Library·Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version·4

Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version 4

सहैवेति सम्बन्धः । *१२,२११* विज्ञानवाद्यभिमतं मोक्षस्वरूपमप्युक्तदोषेणातिदिशति एवमिति ॥ एवं विज्ञानवादो ऽपि ॥।

sahaiveti sambandhaḥ / *12,211* vijñānavādyabhimataṃ mokṣasvarūpamapyuktadoṣeṇātidiśati evamiti // evaṃ vijñānavādo 'pi ...

Sanskrit only: no published translation is held for this verse.

ज्ञानमात्रं चासौ विशेषश्च ज्ञानमात्रविशेषः । तमिति द्वितीयार्थे तसिः । यस्मात्ज्ञानमात्रविशेषं तस्य ज्ञानस्य भङ्गुरत्वादिविशेषमप्यपहाय विज्ञानवादो ऽप्यद्वैततामतं ज्ञातव्यम् । न विद्यते द्वैतं यस्य तत्त्वस्य तदद्वैतं तस्य भावो ऽद्वैतता । तस्या मतमद्वैततामतम् । ततः कारणादुक्तदोषो ऽपि समो भवेत् । *१२,२१२* इदमुक्तं भवति । अस्तु विज्ञानवादस्य पूर्वस्मात्कश्चिद्विशेषः । तथापि स प्रकृतानुपयोगित्वान्नादरणीयः । मोक्षस्वरूपं तु प्रकृतं समानम् । प्रतिपन्नं जीवभावं विहायाद्वितीयविज्ञानत्वापत्तिर्मुक्तिरिति विज्ञानवादिनाप्यङ्गीकृतत्वात् । अतो युक्त एवातिदेश इति । यद्वा ज्ञानमात्रविशेषं तस्य भङ्गुरत्वादिविशेषं चापहाय विज्ञानवादो ऽपि साक्षादद्वैततामतं ज्ञातव्य इत्यनेनेदमभिप्रैति । न कश्चिद्विज्ञानवादस्य पूर्वाभ्यां विशेषः । ज्ञानमिति विशेषस्य शब्दमात्रत्वेन हेयत्वात् । न हि ज्ञानत्वं नाम धर्मो ऽभ्युपगम्यते परेण । भङ्गुरत्वादिकं तु तेनैव कल्पितमित्युक्तत्वाद्धेयमेव । नतु वस्तुतो मतभेदहेतुः । यथोक्तं"तत्र सन्ततिभेदश्चऽ; इत्यादि । अतो युक्तो ऽतिदेश इति । अतिदेशप्रकारस्तु स्पष्ट एव । *१२,२१३* अनुमानान्तरमपि तन्निरासार्थमाह काल इति ॥ कालो न केवलज्ञानी कालत्वात् प्रतिपन्नवत् । एतयानुमया रोधान्न तादृङ्मोक्षरूपता

jñānamātraṃ cāsau viśeṣaśca jñānamātraviśeṣaḥ / tamiti dvitīyārthe tasiḥ / yasmātjñānamātraviśeṣaṃ tasya jñānasya bhaṅguratvādiviśeṣamapyapahāya vijñānavādo 'pyadvaitatāmataṃ jñātavyam / na vidyate dvaitaṃ yasya tattvasya tadadvaitaṃ tasya bhāvo 'dvaitatā / tasyā matamadvaitatāmatam / tataḥ kāraṇāduktadoṣo 'pi samo bhavet / *12,212* idamuktaṃ bhavati / astu vijñānavādasya pūrvasmātkaścidviśeṣaḥ / tathāpi sa prakṛtānupayogitvānnādaraṇīyaḥ / mokṣasvarūpaṃ tu prakṛtaṃ samānam / pratipannaṃ jīvabhāvaṃ vihāyādvitīyavijñānatvāpattirmuktiriti vijñānavādināpyaṅgīkṛtatvāt / ato yukta evātideśa iti / yadvā jñānamātraviśeṣaṃ tasya bhaṅguratvādiviśeṣaṃ cāpahāya vijñānavādo 'pi sākṣādadvaitatāmataṃ jñātavya ityanenedamabhipraiti / na kaścidvijñānavādasya pūrvābhyāṃ viśeṣaḥ / jñānamiti viśeṣasya śabdamātratvena heyatvāt / na hi jñānatvaṃ nāma dharmo 'bhyupagamyate pareṇa / bhaṅguratvādikaṃ tu tenaiva kalpitamityuktatvāddheyameva / natu vastuto matabhedahetuḥ / yathoktaṃ"tatra santatibhedaśca'; ityādi / ato yukto 'tideśa iti / atideśaprakārastu spaṣṭa eva / *12,213* anumānāntaramapi tannirāsārthamāha kāla iti // kālo na kevalajñānī kālatvāt pratipannavat / etayānumayā rodhānna tādṛṅmokṣarūpatā

Sanskrit only: no published translation is held for this verse.

आह विज्ञानवादी । तदा कदा कालो नेति प्रश्ने परेण कृते सति किमुतरमसौ वक्ष्यति । निरधिकरणस्याभावस्य निरूपयितुमशक्यत्वात्कालो नेत्येतदपि दुर्निरूपमापद्येतेत्यर्थः । मोक्षावस्थायां कालो नेत्युत्तरं वक्ष्यामीत्याशङ्क्याह यदेति ॥ ॥। यदावस्थां वदेत् सा पक्षतां व्रजेत्

āha vijñānavādī / tadā kadā kālo neti praśne pareṇa kṛte sati kimutaramasau vakṣyati / niradhikaraṇasyābhāvasya nirūpayitumaśakyatvātkālo netyetadapi durnirūpamāpadyetetyarthaḥ / mokṣāvasthāyāṃ kālo netyuttaraṃ vakṣyāmītyāśaṅkyāha yadeti // ... yadāvasthāṃ vadet sā pakṣatāṃ vrajet

Sanskrit only: no published translation is held for this verse.

वदेत्कालाभावाधिकरणत्वेनेति शेषः । तर्हि सा मोक्षावस्था पूर्वानुमाने पक्षतां व्रजेत् । पक्षशब्देन तदेकदेशो धर्मी लक्ष्यते । मोक्षावस्था न केवलज्ञानवतीति प्रतिज्ञास्यत इत्यर्थः । एवं तर्हि कालत्वादिति हेतुः स्वरूपासिद्धः स्यादित्यत आह अवस्थात्वादिति ॥ अवस्थात्वादिति ह्येव हेतुः ॥।

vadetkālābhāvādhikaraṇatveneti śeṣaḥ / tarhi sā mokṣāvasthā pūrvānumāne pakṣatāṃ vrajet / pakṣaśabdena tadekadeśo dharmī lakṣyate / mokṣāvasthā na kevalajñānavatīti pratijñāsyata ityarthaḥ / evaṃ tarhi kālatvāditi hetuḥ svarūpāsiddhaḥ syādityata āha avasthātvāditi // avasthātvāditi hyeva hetuḥ ...

Sanskrit only: no published translation is held for this verse.

कालो नेति सामान्यतो निषेधे क्रियमाणे हि कालस्य स्वरूपमेव निषिद्धं स्यात् । तथा च कालं गच्छति विषयीकरोतीति कालगा प्रमा साक्षी (निरु)विरुणद्धि । स हि पूर्वोत्तरकोटिरहिततया कालसद्भावं गृह्णातीति । न केवलमयं साक्षिविरोधो विज्ञानवादिनः किं नाम पूर्वाभ्यां सह त्रयाणां चेत्याह समश्चेति ॥ ॥। वक्तव्यो नाकालत्वं ततो भवेत्

kālo neti sāmānyato niṣedhe kriyamāṇe hi kālasya svarūpameva niṣiddhaṃ syāt / tathā ca kālaṃ gacchati viṣayīkarotīti kālagā pramā sākṣī (niru)viruṇaddhi / sa hi pūrvottarakoṭirahitatayā kālasadbhāvaṃ gṛhṇātīti / na kevalamayaṃ sākṣivirodho vijñānavādinaḥ kiṃ nāma pūrvābhyāṃ saha trayāṇāṃ cetyāha samaśceti // ... vaktavyo nākālatvaṃ tato bhavet

Sanskrit only: no published translation is held for this verse.

सत्यमेवं बहुजीववादिनः शून्यवादिनो मायावादिनश्च मतम् । नच तयोरस्माभिः साक्षिविरोधो ऽभिहितः । किं तर्ह्येकमुक्तिरेव सर्वमुक्तिः एकस्मिन्मुक्ते न किञ्चिदवशिष्यत इत्येकजीववादपक्षे तु मुक्तौ कालाभावाभ्युपगमादियं प्रमा साक्षिरूपा कुपिता विरोधिनी भवत्येव । शून्यवादिमायावादिनौ प्रति साक्षिविरोधाभिधानमसङ्गतम् । कालाभावाभ्युपगमे ऽपीदानीं तस्याप्रस्तुतत्वादित्यत आह कालमिति ॥ ॥। कालमादाय द्वैतमेवोपपादयेत्

satyamevaṃ bahujīvavādinaḥ śūnyavādino māyāvādinaśca matam / naca tayorasmābhiḥ sākṣivirodho 'bhihitaḥ / kiṃ tarhyekamuktireva sarvamuktiḥ ekasminmukte na kiñcidavaśiṣyata ityekajīvavādapakṣe tu muktau kālābhāvābhyupagamādiyaṃ pramā sākṣirūpā kupitā virodhinī bhavatyeva / śūnyavādimāyāvādinau prati sākṣivirodhābhidhānamasaṅgatam / kālābhāvābhyupagame 'pīdānīṃ tasyāprastutatvādityata āha kālamiti // ... kālamādāya dvaitamevopapādayet

Sanskrit only: no published translation is held for this verse.

इयं प्रमेति वर्तते । आधाय उपपाद्य । अयमभिसन्धिः । अद्वितीयस्य शून्यस्य ब्रह्मणो वात्तस्थानं मुक्तिरिति तावदेकजीववादिभ्यां ताभ्यामभिधीयते । तत्र वयं ब्रूमः । कालसद्भावान्नाद्वैतत्वमुपपद्यत इति । तत्र परः कालो ऽपि नास्तीति वदति तदा साक्षिविरोधो ऽभिधीयत इत्येतां सङ्गतिमाश्रित्यातिदेशः कृतो न त्वाश्रयासिद्धिप्रसङ्गेनेति । *१२,२२०* वादित्रयसाधारणमनुमानान्तरमाह विमत इति ॥ विमतः प्रपञ्चवान् कालः कालत्वात् प्रतिपन्नवत् । इति चान्यानुमैकत्वं जीवस्य विनिवारयेत्

iyaṃ prameti vartate / ādhāya upapādya / ayamabhisandhiḥ / advitīyasya śūnyasya brahmaṇo vāttasthānaṃ muktiriti tāvadekajīvavādibhyāṃ tābhyāmabhidhīyate / tatra vayaṃ brūmaḥ / kālasadbhāvānnādvaitatvamupapadyata iti / tatra paraḥ kālo 'pi nāstīti vadati tadā sākṣivirodho 'bhidhīyata ityetāṃ saṅgatimāśrityātideśaḥ kṛto na tvāśrayāsiddhiprasaṅgeneti / *12,220* vāditrayasādhāraṇamanumānāntaramāha vimata iti // vimataḥ prapañcavān kālaḥ kālatvāt pratipannavat / iti cānyānumaikatvaṃ jīvasya vinivārayet

Sanskrit only: no published translation is held for this verse.

यद्यदनुविद्धं प्रतीयते तत्तत्रारोपितम् । यथेदमाकारे रजतम् । कालानुविद्धं च समस्तं प्रतिभाति । तस्मात्तत्रैवारोपितम् । स एव तु परमार्थः । अतस्तन्मात्रावस्थानं मुक्तिरिति कालैकत्ववादिनः । एवमेव शब्दैकत्ववादिनो वैयाकरणाः प्राहुः । यथा"न सो ऽस्ति प्रत्ययो लोके यः शब्दानुगमादृते । अनुविद्धमिव ज्ञानं सर्वं शब्देन गम्यतेऽ; इति । शैवैकदेशिनः स्वागममाश्रित्येश्वरैकत्वमाहुः । कथं निराकृतानीत्यत आह तेषां चेति ॥ ॥। तेषां च समत्वात् पक्षदोषयोः

yadyadanuviddhaṃ pratīyate tattatrāropitam / yathedamākāre rajatam / kālānuviddhaṃ ca samastaṃ pratibhāti / tasmāttatraivāropitam / sa eva tu paramārthaḥ / atastanmātrāvasthānaṃ muktiriti kālaikatvavādinaḥ / evameva śabdaikatvavādino vaiyākaraṇāḥ prāhuḥ / yathā"na so 'sti pratyayo loke yaḥ śabdānugamādṛte / anuviddhamiva jñānaṃ sarvaṃ śabdena gamyate'; iti / śaivaikadeśinaḥ svāgamamāśrityeśvaraikatvamāhuḥ / kathaṃ nirākṛtānītyata āha teṣāṃ ceti // ... teṣāṃ ca samatvāt pakṣadoṣayoḥ

Sanskrit only: no published translation is held for this verse.

एवशब्देन विषयसम्बन्धं व्यावर्तयति । इष्यते मुक्तौ । अयमर्थः । ज्ञानमेवात्मा । तच्च ज्ञानं स्वभावेनैव भङ्गुरम् । अत एव क्षणिकम् । तत्सन्तानस्तु नित्यः । तस्यानादिवासनावशाद्यो विषयोपरक्तस्योत्पादः स संसारः भावनाप्रकर्षवशेन वसानायामुत्सन्नायां यो विषयोपप्लवं विना शुद्धस्यैवादयः स मोक्षः इत्युभयसमानम् । सौत्रान्तिकास्तु संसारे साकारत्वं मुक्तौ निराकारत्वं च विशेषमाहुरिति । *१२,२२४* निराकरोति तत्रापीति ॥ ॥। तत्राप्युक्तानुमा रिपुः

evaśabdena viṣayasambandhaṃ vyāvartayati / iṣyate muktau / ayamarthaḥ / jñānamevātmā / tacca jñānaṃ svabhāvenaiva bhaṅguram / ata eva kṣaṇikam / tatsantānastu nityaḥ / tasyānādivāsanāvaśādyo viṣayoparaktasyotpādaḥ sa saṃsāraḥ bhāvanāprakarṣavaśena vasānāyāmutsannāyāṃ yo viṣayopaplavaṃ vinā śuddhasyaivādayaḥ sa mokṣaḥ ityubhayasamānam / sautrāntikāstu saṃsāre sākāratvaṃ muktau nirākāratvaṃ ca viśeṣamāhuriti / *12,224* nirākaroti tatrāpīti // ... tatrāpyuktānumā ripuḥ

Sanskrit only: no published translation is held for this verse.

विमतः कालो न निर्विषयैतज्ज्ञानसन्ततिमान् कालत्वादिदानीन्तकालवदित्यादिरुक्ता उक्तसरूपा अनुमा रिपुर्विरोधिनीत्यथर्ः । *१२,२२५* अनुमानान्तरमाह मोक्ष इति ॥ मोक्षो न शुद्धविज्ञानसन्तानी कालगत्वतः । प्रतिपन्नो यथेत्येतदनुमानं तदुत्तरम्

vimataḥ kālo na nirviṣayaitajjñānasantatimān kālatvādidānīntakālavadityādiruktā uktasarūpā anumā ripurvirodhinītyatharḥ / *12,225* anumānāntaramāha mokṣa iti // mokṣo na śuddhavijñānasantānī kālagatvataḥ / pratipanno yathetyetadanumānaṃ taduttaram

Sanskrit only: no published translation is held for this verse.

उक्तभङ्गयैव प्रतिसाधनसम्बन्धेन । श्रुतिविरुद्धत्वेन कालात्ययापदिष्यानि चेति भावेनाह श्रुतयश्चेति ॥ ॥। श्रुतयश्चास्मदुक्तिगाः

uktabhaṅgayaiva pratisādhanasambandhena / śrutiviruddhatvena kālātyayāpadiṣyāni ceti bhāvenāha śrutayaśceti // ... śrutayaścāsmaduktigāḥ

Sanskrit only: no published translation is held for this verse.

उच्यत इत्युक्तिः अस्मदुक्तिं गच्छन्ति प्रतिपादयन्तीत्यस्मदुक्तिगाः । अस्मदभिमतमेव मोक्षस्वरूपं प्रतिपादयन्तीत्यर्थः । श्रुतिप्रामाण्यं तु प्रागेव समर्थितमिति । *१२,२२६* साङ्खयाद्यभिमतं मोक्षमनुवदति साङ्खयेति ॥ साङ्खयनैयायिकाद्याश्च प्राहुर्मोक्षं तु निस्सुखम् आद्यग्रहणेन वैशेषिका उच्यन्ते । यथा पूर्वे ऽनुपपन्नभाषिणस्तथैते ऽपीति ज्ञापनार्थश्चशब्दः । कुत एवं प्राहुरित्यत आह इच्छेति ॥ इच्छाद्वेषप्रयत्नादेरपि सर्वात्मना लयम्

ucyata ityuktiḥ asmaduktiṃ gacchanti pratipādayantītyasmaduktigāḥ / asmadabhimatameva mokṣasvarūpaṃ pratipādayantītyarthaḥ / śrutiprāmāṇyaṃ tu prāgeva samarthitamiti / *12,226* sāṅkhayādyabhimataṃ mokṣamanuvadati sāṅkhayeti // sāṅkhayanaiyāyikādyāśca prāhurmokṣaṃ tu nissukham ādyagrahaṇena vaiśeṣikā ucyante / yathā pūrve 'nupapannabhāṣiṇastathaite 'pīti jñāpanārthaścaśabdaḥ / kuta evaṃ prāhurityata āha iccheti // icchādveṣaprayatnāderapi sarvātmanā layam

Sanskrit only: no published translation is held for this verse.

तत्राहुर् ॥। *१२,२३२* कथमयं पुरुषार्थ इति चेत् शरीरं षडिन्द्रियाणि षड्विषयाः षड्बुद्धयः सुखं दुःखं चेत्येकविंशतिभेददुःखात्यन्तनिवृत्तित्वादिति ब्रूमः । दुःखनिवृत्तिः पुरुषार्थ एव न भवति । तदीयपुरुषार्थत्वस्य सोपाधिकत्वात् । सुखं दुःखाभावे सत्येव भवतीति सुखार्थं दुःखाभावो मृग्यते न तु स एव पुरुषस्य समीहित इति चेत् (न) । विपर्ययस्यापि सद्भावात् । भोजनादिसुखे सत्येव बुभुक्षादिदुःखं निवर्तत इति दुःखनिवृत्त्यर्थमेव भोजनादिसुखं मृग्यते न पुनस्तदेव पुरुषस्य समीहितमिति कल्प्यते । क्वचिद्दुःखनिवृत्त्यभावे ऽपि सुखस्येष्यमाणत्वादिति चेन्न । दुःखनिवृत्तिरपि क्वचित्सुखाभावे ऽपीष्यमाणत्वात् । दुःखनिवृत्तौ सत्यां सुखमेव भविष्यतीत्यभिसन्धिस्तावदस्तीति चेत् । सुखावस्थायां नियतो दुःखविरहो भवतीत्यभिसन्धेस्तत्रापि सद्भावात् । तस्माद्यद्यपि दुःखाभावे सुखं सुखे च दुःखाभावो नियतः । तथापि परस्परं निरपेक्षमेव पुरुषार्थत्वमनयोः । इच्छाया असङ्कीणर्विषयत्वादिति । *१२,२३६फ़्।* भवति दुःखहानिः पुरुषार्थः किं त्वनुभूयमानतया । नहि विषादिजन्यमोहावस्थायां दुःखनिवृत्तिरिति तत्र प्रेक्षावन्तः प्रवर्तन्ते । तस्मान्मोक्षे दुःखहानेरननुभूयमानत्वान्न पुरुषार्थत्वमिति चेन्न । पुत्रादिवियोगजन्यदुःखहानिमिच्छतां केषाञ्चिद्विषशस्त्रोद्बन्धनादावपि प्रवृत्तिदर्शनात् । प्रेक्षावन्तो नैवं कुर्वन्तीति चेन्न । पुरुषार्थत्वाविरोधात् । नहि परदारेषु शास्त्रनिषेधाङ्कुशवारितः प्रेक्षावन्तो नाभिवर्तन्त इति न तत्र कामः पुरुषार्थः । अपि त्वल्पीयः सुखं महीयाननर्थ इति निवृत्तिः । तथा विषादावपि प्रवृत्तस्य शास्त्रे गर्हितत्वादल्पीयाननर्थो निवर्तते महीयान्प्रवर्तत इति न ते प्रवर्तन्ते । इयमेव हि प्रेक्षा यत्पुरुषार्थे ऽपि शास्त्रलोकविरोधपरामर्शः । स्वरूपेणेष्यमाणतामात्रनिबन्धनत्वात्पुरुषार्थतायाः । अत एव यत्र लोकशास्त्राविरोधस्तत्र व्याध्यादिपरिपीडिताः प्रयगवारिपातानशनादिनापि देहं त्यजन्तः प्रेक्षावन्तो ऽपि दृश्यन्ते । *१२,२३७* न क्वचिद्दुःखनिवृत्तिमनुभविष्यामीति तत्साधने प्रवर्तन्ते । अपि तु दुःखं हास्यामीति । अपि च दुःखनिवृत्तेरनुभूयमानतामात्रं विवक्षितं, दुःखनिवृत्तिसत्तापि वा । आद्येश्चेत्तुष्यतु दुर्जनः चरमे जन्मन्यनुभूयत एव । समाधिभावा(वधिव)दात्यन्तिकी दुःखनिवृत्तिरप्यनागतावर्तमानाप्यचिरमनुभूयत एव । द्वितीये तु प्रसक्तकण्टकादिहेतुकदुःखनिवृत्तेरपुरुषार्थत्वप्रसङ्गः । सर्वदाननुभूयमानत्वात् । तथात्वे वा विषयान्तरसञ्चाराभावप्रसङ्गः । निवृत्तेः सर्वदा तादवस्थ्यात् । तस्मात्सुखरहितो मोक्षः पुरुषार्थ इति । *१२,२६४* निराकरोति नैतदिति ॥ ॥। नैतदप्यत्र शोभनं ॥।

tatrāhur ... *12,232* kathamayaṃ puruṣārtha iti cet śarīraṃ ṣaḍindriyāṇi ṣaḍviṣayāḥ ṣaḍbuddhayaḥ sukhaṃ duḥkhaṃ cetyekaviṃśatibhedaduḥkhātyantanivṛttitvāditi brūmaḥ / duḥkhanivṛttiḥ puruṣārtha eva na bhavati / tadīyapuruṣārthatvasya sopādhikatvāt / sukhaṃ duḥkhābhāve satyeva bhavatīti sukhārthaṃ duḥkhābhāvo mṛgyate na tu sa eva puruṣasya samīhita iti cet (na) / viparyayasyāpi sadbhāvāt / bhojanādisukhe satyeva bubhukṣādiduḥkhaṃ nivartata iti duḥkhanivṛttyarthameva bhojanādisukhaṃ mṛgyate na punastadeva puruṣasya samīhitamiti kalpyate / kvacidduḥkhanivṛttyabhāve 'pi sukhasyeṣyamāṇatvāditi cenna / duḥkhanivṛttirapi kvacitsukhābhāve 'pīṣyamāṇatvāt / duḥkhanivṛttau satyāṃ sukhameva bhaviṣyatītyabhisandhistāvadastīti cet / sukhāvasthāyāṃ niyato duḥkhaviraho bhavatītyabhisandhestatrāpi sadbhāvāt / tasmādyadyapi duḥkhābhāve sukhaṃ sukhe ca duḥkhābhāvo niyataḥ / tathāpi parasparaṃ nirapekṣameva puruṣārthatvamanayoḥ / icchāyā asaṅkīṇarviṣayatvāditi / *12,236f.* bhavati duḥkhahāniḥ puruṣārthaḥ kiṃ tvanubhūyamānatayā / nahi viṣādijanyamohāvasthāyāṃ duḥkhanivṛttiriti tatra prekṣāvantaḥ pravartante / tasmānmokṣe duḥkhahānerananubhūyamānatvānna puruṣārthatvamiti cenna / putrādiviyogajanyaduḥkhahānimicchatāṃ keṣāñcidviṣaśastrodbandhanādāvapi pravṛttidarśanāt / prekṣāvanto naivaṃ kurvantīti cenna / puruṣārthatvāvirodhāt / nahi paradāreṣu śāstraniṣedhāṅkuśavāritaḥ prekṣāvanto nābhivartanta iti na tatra kāmaḥ puruṣārthaḥ / api tvalpīyaḥ sukhaṃ mahīyānanartha iti nivṛttiḥ / tathā viṣādāvapi pravṛttasya śāstre garhitatvādalpīyānanartho nivartate mahīyānpravartata iti na te pravartante / iyameva hi prekṣā yatpuruṣārthe 'pi śāstralokavirodhaparāmarśaḥ / svarūpeṇeṣyamāṇatāmātranibandhanatvātpuruṣārthatāyāḥ / ata eva yatra lokaśāstrāvirodhastatra vyādhyādiparipīḍitāḥ prayagavāripātānaśanādināpi dehaṃ tyajantaḥ prekṣāvanto 'pi dṛśyante / *12,237* na kvacidduḥkhanivṛttimanubhaviṣyāmīti tatsādhane pravartante / api tu duḥkhaṃ hāsyāmīti / api ca duḥkhanivṛtteranubhūyamānatāmātraṃ vivakṣitaṃ, duḥkhanivṛttisattāpi vā / ādyeścettuṣyatu durjanaḥ carame janmanyanubhūyata eva / samādhibhāvā(vadhiva)dātyantikī duḥkhanivṛttirapyanāgatāvartamānāpyaciramanubhūyata eva / dvitīye tu prasaktakaṇṭakādihetukaduḥkhanivṛtterapuruṣārthatvaprasaṅgaḥ / sarvadānanubhūyamānatvāt / tathātve vā viṣayāntarasañcārābhāvaprasaṅgaḥ / nivṛtteḥ sarvadā tādavasthyāt / tasmātsukharahito mokṣaḥ puruṣārtha iti / *12,264* nirākaroti naitaditi // ... naitadapyatra śobhanaṃ ...

