Library·Jayaditya & Vamana: Kasikavrtti·6·6.2

Jayaditya & Vamana: Kasikavrtti 6.2

वीर वीर्य इत्य् एतौ च शब्दौ शोरुत्तरौ बहुव्रीहौ समासे छन्दसि विषये आद्युदात्तौ भवतः । सुवीरस्ते । सुवीर्यस्य पतयः स्यम । वीर्यम् इति यत्प्रत्ययान्तं तत्र यतो ऽनावः (*६,१।१२३) इति आद्युदात्तत्वं न भवति इत्य् एतद् एव वीर्यग्रहणं ज्ञापकम् । तत्र हि सति पूर्वेण+एव सिद्धं स्यात् ॥ कूल-तीर-तूल-मूल-शाला-अक्ष-समम् अव्ययीभावे

vīra vīrya ity etau ca śabdau śoruttarau bahuvrīhau samāse chandasi viṣaye ādyudāttau bhavataḥ / suvīraste / suvīryasya patayaḥ syama / vīryam iti yatpratyayāntaṃ tatra yato 'nāvaḥ (*6,1.123) iti ādyudāttatvaṃ na bhavati ity etad eva vīryagrahaṇaṃ jñāpakam / tatra hi sati pūrveṇa+eva siddhaṃ syāt // kūla-tīra-tūla-mūla-śālā-akṣa-samam avyayībhāve

Sanskrit only: no published translation is held for this verse.

कूल तीर तूल मूल शाला अक्ष सम इत्य् एतानि उत्तरपदानि अवयीभावसमासे आद्युदात्तानि भवन्ति । परिकूलम् । उपकूलम् । परितीरम् । उपतीरम् । परितूलम् । उपतूलम् । परिमूलम् । उपमूलम् । परिशालम् । उपशालम् । पर्यक्षम् । उपाक्षम् । सुषमम् । विषमम् । निषमम् । दुःषमम् । तिष्ठद्गुप्रभृतिषु एते पठ्यन्ते । कूलादिग्रहणं किम् ? उपकुम्भम् । अव्ययीभावे इति किम् ? परमकूलम् । उत्तरमकूलम् । पर्यादिभ्यः कूलादीनाम् आद्युदात्तत्वं विप्रतिषेधेन भवति । परिकूलम् । उपकूलम् ॥ किंस-मन्थ-शूर्प-पाय्य-काण्डं द्विगौ

kūla tīra tūla mūla śālā akṣa sama ity etāni uttarapadāni avayībhāvasamāse ādyudāttāni bhavanti / parikūlam / upakūlam / paritīram / upatīram / paritūlam / upatūlam / parimūlam / upamūlam / pariśālam / upaśālam / paryakṣam / upākṣam / suṣamam / viṣamam / niṣamam / duḥṣamam / tiṣṭhadguprabhṛtiṣu ete paṭhyante / kūlādigrahaṇaṃ kim ? upakumbham / avyayībhāve iti kim ? paramakūlam / uttaramakūlam / paryādibhyaḥ kūlādīnām ādyudāttatvaṃ vipratiṣedhena bhavati / parikūlam / upakūlam // kiṃsa-mantha-śūrpa-pāyya-kāṇḍaṃ dvigau

Sanskrit only: no published translation is held for this verse.

कंस मन्थ शूर्प पाय्य काण्ड इत्य् एतानि उत्तरपदानि द्विगौ समासे आद्युदात्तानि भवन्ति । द्विकंसः । त्रिकंसः । द्विमन्थः । त्रिमन्थः । द्विशूर्पः । त्रिशूर्पः । द्विपाय्यः । त्रिपाय्यः । द्विकाण्डः । त्रिकाण्डः द्विगौ इति किम् ? परमकंसः । उत्तरमकंसः ॥ तत्पुरुषे शालायां नपुंसके

kaṃsa mantha śūrpa pāyya kāṇḍa ity etāni uttarapadāni dvigau samāse ādyudāttāni bhavanti / dvikaṃsaḥ / trikaṃsaḥ / dvimanthaḥ / trimanthaḥ / dviśūrpaḥ / triśūrpaḥ / dvipāyyaḥ / tripāyyaḥ / dvikāṇḍaḥ / trikāṇḍaḥ dvigau iti kim ? paramakaṃsaḥ / uttaramakaṃsaḥ // tatpuruṣe śālāyāṃ napuṃsake

Sanskrit only: no published translation is held for this verse.

कन्था च

kanthā ca

Sanskrit only: no published translation is held for this verse.

तत्पुरुषे समासे नपुंसकलिङ्गे कन्थाशब्दः उत्तरपदम् आद्युदात्तं भवति । सौशमिकन्थम् । आह्वकन्थम् । चप्पकन्थम् । सञ्ज्ञायां कन्थोशीनरेषु (*२,४।२०) इति नपुंसकलिङ्गता । षष्ठीसमासा एते । नपुंसके इत्य् एव, दाक्षिकन्था ॥ आदिश्चिहणादीनां

tatpuruṣe samāse napuṃsakaliṅge kanthāśabdaḥ uttarapadam ādyudāttaṃ bhavati / sauśamikantham / āhvakantham / cappakantham / sañjñāyāṃ kanthośīnareṣu (*2,4.20) iti napuṃsakaliṅgatā / ṣaṣṭhīsamāsā ete / napuṃsake ity eva, dākṣikanthā // ādiścihaṇādīnāṃ

Sanskrit only: no published translation is held for this verse.

कन्थान्ते तत्पुरुषे समासे नपुंसकलिङ्गे चिहणादीनाम् आदिर् उदात्तो भवति । चिहणकन्थम् । मडरकन्थम् । मडुर इति केचित् पठन्ति । मडुरकन्थम् । चिहण । मडर । मडुर । वैतुल । पटत्क । चैत्तलिकर्णः । वैतालिकर्णिः इत्य् अन्ये पथन्ति । कुक्कुट । चिक्कण । चित्कण इत्य् अपरे पथन्ति । आदिः इति वर्तमाने पुनर् आदिग्रहणं पूर्वपदाद्युदात्तार्थम् ॥ चेल-खेट-कटुक-काण्डं गर्हायाम्

kanthānte tatpuruṣe samāse napuṃsakaliṅge cihaṇādīnām ādir udātto bhavati / cihaṇakantham / maḍarakantham / maḍura iti kecit paṭhanti / maḍurakantham / cihaṇa / maḍara / maḍura / vaitula / paṭatka / caittalikarṇaḥ / vaitālikarṇiḥ ity anye pathanti / kukkuṭa / cikkaṇa / citkaṇa ity apare pathanti / ādiḥ iti vartamāne punar ādigrahaṇaṃ pūrvapadādyudāttārtham // cela-kheṭa-kaṭuka-kāṇḍaṃ garhāyām

Sanskrit only: no published translation is held for this verse.

चेल खेट कतुक काण्ड इत्य् एतानि उत्तरपदानि तत्पुरुसे समासे गर्हायां गम्यमानायाम् आद्युदात्तानि भवन्ति । पुत्रचेलम् । भार्याचेलम् । उपानत्खेटम् । नगरखेटम् । दधिकटुकम् । उदश्वित्कटुकम् । भूतकाण्डम् । प्रजाकाण्डम् । चेलाअदिसादृश्येन पुत्रादीनां गर्हा । तत्र पुत्रः चेलम् इव इति विगृह्य व्याघ्रादेर् आकृतिगणत्वाद् उपमितं व्याघ्रादिभिः इति समासः । गर्हायाम् इति किम् । परमचेलम् ॥ चीरम् उपमानम्

cela kheṭa katuka kāṇḍa ity etāni uttarapadāni tatpuruse samāse garhāyāṃ gamyamānāyām ādyudāttāni bhavanti / putracelam / bhāryācelam / upānatkheṭam / nagarakheṭam / dadhikaṭukam / udaśvitkaṭukam / bhūtakāṇḍam / prajākāṇḍam / celāadisādṛśyena putrādīnāṃ garhā / tatra putraḥ celam iva iti vigṛhya vyāghrāder ākṛtigaṇatvād upamitaṃ vyāghrādibhiḥ iti samāsaḥ / garhāyām iti kim / paramacelam // cīram upamānam

Sanskrit only: no published translation is held for this verse.

चीरमुत्तरपदम् उपमानवाचि तत्पुरुषे समासे आद्युदात्तं भवति । वस्त्रं चीरम् इव वस्त्रचीरम् । पटचीरम् । अम्बलचीरम् । उपमानम् इति किम् ? परमचीरम् ॥ पलल-सूप-शाकं मिश्रे

cīramuttarapadam upamānavāci tatpuruṣe samāse ādyudāttaṃ bhavati / vastraṃ cīram iva vastracīram / paṭacīram / ambalacīram / upamānam iti kim ? paramacīram // palala-sūpa-śākaṃ miśre

Sanskrit only: no published translation is held for this verse.

कूलसूदस्थलकर्षाः सञ्ज्ञायाम्

kūlasūdasthalakarṣāḥ sañjñāyām

Sanskrit only: no published translation is held for this verse.

कूल सूद स्थल कर्ष इत्य् एतानि उत्तरपदानि तत्पुरुषे समासे सञ्ज्ञायां विषये आद्युदात्तनि भवन्ति । दाक्षिकूलम् । माहकिकूलम् । देवसूदम् । भाजीसूदम् । दण्डायनस्थली । माहकिस्थली । दाक्षिकर्षः । ग्रामनामधेयानि एतानि । स्थालग्रहणे लिङ्गविशिष्टत्वात् स्थालीशब्दो ऽपि गृह्यते । जानपदकुण्ड इत्य् अनेन ङीष् । सञ्ज्ञायाम् इति किम् ? परमकूलम् ॥ अकमधारये राज्यम्

kūla sūda sthala karṣa ity etāni uttarapadāni tatpuruṣe samāse sañjñāyāṃ viṣaye ādyudāttani bhavanti / dākṣikūlam / māhakikūlam / devasūdam / bhājīsūdam / daṇḍāyanasthalī / māhakisthalī / dākṣikarṣaḥ / grāmanāmadheyāni etāni / sthālagrahaṇe liṅgaviśiṣṭatvāt sthālīśabdo 'pi gṛhyate / jānapadakuṇḍa ity anena ṅīṣ / sañjñāyām iti kim ? paramakūlam // akamadhāraye rājyam

Sanskrit only: no published translation is held for this verse.

कर्मधारयवर्जिते तत्पुरुषे समासे राज्यम् इत्य् एतद् उत्तरपदम् आद्युदात्तं भवति । ब्राह्मणराज्यम् । क्षत्रियराज्यम् । अकर्मधारये इति किम् ? परमराज्यम् । चेलराज्यादिस्वराद् अव्ययस्वरो भवति पूर्वविप्रतिषेधेन । कुचेलम् । कुराज्यम् ॥ वर्ग्य-आदयश् च

karmadhārayavarjite tatpuruṣe samāse rājyam ity etad uttarapadam ādyudāttaṃ bhavati / brāhmaṇarājyam / kṣatriyarājyam / akarmadhāraye iti kim ? paramarājyam / celarājyādisvarād avyayasvaro bhavati pūrvavipratiṣedhena / kucelam / kurājyam // vargya-ādayaś ca

Sanskrit only: no published translation is held for this verse.

