् । लकारनिर्देशः कर्तव्यः । हल् अन्त्यम् इत्सञ्ज्ञम् भवति लकारः च इति वक्तव्यम् । एकशेषनिर्देशात् वा । अथ वा एकशेषनिर्देशः अयम् । हल् च हल् च हल् । हल् अन्त्यम् इत्सञ्ज्ञम् भवति इति । अथ वा ऌकारस्य एव इदम् गुणभूतस्य ग्रहणम् । तत्र उपदेशे अच् अनुनासिक इत् इति इत्सञ्ज्ञा भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति भवति लकारस्य इत्सञ्ज्ञा इति यत् अयम् णलम् लितम् करोति ।

KA I,261.16-262.3 Ro II,203-205 lakārasya anubandhājñāpitatvāt halgrahaṇāprasiddhiḥ . lakārasya anubandhatvena ajñāpitatvāt halgrahaṇāprasiddhiḥ . hal antyam itsañjñam bhavati iti ucyate . lakārasya eva tāvat itsañjñā na prāpnoti . siddham tu lakāranirdeśāt . siddham etat . katham . lakāranirdeśaḥ kartavyaḥ . hal antyam itsañjñam bhavati lakāraḥ ca iti vaktavyam . ekaśeṣanirdeśāt vā . atha vā ekaśeṣanirdeśaḥ ayam . hal ca hal ca hal . hal antyam itsañjñam bhavati iti . atha vā ḷkārasya eva idam guṇabhūtasya grahaṇam . tatra upadeśe ac anunāsika it iti itsañjñā bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati bhavati lakārasya itsañjñā iti yat ayam ṇalam litam karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६२।४-१७ रो इइ,२०५-२०७ प्रातिपदिकप्रतिषेधः अकृत्तद्धिते । अकृत्तद्धितान्तस्य प्रातिपदिकस्य प्रतिषेधः वक्तव्यः । उदश्वित् शक्र्ट् इति । अकृत्तद्धितान्तस्य इति किमर्थम् । कुम्भकारः नगरकारः औपगवः कापटवः । इदर्थाभावात् सिद्धम् । इत्कार्याभावात् अत्र इत्सञ्ज्ञ न भविष्यति । इदम् अस्ति इत्कार्यम् तित्स्वरितम् इति स्वरितत्वम् यथा स्यात् । न एतत् अस्ति । प्रत्ययग्रहणम् तत्र चोदयिष्यति । इदम् तर्हि : राजा तक्षा । ञ्निति आद्युदात्तत्वम् यथा स्यात् । ञ्निति इति उच्यते । तत्र व्यपवर्गाभावात् न भविष्यति । इदम् तर्हि स्वः । उपोत्तमम् रिति एषः स्वरः यथा स्यात् । स्वरितकरणसामर्थ्यात् न भविष्यति । न्यङ्स्वरौ स्व्रितौ इति । इह तर्हि अन्तः । उत्तमशब्दः त्रिप्रभृतिषु वर्तते । न च अत्र त्रिप्रभृतयः सन्ति । इह तर्हि सनुतः । उपोत्तमम् रिति इति एषः स्वरः यथा स्यात् । अन्तोदात्तनिपातनम् करिष्यते । सः च निपातस्वरः रित्स्वरस्य बाधकः भविष्यति । एतत् च अत्र युक्तम् यत् इत्कार्याभावात् इत्सञ्ज्ञा न स्यात् । यत्र इत्कार्यम् भवति भवति तत्र इत्सञ्ज्ञा । तत् यथा आगस्त्यकौण्डिन्ययोः अगस्तिकुण्डिनच् ।

KA I,262.4-17 Ro II,205-207 prātipadikapratiṣedhaḥ akṛttaddhite . akṛttaddhitāntasya prātipadikasya pratiṣedhaḥ vaktavyaḥ . udaśvit śakrṭ iti . akṛttaddhitāntasya iti kimartham . kumbhakāraḥ nagarakāraḥ aupagavaḥ kāpaṭavaḥ . idarthābhāvāt siddham . itkāryābhāvāt atra itsañjña na bhaviṣyati . idam asti itkāryam titsvaritam iti svaritatvam yathā syāt . na etat asti . pratyayagrahaṇam tatra codayiṣyati . idam tarhi : rājā takṣā . ñniti ādyudāttatvam yathā syāt . ñniti iti ucyate . tatra vyapavargābhāvāt na bhaviṣyati . idam tarhi svaḥ . upottamam riti eṣaḥ svaraḥ yathā syāt . svaritakaraṇasāmarthyāt na bhaviṣyati . nyaṅsvarau svritau iti . iha tarhi antaḥ . uttamaśabdaḥ triprabhṛtiṣu vartate . na ca atra triprabhṛtayaḥ santi . iha tarhi sanutaḥ . upottamam riti iti eṣaḥ svaraḥ yathā syāt . antodāttanipātanam kariṣyate . saḥ ca nipātasvaraḥ ritsvarasya bādhakaḥ bhaviṣyati . etat ca atra yuktam yat itkāryābhāvāt itsañjñā na syāt . yatra itkāryam bhavati bhavati tatra itsañjñā . tat yathā āgastyakauṇḍinyayoḥ agastikuṇḍinac .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६२।१९-२६३।९ रो इइ,२०७-२०९ विभक्तौ तवर्गप्रतिषेधः अतद्धिते । विभक्तौ तवर्गप्रतिषेधः अतद्धिते इति वक्तव्यम् । इह मा भूत् । किमः अत् क्वे प्रेप्सन् दीप्यसे क्व अर्धमासाः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । आचार्यप्रवृत्तिः ज्ञापायति न विभक्तौ तद्धिते प्रतिषेधः भवति इति यत् अयम् इदमः थमुः इति मकारस्ये इत्सञ्ज्ञापरित्राणार्थम् उकारम् अनुबन्धम् करोति । यदि एतत् ज्ञाप्यते इदानीम् इति अत्र अपि प्राप्नोति । इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति । इदम् अस्ति इत्कार्यम् मित् अचः अन्त्यात् परः इति अचाम् अन्त्यात् परः यथा स्यात् । इश्भावे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा । सः एव तावत् इश्भावः न प्राप्नोति । किम् कारणम् । प्राक् दिशः प्रत्ययेषु इति उच्यते । कः पुनः अर्हति इश्भावम् प्राग् दिशः प्रत्ययेषु वक्तुम् । किम् तर्हि । प्राक् दिशः अर्थेषु इश्भावः किंसर्वनामबहुभ्यः अद्व्यादिभ्यः प्रत्ययोत्पत्तिः । एवम् तर्हि तदः अपि अयम् वक्तव्यः । तदः च मित् अचः अन्त्यात् परत्वेन न सिध्यति । ननु च अत्र अपि अत्वे कृते न अस्ति विशेषः मित् अचः अन्त्यात् परः इति वा परत्वे प्रत्ययः परः इति वा । तत् हि अत्त्वम् न प्राप्नोति । किम् कारणम् । विभक्तौ इति उच्यते । एवम् तर्हि यकारान्तः दानीम् करिष्यते । किम् यकारः न श्रूयते । लुप्तनिर्दिष्टः यकारः ।

KA I,262.19-263.9 Ro II,207-209 vibhaktau tavargapratiṣedhaḥ ataddhite . vibhaktau tavargapratiṣedhaḥ ataddhite iti vaktavyam . iha mā bhūt . kimaḥ at kve prepsan dīpyase kva ardhamāsāḥ iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . ācāryapravṛttiḥ jñāpāyati na vibhaktau taddhite pratiṣedhaḥ bhavati iti yat ayam idamaḥ thamuḥ iti makārasye itsañjñāparitrāṇārtham ukāram anubandham karoti . yadi etat jñāpyate idānīm iti atra api prāpnoti . itkāryābhāvāt atra itsañjñā na bhaviṣyati . idam asti itkāryam mit acaḥ antyāt paraḥ iti acām antyāt paraḥ yathā syāt . iśbhāve kṛte na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti vā paratve pratyayaḥ paraḥ iti vā . saḥ eva tāvat iśbhāvaḥ na prāpnoti . kim kāraṇam . prāk diśaḥ pratyayeṣu iti ucyate . kaḥ punaḥ arhati iśbhāvam prāg diśaḥ pratyayeṣu vaktum . kim tarhi . prāk diśaḥ artheṣu iśbhāvaḥ kiṃsarvanāmabahubhyaḥ advyādibhyaḥ pratyayotpattiḥ . evam tarhi tadaḥ api ayam vaktavyaḥ . tadaḥ ca mit acaḥ antyāt paratvena na sidhyati . nanu ca atra api atve kṛte na asti viśeṣaḥ mit acaḥ antyāt paraḥ iti vā paratve pratyayaḥ paraḥ iti vā . tat hi attvam na prāpnoti . kim kāraṇam . vibhaktau iti ucyate . evam tarhi yakārāntaḥ dānīm kariṣyate . kim yakāraḥ na śrūyate . luptanirdiṣṭaḥ yakāraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६३।११-१८ रो इइ,२०९ चुञ्चुप्चणपोः चकारप्रतिषेधः । चुञ्चुप्चणपोः चकारस्य प्रतिषेधः वक्तव्यः । केशचुञ्चुः केशचणः । इत्कार्याभावात् सिद्धम् । इत्कार्याभावात् अत्र इत्सञ्ज्ञा न भविष्यति । इदम् अस्ति इत्कार्यम् चितः अन्तः उदात्तः भवति इति अन्तोदात्तत्वम् यथा स्यात् । पित्करणम् इदानीम् किमर्थम् स्यात् । पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् । पित्करणम् किमर्थम् इति चेत् पर्यायार्थम् एतत् स्यात् । एवम् तर्हि यकारादी चुञ्चुप्चणपौ । किम् यकारः न श्रूयते । लुप्तनिर्दिष्टः यकारः ।

KA I,263.11-18 Ro II,209 cuñcupcaṇapoḥ cakārapratiṣedhaḥ . cuñcupcaṇapoḥ cakārasya pratiṣedhaḥ vaktavyaḥ . keśacuñcuḥ keśacaṇaḥ . itkāryābhāvāt siddham . itkāryābhāvāt atra itsañjñā na bhaviṣyati . idam asti itkāryam citaḥ antaḥ udāttaḥ bhavati iti antodāttatvam yathā syāt . pitkaraṇam idānīm kimartham syāt . pitkaraṇam kimartham iti cet paryāyārtham . pitkaraṇam kimartham iti cet paryāyārtham etat syāt . evam tarhi yakārādī cuñcupcaṇapau . kim yakāraḥ na śrūyate . luptanirdiṣṭaḥ yakāraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६३।१९-२६४।१० रो इइ,२१०-२११ इरः उपसङ्ख्यानम् । इरः उपसङ्ख्यानम् कर्तव्यम् : रुधिर् : अरुधत् , अरौत्सीत् । अवयवग्रहणात् सिद्धम् । रेफस्य अत्र हलन्त्यम् इति इत्सञ्ज्ञा भविष्यति इकारस्य उपदेशे अच् अनुनासिकः इति । अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः । अवयवग्रहणात् इति चेत् इदिद्विधिप्रसङ्गः प्राप्नोति । भेत्ता छेत्ता । इदितः नुम् धातोः इति नुम् प्राप्नोति । यदि पुनः अयम् इदिद्विधिः कुम्भीधान्यन्यायेन विज्ञायेत । तत् यथा । कुम्भीधान्यः श्रोत्रियः इति उच्यते । यस्य कुम्भ्याम् एव धान्यम् सः कुम्भीधान्यः । यस्य पुनः कुम्भ्याम् च अन्यत्र च न असौ कुम्भीधान्यः । न अयम् इदिद्विधिः कुम्भीधान्यन्यायेन शक्यः विज्ञातुम् । इह हि दोषः स्यात् । टुनदि नन्दथुः इति । एवम् तर्हि न एवम् विज्ञायते इकारः इत् यस्य सः अयम् इदित् तस्य इदितः इति । कथम् तर्हि । इकारः एव इत् इदित् इदिदन्तस्य इति । अथ वा ॠकारस्य एव इदम् इर्त्वभूतस्य ग्रहणम् । तत्र उपदेशे अच् अनुनासिकः इत् इति इत्सञ्ज्ञा भविष्यति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति न एवञ्जातीयकानाम् इदिद्विधिः भवति इति यत् अयम् इरितः कान् चित् नुमनुषक्तान् पठति । उबुन्दिर् निशामने । स्कन्दिर् गतिशोषणयोः । अथ वा आचार्यप्रवृत्तिः ज्ञापयति इर्शब्दस्य इत्सञ्ज्ञा भवति इति यत् अयम् इरितः वा इति आह । अथ वा अन्ते इति वर्तते ।

KA I,263.19-264.10 Ro II,210-211 iraḥ upasaṅkhyānam . iraḥ upasaṅkhyānam kartavyam : rudhir : arudhat , arautsīt . avayavagrahaṇāt siddham . rephasya atra halantyam iti itsañjñā bhaviṣyati ikārasya upadeśe ac anunāsikaḥ iti . avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ . avayavagrahaṇāt iti cet ididvidhiprasaṅgaḥ prāpnoti . bhettā chettā . iditaḥ num dhātoḥ iti num prāpnoti . yadi punaḥ ayam ididvidhiḥ kumbhīdhānyanyāyena vijñāyeta . tat yathā . kumbhīdhānyaḥ śrotriyaḥ iti ucyate . yasya kumbhyām eva dhānyam saḥ kumbhīdhānyaḥ . yasya punaḥ kumbhyām ca anyatra ca na asau kumbhīdhānyaḥ . na ayam ididvidhiḥ kumbhīdhānyanyāyena śakyaḥ vijñātum . iha hi doṣaḥ syāt . ṭunadi nandathuḥ iti . evam tarhi na evam vijñāyate ikāraḥ it yasya saḥ ayam idit tasya iditaḥ iti . katham tarhi . ikāraḥ eva it idit ididantasya iti . atha vā ṝkārasya eva idam irtvabhūtasya grahaṇam . tatra upadeśe ac anunāsikaḥ it iti itsañjñā bhaviṣyati . atha vā ācāryapravṛttiḥ jñāpayati na evañjātīyakānām ididvidhiḥ bhavati iti yat ayam iritaḥ kān cit numanuṣaktān paṭhati . ubundir niśāmane . skandir gatiśoṣaṇayoḥ . atha vā ācāryapravṛttiḥ jñāpayati irśabdasya itsañjñā bhavati iti yat ayam iritaḥ vā iti āha . atha vā ante iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६४।१२-२० रो इइ,२११-२१२ तस्यग्रहणम् किमर्थम् । इत्सञ्ज्ञकः प्रतिनिर्दिश्यते । न एतत् अस्ति प्रयोजनम् । प्रकृतम् इत् इति वर्तते । क्व प्रकृतम् । उपदेशे अच् अनुनासिकः इत् इति । तत् वै प्रथमानिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । अर्थात् विभक्तिविपरिणामः भविष्यति । तत् यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनम् । देवदत्तम् इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यम् इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति । एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति । इदम् तर्हि प्रयोजनम् । ये अनेकालः इत्सञ्ज्ञाः तेषाम् लोपः सर्वादेशः यथा स्यात् । अथ क्रियमाणे अपि च तस्यग्रहणे कथम् इव लोपः सर्वादेशः लभ्यः । लभ्यः इति आह । कुतः । वचनप्रामाण्यात् । तस्यग्रहणसामर्थ्यात् ।

KA I,264.12-20 Ro II,211-212 tasyagrahaṇam kimartham . itsañjñakaḥ pratinirdiśyate . na etat asti prayojanam . prakṛtam it iti vartate . kva prakṛtam . upadeśe ac anunāsikaḥ it iti . tat vai prathamānirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāvaḥ aśvāḥ hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati . idam tarhi prayojanam . ye anekālaḥ itsañjñāḥ teṣām lopaḥ sarvādeśaḥ yathā syāt . atha kriyamāṇe api ca tasyagrahaṇe katham iva lopaḥ sarvādeśaḥ labhyaḥ . labhyaḥ iti āha . kutaḥ . vacanaprāmāṇyāt . tasyagrahaṇasāmarthyāt .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६४।२१-२६५।१७ रो इइ,२१२-२१४ इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् इत्प्रतिषेधात् । इतः लोपे णल्क्त्वानिष्ठासु उपसङ्ख्यानम् कर्तव्यम् । णल् । अहम् पपच । क्त्वा । देवित्वा सेवित्वा । निष्ठा । शयितः शयितवान् । किम् पुनः कारणम् न सिध्यति । इत्प्रतिषेधात् । प्रतिषिध्यते अत्र इत्सञ्ज्ञा । णल् उत्तमः णित् वा भवति । क्त्वा सेट् न कित् भवति । निष्ठा सेट् न कित् भवति इति । सिद्धम् तु णलादीनाम् ग्रहणप्रतिषेधात् । सिद्धम् एतत् । कथम् । णलादीनाम् ग्रहणानि प्रतिषिधन्ते । णल् उत्तमः वा णिद्ग्रहणेन गृह्यते । क्त्वा सेट् न किद्ग्रहणेन गृह्यते । निष्ठा सेट् न किद्ग्रहणेन गृह्यते इति । निर्दिष्टलोपात् वा । निर्दिष्टलोपात् वा सिद्धम् एव । अथ वा निर्दिष्टस्य अयम् लोपः क्रियते । तस्मात् सिद्धम् एतत् । तत्र तुस्मानाम् प्रतिषेधः । तत्र तुस्मानाम् प्रतिषेधः वक्तव्यः । तस्मात् तस्मिन् यस्मात् यस्मिन् वृक्षाः प्लक्षाः अचिनवम् असुनवम् अकरवम् । न वा उच्चारणसामर्थ्यात् । न वा वक्तव्यः । किम् कारणम् । उच्चारणसामर्थ्यात् अत्र लोपः न भविष्यति । अनुबन्धलोपे भावाभावयोः विप्रतिषेधात् अप्रसिद्धिः । अनुबन्धलोपे भावाभावयोः विरोधात् अप्रसिद्धिः । न ज्ञायते केन अभिप्रायेण प्रसजति केन निवृत्तिम् करोति इति । सिद्धम् तु अपवादन्यायेन । सिद्धम् एतत् । कथम् । अपवादन्यायेन । किम् पुनः इह तथा यथा उत्सर्गापवादौ । भावः हि कार्याऋथः नन्यार्थः लोपः । कार्यम् करिष्यामि इति अनुबन्धः आसज्यते कार्याद् अन्यन् मा भूत् इति लोपः ।