Sanskrit only: no published translation is held for this verse.

अत्रेति वर्तते । भोगम् तदनुभवम् । नियमेन अविगानेन । इति श्रुतीनां प्रसिद्धतामाचष्टे । ताश्चोदाहरिष्यन्ते । *१२,२६५* ननु"अशरीरं वाव सन्तं न प्रियाप्रिये स्पृशतेऽ; इति मुक्तस्य दुःखवत्सुखस्यापि हानिः श्रूयते । तथा"न प्रेत्य संज्ञास्तिऽ; इति ज्ञानाभावाच्च । तत्कथमेतदित्यतः सुखास्पृष्टिश्रुतिं तावद्वयाचष्टे प्राकृतेति ॥ प्राकृतप्रियहानिस्तु प्रियास्पृष्टिरितीर्यते अस्यां श्रुतौ प्राकृतं यदन्तःकरणपरिणतिरूपं प्रियं तद्धानिरेव प्रियास्पृष्टिरितिशब्देन प्रतिपाद्यते । नतु सर्वथा सुखाभावः । *१२,२६६* एवं तर्ह्यप्रियास्पृष्टिरप्येवं विभागेन व्याख्यातव्या । विशेषाभावात् । तथाच मोक्षे दुःखसद्भाव(प्राप्तिरि)प्रसक्तिरित्यत आह अप्रियमिति ॥ अप्रियं प्रतिकूलं तदविशेषेण शब्दितम्

atreti vartate / bhogam tadanubhavam / niyamena avigānena / iti śrutīnāṃ prasiddhatāmācaṣṭe / tāścodāhariṣyante / *12,265* nanu"aśarīraṃ vāva santaṃ na priyāpriye spṛśate'; iti muktasya duḥkhavatsukhasyāpi hāniḥ śrūyate / tathā"na pretya saṃjñāsti'; iti jñānābhāvācca / tatkathametadityataḥ sukhāspṛṣṭiśrutiṃ tāvadvayācaṣṭe prākṛteti // prākṛtapriyahānistu priyāspṛṣṭiritīryate asyāṃ śrutau prākṛtaṃ yadantaḥkaraṇapariṇatirūpaṃ priyaṃ taddhānireva priyāspṛṣṭiritiśabdena pratipādyate / natu sarvathā sukhābhāvaḥ / *12,266* evaṃ tarhyapriyāspṛṣṭirapyevaṃ vibhāgena vyākhyātavyā / viśeṣābhāvāt / tathāca mokṣe duḥkhasadbhāva(prāptiri)prasaktirityata āha apriyamiti // apriyaṃ pratikūlaṃ tadaviśeṣeṇa śabditam

Sanskrit only: no published translation is held for this verse.

यस्मात्सकलमप्यप्रियं (दुःखं) प्रतिकूलं मुमुक्षोरनपेक्षितम् । तत्तस्मादप्रियमत्राविशेषेण शब्दितम् । एतदुक्तं भवति । सर्वात्मनानिष्यनिवृत्तिर्मोक्ष इति तावदविवादं सर्ववादिनाम् । दुःखं तु यादृशतादृशमप्यनिष्यमेव । अतो न तद्विभागेन व्याख्यातुं युक्तमिति । यद्वा । येन न्यायेन प्रिये विभागः क्रियते तदविशेषश्चेदप्रिये स्यात्तदा तदपि विभागेन व्याख्यातव्यं भवेत् । नचैवम् । सामस्त्येन प्रियहानिरनिष्या । अनिष्यप्राप्तौ च मोक्षस्यापुरुषाथर्त्वं स्यादित्यतो हि प्रिये विभागः कल्प्यते । तथाच वक्ष्यामः । नच सामस्त्येन दुःखहानिरनिष्या । सर्वस्यापि दुःखस्यानिष्टत्वेन तद्धानेरिष्टत्वात् । तर्हि सर्वस्यापि सुखस्येष्टत्वात् प्राकृतसुखहानिरपि नाङ्गीकरणीयेति चेन्न । तस्य दुःखानुषक्तत्वेन विषसम्पृक्तमधुवदनिष्यपक्षनिक्षेपादिति भावः । *१२,२६७* इतश्च नाप्रियं प्राकृतत्वेन विशेषणीयमित्याह नास्तीति । नास्ति ह्यप्राकृतं दुःखं सतो जीवस्य कुत्रचित् अप्राकृते दुःखे सति तद्वयावृत्तये प्राकृतमिति विशेषणीयं स्यात् । सतो मुक्तियोग्यस्य । जीवस्याप्राकृतं दुःखं नास्ति प्रमाणाभावात् । अतो व्यर्थं विशेषणमिति । कुत्रचित् श्रुतौ स्मृतौ चोक्तमिति शेषः । *१२,२६८* एवं तर्ह्यप्राकृतस्य सुखस्याप्यप्रमितत्वात्तत्रापि विशेषणप्रक्षेपेण व्याख्यानमयुक्तमित्यत आह प्रियमिति ॥ प्रियं स्वरूपमेवास्य बलानन्दादिवाक्यतः

yasmātsakalamapyapriyaṃ (duḥkhaṃ) pratikūlaṃ mumukṣoranapekṣitam / tattasmādapriyamatrāviśeṣeṇa śabditam / etaduktaṃ bhavati / sarvātmanāniṣyanivṛttirmokṣa iti tāvadavivādaṃ sarvavādinām / duḥkhaṃ tu yādṛśatādṛśamapyaniṣyameva / ato na tadvibhāgena vyākhyātuṃ yuktamiti / yadvā / yena nyāyena priye vibhāgaḥ kriyate tadaviśeṣaścedapriye syāttadā tadapi vibhāgena vyākhyātavyaṃ bhavet / nacaivam / sāmastyena priyahāniraniṣyā / aniṣyaprāptau ca mokṣasyāpuruṣāthartvaṃ syādityato hi priye vibhāgaḥ kalpyate / tathāca vakṣyāmaḥ / naca sāmastyena duḥkhahāniraniṣyā / sarvasyāpi duḥkhasyāniṣṭatvena taddhāneriṣṭatvāt / tarhi sarvasyāpi sukhasyeṣṭatvāt prākṛtasukhahānirapi nāṅgīkaraṇīyeti cenna / tasya duḥkhānuṣaktatvena viṣasampṛktamadhuvadaniṣyapakṣanikṣepāditi bhāvaḥ / *12,267* itaśca nāpriyaṃ prākṛtatvena viśeṣaṇīyamityāha nāstīti / nāsti hyaprākṛtaṃ duḥkhaṃ sato jīvasya kutracit aprākṛte duḥkhe sati tadvayāvṛttaye prākṛtamiti viśeṣaṇīyaṃ syāt / sato muktiyogyasya / jīvasyāprākṛtaṃ duḥkhaṃ nāsti pramāṇābhāvāt / ato vyarthaṃ viśeṣaṇamiti / kutracit śrutau smṛtau coktamiti śeṣaḥ / *12,268* evaṃ tarhyaprākṛtasya sukhasyāpyapramitatvāttatrāpi viśeṣaṇaprakṣepeṇa vyākhyānamayuktamityata āha priyamiti // priyaṃ svarūpamevāsya balānandādivākyataḥ

Sanskrit only: no published translation is held for this verse.

स्वरूपत्वेनानादित्वस्योक्तत्वात् । यदत्रोक्तं तदप्यसत् । आवृताः सन्तो व्यज्यन्त इति श्रुतत्वात् । आवरणं च मायाविद्यादिसमाख्याता प्रकृतिरेव । नच विशदश्रुतिसिद्धे ऽर्थे काचिदनुपपत्तिः । ज्ञानस्य स्वरूपत्वेनानादित्वे ऽप्यविद्यया विषयविषयिभावः प्रतिबध्यते । नचोक्तदोषः । आत्मस्वरूपादौ तस्याप्रतिबद्धत्वात् । *१२,२६९* उक्तमर्थं संक्षिप्याह हेयत्वादिति ॥ हेयत्वादपप्रियस्यैव प्रियहानेरनिष्ठतः । न समस्तप्रियाभावो मोक्षे प्रोक्ते तु युज्यते

svarūpatvenānāditvasyoktatvāt / yadatroktaṃ tadapyasat / āvṛtāḥ santo vyajyanta iti śrutatvāt / āvaraṇaṃ ca māyāvidyādisamākhyātā prakṛtireva / naca viśadaśrutisiddhe 'rthe kācidanupapattiḥ / jñānasya svarūpatvenānāditve 'pyavidyayā viṣayaviṣayibhāvaḥ pratibadhyate / nacoktadoṣaḥ / ātmasvarūpādau tasyāpratibaddhatvāt / *12,269* uktamarthaṃ saṃkṣipyāha heyatvāditi // heyatvādapapriyasyaiva priyahāneraniṣṭhataḥ / na samastapriyābhāvo mokṣe prokte tu yujyate

Sanskrit only: no published translation is held for this verse.

अप्रियस्य दुःखस्य हेयत्वादेवेत्येवशब्देन सर्वथेति सूचयति । "अशरीरं वाव सन्तम्ऽ; इत्यस्यां श्रुतौ प्रोक्ते मोक्षे समस्तप्रियाभावो न व्याख्यातुं युज्यते । कुतः प्रियहानेरनिष्टत्वतः । किन्तु प्राकृतत्वविशेषणप्रक्षेपेणेति तुशब्दः । अप्रियहानं त्वविशेषेण व्याख्येयमित्युपस्कर्तव्यम् । तत्र हेतुरप्रियस्य सर्वथा हेयत्वादिति । उपलक्षणं चैतत् । सतो जीवस्याप्राकृतदुःखाभावाच्चेत्यपि द्रष्टव्यम् । *१२,२७०* ननु सज्जीवस्याप्यप्रियं स्वरूपभूतमप्राकृतमस्ति । तत्कथमेतदित्यत आह अप्रियस्येति ॥ अप्रियस्य स्वरूपत्वमसुरेष्वेव हि श्रुतम् अनेन"नित्यानन्दो नित्यज्ञानो नित्यबलः परमात्मा । नैवमसुरा एवमनेवं च मनुष्या इति श्रुतिमुपादत्ते । नित्यत्वोक्त्या स्वरूपत्वं सिद्धम् । वृत्तीनामनित्यत्वात् । परमात्मा परमेश्वरः । सज्जीव इति वा । नैवमिति । एतद्विरुद्धस्वभावा इत्यर्थः । एवमनेवं चेति । उभयस्वभावःऽ; इत्यर्थः । असुरा नैवं, अखिलमानुषा एवं च नैवं चेति योजना । इति श्रुतमिति सम्बन्धः । *१२,२७१* अप्रियहानावपि सङ्कोचः क्रियतामित्यतिप्रसङ्गं निवारयतैव सामान्यतः श्रुता प्रियास्पृष्टिः कुतो विशेषे ऽवस्थाप्यत इत्याशङ्कापि परिहृता । नियामकस्य सूचितत्वात् । तदेव नियामकं विस्पष्टमाचष्टे आत्मेति ॥ ॥। आत्मप्रियहानाय को यतेत च बुद्धिमान्

apriyasya duḥkhasya heyatvādevetyevaśabdena sarvatheti sūcayati / "aśarīraṃ vāva santam'; ityasyāṃ śrutau prokte mokṣe samastapriyābhāvo na vyākhyātuṃ yujyate / kutaḥ priyahāneraniṣṭatvataḥ / kintu prākṛtatvaviśeṣaṇaprakṣepeṇeti tuśabdaḥ / apriyahānaṃ tvaviśeṣeṇa vyākhyeyamityupaskartavyam / tatra heturapriyasya sarvathā heyatvāditi / upalakṣaṇaṃ caitat / sato jīvasyāprākṛtaduḥkhābhāvāccetyapi draṣṭavyam / *12,270* nanu sajjīvasyāpyapriyaṃ svarūpabhūtamaprākṛtamasti / tatkathametadityata āha apriyasyeti // apriyasya svarūpatvamasureṣveva hi śrutam anena"nityānando nityajñāno nityabalaḥ paramātmā / naivamasurā evamanevaṃ ca manuṣyā iti śrutimupādatte / nityatvoktyā svarūpatvaṃ siddham / vṛttīnāmanityatvāt / paramātmā parameśvaraḥ / sajjīva iti vā / naivamiti / etadviruddhasvabhāvā ityarthaḥ / evamanevaṃ ceti / ubhayasvabhāvaḥ'; ityarthaḥ / asurā naivaṃ, akhilamānuṣā evaṃ ca naivaṃ ceti yojanā / iti śrutamiti sambandhaḥ / *12,271* apriyahānāvapi saṅkocaḥ kriyatāmityatiprasaṅgaṃ nivārayataiva sāmānyataḥ śrutā priyāspṛṣṭiḥ kuto viśeṣe 'vasthāpyata ityāśaṅkāpi parihṛtā / niyāmakasya sūcitatvāt / tadeva niyāmakaṃ vispaṣṭamācaṣṭe ātmeti // ... ātmapriyahānāya ko yateta ca buddhimān

Sanskrit only: no published translation is held for this verse.

आत्मा च तत्प्रियं चेति आत्मप्रियम् । आत्मनः प्रियमिति वा । तदिच्छति चेति चशब्दः । *१२,२७२* यदि प्रियास्पृष्टिरविशिष्या स्यात्तदा न कश्चित्प्रेक्षावान्मोक्षमिच्छेत् । नापि तदर्थं प्रयतेत । यद्यपि द्वेषवशात्परकीयसुखहानादाविच्छादिकं सम्भवति । तथापि न कश्चिद् बुद्धिमानात्मनः सुखहानमिच्छति । तदर्थं प्रयतते वा । वृत्तिरूपसुखस्यानिष्यभूयिष्ठत्वात्तत्त्या(गेच्छा)गायेच्छादिकं युज्यते । स्वरूपसुखं तु निष्कण्टकं कस्मात्त्याज्यम् । नच तन्नास्ति, श्रुतिसिद्धत्वात् । कारणैक्यनिमित्तो हि सुखस्य दुःखानुषङ्गः । नचात्मसुखस्य कारणमस्ति । अशक्यं चात्मसुखहानम् । नचाशक्यविषयेच्छाप्रयत्नौ बुद्धिमतः सम्भवतः । आत्महानं खलु विनाशलक्षणमनुत्पादलक्षणं च न सम्भवति, नित्यत्वात् । नापि वियोगलक्षणं, परेषां मते विभुत्वात् । अस्माकं स्वात्मनि क्रियाविरोधात् । नाप्यज्ञानलक्षणं स्वप्रकाशत्वात् । तदेवं बाधकसद्भावात्प्रियास्पृष्टिर्विशेषनिष्ठैव व्याख्येया । तथाच"अशरीरं वाव सन्तम्ऽ; इति श्रुत्युक्तोपपत्तिः श्लिष्यत इति । *१२,२७५* एवं सुखास्पृष्टिश्रुतिं व्याख्याय ज्ञानाभावश्रुतिं च व्याख्याति संज्ञेति ॥ सञ्ज्ञा नास्तीत्यपि ह्यस्य नामुक्तज्ञेयतेति हि श्रुतिर्वक्तीति वक्ष्यमाणमत्रापि सम्बद्धयते । "न प्रेत्य संज्ञास्तिऽ; इत्यपि श्रुतिरस्य मुक्तस्यामुक्तज्ञेयता नास्तीत्येव वक्ति । नतु मुक्तो न जानातीति । एको हिशब्द एवार्थः । द्वितीयस्तु स्वोक्तार्थस्य शब्दशक्त्यनतिक्रमं सूचयति । तथाहि । प्रेत्य मरणानन्तरं संज्ञां ज्ञानं नास्तीति तावच्छ्रौतो ऽथर्ः । तत्र प्रकरणवशात्प्रेत्येत्येतन्मरणविशेषमोक्षानन्तरमिति व्याख्येयम् । ज्ञानं तु मुक्तसम्बन्धि प्रतिषिध्यमानं तत्कर्तृकमेवेति कल्पने न नियामकं पश्यामः । अतस्तत्कमर्कस्यैव ज्ञानस्यायं प्रतिषेधो विज्ञायते । सर्वथाज्ञे(यतायां वा) यानां चासत्त्वं प्रसज्यत इत्यमुक्तज्ञेयतानिषेध इति कल्प्यते । अमुक्तानामप्यस्मदादीनामपरोक्षज्ञानस्यायं प्रतिषेधः । नारदादिभिरापरोक्ष्येणास्मदादिभिश्च शास्त्रेण तज्ज्ञानात् । अत एव संशब्दप्रयोग इति । *१२,२७६* ननु साधारणे वाक्ये मुक्तविषयस्य ज्ञानस्यायं प्रतिषेधो नतु तत्कर्तृकस्येति कुतः कल्प्यत इत्यत आह धर्मेति ॥ धर्मानुच्छित्तिमेवास्य यतो वक्तयुत्तरश्रुतिः

ātmā ca tatpriyaṃ ceti ātmapriyam / ātmanaḥ priyamiti vā / tadicchati ceti caśabdaḥ / *12,272* yadi priyāspṛṣṭiraviśiṣyā syāttadā na kaścitprekṣāvānmokṣamicchet / nāpi tadarthaṃ prayateta / yadyapi dveṣavaśātparakīyasukhahānādāvicchādikaṃ sambhavati / tathāpi na kaścid buddhimānātmanaḥ sukhahānamicchati / tadarthaṃ prayatate vā / vṛttirūpasukhasyāniṣyabhūyiṣṭhatvāttattyā(gecchā)gāyecchādikaṃ yujyate / svarūpasukhaṃ tu niṣkaṇṭakaṃ kasmāttyājyam / naca tannāsti, śrutisiddhatvāt / kāraṇaikyanimitto hi sukhasya duḥkhānuṣaṅgaḥ / nacātmasukhasya kāraṇamasti / aśakyaṃ cātmasukhahānam / nacāśakyaviṣayecchāprayatnau buddhimataḥ sambhavataḥ / ātmahānaṃ khalu vināśalakṣaṇamanutpādalakṣaṇaṃ ca na sambhavati, nityatvāt / nāpi viyogalakṣaṇaṃ, pareṣāṃ mate vibhutvāt / asmākaṃ svātmani kriyāvirodhāt / nāpyajñānalakṣaṇaṃ svaprakāśatvāt / tadevaṃ bādhakasadbhāvātpriyāspṛṣṭirviśeṣaniṣṭhaiva vyākhyeyā / tathāca"aśarīraṃ vāva santam'; iti śrutyuktopapattiḥ śliṣyata iti / *12,275* evaṃ sukhāspṛṣṭiśrutiṃ vyākhyāya jñānābhāvaśrutiṃ ca vyākhyāti saṃjñeti // sañjñā nāstītyapi hyasya nāmuktajñeyateti hi śrutirvaktīti vakṣyamāṇamatrāpi sambaddhayate / "na pretya saṃjñāsti'; ityapi śrutirasya muktasyāmuktajñeyatā nāstītyeva vakti / natu mukto na jānātīti / eko hiśabda evārthaḥ / dvitīyastu svoktārthasya śabdaśaktyanatikramaṃ sūcayati / tathāhi / pretya maraṇānantaraṃ saṃjñāṃ jñānaṃ nāstīti tāvacchrauto 'tharḥ / tatra prakaraṇavaśātpretyetyetanmaraṇaviśeṣamokṣānantaramiti vyākhyeyam / jñānaṃ tu muktasambandhi pratiṣidhyamānaṃ tatkartṛkameveti kalpane na niyāmakaṃ paśyāmaḥ / atastatkamarkasyaiva jñānasyāyaṃ pratiṣedho vijñāyate / sarvathājñe(yatāyāṃ vā) yānāṃ cāsattvaṃ prasajyata ityamuktajñeyatāniṣedha iti kalpyate / amuktānāmapyasmadādīnāmaparokṣajñānasyāyaṃ pratiṣedhaḥ / nāradādibhirāparokṣyeṇāsmadādibhiśca śāstreṇa tajjñānāt / ata eva saṃśabdaprayoga iti / *12,276* nanu sādhāraṇe vākye muktaviṣayasya jñānasyāyaṃ pratiṣedho natu tatkartṛkasyeti kutaḥ kalpyata ityata āha dharmeti // dharmānucchittimevāsya yato vaktayuttaraśrutiḥ

Sanskrit only: no published translation is held for this verse.

यतः कारणात्"अयमात्मानुच्छित्तिधर्मःऽ; इत्युत्तरश्रुतिरस्य मुक्तात्मनो धर्मानुच्छित्तिमेव वक्ति । न विद्यते उच्छित्तिर्येषां ते तथोक्ताः । अनुच्छित्तयो धर्मा यस्यासावनुच्छित्तिधर्मेति । तस्मादेवं व्याख्यात इति । *१२,२७८* स्यादेतत् । अनुच्छित्तिधर्मेत्येतत्सङ्खयादिधर्माणामनुच्छित्तिं वक्तीत्यपि शक्यते वक्तुम् । यद्वा उच्छित्तेरभावो ऽनुच्छित्तिः सा धर्मो यस्यासावनुच्छित्तिधर्मेति । तत्कथमेतन्नियामकमित्याशङ्कानिरासायादित एव वाक्यं व्याचष्टे आशङ्कयेति ॥ आशङ्कयास्य ज्ञानहानिं मैत्रेय्या मोहमाह माम् । भवानित्युक्तवत्या हि नाहं मोहं वदामि ते । इत्युक्तवा याज्ञवल्क्यो हि स्वरूपानाशमूचिवान्

yataḥ kāraṇāt"ayamātmānucchittidharmaḥ'; ityuttaraśrutirasya muktātmano dharmānucchittimeva vakti / na vidyate ucchittiryeṣāṃ te tathoktāḥ / anucchittayo dharmā yasyāsāvanucchittidharmeti / tasmādevaṃ vyākhyāta iti / *12,278* syādetat / anucchittidharmetyetatsaṅkhayādidharmāṇāmanucchittiṃ vaktītyapi śakyate vaktum / yadvā ucchitterabhāvo 'nucchittiḥ sā dharmo yasyāsāvanucchittidharmeti / tatkathametanniyāmakamityāśaṅkānirāsāyādita eva vākyaṃ vyācaṣṭe āśaṅkayeti // āśaṅkayāsya jñānahāniṃ maitreyyā mohamāha mām / bhavānityuktavatyā hi nāhaṃ mohaṃ vadāmi te / ityuktavā yājñavalkyo hi svarūpānāśamūcivān

Sanskrit only: no published translation is held for this verse.