वग्य इत्य् एवम् आदीनि उत्तरपदानि अकर्मधारये तत्पुरुषे समासे आद्युदत्तानि भवन्ति । वासुदेववर्ग्यः । वासुदेवपक्ष्यः । अर्जुनवर्ग्यः । अर्नपक्ष्यः । अकर्मधारये इत्य् एव, परमवर्ग्यः । वर्ग्यादयः प्रातिपदिकेसु न पठ्यन्ते । दिगादिषु तु वर्ग पूग गण पक्ष इत्य् एवम् आदयो ये पठिताः, ते एव यत्प्रत्ययान्ता वर्ग्यादयः इह प्रतिपत्तव्या ॥ पुत्रः पुम्भ्यः

vagya ity evam ādīni uttarapadāni akarmadhāraye tatpuruṣe samāse ādyudattāni bhavanti / vāsudevavargyaḥ / vāsudevapakṣyaḥ / arjunavargyaḥ / arnapakṣyaḥ / akarmadhāraye ity eva, paramavargyaḥ / vargyādayaḥ prātipadikesu na paṭhyante / digādiṣu tu varga pūga gaṇa pakṣa ity evam ādayo ye paṭhitāḥ, te eva yatpratyayāntā vargyādayaḥ iha pratipattavyā // putraḥ pumbhyaḥ

Sanskrit only: no published translation is held for this verse.

पुत्रशब्दः पुंशब्देभ्य उत्तरस् तत्पुरुषे आद्युदत्तो भवति । कौनटिपुत्रः । दामकपुत्रः । माहिषकपुत्रः । पुत्रः इति किम् ? कौनटिमातुलः । पुम्भ्यः इति किम् ? गार्गीपुत्रः । वात्सीपुत्रः ॥ न आचार्य-राज-र्त्विक्-संयुक्त-ज्ञात्य्-आख्येभ्यः

putraśabdaḥ puṃśabdebhya uttaras tatpuruṣe ādyudatto bhavati / kaunaṭiputraḥ / dāmakaputraḥ / māhiṣakaputraḥ / putraḥ iti kim ? kaunaṭimātulaḥ / pumbhyaḥ iti kim ? gārgīputraḥ / vātsīputraḥ // na ācārya-rāja-rtvik-saṃyukta-jñāty-ākhyebhyaḥ

Sanskrit only: no published translation is held for this verse.

चूर्ण-आदीन्य् अप्राणिषष्ठ्याः

cūrṇa-ādīny aprāṇiṣaṣṭhyāḥ

Sanskrit only: no published translation is held for this verse.

उत्तरपदादिः इति वर्तते, तत्पुरुषे इति च । चूर्णादीनि उत्तरपदानि अप्राणिवाचिनः षष्ठ्यन्तात् पराणि तत्पुरुषे समासे आद्युदात्तानि भवन्ति । मुद्गचूर्णम् । मसूरचूर्णम् । अप्राणिषष्ठ्याः इति किम् ? मत्स्यचूर्णम् । षष्ठ्याः इति किम् ? परमचूर्णं । चूर्ण । करिप । करिव । शाकिन । शाकट । द्राक्षा । तूस्त । कुन्दम । दलप । चमसी । चक्कन । चौल । चूर्णादिः । चूर्णादीन्य् प्राण्युपग्रहात् इति सूत्रस्य पाठान्तरम् । तत्र+उपग्रहः इति षष्ठ्यन्तम् एव पूर्वाचार्योपचारेण गृह्यते ॥ षट् च काण्डादीनि

uttarapadādiḥ iti vartate, tatpuruṣe iti ca / cūrṇādīni uttarapadāni aprāṇivācinaḥ ṣaṣṭhyantāt parāṇi tatpuruṣe samāse ādyudāttāni bhavanti / mudgacūrṇam / masūracūrṇam / aprāṇiṣaṣṭhyāḥ iti kim ? matsyacūrṇam / ṣaṣṭhyāḥ iti kim ? paramacūrṇaṃ / cūrṇa / karipa / kariva / śākina / śākaṭa / drākṣā / tūsta / kundama / dalapa / camasī / cakkana / caula / cūrṇādiḥ / cūrṇādīny prāṇyupagrahāt iti sūtrasya pāṭhāntaram / tatra+upagrahaḥ iti ṣaṣṭhyantam eva pūrvācāryopacāreṇa gṛhyate // ṣaṭ ca kāṇḍādīni

Sanskrit only: no published translation is held for this verse.

षट् पुर्वोक्तानि काण्डादीनि उत्तरपदानि अप्राणिषष्ठ्या आद्युदात्तनि भवन्ति । काण्डं गहार्याम् इत्य् उक्तम्, अगर्हायाम् अपि भवति । दर्भकाण्डम् । शरकाण्डम् । चीरम् उपमानम् (*६,२।१२७) इत्य् उक्तम्, अनुपमानम् अपि भवति । दर्भचीरम् । कुशचीरम् । पललसूपशाकं मिश्रे (*६,२।१२८) इत्य् उक्तम्, अनुपमानम् अपि भवति । दर्भचीरम् । कुशचीरम् । पलल-सूप-शाकं मिश्रे (*६,२।१२८) इत्य् उक्तम्, अमिश्रे ऽपि भवति । तिलपललम् । मुद्गसूपः । मूलकशाकम् । कूलं सञ्ज्ञायाम् (*६,२।१२९) इत्य् उक्तम्, असञ्ज्ञायाम् अपि भवति । नदीकूलम् । समुद्रकूलम् । षट् इति किम् ? राजसूदः ॥ कुण्डं वनम्

ṣaṭ purvoktāni kāṇḍādīni uttarapadāni aprāṇiṣaṣṭhyā ādyudāttani bhavanti / kāṇḍaṃ gahāryām ity uktam, agarhāyām api bhavati / darbhakāṇḍam / śarakāṇḍam / cīram upamānam (*6,2.127) ity uktam, anupamānam api bhavati / darbhacīram / kuśacīram / palalasūpaśākaṃ miśre (*6,2.128) ity uktam, anupamānam api bhavati / darbhacīram / kuśacīram / palala-sūpa-śākaṃ miśre (*6,2.128) ity uktam, amiśre 'pi bhavati / tilapalalam / mudgasūpaḥ / mūlakaśākam / kūlaṃ sañjñāyām (*6,2.129) ity uktam, asañjñāyām api bhavati / nadīkūlam / samudrakūlam / ṣaṭ iti kim ? rājasūdaḥ // kuṇḍaṃ vanam

Sanskrit only: no published translation is held for this verse.

कुण्डशब्दो ऽत्र कुण्डसादृश्येन वने वर्तते । कुण्डम् इत्य् एतत् उत्तरपदं वनवाचि तत्पुरुषे समासे आद्युदात्तं भवति । दर्भकुण्डं । शरकुण्डम् । वनम् इति किम् ? मृत्कुण्डम् ॥ प्रकृत्या भगालम्

kuṇḍaśabdo 'tra kuṇḍasādṛśyena vane vartate / kuṇḍam ity etat uttarapadaṃ vanavāci tatpuruṣe samāse ādyudāttaṃ bhavati / darbhakuṇḍaṃ / śarakuṇḍam / vanam iti kim ? mṛtkuṇḍam // prakṛtyā bhagālam

Sanskrit only: no published translation is held for this verse.

भगालवाच्युत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । कुम्भीभगालम् । कुम्भीकपालम् । कुम्भीनदालम् । भगालादयो मध्योदात्ताः । प्रकृत्या इत्य् एतद् अधिकृतम् अन्तः (*६,२।१४३) इति यावद् वेदितव्यम् ॥ शितेर् नित्य-अबह्व्-अज्ब्-अहुव्रीहाव् अभसत्

bhagālavācyuttarapadaṃ tatpuruṣe samāse prakṛtisvaraṃ bhavati / kumbhībhagālam / kumbhīkapālam / kumbhīnadālam / bhagālādayo madhyodāttāḥ / prakṛtyā ity etad adhikṛtam antaḥ (*6,2.143) iti yāvad veditavyam // śiter nitya-abahv-ajb-ahuvrīhāv abhasat

Sanskrit only: no published translation is held for this verse.

गति-कारक-उपपदात् कृत्

gati-kāraka-upapadāt kṛt

Sanskrit only: no published translation is held for this verse.

तत्पुरुषे इति वर्तते, न बहुव्रीहौ इति । गतेः कारकात् उपपदात् च कृदन्तम् उत्तरपदं तत्पुरुषे समासे प्रकृतिस्वरं भवति । प्रकारकः । प्रकरणम् । प्रहारकः । प्रहरणम् । कारकात् - इध्मप्रव्रश्चनः । पलाशशातनः । श्मश्रुकल्पनः । उपपदात् - ईषत्करः । दुष्करः । सुकरः । सर्वत्र+एव अत्र लित्स्वरः । गतिकार - कोपपदात् इति किम् ? देवदत्तस्य कारकः देवदत्तकारकः । देवदत्तस्य इति शेषलक्षण षष्ठी । कृद्ग्रहणं विस्पष्टार्थम् । प्रपचतितराम्, प्रपचतितमाम् इत्य् अत्र तरबाद्यन्तेन समासे कृते पश्चादाम् । तत्र सति शिष्टत्वाद् आम एव स्वरो भवति इत्य् एके । प्रपचतिदेश्याद्यर्थं कृद्ग्रहणं दृश्यत एव ॥ उभे वनस्पत्यादिषु युगपत्

tatpuruṣe iti vartate, na bahuvrīhau iti / gateḥ kārakāt upapadāt ca kṛdantam uttarapadaṃ tatpuruṣe samāse prakṛtisvaraṃ bhavati / prakārakaḥ / prakaraṇam / prahārakaḥ / praharaṇam / kārakāt - idhmapravraścanaḥ / palāśaśātanaḥ / śmaśrukalpanaḥ / upapadāt - īṣatkaraḥ / duṣkaraḥ / sukaraḥ / sarvatra+eva atra litsvaraḥ / gatikāra - kopapadāt iti kim ? devadattasya kārakaḥ devadattakārakaḥ / devadattasya iti śeṣalakṣaṇa ṣaṣṭhī / kṛdgrahaṇaṃ vispaṣṭārtham / prapacatitarām, prapacatitamām ity atra tarabādyantena samāse kṛte paścādām / tatra sati śiṣṭatvād āma eva svaro bhavati ity eke / prapacatideśyādyarthaṃ kṛdgrahaṇaṃ dṛśyata eva // ubhe vanaspatyādiṣu yugapat

Sanskrit only: no published translation is held for this verse.

तृष्णावरूत्री । तृष्णाशब्द आद्युदात्तः । वरूत्रीशब्दो ग्रसितादिसूत्रे निपातितो ऽन्तोदात्तः । तत्र द्वन्द्वे दीर्घत्वं पूर्ववत् । बम्बाविश्ववयसौ । बम्बशब्दो ऽन्तोदात्तः । विश्ववयःशब्दो ऽपि बहुव्रीहौ विश्वं सञ्ज्ञायाम् (*६,२।१०६) इति विश्वशदो ऽन्तोदात्तः । तयोर् द्वन्द्वे दीर्घत्वं पूर्ववत् । मर्मृत्युः । मर् इति मृञो विच्प्रत्ययः । मृत्युशब्दो ऽन्तोदात्तः । द्वन्द्वानामदेवताद्वन्द्वार्थो ऽनुदात्ताद्युत्तरपदार्थश् च वनस्पत्यादिषु पाठः ॥ देवताद्वन्द्वे च

tṛṣṇāvarūtrī / tṛṣṇāśabda ādyudāttaḥ / varūtrīśabdo grasitādisūtre nipātito 'ntodāttaḥ / tatra dvandve dīrghatvaṃ pūrvavat / bambāviśvavayasau / bambaśabdo 'ntodāttaḥ / viśvavayaḥśabdo 'pi bahuvrīhau viśvaṃ sañjñāyām (*6,2.106) iti viśvaśado 'ntodāttaḥ / tayor dvandve dīrghatvaṃ pūrvavat / marmṛtyuḥ / mar iti mṛño vicpratyayaḥ / mṛtyuśabdo 'ntodāttaḥ / dvandvānāmadevatādvandvārtho 'nudāttādyuttarapadārthaś ca vanaspatyādiṣu pāṭhaḥ // devatādvandve ca

Sanskrit only: no published translation is held for this verse.