KA I,264.21-265.17 Ro II,212-214 itaḥ lope ṇalktvāniṣṭhāsu upasaṅkhyānam itpratiṣedhāt . itaḥ lope ṇalktvāniṣṭhāsu upasaṅkhyānam kartavyam . ṇal . aham papaca . ktvā . devitvā sevitvā . niṣṭhā . śayitaḥ śayitavān . kim punaḥ kāraṇam na sidhyati . itpratiṣedhāt . pratiṣidhyate atra itsañjñā . ṇal uttamaḥ ṇit vā bhavati . ktvā seṭ na kit bhavati . niṣṭhā seṭ na kit bhavati iti . siddham tu ṇalādīnām grahaṇapratiṣedhāt . siddham etat . katham . ṇalādīnām grahaṇāni pratiṣidhante . ṇal uttamaḥ vā ṇidgrahaṇena gṛhyate . ktvā seṭ na kidgrahaṇena gṛhyate . niṣṭhā seṭ na kidgrahaṇena gṛhyate iti . nirdiṣṭalopāt vā . nirdiṣṭalopāt vā siddham eva . atha vā nirdiṣṭasya ayam lopaḥ kriyate . tasmāt siddham etat . tatra tusmānām pratiṣedhaḥ . tatra tusmānām pratiṣedhaḥ vaktavyaḥ . tasmāt tasmin yasmāt yasmin vṛkṣāḥ plakṣāḥ acinavam asunavam akaravam . na vā uccāraṇasāmarthyāt . na vā vaktavyaḥ . kim kāraṇam . uccāraṇasāmarthyāt atra lopaḥ na bhaviṣyati . anubandhalope bhāvābhāvayoḥ vipratiṣedhāt aprasiddhiḥ . anubandhalope bhāvābhāvayoḥ virodhāt aprasiddhiḥ . na jñāyate kena abhiprāyeṇa prasajati kena nivṛttim karoti iti . siddham tu apavādanyāyena . siddham etat . katham . apavādanyāyena . kim punaḥ iha tathā yathā utsargāpavādau . bhāvaḥ hi kāryāṛthaḥ nanyārthaḥ lopaḥ . kāryam kariṣyāmi iti anubandhaḥ āsajyate kāryād anyan mā bhūt iti lopaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६५।१८-२६७।६ रो इइ,२१४-२१७ अथ यस्य अनुबन्धः आसज्यते किम् सः तस्य एकान्तः भवति आहोस्वित् अनेकान्तः । एकान्तः तत्र उपलब्धेः । एकान्तः इति आह । कुतः । तत्र उपलब्धेः । तत्रस्थः हि असौ उपलभ्यते । तत् यथा वृक्षस्था शाखा वृक्षैकान्ता उपलभ्यते । तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् । तत्र असरूपविधौ दोषः भवति । कर्मणि अण् आतः अनुपसर्गे कः इति । कण्विषये अण् अपि प्राप्नोति । सर्वादेशे च दोषः भवति । दिवः औत् सर्वादेशः प्राप्नोति । दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः । अदाब्दैपौ इति वक्तव्यम् । किम् पुनः कारणम् न सिध्यति । अनाकारान्तत्वात् । ननु च आत्त्वे कृते भविष्यति । तत् हि आत्त्वम् न प्राप्नोति । किम् कारणम् । अनेजन्तत्वात् । अस्तु तर्हि अनेकान्तः । अनेकान्ते वृत्तिविशेषः । यदि अनेकान्तः वृत्तिविशेषः न सिध्यति । किति णिति इति कार्याणि न सिध्यन्ति । किम् हि सः तस्य इत् भवति येन इत्कृतम् स्यात् । एवम् तर्हि अनन्तरः । अनन्तरः इति चेत् पूर्वपरयोः इत्कृतप्रसङ्गः । अनन्तरः इति चेत् पूर्वपरयोः इत्कृतम् प्राप्नोति । वुञ्छण् । सिद्धम् तु व्यवसितपाठात् । सिद्धम् एतत् । कथम् । व्यवसितपाठः कर्तव्यः । वुञ् छण् । सः च अवश्यम् व्यवसितपाठः कर्तव्यः । इतरथा हि एकान्ते अपि सन्देहः । अक्रियमाणे व्यवसितपाठे एकान्ते अपि सन्देहः स्यात् । तत्र न ज्ञायते किम् अयम् पूर्वस्य भवति आहोस्वित् परस्य इति । सन्देहमात्रम् एतत् भवति । सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति । पूर्वस्य इति व्याख्यास्यमः । वृत्तात् वा । वृत्तात् वा पुनः सिद्धम् एतत् । वृद्धिमन्तम् आद्युदात्तम् दृष्ट्वा ञित् इति व्यवसेयम् । अन्तोदात्तम् दृष्ट्वा कित् इति । युक्तम् पुनः यत् वृत्तिनिमित्तकः अनुबन्धः स्यात् न अनुबन्धनिमित्तकेन नाम वृत्तेन भवितव्यम् । वृत्तिनिमित्तकः एव अनुबन्धः । वृत्तिज्ञः हि आचार्यः अनुबन्धान् आसजति । उभयम् इदम् अनुबन्धेषु उक्तम् एकान्ताः अनेकान्ताः इति । किम् अत्र न्याय्यम् । एकान्ताः इति न्याय्यम् । कुतः एतत् । अत्र हि हेतुः व्यपदिष्टः । यत् च नाम सहेतुकम् तत् न्याय्यम् । ननु च उक्तम् तत्र असरूपसर्वादेशदाप्प्रतिषेधे पृथक्त्वनिर्देशः अनाकारान्तत्वात् इति । असरूपविधौ तावत् न दोषः । आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् असारूप्यम् भवति इति यत् अयम् ददातिदधात्योः विभाषा इति विभाषा शम् शास्ति । यत् अपि उक्तम् सर्वादेशे इति । अत्र अपि आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेकाल्त्वम् भवति इति यत् अयम् शित् सर्वस्य इति आह । यत् अपि उक्तम् दाप्प्रतिषेधे पृथक्त्वनिर्देशः कर्तव्यः इति । न कर्तव्यः । आचार्यप्रवृत्तिः ज्ञापयति न अनुबन्धकृतम् अनेजन्तत्वम् भवति इति यत् अयम् उदीचाम् माङः व्यतीहारे इति मेङः सानुबन्धकस्य आत्त्वभूतस्य ग्रहणम् करोति ।

KA I,265.18-267.6 Ro II,214-217 atha yasya anubandhaḥ āsajyate kim saḥ tasya ekāntaḥ bhavati āhosvit anekāntaḥ . ekāntaḥ tatra upalabdheḥ . ekāntaḥ iti āha . kutaḥ . tatra upalabdheḥ . tatrasthaḥ hi asau upalabhyate . tat yathā vṛkṣasthā śākhā vṛkṣaikāntā upalabhyate . tatra asarūpasarvādeśadāppratiṣedhe pṛthaktvanirdeśaḥ anākārāntatvāt . tatra asarūpavidhau doṣaḥ bhavati . karmaṇi aṇ ātaḥ anupasarge kaḥ iti . kaṇviṣaye aṇ api prāpnoti . sarvādeśe ca doṣaḥ bhavati . divaḥ aut sarvādeśaḥ prāpnoti . dāppratiṣedhe pṛthaktvanirdeśaḥ kartavyaḥ . adābdaipau iti vaktavyam . kim punaḥ kāraṇam na sidhyati . anākārāntatvāt . nanu ca āttve kṛte bhaviṣyati . tat hi āttvam na prāpnoti . kim kāraṇam . anejantatvāt . astu tarhi anekāntaḥ . anekānte vṛttiviśeṣaḥ . yadi anekāntaḥ vṛttiviśeṣaḥ na sidhyati . kiti ṇiti iti kāryāṇi na sidhyanti . kim hi saḥ tasya it bhavati yena itkṛtam syāt . evam tarhi anantaraḥ . anantaraḥ iti cet pūrvaparayoḥ itkṛtaprasaṅgaḥ . anantaraḥ iti cet pūrvaparayoḥ itkṛtam prāpnoti . vuñchaṇ . siddham tu vyavasitapāṭhāt . siddham etat . katham . vyavasitapāṭhaḥ kartavyaḥ . vuñ chaṇ . saḥ ca avaśyam vyavasitapāṭhaḥ kartavyaḥ . itarathā hi ekānte api sandehaḥ . akriyamāṇe vyavasitapāṭhe ekānte api sandehaḥ syāt . tatra na jñāyate kim ayam pūrvasya bhavati āhosvit parasya iti . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . pūrvasya iti vyākhyāsyamaḥ . vṛttāt vā . vṛttāt vā punaḥ siddham etat . vṛddhimantam ādyudāttam dṛṣṭvā ñit iti vyavaseyam . antodāttam dṛṣṭvā kit iti . yuktam punaḥ yat vṛttinimittakaḥ anubandhaḥ syāt na anubandhanimittakena nāma vṛttena bhavitavyam . vṛttinimittakaḥ eva anubandhaḥ . vṛttijñaḥ hi ācāryaḥ anubandhān āsajati . ubhayam idam anubandheṣu uktam ekāntāḥ anekāntāḥ iti . kim atra nyāyyam . ekāntāḥ iti nyāyyam . kutaḥ etat . atra hi hetuḥ vyapadiṣṭaḥ . yat ca nāma sahetukam tat nyāyyam . nanu ca uktam tatra asarūpasarvādeśadāppratiṣedhe pṛthaktvanirdeśaḥ anākārāntatvāt iti . asarūpavidhau tāvat na doṣaḥ . ācāryapravṛttiḥ jñāpayati na anubandhakṛtam asārūpyam bhavati iti yat ayam dadātidadhātyoḥ vibhāṣā iti vibhāṣā śam śāsti . yat api uktam sarvādeśe iti . atra api ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anekāltvam bhavati iti yat ayam śit sarvasya iti āha . yat api uktam dāppratiṣedhe pṛthaktvanirdeśaḥ kartavyaḥ iti . na kartavyaḥ . ācāryapravṛttiḥ jñāpayati na anubandhakṛtam anejantatvam bhavati iti yat ayam udīcām māṅaḥ vyatīhāre iti meṅaḥ sānubandhakasya āttvabhūtasya grahaṇam karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६७।८-१३ रो इइ,२१८ किम् इह उदाहरणम् । इकः यण् अचि । दधि अत्र मधु अत्र । न एतत् अस्ति । स्थाने अन्तरतमेन अपि एतत् सिद्धम् । कुतः आन्तर्यम् । तालुस्थानस्य तालुस्थानः ओष्ठस्थानस्य ओष्ठस्थानः भविष्यति इति । इदम् तर्हि । तस्थस्थमिपाम् ताम्तम्तामः इति । ननु च एतत् अपि स्थाने अन्तरतमेन एव सिद्धम् । कुतः आन्तर्यम् । एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः भविष्यति इति । इदम् तर्हि तूदीशलात्रुअवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति ।

KA I,267.8-13 Ro II,218 kim iha udāharaṇam . ikaḥ yaṇ aci . dadhi atra madhu atra . na etat asti . sthāne antaratamena api etat siddham . kutaḥ āntaryam . tālusthānasya tālusthānaḥ oṣṭhasthānasya oṣṭhasthānaḥ bhaviṣyati iti . idam tarhi . tasthasthamipām tāmtamtāmaḥ iti . nanu ca etat api sthāne antaratamena eva siddham . kutaḥ āntaryam . ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahvarthaḥ bhaviṣyati iti . idam tarhi tūdīśalātruavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६७।१४-२६८।२ रो इइ,२१८-२२० किमर्थम् पुनः इदम् उच्यते । सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् । सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते । सञ्ज्ञया तावत् । परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति । समासैः । तूदीशलातुरवर्मतीकूचवारात् ढक्छण्ढञ्यकः इति । सञ्ज्ञासमासनिर्देशात् सर्वप्रसङ्गः अनुदेशस्य यथासङ्ख्यवचनम् नियमार्थम् । सर्वस्य उद्देशस्य सर्वः अनुदेशः प्राप्नोति । इष्यते च समसङ्ख्यम् यथा स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति तत्र यथासङ्ख्यवचनम् नियमार्थम् । एवमर्थम् इदम् उच्यते । किम् पुनः कारणम् सञ्ज्ञया समासैः च निर्देशाः क्रियन्ते । सञ्ज्ञासमासनिर्देशः ल्पृथक् विभक्तिसञ्ज्ञ्यनुच्चारणार्थः । सञ्ज्ञया समासैः च निर्देशाः क्रियन्तेपृथक् विभक्तीः सञ्ज्ञिनः च मा उच्चिचीरम् इति । प्रकरणे च सर्वसम्प्रत्ययार्थः । प्रकरणे च सर्वेषाम् सम्प्रत्ययः यथा स्यात् । विदः लटः वा इति ।

KA I,267.14-268.2 Ro II,218-220 kimartham punaḥ idam ucyate . sañjñāsamāsanirdeśāt sarvaprasaṅgaḥ anudeśasya yathāsaṅkhyavacanam niyamārtham . sañjñayā samāsaiḥ ca nirdeśāḥ kriyante . sañjñayā tāvat . parasmaipadānām ṇalatususthalathusaṇalvamāḥ iti . samāsaiḥ . tūdīśalāturavarmatīkūcavārāt ḍhakchaṇḍhañyakaḥ iti . sañjñāsamāsanirdeśāt sarvaprasaṅgaḥ anudeśasya yathāsaṅkhyavacanam niyamārtham . sarvasya uddeśasya sarvaḥ anudeśaḥ prāpnoti . iṣyate ca samasaṅkhyam yathā syāt iti . tat ca antareṇa yatnam na sidhyati iti tatra yathāsaṅkhyavacanam niyamārtham . evamartham idam ucyate . kim punaḥ kāraṇam sañjñayā samāsaiḥ ca nirdeśāḥ kriyante . sañjñāsamāsanirdeśaḥ lpṛthak vibhaktisañjñyanuccāraṇārthaḥ . sañjñayā samāsaiḥ ca nirdeśāḥ kriyantepṛthak vibhaktīḥ sañjñinaḥ ca mā uccicīram iti . prakaraṇe ca sarvasampratyayārthaḥ . prakaraṇe ca sarveṣām sampratyayaḥ yathā syāt . vidaḥ laṭaḥ vā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२६८।३-२७१।१७ रो इइ,२२०-२२७ किम् पुनः शब्दतः साम्ये सङ्ख्यातानुदेशः भवति आहोस्वित् अर्थतः । कः च अत्र विशेषः । सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः । अगमकः निर्देशः अनिर्देशः । परस्मैपदानाम् णलतुसुस्थलथुसणल्वमाः इति णलादयः बहवः परस्मैपदानाम् इति एकः शब्दः । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । डारौरसः प्रथमस्य । डारौरसः बहवः प्रथमस्य इति एकः शब्दः । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । एचः अयवायावः । अयवायावः बहवः एचः इति एकः शब्दः । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । अस्तु तर्हि अर्थतः । अर्थतः चेत् लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः । लृलुटोर्नन्द्यरीहणसिन्धुतक्षशिलादिषु दोषः भवति । स्यतासीलृलुटोः । स्यतासी द्वौ लृलुटोः इति अस्य त्रयः अर्थाः । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । नन्दिग्रहिपचादिभ्यः ल्युणिन्यचः । नन्द्यादयः बहवः ल्युणिन्यचः त्रयः । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । अरीहणादयः बहवः वुञादयः सप्तदश । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । सिन्धुतक्षशिलादिभ्यः अणञौ । सिन्धुतक्षशिलादयः बहवः अणञौ द्वौ । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु । आत्मनेपदविधिनिष्ठासार्वधातुकद्विग्रहणेषु च दोषः भवति । आत्मनेपदविधिः च न सिध्यति । अनुदात्तङितः आत्मनेपदम् । अनुदात्तङितौ द्वौ आत्मनेपदम् इति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । निष्ठा । रदाभ्याम् निष्ठातः नः पूर्वस्य च दः इति । रेफदकारौ द्वौ निष्ठा इति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । सार्वधातुकद्विग्रहणेषु च दोषः भवति । श्नसोः अल्लोपः श्नमस्ती द्वौ सार्वधातुकम् इति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । एङः पूर्वत्वे प्रतिषेधः । एङः पूर्वत्वे प्रतिषेधः वक्तव्यः । एङः पदान्तात् अति ङसिङसोः च । ङसिङसौ द्वौ एङ् इति अस्य द्वौ अर्थौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । अस्तु तर्हि शब्दतः । ननु च उक्तम् सङ्ख्यासाम्यम् शब्दतः चेत् णलादयः परस्मैपदानाम् डारौरसः प्रथमस्य अयवायावः एचः इति अनिर्देशः इति । न एषः दोषाः । स्थाने अन्तरतमः इति अनेन व्यवस्था भविष्यति । कुतः आन्तर्यम् । एकार्थस्य एकार्थः द्व्यर्थस्य द्व्यर्थः बह्वर्थस्य बह्वर्थः । संवृतावर्णस्य संवृतावर्णः विवृतावर्णस्य विवृतावर्णः । अतिप्रसङ्गः गुणवृद्धिप्रतिषेधे क्ङिति । अतिप्रसङ्गः भवति गुणवृद्धिप्रतिषेधे क्ङिति । गुणवृद्धी द्वे क्ङितौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । न एषः दोषः । गकारः अपि अत्र निर्दिश्यते । तत् गकारग्रहणम् अपि कर्तव्यम् । न कर्तव्यम् । क्रियते न्यासे एव । ककारे गकारः चर्त्वभूतः निर्दिश्यते । गिति किति ङिति इति । उदि कूले रुजिवहोः । उदिकूले द्वे रुजिवहौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । न एषः दोषः । न उदिः उपपदम् । किम् तर्हि । विशेषणम् रुजिवहोः । उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति । तच्छीलादिषु धातुत्रिग्रहणेषु । तच्छीलादिषु धातुत्रिग्रहणेषु दोषः भवति । विदिभिदिच्छिदेः कुरच् । विदिभिदिच्छिदयः त्रयः तच्छीलादयः त्रयः । तत्र सङ्ख्यातानुदेशः प्राप्नोति । घञादिषु द्विग्रहणेषु । घञादिषु द्विग्रहणेषु दोषः भवति । निरभ्योः पूल्वोः । निरभी द्वौ पूल्वौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । न एषः दोषः । इष्यते च अत्र सङ्ख्यातानुदेशः : निष्पावः , अभिलावः इति । एवम् तर्हि अकर्तरि च कारके भावे च इति द्वौ पूल्वौ च द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । अवे तॄस्त्रोः करणाधिकरणयोः । तॄस्त्रौ द्वौ करणाधिकरणे द्वे । तत्र सङ्ख्यातानुदेशः प्राप्नोति । कर्तृकर्मणोः च भूकृञोः । कर्तृकर्मणी द्वे भूकृञौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । अनवकॢप्त्यमर्षयोः अकिंवृत्ते अपि । अनवकॢप्त्यमर्षौ द्वौ किंवृत्ताकिंवृत्ते द्वे । तत्र सङ्ख्यातानुदेशः प्राप्नोति । कृभ्वोः क्त्वाणमुलौ । कृभ्वौ द्वौ क्त्वाणमुलौ द्वौ । तत्र सङ्ख्यातानुदेशः प्राप्नोति । अधीयानविदुषोः छन्दोब्राह्मणानि । छन्दोब्राह्मणानि इति द्वे अधीते वेद इति

KA I,268.3-271.17 Ro II,220-227 kim punaḥ śabdataḥ sāmye saṅkhyātānudeśaḥ bhavati āhosvit arthataḥ . kaḥ ca atra viśeṣaḥ . saṅkhyāsāmyam śabdataḥ cet ṇalādayaḥ parasmaipadānām ḍāraurasaḥ prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ . agamakaḥ nirdeśaḥ anirdeśaḥ . parasmaipadānām ṇalatususthalathusaṇalvamāḥ iti ṇalādayaḥ bahavaḥ parasmaipadānām iti ekaḥ śabdaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . ḍāraurasaḥ prathamasya . ḍāraurasaḥ bahavaḥ prathamasya iti ekaḥ śabdaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . ecaḥ ayavāyāvaḥ . ayavāyāvaḥ bahavaḥ ecaḥ iti ekaḥ śabdaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . astu tarhi arthataḥ . arthataḥ cet lṛluṭornandyarīhaṇasindhutakṣaśilādiṣu doṣaḥ . lṛluṭornandyarīhaṇasindhutakṣaśilādiṣu doṣaḥ bhavati . syatāsīlṛluṭoḥ . syatāsī dvau lṛluṭoḥ iti asya trayaḥ arthāḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . nandigrahipacādibhyaḥ lyuṇinyacaḥ . nandyādayaḥ bahavaḥ lyuṇinyacaḥ trayaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . arīhaṇādayaḥ bahavaḥ vuñādayaḥ saptadaśa . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . sindhutakṣaśilādibhyaḥ aṇañau . sindhutakṣaśilādayaḥ bahavaḥ aṇañau dvau . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . ātmanepadavidhiniṣṭhāsārvadhātukadvigrahaṇeṣu . ātmanepadavidhiniṣṭhāsārvadhātukadvigrahaṇeṣu ca doṣaḥ bhavati . ātmanepadavidhiḥ ca na sidhyati . anudāttaṅitaḥ ātmanepadam . anudāttaṅitau dvau ātmanepadam iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . niṣṭhā . radābhyām niṣṭhātaḥ naḥ pūrvasya ca daḥ iti . rephadakārau dvau niṣṭhā iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . sārvadhātukadvigrahaṇeṣu ca doṣaḥ bhavati . śnasoḥ allopaḥ śnamastī dvau sārvadhātukam iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . eṅaḥ pūrvatve pratiṣedhaḥ . eṅaḥ pūrvatve pratiṣedhaḥ vaktavyaḥ . eṅaḥ padāntāt ati ṅasiṅasoḥ ca . ṅasiṅasau dvau eṅ iti asya dvau arthau . tatra saṅkhyātānudeśaḥ prāpnoti . astu tarhi śabdataḥ . nanu ca uktam saṅkhyāsāmyam śabdataḥ cet ṇalādayaḥ parasmaipadānām ḍāraurasaḥ prathamasya ayavāyāvaḥ ecaḥ iti anirdeśaḥ iti . na eṣaḥ doṣāḥ . sthāne antaratamaḥ iti anena vyavasthā bhaviṣyati . kutaḥ āntaryam . ekārthasya ekārthaḥ dvyarthasya dvyarthaḥ bahvarthasya bahvarthaḥ . saṃvṛtāvarṇasya saṃvṛtāvarṇaḥ vivṛtāvarṇasya vivṛtāvarṇaḥ . atiprasaṅgaḥ guṇavṛddhipratiṣedhe kṅiti . atiprasaṅgaḥ bhavati guṇavṛddhipratiṣedhe kṅiti . guṇavṛddhī dve kṅitau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . na eṣaḥ doṣaḥ . gakāraḥ api atra nirdiśyate . tat gakāragrahaṇam api kartavyam . na kartavyam . kriyate nyāse eva . kakāre gakāraḥ cartvabhūtaḥ nirdiśyate . giti kiti ṅiti iti . udi kūle rujivahoḥ . udikūle dve rujivahau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . na eṣaḥ doṣaḥ . na udiḥ upapadam . kim tarhi . viśeṣaṇam rujivahoḥ . utpūrvābhyām rujivahibhyām kūle upapade iti . tacchīlādiṣu dhātutrigrahaṇeṣu . tacchīlādiṣu dhātutrigrahaṇeṣu doṣaḥ bhavati . vidibhidicchideḥ kurac . vidibhidicchidayaḥ trayaḥ tacchīlādayaḥ trayaḥ . tatra saṅkhyātānudeśaḥ prāpnoti . ghañādiṣu dvigrahaṇeṣu . ghañādiṣu dvigrahaṇeṣu doṣaḥ bhavati . nirabhyoḥ pūlvoḥ . nirabhī dvau pūlvau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . na eṣaḥ doṣaḥ . iṣyate ca atra saṅkhyātānudeśaḥ : niṣpāvaḥ , abhilāvaḥ iti . evam tarhi akartari ca kārake bhāve ca iti dvau pūlvau ca dvau . tatra saṅkhyātānudeśaḥ prāpnoti . ave tṝstroḥ karaṇādhikaraṇayoḥ . tṝstrau dvau karaṇādhikaraṇe dve . tatra saṅkhyātānudeśaḥ prāpnoti . kartṛkarmaṇoḥ ca bhūkṛñoḥ . kartṛkarmaṇī dve bhūkṛñau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . anavakḷptyamarṣayoḥ akiṃvṛtte api . anavakḷptyamarṣau dvau kiṃvṛttākiṃvṛtte dve . tatra saṅkhyātānudeśaḥ prāpnoti . kṛbhvoḥ ktvāṇamulau . kṛbhvau dvau ktvāṇamulau dvau . tatra saṅkhyātānudeśaḥ prāpnoti . adhīyānaviduṣoḥ chandobrāhmaṇāni . chandobrāhmaṇāni iti dve adhīte veda iti