यत् यस्माज्ज्ञानरूपस्तावदात्मा तस्य च विज्ञाननाशो नाम तन्नाश एव । नचात्मनाशो ऽस्ति । तथा सति मुक्तेरपुरुषार्थत्वप्रसङ्गात् । अतो न ज्ञाननाशो ऽस्ति । अत एव न मद्वचनं तदर्थम्, किं त्वमुक्तानां मुक्तविषये संज्ञा नास्ति, मुक्तानामेव वा वृत्तिरूपा संज्ञा नास्तीत्यादिरेव मद्वचनार्थ इत्यभिप्रायवान्स्वरूपानाशमूचिवानिति सम्बन्धः । *१२,२८१* अस्त्वेवं सङ्गतिस्तथापि ज्ञानं न नश्यतीति साक्षादनुक्त्वैवं वचनं किमर्थमित्यत आह शून्येति ॥ ॥। शून्यमतोच्छित्त्यै ॥। न केवलमत्र प्रमेयनिरूपणमात्रार्थं प्रवृत्तो याज्ञवल्क्यः किन्तु परी(क्षायां)क्षया । अत एव न प्रेत्य ज्ञायत इति विशदमनुक्त्वा शङ्कोत्पादनाय न प्रेत्य संज्ञास्तीति साधारणं वाक्यमाह । परीक्षा च स्वानभिमतनिरासरूपा । अत एवमुत्तरे दत्ते शून्यमतस्यात्मनाशलक्षणस्य निरसो ऽपि कृतो भवतीति तदर्थं स्वरूपानाशमूचिवान् । यदर्थमादितो वाक्यं व्याख्यातं तदिदानीमनुच्छित्तिधर्मेत्येतद्वयाचष्टे पुनरिति ॥ ॥। पुनरानन्दपूर्वकान् । धर्मानाहाप्यनुच्छिन्नांस् ॥। स्वरूपानाशमुक्त्वा पुनरपि मुक्तस्यानन्दपूवर्कान्धर्माननुच्छिन्नानाह याज्ञवल्क्यः । स्वरूपानाशोक्त्यैव धर्मानुच्छित्तिसिद्धौ पुनरुक्तिरियमित्यत उक्तमानन्दपूर्वकानिति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकानिति । वाक्योपक्रमे विज्ञानघन एवेति विज्ञानस्यात्मस्वरूपत्वमुक्तं न पुनरानन्दपूर्वकाणाम् । अतः स्वरूपानाशोक्त्या विज्ञानाविनाश एव सुज्ञानो नानन्दाद्यविनाशः । अतस्ते ऽपि विज्ञानवत् आत्मस्वरूपभूता एव नोच्छिद्यन्ते इत्यर्थप्रतिपत्त्यर्थमिदं वाक्यमिति । *१२,२८२* तात्पर्यान्तरं सूचयति तार्किकैरिति । ॥। तार्किकैर्विनिवारितान् उक्तमेतत्परीक्षायां प्रवृत्तो याज्ञवल्क्य इति । अतः स्वरूपाविनाशमङ्गीकृत्य ये तार्किका बुद्धिसुखादीन्धर्मान्मुक्तस्य विनिवारयन्ति ते ऽप्यसमीचीनवादिन इति ज्ञापनायेदं वाक्यमिति न पौनरुक्त्यदोषः । ननु स्वरूपाविनाशोक्त्या धर्माविनाशो ऽपि सिद्ध एव । सत्यम् । स्वमतरीत्या तत् । तार्किकास्तु न ज्ञानसुखादीनामात्मस्वरूपत्वं मन्यन्ते । अतः किमिदानीं मोक्षप्रसङ्गे तेषामात्मस्वरूपत्वोपपादनेन । आत्मस्वरूपप्रक्रियायां तदपि वक्तव्यमित्याशयेनानुच्छित्तिरेवोक्तेति । इदमत्राकूतम् । अनुच्छित्तिधर्मेति यदि सङ्खयादिधर्माणामनुच्छित्तिरुक्ता स्यात् तदा असङ्गतमिदं वाक्यमापद्येत । ज्ञानविनाशवचनं मोह इत्याक्षेपे सङ्खयाद्यविनाशकथनस्य सङ्गत्यदर्शनात् । यदि च स्वरूपाविनाशो ऽनेनोक्त इति स्यात्तदा तस्य पूर्ववाक्येनैवोक्तत्वात् पुनरुक्तिदोषः स्यात् । अस्मत्पक्षे त्वस्ति सर्वेषां वाक्यानामुक्तरीत्या साफल्यम् । तस्माज्ज्ञानानन्दादिगुणानामेवानुच्छित्तिमाहेदं वाक्यमिति गम्यते । तद्बलाच्च न प्रेत्य संज्ञास्तीत्येतदपि उक्तार्थमेवेति । *१२,२८३* इतश्चैतदुक्ताथर्मेवेत्याह मात्रेति ॥ मात्रासंसर्गमप्याह तथा ॥। यथा धर्मानुच्छित्तिमाह तथा मीयन्त इति मात्रा रूपादयो विषयास्तेषां संसर्गमुपभोगलक्षणमप्यस्याह"मात्रासंसर्गस्त्वस्य भवतिऽ; इति वाक्येन । ततो न ज्ञानविलोपो व्याख्यातुं शक्यते । नेदं वाक्यं श्रुतावुपलभ्यत इत्यत उक्तम् माध्यन्दिनश्रुतिरिति ॥ ॥। माध्यन्दिनश्रुतिः

yat yasmājjñānarūpastāvadātmā tasya ca vijñānanāśo nāma tannāśa eva / nacātmanāśo 'sti / tathā sati mukterapuruṣārthatvaprasaṅgāt / ato na jñānanāśo 'sti / ata eva na madvacanaṃ tadartham, kiṃ tvamuktānāṃ muktaviṣaye saṃjñā nāsti, muktānāmeva vā vṛttirūpā saṃjñā nāstītyādireva madvacanārtha ityabhiprāyavānsvarūpānāśamūcivāniti sambandhaḥ / *12,281* astvevaṃ saṅgatistathāpi jñānaṃ na naśyatīti sākṣādanuktvaivaṃ vacanaṃ kimarthamityata āha śūnyeti // ... śūnyamatocchittyai ... na kevalamatra prameyanirūpaṇamātrārthaṃ pravṛtto yājñavalkyaḥ kintu parī(kṣāyāṃ)kṣayā / ata eva na pretya jñāyata iti viśadamanuktvā śaṅkotpādanāya na pretya saṃjñāstīti sādhāraṇaṃ vākyamāha / parīkṣā ca svānabhimatanirāsarūpā / ata evamuttare datte śūnyamatasyātmanāśalakṣaṇasya niraso 'pi kṛto bhavatīti tadarthaṃ svarūpānāśamūcivān / yadarthamādito vākyaṃ vyākhyātaṃ tadidānīmanucchittidharmetyetadvayācaṣṭe punariti // ... punarānandapūrvakān / dharmānāhāpyanucchinnāṃs ... svarūpānāśamuktvā punarapi muktasyānandapūvarkāndharmānanucchinnānāha yājñavalkyaḥ / svarūpānāśoktyaiva dharmānucchittisiddhau punaruktiriyamityata uktamānandapūrvakāniti / vākyopakrame vijñānaghana eveti vijñānasyātmasvarūpatvamuktaṃ na punarānandapūrvakāniti / vākyopakrame vijñānaghana eveti vijñānasyātmasvarūpatvamuktaṃ na punarānandapūrvakāṇām / ataḥ svarūpānāśoktyā vijñānāvināśa eva sujñāno nānandādyavināśaḥ / ataste 'pi vijñānavat ātmasvarūpabhūtā eva nocchidyante ityarthapratipattyarthamidaṃ vākyamiti / *12,282* tātparyāntaraṃ sūcayati tārkikairiti / ... tārkikairvinivāritān uktametatparīkṣāyāṃ pravṛtto yājñavalkya iti / ataḥ svarūpāvināśamaṅgīkṛtya ye tārkikā buddhisukhādīndharmānmuktasya vinivārayanti te 'pyasamīcīnavādina iti jñāpanāyedaṃ vākyamiti na paunaruktyadoṣaḥ / nanu svarūpāvināśoktyā dharmāvināśo 'pi siddha eva / satyam / svamatarītyā tat / tārkikāstu na jñānasukhādīnāmātmasvarūpatvaṃ manyante / ataḥ kimidānīṃ mokṣaprasaṅge teṣāmātmasvarūpatvopapādanena / ātmasvarūpaprakriyāyāṃ tadapi vaktavyamityāśayenānucchittirevokteti / idamatrākūtam / anucchittidharmeti yadi saṅkhayādidharmāṇāmanucchittiruktā syāt tadā asaṅgatamidaṃ vākyamāpadyeta / jñānavināśavacanaṃ moha ityākṣepe saṅkhayādyavināśakathanasya saṅgatyadarśanāt / yadi ca svarūpāvināśo 'nenokta iti syāttadā tasya pūrvavākyenaivoktatvāt punaruktidoṣaḥ syāt / asmatpakṣe tvasti sarveṣāṃ vākyānāmuktarītyā sāphalyam / tasmājjñānānandādiguṇānāmevānucchittimāhedaṃ vākyamiti gamyate / tadbalācca na pretya saṃjñāstītyetadapi uktārthameveti / *12,283* itaścaitaduktātharmevetyāha mātreti // mātrāsaṃsargamapyāha tathā ... yathā dharmānucchittimāha tathā mīyanta iti mātrā rūpādayo viṣayāsteṣāṃ saṃsargamupabhogalakṣaṇamapyasyāha"mātrāsaṃsargastvasya bhavati'; iti vākyena / tato na jñānavilopo vyākhyātuṃ śakyate / nedaṃ vākyaṃ śrutāvupalabhyata ityata uktam mādhyandinaśrutiriti // ... mādhyandinaśrutiḥ

Sanskrit only: no published translation is held for this verse.

मैत्रेयीयाज्ञवल्क्यसंवादरूपमिदं प्रकरणं काण्वमाध्यन्दिनश्रुत्योः समानम् । इदं तु वाक्यं यद्यपि काण्वश्रुतौ नास्ति तथापि माध्यन्दिनश्रुतावस्त्येवेति । *१२,२८४* इतो ऽपि संज्ञा नास्तीति वाक्यमुक्तार्थमेवेत्याह आचिक्षेपेति ॥ आचिक्षेप मतं तच्च यस्मिन् न विषयादनम् श्रुतिरिति वक्ष्यति । यत्र हि"द्वैतमिव भवतिऽ; इत्यादिरुत्तरा श्रुतिर्यस्मिन्मते मुक्तस्य न विषयादनं रूपादिविषयभोगो नास्तीत्यभ्युपगमस्तन्मतमाचिक्षेप निन्दितवतीति । ततश्च न तद्वाक्यं मुक्तस्य ज्ञानाभावं प्रतिपादयति । नहि ज्ञानरहितस्य घटकल्पस्य विषयसंसर्गो वा तदभावनिन्दा वोपपद्यते । कथमाचिक्षेपेति चेत् । उच्यते । यत्र यदि, द्वैतं भवति तत् तर्ह्येव, इतर इतरं पश्यतीत्यादिना व्याप्तिमभिधाय हिशब्देन तस्याः प्रमितत्वं चोक्त्वा यत्र यदि, तु , अस्यात्मनो ऽपेक्षितं सर्वमात्मैवाभूत् स्वव्यतिरिक्तं न स्यात् । तत् तर्हि केन साधनेन कम् अर्थं पश्येत । न केनापि किञ्चिदित्यनिष्यप्रसङ्गो ऽभिधीयते । *१२,२८५* एवं तर्हि यदि मुक्तौ द्वैतं न स्यात्तदा रूपदर्शनादिकं न भवेदिति तर्कितं भवति । तथाच द्वैताभावमतमनयाक्षिप्तं, न विषयभोगाभावमतमित्यत आह घ्राणादीति ॥ घ्राणादिभोगाभावस्य त्वनिष्टत्वहृदा श्रुतिः

maitreyīyājñavalkyasaṃvādarūpamidaṃ prakaraṇaṃ kāṇvamādhyandinaśrutyoḥ samānam / idaṃ tu vākyaṃ yadyapi kāṇvaśrutau nāsti tathāpi mādhyandinaśrutāvastyeveti / *12,284* ito 'pi saṃjñā nāstīti vākyamuktārthamevetyāha ācikṣepeti // ācikṣepa mataṃ tacca yasmin na viṣayādanam śrutiriti vakṣyati / yatra hi"dvaitamiva bhavati'; ityādiruttarā śrutiryasminmate muktasya na viṣayādanaṃ rūpādiviṣayabhogo nāstītyabhyupagamastanmatamācikṣepa ninditavatīti / tataśca na tadvākyaṃ muktasya jñānābhāvaṃ pratipādayati / nahi jñānarahitasya ghaṭakalpasya viṣayasaṃsargo vā tadabhāvanindā vopapadyate / kathamācikṣepeti cet / ucyate / yatra yadi, dvaitaṃ bhavati tat tarhyeva, itara itaraṃ paśyatītyādinā vyāptimabhidhāya hiśabdena tasyāḥ pramitatvaṃ coktvā yatra yadi, tu , asyātmano 'pekṣitaṃ sarvamātmaivābhūt svavyatiriktaṃ na syāt / tat tarhi kena sādhanena kam arthaṃ paśyeta / na kenāpi kiñcidityaniṣyaprasaṅgo 'bhidhīyate / *12,285* evaṃ tarhi yadi muktau dvaitaṃ na syāttadā rūpadarśanādikaṃ na bhavediti tarkitaṃ bhavati / tathāca dvaitābhāvamatamanayākṣiptaṃ, na viṣayabhogābhāvamatamityata āha ghrāṇādīti // ghrāṇādibhogābhāvasya tvaniṣṭatvahṛdā śrutiḥ

Sanskrit only: no published translation is held for this verse.

घ्राणादिना गन्धादेर्भोगो घ्राणादिभोगः । केन कमिति करणस्य कर्मणश्चोक्तत्वात् । तुशब्दो विशेषार्थः । हृदाभिप्रायेण । पूर्वेणैव सम्बन्धः । सत्यमेतत् शून्यमतं तार्किकमतं च निराकृत्याद्वैतमनया श्रुत्या निराक्रियत इति । तच्च विषयभोगाभावप्रसञ्जनेन । प्रसञ्जनीयं च तद्भवति यदनिष्यम् । अतो ऽद्वैतमते घ्राणादिभोगाभावं प्रसञ्जयन्ती श्रुतिस्तस्यानिष्टत्वमभिप्रैतीति गम्यते । अनिष्यं च तदुच्यते यदप्रामाणिकं प्रमाणविरुद्धं च । अतो विषयभोगाभावनिन्दा श्रुत्यभिप्रायव्याप्ता भवत्येवेति । *१२,२८६* भवेदेवमर्थापत्त्या विषयभोगाभावनिन्दावगमो यद्यत्राद्वैतमते विषयभोगाभावः प्रसञ्जनीयः स्यात् । न चैवम् । अपि तर्हि वस्तुस्थितिकथनमेतत् । तथाहि । अयमात्मा अविनाशी अत एवानुच्छित्तिस्तस्य धर्मः । मुक्तौ मात्राभिरसंसर्गस्तस्य भवति । कुतः । यत्र हि संसारे द्वैतमिव भवति तत्तत्रेतर इतरं पश्यतीत्यादि । यत्र तु मुक्तावस्य सर्वमात्मैवाभूत्स्वव्यतिरिक्तं किमपि नास्ति तत्र केन कं पश्येन्न केनापि न किमपीत्यद्वैतिनः । तत्राह येनेति ॥ येनेदमखिलं वेद विज्ञातारं स्वमेव च । केन तं च विजानीयादित्यनिष्टं हि सर्वथा

ghrāṇādinā gandhāderbhogo ghrāṇādibhogaḥ / kena kamiti karaṇasya karmaṇaścoktatvāt / tuśabdo viśeṣārthaḥ / hṛdābhiprāyeṇa / pūrveṇaiva sambandhaḥ / satyametat śūnyamataṃ tārkikamataṃ ca nirākṛtyādvaitamanayā śrutyā nirākriyata iti / tacca viṣayabhogābhāvaprasañjanena / prasañjanīyaṃ ca tadbhavati yadaniṣyam / ato 'dvaitamate ghrāṇādibhogābhāvaṃ prasañjayantī śrutistasyāniṣṭatvamabhipraitīti gamyate / aniṣyaṃ ca taducyate yadaprāmāṇikaṃ pramāṇaviruddhaṃ ca / ato viṣayabhogābhāvanindā śrutyabhiprāyavyāptā bhavatyeveti / *12,286* bhavedevamarthāpattyā viṣayabhogābhāvanindāvagamo yadyatrādvaitamate viṣayabhogābhāvaḥ prasañjanīyaḥ syāt / na caivam / api tarhi vastusthitikathanametat / tathāhi / ayamātmā avināśī ata evānucchittistasya dharmaḥ / muktau mātrābhirasaṃsargastasya bhavati / kutaḥ / yatra hi saṃsāre dvaitamiva bhavati tattatretara itaraṃ paśyatītyādi / yatra tu muktāvasya sarvamātmaivābhūtsvavyatiriktaṃ kimapi nāsti tatra kena kaṃ paśyenna kenāpi na kimapītyadvaitinaḥ / tatrāha yeneti // yenedamakhilaṃ veda vijñātāraṃ svameva ca / kena taṃ ca vijānīyādityaniṣṭaṃ hi sarvathā

Sanskrit only: no published translation is held for this verse.

येनेदमखिलं वेद तं च केन विजानीयात् विज्ञातारं च केन विजानीयादित्यनेन येनेदं सर्वं विजानाति तं च केन विजानीयात् विज्ञातारमरे केन विजानीयादिति वाक्यद्वयमुपादत्ते । विज्ञातारमित्येतत्स्वमेवेति व्याचष्टे । प्रथमवाक्यविषयं सूत्रस्य वक्ष्यति । इति वाक्यद्वयोक्तं विष्णुज्ञानराहित्यं स्वज्ञानराहित्यं च । एतदुक्तं भवति । अत्रान्ते येनेदमिति वाक्यद्वयं श्रूयते । तदर्थः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च तावदनिष्यो न वास्तवः । ततस्तत्प्रसङ्गकथनमेवेति ज्ञायते । तत्साहचर्यात्केन कं पश्येदित्यादिकमपि प्रसञ्जनमेव न वस्तुस्थितिकथनमिति ज्ञातव्यमिति । *१२,२८७* नन्वीश्वरस्तावत्सर्वथाप्यविशेष एव । यतो वाच इत्यादिश्रुतेः । जीवात्मा च न स्वविज्ञानी । एकस्यां क्रियायामेकस्यैव कर्तृकर्मभावस्य विरुद्धत्वात् । अतः परमेश्वरज्ञानाभावः स्वज्ञानाभावश्च कथमनिष्य इत्यतः परमेश्वरस्य सवर्थाप्यविज्ञेयत्वं तावन्निराकरोति नेति ॥ नाखिलज्ञापको विष्णुरज्ञेयो नियमेन हि अत्राखिलज्ञापक इत्यनेन येनेदमिति वाक्यार्थमनूद्य विष्णुरिति तस्य विषयो दर्शितः । प्रागव्याख्यातत्वात् । विष्णुं विनैतद्वाक्याथर्स्यासम्भवात् । हिशब्दस्तावदर्थे । विष्णुर्नियमेन सर्वथाप्यज्ञेय इति तावन्न भवति । कुत इत्यत आह तदिति ॥ *१२,२८८* तज्ज्ञानार्थं हि वेदानामखिलानां प्रवर्तनम्

yenedamakhilaṃ veda taṃ ca kena vijānīyāt vijñātāraṃ ca kena vijānīyādityanena yenedaṃ sarvaṃ vijānāti taṃ ca kena vijānīyāt vijñātāramare kena vijānīyāditi vākyadvayamupādatte / vijñātāramityetatsvameveti vyācaṣṭe / prathamavākyaviṣayaṃ sūtrasya vakṣyati / iti vākyadvayoktaṃ viṣṇujñānarāhityaṃ svajñānarāhityaṃ ca / etaduktaṃ bhavati / atrānte yenedamiti vākyadvayaṃ śrūyate / tadarthaḥ parameśvarajñānābhāvaḥ svajñānābhāvaśca tāvadaniṣyo na vāstavaḥ / tatastatprasaṅgakathanameveti jñāyate / tatsāhacaryātkena kaṃ paśyedityādikamapi prasañjanameva na vastusthitikathanamiti jñātavyamiti / *12,287* nanvīśvarastāvatsarvathāpyaviśeṣa eva / yato vāca ityādiśruteḥ / jīvātmā ca na svavijñānī / ekasyāṃ kriyāyāmekasyaiva kartṛkarmabhāvasya viruddhatvāt / ataḥ parameśvarajñānābhāvaḥ svajñānābhāvaśca kathamaniṣya ityataḥ parameśvarasya savarthāpyavijñeyatvaṃ tāvannirākaroti neti // nākhilajñāpako viṣṇurajñeyo niyamena hi atrākhilajñāpaka ityanena yenedamiti vākyārthamanūdya viṣṇuriti tasya viṣayo darśitaḥ / prāgavyākhyātatvāt / viṣṇuṃ vinaitadvākyātharsyāsambhavāt / hiśabdastāvadarthe / viṣṇurniyamena sarvathāpyajñeya iti tāvanna bhavati / kuta ityata āha taditi // *12,288* tajjñānārthaṃ hi vedānāmakhilānāṃ pravartanam

Sanskrit only: no published translation is held for this verse.

सर्वे वेदा इत्यादेरिति शेषः । विष्णोः सर्वथाप्यज्ञेयत्वे ऽखिलवेदवैयर्थ्यप्रसङ्गाद्यतो वाच इत्यादिकमन्यथा व्याख्येयमिति भावः । एवं परमात्मनो ज्ञेयत्वमुपपाद्य जीवात्मनः स्वज्ञानमुपपादयति प्रत्यक्षमिति ॥ प्रत्यक्षागमात्मविज्ञानाविरोधानुभवादपि । न स्वविज्ञानितायां च विरोधः कश्चनेयते

sarve vedā ityāderiti śeṣaḥ / viṣṇoḥ sarvathāpyajñeyatve 'khilavedavaiyarthyaprasaṅgādyato vāca ityādikamanyathā vyākhyeyamiti bhāvaḥ / evaṃ paramātmano jñeyatvamupapādya jīvātmanaḥ svajñānamupapādayati pratyakṣamiti // pratyakṣāgamātmavijñānāvirodhānubhavādapi / na svavijñānitāyāṃ ca virodhaḥ kaścaneyate

Sanskrit only: no published translation is held for this verse.

क्रियाविशेषणमेतत् । आत्मविज्ञानं चाविरोधश्चेति द्वन्द्वः । अविरोधश्च प्रसङ्गादात्मा विज्ञान एव । तयोरनुभवः । स च प्रत्यक्षरूपः तस्मात् । अपिपदेन श्रुत्यादिग्रहणम् । स्वविज्ञानितायां जीवस्य कश्चन विरोधो नेयते । न काप्यनुपपत्तिः प्रतीयते । आत्मविज्ञानानुभवस्तावत् मामहं जानामीति साक्षिरूपः प्रसिद्ध एव । यथा घटमहं जानामीत्यत्र न काचिदनुपपत्तिः प्रतीयते । किं त्वनुपलम्भसनाथेन साक्षिणानुपपत्त्यभाव एव साक्षात्क्रियते । तथा तदविशिष्ये मामहं जानामीति ज्ञाने ऽपि । श्रुतयो ऽपि"अहमित्येव यो वेद्यःऽ; इत्याद्याः । यदि चात्मा न स्वात्मानं जानीयात्तदा ममेदमिष्यसाधनमित्यादिज्ञानाभावात्तथाविधेच्छाप्रयत्नयोरप्यभावात्सर्वप्रवृत्तिनिवृत्तिविलोपप्रसङ्गः । स्वप्रकाशत्वं ज्ञानाश्रयतया प्रकाशमानत्वं च न स्वज्ञानातिरेकेणोपपद्यत इति । *१२,२९०* छिदादिषु कर्तृकर्मणोर्भेददशर्नात्तदेकत्वाभ्युपगमो विरुद्ध इति यदुक्तं तन्निराकरोति कर्तृकर्मेति ॥ कर्तृकर्मविरोधश्च नित्यानुभवविरोधतः । कथमेव पदं गच्छेद् विरोधो दृष्टबाधनम्

kriyāviśeṣaṇametat / ātmavijñānaṃ cāvirodhaśceti dvandvaḥ / avirodhaśca prasaṅgādātmā vijñāna eva / tayoranubhavaḥ / sa ca pratyakṣarūpaḥ tasmāt / apipadena śrutyādigrahaṇam / svavijñānitāyāṃ jīvasya kaścana virodho neyate / na kāpyanupapattiḥ pratīyate / ātmavijñānānubhavastāvat māmahaṃ jānāmīti sākṣirūpaḥ prasiddha eva / yathā ghaṭamahaṃ jānāmītyatra na kācidanupapattiḥ pratīyate / kiṃ tvanupalambhasanāthena sākṣiṇānupapattyabhāva eva sākṣātkriyate / tathā tadaviśiṣye māmahaṃ jānāmīti jñāne 'pi / śrutayo 'pi"ahamityeva yo vedyaḥ'; ityādyāḥ / yadi cātmā na svātmānaṃ jānīyāttadā mamedamiṣyasādhanamityādijñānābhāvāttathāvidhecchāprayatnayorapyabhāvātsarvapravṛttinivṛttivilopaprasaṅgaḥ / svaprakāśatvaṃ jñānāśrayatayā prakāśamānatvaṃ ca na svajñānātirekeṇopapadyata iti / *12,290* chidādiṣu kartṛkarmaṇorbhedadaśarnāttadekatvābhyupagamo viruddha iti yaduktaṃ tannirākaroti kartṛkarmeti // kartṛkarmavirodhaśca nityānubhavavirodhataḥ / kathameva padaṃ gacched virodho dṛṣṭabādhanam

Sanskrit only: no published translation is held for this verse.