देवतावाचिनां यो द्वन्द्वस् तत्र युगपदुभे पूर्वोत्तरपदे प्रकृतिस्वरे भवतः । इन्द्रासोमौ । इन्द्रावरुणौ । इन्द्राबृहस्पती । ऋज्रेन्द्राग्र इति इन्द्रशब्दः आद्युदात्तो निपातितः । सोम इति मन्प्रत्ययान्तः । वरुण उनन्प्रत्ययान्तः, तेन आद्युदात्तः बृहस्पतिशब्दे वनस्पत्यादित्वात् द्वाव् उदात्तौ, तेन इन्द्राबृहस्पती इत्य् अत्र त्रय उदात्ता भवन्ति । देवताग्रहणं किम् ? प्लक्षन्यग्रोधौ । द्वन्द्वग्रहणं किम् ? अग्निष्टोमः ॥ न+उत्तरपदे ऽनुदात्तादाव् अपृथिवी-रुद्र-पूष-मन्थिषु

devatāvācināṃ yo dvandvas tatra yugapadubhe pūrvottarapade prakṛtisvare bhavataḥ / indrāsomau / indrāvaruṇau / indrābṛhaspatī / ṛjrendrāgra iti indraśabdaḥ ādyudātto nipātitaḥ / soma iti manpratyayāntaḥ / varuṇa unanpratyayāntaḥ, tena ādyudāttaḥ bṛhaspatiśabde vanaspatyāditvāt dvāv udāttau, tena indrābṛhaspatī ity atra traya udāttā bhavanti / devatāgrahaṇaṃ kim ? plakṣanyagrodhau / dvandvagrahaṇaṃ kim ? agniṣṭomaḥ // na+uttarapade 'nudāttādāv apṛthivī-rudra-pūṣa-manthiṣu

Sanskrit only: no published translation is held for this verse.

उत्तरपदे ऽनुदात्तादौ पृथिवी रुद्र पूषमन्थिवर्जिते देवताद्वन्द्वे न+उभे युगपत् प्रकृतिस्वरे भवतः । इन्द्राग्नी । इन्द्रवायू । अग्निवायुशब्दौ अन्तोदात्तौ । उत्तरपदग्रहणम् अनुदात्तादौ इत्य् उत्तरपदविशेषणं यथा स्यात्, द्वन्द्वविशेषणं मा भूत् इति । अनुदात्तादौ इति विधिप्रतिषेधयोः विषयविभागार्थम् । अपृथिव्यादिषु इति किम् ? द्यावापृथिव्यौ । द्यावाशब्द आद्युदात्तो निपातितः । पृथिवीशब्दो ङीष्प्रत्ययान्तत्वाद् अन्तोदात्तः । रुद्र - सोमारुद्रौ । रोदेर्णिलुक् च इति रुद्रशब्दो रक्प्रत्ययान्तो ऽन्तोदात्तः । पूषन् - इन्द्रापूषणौ । स्वन्नुक्षन्पूषन् इति पूषान्तोदात्तो निपात्यते । मन्थिन् - शुक्रामन्थिनौ मन्थो ऽस्य अस्ति इति मन्थी । इन्नतत्वाद् अन्तोदात्तः । पृथिव्यादिषु तु उभे युगपत् प्रकृतिस्वरे भवत एव ॥ अन्तः

uttarapade 'nudāttādau pṛthivī rudra pūṣamanthivarjite devatādvandve na+ubhe yugapat prakṛtisvare bhavataḥ / indrāgnī / indravāyū / agnivāyuśabdau antodāttau / uttarapadagrahaṇam anudāttādau ity uttarapadaviśeṣaṇaṃ yathā syāt, dvandvaviśeṣaṇaṃ mā bhūt iti / anudāttādau iti vidhipratiṣedhayoḥ viṣayavibhāgārtham / apṛthivyādiṣu iti kim ? dyāvāpṛthivyau / dyāvāśabda ādyudātto nipātitaḥ / pṛthivīśabdo ṅīṣpratyayāntatvād antodāttaḥ / rudra - somārudrau / roderṇiluk ca iti rudraśabdo rakpratyayānto 'ntodāttaḥ / pūṣan - indrāpūṣaṇau / svannukṣanpūṣan iti pūṣāntodātto nipātyate / manthin - śukrāmanthinau mantho 'sya asti iti manthī / innatatvād antodāttaḥ / pṛthivyādiṣu tu ubhe yugapat prakṛtisvare bhavata eva // antaḥ

Sanskrit only: no published translation is held for this verse.

थ-अथ-घञ्-क्त-अज्-अब्-इत्र-काणाम्

tha-atha-ghañ-kta-aj-ab-itra-kāṇām

Sanskrit only: no published translation is held for this verse.

थ अथ घञ् क्त अच् अप् इत्र क इत्य् एवम् अन्तानाम् उत्तरपदानां गतिकारकोपपदात् परेषाम् अन्तः उदात्तो भवति । सुनीथः । अवभृथः । हनिकुषिनीरमिकाशिभ्यः क्थन् इति अवे भृञः इति च क्थन्प्रत्ययान्ताव् एतौ । तत्र कृदुत्तरपदप्रकृतिस्वरत्वेन आद्युदात्तम् उत्तरपदं स्यात् । अथ - आवसथः उपवसथः । उपसर्गे वसेः इति अथन्प्रत्ययः घञ् - प्रभेदः । काष्ठभेदः । रज्जुभेदः । क्त - दूरादागतः । आतपशुष्कः । विशुष्कः । अच् - प्रक्षयः । प्रजयः । क्षयो निवासे (*६,१।२०१) जयः करणम् (*६,१।२०२) इति च आद्युदात्तौ क्षयजयशब्दौ प्रयोजयतः । अप् - प्रलवः । प्रसवः । इत्र - प्रलवित्रम् । प्रसवित्रम् । क - गोवृषः । खरीवृषः । गां वर्षति, खरीं वर्षति इति मूलविभुजादित्वात् कप्रत्ययः । प्रवृषः । प्रहृषः । इगुपध इति कप्रत्ययः । वृषादीनां च (*६,१।२०३) इति वृषशब्दः आद्युदात्तः । गतिकारकोपपदात् इत्य् एव, सुस्तुतं भवता । कर्मप्रवचनीये अव्ययस्वरः एव भवति ॥ सु-उपमानात् क्तः

tha atha ghañ kta ac ap itra ka ity evam antānām uttarapadānāṃ gatikārakopapadāt pareṣām antaḥ udātto bhavati / sunīthaḥ / avabhṛthaḥ / hanikuṣinīramikāśibhyaḥ kthan iti ave bhṛñaḥ iti ca kthanpratyayāntāv etau / tatra kṛduttarapadaprakṛtisvaratvena ādyudāttam uttarapadaṃ syāt / atha - āvasathaḥ upavasathaḥ / upasarge vaseḥ iti athanpratyayaḥ ghañ - prabhedaḥ / kāṣṭhabhedaḥ / rajjubhedaḥ / kta - dūrādāgataḥ / ātapaśuṣkaḥ / viśuṣkaḥ / ac - prakṣayaḥ / prajayaḥ / kṣayo nivāse (*6,1.201) jayaḥ karaṇam (*6,1.202) iti ca ādyudāttau kṣayajayaśabdau prayojayataḥ / ap - pralavaḥ / prasavaḥ / itra - pralavitram / prasavitram / ka - govṛṣaḥ / kharīvṛṣaḥ / gāṃ varṣati, kharīṃ varṣati iti mūlavibhujāditvāt kapratyayaḥ / pravṛṣaḥ / prahṛṣaḥ / igupadha iti kapratyayaḥ / vṛṣādīnāṃ ca (*6,1.203) iti vṛṣaśabdaḥ ādyudāttaḥ / gatikārakopapadāt ity eva, sustutaṃ bhavatā / karmapravacanīye avyayasvaraḥ eva bhavati // su-upamānāt ktaḥ

Sanskrit only: no published translation is held for this verse.

सु इत्य् एतस्माद् उपमानाच् च परं क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति । सुकृतम् । सुभुक्तम् । सुपीतम् । उपमानात् - वृकावलुप्तम् । शशप्लुतम् । सिंहविनर्दितम् । सुशब्दात् गतिर् अनन्तरः (*६,२।४९) इति प्राप्ते उपमाना दपि तृतीया कर्मणि (*६,२।४८) इत्य् अयम् अपवादः । गतिकारकोपपदात् इत्य् एव, सुस्तुतं भवता ॥ सञ्ज्ञायाम् अनाचितादीनाम्

su ity etasmād upamānāc ca paraṃ ktāntam uttarapadam antodāttaṃ bhavati / sukṛtam / subhuktam / supītam / upamānāt - vṛkāvaluptam / śaśaplutam / siṃhavinarditam / suśabdāt gatir anantaraḥ (*6,2.49) iti prāpte upamānā dapi tṛtīyā karmaṇi (*6,2.48) ity ayam apavādaḥ / gatikārakopapadāt ity eva, sustutaṃ bhavatā // sañjñāyām anācitādīnām

Sanskrit only: no published translation is held for this verse.

सञ्ज्ञायां विषये गतिकारकोपपदाद् क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति आचितादीन् वर्जयित्वा । सम्भूतो रामायणः । उपहूतः शाकल्यः । परिजग्धः कौण्डिन्यः । सम्भूतः इति प्रत्यर्थात् भवतेः कर्मणि क्तः । गतिर् अनन्तरः (*६,२।४९) इत्य् अत्र हि कर्मणि इत्य् अनुवर्तते, तद्बाधनार्थं चेदम् । धनुष्खाता नदी । कुद्दालखातं नगरम् । हस्तिमृदिता भूमिः । तृतीया कर्मणि (*६,२।४८) इति प्राप्तिर् इह बाध्यते । अनाचितादीनाम् इति किम् ? आचितम् । अप्र्याचितम् । आस्वापितम् । परिगृहीतम् । नरुक्तम् । प्रतिपन्नम् । प्राश्लिष्टम् । उपहतम् । उपस्थितम् । संहिता ऽगवि । संहिताशब्दो यदा गोरन्यस्य सञ्ज्ञा तदा अन्तोदत्तो न भवति । यदा तु गोः सञ्ज्ञा तदा अन्तोदात्त एव ॥ प्रवृद्धादीनां च

sañjñāyāṃ viṣaye gatikārakopapadād ktāntam uttarapadam antodāttaṃ bhavati ācitādīn varjayitvā / sambhūto rāmāyaṇaḥ / upahūtaḥ śākalyaḥ / parijagdhaḥ kauṇḍinyaḥ / sambhūtaḥ iti pratyarthāt bhavateḥ karmaṇi ktaḥ / gatir anantaraḥ (*6,2.49) ity atra hi karmaṇi ity anuvartate, tadbādhanārthaṃ cedam / dhanuṣkhātā nadī / kuddālakhātaṃ nagaram / hastimṛditā bhūmiḥ / tṛtīyā karmaṇi (*6,2.48) iti prāptir iha bādhyate / anācitādīnām iti kim ? ācitam / apryācitam / āsvāpitam / parigṛhītam / naruktam / pratipannam / prāśliṣṭam / upahatam / upasthitam / saṃhitā 'gavi / saṃhitāśabdo yadā goranyasya sañjñā tadā antodatto na bhavati / yadā tu goḥ sañjñā tadā antodātta eva // pravṛddhādīnāṃ ca

Sanskrit only: no published translation is held for this verse.

कारकाद् दत्त-श्रुतयोर् एव आशिषि

kārakād datta-śrutayor eva āśiṣi

Sanskrit only: no published translation is held for this verse.