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७१।१९-२७२।१० रो इइ,२२८-२२९ किमर्थम् इदम् उच्यते । अधिकारः प्रतियोगम् तस्य अनिर्देशार्थः । अधिकारः क्रियते प्रतियोगम् तस्य अनिर्देशार्थः इति । किम् इदम् प्रतियोगम् इति । योगम् योगम् प्रति प्रतियोगम् । योगे योगे तस्य ग्रहणम् मा कार्षम् इति । किम् गतम् एतत् इयता सूत्रेण । गतम् इति आह । कुतः । लोकतः । तत् यथा लोके अधिकृतः असौ ग्रामे अधिकृतः असौ नगरे इति उच्यते यः यत्र व्यापारम् गच्छति । शब्देन च अपि अधिकृतेन कः अन्यः व्यापारः शक्यः अवगन्तुम् अन्यत् अतः योगे योगे उपस्थानात् । न वा निर्दिश्यमानाधिकृतत्वात् यथा लोके । न वा एतत् प्रयोजनम् । किम् कारणम् । निर्दिश्यमानाधिकृतत्वात् यथा लोके । निर्दिश्यमानम् अधिकृतम् गम्यते । तत् यथा । देवदत्ताय गौः दीयताम् यज्ञदत्ताय विष्णुमित्राय इति । गौः इति गम्यते । एवम् इह अपि पदरुजविशस्पृशः घञ् सृ स्थिरे भावे । घञ् इति गम्यते । अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा । अन्यनिर्देशः तु लोके निवर्तकः भवति । तत् यथा । देवदत्ताय गौः दीयताम् यज्ञदत्ताय कम्बलः विष्णुमित्राय च इति । कम्बलः गोनिवर्तकः भवति । एवम् इह अपि अभिविधौ भावे इनुण् घञः निवर्तकः स्यात् । तस्मात् परिभाषा कर्तव्या ।

KA I,271.19-272.10 Ro II,228-229 kimartham idam ucyate . adhikāraḥ pratiyogam tasya anirdeśārthaḥ . adhikāraḥ kriyate pratiyogam tasya anirdeśārthaḥ iti . kim idam pratiyogam iti . yogam yogam prati pratiyogam . yoge yoge tasya grahaṇam mā kārṣam iti . kim gatam etat iyatā sūtreṇa . gatam iti āha . kutaḥ . lokataḥ . tat yathā loke adhikṛtaḥ asau grāme adhikṛtaḥ asau nagare iti ucyate yaḥ yatra vyāpāram gacchati . śabdena ca api adhikṛtena kaḥ anyaḥ vyāpāraḥ śakyaḥ avagantum anyat ataḥ yoge yoge upasthānāt . na vā nirdiśyamānādhikṛtatvāt yathā loke . na vā etat prayojanam . kim kāraṇam . nirdiśyamānādhikṛtatvāt yathā loke . nirdiśyamānam adhikṛtam gamyate . tat yathā . devadattāya gauḥ dīyatām yajñadattāya viṣṇumitrāya iti . gauḥ iti gamyate . evam iha api padarujaviśaspṛśaḥ ghañ sṛ sthire bhāve . ghañ iti gamyate . anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā . anyanirdeśaḥ tu loke nivartakaḥ bhavati . tat yathā . devadattāya gauḥ dīyatām yajñadattāya kambalaḥ viṣṇumitrāya ca iti . kambalaḥ gonivartakaḥ bhavati . evam iha api abhividhau bhāve inuṇ ghañaḥ nivartakaḥ syāt . tasmāt paribhāṣā kartavyā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७२।११-२७३।५ रो इइ,२२९-२३० अधिकारपरिमाणाज्ञानम् तु । अधिकारपरिमाणाज्ञानम् तु भवति । न ज्ञायते कियन्तम् अवधिम् अधिकारः अनुवर्तते इति । अधिकारपरिमाणज्ञानार्थम् तु । अधिकारपरिमाणज्ञानार्थम् एव तर्हि अयम् योगः वक्तव्यः । अधिकारपरिमाणम् ज्ञास्यामि इति । कथम् पुनः स्वरितेन अधिकारः इति अनेन अधिकारपरिमाणम् शक्यम् विज्ञातुम् । एवम् वक्ष्यामि स्वरिते न अधिकारः इति । स्वरितम् दृष्ट्वा अधिकारः न भवति इति । केन इदानीम् अधिकारः भविष्यति । लौकिकः अधिकारः । न अधिकारः इति चेत् उक्तम् । किम् उक्तम् । अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा इति । अधिकारार्थम् एव तर्हि अयम् योगः वक्तव्यः । ननु च उक्तम् अधिकारपरिमाणाज्ञानम् तु इति । यावतिथः अल् अनुबन्धः तावतः योगान् इति वचनात् सिद्धम् । यावतिथः अल् अनुबध्यते तावतः योगान् अधिकारः अनुवर्तते इति वक्तव्यम् । अथ इदानीम् यत्र अल्पीयांसः अलः भूयसः च योगान् अधिकारः अनुवर्तते कथम् तत्र कर्तव्यम् । भूयसि प्राग्वचनम् । भूयसि प्राग्वचनम् कर्तव्यम् । प्राक् अमुतः इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । सन्देहमात्रम् एतत् भवति । सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति । प्राक् अमुतः इति व्याख्यास्यामः । यदि एवम् न अर्थः अनेन । केन इदानीम् अधिकारः भविष्यति । लौकिकः अधिकारः । ननु च उक्तम् न अधिकारः इति चेत् उक्तम् । किम् उक्तम् । अन्यनिर्देशः तु निवर्तकः तस्मात् परिभाषा । सन्देहमात्रम् एतत् भवति । सर्वसन्देहेषु च इदम् उपतिष्ठते व्याख्यानतः विशेषप्रतिपत्तिः न हि सन्देहात् अलक्षणम् इति । इनुण् घञ् इति सन्देहे घञ् इति व्याख्यास्यामः ।

KA I,272.11-273.5 Ro II,229-230 adhikāraparimāṇājñānam tu . adhikāraparimāṇājñānam tu bhavati . na jñāyate kiyantam avadhim adhikāraḥ anuvartate iti . adhikāraparimāṇajñānārtham tu . adhikāraparimāṇajñānārtham eva tarhi ayam yogaḥ vaktavyaḥ . adhikāraparimāṇam jñāsyāmi iti . katham punaḥ svaritena adhikāraḥ iti anena adhikāraparimāṇam śakyam vijñātum . evam vakṣyāmi svarite na adhikāraḥ iti . svaritam dṛṣṭvā adhikāraḥ na bhavati iti . kena idānīm adhikāraḥ bhaviṣyati . laukikaḥ adhikāraḥ . na adhikāraḥ iti cet uktam . kim uktam . anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā iti . adhikārārtham eva tarhi ayam yogaḥ vaktavyaḥ . nanu ca uktam adhikāraparimāṇājñānam tu iti . yāvatithaḥ al anubandhaḥ tāvataḥ yogān iti vacanāt siddham . yāvatithaḥ al anubadhyate tāvataḥ yogān adhikāraḥ anuvartate iti vaktavyam . atha idānīm yatra alpīyāṃsaḥ alaḥ bhūyasaḥ ca yogān adhikāraḥ anuvartate katham tatra kartavyam . bhūyasi prāgvacanam . bhūyasi prāgvacanam kartavyam . prāk amutaḥ iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . prāk amutaḥ iti vyākhyāsyāmaḥ . yadi evam na arthaḥ anena . kena idānīm adhikāraḥ bhaviṣyati . laukikaḥ adhikāraḥ . nanu ca uktam na adhikāraḥ iti cet uktam . kim uktam . anyanirdeśaḥ tu nivartakaḥ tasmāt paribhāṣā . sandehamātram etat bhavati . sarvasandeheṣu ca idam upatiṣṭhate vyākhyānataḥ viśeṣapratipattiḥ na hi sandehāt alakṣaṇam iti . inuṇ ghañ iti sandehe ghañ iti vyākhyāsyāmaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७३।६-२५ रो इइ,२३०-२३२ न तर्हि इदानीम् अयम् योगः वक्तव्यः । वक्तव्यः च । किम् प्रयोजनम् । स्वरितेन अधिकारगतिः यथा विज्ञायेत , अधिकम् कार्यम् , अधिकः कारः । अधिकारगतिः : गोस्त्रियोः उपसर्जनम् इति अत्र गोटाङ्ग्रहणम् चोदितम् । तत् न कर्तव्यम् भवति । स्त्रीग्रहणम् स्वरयिष्यते । स्वरितेन अधिकारगतिः भवति इति स्त्रियाम् इति एवम् प्रकृत्य ये प्रत्ययाः विहिताः तेषाम् ग्रहणम् विज्ञास्यते । तत्र स्वरितेन अधिकारगतिः भवति इति न दोषः भवति । अधिकम् कार्यम् : अपादानम् आचार्यः किम् न्याय्यम् मन्यते । यत्र प्राप्य निवृत्तिः । तेन इह एव स्यात् : ग्रामात् आगच्छति । नगरात् आगच्छति । साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् । स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति । तथा अधिकरणम् आचार्यः किम् न्याय्यम् मन्यते । यत्र कृत्स्नः आधारात्मा व्याप्तः भवति । तेन इह एव स्यात् : तिलेषु तैलम् । दध्नि सर्पिः इति । गङ्गायाम् गावः । कूपे गर्गकुलम् इति अत्र न स्यात् । स्वरितेन अधिकर्म् कार्यम् भवति इति अत्र अपि सिद्धम् भवति । अधिकम् कार्यम् । अधिकः कारः : पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति । गुणवृद्ध्यौत्त्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् नुमचिरतृज्वद्भावेभ्यः नुट् इति । नुम्नुटौ स्वरयिष्येते । तत्र स्वरितेन अधिकः कारः भवति इति नुम्नुटौ भविष्यतः । कथम् पुनः अधिकः कारः इति अनेन पूर्वविप्रतिषेधाः शक्य न पठितुम् । लोकतः । तत् यथा लोके अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् दुर्बलः सन् बलवद्भिः सह भारम् वहति । एवम् इह अपि अधिकम् अयम् कारम् करोति इति उच्यते यः अयम् पूर्वः सन् परम् बाधते । अधिकारगतिः स्त्र्यर्था विशेषाय अधिकम् कार्यम् । अथ यः अन्यः अधिकः कारः पूर्वविप्रतिषेधार्थः सः ।

KA I,273.6-25 Ro II,230-232 na tarhi idānīm ayam yogaḥ vaktavyaḥ . vaktavyaḥ ca . kim prayojanam . svaritena adhikāragatiḥ yathā vijñāyeta , adhikam kāryam , adhikaḥ kāraḥ . adhikāragatiḥ : gostriyoḥ upasarjanam iti atra goṭāṅgrahaṇam coditam . tat na kartavyam bhavati . strīgrahaṇam svarayiṣyate . svaritena adhikāragatiḥ bhavati iti striyām iti evam prakṛtya ye pratyayāḥ vihitāḥ teṣām grahaṇam vijñāsyate . tatra svaritena adhikāragatiḥ bhavati iti na doṣaḥ bhavati . adhikam kāryam : apādānam ācāryaḥ kim nyāyyam manyate . yatra prāpya nivṛttiḥ . tena iha eva syāt : grāmāt āgacchati . nagarāt āgacchati . sāṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt . svaritena adhikarm kāryam bhavati iti atra api siddham bhavati . tathā adhikaraṇam ācāryaḥ kim nyāyyam manyate . yatra kṛtsnaḥ ādhārātmā vyāptaḥ bhavati . tena iha eva syāt : tileṣu tailam . dadhni sarpiḥ iti . gaṅgāyām gāvaḥ . kūpe gargakulam iti atra na syāt . svaritena adhikarm kāryam bhavati iti atra api siddham bhavati . adhikam kāryam . adhikaḥ kāraḥ : pūrvavipratiṣedhāḥ na paṭhitavyāḥ bhavanti . guṇavṛddhyauttvatṛjvadbhāvebhyaḥ num pūrvavipratiṣiddham numaciratṛjvadbhāvebhyaḥ nuṭ iti . numnuṭau svarayiṣyete . tatra svaritena adhikaḥ kāraḥ bhavati iti numnuṭau bhaviṣyataḥ . katham punaḥ adhikaḥ kāraḥ iti anena pūrvavipratiṣedhāḥ śakya na paṭhitum . lokataḥ . tat yathā loke adhikam ayam kāram karoti iti ucyate yaḥ ayam durbalaḥ san balavadbhiḥ saha bhāram vahati . evam iha api adhikam ayam kāram karoti iti ucyate yaḥ ayam pūrvaḥ san param bādhate . adhikāragatiḥ stryarthā viśeṣāya adhikam kāryam . atha yaḥ anyaḥ adhikaḥ kāraḥ pūrvavipratiṣedhārthaḥ saḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७४।२-११ रो इइ,२३३ विकरणेभ्यः प्रतिषेधः वक्तव्यः । चिनुतः सुनुतः लुनीतः पुनीतः । ङितः इति आत्मनेपदम् प्राप्नोति । न एषः दोषः । न एवम् विज्ञायते ङकारः इत् अस्य सः अयम् ङित् ङितः इति । कथम् तर्हि । ङकारः एव इत् ङित् ङितः । अथ वा उपदेशे इति वर्तते । अथ वा उक्तम् एतत् सिद्धम् तु पूर्वस्य कार्यातिदेशात् इति । सर्वथा चङङ्भ्याम् प्राप्नोति । एवम् तर्हि धातोः इति वर्तते । क्व प्रकृतम् । भूवादयः धातवः इति । तत् वै प्रथमानिर्दिष्टम् पञ्चमीनिर्दिष्टेन च इह अर्थः । अर्थात् विभक्तिविपरिणामः भविष्यति । तत् यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनम् । देवदत्तम् इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यम् इति । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् द्वितीयानिर्दिष्टम् प्रथमानिर्दिष्टम् च भवति । एवम् इह अपि पुरस्तात् प्रथमानिर्दिष्टम् सत् अर्थात् पञ्चमीनिर्दिष्टम् भविष्यति ।

KA I,274.2-11 Ro II,233 vikaraṇebhyaḥ pratiṣedhaḥ vaktavyaḥ . cinutaḥ sunutaḥ lunītaḥ punītaḥ . ṅitaḥ iti ātmanepadam prāpnoti . na eṣaḥ doṣaḥ . na evam vijñāyate ṅakāraḥ it asya saḥ ayam ṅit ṅitaḥ iti . katham tarhi . ṅakāraḥ eva it ṅit ṅitaḥ . atha vā upadeśe iti vartate . atha vā uktam etat siddham tu pūrvasya kāryātideśāt iti . sarvathā caṅaṅbhyām prāpnoti . evam tarhi dhātoḥ iti vartate . kva prakṛtam . bhūvādayaḥ dhātavaḥ iti . tat vai prathamānirdiṣṭam pañcamīnirdiṣṭena ca iha arthaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāvaḥ aśvāḥ hiraṇyam iti . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt dvitīyānirdiṣṭam prathamānirdiṣṭam ca bhavati . evam iha api purastāt prathamānirdiṣṭam sat arthāt pañcamīnirdiṣṭam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७४।११-२७५।१५ रो इइ,२३३-२३७ किमर्थम् पुनः इदम् उच्यते । आत्मनेपदवचनम् नियमार्थम् । नियमार्थः अयम् आरम्भः । किम् उच्यते नियमार्थः अयम् इति न पुनः विध्यर्थः अपि स्यात् । लविधानात् विहितम् । लविधानात् हि आत्मनेपदम् परस्मैपदम् च विहितम् । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति । इदम् इह सम्प्रधार्यम् । विकरणाः क्रियन्ताम् नियमः इति । किम् अत्र कर्तव्यम् । परत्वात् विकरणाः । नित्याः खलु अपि विकरणाः । कृते अपि नियमे प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति । नित्यत्वात् परत्वात् च विकरणेषु कृतेषु विकरणैः व्यवहितत्वात् नियमः न प्राप्नोति । न एषः दोषः । अनवकाशः नियमः । सावकाशः । कः अवकाशः । ये एते लुग्विकरणाः श्लुविकरणाः लिङ्लिटौ च । यदि पुनः इयम् परिभाषा विज्ञायेत । किम् कृतम् भवति । कार्यकालम् सञ्ज्ञापरिभाषम् यत्र कार्यम् तत्र द्रष्टव्यम् । लस्य तिबादयः भवन्ति इति उपस्थितम् इदम् भवति अनुदात्तङितः आत्मनेपदम् शेषात् कर्तरि परस्मैपदम् इति । एवम् अपि इतरेतराश्रयम् भवति । का इतरेतराश्रयता । अभिनिर्वृत्तानाम् लस्य स्थाने तिबादीनाम् आत्मनेपदपरस्मैपदसञ्ज्ञया भवितव्यम् सञ्ज्ञया च तिबादयः भाव्यन्ते । तत् इतरेतराश्रयम् भवति । इतरेतराश्रयाणि कार्याणि च न प्रकल्पन्ते । परस्मैपदेषु तावत् न इतरेतराश्रयम् भवति । परस्मैपदानुक्रमणम् न करिष्यते । अवश्यम् कर्तव्यम् अनुपराभ्याम् कृञः इति एवमर्थम् । ननु च एतत् अपि आत्मनेपदानुक्रमणे एव करिष्ये । स्वरितञितः कर्त्रभिप्रये क्रियाफले आत्मनेपदम् भवति कर्तरि । अनुपराभ्याम् कृञः न इति । आत्मनेपदेषु च अपि न इतरेतराश्रयम् भवति । कथम् । भाविनी सञ्ज्ञा विज्ञास्यते सूत्रशाटकवत् । तत् यथा : कः चित् कम् चित् तन्तुवायम् आह : अस्य सूत्रस्य शाटकम् वय इति । सः पश्यति । यदि शाटकः न वातव्यः अथ वातव्यः न शाटकः । शाटकः वातव्यः इति विप्रतिषिद्धम्। भाविनी खलु अस्य सञ्ज्ञा अभिप्रेता । सः मन्ये वातव्यः यस्मिन् उते शाटकः इति एतत् भवति इति । एवम् इह अपि सः लस्य स्थाने कर्तव्यः ल्यस्य अभिनिर्वृत्तस्य आत्मनेपदम् इति एषा सञ्ज्ञा भविष्यति । अथ वा पुनः अस्तु नियमः । ननु च उत्कम् विकरणैः तु व्यवहितत्वात् नियमः न प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति विकरणेभ्यः नियमः बलीयान् इति यत् अयम् विकरणविधौ आत्मनेपदपरस्मैपदानि आश्रयति । पुषादिद्युतादॢर्दितः परस्मैपदेषु आत्मनेपदेषु अन्यतरस्याम् इति । न एतत् अस्ति ज्ञापकम् । अभिनिर्वृत्तानि हि लस्य स्थाने आत्मनेपदानि परस्मैपदानि च । यत् तर्हि अनुपसर्गात् वा इति विभाषाम् शास्ति ।