एकस्यां क्रियायां कर्तृकर्मत्वयोर्विरोधः कर्तृकर्मविरोधः । नित्यानुभवः उक्तसाक्ष्यनुभवः । पदम् आस्पदम् प्रकृत इति शेषः । अयमाशयः । उक्तमेतल्लिङ्गपादे । यत्कर्तृकर्मणोर्भेद इत्यौत्सर्गिको ऽयं न्यायः । अपवादे सत्यभेदो ऽपि भवतीति । अत्र च मामहं जानामीति साक्ष्यनुभवविरोधान्नायमस्य न्यायस्य विषयः । किन्तु यत्रादृष्टबाधनं प्रमाणविरोधाभावस्तत्रैवायं विरोधः प्रवर्तते । यथाङ्गुल्यग्रेणाङ्गुल्यग्रस्पर्शने । यथा वासिधारयासिधाराछेदन इति । *१२,२९१* अस्त्वेवमीश्वरस्य ज्ञेयत्वं, जीवस्य च स्वज्ञानित्वम् । तथापि मुक्तौ तज्ज्ञानाभावः कथमनिष्य इति चेत् । उच्यते । "नात्मानं न परांश्चैव न सत्यं नापि चानृतम् । प्राज्ञः किञ्चन संवेत्ति तुर्यं तत्सर्वदृक् सदाऽ; इति श्रुतौ स्वज्ञानमीश्वरज्ञानं च नास्तीत्यभिधाय मुक्तस्य तु तदस्तीत्युच्यते । अतस्तदभावः प्रमाणविरुद्ध इति कथं नानिष्यः । न केवलमेवमनिष्यप्रकरणाद्विषयभोगाभावस्यानिष्टत्वं गम्यते किन्तु विषयभोगस्यापि श्रुतिसिद्धत्वाच्चेत्याह स इति ॥ सो ऽश्नुते सर्वकामंश्च कामान्नी कामरूप्यथ । इत्यादिश्रुतयश्चोक्तमर्थमेव वदन्ति हि

ekasyāṃ kriyāyāṃ kartṛkarmatvayorvirodhaḥ kartṛkarmavirodhaḥ / nityānubhavaḥ uktasākṣyanubhavaḥ / padam āspadam prakṛta iti śeṣaḥ / ayamāśayaḥ / uktametalliṅgapāde / yatkartṛkarmaṇorbheda ityautsargiko 'yaṃ nyāyaḥ / apavāde satyabhedo 'pi bhavatīti / atra ca māmahaṃ jānāmīti sākṣyanubhavavirodhānnāyamasya nyāyasya viṣayaḥ / kintu yatrādṛṣṭabādhanaṃ pramāṇavirodhābhāvastatraivāyaṃ virodhaḥ pravartate / yathāṅgulyagreṇāṅgulyagrasparśane / yathā vāsidhārayāsidhārāchedana iti / *12,291* astvevamīśvarasya jñeyatvaṃ, jīvasya ca svajñānitvam / tathāpi muktau tajjñānābhāvaḥ kathamaniṣya iti cet / ucyate / "nātmānaṃ na parāṃścaiva na satyaṃ nāpi cānṛtam / prājñaḥ kiñcana saṃvetti turyaṃ tatsarvadṛk sadā'; iti śrutau svajñānamīśvarajñānaṃ ca nāstītyabhidhāya muktasya tu tadastītyucyate / atastadabhāvaḥ pramāṇaviruddha iti kathaṃ nāniṣyaḥ / na kevalamevamaniṣyaprakaraṇādviṣayabhogābhāvasyāniṣṭatvaṃ gamyate kintu viṣayabhogasyāpi śrutisiddhatvāccetyāha sa iti // so 'śnute sarvakāmaṃśca kāmānnī kāmarūpyatha / ityādiśrutayaścoktamarthameva vadanti hi

Sanskrit only: no published translation is held for this verse.

अथ मुक्तेरनन्तरमिति श्रुतिद्वयस्योपक्रमे सम्बद्धयते । उक्तमेवार्थं मुक्तस्य विषयभोगसद्भावम् । अत एव मात्राभिरसंसर्ग इति व्याख्यानमसदेवेति । *१२,२९२* स्यादेतत् । यत्र हि द्वैतमिव भवतीति इवशब्देन द्वैताभावः प्रतिपाद्यते तत्कथं द्वैताभावे ऽनिष्यप्रसङ्गाभिधानमेतदित्यत आह अस्वातन्त्र्यादिति ॥ *१२,२९३* अस्वातन्त्र्यादिवेत्युक्तं न द्वैताभावतः क्वचित् द्वैतस्यास्वातन्त्र्यमभिप्रेत्य द्वैतमिवेत्युक्तम् । नतु द्वैताभावमभिप्रेत्य । कुतः । क्वचिदभिधानादाविवशब्दस्याभाववाचितानुक्तेरित्यर्थः । अस्वातन्त्र्यं चात्र स्वरूपमात्रमुक्तम् । इवशब्दस्याभावार्थत्वे बाधकं चाह आत्मैवेति । आत्मैवाभूदिति ह्यस्मादविशेषप्रसङ्गतः

atha mukteranantaramiti śrutidvayasyopakrame sambaddhayate / uktamevārthaṃ muktasya viṣayabhogasadbhāvam / ata eva mātrābhirasaṃsarga iti vyākhyānamasadeveti / *12,292* syādetat / yatra hi dvaitamiva bhavatīti ivaśabdena dvaitābhāvaḥ pratipādyate tatkathaṃ dvaitābhāve 'niṣyaprasaṅgābhidhānametadityata āha asvātantryāditi // *12,293* asvātantryādivetyuktaṃ na dvaitābhāvataḥ kvacit dvaitasyāsvātantryamabhipretya dvaitamivetyuktam / natu dvaitābhāvamabhipretya / kutaḥ / kvacidabhidhānādāvivaśabdasyābhāvavācitānukterityarthaḥ / asvātantryaṃ cātra svarūpamātramuktam / ivaśabdasyābhāvārthatve bādhakaṃ cāha ātmaiveti / ātmaivābhūditi hyasmādaviśeṣaprasaṅgataḥ

Sanskrit only: no published translation is held for this verse.

अभेदभेदेति प्रतीयोगिद्वयोपलक्षणम् । इवान्त एकस्मिन्नुक्ते तत्प्रतियोगी द्वितीयो ऽपि लभ्यत इत्यर्थः । नन्वस्माकमुपमायामेवेवशब्दः । द्वैताभावस्त्वर्थसिद्धः । यथा गौरिव गवय इत्युक्ते गवयस्य गोत्वाभावो ऽवगम्यत इति चेत् । तर्हि द्वैतसदृशं किं तदिति वाच्यम् । कल्पितं द्वैतमिति चेन्न । तस्य सत्ताभावेन भवतीत्यनुपपत्तेः । भवनमपि तस्य काल्पनिकमिति चेत् । एवं तर्हि यदि द्वैतदर्शनं स्यादिति स्यात् । तथा चेतर इतरं पश्यतीत्येतदपि तदेवेति न हेतुहेतुमद्भावो ऽवकल्प्यत इति । *१२,२९५* न प्रेत्य संज्ञास्तीति वाक्यस्य मुक्तो न जानातीत्येवार्थमङ्गीकृत्याविनाशीत्यादिवाक्यान्य(प्य)न्यथा व्याकुर्वतो बाधकमाह मैत्रेयीति ॥ ॥। मैत्रेय्युक्तोत्तरं च किम्

abhedabhedeti pratīyogidvayopalakṣaṇam / ivānta ekasminnukte tatpratiyogī dvitīyo 'pi labhyata ityarthaḥ / nanvasmākamupamāyāmevevaśabdaḥ / dvaitābhāvastvarthasiddhaḥ / yathā gauriva gavaya ityukte gavayasya gotvābhāvo 'vagamyata iti cet / tarhi dvaitasadṛśaṃ kiṃ taditi vācyam / kalpitaṃ dvaitamiti cenna / tasya sattābhāvena bhavatītyanupapatteḥ / bhavanamapi tasya kālpanikamiti cet / evaṃ tarhi yadi dvaitadarśanaṃ syāditi syāt / tathā cetara itaraṃ paśyatītyetadapi tadeveti na hetuhetumadbhāvo 'vakalpyata iti / *12,295* na pretya saṃjñāstīti vākyasya mukto na jānātītyevārthamaṅgīkṛtyāvināśītyādivākyānya(pya)nyathā vyākurvato bādhakamāha maitreyīti // ... maitreyyuktottaraṃ ca kim

Sanskrit only: no published translation is held for this verse.

न प्रेत्य संज्ञास्तीति वाक्यं श्रुत्वा मैत्रेय्योक्तमत्रैव मा भवानित्यादि । तत्तावन्नाहृदयं निर्दलाक्षेपकरणे ऽसुज्ञत्वप्रसङ्गात् । ततः प्रज्ञानघन इत्यात्मनो ज्ञानस्वरूपत्वमभिधायेदानीं ज्ञानाभावं वदतस्तव वाक्यं मोहकमित्यभिप्रायः कल्प्यः । अपुरुषार्थत्वप्रसङ्गो वा । यथोक्तं"संज्ञानाशो यदि भवेत्किं मुक्त्या नः प्रयोजनम् । मोहं मां प्राणयामास भवानत्रेति चोदितःऽ; इति । अन्यथाव्याख्याने मैत्रेय्युक्तं निरुत्तरं प्रसज्येत । न ह्येतैर्वाक्यैः स्ववचनव्याघातः परिहृतो नापि पुरुषार्थता समर्थितेति । *१२,२९७* एवं साङ्खयनैयायिकाद्यभिमतस्य मोक्षस्याप्रामाणिकत्वमभिधाय, यदुक्तं मोक्षस्यापुरुषार्थत्वप्रसङ्ग इति तत्प्रपञ्चयति सुखादीति ॥ सुखादिधर्महानौ तु मुक्तेः किञ्च प्रयोजनम् सुखादिधर्महानौ मुक्तित्वेनाङ्गीकृतायामिति शेषः । तुशब्दः स्वपक्षाद्विशिनष्टि । परस्यापाद्यमानो दोषः स्वमते नास्तीत्याशयः । मुक्तेरिति सम्बन्धमात्रे षष्ठी । किमाक्षेपे । चशब्दो ऽप्रामाणिकत्वेन समुच्चयार्थः । प्रयुज्यते प्रवर्त्यते पुरुषो ऽनेनेति प्रयोजनम् । मुक्तेः प्रयोजनं किमिति । मुक्त्यर्थे पुरुषं प्रवर्तयत्किमपि नास्तीत्यर्थः । *१२,२९८* द्विविधं प्रयोजनम् । इष्यावाप्तिरनिष्यनिवृत्तिश्च । तत्र यद्यपि मुक्तिरिष्यप्राप्तिरूपा न भवति तथाप्यनिष्यनिवृत्तिरूपा भवत्येव । अतः पुरुषेणार्थ्यत इत्याशङ्कते यदीति ॥ यद्यर्थो दुःखहानिः स्याद् ॥। दुःखहानिरूपा मुक्तिः पुरुषस्यार्थो ऽर्थनीयः स्यादिति यदि ब्रूषे । अत्रोच्यते । भवत्यनिष्यनिवृत्तिः पुरुषार्थः । मुक्तिश्च समस्तदुःखहानिस्तथापि न पुरुषार्थः कथमित्यत आह अनर्थ इति ॥ ॥। अनर्थः सुखनाशनम्

na pretya saṃjñāstīti vākyaṃ śrutvā maitreyyoktamatraiva mā bhavānityādi / tattāvannāhṛdayaṃ nirdalākṣepakaraṇe 'sujñatvaprasaṅgāt / tataḥ prajñānaghana ityātmano jñānasvarūpatvamabhidhāyedānīṃ jñānābhāvaṃ vadatastava vākyaṃ mohakamityabhiprāyaḥ kalpyaḥ / apuruṣārthatvaprasaṅgo vā / yathoktaṃ"saṃjñānāśo yadi bhavetkiṃ muktyā naḥ prayojanam / mohaṃ māṃ prāṇayāmāsa bhavānatreti coditaḥ'; iti / anyathāvyākhyāne maitreyyuktaṃ niruttaraṃ prasajyeta / na hyetairvākyaiḥ svavacanavyāghātaḥ parihṛto nāpi puruṣārthatā samarthiteti / *12,297* evaṃ sāṅkhayanaiyāyikādyabhimatasya mokṣasyāprāmāṇikatvamabhidhāya, yaduktaṃ mokṣasyāpuruṣārthatvaprasaṅga iti tatprapañcayati sukhādīti // sukhādidharmahānau tu mukteḥ kiñca prayojanam sukhādidharmahānau muktitvenāṅgīkṛtāyāmiti śeṣaḥ / tuśabdaḥ svapakṣādviśinaṣṭi / parasyāpādyamāno doṣaḥ svamate nāstītyāśayaḥ / mukteriti sambandhamātre ṣaṣṭhī / kimākṣepe / caśabdo 'prāmāṇikatvena samuccayārthaḥ / prayujyate pravartyate puruṣo 'neneti prayojanam / mukteḥ prayojanaṃ kimiti / muktyarthe puruṣaṃ pravartayatkimapi nāstītyarthaḥ / *12,298* dvividhaṃ prayojanam / iṣyāvāptiraniṣyanivṛttiśca / tatra yadyapi muktiriṣyaprāptirūpā na bhavati tathāpyaniṣyanivṛttirūpā bhavatyeva / ataḥ puruṣeṇārthyata ityāśaṅkate yadīti // yadyartho duḥkhahāniḥ syād ... duḥkhahānirūpā muktiḥ puruṣasyārtho 'rthanīyaḥ syāditi yadi brūṣe / atrocyate / bhavatyaniṣyanivṛttiḥ puruṣārthaḥ / muktiśca samastaduḥkhahānistathāpi na puruṣārthaḥ kathamityata āha anartha iti // ... anarthaḥ sukhanāśanam

Sanskrit only: no published translation is held for this verse.

सुखनाशरूपो ऽनर्थो ऽप्यस्ति यतः । इदमुक्तं भवति । केवलस्य दुःखस्यात्यन्तिकी निवृत्तिर्भवति पुरुषार्थः, इयं तु दुःखवत् सुखस्याप्यात्यन्तिकी निवृत्तिरिति कथं पुरुषाथर्ः । अनिष्यनिवृत्त्याशया प्रवृत्तौ इष्यनिवृत्तिभिया निवृत्त्यापत्तेः । दुःखशबलसुखहानौ सुखशबलदुःखोपादानप्राप्तेश्च । *१२,२९९* यदत्रोक्तं"यस्य दुःखमुपादेयं तस्य हेयं किमुच्यताम् । हेयहीनस्य का मुक्तिः केन चाप्युपदिश्यतेऽ; इति, तदिदमसङ्गतम् । नहि वयं दुःखस्योपादेयत्वमुपपादयामः । किन्तु समव्ययफलत्वेन विनिगमने कारणाभावान्न प्रवृत्त्युपपत्तिरिति ब्रूमः । यथोक्तम्"असत्यानि दुरन्तानि समव्यवफलानि च । अशक्यानि च वस्तूनि नारभेत विचक्षणःऽ; इति । अङ्गीकृत्यैव समव्ययफलत्वमुक्तम् । वस्तुतस्तु आयादपि व्ययो गरीयानित्याह तयोश्चेति ॥ तयोश्च दुःखहानाद्धि सुखनाशो ऽधिको भवेत्

sukhanāśarūpo 'nartho 'pyasti yataḥ / idamuktaṃ bhavati / kevalasya duḥkhasyātyantikī nivṛttirbhavati puruṣārthaḥ, iyaṃ tu duḥkhavat sukhasyāpyātyantikī nivṛttiriti kathaṃ puruṣātharḥ / aniṣyanivṛttyāśayā pravṛttau iṣyanivṛttibhiyā nivṛttyāpatteḥ / duḥkhaśabalasukhahānau sukhaśabaladuḥkhopādānaprāpteśca / *12,299* yadatroktaṃ"yasya duḥkhamupādeyaṃ tasya heyaṃ kimucyatām / heyahīnasya kā muktiḥ kena cāpyupadiśyate'; iti, tadidamasaṅgatam / nahi vayaṃ duḥkhasyopādeyatvamupapādayāmaḥ / kintu samavyayaphalatvena vinigamane kāraṇābhāvānna pravṛttyupapattiriti brūmaḥ / yathoktam"asatyāni durantāni samavyavaphalāni ca / aśakyāni ca vastūni nārabheta vicakṣaṇaḥ'; iti / aṅgīkṛtyaiva samavyayaphalatvamuktam / vastutastu āyādapi vyayo garīyānityāha tayośceti // tayośca duḥkhahānāddhi sukhanāśo 'dhiko bhavet

Sanskrit only: no published translation is held for this verse.

यतो जान्धिकादिर्जनः सुमहद्दुःखं प्राप्यापि सुखलेशाप्तये यतते । तस्मादल्पस्यापि सुखस्य हानौ महतो ऽपि दुःखस्य मोक्षाय कः पुमान्यतेत न को ऽपि । अभ्युपगमवादश्चायम् । नहि सांसारिकसुखस्य दुःखापेक्षयाल्पत्वं प्रमितम् । कस्मिंश्चन जन्मन्ययं (दरिद्रो)(दुर्भगो) दुःखितो भवति कस्मिंश्चित्सार्वभौमः कदाचिन्नरकमनुभवति कदाचित्स्वर्गम् । या च मोक्षशास्त्रेषु सांसारिकसुखनिन्दा सा निरस्तसमस्तदुःखं मोक्षगतं परमानन्दमपेक्ष्याल्पत्वाभिप्रायेणेति । *१२,३०३* महादुःखहानादल्पं सुखं गरीय इत्येतत्प्रकारान्तरेणोपपादयति अल्पाच्चेति ॥ अल्पाच्च सुखानाशाद्धि बिभेत्यतितरां जनः । महच्च दुःखमाप्नोति सुखनाशनिवृत्तये

yato jāndhikādirjanaḥ sumahadduḥkhaṃ prāpyāpi sukhaleśāptaye yatate / tasmādalpasyāpi sukhasya hānau mahato 'pi duḥkhasya mokṣāya kaḥ pumānyateta na ko 'pi / abhyupagamavādaścāyam / nahi sāṃsārikasukhasya duḥkhāpekṣayālpatvaṃ pramitam / kasmiṃścana janmanyayaṃ (daridro)(durbhago) duḥkhito bhavati kasmiṃścitsārvabhaumaḥ kadācinnarakamanubhavati kadācitsvargam / yā ca mokṣaśāstreṣu sāṃsārikasukhanindā sā nirastasamastaduḥkhaṃ mokṣagataṃ paramānandamapekṣyālpatvābhiprāyeṇeti / *12,303* mahāduḥkhahānādalpaṃ sukhaṃ garīya ityetatprakārāntareṇopapādayati alpācceti // alpācca sukhānāśāddhi bibhetyatitarāṃ janaḥ / mahacca duḥkhamāpnoti sukhanāśanivṛttaye

Sanskrit only: no published translation is held for this verse.

अल्पस्यापि सुखस्य (हानादि)नाशादिति यावत् । सुखनाशनिवृत्तय इति । प्रसक्तस्य सुखनाशहेतोर्निवृत्तय इत्यर्थः । उदाहरणानि तु लोके स्पष्टान्येव कथं तर्हि मधुविषसम्पृक्तान्न(भोजन)परित्याग इति चेत् । बहुतरसुखहानिप्राप्तेरिति ब्रूमः । अन्यथा परेणापि व्यवस्थायाः कतर्व्यत्वात् । *१२,३०४* स्यादेतत् । द्विविधाः पुरुषाः रागिणो वीतरागाश्च । तत्र रागिणः सुखार्थं दुःखमप्यनुभवन्ति । ते हि मधुविषसम्पृक्तमप्यन्नं मधुतयाऽपातरमणीयं विष(विषंगा)संयोगात्तु मारयतु मा वा मीमरदुप(भुंज्महे)युंक्ष्महे तावदापातसुखं को हि हस्तगतं पादगतं करोतीति विचिन्त्योपभुञ्जते । वीतरागास्त्वा(यति)पत्तिमालोचयन्तः स्वगर्मपि कुपितभोगिफणमण्डलच्छायाप्रतिममित्यपजहतीत्यत आह नचेति ॥ न च रागनिमित्तं तद् ॥। स्फुटमिति नारदादीनां वीतरागत्वं श्रुत्यादिप्रसिद्धमित्यर्थः । अञ्जसेति श्रवणादल्पाय सुखरूपार्थायेति योज्यम् । यस्मादिति वक्ष्यमाणमिहापि सम्बद्धयते । एतत्कुत इत्यत आह युद्धादीति ॥ *१२,३०५* युद्धादिदर्शनं यस्मात् सुदुःखेनापि कुवर्ते

alpasyāpi sukhasya (hānādi)nāśāditi yāvat / sukhanāśanivṛttaya iti / prasaktasya sukhanāśahetornivṛttaya ityarthaḥ / udāharaṇāni tu loke spaṣṭānyeva kathaṃ tarhi madhuviṣasampṛktānna(bhojana)parityāga iti cet / bahutarasukhahāniprāpteriti brūmaḥ / anyathā pareṇāpi vyavasthāyāḥ katarvyatvāt / *12,304* syādetat / dvividhāḥ puruṣāḥ rāgiṇo vītarāgāśca / tatra rāgiṇaḥ sukhārthaṃ duḥkhamapyanubhavanti / te hi madhuviṣasampṛktamapyannaṃ madhutayā'pātaramaṇīyaṃ viṣa(viṣaṃgā)saṃyogāttu mārayatu mā vā mīmaradupa(bhuṃjmahe)yuṃkṣmahe tāvadāpātasukhaṃ ko hi hastagataṃ pādagataṃ karotīti vicintyopabhuñjate / vītarāgāstvā(yati)pattimālocayantaḥ svagarmapi kupitabhogiphaṇamaṇḍalacchāyāpratimamityapajahatītyata āha naceti // na ca rāganimittaṃ tad ... sphuṭamiti nāradādīnāṃ vītarāgatvaṃ śrutyādiprasiddhamityarthaḥ / añjaseti śravaṇādalpāya sukharūpārthāyeti yojyam / yasmāditi vakṣyamāṇamihāpi sambaddhayate / etatkuta ityata āha yuddhādīti // *12,305* yuddhādidarśanaṃ yasmāt suduḥkhenāpi kuvarte

Sanskrit only: no published translation is held for this verse.

नैवाजर्हुर्युद्धदर्शनं युद्धरसाद्युद्धदर्शननिमित्तात्सुखात्कारणात् । यदाशब्दस्य पूर्वत्रोत्तरत्र वा सम्बन्धः । यस्मादिति अत्रापि सम्बद्धयते । *१२,३०६* इदमत्राकूतम् । अत्र रागशब्देन किं सुखेच्छाभिप्रेता । उत लक्षणया अविवेकः । आद्ये सत्यमेतत् । किन्तु मुमुक्षवो ऽपि रागिण एव । रागिणां कथं मुक्तिरिति चेत् द्वेषिणामपि कथम् । दुःखद्वेषाद्धि ते दुःखं जहति । अस्थाने द्वेषो बन्धक इत्रत चेत् । रागो ऽपि तथेति समानम् । किञ्च दुःखोच्छेदे रागः परेणापि स्वीकार्यः । न दुःखद्वेषो ऽसौ किन्तु निर्वेद एवेति चेत् । तर्हि न सुखरागो ऽसौ अपि तु श्रद्धैवेति वदामः । द्वितीये तु नारदादयो निदर्शनम् । ते ऽपि तदाविवेकिन इति चेत् । कथमेतद्विज्ञातं लौकिकवैदि(कलो)कोत्तरप्रज्ञेनेति । *१२,३०७* नच रागेत्यादिनोक्तमुपसंहरति तस्मादिति ॥ ॥। तस्मात् सुखाभावस्य को यतेत्

naivājarhuryuddhadarśanaṃ yuddharasādyuddhadarśananimittātsukhātkāraṇāt / yadāśabdasya pūrvatrottaratra vā sambandhaḥ / yasmāditi atrāpi sambaddhayate / *12,306* idamatrākūtam / atra rāgaśabdena kiṃ sukhecchābhipretā / uta lakṣaṇayā avivekaḥ / ādye satyametat / kintu mumukṣavo 'pi rāgiṇa eva / rāgiṇāṃ kathaṃ muktiriti cet dveṣiṇāmapi katham / duḥkhadveṣāddhi te duḥkhaṃ jahati / asthāne dveṣo bandhaka itrata cet / rāgo 'pi tatheti samānam / kiñca duḥkhocchede rāgaḥ pareṇāpi svīkāryaḥ / na duḥkhadveṣo 'sau kintu nirveda eveti cet / tarhi na sukharāgo 'sau api tu śraddhaiveti vadāmaḥ / dvitīye tu nāradādayo nidarśanam / te 'pi tadāvivekina iti cet / kathametadvijñātaṃ laukikavaidi(kalo)kottaraprajñeneti / *12,307* naca rāgetyādinoktamupasaṃharati tasmāditi // ... tasmāt sukhābhāvasya ko yatet

Sanskrit only: no published translation is held for this verse.