सञ्ज्ञायाम् इति वर्तते, क्तः इति च । सञ्ज्ञायां विषये आशिषि गम्यमानायां कारकाद् उत्तरयोः दत्तश्रुतयोर् एव क्तान्तयोर् अन्त उदात्तो भवति । देवा एनं देयासुः देवदत्तः । विष्णुरेनं श्रूयात् विष्णुश्रुतः । कारकात् इति किम् ? कारकान् नियमो मा भूत् । सम्भूतो रामायणः । दत्तश्रुतयोः इति किम् ? देवपालितः । एतस्मान् नियमाद् अत्र सञ्ज्ञायाम् अनाचितादीनाम् (*६,२।१४६) इत्य् अन्तोदात्तत्वं न भवति । तृतीया कर्मणि (*६,२।४८) इत्य् एव अत्र भवति । एवकारकरणं किम् ? कारकावधारणं यथा स्यत्, दत्तश्रुतावधारणं मा भूत् । अकारकाद् अपि दत्तश्रुतयोर् अन्त उदात्तो भवति । संश्रुतः । विश्रुतः । आशिषि इति किम् ? अनाअशिषि नियमो मा भूत् । देवैः खाता देवखाता । कारकाद् दत्तश्रुतयोर् आशिस्येव इत्य् एवम् अत्र नियम इष्यते । तेन आहतो नदति देवदत्तः इत्य् अत्र न भवति । देवदत्त इति कस्यचिच्छङ्खस्य नाम । तत्र तृतीया कर्मणि (*६,२।४८) इति पूर्वपदप्रकृतिस्वरत्वम् एव भवति ॥ इत्थंभूतेन कृतम् इति च

sañjñāyām iti vartate, ktaḥ iti ca / sañjñāyāṃ viṣaye āśiṣi gamyamānāyāṃ kārakād uttarayoḥ dattaśrutayor eva ktāntayor anta udātto bhavati / devā enaṃ deyāsuḥ devadattaḥ / viṣṇurenaṃ śrūyāt viṣṇuśrutaḥ / kārakāt iti kim ? kārakān niyamo mā bhūt / sambhūto rāmāyaṇaḥ / dattaśrutayoḥ iti kim ? devapālitaḥ / etasmān niyamād atra sañjñāyām anācitādīnām (*6,2.146) ity antodāttatvaṃ na bhavati / tṛtīyā karmaṇi (*6,2.48) ity eva atra bhavati / evakārakaraṇaṃ kim ? kārakāvadhāraṇaṃ yathā syat, dattaśrutāvadhāraṇaṃ mā bhūt / akārakād api dattaśrutayor anta udātto bhavati / saṃśrutaḥ / viśrutaḥ / āśiṣi iti kim ? anāaśiṣi niyamo mā bhūt / devaiḥ khātā devakhātā / kārakād dattaśrutayor āśisyeva ity evam atra niyama iṣyate / tena āhato nadati devadattaḥ ity atra na bhavati / devadatta iti kasyacicchaṅkhasya nāma / tatra tṛtīyā karmaṇi (*6,2.48) iti pūrvapadaprakṛtisvaratvam eva bhavati // itthaṃbhūtena kṛtam iti ca

Sanskrit only: no published translation is held for this verse.

इमं प्रकारमापन्न इत्थम्भूतः । इत्थंभूतेन कृतम् इत्य् एतस्मिन्न् अर्थे यः समसो वर्तते तत्र क्तान्तम् उत्तरपदम् अन्तोदात्तं भवति । सुप्तप्रलपितम् । उन्मत्तप्रलपितम् । प्रमत्तगीतम् । विपन्नश्रुतम् । कृतम् इति क्रियासामान्ये करोतिर्वर्तते, नाभूतप्रादुर्भाव एव । तेन प्रलपिताद्यपि कृतं भवति । तृतीया कर्मणि (*६,२।४८) इत्य् अस्य अयम् अपवादः । भावे तु यदा प्रलपितादयस् तदा थाथादिस्वरेण+एव सिद्धम् अन्तोदात्तत्वं भवति ॥ अनो भाव-कर्म-वचनः

imaṃ prakāramāpanna itthambhūtaḥ / itthaṃbhūtena kṛtam ity etasminn arthe yaḥ samaso vartate tatra ktāntam uttarapadam antodāttaṃ bhavati / suptapralapitam / unmattapralapitam / pramattagītam / vipannaśrutam / kṛtam iti kriyāsāmānye karotirvartate, nābhūtaprādurbhāva eva / tena pralapitādyapi kṛtaṃ bhavati / tṛtīyā karmaṇi (*6,2.48) ity asya ayam apavādaḥ / bhāve tu yadā pralapitādayas tadā thāthādisvareṇa+eva siddham antodāttatvaṃ bhavati // ano bhāva-karma-vacanaḥ

Sanskrit only: no published translation is held for this verse.

मन्-क्तिन्-व्याख्यान-शयन-आसन-स्थान-याजक-आदि-क्रीताः

man-ktin-vyākhyāna-śayana-āsana-sthāna-yājaka-ādi-krītāḥ

Sanskrit only: no published translation is held for this verse.

मन्नन्तं क्तिन्नन्तं व्याख्यान शयन स्थान इत्य् एतानि याजकादयः क्रीतशब्दश् च+उत्तरपदम् अनतोदात्तं भवति । मन् - रथवर्त्म । शकटवर्त्म । क्तिन् - पाणिनिकृतिः । आपिशलिकृतिः । व्याख्यान - ऋगयनव्याख्यानम् । छन्दोव्याख्यानम् । शयन - राजशयनम् । ब्राह्मणशयनम् । आसन - राजासनम् । ब्राह्मणासनम् । स्थान - गोस्थानम् । अश्वस्थानम् । याजकादिः - ब्राह्मणयाजकः । क्षत्रिययाजकः । ब्राह्मणपूजकः । क्षत्रियपूजकः । याजकादयो ये याजकदिभिश् च (*२,२।९) इति षष्ठीसमासार्थाः पठ्यन्ते त एव+इह गृह्यन्ते । क्रीत - गोत्रीतः । अश्वक्रीतः । कृत्स्वरापवादो ऽयं योगः । क्रीतशब्दे तु तृतीया कर्मणि (*६,२।४८) इत्य् अस्य अपवादः । व्याख्यानशयनासनस्थानानाम् अभावकर्मार्थं ग्रहणम् । कारकात् इत्य् एव, प्रकृतिः । प्रहृतिः ॥ सप्तम्याः पुण्यम्

mannantaṃ ktinnantaṃ vyākhyāna śayana sthāna ity etāni yājakādayaḥ krītaśabdaś ca+uttarapadam anatodāttaṃ bhavati / man - rathavartma / śakaṭavartma / ktin - pāṇinikṛtiḥ / āpiśalikṛtiḥ / vyākhyāna - ṛgayanavyākhyānam / chandovyākhyānam / śayana - rājaśayanam / brāhmaṇaśayanam / āsana - rājāsanam / brāhmaṇāsanam / sthāna - gosthānam / aśvasthānam / yājakādiḥ - brāhmaṇayājakaḥ / kṣatriyayājakaḥ / brāhmaṇapūjakaḥ / kṣatriyapūjakaḥ / yājakādayo ye yājakadibhiś ca (*2,2.9) iti ṣaṣṭhīsamāsārthāḥ paṭhyante ta eva+iha gṛhyante / krīta - gotrītaḥ / aśvakrītaḥ / kṛtsvarāpavādo 'yaṃ yogaḥ / krītaśabde tu tṛtīyā karmaṇi (*6,2.48) ity asya apavādaḥ / vyākhyānaśayanāsanasthānānām abhāvakarmārthaṃ grahaṇam / kārakāt ity eva, prakṛtiḥ / prahṛtiḥ // saptamyāḥ puṇyam

Sanskrit only: no published translation is held for this verse.

सप्तम्यन्तात् परं पुण्यम् इत्य् एतद् उत्तरपदम् अन्तोदात्तं भवति । अध्ययने पुण्यम् अध्ययनपुण्य । वेदे पुण्य वेदपुण्यम् । सप्तमी इति योगविभागात् समासः । तत्पुरुषे तुल्यार्थ इति पूर्वपदकृतिस्वरत्वं प्राप्तम् इत्य् अन्तोदात्तत्वं विधीयते । उणादीनां तु व्युत्पत्तिपक्षे कृत्स्वरेण आद्युदात्तः पुण्यशब्दः स्यात् इति । सप्तम्याः इति किम् ? वेदेन पुण्यम् वेदपुन्यम् ॥ ऊनार्थ-कलहं तृतीआयाः

saptamyantāt paraṃ puṇyam ity etad uttarapadam antodāttaṃ bhavati / adhyayane puṇyam adhyayanapuṇya / vede puṇya vedapuṇyam / saptamī iti yogavibhāgāt samāsaḥ / tatpuruṣe tulyārtha iti pūrvapadakṛtisvaratvaṃ prāptam ity antodāttatvaṃ vidhīyate / uṇādīnāṃ tu vyutpattipakṣe kṛtsvareṇa ādyudāttaḥ puṇyaśabdaḥ syāt iti / saptamyāḥ iti kim ? vedena puṇyam vedapunyam // ūnārtha-kalahaṃ tṛtīāyāḥ

Sanskrit only: no published translation is held for this verse.

ऊनार्थान्य् उत्तरपदानि कलहशब्दश् च तृतीयान्तात् पराण्यनतोदात्तानि भवन्ति । माषोनम् । कार्षापणोनम् । माषविकलम् । कार्षापणविकलम् । कलह - असिकलहः । वाक्कलहः । तृतीयापूर्वपदप्रकृतिस्वरापवदो योगः । अत्र केचिद् अर्थे इति स्वरूपग्रहणम् इच्छन्ति । धान्येन अर्थो धान्यार्थः । ऊनशब्देन+एव त्वर्थनिर्देशर्थेन तदर्थानां ग्रहणम् इति प्रतिपदोक्तत्वाद् एव तृतीयासमासपरिग्रहे सिद्धे तृतीयाग्रहणं विस्पष्टार्थम् ॥ मिश्रं च अनुपसर्गम् असन्धौ

ūnārthāny uttarapadāni kalahaśabdaś ca tṛtīyāntāt parāṇyanatodāttāni bhavanti / māṣonam / kārṣāpaṇonam / māṣavikalam / kārṣāpaṇavikalam / kalaha - asikalahaḥ / vākkalahaḥ / tṛtīyāpūrvapadaprakṛtisvarāpavado yogaḥ / atra kecid arthe iti svarūpagrahaṇam icchanti / dhānyena artho dhānyārthaḥ / ūnaśabdena+eva tvarthanirdeśarthena tadarthānāṃ grahaṇam iti pratipadoktatvād eva tṛtīyāsamāsaparigrahe siddhe tṛtīyāgrahaṇaṃ vispaṣṭārtham // miśraṃ ca anupasargam asandhau

Sanskrit only: no published translation is held for this verse.

उदाहरणेष्व् अविभागापत्तिर् एव गुडमिश्राः इति ॥ नञो गुणप्रतिषेधे सम्पाद्य्-अर्ह-हित-अलमर्थास् तद्धिताः

udāharaṇeṣv avibhāgāpattir eva guḍamiśrāḥ iti // naño guṇapratiṣedhe sampādy-arha-hita-alamarthās taddhitāḥ

Sanskrit only: no published translation is held for this verse.