KA I,274.11-275.15 Ro II,233-237 kimartham punaḥ idam ucyate . ātmanepadavacanam niyamārtham . niyamārthaḥ ayam ārambhaḥ . kim ucyate niyamārthaḥ ayam iti na punaḥ vidhyarthaḥ api syāt . lavidhānāt vihitam . lavidhānāt hi ātmanepadam parasmaipadam ca vihitam . asti prayojanam etat . kim tarhi iti . vikaraṇaiḥ tu vyavahitatvāt niyamaḥ na prāpnoti . idam iha sampradhāryam . vikaraṇāḥ kriyantām niyamaḥ iti . kim atra kartavyam . paratvāt vikaraṇāḥ . nityāḥ khalu api vikaraṇāḥ . kṛte api niyame prāpnuvanti akṛte api prāpnuvanti . nityatvāt paratvāt ca vikaraṇeṣu kṛteṣu vikaraṇaiḥ vyavahitatvāt niyamaḥ na prāpnoti . na eṣaḥ doṣaḥ . anavakāśaḥ niyamaḥ . sāvakāśaḥ . kaḥ avakāśaḥ . ye ete lugvikaraṇāḥ śluvikaraṇāḥ liṅliṭau ca . yadi punaḥ iyam paribhāṣā vijñāyeta . kim kṛtam bhavati . kāryakālam sañjñāparibhāṣam yatra kāryam tatra draṣṭavyam . lasya tibādayaḥ bhavanti iti upasthitam idam bhavati anudāttaṅitaḥ ātmanepadam śeṣāt kartari parasmaipadam iti . evam api itaretarāśrayam bhavati . kā itaretarāśrayatā . abhinirvṛttānām lasya sthāne tibādīnām ātmanepadaparasmaipadasañjñayā bhavitavyam sañjñayā ca tibādayaḥ bhāvyante . tat itaretarāśrayam bhavati . itaretarāśrayāṇi kāryāṇi ca na prakalpante . parasmaipadeṣu tāvat na itaretarāśrayam bhavati . parasmaipadānukramaṇam na kariṣyate . avaśyam kartavyam anuparābhyām kṛñaḥ iti evamartham . nanu ca etat api ātmanepadānukramaṇe eva kariṣye . svaritañitaḥ kartrabhipraye kriyāphale ātmanepadam bhavati kartari . anuparābhyām kṛñaḥ na iti . ātmanepadeṣu ca api na itaretarāśrayam bhavati . katham . bhāvinī sañjñā vijñāsyate sūtraśāṭakavat . tat yathā : kaḥ cit kam cit tantuvāyam āha : asya sūtrasya śāṭakam vaya iti . saḥ paśyati . yadi śāṭakaḥ na vātavyaḥ atha vātavyaḥ na śāṭakaḥ . śāṭakaḥ vātavyaḥ iti vipratiṣiddham. bhāvinī khalu asya sañjñā abhipretā . saḥ manye vātavyaḥ yasmin ute śāṭakaḥ iti etat bhavati iti . evam iha api saḥ lasya sthāne kartavyaḥ lyasya abhinirvṛttasya ātmanepadam iti eṣā sañjñā bhaviṣyati . atha vā punaḥ astu niyamaḥ . nanu ca utkam vikaraṇaiḥ tu vyavahitatvāt niyamaḥ na prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati vikaraṇebhyaḥ niyamaḥ balīyān iti yat ayam vikaraṇavidhau ātmanepadaparasmaipadāni āśrayati . puṣādidyutādḷrditaḥ parasmaipadeṣu ātmanepadeṣu anyatarasyām iti . na etat asti jñāpakam . abhinirvṛttāni hi lasya sthāne ātmanepadāni parasmaipadāni ca . yat tarhi anupasargāt vā iti vibhāṣām śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७५।१६-२७७।१८ रो इइ,२३७-२४४ किम् पुनः अयम् प्रत्ययनियमः : अनुदात्तङितः एव आत्मनेपदम् भवति , भावकर्मणोः एव आत्मनेपदम् भवति इति । आहोस्वित् प्रकृत्यर्थनियमः : अनुदात्तङितः आत्मनेपदम् एव , भावकर्मणोः आत्मनेपदम् एव । कः च अत्र विशेषः । तत्र प्रत्ययनियमे शेषवचनम् परस्मैपदस्य अनिवृत्तत्वात् । तत्र प्रत्ययनियमे शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् । शेषात् कर्तरि परस्मैपदम् इति । किम् कारणम् । परस्मैपदस्य अनिवृत्तत्वात् । प्रत्ययाः नियताः प्रकृत्यर्थौ अनियतौ । तत्र परस्मैपदम् प्राप्नोति । तत्र शेषग्रहणम् कर्तव्यम् परस्मैपदनियमार्थम् । शेषात् एव परस्मैपदम् भवति न अन्यतः इति । क्यषः आत्मनेपदवचनम् तस्य अन्यत्र नियमात् । क्यषः आत्मनेपदम् वक्तव्यम् । लोहितायति लोहितायते । किम् पुनः कारणम् न सिध्यति । तस्य अन्यत्र नियमात् । तत् हि अन्यत्र नियम्यते । उच्यते च न च प्राप्नोति । तत् वचनात् भविष्यति । अस्तु तर्हि प्रकृत्यर्थनियमः । प्रकृत्यर्थनियमे अन्याभावः । प्रकृत्यर्थनियमे अन्येषाम् प्रत्ययानाम् अभावः । अनुदात्तङितः तृजादयः न प्राप्नुवन्ति । न एषः दोषः । अनवकाशाः तृजादयः उच्यन्ते च । ते वचनात् भविष्यन्ति । सावकाशाः तृजादयः । कः अवकाशः । परस्मैपदिनः अवकाशः । तत्र अपि नियमात् न प्राप्नुवन्ति । तव्यादयः तर्हि भावकर्मणोः नियमात् न प्राप्नुवन्ति । तव्यादयः अपि अनवकाशाः । ते वचनात् भविष्यन्ति । चिण् तर्हि भावकर्मणोः नियमात् न प्राप्नोति । चिण् अपि वचनात् भविष्यति । घञ् तर्हि भावकर्मणोः नियमात् न प्राप्नोति । तत्र अपि प्रकृतम् कर्मग्रहणम् । क्व प्रकृतम् । अण् कर्मणि च इति । तत् वै तत्र उपपदविशेषणम् अभिधेयविशेषणेन च इह अर्थः । न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति । न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति । न हि गोधा सर्पन्ती सर्पणात् अहिः भवति । यत् तावत् उच्यते न च अन्यार्थम् प्रकृतम् अन्यार्थम् भवति इति अन्यार्थम् अपि प्रकृतम् अन्यार्थम् भवति टत् यथा । शाल्यर्थम् कुल्याः प्रणीयन्ते ताभ्यः च पाणीयम् पीयते उपश्पृश्यते च शालयः च भाव्यन्ते । यद् अपि उच्यते न खलु अपि अन्यत् प्रकृतम् अनुवर्तनात् अन्यत् भवति । न हि गोधा सर्पन्ती सर्पणात् अहिः भवति इति । भवेत् द्रव्येषु एतत् एवम् स्यात् । शब्दः तु खलु येन येन विशेषेण अभिसम्बध्यते तस्य तस्य विशेषकः भवति । शेषवचनम् च । शेषग्रहणम् च कर्तव्यम् । शेषात् कर्तरि परस्मैपदम् इति । किम् प्रयोजनम् । शेषनियमार्थम् । प्रकृतर्थौ नियतौ । प्रत्ययाः अनियताः । ते शेषे अपि प्राप्नुवन्ति । तत्र शेषग्रहणम् कर्तव्यम् । शेषात् कर्तरि परस्मैपदम् एव न अन्यत् इति । कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् । कर्तरि च आत्मनेपदविषये परस्मैपदप्रतिषेधार्थम् द्वितीयम् शेषग्रहणम् कर्तव्यम् । शेषात् शेषे इति वक्तव्यम् । इह मा भूत् । भिद्यते कुशूलः स्वयम् एव इति । कतरस्मिन् पक्षे अयम् दोषः । प्रकृत्यर्थनियमे । प्रकृत्यर्थनियमे तावत् न दोषः । प्रकृत्यर्थौ नियतौ । प्रत्ययाः अनियताः । तत्र न अर्थः कर्तृग्रहणेन कर्तृग्रहणात् च दोषः । प्रत्ययनियमे तर्हि अयम् दोषः । प्रत्ययाः नियताः । प्रकृत्यर्थौ अनियतौ । तत्र कर्तृग्रहणम् कर्तव्यम् भावकर्मणोः निवृत्त्यर्थम् । कर्तृग्रहणात् च एषः दोषः । प्रकृत्यर्थनियमे शेषग्रहणम् शक्यम् अकर्तुम् । कथम् । प्रकृतयर्थौ नियतौ । प्रत्ययाः अनियताः । ततः वक्ष्यामि परस्मैपदम् भवति इति । तत् नियमार्थम् भविष्यति । यत्र परस्मैपदम् च अन्यत् च प्राप्नोति तत्र परस्मैपदम् एव भवति इति । तत् तर्हि प्रत्ययनियमे द्वितीयम् शेषग्रहणम् कर्तव्यम् । न कर्तव्यम् । योगविभागः करिष्यते । अनुदात्तङितः आत्मनेपदम् । ततः भावकर्मणोः । ततः कर्तरि । कर्तरि च आत्मनेपदम् भवति भावकर्मणोः । ततः कर्क्मव्यतिहारे । कर्तरि इति एव । भावकर्मणोः इति निवृत्तम् । यथा एव तर्हि कर्मणि कर्तरि भवति एवम् भावे अपि कर्तरि प्राप्नोति । एति जीवन्तम् आनन्दः । न अस्य किम् चित् रुजति इति । द्वितीयः योगविभागः करिष्यते । अनुदात्तङितः आत्मनेपदम् । ततः भावे । ततः कर्मणि । कर्मणि च आत्मनेपदम् भवति । ततः कर्तरि । कर्तरि च आत्मनेपदम् भवति । कर्मणि इति अनुवर्तते । भावे इति निवृत्तम् । ततः कर्मव्यतिहारे । कर्तरि इति एव । कर्मणि इति

KA I,275.16-277.18 Ro II,237-244 kim punaḥ ayam pratyayaniyamaḥ : anudāttaṅitaḥ eva ātmanepadam bhavati , bhāvakarmaṇoḥ eva ātmanepadam bhavati iti . āhosvit prakṛtyarthaniyamaḥ : anudāttaṅitaḥ ātmanepadam eva , bhāvakarmaṇoḥ ātmanepadam eva . kaḥ ca atra viśeṣaḥ . tatra pratyayaniyame śeṣavacanam parasmaipadasya anivṛttatvāt . tatra pratyayaniyame śeṣagrahaṇam kartavyam parasmaipadaniyamārtham . śeṣāt kartari parasmaipadam iti . kim kāraṇam . parasmaipadasya anivṛttatvāt . pratyayāḥ niyatāḥ prakṛtyarthau aniyatau . tatra parasmaipadam prāpnoti . tatra śeṣagrahaṇam kartavyam parasmaipadaniyamārtham . śeṣāt eva parasmaipadam bhavati na anyataḥ iti . kyaṣaḥ ātmanepadavacanam tasya anyatra niyamāt . kyaṣaḥ ātmanepadam vaktavyam . lohitāyati lohitāyate . kim punaḥ kāraṇam na sidhyati . tasya anyatra niyamāt . tat hi anyatra niyamyate . ucyate ca na ca prāpnoti . tat vacanāt bhaviṣyati . astu tarhi prakṛtyarthaniyamaḥ . prakṛtyarthaniyame anyābhāvaḥ . prakṛtyarthaniyame anyeṣām pratyayānām abhāvaḥ . anudāttaṅitaḥ tṛjādayaḥ na prāpnuvanti . na eṣaḥ doṣaḥ . anavakāśāḥ tṛjādayaḥ ucyante ca . te vacanāt bhaviṣyanti . sāvakāśāḥ tṛjādayaḥ . kaḥ avakāśaḥ . parasmaipadinaḥ avakāśaḥ . tatra api niyamāt na prāpnuvanti . tavyādayaḥ tarhi bhāvakarmaṇoḥ niyamāt na prāpnuvanti . tavyādayaḥ api anavakāśāḥ . te vacanāt bhaviṣyanti . ciṇ tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti . ciṇ api vacanāt bhaviṣyati . ghañ tarhi bhāvakarmaṇoḥ niyamāt na prāpnoti . tatra api prakṛtam karmagrahaṇam . kva prakṛtam . aṇ karmaṇi ca iti . tat vai tatra upapadaviśeṣaṇam abhidheyaviśeṣaṇena ca iha arthaḥ . na ca anyārtham prakṛtam anyārtham bhavati . na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati . yat tāvat ucyate na ca anyārtham prakṛtam anyārtham bhavati iti anyārtham api prakṛtam anyārtham bhavati ṭat yathā . śālyartham kulyāḥ praṇīyante tābhyaḥ ca pāṇīyam pīyate upaśpṛśyate ca śālayaḥ ca bhāvyante . yad api ucyate na khalu api anyat prakṛtam anuvartanāt anyat bhavati . na hi godhā sarpantī sarpaṇāt ahiḥ bhavati iti . bhavet dravyeṣu etat evam syāt . śabdaḥ tu khalu yena yena viśeṣeṇa abhisambadhyate tasya tasya viśeṣakaḥ bhavati . śeṣavacanam ca . śeṣagrahaṇam ca kartavyam . śeṣāt kartari parasmaipadam iti . kim prayojanam . śeṣaniyamārtham . prakṛtarthau niyatau . pratyayāḥ aniyatāḥ . te śeṣe api prāpnuvanti . tatra śeṣagrahaṇam kartavyam . śeṣāt kartari parasmaipadam eva na anyat iti . kartari ca ātmanepadaviṣaye parasmaipadapratiṣedhārtham . kartari ca ātmanepadaviṣaye parasmaipadapratiṣedhārtham dvitīyam śeṣagrahaṇam kartavyam . śeṣāt śeṣe iti vaktavyam . iha mā bhūt . bhidyate kuśūlaḥ svayam eva iti . katarasmin pakṣe ayam doṣaḥ . prakṛtyarthaniyame . prakṛtyarthaniyame tāvat na doṣaḥ . prakṛtyarthau niyatau . pratyayāḥ aniyatāḥ . tatra na arthaḥ kartṛgrahaṇena kartṛgrahaṇāt ca doṣaḥ . pratyayaniyame tarhi ayam doṣaḥ . pratyayāḥ niyatāḥ . prakṛtyarthau aniyatau . tatra kartṛgrahaṇam kartavyam bhāvakarmaṇoḥ nivṛttyartham . kartṛgrahaṇāt ca eṣaḥ doṣaḥ . prakṛtyarthaniyame śeṣagrahaṇam śakyam akartum . katham . prakṛtayarthau niyatau . pratyayāḥ aniyatāḥ . tataḥ vakṣyāmi parasmaipadam bhavati iti . tat niyamārtham bhaviṣyati . yatra parasmaipadam ca anyat ca prāpnoti tatra parasmaipadam eva bhavati iti . tat tarhi pratyayaniyame dvitīyam śeṣagrahaṇam kartavyam . na kartavyam . yogavibhāgaḥ kariṣyate . anudāttaṅitaḥ ātmanepadam . tataḥ bhāvakarmaṇoḥ . tataḥ kartari . kartari ca ātmanepadam bhavati bhāvakarmaṇoḥ . tataḥ karkmavyatihāre . kartari iti eva . bhāvakarmaṇoḥ iti nivṛttam . yathā eva tarhi karmaṇi kartari bhavati evam bhāve api kartari prāpnoti . eti jīvantam ānandaḥ . na asya kim cit rujati iti . dvitīyaḥ yogavibhāgaḥ kariṣyate . anudāttaṅitaḥ ātmanepadam . tataḥ bhāve . tataḥ karmaṇi . karmaṇi ca ātmanepadam bhavati . tataḥ kartari . kartari ca ātmanepadam bhavati . karmaṇi iti anuvartate . bhāve iti nivṛttam . tataḥ karmavyatihāre . kartari iti eva . karmaṇi iti

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७७।२०-२७८।६ रो इइ,२४४-२४५ क्रियाव्यतिर्हारे इति वक्तव्यम् । कर्मव्यतिर्हारे इति उच्यमाने इह प्रसज्येत देवदत्तस्य धान्यम् व्यतिलुनन्ति इति इह च न स्यात् व्यतिलुनते व्यतिपुनते इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । क्रियाम् हि लोके कर्म इति उपचरन्ति । काम् क्रियाम् करिष्यसि । किम् कर्म करिष्यसि इति । एवम् अपि कर्तव्यम् । कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति । क्रिया अपि कृत्रिमम् कर्म । न सिध्यति । कर्तुः ईप्सिततमम् कर्म इति उच्यते । कथम् च क्रिया नाम क्रियेप्सिततमा स्यात् । क्रिया अपि क्रियेप्सिततमा भवति । कया क्रियया । सम्पश्यतिक्रियया प्रार्थयतिक्रियया अध्यवस्यतिक्रियया वा । इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सल्ः बुद्ध्या तावत् कम् चित् अर्थम् सम्पश्यति । सन्दृष्टे प्रार्थना प्रार्थिते अध्यवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावप्तिः । एवम् क्रिया अपि कृत्रिमम् कर्म । एवम् अपि उभयोः कृत्रिमाकृत्रिमयोः उभयगतिः प्रसज्येत । तस्मात् क्रियाव्यतिहारे इति वक्तव्यम् । न वक्तव्यम् । इह कर्तरि व्यतिहारे इति इयता सिद्धम् । सः अयम् एवम् सिद्धे सति यत् कर्मग्रहणम् करोति तस्य एतत् प्रयोजनम् क्रियाव्यतिहारे यथा स्यात् कर्मव्यतिहारे मा भूत् इति ।

KA I,277.20-278.6 Ro II,244-245 kriyāvyatirhāre iti vaktavyam . karmavyatirhāre iti ucyamāne iha prasajyeta devadattasya dhānyam vyatilunanti iti iha ca na syāt vyatilunate vyatipunate iti . tat tarhi vaktavyam . na vaktavyam . kriyām hi loke karma iti upacaranti . kām kriyām kariṣyasi . kim karma kariṣyasi iti . evam api kartavyam . kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati . kriyā api kṛtrimam karma . na sidhyati . kartuḥ īpsitatamam karma iti ucyate . katham ca kriyā nāma kriyepsitatamā syāt . kriyā api kriyepsitatamā bhavati . kayā kriyayā . sampaśyatikriyayā prārthayatikriyayā adhyavasyatikriyayā vā . iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati salḥ buddhyā tāvat kam cit artham sampaśyati . sandṛṣṭe prārthanā prārthite adhyavasāyaḥ adhyavasāye ārambhaḥ ārambhe nirvṛttiḥ nirvṛttau phalāvaptiḥ . evam kriyā api kṛtrimam karma . evam api ubhayoḥ kṛtrimākṛtrimayoḥ ubhayagatiḥ prasajyeta . tasmāt kriyāvyatihāre iti vaktavyam . na vaktavyam . iha kartari vyatihāre iti iyatā siddham . saḥ ayam evam siddhe sati yat karmagrahaṇam karoti tasya etat prayojanam kriyāvyatihāre yathā syāt karmavyatihāre mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७८।७-२१ रो इइ,२४६ अथ कर्तृग्रहणम् किमर्थम् । कर्मव्यतिहारादिषु कर्तृग्रहणम् भावकर्मनिवृत्त्यर्थम् । कर्मव्यतिहारादिषु कर्तृग्रहणम् क्रियते भावकर्मणोः अनेन आत्मनेपदम् मा भूत् इति । इतरथा हि तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः । अक्रियमाणे कर्तृग्रहणे भावकर्मणोः अपि आत्मनेपदम् प्रसज्येत । तत्र कः दोषः । तत्र प्रतिषेधे भावकर्मणोः प्रतिषेधः । तत्र कः दोषः । तत्र प्रतिषेधे भावकर्मणोः अपि अनेन आत्मनेपदस्य प्रतिषेधः प्रसज्येत । व्यतिगम्यन्ते ग्रामाः व्यतिहन्यन्ते दस्यवः इति । न वा अनन्तरस्य प्रतिषेधात् । न वा एषः दोषः । किम् कारणम् । अनन्तरस्य प्रतिषेधात् । अनन्तरम् यत् आत्मनेपदविधानम् तस्य प्रतिषेधात् । कुतः एतत् । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति । ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुम् । उत्तरार्थम् तर्हि कर्तृग्रहणम् कर्तव्यम् । न कर्तव्यम् । क्रियते तत्र एव शेषात् कर्तरि परस्मैपदम् इति । द्वितीयम् कर्तृग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । कर्ता एव यः कर्ता तत्र यथा स्यात् । कर्त च अन्यः च यः कर्ता तत्र मा भूत् इति ।