वीतरागो ऽपीति शेषः । *१२,३०८* एवं परनिरूपिते मोक्षे दुःखाभावमभ्युपेत्य तत्र प्रवृत्त्यभावप्रसङ्गो ऽभिहितः । इदानीं तु दुःखाभावो ऽपि नोपपद्यत इत्याह विमत इति ॥ विमतो दुःखयुग् यस्माच्चेतनः सन् सुखोज्खितः । प्रतिपन्नो यथेत्येव चानुमा केन वार्यते

vītarāgo 'pīti śeṣaḥ / *12,308* evaṃ paranirūpite mokṣe duḥkhābhāvamabhyupetya tatra pravṛttyabhāvaprasaṅgo 'bhihitaḥ / idānīṃ tu duḥkhābhāvo 'pi nopapadyata ityāha vimata iti // vimato duḥkhayug yasmāccetanaḥ san sukhojkhitaḥ / pratipanno yathetyeva cānumā kena vāryate

Sanskrit only: no published translation is held for this verse.

मुक्तत्वेन पराभ्युपगतो ऽत्र पक्षः । दुःखयुगित्यापाद्यम् । यस्माच्चेतनः सन्त्सुखोज्खित इत्यापादकम् । घटादौ व्यभिचारनिरासाय चेतनः सन्नित्युक्तम् । अत्र चेतन इत्यात्मत्वोपलक्षणमिति नापादकसिद्धिः । स्वर्गवासिष्वनैकान्त्यपरिहाराय सुखोज्खित इति । ईश्वरस्यापि सुखसाधनान्न तत्र व्यभिचारः । प्रतिपन्नो नारकी यथा । एवशब्दः प्रतिज्ञया सम्बद्धयते । न चेयं साधनानुमा येन बाधादिकस्यावसरः किन्तु प्रसङ्गानुमैव । तदिदमाह इत्यनुमा केन वार्यत इति । यदि मुक्तः सुखी न स्यात्तदानात्मा वा दुःखी वा स्यात् सम्मतवदित्यादयो ऽपि अतिप्रसङ्गा द्रष्टव्याः । *१२,३११* यदुक्तं प्राक् श्रुतयो यत इति तदिदानीं प्रपञ्चयति सर्वेति ॥ सर्वश्रुतिपुराणेषु सुखभावोक्तितस्तथा । मुक्तौ न ग्राह्यमेवैतत् सुखाभावमतं बुधैः

muktatvena parābhyupagato 'tra pakṣaḥ / duḥkhayugityāpādyam / yasmāccetanaḥ santsukhojkhita ityāpādakam / ghaṭādau vyabhicāranirāsāya cetanaḥ sannityuktam / atra cetana ityātmatvopalakṣaṇamiti nāpādakasiddhiḥ / svargavāsiṣvanaikāntyaparihārāya sukhojkhita iti / īśvarasyāpi sukhasādhanānna tatra vyabhicāraḥ / pratipanno nārakī yathā / evaśabdaḥ pratijñayā sambaddhayate / na ceyaṃ sādhanānumā yena bādhādikasyāvasaraḥ kintu prasaṅgānumaiva / tadidamāha ityanumā kena vāryata iti / yadi muktaḥ sukhī na syāttadānātmā vā duḥkhī vā syāt sammatavadityādayo 'pi atiprasaṅgā draṣṭavyāḥ / *12,311* yaduktaṃ prāk śrutayo yata iti tadidānīṃ prapañcayati sarveti // sarvaśrutipurāṇeṣu sukhabhāvoktitastathā / muktau na grāhyamevaitat sukhābhāvamataṃ budhaiḥ

Sanskrit only: no published translation is held for this verse.

तथाशब्दः समुच्चये । तानि श्रुत्यादीन्युदाहरति स इति ॥ सो ऽनानन्दाद् विमुक्तः सन्नानन्दी भवति स्फुटम् । निर्गुणे ब्रह्मणि मयि धारयन् विशदं मनः । परमानन्दमाप्नोति यत्र कामो ऽवसीयते

tathāśabdaḥ samuccaye / tāni śrutyādīnyudāharati sa iti // so 'nānandād vimuktaḥ sannānandī bhavati sphuṭam / nirguṇe brahmaṇi mayi dhārayan viśadaṃ manaḥ / paramānandamāpnoti yatra kāmo 'vasīyate

Sanskrit only: no published translation is held for this verse.

न विष्णुसदृशं दैवं न मोक्षसदृशं सुखम् । न वेदसदृशं वाक्यं न वर्णो ऽकारसम्मितः

na viṣṇusadṛśaṃ daivaṃ na mokṣasadṛśaṃ sukham / na vedasadṛśaṃ vākyaṃ na varṇo 'kārasammitaḥ

Sanskrit only: no published translation is held for this verse.

यत्रानन्दाश्च मोदाश्च मुदः प्रमुद आसते । कामस्य यत्राप्ताः कामास्तत्र माममृतं कृधि

yatrānandāśca modāśca mudaḥ pramuda āsate / kāmasya yatrāptāḥ kāmāstatra māmamṛtaṃ kṛdhi

Sanskrit only: no published translation is held for this verse.

अनेन"सो ऽनानन्दाद्विमुक्तः आनन्दीभवतिऽ; इति श्रुतिमुपादत्ते । आनन्दस्य स्वभावसिद्धत्वाद्भवतीति कथमित्यतः स्फुटमित्युक्तम् । अनानन्दात् दुःखात् । निर्गुण इति भागवते भगवद्वाक्यम् । यत्र परमानन्दे प्राप्ते का(मस्तृष्णाव)मः स्पृहावसीयते । अवसानं गच्छति । न विष्णुसदृशमित्येतदपि पुराणवाक्यम् । यत्र लोके । आनन्दादिशब्दाः सुखविशेषाणां वाचकाः । कामस्य कामाः इच्छाया विषयाः । आप्ताः पर्याप्ताः । कृधि कुर्विति वायुं प्रति प्रार्थनम् । श्रुशृणुपृकृवृभ्यः छन्दसि । श्रुत्योर्मध्ये पुराणपठनं तस्य श्रुतिकल्पत्वप्रदर्शनार्थम् । उदाहृतानां श्रुत्यादीनां फलमुपसंहरति इति श्रुतीति ॥ इति श्रुतिपुराणानि तत्रतत्र वदन्ति हि । अतो मोक्षे सुखाभाव इति यत्किञ्चिदेव हि

anena"so 'nānandādvimuktaḥ ānandībhavati'; iti śrutimupādatte / ānandasya svabhāvasiddhatvādbhavatīti kathamityataḥ sphuṭamityuktam / anānandāt duḥkhāt / nirguṇa iti bhāgavate bhagavadvākyam / yatra paramānande prāpte kā(mastṛṣṇāva)maḥ spṛhāvasīyate / avasānaṃ gacchati / na viṣṇusadṛśamityetadapi purāṇavākyam / yatra loke / ānandādiśabdāḥ sukhaviśeṣāṇāṃ vācakāḥ / kāmasya kāmāḥ icchāyā viṣayāḥ / āptāḥ paryāptāḥ / kṛdhi kurviti vāyuṃ prati prārthanam / śruśṛṇupṛkṛvṛbhyaḥ chandasi / śrutyormadhye purāṇapaṭhanaṃ tasya śrutikalpatvapradarśanārtham / udāhṛtānāṃ śrutyādīnāṃ phalamupasaṃharati iti śrutīti // iti śrutipurāṇāni tatratatra vadanti hi / ato mokṣe sukhābhāva iti yatkiñcideva hi

Sanskrit only: no published translation is held for this verse.

तत्रतत्र प्रदेशे वदन्ति मुक्तस्य सुखम् । आद्यो हिशब्दो यस्मादित्यर्थे । द्वितीयः प्रसिद्धौ । यत्किञ्चिदेव फल्ग्वित्यर्थः । *१२,३१३* यच्च साङ्खयादिभिरुक्तं सुखाभावोपपादनाय शरीराहितराहित्यं मुक्तस्य, तत्स्वरूपसुखस्योक्तत्वाद्वैयर्थ्येनापास्तम् । असिद्धं च तदित्याशयेनाह शिर इति ॥ शिरःकराद्यभावश्च न मुक्तस्य भवेत् क्वचित् न केवलं सुखाद्यभाव इति चशब्दः । जीवन्मुक्तौ शिरःकरादिभावो न परममुक्तावित्यतः क्वचिदित्युक्तम् । कुत इत्यत आह श्रुतयश्चेति । श्रुतयश्च पुराणानि मानमत्र बहूनि च

tatratatra pradeśe vadanti muktasya sukham / ādyo hiśabdo yasmādityarthe / dvitīyaḥ prasiddhau / yatkiñcideva phalgvityarthaḥ / *12,313* yacca sāṅkhayādibhiruktaṃ sukhābhāvopapādanāya śarīrāhitarāhityaṃ muktasya, tatsvarūpasukhasyoktatvādvaiyarthyenāpāstam / asiddhaṃ ca tadityāśayenāha śira iti // śiraḥkarādyabhāvaśca na muktasya bhavet kvacit na kevalaṃ sukhādyabhāva iti caśabdaḥ / jīvanmuktau śiraḥkarādibhāvo na paramamuktāvityataḥ kvacidityuktam / kuta ityata āha śrutayaśceti / śrutayaśca purāṇāni mānamatra bahūni ca

Sanskrit only: no published translation is held for this verse.

शिरःकराद्यभावो नेत्युपस्थापितं शिरआदिभावं अत्रेति परामृशति । अन्त्यश्चो यस्मादित्यर्थे । सन्तीति शेषः । अशरीरत्वादेर्गतिश्चोक्तेति च चार्थः । *१२,३१५* तत्र तावत्स्फुटार्थत्वात्पुराणमादावुदाहरति न वर्तत इति । न वर्तते यत्र रजस्तमस्तयोः सत्त्वं च मिश्रं न च कालविक्रमः । न यत्र माया किमुतापरे हरेरनुव्रता यत्र सुरासुरार्चिताः

śiraḥkarādyabhāvo netyupasthāpitaṃ śiraādibhāvaṃ atreti parāmṛśati / antyaśco yasmādityarthe / santīti śeṣaḥ / aśarīratvādergatiścokteti ca cārthaḥ / *12,315* tatra tāvatsphuṭārthatvātpurāṇamādāvudāharati na vartata iti / na vartate yatra rajastamastayoḥ sattvaṃ ca miśraṃ na ca kālavikramaḥ / na yatra māyā kimutāpare hareranuvratā yatra surāsurārcitāḥ

Sanskrit only: no published translation is held for this verse.

श्यामावदाताः शतपत्रलोचनाः पिशङ्गवस्त्राः सुरुचः सुपेशसः । सर्वे चतुर्बाहव उन्मिषन्मणिप्रवेकनिष्काभरणाः सुवर्चसः

śyāmāvadātāḥ śatapatralocanāḥ piśaṅgavastrāḥ surucaḥ supeśasaḥ / sarve caturbāhava unmiṣanmaṇipravekaniṣkābharaṇāḥ suvarcasaḥ

Sanskrit only: no published translation is held for this verse.

प्रवाऌअवैडूर्यमृणाऌअवर्चसां परिस्फुरत्कुण्डलमौलिमालिनाम् । भ्राजिष्णुभिर्यः परितो विराजते लसद्विमानावलिभिर्महात्मनाम्

pravāḷavaiḍūryamṛṇāḷavarcasāṃ parisphuratkuṇḍalamaulimālinām / bhrājiṣṇubhiryaḥ parito virājate lasadvimānāvalibhirmahātmanām

Sanskrit only: no published translation is held for this verse.

विद्योतमानप्रमदोत्तमाभिः सविद्युदभ्रावलिभिर्यथा नभः । श्रीर्यत्र रूपिण्युरुगायपादयोः करोति मानं बहुधा विभूतिभिः

vidyotamānapramadottamābhiḥ savidyudabhrāvalibhiryathā nabhaḥ / śrīryatra rūpiṇyurugāyapādayoḥ karoti mānaṃ bahudhā vibhūtibhiḥ

Sanskrit only: no published translation is held for this verse.

ऋचां त्वः पोषमास्ते पुपुष्वान् गायत्रं त्वो गायति शक्वरीषु । ब्रह्मा त्वो वदति जातविद्यां यज्ञस्य मात्रं विमिभीत उ त्वः

ṛcāṃ tvaḥ poṣamāste pupuṣvān gāyatraṃ tvo gāyati śakvarīṣu / brahmā tvo vadati jātavidyāṃ yajñasya mātraṃ vimibhīta u tvaḥ

Sanskrit only: no published translation is held for this verse.

यत्र लोके । सत्त्वशब्दो ऽनेकार्थः । क्वचित्प्रकृतिपरिणामविशेषस्य वाचकः । क्वचित् साधुत्वस्य । तत्र सत्त्वं च न विद्यत इत्युक्ते न ज्ञायते कस्य प्रतिषेध इति । अतस्तयो रजस्तमसोर्भिश्रं सहचरितमित्युक्तम् । रज आदिप्रकरणाज्ज्ञास्यत इति चेत् । श्रुत्यभावे प्रकरणाद्यन्वेषणात् । *१२,३१६* रजःप्रभृतीनामवृत्तिर्नाम बन्धकतया व्यापाराभावः । कालविक्रमः कालसामर्थ्यकृ(ता भावाविकारा)तो भावविकारः । माया प्रकृतिः । अपरे महदादयो न वर्तन्त इति किमुत वक्तव्यम् । हरेरनुव्रता यत्र वर्तन्ते । असुराः साधवः सन्ति । अवदाता निमर्लाः । सुपेशसः सुरूपाः । उन्मिषन्मणिप्रवेकनिष्काभरणाः रश्मिमद्रत्नप्रवरहाराभरणाः । रुक् प्रभा । वर्चो बलम् । हरेरनुव्रता इत्यनेन सम्बन्धः । यो लोक एवंविधानां महात्मनां लसद्विमानावलिभिः परितो विराजते । केचित्प्रवालवर्चस इत्यादि । परिस्फुरत्कुण्डलमौलयश्च ते मालिनश्चेति विग्रहः । यद्वा परिस्फुरन्त्यश्च ताः कुण्डलमौलिमालाश्चेति कर्मधारयं विधाय पश्चादिनिरुत्पाद्यः । विद्योतमानाः प्रमदोत्तमाः यासु विमानावलिषु तास्तथोक्तस्ताभिः । यद्वा विद्योतमानाभिः प्रमदोत्तमाभिर्भ्राजिष्णुभिरिति व्यधिकरणत्वेन योजना । प्रमदोत्तमाः विद्युतः । विमानावलयः अभ्रावलयः रूपिणी प्रत्यक्षा । मानं पूजा । बहुधा स्थिताभिः विभूतिभिः स्वमूर्तिभिः । एवंभूतं लोकं सन्दर्शयामासेति पूर्वेणान्वयः । कामान्नरूपी चरति ॥।

yatra loke / sattvaśabdo 'nekārthaḥ / kvacitprakṛtipariṇāmaviśeṣasya vācakaḥ / kvacit sādhutvasya / tatra sattvaṃ ca na vidyata ityukte na jñāyate kasya pratiṣedha iti / atastayo rajastamasorbhiśraṃ sahacaritamityuktam / raja ādiprakaraṇājjñāsyata iti cet / śrutyabhāve prakaraṇādyanveṣaṇāt / *12,316* rajaḥprabhṛtīnāmavṛttirnāma bandhakatayā vyāpārābhāvaḥ / kālavikramaḥ kālasāmarthyakṛ(tā bhāvāvikārā)to bhāvavikāraḥ / māyā prakṛtiḥ / apare mahadādayo na vartanta iti kimuta vaktavyam / hareranuvratā yatra vartante / asurāḥ sādhavaḥ santi / avadātā nimarlāḥ / supeśasaḥ surūpāḥ / unmiṣanmaṇipravekaniṣkābharaṇāḥ raśmimadratnapravarahārābharaṇāḥ / ruk prabhā / varco balam / hareranuvratā ityanena sambandhaḥ / yo loka evaṃvidhānāṃ mahātmanāṃ lasadvimānāvalibhiḥ parito virājate / kecitpravālavarcasa ityādi / parisphuratkuṇḍalamaulayaśca te mālinaśceti vigrahaḥ / yadvā parisphurantyaśca tāḥ kuṇḍalamaulimālāśceti karmadhārayaṃ vidhāya paścādinirutpādyaḥ / vidyotamānāḥ pramadottamāḥ yāsu vimānāvaliṣu tāstathoktastābhiḥ / yadvā vidyotamānābhiḥ pramadottamābhirbhrājiṣṇubhiriti vyadhikaraṇatvena yojanā / pramadottamāḥ vidyutaḥ / vimānāvalayaḥ abhrāvalayaḥ rūpiṇī pratyakṣā / mānaṃ pūjā / bahudhā sthitābhiḥ vibhūtibhiḥ svamūrtibhiḥ / evaṃbhūtaṃ lokaṃ sandarśayāmāseti pūrveṇānvayaḥ / kāmānnarūpī carati ...

Sanskrit only: no published translation is held for this verse.

इत्येषा पूर्वा यस्याः सा तथोक्ता । देहित्वे दुःखादिप्रसक्त्या मुक्तत्वव्याघात इत्यत उक्तम् अदोष इति ॥ दोषहेतुः कथमित्यत उक्तम् स्वरूपात्मक एवेति ॥ जीवस्वरूपमेवात्मा स्वरूपं यस्यासौ तथोक्तः । किं जीवन्मुक्तानामित्यत उक्तं तेषामपि च मुक्तिं गतानामिति । पुराणवाक्ये हि श्यामावदाता इत्यादिना देहः प्रतीयते । न वर्तत इत्यत्र च प्रकृत्याद्यभावोक्त्या परममुक्तित्वं, देहस्य च स्वरूपत्वं, तत एवादोषत्वम् । श्रुतावृगुच्चारणादिना देहित्वम् । *१२,३२२* अत्र अनुमानमप्याह शिर इति ॥ शिरःकराद्यैरपि मुक्तिभाजो युक्ता यतस्ते पुरुषा इदानीम् । यथेतिपूर्वा अनुमाश्च जीवस्वरूपमङ्गादियुगापयन्ति

ityeṣā pūrvā yasyāḥ sā tathoktā / dehitve duḥkhādiprasaktyā muktatvavyāghāta ityata uktam adoṣa iti // doṣahetuḥ kathamityata uktam svarūpātmaka eveti // jīvasvarūpamevātmā svarūpaṃ yasyāsau tathoktaḥ / kiṃ jīvanmuktānāmityata uktaṃ teṣāmapi ca muktiṃ gatānāmiti / purāṇavākye hi śyāmāvadātā ityādinā dehaḥ pratīyate / na vartata ityatra ca prakṛtyādyabhāvoktyā paramamuktitvaṃ, dehasya ca svarūpatvaṃ, tata evādoṣatvam / śrutāvṛguccāraṇādinā dehitvam / *12,322* atra anumānamapyāha śira iti // śiraḥkarādyairapi muktibhājo yuktā yataste puruṣā idānīm / yathetipūrvā anumāśca jīvasvarūpamaṅgādiyugāpayanti

Sanskrit only: no published translation is held for this verse.

यतस्ते पुरुषा इत्यात्मत्वादित्यर्थः । इदानीं यथेति । अस्मादादिवदित्यर्थः । ईश्वरादीनां पक्षतुल्यत्वान्न दोषः । पूर्वग्रहणेन, मुक्तिर्देहिनिष्ठा जीवावस्थात्वात् संसारवदित्यस्य ग्रहणम् । जीवस्वरूपं मुक्तजीवस्वरूपम् । अङ्गं शरीरम् । आदिपदेनेन्द्रियाणि । आवयन्तीति करणे कर्तृत्वोपचारः । आपयन्तीति क्वचित्पाठः । *१२,३२३* एवं साङ्खयादिमतमपाकृत्येदानीं ये प्राग् भिन्नस्य भिन्नाभिन्नस्य वा जीवस्य मुक्तौ परब्रह्मणात्यन्तैक्यं भवतीति मन्यन्ते तेषां मतमपाकरोति नेति ॥ न ब्रह्मरूपत्वममुष्य देहिनो मुक्तावपि स्यात् प्रमया कथञ्चित् कथञ्चित्प्रमयेति केनापि प्रमाणेनेत्यर्थः । श्रुतीनां प्रागन्यथा व्याख्यातत्वात् । यद्वा कथञ्चित् केनापि साधनेन न स्यात् कुतः । प्रमया मुक्तावपि भेदे प्रमाणसद्भावादित्यर्थः । तत्प्रमाणं पठति स इति ॥ स ब्रह्मणा सहितो ऽशेषभोगान् भुङ्क्ते तथोपेत्य सुखार्णवं तम्

yataste puruṣā ityātmatvādityarthaḥ / idānīṃ yatheti / asmādādivadityarthaḥ / īśvarādīnāṃ pakṣatulyatvānna doṣaḥ / pūrvagrahaṇena, muktirdehiniṣṭhā jīvāvasthātvāt saṃsāravadityasya grahaṇam / jīvasvarūpaṃ muktajīvasvarūpam / aṅgaṃ śarīram / ādipadenendriyāṇi / āvayantīti karaṇe kartṛtvopacāraḥ / āpayantīti kvacitpāṭhaḥ / *12,323* evaṃ sāṅkhayādimatamapākṛtyedānīṃ ye prāg bhinnasya bhinnābhinnasya vā jīvasya muktau parabrahmaṇātyantaikyaṃ bhavatīti manyante teṣāṃ matamapākaroti neti // na brahmarūpatvamamuṣya dehino muktāvapi syāt pramayā kathañcit kathañcitpramayeti kenāpi pramāṇenetyarthaḥ / śrutīnāṃ prāganyathā vyākhyātatvāt / yadvā kathañcit kenāpi sādhanena na syāt kutaḥ / pramayā muktāvapi bhede pramāṇasadbhāvādityarthaḥ / tatpramāṇaṃ paṭhati sa iti // sa brahmaṇā sahito 'śeṣabhogān bhuṅkte tathopetya sukhārṇavaṃ tam

Sanskrit only: no published translation is held for this verse.

यत्तत् परं ज्योतिरुपेत्य जीवो निजस्वरपूत्वमवाप्य कामान् । भुङ्क्ते स दैवं पुरुषोत्तमो ऽज आत्मेति चोक्तो गुणपूर्तिहेतोः

yattat paraṃ jyotirupetya jīvo nijasvarapūtvamavāpya kāmān / bhuṅkte sa daivaṃ puruṣottamo 'ja ātmeti cokto guṇapūrtihetoḥ

Sanskrit only: no published translation is held for this verse.