सम्पादि अर्ह हित अलम् इत्य् एवम् अर्था ये तद्धिताः तदन्तानि उत्तरपदानि नञो गुणप्रतिषेधे वर्तमानात् पराणि अन्तोदात्तानि भवन्ति । सम्पादि-कर्णवेष्टकाभ्यां सम्पादि मुखं कार्णवेष्टकिकम्, न कार्णवेष्टकिकम् अकार्णवेष्टकिकम् । अर्हं - छेदमर्हति छैदिकः, न छैदिकः अच्छैदिकः । हित - वत्सेभ्यो हितः वत्सीयः, न वर्सीयः अवर्सीयः । अलमर्थ - सन्तापाय प्रभवति सान्तापिकः, न सान्तापिकः असान्तापिकः । नञः इति किम् ? गर्दभरथम् अर्हति, गार्दभरथिकः । विगार्दभरथिकः । गुणप्रतिषेधे इति किम् ? गार्दभरथिकादन्यः अगार्दभरथिकः । गुण इति तद्धितार्थप्रवृत्तिनिमित्तं सम्पादित्वाद्य् उच्यते । तत्प्रतिषेधो यत्र+उच्यते समासे तत्र अयं विधिः कर्नवेष्टकाभ्यां । सम्पादि मुखम् इति । सम्पाद्यर्हहितालमर्थाः इति किम् ? पाणिनीयम् अधीते पाणिनीयः, न पाणिनीयः अपाणिनीयः । तद्धिताः इति किम् ? अन्यां वोढुमर्हति कन्यावोढा, न वोढा अवोढा । अर्हे कृत्यतृचश् च (*३,३।१६९) इति तृच् ॥ य-यतोश् च अतदर्थे

sampādi arha hita alam ity evam arthā ye taddhitāḥ tadantāni uttarapadāni naño guṇapratiṣedhe vartamānāt parāṇi antodāttāni bhavanti / sampādi-karṇaveṣṭakābhyāṃ sampādi mukhaṃ kārṇaveṣṭakikam, na kārṇaveṣṭakikam akārṇaveṣṭakikam / arhaṃ - chedamarhati chaidikaḥ, na chaidikaḥ acchaidikaḥ / hita - vatsebhyo hitaḥ vatsīyaḥ, na varsīyaḥ avarsīyaḥ / alamartha - santāpāya prabhavati sāntāpikaḥ, na sāntāpikaḥ asāntāpikaḥ / nañaḥ iti kim ? gardabharatham arhati, gārdabharathikaḥ / vigārdabharathikaḥ / guṇapratiṣedhe iti kim ? gārdabharathikādanyaḥ agārdabharathikaḥ / guṇa iti taddhitārthapravṛttinimittaṃ sampāditvādy ucyate / tatpratiṣedho yatra+ucyate samāse tatra ayaṃ vidhiḥ karnaveṣṭakābhyāṃ / sampādi mukham iti / sampādyarhahitālamarthāḥ iti kim ? pāṇinīyam adhīte pāṇinīyaḥ, na pāṇinīyaḥ apāṇinīyaḥ / taddhitāḥ iti kim ? anyāṃ voḍhumarhati kanyāvoḍhā, na voḍhā avoḍhā / arhe kṛtyatṛcaś ca (*3,3.169) iti tṛc // ya-yatoś ca atadarthe

Sanskrit only: no published translation is held for this verse.

य यत् इत्य् एतौ यौ तद्धिताव् अतदर्थे वर्तते तदन्तस्य+उत्तरपदस्य नञो गुणप्रतिषेधविषयादन्त उदात्तो भवति । पाशानां समूहः पाश्या, न पाश्या अपाश्या । अतृण्या । यत् - दन्तेषु भवं दन्त्यम्, न दन्त्यम् अदन्त्यम् । अकर्ण्यम् । अतदर्थे इति किम् ? पादार्थमुदकं पाद्यम्, न पाद्यम् अपाद्यम् । तद्धिता इत्य् एव, अदेयम् । गुणप्रतिषेधे इत्य् एव, दन्त्यादन्यद् अदन्त्यम् । निरनुबन्धकैकानुबन्धकयोर् ययतोर् ग्रहणाद् इह न भवति, वामदेवाड्ड्यड्ड्यौ (*४,२।५) वामदेव्यम्, न वामदेव्यम् अवामदेव्यम् इति ॥ अच्-काव् अशक्तौ

ya yat ity etau yau taddhitāv atadarthe vartate tadantasya+uttarapadasya naño guṇapratiṣedhaviṣayādanta udātto bhavati / pāśānāṃ samūhaḥ pāśyā, na pāśyā apāśyā / atṛṇyā / yat - danteṣu bhavaṃ dantyam, na dantyam adantyam / akarṇyam / atadarthe iti kim ? pādārthamudakaṃ pādyam, na pādyam apādyam / taddhitā ity eva, adeyam / guṇapratiṣedhe ity eva, dantyādanyad adantyam / niranubandhakaikānubandhakayor yayator grahaṇād iha na bhavati, vāmadevāḍḍyaḍḍyau (*4,2.5) vāmadevyam, na vāmadevyam avāmadevyam iti // ac-kāv aśaktau

Sanskrit only: no published translation is held for this verse.

अच् क इत्य् एवम् अन्तम् अशक्तौ गम्यमानायाम् उत्तरपदं नञः परमन्तोदत्तं भवति । अपचः यः पक्तुं न शक्नोति । अजयः । कः खल्व् अपि - अविक्षिपः । अविलिखः । अशक्तौ इति किम् ? अपचो दीक्षितः । अपचः परिव्राजकः ॥ आक्रोशे च

ac ka ity evam antam aśaktau gamyamānāyām uttarapadaṃ nañaḥ paramantodattaṃ bhavati / apacaḥ yaḥ paktuṃ na śaknoti / ajayaḥ / kaḥ khalv api - avikṣipaḥ / avilikhaḥ / aśaktau iti kim ? apaco dīkṣitaḥ / apacaḥ parivrājakaḥ // ākrośe ca

Sanskrit only: no published translation is held for this verse.

सञ्ज्ञायाम्

sañjñāyām

Sanskrit only: no published translation is held for this verse.

अक्रोशे गम्यमाने नञः परम् उत्तरपदं सञ्ज्ञायां वर्तमानम् अन्तोदात्तं भवति । अदेवदत्तः । अयज्ञदत्तः । अविष्णुमित्रः ॥ कृत्य-उक-इष्णुच्-चार्व्-आदयश् च

akrośe gamyamāne nañaḥ param uttarapadaṃ sañjñāyāṃ vartamānam antodāttaṃ bhavati / adevadattaḥ / ayajñadattaḥ / aviṣṇumitraḥ // kṛtya-uka-iṣṇuc-cārv-ādayaś ca

Sanskrit only: no published translation is held for this verse.

कृत्य उक इष्णुच् इत्य् एवम् अन्ताश् चार्वादयश् च नञः उत्तरे ऽन्तोदात्ताः भवन्ति । कृत्य - अकर्तव्यम् । अक-रणीयम् । उक - अनागामुकम् । अनपलाषुकम् । इष्णुच् - अनलङ्करिष्णुः । अनिराकरिष्णुः । इष्णुज् - ग्रहणे कर्तरि भुवः खिष्णुच् (*३,२।५७) इत्य् अस्य द्व्यनुबन्धकस्य अपि ग्रहणम् इकारादेर् विधानसामर्थ्याद् भवति । अनाढ्यम्भविष्णुः । असुभगम्भविष्णुः । चार्वादयः - अचारुः । असाधुः । अयौधिकः । अवदान्यः । चारु । साधु । यौधिक । अनङ्गमेजय । अत्र द्वितीये नञ्समासे ऽन्तोदात्तत्वम् । अननङ्गमेजयः । वदान्य । अकस्मात् । अत्र अपि द्वितीये नञ्समासे ऽन्तोदात्तत्वम् । अनकस्मात् । अवर्तमानवर्धमानत्वरमाणध्रियमाण। रोचमानशोभमानाः सञ्ज्ञायाम् । एते वर्तमानादयः सञ्ज्ञायां द्रष्दव्याः । विकारसदृशे व्यस्तसमस्ते । अविकारः । असदृशः । अविकारसदृशः । गृहपति । गृहपतिक । राजाह्नोश् छन्दसि । अराजा । अनहः । भाषायां नञ्स्वर एव भवति ॥ विभाषा तृन्न्-अन्न-तीक्ष्ण-शुचिषु

kṛtya uka iṣṇuc ity evam antāś cārvādayaś ca nañaḥ uttare 'ntodāttāḥ bhavanti / kṛtya - akartavyam / aka-raṇīyam / uka - anāgāmukam / anapalāṣukam / iṣṇuc - analaṅkariṣṇuḥ / anirākariṣṇuḥ / iṣṇuj - grahaṇe kartari bhuvaḥ khiṣṇuc (*3,2.57) ity asya dvyanubandhakasya api grahaṇam ikārāder vidhānasāmarthyād bhavati / anāḍhyambhaviṣṇuḥ / asubhagambhaviṣṇuḥ / cārvādayaḥ - acāruḥ / asādhuḥ / ayaudhikaḥ / avadānyaḥ / cāru / sādhu / yaudhika / anaṅgamejaya / atra dvitīye nañsamāse 'ntodāttatvam / ananaṅgamejayaḥ / vadānya / akasmāt / atra api dvitīye nañsamāse 'ntodāttatvam / anakasmāt / avartamānavardhamānatvaramāṇadhriyamāṇa. rocamānaśobhamānāḥ sañjñāyām / ete vartamānādayaḥ sañjñāyāṃ draṣdavyāḥ / vikārasadṛśe vyastasamaste / avikāraḥ / asadṛśaḥ / avikārasadṛśaḥ / gṛhapati / gṛhapatika / rājāhnoś chandasi / arājā / anahaḥ / bhāṣāyāṃ nañsvara eva bhavati // vibhāṣā tṛnn-anna-tīkṣṇa-śuciṣu

Sanskrit only: no published translation is held for this verse.

तृन्नन्त अन्न तीक्ष्ण शुचि इत्य् एतेषु नञ उत्तरेषु विभाषा अन्तः उदात्तो भवति । तृन् - अकर्ता, अकर्ता । अन्न - अनन्नम्, अनन्नम् । तीक्ष्ण - अतीक्ष्णम्, अतीक्ष्णम् । शुचि - अशुचिः, अशुचिः । पक्षे ऽव्ययस्वर एव भवति ॥ बहुव्रीहाव् इदम्-एतत्-तद्भ्यः प्रथम-पूरनयोः क्रियागणने

tṛnnanta anna tīkṣṇa śuci ity eteṣu naña uttareṣu vibhāṣā antaḥ udātto bhavati / tṛn - akartā, akartā / anna - anannam, anannam / tīkṣṇa - atīkṣṇam, atīkṣṇam / śuci - aśuciḥ, aśuciḥ / pakṣe 'vyayasvara eva bhavati // bahuvrīhāv idam-etat-tadbhyaḥ prathama-pūranayoḥ kriyāgaṇane

Sanskrit only: no published translation is held for this verse.

सङ्ख्यायाः स्तनः

saṅkhyāyāḥ stanaḥ

Sanskrit only: no published translation is held for this verse.

सङ्ख्यायाः परः स्तनशब्दो बहुव्रीहौ समासे ऽन्तोदात्तो भवति । द्विस्तना । त्रिस्तना । चतुःस्तना । सङ्ख्यायाः इति किम् ? दर्शनीयस्तना । स्तनः इति किम् ? द्विशिराः ॥ विभाषा

saṅkhyāyāḥ paraḥ stanaśabdo bahuvrīhau samāse 'ntodātto bhavati / dvistanā / tristanā / catuḥstanā / saṅkhyāyāḥ iti kim ? darśanīyastanā / stanaḥ iti kim ? dviśirāḥ // vibhāṣā

Sanskrit only: no published translation is held for this verse.

छन्दसि विषये बहुव्रीहौ समासे सङ्ख्यायाः परः स्तनशब्दो विभासा ऽन्तोदात्तो भवति । द्विस्तनां करोति द्यावापृथिव्योर्दोहाय चतुःस्तनां करोति पशूनां दोहायाष्टस्तनां करोति छन्दसां दोहाय ॥ सञ्ज्ञायां मित्र-अजिनयोः

chandasi viṣaye bahuvrīhau samāse saṅkhyāyāḥ paraḥ stanaśabdo vibhāsā 'ntodātto bhavati / dvistanāṃ karoti dyāvāpṛthivyordohāya catuḥstanāṃ karoti paśūnāṃ dohāyāṣṭastanāṃ karoti chandasāṃ dohāya // sañjñāyāṃ mitra-ajinayoḥ

Sanskrit only: no published translation is held for this verse.