KA I,278.7-21 Ro II,246 atha kartṛgrahaṇam kimartham . karmavyatihārādiṣu kartṛgrahaṇam bhāvakarmanivṛttyartham . karmavyatihārādiṣu kartṛgrahaṇam kriyate bhāvakarmaṇoḥ anena ātmanepadam mā bhūt iti . itarathā hi tatra pratiṣedhe bhāvakarmaṇoḥ pratiṣedhaḥ . akriyamāṇe kartṛgrahaṇe bhāvakarmaṇoḥ api ātmanepadam prasajyeta . tatra kaḥ doṣaḥ . tatra pratiṣedhe bhāvakarmaṇoḥ pratiṣedhaḥ . tatra kaḥ doṣaḥ . tatra pratiṣedhe bhāvakarmaṇoḥ api anena ātmanepadasya pratiṣedhaḥ prasajyeta . vyatigamyante grāmāḥ vyatihanyante dasyavaḥ iti . na vā anantarasya pratiṣedhāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . anantarasya pratiṣedhāt . anantaram yat ātmanepadavidhānam tasya pratiṣedhāt . kutaḥ etat . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . uttarārtham tarhi kartṛgrahaṇam kartavyam . na kartavyam . kriyate tatra eva śeṣāt kartari parasmaipadam iti . dvitīyam kartṛgrahaṇam kartavyam . kim prayojanam . kartā eva yaḥ kartā tatra yathā syāt . karta ca anyaḥ ca yaḥ kartā tatra mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७८।२३-२७९।३ रो इइ,२४७ प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् । प्रतिषेधे हसादीनाम् उपसङ्ख्यानम् कर्तव्यम् । व्यतिहसन्ति वयतिजल्पन्ति व्यतिपठन्ति । हरिवह्योः अप्रतिषेधः । हरिवह्योः अप्रतिषेधः भवति इति वक्तव्यम् । सम्प्रहरन्ते राजानः । संविवहन्ते गर्गैः इति । न वहिः गत्यर्थः । देशान्तरप्रापणक्रियः वहिः ।

KA I,278.23-279.3 Ro II,247 pratiṣedhe hasādīnām upasaṅkhyānam . pratiṣedhe hasādīnām upasaṅkhyānam kartavyam . vyatihasanti vayatijalpanti vyatipaṭhanti . harivahyoḥ apratiṣedhaḥ . harivahyoḥ apratiṣedhaḥ bhavati iti vaktavyam . sampraharante rājānaḥ . saṃvivahante gargaiḥ iti . na vahiḥ gatyarthaḥ . deśāntaraprāpaṇakriyaḥ vahiḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७९।५ रो इइ,२४८ प्ररस्परोपपदात् च । प्ररस्परोपपदात् च इति वक्तव्यम् । परस्परस्य व्यतिलुनन्ति । परस्परस्य व्यतिपुनन्ति ।

KA I,279.5 Ro II,248 prarasparopapadāt ca . prarasparopapadāt ca iti vaktavyam . parasparasya vyatilunanti . parasparasya vyatipunanti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७९।९-१३ रो इइ,२४८-२४९ उपसर्गग्रहणम् कर्तव्यम् । परा जयति सेना इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यदि अपि तावत् अयम् पराशब्दः दृष्टापचारः उपसर्गः च अनुपसर्गः च अयम् तु खलु विशब्दः अदृष्टापचारः उपसर्गः एव । तस्य अस्य कः द्वितीयः सहायः भवितुम् अर्हति अन्यत् अतः उपसर्गात् । तत् यथा अस्य गोः द्वितीयेन अर्थः इति गौः एव उपादीयते न अश्वः न गर्दभः ।

KA I,279.9-13 Ro II,248-249 upasargagrahaṇam kartavyam . parā jayati senā iti . tat tarhi vaktavyam . na vaktavyam . yadi api tāvat ayam parāśabdaḥ dṛṣṭāpacāraḥ upasargaḥ ca anupasargaḥ ca ayam tu khalu viśabdaḥ adṛṣṭāpacāraḥ upasargaḥ eva . tasya asya kaḥ dvitīyaḥ sahāyaḥ bhavitum arhati anyat ataḥ upasargāt . tat yathā asya goḥ dvitīyena arthaḥ iti gauḥ eva upādīyate na aśvaḥ na gardabhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२७९।१५-२३ रो इइ,२४९-२५० आङः दः अव्यसनक्रियस्य । आङः दः अव्यसनक्रियस्य इति वक्तव्यम् । इह अपि यथा स्यात् । विपादिकाम् व्याददाति । कूलम् व्याददाति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । इह आङः दः अनास्ये इति इयता सिद्धम् । सः अयम् एवम् सिद्धे सति यत् विहरणग्रहणम् करोति तस्य एतत् प्रयोजनम् आस्यविहरणसमानक्रियात् अपि यथा स्यात् । यथाजातीयका च आस्यविहरणक्रिया तथाजातीयका अत्र अपि । स्वाङ्गकर्मात् च । स्वाङ्गकर्मात् च इति वक्तव्यम् । इह मा भूत् । व्याददते पिपीलिकाः पतङ्गमुखम् इति ।

KA I,279.15-23 Ro II,249-250 āṅaḥ daḥ avyasanakriyasya . āṅaḥ daḥ avyasanakriyasya iti vaktavyam . iha api yathā syāt . vipādikām vyādadāti . kūlam vyādadāti iti . tat tarhi vaktavyam . na vaktavyam . iha āṅaḥ daḥ anāsye iti iyatā siddham . saḥ ayam evam siddhe sati yat viharaṇagrahaṇam karoti tasya etat prayojanam āsyaviharaṇasamānakriyāt api yathā syāt . yathājātīyakā ca āsyaviharaṇakriyā tathājātīyakā atra api . svāṅgakarmāt ca . svāṅgakarmāt ca iti vaktavyam . iha mā bhūt . vyādadate pipīlikāḥ pataṅgamukham iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८०।२-२० रो इइ,२५१-२५३ उपसर्गग्रहणम् कर्तव्यम् । इह मा भूत् । अनु क्रीडति माणवकम् । समः अकूजने । समः अकूजने इति वक्तव्यम् । इह मा भूत् । सङ्क्रीडन्ति शकटानि । आगमेः क्षमायाम् । आगमेः क्षमायाम् उपसङ्ख्यनम् कर्तव्यम् । आगमयस्व तावत् माणव्क । शिक्षेः जिज्ञासायाम् । शिक्षेः जिज्ञासायाम् उपसङ्ख्यनम् कर्तव्यम् । विद्यासु शिक्षते । धनुषि शिक्षते । किरतेः हर्षजीविकाकुलायकरणेषु । किरतेः हर्षजीविकाकुलायकरणेषु उपसङ्ख्यनम् कर्तव्यम् । अपस्किरते वृषभः हृष्टः । अपस्किरते कुक्कुटः भक्षार्थी । अपस्किरते श्वा आश्रयार्थी । हरतेः गतताच्छील्ये । हरतेः गतताच्छील्ये उपसङ्ख्यनम् कर्तव्यम् । पैतृकम् अश्वाः अनुहरन्ते । मातृकम् गावः अनुहरन्ते । आङि नुप्रच्छ्योः । आङि नुप्रच्छ्योः उपसङ्ख्यनम् कर्तव्यम् । आनुते शृगालः । आपृच्छते गुरुम् । आशिषि नाथः । आशिषि नाथः उपसङ्ख्यनम् कर्तव्यम् । सर्पिषः नाथते । मधुनः नाथते । शपः उपलम्भने । शपः उपलम्भने उपसङ्ख्यनम् कर्तव्यम् । देवदत्ताय शपते । यज्ञदत्ताय शपते ।

KA I,280.2-20 Ro II,251-253 upasargagrahaṇam kartavyam . iha mā bhūt . anu krīḍati māṇavakam . samaḥ akūjane . samaḥ akūjane iti vaktavyam . iha mā bhūt . saṅkrīḍanti śakaṭāni . āgameḥ kṣamāyām . āgameḥ kṣamāyām upasaṅkhyanam kartavyam . āgamayasva tāvat māṇavka . śikṣeḥ jijñāsāyām . śikṣeḥ jijñāsāyām upasaṅkhyanam kartavyam . vidyāsu śikṣate . dhanuṣi śikṣate . kirateḥ harṣajīvikākulāyakaraṇeṣu . kirateḥ harṣajīvikākulāyakaraṇeṣu upasaṅkhyanam kartavyam . apaskirate vṛṣabhaḥ hṛṣṭaḥ . apaskirate kukkuṭaḥ bhakṣārthī . apaskirate śvā āśrayārthī . harateḥ gatatācchīlye . harateḥ gatatācchīlye upasaṅkhyanam kartavyam . paitṛkam aśvāḥ anuharante . mātṛkam gāvaḥ anuharante . āṅi nupracchyoḥ . āṅi nupracchyoḥ upasaṅkhyanam kartavyam . ānute śṛgālaḥ . āpṛcchate gurum . āśiṣi nāthaḥ . āśiṣi nāthaḥ upasaṅkhyanam kartavyam . sarpiṣaḥ nāthate . madhunaḥ nāthate . śapaḥ upalambhane . śapaḥ upalambhane upasaṅkhyanam kartavyam . devadattāya śapate . yajñadattāya śapate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८०।२२-२४ रो इइ,२५३ आङः स्थः प्रतिज्ञाने । आङः स्थः प्रतिज्ञाने इति वक्तव्यम् । अस्तिम् सकारम् आतिष्ठते । आगमौ गुणवृद्धी आतिष्ठते । विकारौ गुणवृद्धी आतिष्ठते ।

KA I,280.22-24 Ro II,253 āṅaḥ sthaḥ pratijñāne . āṅaḥ sthaḥ pratijñāne iti vaktavyam . astim sakāram ātiṣṭhate . āgamau guṇavṛddhī ātiṣṭhate . vikārau guṇavṛddhī ātiṣṭhate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८१।२-३ रो इइ,२५३ उदः ईहायाम् । उदः ईहायाम् इति वक्तव्यम् । इह मा भूत् । उत्तिष्ठति सेना इति ।

KA I,281.2-3 Ro II,253 udaḥ īhāyām . udaḥ īhāyām iti vaktavyam . iha mā bhūt . uttiṣṭhati senā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ, २८१।५-१७ रो इइ,२५४ उपात् पूजासङ्गतकरणयोः । उपात् पूजासङ्गतकरणयोः इति वक्तव्यम् । आदित्यम् उपतिष्ठते । चन्द्रमसम् उपतिष्ठते । सङ्गतकरणे । रथिकान् उपतिष्ठते । अश्वारोहान् उपतिष्ठते । बहूनाम् अपि अचित्तानाम् एकः भवति चित्तवान् । पश्य वानरसैन्ये अस्मिन् यत् अर्कम् उपतिष्ठते । मा एवम् मंस्थाः सचित्तः अयम् एषः अपि यथा वयम् । एतत् अपि अस्य कापेयम् यत् अर्कम् उपतिष्ठति । अपरः आह : उपात् देवपूजासङ्गतकरणमित्रकरणपथिषु इति वक्तव्यम् । सङ्गतकरणे उदाहृतम् । मित्रकरणे । रथिकान् उपतिष्ठते । अश्वारोहान् उपतिष्ठते । पथि। अयम् पन्थाः स्रुघ्नम् उपतिष्ठते । अयम् पन्थाः साकेतम् उपतिष्थते । वा लिप्सायाम् । वा लिप्सायाम् इति वक्तव्यम् । भिक्षुकः ब्राह्मणकुलम् उपतिष्ठते । भिक्षुकः ब्राह्मणकुलम् उपतिष्ठति वा ।

KA I, 281.5-17 Ro II,254 upāt pūjāsaṅgatakaraṇayoḥ . upāt pūjāsaṅgatakaraṇayoḥ iti vaktavyam . ādityam upatiṣṭhate . candramasam upatiṣṭhate . saṅgatakaraṇe . rathikān upatiṣṭhate . aśvārohān upatiṣṭhate . bahūnām api acittānām ekaḥ bhavati cittavān . paśya vānarasainye asmin yat arkam upatiṣṭhate . mā evam maṃsthāḥ sacittaḥ ayam eṣaḥ api yathā vayam . etat api asya kāpeyam yat arkam upatiṣṭhati . aparaḥ āha : upāt devapūjāsaṅgatakaraṇamitrakaraṇapathiṣu iti vaktavyam . saṅgatakaraṇe udāhṛtam . mitrakaraṇe . rathikān upatiṣṭhate . aśvārohān upatiṣṭhate . pathi. ayam panthāḥ srughnam upatiṣṭhate . ayam panthāḥ sāketam upatiṣthate . vā lipsāyām . vā lipsāyām iti vaktavyam . bhikṣukaḥ brāhmaṇakulam upatiṣṭhate . bhikṣukaḥ brāhmaṇakulam upatiṣṭhati vā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८१।१९-२८२।५ रो इइ,२५५-२५६ अकर्मकात् इति एव । उत् तपति सुवर्णम् सुवर्णकारः । स्वाङ्गकर्मकात् च । स्वाङ्गकर्मकात् च इति वक्तव्यम् । उत्तपते पाणी । वितपते पाणी । उत्तपते पृष्ठम् । वितपते पृष्ठम् । अथ उद्भिभ्याम् इति अत्र किम् प्रत्युदाह्रियते । निष्टप्यते इति । किम् पुनः कारणम् आत्मनेपदम् एव उदाह्रियते न परस्मैपदम् प्रत्युदाहार्यम् स्यात् । तपिः अयम् अकर्मकः । अकर्मकाः च अपि सोपसर्गाः सकर्मकाः भवन्ति । न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति । यत् उच्यते न च अन्तरेण कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति इति अन्तरेण अपि कर्मकर्तारम् सकर्मकाः अकर्मकाः भवन्ति । तत् यथा । नदीवहति इति अकर्मकः । भारम् वहति इति सकर्मकः । तस्मात् निष्टपति इति प्रत्युदाहर्तव्यम् ।

KA I,281.19-282.5 Ro II,255-256 akarmakāt iti eva . ut tapati suvarṇam suvarṇakāraḥ . svāṅgakarmakāt ca . svāṅgakarmakāt ca iti vaktavyam . uttapate pāṇī . vitapate pāṇī . uttapate pṛṣṭham . vitapate pṛṣṭham . atha udbhibhyām iti atra kim pratyudāhriyate . niṣṭapyate iti . kim punaḥ kāraṇam ātmanepadam eva udāhriyate na parasmaipadam pratyudāhāryam syāt . tapiḥ ayam akarmakaḥ . akarmakāḥ ca api sopasargāḥ sakarmakāḥ bhavanti . na ca antareṇa karmakartāram sakarmakāḥ akarmakāḥ bhavanti . yat ucyate na ca antareṇa karmakartāram sakarmakāḥ akarmakāḥ bhavanti iti antareṇa api karmakartāram sakarmakāḥ akarmakāḥ bhavanti . tat yathā . nadīvahati iti akarmakaḥ . bhāram vahati iti sakarmakaḥ . tasmāt niṣṭapati iti pratyudāhartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८२।७-९ रो इइ,२५६ अकर्मकात् इति एव । आयच्छति रज्जुम् कूपात् । आहन्ति वृषलम् पादेन । स्वाङ्गकर्मकात् च । स्वाङ्गकर्मकात् च इति वक्तव्यम् । आयच्छते पाणी । आहते उदरम् इति ।

KA I,282.7-9 Ro II,256 akarmakāt iti eva . āyacchati rajjum kūpāt . āhanti vṛṣalam pādena . svāṅgakarmakāt ca . svāṅgakarmakāt ca iti vaktavyam . āyacchate pāṇī . āhate udaram iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८२।११-१८ रो इइ,२५६-२५७ समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् । समः गम्यादिषु विदिप्रच्छिस्वरतीनाम् उपसङ्ख्यानम् कर्तव्यम् । संवित्ते सम्पृच्छते संस्वरते । अर्तिश्रुदृशिभ्यः च । अर्तिश्रुदृशिभ्यः च इति वक्तव्यम् । म समृत मा समृषाताम् मा समृषत । अर्ति । श्रु । संश्र्णुते । दृशि । सम्पश्यते । उपसर्गात् अस्यत्यूह्योः वावचनम् । उपसर्गात् अस्त्यूह्योः वा इति वक्तव्यम् । निरस्यति निरस्यते । समूहति समूहते ।

KA I,282.11-18 Ro II,256-257 samaḥ gamyādiṣu vidipracchisvaratīnām upasaṅkhyānam . samaḥ gamyādiṣu vidipracchisvaratīnām upasaṅkhyānam kartavyam . saṃvitte sampṛcchate saṃsvarate . artiśrudṛśibhyaḥ ca . artiśrudṛśibhyaḥ ca iti vaktavyam . ma samṛta mā samṛṣātām mā samṛṣata . arti . śru . saṃśrṇute . dṛśi . sampaśyate . upasargāt asyatyūhyoḥ vāvacanam . upasargāt astyūhyoḥ vā iti vaktavyam . nirasyati nirasyate . samūhati samūhate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८२।२०-२१ रो इइ,२५७ ज्योतिषाम् उद्गमने। ज्योतिषाम् उद्गमने इति वक्तव्यम् । इह मा भूत् । आक्रामति धूमः हर्म्यतलम् इति ।

KA I,282.20-21 Ro II,257 jyotiṣām udgamane. jyotiṣām udgamane iti vaktavyam . iha mā bhūt . ākrāmati dhūmaḥ harmyatalam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८३।२-११ रो इइ,२५७-२५८ व्यक्तवाचाम् इति किमर्थम् । वरतनु सम्प्रवदन्ति कुक्कुटाः । व्यक्तवाचाम् इति उच्यमाने अपि अत्र प्राप्नोति । एते अपि हि व्यक्तवाचः । आतः च व्यक्तवाचः कुक्कुटेन उदिते उच्यते कुक्कुटः वदति इति । एवम् तर्हि व्यक्तवाचाम् इति उच्यते । सर्वे एव हि व्यक्तवाचः । तत्र प्रकर्षगतिः विज्ञास्यते । साधीयः ये व्यक्तवाचः इति । के च साधीयः । येषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते । न च एतेषाम् वाचि अकारादयः वर्णाः व्यज्यन्ते । एतेषाम् अपि वाचि अकारादयः वर्णाः व्यज्यन्ते । आतः च व्यज्यन्ते एवम् हि आहुः कुक्कुटाः कुक्कुट् इति । न एवम् ते आहुः । अनुकरणम् एतत् तेषाम् । अथ वा न एवम् विज्ञायते व्यक्ता वाक् येषाम् ते इमे व्यक्तवाचः इति । कथम् तर्हि । व्यक्ता वाचि वर्णाः येषाम् ते इमे व्यक्तवाचः इति ।

KA I,283.2-11 Ro II,257-258 vyaktavācām iti kimartham . varatanu sampravadanti kukkuṭāḥ . vyaktavācām iti ucyamāne api atra prāpnoti . ete api hi vyaktavācaḥ . ātaḥ ca vyaktavācaḥ kukkuṭena udite ucyate kukkuṭaḥ vadati iti . evam tarhi vyaktavācām iti ucyate . sarve eva hi vyaktavācaḥ . tatra prakarṣagatiḥ vijñāsyate . sādhīyaḥ ye vyaktavācaḥ iti . ke ca sādhīyaḥ . yeṣām vāci akārādayaḥ varṇāḥ vyajyante . na ca eteṣām vāci akārādayaḥ varṇāḥ vyajyante . eteṣām api vāci akārādayaḥ varṇāḥ vyajyante . ātaḥ ca vyajyante evam hi āhuḥ kukkuṭāḥ kukkuṭ iti . na evam te āhuḥ . anukaraṇam etat teṣām . atha vā na evam vijñāyate vyaktā vāk yeṣām te ime vyaktavācaḥ iti . katham tarhi . vyaktā vāci varṇāḥ yeṣām te ime vyaktavācaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८३।१३-१५ रो इइ,२५८ अवाद् ग्रः गिरतेः । अवाद् ग्रः इति अत्र गिरतेः इति वक्तव्यम् । गृणातेः मा भूत् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् प्रयोगाभावात् । अवात् ग्रः इति उच्यते न च आपूर्वस्य गृणातेः प्रयोगः अस्ति ।

KA I,283.13-15 Ro II,258 avād graḥ girateḥ . avād graḥ iti atra girateḥ iti vaktavyam . gṛṇāteḥ mā bhūt . tat tarhi vaktavyam . na vaktavyam prayogābhāvāt . avāt graḥ iti ucyate na ca āpūrvasya gṛṇāteḥ prayogaḥ asti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८३।१७-२२ रो इइ,२५८-२५९ तृतीयायुक्तात् इति किमर्थम् । उभौ लोकौ चञ्चरसि इमम् च अमुम् च देवल । तृतीयायुक्तात् इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि हि तृतीयया योगः । एवम् तर्हि तृतीयायुक्तात् इति उच्यते सर्वत्र च तृतीयया योगः । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यत्र तृतीयया योगः इति । क्व च साधीयः । यत्र तृतीयया योगः श्रूयते ।