सेतुः स देवो ऽखिलमुक्तिभागामुतामृतस्येष्य इहेशिता यत् अनेन"सो ऽश्नुते सर्वान्कामान्सह ब्रह्मणा विपश्चिताऽ; इति श्रुतिमुपादत्ते । तथाशब्दः श्रुतिसमुच्चये । उपेत्येत्यनेन "एतमानन्दमयमात्मानमुपसङ्क्रम्यऽ; इति । उपेत्य तथाशेषभोगान्भुङ्क्त इति वा । यत्तदित्यनेन"परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यते स उत्तमः पुरुषः स तत्र पर्येति जक्षन्क्रीडन्रममाणः, परं ज्योतिरुपसम्पद्य स्वेन रूपेणाभिनिष्पद्यत एष आत्माऽ; इति श्रुतिद्वयम् । यः परं ज्योतिरुपसम्पद्यते स एवोत्तमपुरुष आत्मेति चान्यथाप्रतीतिरर्थतः श्रुती पठतैव निराकृता । पराक्रान्तं चात्र सूत्रकृतैव"अन्यार्थश्च परामर्शःऽ; इति । गुणपूर्तिहेतोः इति आत्मशब्दव्याख्यानं पुरुषोत्तमत्वस्य चोपपादकम् । सेतुरित्यनेन"अमृतस्यैष सेतुःऽ; इति । उतेत्यनेन"उतामृतत्वस्येशानो यदन्नेनातिरोहतिऽ; इति । उतेत्यनेन"उतामृतत्वस्येशानो यदन्नेनातिरोहतिऽ; इति । *१२,३२४* उदाहृतवाक्यफलं दर्शयति इत्यादीति ॥ इत्यादिवाक्यैर्भगवद्वशः सन् भुङ्क्तेऽखिलान् मुक्तिगतो ऽपि भोगान्

setuḥ sa devo 'khilamuktibhāgāmutāmṛtasyeṣya iheśitā yat anena"so 'śnute sarvānkāmānsaha brahmaṇā vipaścitā'; iti śrutimupādatte / tathāśabdaḥ śrutisamuccaye / upetyetyanena "etamānandamayamātmānamupasaṅkramya'; iti / upetya tathāśeṣabhogānbhuṅkta iti vā / yattadityanena"paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyate sa uttamaḥ puruṣaḥ sa tatra paryeti jakṣankrīḍanramamāṇaḥ, paraṃ jyotirupasampadya svena rūpeṇābhiniṣpadyata eṣa ātmā'; iti śrutidvayam / yaḥ paraṃ jyotirupasampadyate sa evottamapuruṣa ātmeti cānyathāpratītirarthataḥ śrutī paṭhataiva nirākṛtā / parākrāntaṃ cātra sūtrakṛtaiva"anyārthaśca parāmarśaḥ'; iti / guṇapūrtihetoḥ iti ātmaśabdavyākhyānaṃ puruṣottamatvasya copapādakam / seturityanena"amṛtasyaiṣa setuḥ'; iti / utetyanena"utāmṛtatvasyeśāno yadannenātirohati'; iti / utetyanena"utāmṛtatvasyeśāno yadannenātirohati'; iti / *12,324* udāhṛtavākyaphalaṃ darśayati ityādīti // ityādivākyairbhagavadvaśaḥ san bhuṅkte'khilān muktigato 'pi bhogān

Sanskrit only: no published translation is held for this verse.

इति ज्ञायत इति शेषः । भगवद्वश इत्युपलक्षणम् । तत्समीपं प्राप्त इत्यपि ग्राह्यम् । अद्वैतिनो भोगं न मन्यन्त इत्यतः सो ऽप्यत्र वर्णितः । *१२,३२७* अत्रानुमानमप्याह कालो ऽपीति ॥ कालो ऽप्यसौ नैक्ययुतः परेण जीवस्य कालो यत एष यद्वत् । इत्यादिका अप्यनुमाः प्रमाणं मुक्तौ च जीवस्य परत्वरोधे

iti jñāyata iti śeṣaḥ / bhagavadvaśa ityupalakṣaṇam / tatsamīpaṃ prāpta ityapi grāhyam / advaitino bhogaṃ na manyanta ityataḥ so 'pyatra varṇitaḥ / *12,327* atrānumānamapyāha kālo 'pīti // kālo 'pyasau naikyayutaḥ pareṇa jīvasya kālo yata eṣa yadvat / ityādikā apyanumāḥ pramāṇaṃ muktau ca jīvasya paratvarodhe

Sanskrit only: no published translation is held for this verse.

असौ मोक्षसम्बन्ध्यपि, जीवस्य परेण यदैक्यं तद्युतो न भवतीत्यर्थः । कालो यतः कालत्वात् । एष यद्वत्संसारकालवत् । अनुमा अपि । मुक्तावपि जीवस्य परब्रह्मत्वनिवारणे प्रमाणमस्ति, किं तत् अनुमा इति योजना । ये प्रागत्यन्तभिन्नस्य मुक्तावैक्यं वदन्ति । तेषामैक्यमिति परत्वमिति च यथाश्रुतं व्याख्येयम् । ये तु प्राग्भेदाभेदावुपेत्य मुक्तावत्यन्ताभेदमाहुस्तान्प्रत्यैक्यादिशब्दो ऽत्यन्ताभेदपरो व्याख्येयः । तथाच न दृष्टान्तदोषः । जीवशब्दश्च निष्कृष्टव्यक्तिविषयो वर्णनीयः । अन्यथा पुनर्दृष्टान्तदोषापत्तेरिति । स्वकीयमादिपदं व्याकुर्वन्ननुमानान्तरमाह कथं चेति ॥ कथं च यः पूर्वमसौ न पश्चाद् भवेत् स एवेत्यपि युक्तिमेति यो जीवः पूर्वं संसारे ऽसौ परमात्मा न भवति, असौ पश्चान्मुक्तौ स परमात्मैव भवेदित्येतत्कथं युक्तिमेति । अनुपपन्नमित्यर्थः । अत्रापि पूर्ववन्मतभेदेन व्याख्यानं कर्तव्यम् । अत एव स एवेत्यवधारणम् । प्रयोगस्तु प्रागेव दर्शितः । अपिशब्दो ऽनुमानसमुच्चये । अस्य व्यप्तिमुपपादयति यत इति ॥ यतो न दृष्टं यदभून्न पूर्वं पश्चात् तदासेति कुतश्च किञ्चित्

asau mokṣasambandhyapi, jīvasya pareṇa yadaikyaṃ tadyuto na bhavatītyarthaḥ / kālo yataḥ kālatvāt / eṣa yadvatsaṃsārakālavat / anumā api / muktāvapi jīvasya parabrahmatvanivāraṇe pramāṇamasti, kiṃ tat anumā iti yojanā / ye prāgatyantabhinnasya muktāvaikyaṃ vadanti / teṣāmaikyamiti paratvamiti ca yathāśrutaṃ vyākhyeyam / ye tu prāgbhedābhedāvupetya muktāvatyantābhedamāhustānpratyaikyādiśabdo 'tyantābhedaparo vyākhyeyaḥ / tathāca na dṛṣṭāntadoṣaḥ / jīvaśabdaśca niṣkṛṣṭavyaktiviṣayo varṇanīyaḥ / anyathā punardṛṣṭāntadoṣāpatteriti / svakīyamādipadaṃ vyākurvannanumānāntaramāha kathaṃ ceti // kathaṃ ca yaḥ pūrvamasau na paścād bhavet sa evetyapi yuktimeti yo jīvaḥ pūrvaṃ saṃsāre 'sau paramātmā na bhavati, asau paścānmuktau sa paramātmaiva bhavedityetatkathaṃ yuktimeti / anupapannamityarthaḥ / atrāpi pūrvavanmatabhedena vyākhyānaṃ kartavyam / ata eva sa evetyavadhāraṇam / prayogastu prāgeva darśitaḥ / apiśabdo 'numānasamuccaye / asya vyaptimupapādayati yata iti // yato na dṛṣṭaṃ yadabhūnna pūrvaṃ paścāt tadāseti kutaśca kiñcit

Sanskrit only: no published translation is held for this verse.

यतः कारणात् यत्किञ्चिद्घटादिकं वस्तु पूर्वं यद्घटादिकं नाभूत् । येन सता वस्त्वन्तरेणैकीभूतं न भवतीति यावत् । तत् पश्चात्कुतश्चित्कारणात्तदास तेनैक्यमापन्नमित्येतन्न दृष्टम् । नच दृश्यते नापि द्रक्ष्यते । तस्मादिति पूर्वेण सम्बन्धः । एतेनादधिभूतस्य क्षीरस्य पश्चाद्दधिभावदर्शनाद्वयभिचार इत्यसङ्गतम् । *१२,३३२* एवं भास्करादिमतमपाकृत्य ये यादवप्रकाशादयः स्वभावत एव परमात्मना भिन्नाभिन्नो जीवस्तस्य संसारे भेद एव व्यक्तो ऽभेदस्त्वविद्यासिदनाऽवृतो वर्तते, मुक्तौ तु द्वावपि व्यक्तौ भवतः, इत्याचक्षते तेषां मतमधुना निराकरोति नचेति ॥ नचैव मुक्तौ तु हरेः पृथक्तवमैक्यं तथा स्यादिति युक्तिमेति तथाशब्दः समुच्चये । इति च मतं युक्तिं नैवैतीति सम्बन्धः । कुतः । उदाहृतवचनानां भेदज्ञापकत्वेनास्मन्मताविरोधित्वात् । अनुमानस्य चाद्यस्यास्मान्प्रत्यसिद्धव्याप्तिकत्वात् द्वितीयस्य चातद्भूतस्य तद्भावनिरासहेतोः सिद्धसाधनत्वादित्यतो ऽनुमानान्तरमाह यत इति ॥ *१२,३३३* यतो न कुत्रापि भिदाभिदा च दृष्टा चितश्चेतनया कुतश्चित्

yataḥ kāraṇāt yatkiñcidghaṭādikaṃ vastu pūrvaṃ yadghaṭādikaṃ nābhūt / yena satā vastvantareṇaikībhūtaṃ na bhavatīti yāvat / tat paścātkutaścitkāraṇāttadāsa tenaikyamāpannamityetanna dṛṣṭam / naca dṛśyate nāpi drakṣyate / tasmāditi pūrveṇa sambandhaḥ / etenādadhibhūtasya kṣīrasya paścāddadhibhāvadarśanādvayabhicāra ityasaṅgatam / *12,332* evaṃ bhāskarādimatamapākṛtya ye yādavaprakāśādayaḥ svabhāvata eva paramātmanā bhinnābhinno jīvastasya saṃsāre bheda eva vyakto 'bhedastvavidyāsidanā'vṛto vartate, muktau tu dvāvapi vyaktau bhavataḥ, ityācakṣate teṣāṃ matamadhunā nirākaroti naceti // nacaiva muktau tu hareḥ pṛthaktavamaikyaṃ tathā syāditi yuktimeti tathāśabdaḥ samuccaye / iti ca mataṃ yuktiṃ naivaitīti sambandhaḥ / kutaḥ / udāhṛtavacanānāṃ bhedajñāpakatvenāsmanmatāvirodhitvāt / anumānasya cādyasyāsmānpratyasiddhavyāptikatvāt dvitīyasya cātadbhūtasya tadbhāvanirāsahetoḥ siddhasādhanatvādityato 'numānāntaramāha yata iti // *12,333* yato na kutrāpi bhidābhidā ca dṛṣṭā citaścetanayā kutaścit

Sanskrit only: no published translation is held for this verse.

यतः कारणाच्चितश्चेतनया चेतनस्य चेतनेन भिदाभिदा च कुत्रापि देशे कुतश्चित्प्रमाणान्न दृष्टेत्यनेन जीवेश्वरौ न भिन्नाभिन्नौ चेतनत्वात् देवदत्तयज्ञदत्तवत् । ईश्वरो जीवेन भिन्नाभिन्नो न भवति चेतनत्वाद्यज्ञदत्तवदित्याद्यनुमानं सूचितम् । *१२,३३४* मोक्षवादार्थमुपसंहरति इत्थमिति ॥ *१२,३३५* इत्थं मतानि भ्रमजानि ॥। मतानां प्रणेतार इति शेषः । अप्राकरणिकं प्रसक्तानुप्रसक्त्यागतमर्थं कथञ्चिदन्यथा जानन्तो ऽपि नातीव निन्द्या भवन्ति । एते तु प्रधानोद्देश्यमपि मोक्षं सम्यङ् न विदुः । किन्तु भ्रमेन वैपरीत्येन विदुः । तस्मात्तत्प्रणीतानि मतानि भ्रमजानीति सम्बन्धः । नचातिसूक्ष्मप्रमेये अज्ञानविपर्ययावेतेषां, किन्तु गोपालाविपालप्रमुखैः पामरैरपि सुविदित इत्याशयेनाह यदपीति ॥ ॥। यदपीह लौकिकाः सुखं मम स्याच्च सदेति जानते

yataḥ kāraṇāccitaścetanayā cetanasya cetanena bhidābhidā ca kutrāpi deśe kutaścitpramāṇānna dṛṣṭetyanena jīveśvarau na bhinnābhinnau cetanatvāt devadattayajñadattavat / īśvaro jīvena bhinnābhinno na bhavati cetanatvādyajñadattavadityādyanumānaṃ sūcitam / *12,334* mokṣavādārthamupasaṃharati itthamiti // *12,335* itthaṃ matāni bhramajāni ... matānāṃ praṇetāra iti śeṣaḥ / aprākaraṇikaṃ prasaktānuprasaktyāgatamarthaṃ kathañcidanyathā jānanto 'pi nātīva nindyā bhavanti / ete tu pradhānoddeśyamapi mokṣaṃ samyaṅ na viduḥ / kintu bhramena vaiparītyena viduḥ / tasmāttatpraṇītāni matāni bhramajānīti sambandhaḥ / nacātisūkṣmaprameye ajñānaviparyayāveteṣāṃ, kintu gopālāvipālapramukhaiḥ pāmarairapi suvidita ityāśayenāha yadapīti // ... yadapīha laukikāḥ sukhaṃ mama syācca sadeti jānate

Sanskrit only: no published translation is held for this verse.

॥ अथ श्रीमन्न्यायसुधायां अनेकलयाधिकरणम् ॥ इदानीमेतत्पादाधिकरणेषु पूर्वपक्षसिद्धान्तयुक्तीर्विवक्षुः प्रसङ्गात्सिंहावलोकनेन पूर्वपादद्वययुक्तिकथनपूर्वकमस्मिन्पादे चाह औदायर्मिति ॥ औदार्यमुच्चावचशक्तिरात्मस्वरपूदार्ढ्यं च निजस्वभावः । स्वातन्त्र्यमापूर्णविशेषयोग्यता विरोधहानिश्च चतुर्थपादे

// atha śrīmannyāyasudhāyāṃ anekalayādhikaraṇam // idānīmetatpādādhikaraṇeṣu pūrvapakṣasiddhāntayuktīrvivakṣuḥ prasaṅgātsiṃhāvalokanena pūrvapādadvayayuktikathanapūrvakamasminpāde cāha audāyarmiti // audāryamuccāvacaśaktirātmasvarapūdārḍhyaṃ ca nijasvabhāvaḥ / svātantryamāpūrṇaviśeṣayogyatā virodhahāniśca caturthapāde

Sanskrit only: no published translation is held for this verse.

चतुर्थपादे तृतीयाध्यायस्य । पूर्वपक्षयुक्तय इति शेषः । व्यवस्थितिस्त्वविशेषः स्थितिश्च निषेधसामान्यविधिक्रियाणाम् । विभक्तता चात्वरयैव सिद्धिर्विपक्षसम्प्राप्तिविरुद्धहेतवः

caturthapāde tṛtīyādhyāyasya / pūrvapakṣayuktaya iti śeṣaḥ / vyavasthitistvaviśeṣaḥ sthitiśca niṣedhasāmānyavidhikriyāṇām / vibhaktatā cātvarayaiva siddhirvipakṣasamprāptiviruddhahetavaḥ

Sanskrit only: no published translation is held for this verse.

विपक्षसम्प्राप्तिकृतां निरोधाः । पूर्वपक्षसम्प्राप्तिं कुर्वन्तीनां युक्तीनां निवारका हेतवः । विपक्षसम्प्राप्तिविरुद्धहेतव इति क्वचित्पाठः । तत्र सम्प्राप्तिशब्दः करणसाधनः । *१२,३३७* सुशक्यता शश्वदतिप्रसिद्धिविवेकविन्यासविचारसञ्ज्ञाः । नानाप्रवृत्तिः कृतकृत्यता च विपक्षतर्काः समतीतपादे

vipakṣasamprāptikṛtāṃ nirodhāḥ / pūrvapakṣasamprāptiṃ kurvantīnāṃ yuktīnāṃ nivārakā hetavaḥ / vipakṣasamprāptiviruddhahetava iti kvacitpāṭhaḥ / tatra samprāptiśabdaḥ karaṇasādhanaḥ / *12,337* suśakyatā śaśvadatiprasiddhivivekavinyāsavicārasañjñāḥ / nānāpravṛttiḥ kṛtakṛtyatā ca vipakṣatarkāḥ samatītapāde

Sanskrit only: no published translation is held for this verse.

समतीतपादे निरन्तरातीतपादे । महाफलत्वं प्रविविक्तता च सन्धिग्रहः साधनमाप्तकृत्यम् । विशेषकार्यं कृतिसंस्थितिश्च सुयुक्तयो निर्णयगाः स्वपक्षे

samatītapāde nirantarātītapāde / mahāphalatvaṃ praviviktatā ca sandhigrahaḥ sādhanamāptakṛtyam / viśeṣakāryaṃ kṛtisaṃsthitiśca suyuktayo nirṇayagāḥ svapakṣe

Sanskrit only: no published translation is held for this verse.

स्वपक्षे सिद्धान्तविषये । निर्णयगा निर्णयहेतवः सुयुक्तयः । व्यामिश्रता कार्यकरत्वमर्थकॢप्तिः सुदार्ढ्यं परतन्त्रता च । समानधर्मः कृतशेषता च लोकोपमा पूर्वमतानुसाराः

svapakṣe siddhāntaviṣaye / nirṇayagā nirṇayahetavaḥ suyuktayaḥ / vyāmiśratā kāryakaratvamarthakḷptiḥ sudārḍhyaṃ paratantratā ca / samānadharmaḥ kṛtaśeṣatā ca lokopamā pūrvamatānusārāḥ

Sanskrit only: no published translation is held for this verse.

पूर्वमतानुसारा युक्तयो अस्मिन्पादे ऽनुस्रियन्त एताभिरित्यनुसाराः । विशेषसाम्यश्रुतिराढ्यता च समानलोपो महिमा विशेषः । कृतार्थता शश्वदनुप्रवृत्तिः सिद्धान्तनिर्णीतिविशिष्टहेतवः

pūrvamatānusārā yuktayo asminpāde 'nusriyanta etābhirityanusārāḥ / viśeṣasāmyaśrutirāḍhyatā ca samānalopo mahimā viśeṣaḥ / kṛtārthatā śaśvadanupravṛttiḥ siddhāntanirṇītiviśiṣṭahetavaḥ

Sanskrit only: no published translation is held for this verse.

प्रधानवायुस्त्विह वायुनामा भूतेष्वितिप्रोक्तगतो ऽपि युक्तया तुशब्दो ऽवधारणे । इह श्रुतौ भूतेष्विति प्रोक्तगतो ऽपीति शङ्काबीजानुवादः । भूतेषु लयं वक्ष्यामीत्याशयेन श्रुत्या प्रोक्तं यत्पृथिव्यादिकं तद्गतो ऽपीति । यद्वा भूतेषु देवानां लय इत्यत्रार्थे प्रोक्तं सूत्रकृता गृहीतं श्रुतिवाक्यं तद्गतो ऽपीति । कुतः । युक्त्या उत्तमानामिन्द्रादीनामधमे भूतवायौ लयानुपपत्तेरित्यर्थः । प्रधानवायावपि कथमिन्द्रादीनां लयोपपत्तिरित्यत आह यस्मादिति ॥ यस्माच्छ्रुतौ पवते चेति भूरि प्रोक्तो ॥। यस्मात्कारणात्"सा वा एषा देवतानादिर्यो ऽयं पवतेऽ; इति श्रुतौ चशब्दादन्यास्वपि श्रुतिषु प्रधानवायुः भूरित्वेन सकलजीवोत्तमत्वेन प्रोक्तः, तस्मात् तस्मिन्निन्द्रादीनां प्रलयोपपत्तेः, प्रधानवायुस्त्विह वायुनामेति सम्बन्धः । यद्वा"एष वै ब्रह्म यो ऽयं पवते तमेताः पञ्च देवताः परिम्रियन्ते विद्युद्वृष्टिश्चन्द्रमा आदित्यो ऽग्निःऽ; इति श्रुतिरत्र विवक्षिता । तत्र भूरिस्पष्टं सूर्यादीनां संहर्ता प्रोक्त इति । एवं तर्हि भूतप्रकरणबाधः स्यादित्यत आह यत इति ॥ ॥। यतो भूतमानी च सो ऽपि न केवलमप्रधानवायुः किन्तु स प्रधानवायुरपि भूतमानित्वाद्भूतनामा चेति चार्थः । अतः प्रकरणविरोधाभावात्प्रधानवायुरेवेह वायुनामेति । उक्तमेव प्रपञ्चयति महामानीति ॥ महामानी त्वल्पमानी च यस्मात् तच्छब्देनाप्युच्यते तेन सो ऽपि

pradhānavāyustviha vāyunāmā bhūteṣvitiproktagato 'pi yuktayā tuśabdo 'vadhāraṇe / iha śrutau bhūteṣviti proktagato 'pīti śaṅkābījānuvādaḥ / bhūteṣu layaṃ vakṣyāmītyāśayena śrutyā proktaṃ yatpṛthivyādikaṃ tadgato 'pīti / yadvā bhūteṣu devānāṃ laya ityatrārthe proktaṃ sūtrakṛtā gṛhītaṃ śrutivākyaṃ tadgato 'pīti / kutaḥ / yuktyā uttamānāmindrādīnāmadhame bhūtavāyau layānupapatterityarthaḥ / pradhānavāyāvapi kathamindrādīnāṃ layopapattirityata āha yasmāditi // yasmācchrutau pavate ceti bhūri prokto ... yasmātkāraṇāt"sā vā eṣā devatānādiryo 'yaṃ pavate'; iti śrutau caśabdādanyāsvapi śrutiṣu pradhānavāyuḥ bhūritvena sakalajīvottamatvena proktaḥ, tasmāt tasminnindrādīnāṃ pralayopapatteḥ, pradhānavāyustviha vāyunāmeti sambandhaḥ / yadvā"eṣa vai brahma yo 'yaṃ pavate tametāḥ pañca devatāḥ parimriyante vidyudvṛṣṭiścandramā ādityo 'gniḥ'; iti śrutiratra vivakṣitā / tatra bhūrispaṣṭaṃ sūryādīnāṃ saṃhartā prokta iti / evaṃ tarhi bhūtaprakaraṇabādhaḥ syādityata āha yata iti // ... yato bhūtamānī ca so 'pi na kevalamapradhānavāyuḥ kintu sa pradhānavāyurapi bhūtamānitvādbhūtanāmā ceti cārthaḥ / ataḥ prakaraṇavirodhābhāvātpradhānavāyureveha vāyunāmeti / uktameva prapañcayati mahāmānīti // mahāmānī tvalpamānī ca yasmāt tacchabdenāpyucyate tena so 'pi

Sanskrit only: no published translation is held for this verse.

तस्मिन् लयं यान्ति भूतान्यशेषक्रमाविरोधेन स एव विष्णौ अशेषक्रमविरोधेन श्रुत्याद्युक्तं सर्वं क्रममनुसृत्य । भूतानि भूतादीनि दैवानि तस्मिंन्प्रधानवायौ लयं यान्ति । स एव विष्णौ लयं याति । यश्च यावदिन्द्र इति श्रुताविन्द्रादीनां प्रधानवायौ लयो ऽभिहितः सो ऽपि न साक्षादित्याह इन्द्रादीनामिति ॥ इन्द्रादीनां तत्र लयः क्रमं तु प्रोक्तं विशेषादनुसृत्य नान्यत्

tasmin layaṃ yānti bhūtānyaśeṣakramāvirodhena sa eva viṣṇau aśeṣakramavirodhena śrutyādyuktaṃ sarvaṃ kramamanusṛtya / bhūtāni bhūtādīni daivāni tasmiṃnpradhānavāyau layaṃ yānti / sa eva viṣṇau layaṃ yāti / yaśca yāvadindra iti śrutāvindrādīnāṃ pradhānavāyau layo 'bhihitaḥ so 'pi na sākṣādityāha indrādīnāmiti // indrādīnāṃ tatra layaḥ kramaṃ tu proktaṃ viśeṣādanusṛtya nānyat

Sanskrit only: no published translation is held for this verse.

तत्र प्रधानवायौ । विशेषादिति तृतीयार्थे पञ्चमी । विशेषवाक्येन प्रोक्तमनुसृत्य व्याख्यातव्यः । न त्वन्यद्वयाख्यानं साक्षात्तत्र लय इति । विशेषवाक्यविरोधादिति भावः । *१२,३४३* तमेव क्रमं सङ्क्षेपेण तावदाह तस्मादिति ॥ तस्मादशेषा गिरिजां प्रविश्य तयैव रुद्रं सह तेन वाणीम् । तया पतिं प्राप्य सहैव तेन लयं हरौ यान्ति समस्तजीवाः

tatra pradhānavāyau / viśeṣāditi tṛtīyārthe pañcamī / viśeṣavākyena proktamanusṛtya vyākhyātavyaḥ / na tvanyadvayākhyānaṃ sākṣāttatra laya iti / viśeṣavākyavirodhāditi bhāvaḥ / *12,343* tameva kramaṃ saṅkṣepeṇa tāvadāha tasmāditi // tasmādaśeṣā girijāṃ praviśya tayaiva rudraṃ saha tena vāṇīm / tayā patiṃ prāpya sahaiva tena layaṃ harau yānti samastajīvāḥ

Sanskrit only: no published translation is held for this verse.