सञ्ज्ञायां विषये बहुव्रीहौ समासे मित्र अजिन इत्येतयोः उत्तरपदयोः अन्तः उदात्तो भवति । देवमित्रः । ब्रह्ममित्रः । वृकाजिनः । कूलाजिनः । कृष्णाजिनः । सञ्ज्ञायाम् इति किम् ? प्रियमित्रः । महाजिनः । ऋषिप्रतिषेधो मित्रे । विश्वामित्र ऋषिः ॥ व्यवायिनो ऽन्तरम्

sañjñāyāṃ viṣaye bahuvrīhau samāse mitra ajina ityetayoḥ uttarapadayoḥ antaḥ udātto bhavati / devamitraḥ / brahmamitraḥ / vṛkājinaḥ / kūlājinaḥ / kṛṣṇājinaḥ / sañjñāyām iti kim ? priyamitraḥ / mahājinaḥ / ṛṣipratiṣedho mitre / viśvāmitra ṛṣiḥ // vyavāyino 'ntaram

Sanskrit only: no published translation is held for this verse.

व्यवायी व्यवधाता, तद्वाचिनः प्रमनतरं बहुव्रीहौ समासे अन्तोदात्तं भवति । वस्त्रान्तरः । पटान्तरः । कम्बलान्तरः । वस्त्रमन्तरं व्यवधायकं यस्य स वस्त्रान्तरः । वस्त्रव्यवधायकः इत्यर्थः । व्यवायिनः इति किम् ? आत्मान्तरः । आत्मा स्वभावो ऽन्तरो ऽन्यो यस्य असौ आत्मान्तरः ॥ मुखं स्वाङ्गं

vyavāyī vyavadhātā, tadvācinaḥ pramanataraṃ bahuvrīhau samāse antodāttaṃ bhavati / vastrāntaraḥ / paṭāntaraḥ / kambalāntaraḥ / vastramantaraṃ vyavadhāyakaṃ yasya sa vastrāntaraḥ / vastravyavadhāyakaḥ ityarthaḥ / vyavāyinaḥ iti kim ? ātmāntaraḥ / ātmā svabhāvo 'ntaro 'nyo yasya asau ātmāntaraḥ // mukhaṃ svāṅgaṃ

Sanskrit only: no published translation is held for this verse.

न अव्यय-दिक्शब्द-गो-महत्-स्थूल-मुष्टि-पृथु-वत्सेभ्यः

na avyaya-dikśabda-go-mahat-sthūla-muṣṭi-pṛthu-vatsebhyaḥ

Sanskrit only: no published translation is held for this verse.

अव्यय दिक्शब्द गो महत् स्थूल मुष्टि पृथु वत्स इत्य् एतेभ्यः परं मुखं स्वाङ्गवाचि बहुव्रीहौ समासे न अन्तोदात्तं भवति । अव्यय - उच्चैर्मुखः । नीचैर्मुखः । दिक्शब्द - प्राङ्मुखः । प्रत्यङ्मुखः । गो - गोमुखः । महत् - महामुखः । स्थूल - स्थूलमुखः । मुष्टि - मुष्टिमुखः । पृथु - पृथुमुखः । वत्स - वत्समुखः । पूर्वपदप्रकृतिस्वरो यथायोगम् एषु भवति । गोमुष्टिवत्सपूर्वस्य+उपमानलक्षणो विकल्पः पूर्वविप्रतिषेधेन बाध्यते ॥ निष्ठा-उपमानाद् अन्यतरस्याम्

avyaya dikśabda go mahat sthūla muṣṭi pṛthu vatsa ity etebhyaḥ paraṃ mukhaṃ svāṅgavāci bahuvrīhau samāse na antodāttaṃ bhavati / avyaya - uccairmukhaḥ / nīcairmukhaḥ / dikśabda - prāṅmukhaḥ / pratyaṅmukhaḥ / go - gomukhaḥ / mahat - mahāmukhaḥ / sthūla - sthūlamukhaḥ / muṣṭi - muṣṭimukhaḥ / pṛthu - pṛthumukhaḥ / vatsa - vatsamukhaḥ / pūrvapadaprakṛtisvaro yathāyogam eṣu bhavati / gomuṣṭivatsapūrvasya+upamānalakṣaṇo vikalpaḥ pūrvavipratiṣedhena bādhyate // niṣṭhā-upamānād anyatarasyām

Sanskrit only: no published translation is held for this verse.

निष्ठान्तात् उपमानवाचिनश् च मुखं स्वाङ्गम् उत्तरपदम् अन्यतरस्याम् बहुव्रीहौ समासे ऽन्तोदात्तं भवति । प्रक्षालितमुखः, प्रक्षालितमुखः, प्रक्षालितमुखः । यदा+एतद् उत्तरपदान्तोदात्तत्वं न भवति तदा निष्ठोपसर्गपूर्वम् अन्यतरस्याम् (*६,२।११०) इति पक्षे पूर्वपदान्तोदात्तत्वं, तदभावपक्षे ऽपि पूर्वपदप्रकृतिस्वरत्वेन गतिस्वरः इति त्रीण्युदाहरणानि भवन्ति । उपमानात् - सिंहमुखः, सिंहमुखः । व्याघ्रमुखः, व्याघ्रमुखः ॥ जाति-काल-सुख-आदिभ्यो ऽनाच्छादनात् क्तो ऽकृत-मित-प्रतिपन्नाः

niṣṭhāntāt upamānavācinaś ca mukhaṃ svāṅgam uttarapadam anyatarasyām bahuvrīhau samāse 'ntodāttaṃ bhavati / prakṣālitamukhaḥ, prakṣālitamukhaḥ, prakṣālitamukhaḥ / yadā+etad uttarapadāntodāttatvaṃ na bhavati tadā niṣṭhopasargapūrvam anyatarasyām (*6,2.110) iti pakṣe pūrvapadāntodāttatvaṃ, tadabhāvapakṣe 'pi pūrvapadaprakṛtisvaratvena gatisvaraḥ iti trīṇyudāharaṇāni bhavanti / upamānāt - siṃhamukhaḥ, siṃhamukhaḥ / vyāghramukhaḥ, vyāghramukhaḥ // jāti-kāla-sukha-ādibhyo 'nācchādanāt kto 'kṛta-mita-pratipannāḥ

Sanskrit only: no published translation is held for this verse.

जातिवाचिनः आच्छादनवर्जितात् कालवाचिनः सुखादिभ्यश् च परं क्तान्तं कृतमितप्रतिपन्नान् वर्जयित्वा बहुव्रीहौ समासे ऽन्तोदात्तं भवति । सारङ्गजग्धः । पलाण्डुभक्षितः । सुरापीतः । काल - मासजातः । संवत्सरजातः । द्व्यहजातः । त्र्यहजातः । सुखादिभ्यः - सुखजातः । दुःखजातः । तृप्रजातः । जात्यादिभ्यः इति किम् ? पुत्रजातः । आहिताग्न्यादित्वात् परनिपातः । अनाच्छादनात् इति किम् ? वस्त्रच्छन्नः । वसनच्छन्नः । अकृतमितप्रतिपन्नाः इति किम् ? कुण्डकृतः । कुण्डमितः । कुण्डप्रतिपन्नः । एतेसु बहुव्रीहिषु निष्ठान्तस्य पूर्वनिपातो न भवत्य् एव अस्माद् एव ज्ञापकात् । प्रत्युदाहरणेषु पूर्वपदप्रकृतिस्वरो योजयितव्यः । सुखादयस्तृतीये ऽध्याये पठ्यन्ते ॥ वा जाते

jātivācinaḥ ācchādanavarjitāt kālavācinaḥ sukhādibhyaś ca paraṃ ktāntaṃ kṛtamitapratipannān varjayitvā bahuvrīhau samāse 'ntodāttaṃ bhavati / sāraṅgajagdhaḥ / palāṇḍubhakṣitaḥ / surāpītaḥ / kāla - māsajātaḥ / saṃvatsarajātaḥ / dvyahajātaḥ / tryahajātaḥ / sukhādibhyaḥ - sukhajātaḥ / duḥkhajātaḥ / tṛprajātaḥ / jātyādibhyaḥ iti kim ? putrajātaḥ / āhitāgnyāditvāt paranipātaḥ / anācchādanāt iti kim ? vastracchannaḥ / vasanacchannaḥ / akṛtamitapratipannāḥ iti kim ? kuṇḍakṛtaḥ / kuṇḍamitaḥ / kuṇḍapratipannaḥ / etesu bahuvrīhiṣu niṣṭhāntasya pūrvanipāto na bhavaty eva asmād eva jñāpakāt / pratyudāharaṇeṣu pūrvapadaprakṛtisvaro yojayitavyaḥ / sukhādayastṛtīye 'dhyāye paṭhyante // vā jāte

Sanskrit only: no published translation is held for this verse.

नञ्-सुभ्याम्

nañ-subhyām

Sanskrit only: no published translation is held for this verse.

नञ्सुभ्यां परम् उत्तरपदं बहुव्रीहौ समासे ऽन्तोदात्तं भवति । अयवो देशः । अव्रीहिः । अमाषः । सुयवः । सुव्रीहिः । सुमाषः । समासस्य+एतद् अन्तोदात्तत्वम् इष्यते । समासान्ताश् च अवयवा भवन्ति इति अनृचः, बह्वृचः इत्य् अत्र कृते समासान्ते ऽन्तोदात्तत्वं भवति ॥ कपि पूर्वम्

nañsubhyāṃ param uttarapadaṃ bahuvrīhau samāse 'ntodāttaṃ bhavati / ayavo deśaḥ / avrīhiḥ / amāṣaḥ / suyavaḥ / suvrīhiḥ / sumāṣaḥ / samāsasya+etad antodāttatvam iṣyate / samāsāntāś ca avayavā bhavanti iti anṛcaḥ, bahvṛcaḥ ity atra kṛte samāsānte 'ntodāttatvaṃ bhavati // kapi pūrvam

Sanskrit only: no published translation is held for this verse.

नञ्सुभ्या कपि परतः पूर्वम् अन्तोदात्तं भवति । अकुमारीको देशः । अवृषलीकः । अब्रह्मबन्धूकः । सुकुमारीकः । सुवृषलीकः । सुब्रह्मबन्धूकः ॥ ह्रस्वान्ते ऽन्त्यात् पूर्वम्

nañsubhyā kapi parataḥ pūrvam antodāttaṃ bhavati / akumārīko deśaḥ / avṛṣalīkaḥ / abrahmabandhūkaḥ / sukumārīkaḥ / suvṛṣalīkaḥ / subrahmabandhūkaḥ // hrasvānte 'ntyāt pūrvam

Sanskrit only: no published translation is held for this verse.

ह्रस्वो ऽन्तो यस्य तद् इदं ह्रस्वान्तम् उत्तरपदं समासो वा, तत्र अन्त्यात् पूर्वम् उदात्तं भवति कपि परतो नञ्सुह्यां परं बहुव्रीहौ समासे । अयवको देशः । अव्रीहिकः । अमाषकः । सुयवकः । सुव्रीहिकः सुमाषकः । पूर्वम् इति वर्तमने पुनः पूर्वग्रहणं प्रवृत्तिभेदेन नियमप्रतिपत्त्यर्थम्, ह्रस्वान्ते ऽन्त्यात् पूर्वम् उदात्तं भवति, न कपि पूर्वम् इति । तेन अज्ञकः, सुज्ञकः इत्य् अत्र कबन्तस्य+एव अन्तोदात्तत्वं भवति ॥ बहोर् नञ्वद् उत्तरपदभूम्नि

hrasvo 'nto yasya tad idaṃ hrasvāntam uttarapadaṃ samāso vā, tatra antyāt pūrvam udāttaṃ bhavati kapi parato nañsuhyāṃ paraṃ bahuvrīhau samāse / ayavako deśaḥ / avrīhikaḥ / amāṣakaḥ / suyavakaḥ / suvrīhikaḥ sumāṣakaḥ / pūrvam iti vartamane punaḥ pūrvagrahaṇaṃ pravṛttibhedena niyamapratipattyartham, hrasvānte 'ntyāt pūrvam udāttaṃ bhavati, na kapi pūrvam iti / tena ajñakaḥ, sujñakaḥ ity atra kabantasya+eva antodāttatvaṃ bhavati // bahor nañvad uttarapadabhūmni

Sanskrit only: no published translation is held for this verse.