KA I,283.17-22 Ro II,258-259 tṛtīyāyuktāt iti kimartham . ubhau lokau cañcarasi imam ca amum ca devala . tṛtīyāyuktāt iti ucyamāne api atra prāpnoti . atra api hi tṛtīyayā yogaḥ . evam tarhi tṛtīyāyuktāt iti ucyate sarvatra ca tṛtīyayā yogaḥ . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yatra tṛtīyayā yogaḥ iti . kva ca sādhīyaḥ . yatra tṛtīyayā yogaḥ śrūyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८४।२-८ रो इइ,२५९-२६० सा चेत् तृतीया चतुर्थ्यर्थे इति उच्यते । कथम् नाम तृतीया चतुर्थ्यर्थे स्यात् । एवम् तर्हि अशिष्टव्यवहारे अनेन तृतीया च विधीयते आत्मनेपदम् च । दास्या सम्प्रयच्छते । वृषल्या सम्प्रच्छते । यः हि शिष्टव्यवहारः ब्राह्मणीभ्यः सम्प्रयच्छति इति एव तत्र भवितव्यम् । यदि एवम् न अर्थः अनेन योगेन । केन इदानीम् तृतीया भविष्यति आत्मनेपदम् च । सहयुक्ते तृतीया स्यात् व्यतिहारे तङः विधिः । सहयुक्ते अप्रधाने इति एव तृतीया भविष्यति । कर्तरि कर्मव्यतिहारे इति आत्मनेपदम् ।

KA I,284.2-8 Ro II,259-260 sā cet tṛtīyā caturthyarthe iti ucyate . katham nāma tṛtīyā caturthyarthe syāt . evam tarhi aśiṣṭavyavahāre anena tṛtīyā ca vidhīyate ātmanepadam ca . dāsyā samprayacchate . vṛṣalyā sampracchate . yaḥ hi śiṣṭavyavahāraḥ brāhmaṇībhyaḥ samprayacchati iti eva tatra bhavitavyam . yadi evam na arthaḥ anena yogena . kena idānīm tṛtīyā bhaviṣyati ātmanepadam ca . sahayukte tṛtīyā syāt vyatihāre taṅaḥ vidhiḥ . sahayukte apradhāne iti eva tṛtīyā bhaviṣyati . kartari karmavyatihāre iti ātmanepadam .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८४।१०-१२ रो इइ,२६० इह कस्मात् न भवति । स्वम् शाटकान्तम् उपयच्छति इति । अस्वम् यदा स्वम् करोति तदा भवितव्यम् । यदि एवम् स्वीकरणे इति प्राप्नोति । विचित्राः तद्धितवृत्तयः । न अतः तद्धितः उत्पद्यते ।

KA I,284.10-12 Ro II,260 iha kasmāt na bhavati . svam śāṭakāntam upayacchati iti . asvam yadā svam karoti tadā bhavitavyam . yadi evam svīkaraṇe iti prāpnoti . vicitrāḥ taddhitavṛttayaḥ . na ataḥ taddhitaḥ utpadyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८४।१४-२८५।२ रो इइ,२६०-२६१ अनोः ज्ञः प्रतिषेधे सकर्मकवचनम् । अनोः ज्ञः प्रतिषेधे सकर्मकग्रहणम् कर्तव्यम् । इह म भूत् । औषधस्य अनुजिज्ञासते इति । न वा अकर्मकस्य उत्तरेण विधानात् । न वा कर्तव्यम् । किम् कारणम् । अकर्मकस्य उत्तरेण विधानात् । अकर्मकात् जनातेः उत्तरेण योगेन आत्मनेपदम् विधीयते पूर्ववत् सनः इति । प्रतिषेधः पूर्वस्य च । पूर्वस्य च अयम् प्रतिषेधः । सः च सकर्मकार्थः आरम्भः । कथम् पुनः ज्ञायते पूर्वय्स अयम् प्रतिषेधः इति । अनन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । कथम् पुनः ज्ञायते सकर्मकार्थः आरम्भः इति । अकर्मकात् जानातेः सनः आत्मनेपदवचने प्रयोजनम् न अस्ति इति कृत्वा सकर्मकार्थः विज्ञायते ।

KA I,284.14-285.2 Ro II,260-261 anoḥ jñaḥ pratiṣedhe sakarmakavacanam . anoḥ jñaḥ pratiṣedhe sakarmakagrahaṇam kartavyam . iha ma bhūt . auṣadhasya anujijñāsate iti . na vā akarmakasya uttareṇa vidhānāt . na vā kartavyam . kim kāraṇam . akarmakasya uttareṇa vidhānāt . akarmakāt janāteḥ uttareṇa yogena ātmanepadam vidhīyate pūrvavat sanaḥ iti . pratiṣedhaḥ pūrvasya ca . pūrvasya ca ayam pratiṣedhaḥ . saḥ ca sakarmakārthaḥ ārambhaḥ . katham punaḥ jñāyate pūrvaysa ayam pratiṣedhaḥ iti . anantarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . katham punaḥ jñāyate sakarmakārthaḥ ārambhaḥ iti . akarmakāt jānāteḥ sanaḥ ātmanepadavacane prayojanam na asti iti kṛtvā sakarmakārthaḥ vijñāyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८५।४-२१ रो इइ,२६१-२६३ शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः । शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदस्य अभावः । शीयते शीयेते शीयन्ते । किम् च भोः शदेः शित् परस्मैपदेषु इति उच्यते । न खलु परस्मैपदेषु इति उच्यते परस्मैपदेषु तु विज्ञायते । कथम् अनुदात्तङितः आत्मनेपदम् भावकर्मणोः आत्मनेपदम् इति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् उच्यते । एवम् न च परस्मैपदेषु उच्यते परस्मैपदेषु च विज्ञायते । कः पुनः अर्हति एतौ द्वौ योगौ उक्त्वा शेषात् कर्तरि परस्मैपदम् वक्तुम् । किम् तर्हि । अविशेषेण सर्वम् आत्मनेपदप्रकरणम् अनुक्रम्य शेषात् कर्तरि परस्मैपदम् इति उच्यते । एवम् अपि परस्मैपदाश्रयः भवति । कथम् । इदम् तावद् अयम् प्रष्टव्यः । यदि इदम् न उच्येत किम् इह स्यात् इति । परस्मैपदम् इति आह । परस्मैपदम् इति चेत् परस्मैपदाश्रयः भवति । सिद्धम् तु लडादीनाम् आत्मनेपदवचनम् । सिद्धम् एतत् । कथम् । शदेः लडादीनाम् आत्मनेपदम् भवति इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् शदेः शितः परस्मैपदाश्रयत्वात् आत्मनेपदाभावः इति । न एषः दोषः । शितः इति न एषा पञ्चमी । का तर्हि । सम्बन्धषष्ठी । शितः यः शदिः । कः च शितः शदिः । प्रकृतिः । शदेः शित्प्रकृतेः इति । अथ वा आह अयम् शदेः शितः इति न च शदिः शित् अस्ति । ते एवम् विज्ञास्यामः शदेः शिद्विषयात् इति । अथ वा यदि अपि तावत् एतत् अन्यत्र भवति विकरणेभ्यः नियमः बलीयान् इति इह एतत् न अस्ति । विकरणः हि इह आश्रीयते शितः इति ।

KA I,285.4-21 Ro II,261-263 śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadābhāvaḥ . śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadasya abhāvaḥ . śīyate śīyete śīyante . kim ca bhoḥ śadeḥ śit parasmaipadeṣu iti ucyate . na khalu parasmaipadeṣu iti ucyate parasmaipadeṣu tu vijñāyate . katham anudāttaṅitaḥ ātmanepadam bhāvakarmaṇoḥ ātmanepadam iti etau dvau yogau uktvā śeṣāt kartari parasmaipadam ucyate . evam na ca parasmaipadeṣu ucyate parasmaipadeṣu ca vijñāyate . kaḥ punaḥ arhati etau dvau yogau uktvā śeṣāt kartari parasmaipadam vaktum . kim tarhi . aviśeṣeṇa sarvam ātmanepadaprakaraṇam anukramya śeṣāt kartari parasmaipadam iti ucyate . evam api parasmaipadāśrayaḥ bhavati . katham . idam tāvad ayam praṣṭavyaḥ . yadi idam na ucyeta kim iha syāt iti . parasmaipadam iti āha . parasmaipadam iti cet parasmaipadāśrayaḥ bhavati . siddham tu laḍādīnām ātmanepadavacanam . siddham etat . katham . śadeḥ laḍādīnām ātmanepadam bhavati iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam śadeḥ śitaḥ parasmaipadāśrayatvāt ātmanepadābhāvaḥ iti . na eṣaḥ doṣaḥ . śitaḥ iti na eṣā pañcamī . kā tarhi . sambandhaṣaṣṭhī . śitaḥ yaḥ śadiḥ . kaḥ ca śitaḥ śadiḥ . prakṛtiḥ . śadeḥ śitprakṛteḥ iti . atha vā āha ayam śadeḥ śitaḥ iti na ca śadiḥ śit asti . te evam vijñāsyāmaḥ śadeḥ śidviṣayāt iti . atha vā yadi api tāvat etat anyatra bhavati vikaraṇebhyaḥ niyamaḥ balīyān iti iha etat na asti . vikaraṇaḥ hi iha āśrīyate śitaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८५।२२-२८७।५ रो इइ,२६३-२६८ उपसर्गपूर्वनियमे अड्व्यवाये उपसङ्ख्यानम् । उपसर्गपूर्वस्य नियमे अड्व्यवाये उपसङ्ख्यानम् कर्तव्यम् । न्यविशत व्यक्रीणीत । किम् पुनः कारणात् न सिध्यति । अटा व्यवहितत्वात् । ननु च अयम् अट् धातुभक्तः धातुग्रहणेन ग्रहीष्यते । न सिध्यति । अङ्गस्य हि अट् उच्यते विकरणान्तम् च अङ्गम् । सः असौ सङ्घातभक्तः न शक्यः धातुग्रहणेन ग्रहीतुम् । एवम् तर्हि इदम् इह सम्प्रधार्यम् : अट् क्रियताम् विकरणः इति । किम् अत्र कर्तव्यम् । परत्वात् अट् आगमः । नित्याः विकरणाः । कृते अपि अटि प्राप्नुवन्ति अकृते अपि प्राप्नुवन्ति । अट् अपि नित्यः । कृतेषु अपि विकरणेषु प्राप्नोति अकृतेषु अपि प्राप्नोति । अनित्यः अट् । अन्यस्य कृतेषु विकरणेषु प्राप्नोति अन्यस्य अकृतेषु । शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । अट् क्रियताम् लादेशः इति । किम् अत्र कर्तव्यम् । परत्वात् अट् आगमः । नित्यः लादेशः । कृते अपि अटि प्राप्नोति अकृते अपि प्राप्नोति । नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः भविष्यति । नित्यत्वात् लादेशस्य आत्मनेपदे अट् आगमः इति चेत् अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः । नित्यत्वात् लादेशस्य आत्मनेपदे एव अडागमः इति चेत् एवम् उच्यते । अट् अपि नित्यनिमित्तः । कृते अपि लदेशे प्राप्नोति अकृते अपि प्राप्नोति । अटः नित्यनिमित्तत्वात् आत्मनेपदाभावः । तस्मात् उपसङ्ख्यानम् । तस्मात् उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । अन्तरङ्गः तर्हि लादेशः । न एतत् विवदामहे अन्तरङ्गः न अन्तरङ्गः इति । अस्तु अयम् नित्यः अन्तरङ्गः च । अत्र खलु लादेशे कृते त्रीणि कार्याणि युगपत् प्राप्नुवन्ति : विकरणाः अट् आगमः नियमः इति । तत् यदि सर्वतः नियमः लभ्येत कृतम् स्यात् । तत् तु न लभ्यम् । अथ अपि विकरणात् अट् इति अट् लभ्येत एवम् अपि कृतम् स्यात् । तत् तु न लभ्यम् । किम् कारणम् । आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः , तरन्ति इति एवमर्थम् । अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् । तत्र हि आटि कृते साट्कस्य ऋच्छिभावः प्राप्नोति । ननु च ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति । पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति । न एषः दोषः । यत् तावत् उच्यते आङ्गात् पूर्वम् विकरणाः एषितव्याः तरतः तरन्ति इति एवमर्थम् इति । भवेत् सिद्धम् यत्र विकरणाः नित्याः आङ्गम् अनित्यम् तत्र आङ्गात् पूर्वम् विकरणाः स्युः । यत्र तु खलु उभयम् नित्यम् परत्वात् तत्र आङ्गम् तावत् भवति । यत् अपि उच्यते अडाड्भ्याम् अपि अन्यत् आङ्गम् पूर्वम् एषितव्यम् उपार्च्छति इति एवमर्थम् इति । अस्तु अत्र आट् । आटि कृते साट्कस्य ऋच्छिभावे कृते शब्दान्तरस्य अकृतः आट् इति कृत्वा पुनः आट् भविष्यति । ननु च उक्तम् पुनः ऋच्छिभावः पुनः आट् इति चक्रकम् अव्यवस्था प्राप्नोति । न एषः दोषः । चक्रकेषु इष्टतः व्यवस्था । अथ वा नेः इति न एषा पञ्चमी । का तर्हि । विशेषणषष्ठी । नेः यः विशिः । कः च नेः विशिः । विशेष्यः । व्यवहितः च अपि शक्यते विशेषयितुम् । अथ वा निः अपि पदम् विशिः अपि पदम् ।पदविधिः च समर्थामाम् । व्यवहिते अपि सामर्थ्यम् भवति ।

KA I,285.22-287.5 Ro II,263-268 upasargapūrvaniyame aḍvyavāye upasaṅkhyānam . upasargapūrvasya niyame aḍvyavāye upasaṅkhyānam kartavyam . nyaviśata vyakrīṇīta . kim punaḥ kāraṇāt na sidhyati . aṭā vyavahitatvāt . nanu ca ayam aṭ dhātubhaktaḥ dhātugrahaṇena grahīṣyate . na sidhyati . aṅgasya hi aṭ ucyate vikaraṇāntam ca aṅgam . saḥ asau saṅghātabhaktaḥ na śakyaḥ dhātugrahaṇena grahītum . evam tarhi idam iha sampradhāryam : aṭ kriyatām vikaraṇaḥ iti . kim atra kartavyam . paratvāt aṭ āgamaḥ . nityāḥ vikaraṇāḥ . kṛte api aṭi prāpnuvanti akṛte api prāpnuvanti . aṭ api nityaḥ . kṛteṣu api vikaraṇeṣu prāpnoti akṛteṣu api prāpnoti . anityaḥ aṭ . anyasya kṛteṣu vikaraṇeṣu prāpnoti anyasya akṛteṣu . śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . evam tarhi idam iha sampradhāryam . aṭ kriyatām lādeśaḥ iti . kim atra kartavyam . paratvāt aṭ āgamaḥ . nityaḥ lādeśaḥ . kṛte api aṭi prāpnoti akṛte api prāpnoti . nityatvāt lādeśasya ātmanepade eva aḍāgamaḥ bhaviṣyati . nityatvāt lādeśasya ātmanepade aṭ āgamaḥ iti cet aṭaḥ nityanimittatvāt ātmanepadābhāvaḥ . nityatvāt lādeśasya ātmanepade eva aḍāgamaḥ iti cet evam ucyate . aṭ api nityanimittaḥ . kṛte api ladeśe prāpnoti akṛte api prāpnoti . aṭaḥ nityanimittatvāt ātmanepadābhāvaḥ . tasmāt upasaṅkhyānam . tasmāt upasaṅkhyānam kartavyam . na kartavyam . antaraṅgaḥ tarhi lādeśaḥ . na etat vivadāmahe antaraṅgaḥ na antaraṅgaḥ iti . astu ayam nityaḥ antaraṅgaḥ ca . atra khalu lādeśe kṛte trīṇi kāryāṇi yugapat prāpnuvanti : vikaraṇāḥ aṭ āgamaḥ niyamaḥ iti . tat yadi sarvataḥ niyamaḥ labhyeta kṛtam syāt . tat tu na labhyam . atha api vikaraṇāt aṭ iti aṭ labhyeta evam api kṛtam syāt . tat tu na labhyam . kim kāraṇam . āṅgāt pūrvam vikaraṇāḥ eṣitavyāḥ tarataḥ , taranti iti evamartham . aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam upārcchati iti evamartham . tatra hi āṭi kṛte sāṭkasya ṛcchibhāvaḥ prāpnoti . nanu ca ṛcchibhāve kṛte śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati . punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate āṅgāt pūrvam vikaraṇāḥ eṣitavyāḥ tarataḥ taranti iti evamartham iti . bhavet siddham yatra vikaraṇāḥ nityāḥ āṅgam anityam tatra āṅgāt pūrvam vikaraṇāḥ syuḥ . yatra tu khalu ubhayam nityam paratvāt tatra āṅgam tāvat bhavati . yat api ucyate aḍāḍbhyām api anyat āṅgam pūrvam eṣitavyam upārcchati iti evamartham iti . astu atra āṭ . āṭi kṛte sāṭkasya ṛcchibhāve kṛte śabdāntarasya akṛtaḥ āṭ iti kṛtvā punaḥ āṭ bhaviṣyati . nanu ca uktam punaḥ ṛcchibhāvaḥ punaḥ āṭ iti cakrakam avyavasthā prāpnoti . na eṣaḥ doṣaḥ . cakrakeṣu iṣṭataḥ vyavasthā . atha vā neḥ iti na eṣā pañcamī . kā tarhi . viśeṣaṇaṣaṣṭhī . neḥ yaḥ viśiḥ . kaḥ ca neḥ viśiḥ . viśeṣyaḥ . vyavahitaḥ ca api śakyate viśeṣayitum . atha vā niḥ api padam viśiḥ api padam .padavidhiḥ ca samarthāmām . vyavahite api sāmarthyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८७।७-१५ रो इइ,२६८-२६९ किम् इदम् पूर्वग्रहणम् सनपेक्षम् । प्राक् सनः येभ्यः आत्मनेपद्म् उक्तम् तेभ्यः सनन्तेभ्यः अपि भवति इति । आहोस्वित् योगापेक्षम् । प्राक् एतस्मात् योगात् येभ्यः आत्मनेपदम् उक्तम् तेभ्यः सनन्तेभ्यः आत्मनेपदम् भवति इति । किम् च अतः । यदि सनपेक्षम् निमित्तम् अविशेषितम् भवति । पूर्ववत् सनः न ज्ञायते किमन्तात् भवितव्यम् । अथ योगापेक्षम् उत्तरत्र विधिः न प्रकल्पते । बुभुक्षते उपयुयुक्षते इति । यथा इच्छसि तथा अस्तु । अस्तु तावत् सनपेक्षम् । ननु च उक्तम् निमित्तम् अविशेषितम् भवति । निमित्तम् च विशेषितम् । कथम् । सनम् एव अत्र निमित्तत्वेन अपेक्षिष्यामहे । पूर्ववत् सनः आत्मनेपदम् भवति । कुतः सनः इति । अथ वा पुनः अस्तु योगापेक्षम् । ननु च उक्तम् उत्तरत्र विधिः न प्रकल्पते । विधिः च प्रकॢप्तः । कथम् । उत्तरत्र अपि पूर्ववत् सनः इति एव अनुवर्तिष्यते ।