विशेषप्रमाणस्य सर्वथानुसर्तव्यत्वादिति भावः । अत्र गिरिजाशब्दो वारुणीसौपर्णीपरो व्याख्येयः । तथा रुद्रशब्दः शेषगरुडपरः । तथाच वक्ष्यति । तया गिरिजया सहैव रुद्रं प्राप्य, पतिं वाण्याः । समस्तजीवा इत्यस्यैव विवरणमशेषा इति । यद्वा रुद्रं प्रविशन्तीत्यध्याहारेण व्याख्येयम् । अस्यैव विवरणमुत्तरवाक्यजातम् । *१२,३४४* तत्र वायाविन्द्र इति श्रुतावुक्तानामिन्द्रादीनां चतुर्णां पृथिव्यादीनां भूतानां च क्रमेणैव वायौ प्रवेश इति यदुक्तं तत्तावत्प्रपञ्च्यते । *१२,३४५* इह द्वौ मार्गौ शेषमार्गो गरुडमार्गश्च । तत्र शेषमार्गमादावाह सोमस्त्विति ॥ सोमस्तु वारीशयुतो ऽनिरुद्धं विशत्यसौ काममसौ च वारुणीम् । सा शेषदेवं स गिरं च सैव वायुं विशत्यञ्ज इतीह निर्णयः

viśeṣapramāṇasya sarvathānusartavyatvāditi bhāvaḥ / atra girijāśabdo vāruṇīsauparṇīparo vyākhyeyaḥ / tathā rudraśabdaḥ śeṣagaruḍaparaḥ / tathāca vakṣyati / tayā girijayā sahaiva rudraṃ prāpya, patiṃ vāṇyāḥ / samastajīvā ityasyaiva vivaraṇamaśeṣā iti / yadvā rudraṃ praviśantītyadhyāhāreṇa vyākhyeyam / asyaiva vivaraṇamuttaravākyajātam / *12,344* tatra vāyāvindra iti śrutāvuktānāmindrādīnāṃ caturṇāṃ pṛthivyādīnāṃ bhūtānāṃ ca krameṇaiva vāyau praveśa iti yaduktaṃ tattāvatprapañcyate / *12,345* iha dvau mārgau śeṣamārgo garuḍamārgaśca / tatra śeṣamārgamādāvāha somastviti // somastu vārīśayuto 'niruddhaṃ viśatyasau kāmamasau ca vāruṇīm / sā śeṣadevaṃ sa giraṃ ca saiva vāyuṃ viśatyañja itīha nirṇayaḥ

Sanskrit only: no published translation is held for this verse.

वारीशयुत इत्यनेनाब्देवताया वरुणस्य सोमे लय इत्युच्यते । इहेन्द्रादिचतुष्यये सोमस्य भूतेष्वपां च वायुप्रवेशे निर्णयः । प्राग्गिरिजां रुद्रमित्युक्तम् । इदानीं च गिरं वायुमिति । एते चत्वारः शब्दाः प्रसिद्धपदार्थका इति प्रतीतिं वारयितुमाह उमेति ॥ उमागिरीशावपि भारतीराविति स्म वाग् वेदगता ब्रवीति । अहीन्द्रपत्नीमहिपं विरिञ्चपत्नीं विरिञ्चं च विमुक्तिकाले

vārīśayuta ityanenābdevatāyā varuṇasya some laya ityucyate / ihendrādicatuṣyaye somasya bhūteṣvapāṃ ca vāyupraveśe nirṇayaḥ / prāggirijāṃ rudramityuktam / idānīṃ ca giraṃ vāyumiti / ete catvāraḥ śabdāḥ prasiddhapadārthakā iti pratītiṃ vārayitumāha umeti // umāgirīśāvapi bhāratīrāviti sma vāg vedagatā bravīti / ahīndrapatnīmahipaṃ viriñcapatnīṃ viriñcaṃ ca vimuktikāle

Sanskrit only: no published translation is held for this verse.

उमागिरीशाविति भारतीरावित्यपि । ईरः समीरः । वागित्येतत्पर्यायसमुदायो गृह्यते । प्रतीतार्थत्वे किं बाधकमित्यत उक्तम् विमुक्तिकाल इति । विमुक्तिप्रतिपादनावसरे । एतेनोमादीनां चतुर्णामिह जन्मनि मुक्त्यभावादिति बाधकं सूचितं भवति । वेदवाक्यानुसारिणो वयमपि तथैव प्रयुक्तवन्तः स्म इति भावः । उमादिशब्दानां वारुण्यादिवृत्तौ किं निमित्तमित्यत आह त एवेति ॥ त एव यत् तत्पदमाप्नुवन्ति ॥।

umāgirīśāviti bhāratīrāvityapi / īraḥ samīraḥ / vāgityetatparyāyasamudāyo gṛhyate / pratītārthatve kiṃ bādhakamityata uktam vimuktikāla iti / vimuktipratipādanāvasare / etenomādīnāṃ caturṇāmiha janmani muktyabhāvāditi bādhakaṃ sūcitaṃ bhavati / vedavākyānusāriṇo vayamapi tathaiva prayuktavantaḥ sma iti bhāvaḥ / umādiśabdānāṃ vāruṇyādivṛttau kiṃ nimittamityata āha ta eveti // ta eva yat tatpadamāpnuvanti ...

Sanskrit only: no published translation is held for this verse.

तत्काले उमात्वादिकाले । एतानुमादीन्देवान् । ब्रह्मत्वकाले तेषामेव वाय्वादीनां ब्रह्मत्वादेः काले । एतान् वारुण्यादीन् । चो यस्मादित्यर्थे । इति तस्मात् । वाक् वेदवाणी । तादृशताम् उमादिशब्दवत्ताम् । *१२,३४६* एतदुक्तं भवति । यो यस्मिन्नतिपरिचयवांस्तस्याश्रमान्तरप्राप्त्यादिना नामान्तरे प्राप्ते ऽपि प्रयोग इति किं प्रयोजनान्वेषणेनेति । *१२,३४७* इदानीं गरुडमार्गमाह सूयर् इति ॥ सूर्यो ऽग्नियुक्तो गुरुमाप्य तेन शक्रं सहैनेन सुपर्णपत्नीम् । तया सुपर्णं सह तेन वाणीं ब्रह्माणमेतद्गत एव याति

tatkāle umātvādikāle / etānumādīndevān / brahmatvakāle teṣāmeva vāyvādīnāṃ brahmatvādeḥ kāle / etān vāruṇyādīn / co yasmādityarthe / iti tasmāt / vāk vedavāṇī / tādṛśatām umādiśabdavattām / *12,346* etaduktaṃ bhavati / yo yasminnatiparicayavāṃstasyāśramāntaraprāptyādinā nāmāntare prāpte 'pi prayoga iti kiṃ prayojanānveṣaṇeneti / *12,347* idānīṃ garuḍamārgamāha sūyar iti // sūryo 'gniyukto gurumāpya tena śakraṃ sahainena suparṇapatnīm / tayā suparṇaṃ saha tena vāṇīṃ brahmāṇametadgata eva yāti

Sanskrit only: no published translation is held for this verse.

अग्नियुक्त इत्यनेनाग्नेः सूर्ये लय इत्युच्यते । अनेनाग्निरिन्द्र इति श्रुतिः परम्परापेक्षेत्युक्तं भवति । एतद्गतो वाणीगत एव । एतेनेन्द्रादिष्विन्द्रादित्यबृहस्पतीनां, भूतेषु तेजसो, वायौ लयो विवृतो भवति । नन्वेतत्"इन्द्र उमायामुमा रुद्रे विलीयतेऽ; इति श्रुतिविरुद्धम् । उमारुद्रशब्दयोः स्वार्थपरित्यागे ऽपि वारुणीशेषपरतया व्याख्यातत्वादित्यत आह इन्द्रेति ॥ इन्द्रप्रवेशस्तु यदोच्यते ऽत्र तदा ह्युमेत्येव सुपर्णपत्नी । उक्ता सुपर्णश्च गिरीशनाम्ना ततो विरोधश्च न कश्चनात्र

agniyukta ityanenāgneḥ sūrye laya ityucyate / anenāgnirindra iti śrutiḥ paramparāpekṣetyuktaṃ bhavati / etadgato vāṇīgata eva / etenendrādiṣvindrādityabṛhaspatīnāṃ, bhūteṣu tejaso, vāyau layo vivṛto bhavati / nanvetat"indra umāyāmumā rudre vilīyate'; iti śrutiviruddham / umārudraśabdayoḥ svārthaparityāge 'pi vāruṇīśeṣaparatayā vyākhyātatvādityata āha indreti // indrapraveśastu yadocyate 'tra tadā hyumetyeva suparṇapatnī / uktā suparṇaśca girīśanāmnā tato virodhaśca na kaścanātra

Sanskrit only: no published translation is held for this verse.

यदातदाशब्दावधिकरणमात्रस्यापलक्षकौ यत्र श्रुतौ अत्र उमायामिन्द्रप्रवेश उच्यते । तस्याश्चोमाया रुद्रे । सुपर्णपत्न्नयेव । गिरीशनाम्ना गिरीशपर्यायेण । सौपर्ण्यामिन्द्रलयस्य बलवच्छतिसिद्धत्वादिति हिशब्दः । अत्र पदसादृश्यं प्रवृत्तिनिमित्तमिति भावः । *१२,३४९* अधुना"तानि परेऽ; इत्युक्तानां हिरण्यगर्भे लयप्रकारमाह भृग्वादय इति ॥ भृग्वादयो दक्षमवाप्य तेन प्राप्येन्द्रमेतेन सुपर्णपत्नीम् । विशन्ति ये मनवो राजमुख्या मनुं प्रविश्यात्र गता महेन्द्रम्

yadātadāśabdāvadhikaraṇamātrasyāpalakṣakau yatra śrutau atra umāyāmindrapraveśa ucyate / tasyāścomāyā rudre / suparṇapatnnayeva / girīśanāmnā girīśaparyāyeṇa / sauparṇyāmindralayasya balavacchatisiddhatvāditi hiśabdaḥ / atra padasādṛśyaṃ pravṛttinimittamiti bhāvaḥ / *12,349* adhunā"tāni pare'; ityuktānāṃ hiraṇyagarbhe layaprakāramāha bhṛgvādaya iti // bhṛgvādayo dakṣamavāpya tena prāpyendrametena suparṇapatnīm / viśanti ye manavo rājamukhyā manuṃ praviśyātra gatā mahendram

Sanskrit only: no published translation is held for this verse.

सुपर्णपत्न्नयाः सुपर्णे लयः सिद्ध एव । इन्द्रपर्यन्तमेव वक्तव्ये ऽधिकवचनमुक्तदार्ढ्यार्थम् । एवमुत्तरत्रापि । ये मनवो वैवस्वताद्याः ये च राजमुख्याः प्रियव्रताद्यास्ते स्वायम्भुवमनुं प्रविश्य अत्र स्वायम्भुवे मनौ गता वर्तमाना महेन्द्रम् । विशन्तीत्युभयत्र सम्बध्यते । भूतेषु पृथिव्याकाशयोर्लयप्रकारो वक्तव्यस्तमाह आकाश इति आकाश उर्वी च गुरुं प्रविश्य तेनैव यातः पुरुहूतदेवम् । सनादयो यतयः काममेव विशन्ति शिष्टा अपि हव्यवाहम्

suparṇapatnnayāḥ suparṇe layaḥ siddha eva / indraparyantameva vaktavye 'dhikavacanamuktadārḍhyārtham / evamuttaratrāpi / ye manavo vaivasvatādyāḥ ye ca rājamukhyāḥ priyavratādyāste svāyambhuvamanuṃ praviśya atra svāyambhuve manau gatā vartamānā mahendram / viśantītyubhayatra sambadhyate / bhūteṣu pṛthivyākāśayorlayaprakāro vaktavyastamāha ākāśa iti ākāśa urvī ca guruṃ praviśya tenaiva yātaḥ puruhūtadevam / sanādayo yatayaḥ kāmameva viśanti śiṣṭā api havyavāham

Sanskrit only: no published translation is held for this verse.

वायुभूतस्य मुख्याभिमानी प्रधानवायुरित्युक्तम् । अमुख्याभिमानिनस्तु"शक्रं मरुद्गणाःऽ; इति लयो वक्ष्यते । सनादय इति । सनत्कुमारव्यतिरिक्ताः । तस्य कामावतारत्वात् । कामस्य तु वारुण्यामुक्त एव लयः । शिष्या उक्तेभ्यः । एतेन"अग्नौ सर्वे देवा विलीयन्तेऽ; इत्यस्य विषयो दर्शितः । अस्यापवादमाह वर्णाश्रमेति ॥ वर्णाश्रमाचाररता मनुष्या धर्मं मनुं सो ऽपि समेति काले । तमेव सर्वे पितरः सुरानुगाः सर्वे कुबेरं स च सोममेव

vāyubhūtasya mukhyābhimānī pradhānavāyurityuktam / amukhyābhimāninastu"śakraṃ marudgaṇāḥ'; iti layo vakṣyate / sanādaya iti / sanatkumāravyatiriktāḥ / tasya kāmāvatāratvāt / kāmasya tu vāruṇyāmukta eva layaḥ / śiṣyā uktebhyaḥ / etena"agnau sarve devā vilīyante'; ityasya viṣayo darśitaḥ / asyāpavādamāha varṇāśrameti // varṇāśramācāraratā manuṣyā dharmaṃ manuṃ so 'pi sameti kāle / tameva sarve pitaraḥ surānugāḥ sarve kuberaṃ sa ca somameva

Sanskrit only: no published translation is held for this verse.

एतत्प्रसङ्गान्मुक्तौ प्रवेशमात्रमुक्तं न तु देहलयः । तेषामुत्क्रमणस्य विद्यमानत्वात् । वर्णाश्रमाचाररता इत्यनेन मनुष्याणां मुक्तौ वर्णाश्रमवत्त्वमस्तीति सूचयति । धर्मस्य तु स्वायम्भुवे मनौ लय एव । काले मोक्षकाले । सर्वे पितरः तं धर्ममेव संयान्ति । सर्वे सुरानुगा गन्धर्वाद्या कुबेरम् । उपसंहरति विमुक्तीति ॥ *१२,३५०* विमुक्तिकाले प्रविशन्त्यभीक्ष्णं भोगांश्च तद्देहगताः प्रभुञ्जते एवं सर्वे यथोक्तप्रकारेण विमुक्तिकाले प्रविशन्त्युत्तमानिति शेषः । न केवलं प्रविशन्ति किं तर्हीत्यत आह अभीक्ष्णमिति ॥ आविष्यग्रहवदित्यर्थः । किमनेन प्रवेशेनेत्यत आह आनन्देति ॥ आनन्दसुव्यक्तिरमुत्र तेषां भवत्य् ॥। अमुत्र उत्तमेषु प्रवेशेन । *१२,३५१* प्रविष्यानां पुनर्निर्गमो ऽस्ति न वेति शङ्कायामाह अतश्चेति ॥ ॥। अतश्चेष्यत एव निर्गताः । क्रीडन्ति ॥। अत एभ्य उत्तमेभ्यो निर्गताश्चेति सम्बन्धः । इष्यम् इच्छा । नपुंसके भावे क्तः । निर्गतानां पुनः प्रवेशो ऽस्ति न वेत्यत आह भूयश्चेति ॥ ॥। भूयश्च समाविशन्ति तानेव ॥। तान् पूर्वप्रविष्यानेव । नन्वेवंविधा मुक्तिः क्वापि नोपलब्धेत्यत आह सायुज्यमिति ॥ ॥। सायुज्यमिदं वदन्ति

etatprasaṅgānmuktau praveśamātramuktaṃ na tu dehalayaḥ / teṣāmutkramaṇasya vidyamānatvāt / varṇāśramācāraratā ityanena manuṣyāṇāṃ muktau varṇāśramavattvamastīti sūcayati / dharmasya tu svāyambhuve manau laya eva / kāle mokṣakāle / sarve pitaraḥ taṃ dharmameva saṃyānti / sarve surānugā gandharvādyā kuberam / upasaṃharati vimuktīti // *12,350* vimuktikāle praviśantyabhīkṣṇaṃ bhogāṃśca taddehagatāḥ prabhuñjate evaṃ sarve yathoktaprakāreṇa vimuktikāle praviśantyuttamāniti śeṣaḥ / na kevalaṃ praviśanti kiṃ tarhītyata āha abhīkṣṇamiti // āviṣyagrahavadityarthaḥ / kimanena praveśenetyata āha ānandeti // ānandasuvyaktiramutra teṣāṃ bhavaty ... amutra uttameṣu praveśena / *12,351* praviṣyānāṃ punarnirgamo 'sti na veti śaṅkāyāmāha ataśceti // ... ataśceṣyata eva nirgatāḥ / krīḍanti ... ata ebhya uttamebhyo nirgatāśceti sambandhaḥ / iṣyam icchā / napuṃsake bhāve ktaḥ / nirgatānāṃ punaḥ praveśo 'sti na vetyata āha bhūyaśceti // ... bhūyaśca samāviśanti tāneva ... tān pūrvapraviṣyāneva / nanvevaṃvidhā muktiḥ kvāpi nopalabdhetyata āha sāyujyamiti // ... sāyujyamidaṃ vadanti

Sanskrit only: no published translation is held for this verse.

लये तु लय एव । विशन्त्युत्तमान् । बहिस्तेभ्यः । एतत्सायुज्यभाजामपि समानमिति नेत्याह तत इति ॥ ॥। ततो ऽन्यदापि सायुज्यभाजां भवति प्रवेशः

laye tu laya eva / viśantyuttamān / bahistebhyaḥ / etatsāyujyabhājāmapi samānamiti netyāha tata iti // ... tato 'nyadāpi sāyujyabhājāṃ bhavati praveśaḥ

Sanskrit only: no published translation is held for this verse.

ततः लयकालात् । *१२,३५३* नन्वेतत्सर्वं कुतः प्रमाणात्प्रतिपत्तव्यमित्यत आह उक्तमिति ॥ उक्तं समस्तं परमश्रुतौ हि प्रोक्तं च ॥। अस्यास्मिंल्लय इत्युक्तं समस्तम् । परमश्रुतिश्च विस्तरभयान्न पठिता । चशब्द उत्तरवाक्येन सम्बद्धयते । प्रमाणान्तरमाह सर्गेति ॥ ॥। सर्गक्रमतो विपर्ययः । मुक्तौ ॥। मुक्तौ सर्गक्रमतो विपर्यय इति । यो यस्माज्जातस्तस्य तस्मिन्मुक्तिरिति तावदङ्गीकरणीयमित्यर्थः । एतच्चापवादाभावे सतीति ज्ञेयम् । तथाच न्यायविवरणे । कुत एतदित्यत आह लय इति ॥ ॥। लये यद्वद् ॥। साधारणप्रलये सर्गक्रमाद्विपर्ययस्य सत्त्वादिति भावः । एतदपि कुत इत्यत आह अथो इति ॥ ॥। अथो लयश्च विपर्ययेणेत्यवदद् गिरां पतिः

tataḥ layakālāt / *12,353* nanvetatsarvaṃ kutaḥ pramāṇātpratipattavyamityata āha uktamiti // uktaṃ samastaṃ paramaśrutau hi proktaṃ ca ... asyāsmiṃllaya ityuktaṃ samastam / paramaśrutiśca vistarabhayānna paṭhitā / caśabda uttaravākyena sambaddhayate / pramāṇāntaramāha sargeti // ... sargakramato viparyayaḥ / muktau ... muktau sargakramato viparyaya iti / yo yasmājjātastasya tasminmuktiriti tāvadaṅgīkaraṇīyamityarthaḥ / etaccāpavādābhāve satīti jñeyam / tathāca nyāyavivaraṇe / kuta etadityata āha laya iti // ... laye yadvad ... sādhāraṇapralaye sargakramādviparyayasya sattvāditi bhāvaḥ / etadapi kuta ityata āha atho iti // ... atho layaśca viparyayeṇetyavadad girāṃ patiḥ

Sanskrit only: no published translation is held for this verse.

अथोशब्दो ऽर्थान्तरे । विपर्ययेण सर्गक्रममपेक्ष्य । अवदत् उपपादितवान् । गिरां वेदवाचां प्रभुः सूत्रकारः । यथा"विपर्ययेण तु क्रमो ऽत्र उपपद्यते चऽ; इति । लये सृष्टिक्रमतो विपर्ययश्चेन्मुक्तौ तथा भाव्यमित्यत्र किं नियमाकमित्यत आह लय इति ॥ लयो यतो मुक्तिरियं सुराणां ॥। यतः कारणात्सुराणां लय एवेयं मुक्तिर्न तु मनुष्याणामिव प्रागेव देहादुत्क्रान्तिः । तस्मादुक्तं युक्तम् । सामान्यविशेषभावान्न साध्यविशिष्यतादोषः । सर्गश्चोक्तानुगुण एव श्रुत्यादिसिद्ध इति भावः । ननु प्राङ् मुक्तानां भोगादिकं समर्थितम् । इदानीं तूच्यते लय एव मुक्तिरिति । तत्कथं पूर्वापरविरोधो न भवतीत्यत आह भोग इति ॥ *१२,३५४* ॥। भोगो विशेषेण च ॥। विशेषेण देवपदादप्यतिशयेन । देहहानिलक्षणा मुक्तिर्लयान्न विशिष्यत इत्युक्तं न तु सर्वापीति भावः । अत एव प्रागियमित्युक्तम् । *१२,३५६* भोगश्च मुक्तिरिति सूत्रकारानुक्तं कस्मादुपसङ्खयेयमित्यत आह यमिति ॥ ॥। यं वदिष्यति यं भोगं चतुर्थपादे सूत्रकारो वक्ष्यति मुक्तित्वेन सः । प्रमाणान्तरं चाह उक्तश्चेति ॥ *१२,३५७* उक्तश्च बिम्बप्रतिबिम्बभावः पिङ्गश्रुतावुक्तलयानुसारतः

athośabdo 'rthāntare / viparyayeṇa sargakramamapekṣya / avadat upapāditavān / girāṃ vedavācāṃ prabhuḥ sūtrakāraḥ / yathā"viparyayeṇa tu kramo 'tra upapadyate ca'; iti / laye sṛṣṭikramato viparyayaścenmuktau tathā bhāvyamityatra kiṃ niyamākamityata āha laya iti // layo yato muktiriyaṃ surāṇāṃ ... yataḥ kāraṇātsurāṇāṃ laya eveyaṃ muktirna tu manuṣyāṇāmiva prāgeva dehādutkrāntiḥ / tasmāduktaṃ yuktam / sāmānyaviśeṣabhāvānna sādhyaviśiṣyatādoṣaḥ / sargaścoktānuguṇa eva śrutyādisiddha iti bhāvaḥ / nanu prāṅ muktānāṃ bhogādikaṃ samarthitam / idānīṃ tūcyate laya eva muktiriti / tatkathaṃ pūrvāparavirodho na bhavatītyata āha bhoga iti // *12,354* ... bhogo viśeṣeṇa ca ... viśeṣeṇa devapadādapyatiśayena / dehahānilakṣaṇā muktirlayānna viśiṣyata ityuktaṃ na tu sarvāpīti bhāvaḥ / ata eva prāgiyamityuktam / *12,356* bhogaśca muktiriti sūtrakārānuktaṃ kasmādupasaṅkhayeyamityata āha yamiti // ... yaṃ vadiṣyati yaṃ bhogaṃ caturthapāde sūtrakāro vakṣyati muktitvena saḥ / pramāṇāntaraṃ cāha uktaśceti // *12,357* uktaśca bimbapratibimbabhāvaḥ piṅgaśrutāvuktalayānusārataḥ

Sanskrit only: no published translation is held for this verse.

बिम्बप्रतिबिम्बभावो देवानामुक्तलयानुसारत इति । यस्मिन्यस्यास्माभिर्लय उक्तः स बिम्बः अपरः प्रतिबिम्ब इत्युक्तमस्तीत्यर्थः । ततः किमित्यत आह बिम्ब इति ॥ बिम्बे लयो यन्नियतश्च मुक्तौ चिदात्मनां तद्वशता च सर्वदा

bimbapratibimbabhāvo devānāmuktalayānusārata iti / yasminyasyāsmābhirlaya uktaḥ sa bimbaḥ aparaḥ pratibimba ityuktamastītyarthaḥ / tataḥ kimityata āha bimba iti // bimbe layo yanniyataśca muktau cidātmanāṃ tadvaśatā ca sarvadā

Sanskrit only: no published translation is held for this verse.