उतरपदार्थबहुत्वे यो बहुशब्दो वर्तते तस्मात् नञ इव स्वरो भवति । नञ्सुभ्याम् (*६,२।१७२) इत्य् उक्तम्, बहोर् अपि तथा भवति । बहुयवो देशः बहुव्रीहिः । बहुतिलः । कपि पूर्वम् (*६,२।१७३) इत्य् उक्तम्, बहोर् अपि तथा भवति । बहुकुमारीको देशः । बहुवृषलीकः । बहुब्रह्मबन्धूकः । ह्रस्वान्ते ऽन्तो ऽन्त्यात् पूर्वम् (*६,२।१७४) इत्य् उक्तम्, बहोर् अपि तथा भवति । बहुयवको देशः । बहुव्रीहिकः । बहुमाषकः । नञो जरमरमित्रमृताः (*६,२।११६) इत्य् उक्तम्, बहोर् अपि तथा भवति । बहुजरः । बहुमरः । बहुमित्रः । बहुमृतः । उत्तरपदभूम्नि इति किम् ? बहुषु मनः अस्य बहुमनाः अयम् ॥ न गुणादयो ऽवयवाः

utarapadārthabahutve yo bahuśabdo vartate tasmāt naña iva svaro bhavati / nañsubhyām (*6,2.172) ity uktam, bahor api tathā bhavati / bahuyavo deśaḥ bahuvrīhiḥ / bahutilaḥ / kapi pūrvam (*6,2.173) ity uktam, bahor api tathā bhavati / bahukumārīko deśaḥ / bahuvṛṣalīkaḥ / bahubrahmabandhūkaḥ / hrasvānte 'nto 'ntyāt pūrvam (*6,2.174) ity uktam, bahor api tathā bhavati / bahuyavako deśaḥ / bahuvrīhikaḥ / bahumāṣakaḥ / naño jaramaramitramṛtāḥ (*6,2.116) ity uktam, bahor api tathā bhavati / bahujaraḥ / bahumaraḥ / bahumitraḥ / bahumṛtaḥ / uttarapadabhūmni iti kim ? bahuṣu manaḥ asya bahumanāḥ ayam // na guṇādayo 'vayavāḥ

Sanskrit only: no published translation is held for this verse.

उपसर्गात् स्वाङ्गं ध्रुवम् अपर्शु

upasargāt svāṅgaṃ dhruvam aparśu

Sanskrit only: no published translation is held for this verse.

उपसर्गात् स्वाङ्गं ध्रुवं पर्शुवर्जितम् अन्तोदात्तं भवति बहुव्रीहौ समासे । प्रपृष्ठः । प्रोदरः । प्रललाटः । ध्रुवम् इत्य् एकरूपम् उच्यते, ध्रुवम् अस्य शीतम् इति यथा । सततं यस्य प्रगतं पृष्ठं बह्वति स प्रपृष्ठः । उपसर्गात् इति किम् ? दर्शनीयललाटः । स्वाङ्गम् इति किम् ? प्रशाखो वृक्षः । ध्रुवम् इति किम् ? उद्बाहुः क्रोशति । अपर्शु इति किम् ? उत्पर्शुः । विपर्शुः ॥ वनं समासे

upasargāt svāṅgaṃ dhruvaṃ parśuvarjitam antodāttaṃ bhavati bahuvrīhau samāse / prapṛṣṭhaḥ / prodaraḥ / pralalāṭaḥ / dhruvam ity ekarūpam ucyate, dhruvam asya śītam iti yathā / satataṃ yasya pragataṃ pṛṣṭhaṃ bahvati sa prapṛṣṭhaḥ / upasargāt iti kim ? darśanīyalalāṭaḥ / svāṅgam iti kim ? praśākho vṛkṣaḥ / dhruvam iti kim ? udbāhuḥ krośati / aparśu iti kim ? utparśuḥ / viparśuḥ // vanaṃ samāse

Sanskrit only: no published translation is held for this verse.

समासमात्रे वनम् इत्य् एतद् उत्तरपदम् उपसर्गात् परमन्तोदात्तं भवति । प्रवणे यष्टव्यम् । निर्वणे प्रणिधीयते । प्रनिरन्तः इति णत्वम् । समासग्रहणं समासमात्रपरिग्रहार्थम्, बहुव्रीहाव् एव हि स्यात् ॥ अन्तः

samāsamātre vanam ity etad uttarapadam upasargāt paramantodāttaṃ bhavati / pravaṇe yaṣṭavyam / nirvaṇe praṇidhīyate / pranirantaḥ iti ṇatvam / samāsagrahaṇaṃ samāsamātraparigrahārtham, bahuvrīhāv eva hi syāt // antaḥ

Sanskrit only: no published translation is held for this verse.

अन्तःशब्दाद् उत्तरं वनम् अन्तोदात्तं भवति । अन्तर्वणो देशः । अनुपसर्गार्थ आरम्भः ॥ अन्तश् च

antaḥśabdād uttaraṃ vanam antodāttaṃ bhavati / antarvaṇo deśaḥ / anupasargārtha ārambhaḥ // antaś ca

Sanskrit only: no published translation is held for this verse.

अन्तःशब्दश् च उत्तरपदम् उपसर्गाद् अन्तोदात्तं भवति । प्रान्तः । पर्यन्तः । बहुव्रीहिर् अयम् प्रादिसमासो वा ॥ न नि-वि-भ्याम्

antaḥśabdaś ca uttarapadam upasargād antodāttaṃ bhavati / prāntaḥ / paryantaḥ / bahuvrīhir ayam prādisamāso vā // na ni-vi-bhyām

Sanskrit only: no published translation is held for this verse.

नि वि इत्य् एताभ्याम् उत्तरो ऽन्तःशब्दो न अनतोदात्तो भवति । न्यन्तः । व्यन्तः । पूर्वपदप्रकृतिस्वरत्वे कृते यणादेशः । तत्र उदात्तस्वरितयोर् यणः स्वरितो ऽनुदात्तस्य (*८,२।४) इति स्वरितो भवति ॥ परेर् अभितोभावि मण्डलम्

ni vi ity etābhyām uttaro 'ntaḥśabdo na anatodātto bhavati / nyantaḥ / vyantaḥ / pūrvapadaprakṛtisvaratve kṛte yaṇādeśaḥ / tatra udāttasvaritayor yaṇaḥ svarito 'nudāttasya (*8,2.4) iti svarito bhavati // parer abhitobhāvi maṇḍalam

Sanskrit only: no published translation is held for this verse.

प्राद्-अस्वङ्गं सञ्ज्ञायाम्

prād-asvaṅgaṃ sañjñāyām

Sanskrit only: no published translation is held for this verse.

प्रादुत्तरपदम् अस्वाङ्गवाचि सञ्ज्ञायां विषये ऽन्तोदात्तं भवति । प्रकोष्ठम् । प्रगृहम् । प्रद्वारम् । अस्वङ्गम् इति किम् ? प्रहस्तम् । प्रपदम् । सञ्ज्ञायाम् इति किम् ? प्रपीठम् ॥ निरुदकादीनि च

prāduttarapadam asvāṅgavāci sañjñāyāṃ viṣaye 'ntodāttaṃ bhavati / prakoṣṭham / pragṛham / pradvāram / asvaṅgam iti kim ? prahastam / prapadam / sañjñāyām iti kim ? prapīṭham // nirudakādīni ca

Sanskrit only: no published translation is held for this verse.

निरुदकादीनि च शब्दरूपाण्य् अन्तोदात्तानि भवन्ति । निरुदकम् । निरुलपम् । निरुपलम् इत्य् अन्ये पठन्ति । निर्मशकम् । निर्मक्षिकम् । एषां प्रादिसमासो बहुव्रीहिर् वा । अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धम् । निष्कालकः । निष्क्रान्तः कालकात् इति कन्प्रत्ययान्तेन कालशब्देन प्रादिसमासः । निष्कालिकः इत्य् अन्ये पथन्ति । निष्पेषः । दुस्तरीपः । अवितॄस्तॄतन्त्रिभ्य ईः, तरीः । तां पाति इति तरीपः । कुत्सितः तरीपः दुस्तरीपः । निस्तरीपः इति केचित् पठन्ति । अपरे निस्तरीकः इति । ते तरीशब्दान्ते बहुव्रीहौ कपं कुर्वन्ति । निरजिनम् । उदजिनम् । उपाजिनम् । परेर्हस्तपादकेशकर्षाः । परिहस्तः । परिपादः । परिकेशः । परिकर्षः । निरुदकादिर् आकृतिगणः ॥ अभेर् मुखम्

nirudakādīni ca śabdarūpāṇy antodāttāni bhavanti / nirudakam / nirulapam / nirupalam ity anye paṭhanti / nirmaśakam / nirmakṣikam / eṣāṃ prādisamāso bahuvrīhir vā / avyayībhāve tu samāsāntodāttatvena+eva siddham / niṣkālakaḥ / niṣkrāntaḥ kālakāt iti kanpratyayāntena kālaśabdena prādisamāsaḥ / niṣkālikaḥ ity anye pathanti / niṣpeṣaḥ / dustarīpaḥ / avitṝstṝtantribhya īḥ, tarīḥ / tāṃ pāti iti tarīpaḥ / kutsitaḥ tarīpaḥ dustarīpaḥ / nistarīpaḥ iti kecit paṭhanti / apare nistarīkaḥ iti / te tarīśabdānte bahuvrīhau kapaṃ kurvanti / nirajinam / udajinam / upājinam / parerhastapādakeśakarṣāḥ / parihastaḥ / paripādaḥ / parikeśaḥ / parikarṣaḥ / nirudakādir ākṛtigaṇaḥ // abher mukham

Sanskrit only: no published translation is held for this verse.

अभेर् उत्तरं मुखम् अन्तोदात्तं भवति । अभिमुखः । बहुव्रीहिर् अयम् प्रादिसमासो वा । अव्ययीभावे तु समासान्तोदात्तत्वेन+एव सिद्धम् । उपसर्गात् स्वाङ्गम् (*६,२।१७७) इति सिद्धे वचनम् अबहुव्रीह्यर्थम् अध्रुवार्थम् अस्वाङ्गार्थं च । अभिमुखा शाला ॥ अपाच् च

abher uttaraṃ mukham antodāttaṃ bhavati / abhimukhaḥ / bahuvrīhir ayam prādisamāso vā / avyayībhāve tu samāsāntodāttatvena+eva siddham / upasargāt svāṅgam (*6,2.177) iti siddhe vacanam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca / abhimukhā śālā // apāc ca

Sanskrit only: no published translation is held for this verse.