KA I,287.7-15 Ro II,268-269 kim idam pūrvagrahaṇam sanapekṣam . prāk sanaḥ yebhyaḥ ātmanepadm uktam tebhyaḥ sanantebhyaḥ api bhavati iti . āhosvit yogāpekṣam . prāk etasmāt yogāt yebhyaḥ ātmanepadam uktam tebhyaḥ sanantebhyaḥ ātmanepadam bhavati iti . kim ca ataḥ . yadi sanapekṣam nimittam aviśeṣitam bhavati . pūrvavat sanaḥ na jñāyate kimantāt bhavitavyam . atha yogāpekṣam uttaratra vidhiḥ na prakalpate . bubhukṣate upayuyukṣate iti . yathā icchasi tathā astu . astu tāvat sanapekṣam . nanu ca uktam nimittam aviśeṣitam bhavati . nimittam ca viśeṣitam . katham . sanam eva atra nimittatvena apekṣiṣyāmahe . pūrvavat sanaḥ ātmanepadam bhavati . kutaḥ sanaḥ iti . atha vā punaḥ astu yogāpekṣam . nanu ca uktam uttaratra vidhiḥ na prakalpate . vidhiḥ ca prakḷptaḥ . katham . uttaratra api pūrvavat sanaḥ iti eva anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८७।१६-२८८।१७ रो इइ,२६९-२७१ किमर्थम् पुनः इदम् उच्यते । पूर्ववत् सनः इति शदिम्रियत्यर्थम् । शदिम्रियत्यर्थः अयम् आरम्भः । शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् मा भूत् इति । इतरथा हि ताभ्याम् सनन्ताभ्याम् आत्मनेपदप्रतिषेधः । इतरथा हि अनुच्यमाने अस्मिन् ताभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः वक्तव्यः स्यात् । शिशित्सति मुमूर्षति । कथम् पुनः पूर्ववत् सनः इति अनेन शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधः शक्यः विज्ञातुम् । वतिनिर्देशः अयम् कामचारः च वतिनिर्देशे वाक्यशेषम् समर्थयितुम् । तत् यथा : उशीनरवत् मद्रेषु यवाः । सन्ति न सन्ति इति । मातृवत् अस्याः कलाः । सन्ति न सन्ति । एवम् इह अपि पूर्ववत् भवति न भवति इति । न भवति इति वाक्यशेषम् समर्थयिष्यामहे । यथा पूर्वयोगयोः सनन्ताभ्याम् आत्मनेपदम् न भवति एवम् इह अपि शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् न भवति इति । यदि तर्हि शदिम्रियत्यर्थः अयम् आरम्भः विधिः न प्रकल्पते । आसिसिषते शिशयिषते । अथ विध्यर्थः शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत् प्रतिषेधार्थः । ननु च उक्तम् विधिः न प्रकल्पते इति । विधिः च प्रकॢप्तः । कथम् । एतत् एव ज्ञापयति सनन्तात् आत्मनेपदम् भवति इति यत् अयम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदस्य प्रतिषेधम् शास्ति । अथ वा पुनः अस्तु विध्यर्थः । ननु च उक्तम् शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति इति । न एषः दोषः । प्रकृतम् सनः न इति अनुवर्तिष्यते । क्व प्रकृतम् । ज्ञाश्रुस्मृदृशाम् सनः न अनोः ज्ञः । सकर्मकात् सनः न । प्रत्याङ्भ्याम् श्रुवः सनः न । शदेः शितः सनः न । म्रियतेः लुङ्लिङोः च सनः न इति । इह इदानीम् पूर्ववत् सनः इति सनः इति वर्तते न इति निवृत्तम् । एवम् च कृत्वा सः अपि अदोषः भवति यत् उक्तम् निमित्तम् अविशेषितम् भवति इति । न एव वा पुनः अत्र शदिम्रियतिभ्याम् सनन्ताभ्याम् आत्मनेपदम् प्राप्नोति । किम् कारणम् । शदेः शितः इति उच्यते न च शदिः एव आत्मनेपदस्य निमित्तम् । किम् तर्हि । शित् अपि निमित्तम् । अथ अपि शदिः एव शित्परः तु निमित्तम् । न च अयम् सन्परः शित्परः भवति । यत्र तर्हि शित् न आश्रीयते म्रियतेः लुङ्लिङोः च इति । अत्र अपि न म्रियतिः एव आत्मनेपदस्य निमित्तम् । किम् तर्हि । लुङ्लिङौ अपि निमित्तम् । अथ अपि म्रियतिः एव लुङ्लिङ्परः तु निमित्तम् । न च अयम् सन्परः लुङ्लिङ्परः भवति ।

KA I,287.16-288.17 Ro II,269-271 kimartham punaḥ idam ucyate . pūrvavat sanaḥ iti śadimriyatyartham . śadimriyatyarthaḥ ayam ārambhaḥ . śadimriyatibhyām sanantābhyām ātmanepadam mā bhūt iti . itarathā hi tābhyām sanantābhyām ātmanepadapratiṣedhaḥ . itarathā hi anucyamāne asmin tābhyām sanantābhyām ātmanepadasya pratiṣedhaḥ vaktavyaḥ syāt . śiśitsati mumūrṣati . katham punaḥ pūrvavat sanaḥ iti anena śadimriyatibhyām sanantābhyām ātmanepadasya pratiṣedhaḥ śakyaḥ vijñātum . vatinirdeśaḥ ayam kāmacāraḥ ca vatinirdeśe vākyaśeṣam samarthayitum . tat yathā : uśīnaravat madreṣu yavāḥ . santi na santi iti . mātṛvat asyāḥ kalāḥ . santi na santi . evam iha api pūrvavat bhavati na bhavati iti . na bhavati iti vākyaśeṣam samarthayiṣyāmahe . yathā pūrvayogayoḥ sanantābhyām ātmanepadam na bhavati evam iha api śadimriyatibhyām sanantābhyām ātmanepadam na bhavati iti . yadi tarhi śadimriyatyarthaḥ ayam ārambhaḥ vidhiḥ na prakalpate . āsisiṣate śiśayiṣate . atha vidhyarthaḥ śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti . yathā icchasi tathā astu . astu tāvat pratiṣedhārthaḥ . nanu ca uktam vidhiḥ na prakalpate iti . vidhiḥ ca prakḷptaḥ . katham . etat eva jñāpayati sanantāt ātmanepadam bhavati iti yat ayam śadimriyatibhyām sanantābhyām ātmanepadasya pratiṣedham śāsti . atha vā punaḥ astu vidhyarthaḥ . nanu ca uktam śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti iti . na eṣaḥ doṣaḥ . prakṛtam sanaḥ na iti anuvartiṣyate . kva prakṛtam . jñāśrusmṛdṛśām sanaḥ na anoḥ jñaḥ . sakarmakāt sanaḥ na . pratyāṅbhyām śruvaḥ sanaḥ na . śadeḥ śitaḥ sanaḥ na . mriyateḥ luṅliṅoḥ ca sanaḥ na iti . iha idānīm pūrvavat sanaḥ iti sanaḥ iti vartate na iti nivṛttam . evam ca kṛtvā saḥ api adoṣaḥ bhavati yat uktam nimittam aviśeṣitam bhavati iti . na eva vā punaḥ atra śadimriyatibhyām sanantābhyām ātmanepadam prāpnoti . kim kāraṇam . śadeḥ śitaḥ iti ucyate na ca śadiḥ eva ātmanepadasya nimittam . kim tarhi . śit api nimittam . atha api śadiḥ eva śitparaḥ tu nimittam . na ca ayam sanparaḥ śitparaḥ bhavati . yatra tarhi śit na āśrīyate mriyateḥ luṅliṅoḥ ca iti . atra api na mriyatiḥ eva ātmanepadasya nimittam . kim tarhi . luṅliṅau api nimittam . atha api mriyatiḥ eva luṅliṅparaḥ tu nimittam . na ca ayam sanparaḥ luṅliṅparaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८८।१८-२८९।८ रो इइ,२७१-२७२ किम् पुनः पूर्वस्य यत् आत्मनेपददर्शनम् तत् सनन्तस्य अपि अतिदिश्यते । एवम् भवितुम् अर्हति । पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः । पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः । गुपादीनाम् न प्राप्नोति । जुगुप्सते मीमांसते इति । न हि एतेभ्यः प्राक् सनः आत्मनेपदम् न अपि परस्मैपदम् पश्यामः । सिद्धम् तु पूर्वस्य लिङ्गातिदेशात् । सिद्धम् एतत् । कथम् । पूर्वस्य यत् आत्मनेपदलिङ्गम् तत् सनन्तस्य अपि अतिदिश्यते । कृञादिषु तु लिङ्गप्रतिषेधः । कृञादिषु तु लिङ्गप्रतिषेधः वक्तव्यः । अनुचिकीर्षति पराचिकीर्षति इति । अस्तु तर्हि प्राक् सनः येभ्यः आत्मनेपदम् दृष्टम् तेभ्यः सनन्तेभ्यः अपि बह्वति इति । ननु च उक्तम् पूर्वस्य आत्मनेपददर्शनात् सनन्तात् आत्मनेपदभावः इति चेत् गुपादिषु अप्रसिद्धिः इति । न एषः दोषः । अनुबन्धकरणसामर्थ्यात् भविष्यति । अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति । तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति । यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति जुगुप्सयति मीमांसायति इति अत्र अपि प्राप्नोति । न एषः दोषः । अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति । यम् समुदायम् यः अवयवः न व्यभिचरति । सनम् च न व्यभिचरति । णिचम् पुनः व्यभिचरति । तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।

KA I,288.18-289.8 Ro II,271-272 kim punaḥ pūrvasya yat ātmanepadadarśanam tat sanantasya api atidiśyate . evam bhavitum arhati . pūrvasya ātmanepadadarśanāt sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ . pūrvasya ātmanepadadarśanāt sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ . gupādīnām na prāpnoti . jugupsate mīmāṃsate iti . na hi etebhyaḥ prāk sanaḥ ātmanepadam na api parasmaipadam paśyāmaḥ . siddham tu pūrvasya liṅgātideśāt . siddham etat . katham . pūrvasya yat ātmanepadaliṅgam tat sanantasya api atidiśyate . kṛñādiṣu tu liṅgapratiṣedhaḥ . kṛñādiṣu tu liṅgapratiṣedhaḥ vaktavyaḥ . anucikīrṣati parācikīrṣati iti . astu tarhi prāk sanaḥ yebhyaḥ ātmanepadam dṛṣṭam tebhyaḥ sanantebhyaḥ api bahvati iti . nanu ca uktam pūrvasya ātmanepadadarśanāt sanantāt ātmanepadabhāvaḥ iti cet gupādiṣu aprasiddhiḥ iti . na eṣaḥ doṣaḥ . anubandhakaraṇasāmarthyāt bhaviṣyati . atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam samudāyasya viśeṣakam bhavati . yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati jugupsayati mīmāṃsāyati iti atra api prāpnoti . na eṣaḥ doṣaḥ . avayave kṛtam liṅgam kasya samudāyasya viśeṣakam bhavati . yam samudāyam yaḥ avayavaḥ na vyabhicarati . sanam ca na vyabhicarati . ṇicam punaḥ vyabhicarati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ eva viśeṣakam bhavati na gomaṇḍalasya .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८९।९-२१ रो इइ,२७३ प्रत्ययग्रहणम् णिजर्थम् । प्रत्ययस्य ग्रहणम् कर्तव्यम् । पूर्ववत् प्रत्ययात् इति वक्तव्यम् । किम् प्रयोजनम् । णिजर्थम् । णिजन्तात् अपि यथा स्यात् इति । आकुस्मयते विकुस्मयते हृणीयते महीयते इति। तत्र कः दोषः । तत्र हेतुमण्णिचः प्रतिषेधः । तत्र हेतुमण्णिचः प्रतिषेधः वक्तव्यः । आसयति शाययति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । कथम् आकुस्मयते विकुस्मयते हृणीयते महीयते इति। अनुबन्धकरणसामर्थ्यात् भविष्यति । अथ वा अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति । तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति । यदि अवयवे कृतम् लिङ्गम् समुदायस्य विशेषकम् भवति हृणीययति महीययति अत्र अपि प्राप्नोति । अवयवे कृतम् लिङ्गम् कस्य समुदायस्य विशेषकम् भवति । यम् समुदायम् यः अवयवः न व्यभिचरति । यकम् च न व्यभिचरति । णिचम् तु व्यभिचरति । तत् यथा गोः सक्थनि कर्णे वा कृतम् लिङ्गम् गोः एव विशेषकम् भवति न गोमण्डलस्य ।

KA I,289.9-21 Ro II,273 pratyayagrahaṇam ṇijartham . pratyayasya grahaṇam kartavyam . pūrvavat pratyayāt iti vaktavyam . kim prayojanam . ṇijartham . ṇijantāt api yathā syāt iti . ākusmayate vikusmayate hṛṇīyate mahīyate iti. tatra kaḥ doṣaḥ . tatra hetumaṇṇicaḥ pratiṣedhaḥ . tatra hetumaṇṇicaḥ pratiṣedhaḥ vaktavyaḥ . āsayati śāyayati . sūtram ca bhidyate . yathānyāsam eva astu . katham ākusmayate vikusmayate hṛṇīyate mahīyate iti. anubandhakaraṇasāmarthyāt bhaviṣyati . atha vā avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam samudāyasya viśeṣakam bhavati . yadi avayave kṛtam liṅgam samudāyasya viśeṣakam bhavati hṛṇīyayati mahīyayati atra api prāpnoti . avayave kṛtam liṅgam kasya samudāyasya viśeṣakam bhavati . yam samudāyam yaḥ avayavaḥ na vyabhicarati . yakam ca na vyabhicarati . ṇicam tu vyabhicarati . tat yathā goḥ sakthani karṇe vā kṛtam liṅgam goḥ eva viśeṣakam bhavati na gomaṇḍalasya .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२८९।२३-२९०।६ रो इइ,२७४ कृञ्ग्रहणम् किमर्थम् । इह मा भूत् । ईहामास ईहामासतुः ईहामासुः । कथम् च अत्र अस्तेः अनुप्रयोगः भवति । प्रत्याहारग्रहणम् तत्र विज्ञायते । कथम् पुनः ज्ञायते तत्र प्रत्याहारग्रहणम् इति । इह कृञ्ग्रहणात् । इह कस्मात् प्रत्याहारग्रहणम् न भवति । इह एव कृञ्ग्रहणात् । अथ इह कस्मात् न भवति । उदुम्भाम् चकार उदुब्जाम् चकार । ननु च आम्प्रत्ययवत् इति उच्यते न च अत्र आम्प्रत्ययात् आत्मनेपदम् पश्यामः । न ब्रूमः अनेन इति । किम् तर्हि । स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति । न एषः दोषः । इह नियमार्थम् भविष्यति । आम्प्रत्ययवत् एव इति । यदि नियमार्थम् विधिः न प्रकल्पते । ईहाम् चक्रे ऊहाम् चक्रे इति । विधिः च प्रकॢप्तः । कथम् पूर्ववत् इति वर्तते । आम्प्रत्ययवत् पूर्ववत् च इति ।

KA I,289.23-290.6 Ro II,274 kṛñgrahaṇam kimartham . iha mā bhūt . īhāmāsa īhāmāsatuḥ īhāmāsuḥ . katham ca atra asteḥ anuprayogaḥ bhavati . pratyāhāragrahaṇam tatra vijñāyate . katham punaḥ jñāyate tatra pratyāhāragrahaṇam iti . iha kṛñgrahaṇāt . iha kasmāt pratyāhāragrahaṇam na bhavati . iha eva kṛñgrahaṇāt . atha iha kasmāt na bhavati . udumbhām cakāra udubjām cakāra . nanu ca āmpratyayavat iti ucyate na ca atra āmpratyayāt ātmanepadam paśyāmaḥ . na brūmaḥ anena iti . kim tarhi . svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati iti . na eṣaḥ doṣaḥ . iha niyamārtham bhaviṣyati . āmpratyayavat eva iti . yadi niyamārtham vidhiḥ na prakalpate . īhām cakre ūhām cakre iti . vidhiḥ ca prakḷptaḥ . katham pūrvavat iti vartate . āmpratyayavat pūrvavat ca iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९०।८-९ रो इइ,२७५ स्वराद्युपसृष्टात् इति वक्तव्यम् । उद्युङ्क्ते अनुयुङ्क्ते । अपरः आह : स्वराद्यन्तोपसृष्टात् इति वक्तयम् । प्रयुङ्क्ते नियुङ्क्ते निनियुङ्क्ते ।

KA I,290.8-9 Ro II,275 svarādyupasṛṣṭāt iti vaktavyam . udyuṅkte anuyuṅkte . aparaḥ āha : svarādyantopasṛṣṭāt iti vaktayam . prayuṅkte niyuṅkte niniyuṅkte .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९०।११-१३ रो इइ,२७५ किमर्थम् विदेशस्थस्य ग्रहणम् क्रियते न समः गमादिषु एव उच्येत । समः क्ष्णुवः सकर्मकार्थम् । सकर्मकार्थः अयम् आरम्भः । अकर्मकात् इति हि तत्र अनुवर्तते ।

KA I,290.11-13 Ro II,275 kimartham videśasthasya grahaṇam kriyate na samaḥ gamādiṣu eva ucyeta . samaḥ kṣṇuvaḥ sakarmakārtham . sakarmakārthaḥ ayam ārambhaḥ . akarmakāt iti hi tatra anuvartate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९०।१५-१७ रो इइ,२७५ अनवनकौटिल्ययोः इति वक्तव्यम् । इह अपि यथा स्यात् । प्रभुजति वाससी निभुजति जानुशिरसी इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यस्य भुजेः अवनम् अनवनम् च अर्थः तस्य ग्रहणम् । न च अस्य भुजेः अवनम् अनवनम् च अर्थः ।

KA I,290.15-17 Ro II,275 anavanakauṭilyayoḥ iti vaktavyam . iha api yathā syāt . prabhujati vāsasī nibhujati jānuśirasī iti . tat tarhi vaktavyam . na vaktavyam . yasya bhujeḥ avanam anavanam ca arthaḥ tasya grahaṇam . na ca asya bhujeḥ avanam anavanam ca arthaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९०।१९-२९२।८ रो इइ,२७६-२८४ णेः आत्मनेपदविधाने अण्यन्तस्य कर्मणः तत्र उपलब्धिः ।णेः आत्मनेपदविधाने अण्यन्तस्य यत् कर्म यदा ण्यन्ते तत् एव कर्म भवति तदा आत्मनेपदम् भवति इति वक्तव्यम् । इतरथा हि सर्वप्रसङ्गः । इतरथा हि सर्वत्र प्रसङ्गः स्यात् । इह अपि प्रसज्येत : आरोहन्ति हस्तिनम् हस्तिपकाः । आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कस्मात् न भवति : आरोहन्ति हस्तिनम् हस्तिपकाः । आरोहमाणः हस्तीस्थलम् आरोहयति मनुष्यान् इति । एवम् वक्ष्यामि । णेः आत्मनेपदम् भवति । ततः अणौ यत् कर्म णौ चेत् । अण्यन्ते यत् कर्म णौ यदि तत् एव कर्म भवति । ततः सः कर्ता । कर्ता चेत् सः भवति णौ इति । यदि एवम् कर्मकार्यम् भवति । तत्र कर्मकर्तृत्वात् सिद्धम् । कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् वचनम् । कर्मकर्तृत्वात् सिद्धम् इति चेत् यक्चिणोः निवृत्त्यर्थम् इदम् वक्तव्यम् । कर्मापदिष्टौ यक्चिणौ मा भूताम् इति । न वा यक्चिणोः प्रतिषेधात् । न वा एषः दोषः । किम् कारणम् । यक्चिणोः प्रतिषेधात् । प्रतिषिध्येते अत्र यक्चिणौ । यक्चिणोः प्रतिषेधे हेतुमण्णिश्रिब्रूञाम् उपसङ्ख्यानम् इति । यः तर्हि न हेतुमण्णिच् तदर्थम् इदम् वक्तव्यम् । तस्य कर्मापदिष्टौ यक्चिणौ मा भूताम् इति : उत्पुच्छयते पुच्छम् स्वयम् एव । उदपुप्पुच्छत पुच्छम् स्वयम् एव । अत्र अपि यथा भारद्वाजीयाः पठन्ति तथा भवितव्यम् प्रतिषेधेन : यक्चिणोः प्रतिषेधे णिश्रिग्रन्थिब्रूञात्मनेपदाकर्मकाणाम् उप्सङ्ख्यानम् इति । सः च अवश्यम् प्रतिषेधः आश्रयितव्यः । इतरथा हि यत्र नियमः ततः अन्यत्र प्रतिषेधः । अनुच्यमाने हि एतस्मिन् यत्र नियमः ततः अन्यत्र तेन यक्चिणोः प्रतिषेधः वक्तव्यः स्यात् । गणयति गणम् गोपालकः । गणयति गणः स्वयम् एव । आत्मनेपदस्य च । आत्मनेपदस्य च प्रतिषेधः वक्तव्यः : गणयति गणः स्वयम् एव । आत्मनेपदप्रतिषेधार्थम् तु । आत्मनेपदप्रतिषेधार्थम् इदम् वक्तव्यम् । गणयति गणः स्वयम् एव । इष्यते एव अत्र आत्मनेपदम् । किम् इष्यते एव आहोस्वित् प्राप्नोति अपि । इष्यते च प्राप्नोति च । कथम् । अणौ इत् कस्य इदम् णेः ग्रहणम् । यमात् णेः प्राक् कर्म कर्ता वा विद्यते । न च एतस्मात् णेः प्राक् कर्म कर्ता वा विद्यते । इदम् तर्हि प्रयोजनम् : अनाध्याने इति वक्ष्यामि इति । इह मा भूत् । स्मरति वनगुल्मस्य कोकिलः । स्मरयति एनम् वनगुल्मः स्वयम् एव । एतत् अपि न अस्ति प्रयोजनम् । कर्मापदिष्टाः विधयः कर्मस्थभावकानाम् कर्मस्थक्रियाणाम् भवन्ति कर्तृस्थभावकः च अयम् । एवम् तर्हि सिद्धे सति यत् अनाध्याने इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् आत्मनेपदम् इति । किम् एतस्य ज्ञापने प्रयोजनम् । पश्यन्ति भृत्याः राजानम् । दर्शयते भृत्यान् राजा । दर्शयते भृत्यैः राजा । अत्र आत्मनेपदम् सिद्धम् भवति ।