अपाच् च+उत्तरं मुखम् अन्तोदात्तं भवति । अपमुखः । अपमुखम् । अव्ययीभावो ऽप्य् अत्र प्रयोजयति । तत्र अपि हि परि-प्रत्य्-उप-अपा वर्ज्यमान। अहोरात्र-अव्यवेषु (*६,२।३३) इत्य् उक्तम् । योगविभागः उत्तरार्थः ॥ स्फिग-पूत-वीणा-अञ्जो ऽध्व-कुक्षि-सीरनाम-नाम च

apāc ca+uttaraṃ mukham antodāttaṃ bhavati / apamukhaḥ / apamukham / avyayībhāvo 'py atra prayojayati / tatra api hi pari-praty-upa-apā varjyamāna. ahorātra-avyaveṣu (*6,2.33) ity uktam / yogavibhāgaḥ uttarārthaḥ // sphiga-pūta-vīṇā-añjo 'dhva-kukṣi-sīranāma-nāma ca

Sanskrit only: no published translation is held for this verse.

तस्मिन् हि सत्य् अच्प्रत्ययस्य चित्त्वाद् एव सिद्धम् । अनित्यश् च समासान्तः इत्य् एतद् एव ज्ञापकम् । अपकुक्षिः । अपसीरः । अपहलम् । अपलाङ्गलम् । अपनाम । सर्वत्र प्रादिसमासो, बहुव्रीहिः, अव्ययीभावो वा । स्फिगपूतकुक्षीणां ग्रहणम् अबहुव्रीह्यर्थम् अध्रुवार्थम् अस्वाङ्गार्थं च ॥ अधेर् उपरिस्थम्

tasmin hi saty acpratyayasya cittvād eva siddham / anityaś ca samāsāntaḥ ity etad eva jñāpakam / apakukṣiḥ / apasīraḥ / apahalam / apalāṅgalam / apanāma / sarvatra prādisamāso, bahuvrīhiḥ, avyayībhāvo vā / sphigapūtakukṣīṇāṃ grahaṇam abahuvrīhyartham adhruvārtham asvāṅgārthaṃ ca // adher uparistham

Sanskrit only: no published translation is held for this verse.

अधेर् उत्तरम् उपरिस्थवाचि अन्तोदात्तं भवति । अधिदन्तः । अधिकर्णः । अधिकेशः । अध्यारूढो दन्तः इति प्रादिसमासः । अध्यारूढो वा दन्तः इति समानाधिकरण उत्तरपदलोपी समस्सः । दन्तस्य+उपरि यो ऽन्योः दन्तो जायते स उच्यते अधिदन्तः इति । उपरिस्थम् इति किम् ? अधिकरणम् ॥ अनोर् अप्रधानकनीयसी

adher uttaram uparisthavāci antodāttaṃ bhavati / adhidantaḥ / adhikarṇaḥ / adhikeśaḥ / adhyārūḍho dantaḥ iti prādisamāsaḥ / adhyārūḍho vā dantaḥ iti samānādhikaraṇa uttarapadalopī samassaḥ / dantasya+upari yo 'nyoḥ danto jāyate sa ucyate adhidantaḥ iti / uparistham iti kim ? adhikaraṇam // anor apradhānakanīyasī

Sanskrit only: no published translation is held for this verse.

अनोर् उत्तरम् अप्रधानवाचि कनीयः च अन्तोदात्तं भवति । अनुगतो ज्येष्ठम् अनुज्येष्ठः । अनुमध्यमः । पूर्वपदप्रधानः प्रादिसमासो ऽयम् । अनुगतः कनीयान् अनुकनीयान् । उत्तरपदार्थप्रधानो ऽयम् । प्रधानार्थं च कनीयोग्रहणम् । अप्रधानकनीयसी इति किम् ? अनुगतो ज्येष्ठः अनुज्येष्ठः ॥ पुरुषश् च अन्वादिष्टः

anor uttaram apradhānavāci kanīyaḥ ca antodāttaṃ bhavati / anugato jyeṣṭham anujyeṣṭhaḥ / anumadhyamaḥ / pūrvapadapradhānaḥ prādisamāso 'yam / anugataḥ kanīyān anukanīyān / uttarapadārthapradhāno 'yam / pradhānārthaṃ ca kanīyograhaṇam / apradhānakanīyasī iti kim ? anugato jyeṣṭhaḥ anujyeṣṭhaḥ // puruṣaś ca anvādiṣṭaḥ

Sanskrit only: no published translation is held for this verse.

पुरुषशब्दो ऽन्वादिष्टवाची च अनोर् उत्तरो ऽन्तोदात्तो भवति । अन्वादिष्टः पुरुषः अनुपुरुषः । अन्वादिष्ट अन्वाचितः कथितानुकथितो वा । अन्वादिष्टः इति किम् ? अनुगतः पुरुषः अनुपुरुषः ॥ अतेर् अकृत्-पदे

puruṣaśabdo 'nvādiṣṭavācī ca anor uttaro 'ntodātto bhavati / anvādiṣṭaḥ puruṣaḥ anupuruṣaḥ / anvādiṣṭa anvācitaḥ kathitānukathito vā / anvādiṣṭaḥ iti kim ? anugataḥ puruṣaḥ anupuruṣaḥ // ater akṛt-pade

Sanskrit only: no published translation is held for this verse.

अतेः परमकृदन्तं पदशब्दश् च अन्तोदात्तो भवति । अत्यङ्कुशो नागः । अतिकशो ऽश्वः । अपदशब्दः खल्व् अपि - अतिपदा शक्वरी । अकृत्पदे इति किम् ? अतिकारकः । अतेर् धातुलोप इति वक्तव्यम् । इह माभूत्, शोभनो गार्ग्यः अतिगार्ग्यः । इह च यथा स्यात्, अतिक्रान्तः कारकात् अतिकारकः इति ॥ नेर् अनिधाने

ateḥ paramakṛdantaṃ padaśabdaś ca antodātto bhavati / atyaṅkuśo nāgaḥ / atikaśo 'śvaḥ / apadaśabdaḥ khalv api - atipadā śakvarī / akṛtpade iti kim ? atikārakaḥ / ater dhātulopa iti vaktavyam / iha mābhūt, śobhano gārgyaḥ atigārgyaḥ / iha ca yathā syāt, atikrāntaḥ kārakāt atikārakaḥ iti // ner anidhāne

Sanskrit only: no published translation is held for this verse.

प्रतेर् अंश्व्-आदयस् तत्पुरुषे

prater aṃśv-ādayas tatpuruṣe

Sanskrit only: no published translation is held for this verse.

प्रतेर् अंश्वादयस् तत्पुरुषे समासे ऽन्तोदात्ताः भवन्ति । प्रतिगतः अंशुः प्रत्यंशुः । प्रतिजनः । प्रतिराजा । राजशब्दः समासान्तस्य अनित्यत्वाद् यदा टज् न अस्ति तदा प्रयोजयति । तस्मिन् हि सति चित्त्वाद् एव अन्तोदात्तत्वं सिद्धम् । तत्पुरुषे इति किम् ? प्रतिगताः अंशवः अस्य प्रत्यंशुः अयम् उष्ट्रः । अंशु । जन । राजन् । उष्ट्र । खेटक । अजिर । आर्द्रा । श्रवण । कृत्तिका । अर्ध । पुर ॥ उपाद् द्व्यज्-अजिनम् अगौरादयः

prater aṃśvādayas tatpuruṣe samāse 'ntodāttāḥ bhavanti / pratigataḥ aṃśuḥ pratyaṃśuḥ / pratijanaḥ / pratirājā / rājaśabdaḥ samāsāntasya anityatvād yadā ṭaj na asti tadā prayojayati / tasmin hi sati cittvād eva antodāttatvaṃ siddham / tatpuruṣe iti kim ? pratigatāḥ aṃśavaḥ asya pratyaṃśuḥ ayam uṣṭraḥ / aṃśu / jana / rājan / uṣṭra / kheṭaka / ajira / ārdrā / śravaṇa / kṛttikā / ardha / pura // upād dvyaj-ajinam agaurādayaḥ

Sanskrit only: no published translation is held for this verse.

उपाद् उत्तरं द्व्यच् अजिनं च अन्तोदात्तं भवति तत्पुरुषे समासे गौरादीन् वर्जयित्वा । उपगतो देवम् उपदेवः । उपसोमः । उपेन्द्रः । उपहोडः । अजिन - उपाजिनम् । अगौरादयः इति किम् । उपगौरः । उपतैषः । तत्पुरुषे इत्य् एव, उपगतः सोमो ऽस्य उपसोमः । गौर । तैष । नैष । तैट । लट । लोट । जिह्वा । कृष्णा । कन्या । गुड । कल्य । पाद । गौरादिः ॥ सोर् अवक्षेपणे

upād uttaraṃ dvyac ajinaṃ ca antodāttaṃ bhavati tatpuruṣe samāse gaurādīn varjayitvā / upagato devam upadevaḥ / upasomaḥ / upendraḥ / upahoḍaḥ / ajina - upājinam / agaurādayaḥ iti kim / upagauraḥ / upataiṣaḥ / tatpuruṣe ity eva, upagataḥ somo 'sya upasomaḥ / gaura / taiṣa / naiṣa / taiṭa / laṭa / loṭa / jihvā / kṛṣṇā / kanyā / guḍa / kalya / pāda / gaurādiḥ // sor avakṣepaṇe

Sanskrit only: no published translation is held for this verse.

सुशब्दात् परमुत्तरपदं तत्पुरुषे समासे ऽन्तोदात्तं भवति अवक्षेपणे गम्यमाने । अवक्षेपणं निन्दा । इह खलु इदानीं सुस्थण्डिले सुस्फिगाभ्यां सुप्रत्यवसितः । सुशब्दो ऽत्र पूजायाम् एव । वाक्यार्थस् तु अवक्षेपणमसूयया, तथा अभिधानात् । सोः इति किम् ? कुब्राह्मणः । अवक्षेपणे इति किम् ? शोभनेषु तृणेषु सुतृणेषु ॥ विभाषा+उत्पुच्छे

suśabdāt paramuttarapadaṃ tatpuruṣe samāse 'ntodāttaṃ bhavati avakṣepaṇe gamyamāne / avakṣepaṇaṃ nindā / iha khalu idānīṃ susthaṇḍile susphigābhyāṃ supratyavasitaḥ / suśabdo 'tra pūjāyām eva / vākyārthas tu avakṣepaṇamasūyayā, tathā abhidhānāt / soḥ iti kim ? kubrāhmaṇaḥ / avakṣepaṇe iti kim ? śobhaneṣu tṛṇeṣu sutṛṇeṣu // vibhāṣā+utpucche

Sanskrit only: no published translation is held for this verse.

उत्पुच्छशब्दे तत्पुरुषे विभाषा अन्त उदात्तो भवति । उत्क्रान्तः पुच्छात् उत्पुच्छः, उत्पुच्छः । यदा तु पुच्छमुदस्यति उत्पुच्छयति, उत्पुच्चयतेर् अच् उत्पुच्छः, तदा थाथादिसूत्रेण नित्यम् अन्तोदात्तत्वे प्राप्ते विकल्पो ऽयम् इति सेयम् उभयत्र विभाष भवति । तत्पुरुषे इत्य् एव उदस्तं पुच्छम् अस्य उत्पुच्छः ॥ द्वि-त्रिभ्यां पाद्-दन्-मूर्धसु बहुव्रीहौ

utpucchaśabde tatpuruṣe vibhāṣā anta udātto bhavati / utkrāntaḥ pucchāt utpucchaḥ, utpucchaḥ / yadā tu pucchamudasyati utpucchayati, utpuccayater ac utpucchaḥ, tadā thāthādisūtreṇa nityam antodāttatve prāpte vikalpo 'yam iti seyam ubhayatra vibhāṣa bhavati / tatpuruṣe ity eva udastaṃ puccham asya utpucchaḥ // dvi-tribhyāṃ pād-dan-mūrdhasu bahuvrīhau

Sanskrit only: no published translation is held for this verse.

सक्थं च अक्रान्तात्

sakthaṃ ca akrāntāt

Sanskrit only: no published translation is held for this verse.

परादिश् छन्दसि बहुलम्

parādiś chandasi bahulam

Sanskrit only: no published translation is held for this verse.