KA I,290.19-292.8 Ro II,276-284 ṇeḥ ātmanepadavidhāne aṇyantasya karmaṇaḥ tatra upalabdhiḥ .ṇeḥ ātmanepadavidhāne aṇyantasya yat karma yadā ṇyante tat eva karma bhavati tadā ātmanepadam bhavati iti vaktavyam . itarathā hi sarvaprasaṅgaḥ . itarathā hi sarvatra prasaṅgaḥ syāt . iha api prasajyeta : ārohanti hastinam hastipakāḥ . ārohamāṇaḥ hastīsthalam ārohayati manuṣyān . tat tarhi vaktavyam . na vaktavyam . kasmāt na bhavati : ārohanti hastinam hastipakāḥ . ārohamāṇaḥ hastīsthalam ārohayati manuṣyān iti . evam vakṣyāmi . ṇeḥ ātmanepadam bhavati . tataḥ aṇau yat karma ṇau cet . aṇyante yat karma ṇau yadi tat eva karma bhavati . tataḥ saḥ kartā . kartā cet saḥ bhavati ṇau iti . yadi evam karmakāryam bhavati . tatra karmakartṛtvāt siddham . karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham vacanam . karmakartṛtvāt siddham iti cet yakciṇoḥ nivṛttyartham idam vaktavyam . karmāpadiṣṭau yakciṇau mā bhūtām iti . na vā yakciṇoḥ pratiṣedhāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . yakciṇoḥ pratiṣedhāt . pratiṣidhyete atra yakciṇau . yakciṇoḥ pratiṣedhe hetumaṇṇiśribrūñām upasaṅkhyānam iti . yaḥ tarhi na hetumaṇṇic tadartham idam vaktavyam . tasya karmāpadiṣṭau yakciṇau mā bhūtām iti : utpucchayate puccham svayam eva . udapuppucchata puccham svayam eva . atra api yathā bhāradvājīyāḥ paṭhanti tathā bhavitavyam pratiṣedhena : yakciṇoḥ pratiṣedhe ṇiśrigranthibrūñātmanepadākarmakāṇām upsaṅkhyānam iti . saḥ ca avaśyam pratiṣedhaḥ āśrayitavyaḥ . itarathā hi yatra niyamaḥ tataḥ anyatra pratiṣedhaḥ . anucyamāne hi etasmin yatra niyamaḥ tataḥ anyatra tena yakciṇoḥ pratiṣedhaḥ vaktavyaḥ syāt . gaṇayati gaṇam gopālakaḥ . gaṇayati gaṇaḥ svayam eva . ātmanepadasya ca . ātmanepadasya ca pratiṣedhaḥ vaktavyaḥ : gaṇayati gaṇaḥ svayam eva . ātmanepadapratiṣedhārtham tu . ātmanepadapratiṣedhārtham idam vaktavyam . gaṇayati gaṇaḥ svayam eva . iṣyate eva atra ātmanepadam . kim iṣyate eva āhosvit prāpnoti api . iṣyate ca prāpnoti ca . katham . aṇau it kasya idam ṇeḥ grahaṇam . yamāt ṇeḥ prāk karma kartā vā vidyate . na ca etasmāt ṇeḥ prāk karma kartā vā vidyate . idam tarhi prayojanam : anādhyāne iti vakṣyāmi iti . iha mā bhūt . smarati vanagulmasya kokilaḥ . smarayati enam vanagulmaḥ svayam eva . etat api na asti prayojanam . karmāpadiṣṭāḥ vidhayaḥ karmasthabhāvakānām karmasthakriyāṇām bhavanti kartṛsthabhāvakaḥ ca ayam . evam tarhi siddhe sati yat anādhyāne iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām ātmanepadam iti . kim etasya jñāpane prayojanam . paśyanti bhṛtyāḥ rājānam . darśayate bhṛtyān rājā . darśayate bhṛtyaiḥ rājā . atra ātmanepadam siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९२।९-१६ रो इइ,२८५ आत्मनः कर्मत्वे प्रतिषेधः । आत्मनः कर्मत्वे प्रतिषेधः वक्तव्यः । हन्ति आत्मानम् । घातयति आत्मा इति । सः तर्हि वक्तव्यः । न वा ण्यन्ते अन्यस्य कर्तृत्वात् । न वा वक्तव्यः । किम् कारणम् । ण्यन्ते अन्यस्य कर्तृत्वात् । अन्यत् अत्र अण्यन्ते कर्म अन्यः ण्यन्तस्य कर्ता । कथम् । द्वौ आत्मनौ अन्तरात्मा शरीरात्मा च । अन्तरात्मा तत् कर्म करोति येन शरीरात्मा सुखदुःखे अनुभवति । शरीरात्मा तत् कर्म करोति येन अन्तरात्मा सुखदुःखे अनुभवति इति ।

KA I,292.9-16 Ro II,285 ātmanaḥ karmatve pratiṣedhaḥ . ātmanaḥ karmatve pratiṣedhaḥ vaktavyaḥ . hanti ātmānam . ghātayati ātmā iti . saḥ tarhi vaktavyaḥ . na vā ṇyante anyasya kartṛtvāt . na vā vaktavyaḥ . kim kāraṇam . ṇyante anyasya kartṛtvāt . anyat atra aṇyante karma anyaḥ ṇyantasya kartā . katham . dvau ātmanau antarātmā śarīrātmā ca . antarātmā tat karma karoti yena śarīrātmā sukhaduḥkhe anubhavati . śarīrātmā tat karma karoti yena antarātmā sukhaduḥkhe anubhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९२।१८-२९३।९ रो इइ,२८६-२९० स्वरितञितः इति किमर्थम् । याति वाति द्राति प्साति । स्वरितञितः इति शक्यम् अकर्तुम् । कस्मात् न भवति याति वाति द्राति प्साति इति । कर्त्रभिप्राये क्रियाफले इति उच्यते सर्वेषाम् च कर्त्रभिप्रायम् क्रियाफलम् अस्ति । ते एवम् विज्ञास्यामः । येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति तेभ्यः आत्मनेपदम् भवति इति । न च एतेषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति । तथाजातीयकाः खलु आचार्येण स्वरितञितः पठिताः येषाम् कर्त्रभिप्रायम् अकर्त्रभिप्रयम् च क्रियाफलम् अस्ति । अथ अभिप्रायग्रहणम् किमर्थम् । स्वरितञितः कर्त्राये क्रियाफले इति इयति उच्यमाने यम् एव सम्प्रति एति क्रियाफलम् तत्र एव स्यात् । लूञ् लुनीते पूञ् पुनीते । इह न स्यात् । यज् यजते वप् वपते । अभिप्रयग्रहणे पुनः क्रियमाणे न दोषः भवति । अभिः आभिमुख्ये वर्तते प्र आदिकर्मणि । तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागात् तत्र सर्वत्र आभिमुख्यमात्रे सिद्धम् भवति । कर्त्रभिप्राये क्रियाफले इति किमर्थम् । पचन्ति भक्तकाराः । कुर्वन्ति कर्मकाराः । यजन्ति याजकाः । कर्त्रभिप्राये क्रियाफले इति उच्यमाने अपि अत्र प्राप्नोति । अत्र अपि हि क्रियाफलम् कर्तारम् अभिप्रैति । याजकाः यजन्ति गाः लप्स्यामहे इति । कर्मकराः कुर्वन्ति पादिकम् अहः लप्स्यामहे इति । एवम् तर्हि कर्त्रभिप्रये क्रियाफले इति उच्यते सर्वत्र च कर्तारम् क्रियाफलम् अभिप्रैति । तत्र प्रकर्षगतिः विज्ञास्यते । साधीयः यत्र कर्तारम् क्रियाफलम् अभिप्रैति इति । न च अन्तरेण यजिम् यजिफलम् वपिम् व वपिफलम् लभन्ते । याजकाः पुनः अन्तरेण अपि यजिम् गाः लभन्ते भृतकाः च पादिकम् इति ।

KA I,292.18-293.9 Ro II,286-290 svaritañitaḥ iti kimartham . yāti vāti drāti psāti . svaritañitaḥ iti śakyam akartum . kasmāt na bhavati yāti vāti drāti psāti iti . kartrabhiprāye kriyāphale iti ucyate sarveṣām ca kartrabhiprāyam kriyāphalam asti . te evam vijñāsyāmaḥ . yeṣām kartrabhiprāyam akartrabhiprayam ca kriyāphalam asti tebhyaḥ ātmanepadam bhavati iti . na ca eteṣām kartrabhiprāyam akartrabhiprayam ca kriyāphalam asti . tathājātīyakāḥ khalu ācāryeṇa svaritañitaḥ paṭhitāḥ yeṣām kartrabhiprāyam akartrabhiprayam ca kriyāphalam asti . atha abhiprāyagrahaṇam kimartham . svaritañitaḥ kartrāye kriyāphale iti iyati ucyamāne yam eva samprati eti kriyāphalam tatra eva syāt . lūñ lunīte pūñ punīte . iha na syāt . yaj yajate vap vapate . abhiprayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . abhiḥ ābhimukhye vartate pra ādikarmaṇi . tena yam ca abhipraiti yam ca abhipraiṣyati yam ca abhiprāgāt tatra sarvatra ābhimukhyamātre siddham bhavati . kartrabhiprāye kriyāphale iti kimartham . pacanti bhaktakārāḥ . kurvanti karmakārāḥ . yajanti yājakāḥ . kartrabhiprāye kriyāphale iti ucyamāne api atra prāpnoti . atra api hi kriyāphalam kartāram abhipraiti . yājakāḥ yajanti gāḥ lapsyāmahe iti . karmakarāḥ kurvanti pādikam ahaḥ lapsyāmahe iti . evam tarhi kartrabhipraye kriyāphale iti ucyate sarvatra ca kartāram kriyāphalam abhipraiti . tatra prakarṣagatiḥ vijñāsyate . sādhīyaḥ yatra kartāram kriyāphalam abhipraiti iti . na ca antareṇa yajim yajiphalam vapim va vapiphalam labhante . yājakāḥ punaḥ antareṇa api yajim gāḥ labhante bhṛtakāḥ ca pādikam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९३।११-२५ रो इइ,२९१-२९२ शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः । शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः वक्तव्यः । भिद्यते कुशूलः स्वयम् एव । छिद्यते रज्जुः स्वयम् एव । एवम् तर्हि शेषे इति वक्ष्यामि । सप्तम्या चेत् प्रकृतेः । सप्तम्या चेत् प्रकृतेः प्रतिषेधः वक्तव्यः । आस्ते शेते च्यवन्ते प्लवन्ते । सिद्धम् तु उभयनिर्देशात् । सिद्धम् एतत् । कथम् । उभयनिर्देशः कर्तव्यः । शेषात् शेषे इति वक्तव्यम् । कर्तृग्रहणम् इदानीम् किमर्थम् स्यात् । कर्तृग्रहणम् अनुपराद्यर्थम् । अनुपराद्यर्थम् एतत् स्यात् । इह मा भूत् । अनुक्रियते स्वयम् एव । पराक्रियते स्वयम् एव इति । सिध्यति । सुत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् शेषवचनम् पञ्चम्या चेत् अर्थे प्रतिषेधः इति । न एषः दोषः । कर्तरि कर्मव्यतिहारे इति अत्र कर्तृग्रहणम् प्रत्याख्यायते । तत् प्रकृतम् इह अनुवर्तिष्यते । शेषात् कर्तरि कर्तरि इति । किम् इदम् कर्तरि कर्तरि इति । कर्ता एव यः कर्ता तत्र यथा स्यात् । कर्ता च अन्यः च यः कर्ता तत्र मा भूत् इति ।

KA I,293.11-25 Ro II,291-292 śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ . śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ vaktavyaḥ . bhidyate kuśūlaḥ svayam eva . chidyate rajjuḥ svayam eva . evam tarhi śeṣe iti vakṣyāmi . saptamyā cet prakṛteḥ . saptamyā cet prakṛteḥ pratiṣedhaḥ vaktavyaḥ . āste śete cyavante plavante . siddham tu ubhayanirdeśāt . siddham etat . katham . ubhayanirdeśaḥ kartavyaḥ . śeṣāt śeṣe iti vaktavyam . kartṛgrahaṇam idānīm kimartham syāt . kartṛgrahaṇam anuparādyartham . anuparādyartham etat syāt . iha mā bhūt . anukriyate svayam eva . parākriyate svayam eva iti . sidhyati . sutram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam śeṣavacanam pañcamyā cet arthe pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . kartari karmavyatihāre iti atra kartṛgrahaṇam pratyākhyāyate . tat prakṛtam iha anuvartiṣyate . śeṣāt kartari kartari iti . kim idam kartari kartari iti . kartā eva yaḥ kartā tatra yathā syāt . kartā ca anyaḥ ca yaḥ kartā tatra mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९४।२-१९ रो इइ,२९२-२९३ किमर्थम् इदम् उच्यते । परस्मैपदप्रतिषेधात् कृञादिषु विधानम् । परस्मैपदप्रतिषेधात् कृञादिषु परस्मैपदम् विधीयते । प्रतिषिध्यते तत्र परस्मैपदम् स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् । तत्र आत्मनेपदस्य प्रतिषेधः वक्तव्यः । किम् कारणम् । अप्रतिषिद्धत्वात् । न हि आत्मनेपदम् प्रतिषिध्यते । किम् तर्हि । परस्मैपदम् अनेन विधीयते । न वा द्युतादिभ्यः वावचनात् । न वा एषः दोषः । किम् कारणम् । द्युतादिभ्यः वावचनात् । यत् अयम् द्युतादिभ्यः वावचनम् करोति तत् ज्ञापयति आचार्यः न परस्मैपदविषये आत्मनेपदम् भवति इति । आत्मनेपदनियमे वा प्रतिषेधः । आत्मनेपदनियमे वा प्रतिषेधः वक्तव्यः । स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति कर्तरि । अनुपराभ्याम् कृञः न इति । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् तत्र आत्मनेपदप्रतिषेधः अप्रतिषिद्धत्वात् इति । परिहृतम् एतत् न वा द्युतादिभ्यः वावचनात् । अथ वा इदम् तावत् अयम् प्रष्टव्यः । स्वरितञितः कर्त्रभिप्राये क्रियाफले आत्मनेपदम् भवति इति परस्मैपदम् कस्मात् न भवति । आत्मनेपदेन बाध्यते । यथा एव तर्हि आत्मनेपदेन परस्मैपदम् बाध्यते एवम् परस्मैपदेन आत्मनेपदम् बाधिष्यते ।

KA I,294.2-19 Ro II,292-293 kimartham idam ucyate . parasmaipadapratiṣedhāt kṛñādiṣu vidhānam . parasmaipadapratiṣedhāt kṛñādiṣu parasmaipadam vidhīyate . pratiṣidhyate tatra parasmaipadam svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati iti . asti prayojanam etat . kim tarhi iti . tatra ātmanepadapratiṣedhaḥ apratiṣiddhatvāt . tatra ātmanepadasya pratiṣedhaḥ vaktavyaḥ . kim kāraṇam . apratiṣiddhatvāt . na hi ātmanepadam pratiṣidhyate . kim tarhi . parasmaipadam anena vidhīyate . na vā dyutādibhyaḥ vāvacanāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . dyutādibhyaḥ vāvacanāt . yat ayam dyutādibhyaḥ vāvacanam karoti tat jñāpayati ācāryaḥ na parasmaipadaviṣaye ātmanepadam bhavati iti . ātmanepadaniyame vā pratiṣedhaḥ . ātmanepadaniyame vā pratiṣedhaḥ vaktavyaḥ . svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati kartari . anuparābhyām kṛñaḥ na iti . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam tatra ātmanepadapratiṣedhaḥ apratiṣiddhatvāt iti . parihṛtam etat na vā dyutādibhyaḥ vāvacanāt . atha vā idam tāvat ayam praṣṭavyaḥ . svaritañitaḥ kartrabhiprāye kriyāphale ātmanepadam bhavati iti parasmaipadam kasmāt na bhavati . ātmanepadena bādhyate . yathā eva tarhi ātmanepadena parasmaipadam bādhyate evam parasmaipadena ātmanepadam bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९४।२१ रो इइ,२९४ बुधादिषु ये अकर्मकाः तेषाम् ग्रहणम् किमर्थम् । सकर्मकार्थम् अचित्तवत्कर्तृकार्थम् वा ।

KA I,294.21 Ro II,294 budhādiṣu ye akarmakāḥ teṣām grahaṇam kimartham . sakarmakārtham acittavatkartṛkārtham vā .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९४।२३-२९५।१० रो इइ,२९४-२९५ अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् । अणौ अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदम् वक्तव्यम् । इह अपि यथा स्यात् : चेतयमाणम् प्रयोजयति चेतयति इति । यदि तर्हि अत्र अपि इष्यते अणिग्रहणम् इदानीम् किमर्थम् स्यात् । अकर्मकग्रहणम् अण्यन्तविशेषणम् यथा विज्ञायेत । अथ अक्रियमाणे अणिग्रहणम् कस्य अकर्मक्ग्रहणम् विशेषणम् स्यात् । णेः इति वर्तते । ण्यन्तविशेषणम् । तत्र कः दोषः । इह एव स्यात् : चेतयमानम् प्रयोजयति चेतयति इति । इह न स्यात् : आसयति शाययति इति । सिद्धम् तु अतस्मिन् णौ इति वचनात् । सिद्धम् एतत् । कथम् । अतस्मिन् णौ यः अकर्मकः तत्र इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् अणव् अकर्मकात् इति चुरादिणिचः ण्यन्तात् परस्मैपदवचनम् इति । न एषः दोषः । अणौ इति कस्य इदम् णेः ग्रहणम् । यस्माण् णेः प्राक् कर्म कर्ता वा विद्यते । न च एतस्माण् णेअः प्राक् कर्म कर्ता वा विद्यते ।

KA I,294.23-295.10 Ro II,294-295 aṇau akarmakāt iti curādiṇicaḥ ṇyantāt parasmaipadavacanam . aṇau akarmakāt iti curādiṇicaḥ ṇyantāt parasmaipadam vaktavyam . iha api yathā syāt : cetayamāṇam prayojayati cetayati iti . yadi tarhi atra api iṣyate aṇigrahaṇam idānīm kimartham syāt . akarmakagrahaṇam aṇyantaviśeṣaṇam yathā vijñāyeta . atha akriyamāṇe aṇigrahaṇam kasya akarmakgrahaṇam viśeṣaṇam syāt . ṇeḥ iti vartate . ṇyantaviśeṣaṇam . tatra kaḥ doṣaḥ . iha eva syāt : cetayamānam prayojayati cetayati iti . iha na syāt : āsayati śāyayati iti . siddham tu atasmin ṇau iti vacanāt . siddham etat . katham . atasmin ṇau yaḥ akarmakaḥ tatra iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam aṇav akarmakāt iti curādiṇicaḥ ṇyantāt parasmaipadavacanam iti . na eṣaḥ doṣaḥ . aṇau iti kasya idam ṇeḥ grahaṇam . yasmāṇ ṇeḥ prāk karma kartā vā vidyate . na ca etasmāṇ ṇeaḥ prāk karma kartā vā vidyate .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९५।१३-१४ रो इइ,२९५-२९६ पादिषु धेटः उपसङ्ख्यानम् । पादिषु धेटः उपसङ्ख्यानम् कर्तव्यम् । धापयते शिशुमेक समीची ।

KA I,295.13-14 Ro II,295-296 pādiṣu dheṭaḥ upasaṅkhyānam . pādiṣu dheṭaḥ upasaṅkhyānam kartavyam . dhāpayate śiśumeka samīcī .

Sanskrit only: no published translation is held for this verse.

क्अ इ,२९५।१६-१९ रो इइ,२९६। किमर्थः चकारः । स्यसनोः इति एतत् अनुकृष्यते । यदि तर्हि न अन्तरेण चकारम् अनुङ्र्त्तिः भवति द्युद्भ्यः लुङि इति अत्र अपि चकारः कर्तव्यः विभाषा इति अनुकर्षणार्थः । अथ इदानीम् अन्तरेण अपि चकारम् अनुवृत्तिः भवति इह अपि न अर्थः चकारेण । एवम् सर्वे चकाराः प्रत्याख्यायन्ते।

KA I,295.16-19 Ro II,296. kimarthaḥ cakāraḥ . syasanoḥ iti etat anukṛṣyate . yadi tarhi na antareṇa cakāram anuṅrttiḥ bhavati dyudbhyaḥ luṅi iti atra api cakāraḥ kartavyaḥ vibhāṣā iti anukarṣaṇārthaḥ . atha idānīm antareṇa api cakāram anuvṛttiḥ bhavati iha api na arthaḥ cakāreṇa . evam sarve cakārāḥ pratyākhyāyante.

Sanskrit only: no published translation is held for this verse.