वायुः प्रलये तेजो ऽभिधां श्रियमाप्य तत्र लीनो भूत्वा विष्णुमाप्तः । सृष्टिकाले जाते ऽग्रे सर्वेभ्यः पूर्वं, ततो विष्णोः, पुत्रतया हिरण्यगर्भत्वेन प्रसूतः । पुनरेव प्रलये मुक्तौ विष्णुं प्रविश्य अत्र विष्णौ तिष्ठति । इदमुक्तं भवति । तेजःशब्दस्य लक्ष्मीवाचित्वान्नोक्तविरोधः । एवं तर्हि"विलीनो हि प्रकृतौ संसारमेतिऽ; इति श्रुतेर्वायोः संसारप्रसङ्ग इति चेन्न । इष्टत्वात् । हिरण्यगर्भत्वेन पुनजर्ननाङ्गीकारात् । एवमपि ब्रह्मविदो मुक्त्यभावप्रसङ्ग इति चेन्न । हिरण्यगर्भत्वानन्तरं मुक्तिस्वीकारादिति । इदं च प्राणशब्दस्य वायुवाचित्वपक्षमादायोक्तम् । हिरण्यगर्भवाचित्वपक्षे तु भाष्योक्तं द्रष्टव्यम् । मुक्तानां स्वस्तोत्तमदेवताः प्रविश्यावस्थानमित्युक्तम् । नैतावदेव । किन्तु भगवत्प्रवेशो ऽप्यस्ति । उक्तश्च भोगो नानन्दस्य जनकः किन्तु व्यञ्जक एव । आनन्दस्तु स्वरूपभूत इत्याह सर्वे ऽपीति ॥ सर्वे ऽपि ते मुक्तगणा अमन्दसान्द्रं निजानन्दमशेषतो ऽपि । भुञ्जन्त एवासत ईशदेहे लये ऽथ सर्गे बहिरेव यान्ति

vāyuḥ pralaye tejo 'bhidhāṃ śriyamāpya tatra līno bhūtvā viṣṇumāptaḥ / sṛṣṭikāle jāte 'gre sarvebhyaḥ pūrvaṃ, tato viṣṇoḥ, putratayā hiraṇyagarbhatvena prasūtaḥ / punareva pralaye muktau viṣṇuṃ praviśya atra viṣṇau tiṣṭhati / idamuktaṃ bhavati / tejaḥśabdasya lakṣmīvācitvānnoktavirodhaḥ / evaṃ tarhi"vilīno hi prakṛtau saṃsārameti'; iti śrutervāyoḥ saṃsāraprasaṅga iti cenna / iṣṭatvāt / hiraṇyagarbhatvena punajarnanāṅgīkārāt / evamapi brahmavido muktyabhāvaprasaṅga iti cenna / hiraṇyagarbhatvānantaraṃ muktisvīkārāditi / idaṃ ca prāṇaśabdasya vāyuvācitvapakṣamādāyoktam / hiraṇyagarbhavācitvapakṣe tu bhāṣyoktaṃ draṣṭavyam / muktānāṃ svastottamadevatāḥ praviśyāvasthānamityuktam / naitāvadeva / kintu bhagavatpraveśo 'pyasti / uktaśca bhogo nānandasya janakaḥ kintu vyañjaka eva / ānandastu svarūpabhūta ityāha sarve 'pīti // sarve 'pi te muktagaṇā amandasāndraṃ nijānandamaśeṣato 'pi / bhuñjanta evāsata īśadehe laye 'tha sarge bahireva yānti

Sanskrit only: no published translation is held for this verse.

निरृतिस्तु धर्मं प्रयाति । मरुद्गणाः शक्रं प्रयान्ति । तथाशब्दः समुच्चये । पृतनाधिपाद्या विष्वक्सेनाद्याः सर्वे भगवतः पार्षदा अनिरुद्धं प्रयान्ति । देहलयार्थमिति शेषः । अनिरुद्धस्य तु कामे लय उक्त एवेत्येवार्थः । अत्र प्रमाणमाह तुरेति ॥ ॥। तुरश्रुतिर्हीत्थम् ॥। अत एवैतत्तत्रैव नोक्तं परमश्रुतावनुक्तत्वात् । *१२,३६१* पादार्थमुपसंहरति इयमिति ॥ ॥। इयं विमुक्तिः

nirṛtistu dharmaṃ prayāti / marudgaṇāḥ śakraṃ prayānti / tathāśabdaḥ samuccaye / pṛtanādhipādyā viṣvaksenādyāḥ sarve bhagavataḥ pārṣadā aniruddhaṃ prayānti / dehalayārthamiti śeṣaḥ / aniruddhasya tu kāme laya ukta evetyevārthaḥ / atra pramāṇamāha tureti // ... turaśrutirhīttham ... ata evaitattatraiva noktaṃ paramaśrutāvanuktatvāt / *12,361* pādārthamupasaṃharati iyamiti // ... iyaṃ vimuktiḥ

Sanskrit only: no published translation is held for this verse.

*१२,३६२* मार्गो गम्यं चास्मिन्पाद उच्यत इति भाष्यम् । तत्प्राक् प्रसङ्गाद्विवृतमपीहावरप्राप्तौ विशेषतो विवृणोति उत्क्रान्तेति ॥ उत्क्रान्तमार्गश्च विमुक्तगम्यं पादोदितम् ॥। ये शरीरादुत्क्रान्ता मानुषास्तेषां मार्गो भगवल्लोकगमनार्थः । गम्यमपि तेषामेवेति प्रतीतिनिरासायोक्तम् विमुक्तेति ॥ ये कर्मणो देहाच्च विमुक्तास्तेषां सर्वेषामपि गम्यम् । इदमुभयमेतत्पादोदितम् । अत्राधिकरणेषु पूर्वपक्षयुक्तिः सिद्धान्तयुक्तीश्चाह सुक्रमेति ॥ ॥। सुक्रमविक्रमौ च सान्तानिकं प्राप्तिरभीष्यता च सौकयर्मित्यन्यमतस्य तर्काः

*12,362* mārgo gamyaṃ cāsminpāda ucyata iti bhāṣyam / tatprāk prasaṅgādvivṛtamapīhāvaraprāptau viśeṣato vivṛṇoti utkrānteti // utkrāntamārgaśca vimuktagamyaṃ pādoditam ... ye śarīrādutkrāntā mānuṣāsteṣāṃ mārgo bhagavallokagamanārthaḥ / gamyamapi teṣāmeveti pratītinirāsāyoktam vimukteti // ye karmaṇo dehācca vimuktāsteṣāṃ sarveṣāmapi gamyam / idamubhayametatpādoditam / atrādhikaraṇeṣu pūrvapakṣayuktiḥ siddhāntayuktīścāha sukrameti // ... sukramavikramau ca sāntānikaṃ prāptirabhīṣyatā ca saukayarmityanyamatasya tarkāḥ

Sanskrit only: no published translation is held for this verse.

॥। प्रतीकं देहादिकं ॥। आदिपदेन मनःप्रभृतीनां भगवत्प्रतिमानां ग्रहणम् । यद्यपि सूत्रे ऽप्रतीकालम्बनानां गम्यमुक्तं प्रतीकालम्बनानां तु परिशेषसिद्धम् । तथाप्यस्पष्टस्पष्टीकरणार्थं प्रवृत्तत्वादभावस्य भावपूर्वकत्वाच्च परिशेषसिद्धमेवार्थमादावाह तद्गतमिति ॥ ॥। तद्गतमेव ये नराः

... pratīkaṃ dehādikaṃ ... ādipadena manaḥprabhṛtīnāṃ bhagavatpratimānāṃ grahaṇam / yadyapi sūtre 'pratīkālambanānāṃ gamyamuktaṃ pratīkālambanānāṃ tu pariśeṣasiddham / tathāpyaspaṣṭaspaṣṭīkaraṇārthaṃ pravṛttatvādabhāvasya bhāvapūrvakatvācca pariśeṣasiddhamevārthamādāvāha tadgatamiti // ... tadgatameva ye narāḥ

Sanskrit only: no published translation is held for this verse.

प्रतीकगतमेव विष्णुम् । ते प्रतीकालम्बनाः । पुरतः प्राक् प्रलयकालात् । अस्मात् ब्रह्मणः । मतिं भगवज्ज्ञानविशेषम् । प्राप्स्यन्ति प्रलये । इदानीं सूत्रितामप्रतीकालम्बनानां गतिं प्रपञ्चयति अत इति ॥ ॥। अतो ऽन्ये ऽपि तमाप्य तस्माद्धरिं गता मुक्तिभाजः परान्ते

pratīkagatameva viṣṇum / te pratīkālambanāḥ / purataḥ prāk pralayakālāt / asmāt brahmaṇaḥ / matiṃ bhagavajjñānaviśeṣam / prāpsyanti pralaye / idānīṃ sūtritāmapratīkālambanānāṃ gatiṃ prapañcayati ata iti // ... ato 'nye 'pi tamāpya tasmāddhariṃ gatā muktibhājaḥ parānte

Sanskrit only: no published translation is held for this verse.

*१२,३६६* ॥ अथ श्रीमन्न्यायसुधायां चतुर्थाध्यायस्य चतुर्थः पादः ॥ पादप्रतिपाद्यं तत्सङ्गतिश्च प्रसिद्धैवेत्यतः पूर्वोत्तरपक्षयुक्तिरेवाह अतिक्रमेति ॥ अतिक्रमोक्तिः कृतिरर्थलाभः परा गतिः पारगतिस्तदोकः । समस्तकार्यं वशिता च विश्वसम्भावना युक्तयस्त्वन्यपक्षे

*12,366* // atha śrīmannyāyasudhāyāṃ caturthādhyāyasya caturthaḥ pādaḥ // pādapratipādyaṃ tatsaṅgatiśca prasiddhaivetyataḥ pūrvottarapakṣayuktirevāha atikrameti // atikramoktiḥ kṛtirarthalābhaḥ parā gatiḥ pāragatistadokaḥ / samastakāryaṃ vaśitā ca viśvasambhāvanā yuktayastvanyapakṣe

Sanskrit only: no published translation is held for this verse.

सामान्यरूपं प्रतिभानमुक्तिराश्चर्यताकृत्रिमतास्तदोषः । विशेषकॢप्तिः कृतनिःश्रमश्च माहात्म्यमित्येव सुनिर्णयार्थाः

sāmānyarūpaṃ pratibhānamuktirāścaryatākṛtrimatāstadoṣaḥ / viśeṣakḷptiḥ kṛtaniḥśramaśca māhātmyamityeva sunirṇayārthāḥ

Sanskrit only: no published translation is held for this verse.

अनन्यभृत्यत्वमिहोदितभ्यस्त्वन्यस्य भृत्यत्वनिवारणाय इह सूत्रे मुक्तस्यानन्याधिपतिरिति यदनन्यभृत्यत्वमुक्तं तत्तूदितेभ्या ये यस्य मुक्तस्याधिपतित्वेनोदिताः शास्त्रे तेभ्यः अन्यस्य भृत्यो न भवति मुक्त इति प्रतिपादनाय । नतु सर्वथा अधिपतिनिवारणाय । कुतः । अनन्यपदप्रयोगात् । अन्यथापतिरित्यक्ष्यत् । *१२,३६८* इतश्चैवमेवेत्याह पतिमिति ॥ पतिं यदेषामपि विष्णुमाह ह्युतामृतत्वस्य पतित्ववाग्धरेः

ananyabhṛtyatvamihoditabhyastvanyasya bhṛtyatvanivāraṇāya iha sūtre muktasyānanyādhipatiriti yadananyabhṛtyatvamuktaṃ tattūditebhyā ye yasya muktasyādhipatitvenoditāḥ śāstre tebhyaḥ anyasya bhṛtyo na bhavati mukta iti pratipādanāya / natu sarvathā adhipatinivāraṇāya / kutaḥ / ananyapadaprayogāt / anyathāpatirityakṣyat / *12,368* itaścaivamevetyāha patimiti // patiṃ yadeṣāmapi viṣṇumāha hyutāmṛtatvasya patitvavāgdhareḥ

Sanskrit only: no published translation is held for this verse.

यत् यस्माद्धरेरमृतत्वस्योत यत्पतित्वं तस्य वाक्"उतामृतत्वस्येशानःऽ; इति श्रुतिरिति यावत् । विष्णुमेषां मुक्तानां पतिमाह । ततो ऽप्युक्त एव सूत्रार्थो नापर इति । *१२,३६९* अनुमानेनाप्येतमर्थं समर्थयते एते ऽपीति ॥ एते ऽपिचान्याधिपतित्वयुक्ता विष्ण्वन्यचित्त्वेन यथा पुमांसः । प्रसिद्धिभाजस्त्विति चानुमैव ह्यभीष्यसिद्धयै भवतीह निश्चयात्

yat yasmāddhareramṛtatvasyota yatpatitvaṃ tasya vāk"utāmṛtatvasyeśānaḥ'; iti śrutiriti yāvat / viṣṇumeṣāṃ muktānāṃ patimāha / tato 'pyukta eva sūtrārtho nāpara iti / *12,369* anumānenāpyetamarthaṃ samarthayate ete 'pīti // ete 'picānyādhipatitvayuktā viṣṇvanyacittvena yathā pumāṃsaḥ / prasiddhibhājastviti cānumaiva hyabhīṣyasiddhayai bhavatīha niścayāt

Sanskrit only: no published translation is held for this verse.

अपि चेति प्रमाणसमुच्चये । एते मुक्ताः । अन्यो ऽधिपतिर्येषां ते ऽन्याधिपतयः । तेषां भावो ऽन्याधिपतित्वं तेन युक्ताः । विष्ण्वन्यत्वेन चित्त्वेन जीवत्वेन च । तुशब्दो विशेषार्थः । परकीयव्याख्यानानुसारेणान्याधिपतित्वयुक्ता इति प्रतिज्ञातम् । स्वमते त्वधिपतियुक्ता इत्येव प्रतिज्ञेति । यदि कश्चिदुदाहृतश्रुत्यर्थे विप्रतिपद्येत तस्यानुमानेनैवाल(मित्युक्त)मित्यनुमैव चेह मुक्तेष्वभीष्यस्याधिपतिसाहित्यस्य सिद्धयै भवतीति । कथम् । व्याप्तिपक्षधर्म(त्व)तयोः प्रमितत्वादिति हिशब्दः । मुक्ता अधिपतिरहिता मुक्तत्वादवन्ध्यसङ्कल्पत्वादीश्वरवदित्यनुमानप्रतिरोध इति चेन्न । मूलप्रकृतावनैकान्त्यात् । विपक्षे बाधकाभावाच्च । तदिदमुक्तं निश्चयादिति । *१२,३७०* न केवलं मुक्तानां भगवानधिपतिः किं त्वन्ये ऽपि यथासम्भवं भवन्तीत्याशयवानाह मुक्तेति ॥ मुक्तस्वकीयावरयन्तृतास्ति मुक्तावपि ब्रह्मपुरस्सराणाम् ब्रह्मपुरःसराणामपि मुक्तौ मुक्ताश्च ते स्वकीयाः स्वैः सह मुक्तिं गताश्च च ते ऽवराश्च मुक्तस्वकीयावरास्तान्नियन्तृतास्ति । अमुक्तान्प्रति यन्तृता सर्वथा नास्ति । यथाऽह सूत्रकारः"विकारवतिर् चऽ; इति । मुक्तेष्वपि कल्पान्तरे मुक्तान्स्वकल्पे मुक्तेष्वप्युत्तमान्समांश्च प्रति नास्तीत्यतो मुक्तेत्याद्युक्तम् । अनेन परोदाहृतश्रुतीनां गतिश्चोक्ता भवति । *१२,३७१* कुत एतदित्यत आह अनेनेति ॥ अनेन देवेन तथामुना च हीष्ये परार्वाक्तनलोकिनामिति

api ceti pramāṇasamuccaye / ete muktāḥ / anyo 'dhipatiryeṣāṃ te 'nyādhipatayaḥ / teṣāṃ bhāvo 'nyādhipatitvaṃ tena yuktāḥ / viṣṇvanyatvena cittvena jīvatvena ca / tuśabdo viśeṣārthaḥ / parakīyavyākhyānānusāreṇānyādhipatitvayuktā iti pratijñātam / svamate tvadhipatiyuktā ityeva pratijñeti / yadi kaścidudāhṛtaśrutyarthe vipratipadyeta tasyānumānenaivāla(mityukta)mityanumaiva ceha mukteṣvabhīṣyasyādhipatisāhityasya siddhayai bhavatīti / katham / vyāptipakṣadharma(tva)tayoḥ pramitatvāditi hiśabdaḥ / muktā adhipatirahitā muktatvādavandhyasaṅkalpatvādīśvaravadityanumānapratirodha iti cenna / mūlaprakṛtāvanaikāntyāt / vipakṣe bādhakābhāvācca / tadidamuktaṃ niścayāditi / *12,370* na kevalaṃ muktānāṃ bhagavānadhipatiḥ kiṃ tvanye 'pi yathāsambhavaṃ bhavantītyāśayavānāha mukteti // muktasvakīyāvarayantṛtāsti muktāvapi brahmapurassarāṇām brahmapuraḥsarāṇāmapi muktau muktāśca te svakīyāḥ svaiḥ saha muktiṃ gatāśca ca te 'varāśca muktasvakīyāvarāstānniyantṛtāsti / amuktānprati yantṛtā sarvathā nāsti / yathā'ha sūtrakāraḥ"vikāravatir ca'; iti / mukteṣvapi kalpāntare muktānsvakalpe mukteṣvapyuttamānsamāṃśca prati nāstītyato muktetyādyuktam / anena parodāhṛtaśrutīnāṃ gatiścoktā bhavati / *12,371* kuta etadityata āha aneneti // anena devena tathāmunā ca hīṣye parārvāktanalokināmiti

Sanskrit only: no published translation is held for this verse.

फलं श्रुतिर्ज्ञानत आह ॥। अनेन चक्षुरन्तस्थेन देवेन प्रसन्नेन तथामुनाऽदित्यान्तर्गतेन च परार्वाक्तनलोकवर्तिनां मुक्तानामीष्ये ईशिता भवतीति श्रुतिर्ज्ञानतो मुक्तनियन्तृत्वं फलमाह हीति ॥ अत्रामुना परलोकिनां, अनेन अर्वाक्तनलोकिनामिति ज्ञेयम् । अनेन"अथ य एवं विद्वान्ऽ; इत्याद्यां"सो ऽमुनैव ये चामुष्मात्पराञ्चो लोकास्तांश्चाप्नोति देवकामांश्च, अथानेनैव ये चैतस्मादर्वाञ्चो लोकास्तांश्चाप्नोति मनुष्यकामांश्चऽ; इति श्रुतिमुपादत्ते । नन्वस्यां श्रुतावुक्तमिदं ज्ञानफलं मुक्तिगतमित्येतत्कुत इत्यत आह मुक्ताविति ॥ ॥। मुक्तावेतच्च सर्वाशुभनाशलिङ्गात् एतच्च सर्वलोकाप्तिलक्षणं फलं मुक्तावेव । "उदेति ह वै सर्वेभ्यः पाप्मभ्यो य एवं वेदऽ; इति सर्वपापक्षयलिङ्गात् । नहि मुक्तेरितत्रैतत्सम्भवति । प्रारब्धपापस्य आमोक्षं विद्यमानत्वात् । *१२,३७३* यदिदं सर्वलोकाधिपत्यं मुक्तौ फलमुक्तं तत्सर्वेषामपि मुक्तानामिति प्रतीतिनिरासायाह लोकेति ॥ लोकाधिपत्यं च विधातुरेव सर्वात्मना ॥। सर्वात्मना लोकाधिपत्यं च मुक्तस्य विधातुरेव । अन्येषां यथायोग्यमिति भावः । स्वकीयेत्युक्तमनुसन्धेयम् । अत्र प्रमाणमाह इत्याहेति ॥ *१२,३७४* ॥। इत्याह तुरश्रुतिश्च सा चान्यत्र द्रष्टव्या । चशब्दो वक्ष्यमाणयुक्तिसमुच्चयार्थः । श्रुत्यन्तरमप्येवमेव व्याख्येयमित्याह सर्व इति ॥ सर्वे बलिं देवगणा वहन्तीत्येतच्च नान्यस्य हि युक्तिमेति

phalaṃ śrutirjñānata āha ... anena cakṣurantasthena devena prasannena tathāmunā'dityāntargatena ca parārvāktanalokavartināṃ muktānāmīṣye īśitā bhavatīti śrutirjñānato muktaniyantṛtvaṃ phalamāha hīti // atrāmunā paralokināṃ, anena arvāktanalokināmiti jñeyam / anena"atha ya evaṃ vidvān'; ityādyāṃ"so 'munaiva ye cāmuṣmātparāñco lokāstāṃścāpnoti devakāmāṃśca, athānenaiva ye caitasmādarvāñco lokāstāṃścāpnoti manuṣyakāmāṃśca'; iti śrutimupādatte / nanvasyāṃ śrutāvuktamidaṃ jñānaphalaṃ muktigatamityetatkuta ityata āha muktāviti // ... muktāvetacca sarvāśubhanāśaliṅgāt etacca sarvalokāptilakṣaṇaṃ phalaṃ muktāveva / "udeti ha vai sarvebhyaḥ pāpmabhyo ya evaṃ veda'; iti sarvapāpakṣayaliṅgāt / nahi mukteritatraitatsambhavati / prārabdhapāpasya āmokṣaṃ vidyamānatvāt / *12,373* yadidaṃ sarvalokādhipatyaṃ muktau phalamuktaṃ tatsarveṣāmapi muktānāmiti pratītinirāsāyāha loketi // lokādhipatyaṃ ca vidhātureva sarvātmanā ... sarvātmanā lokādhipatyaṃ ca muktasya vidhātureva / anyeṣāṃ yathāyogyamiti bhāvaḥ / svakīyetyuktamanusandheyam / atra pramāṇamāha ityāheti // *12,374* ... ityāha turaśrutiśca sā cānyatra draṣṭavyā / caśabdo vakṣyamāṇayuktisamuccayārthaḥ / śrutyantaramapyevameva vyākhyeyamityāha sarva iti // sarve baliṃ devagaṇā vahantītyetacca nānyasya hi yuktimeti

Sanskrit only: no published translation is held for this verse.

"स वेद ब्रह्म, सर्वे ऽस्मै देवा बलिमावहन्तिऽ; इति श्रुत्युक्तं मुक्तस्य सर्वदेवपूज्यत्वं चानवधिकं विधातुरेव न सर्वेषामुक्तश्रुतेरेवेत्यर्थः । इतो ऽप्येवमित्याह नेति ॥ पूजका अपि हि देवा मुक्ता एव । अमुक्तानां मुक्तसम्बन्धस्य निवारितत्वात् । तथाच सर्वे देवा मुक्ताः सर्वैर्मुक्तैर्देवैः पूज्यन्त इत्युक्तं स्यात् । एतच्च व्याहतम् । तत एव न (स्यैवोत्त)स्योत्तमत्वस्याधमत्वस्य क्वाप्यदर्शनात् । अत उक्त एव श्रुत्यर्थः । *१२,३७५* स्यादेतत् । तांश्चाप्नोतीत्युक्त आप्ता सर्वाशुभनाशलिङ्गाद्भवतु मुक्तः । तस्य चात्र लोकाप्तिरेवोच्यते । नतु (मुक्त)स्वकीयावरयन्तृतेत्यत आह लोक इति ॥ लोका इतीहापि तु लोकिनां वचो ॥। इह श्रुतौ लोका इति पदं तावल्लोकिनां वचःप्रतिपादकम् । न केवलमाप्ता मुक्तः । लोकपदमपि लोकिविषयमित्यपिशब्दः । तुशब्दो वृत्तिविशेषद्योतकः । यथा मञ्चशब्दो मञ्चस्थेषु पुरुषेषु विद्यते तथा लोकशब्दो ऽपि लोकस्थेषु पुरुषेष्विति । अत्र लक्षणाबीजसम्बन्धस्तु स्फुट एव । लाक्षिणिकप्रयोगप्रयोजनं वाच्यमित्यत आह लोक इति ॥ ॥। लोका इति ह्येव रवः प्रजासु । प्रयुज्यते सर्वजनैः सदैव ॥। हिशब्दः प्रसिद्धौ । प्रयोजनानुसन्धानेन विनेत्येवशब्दः । रवः शब्दः । प्रजासु प्रजाविषये । रूढलक्षणैषा तत्र किं प्रयोजनान्वेषणेनेति भावः । अथवा किं लक्षणया । यतो वाचक एव लोकशब्दो जनानामिति भावेनाह लोका इति सर्वजनैरिति शब्दशक्तिज्ञैः । प्रकारान्तरेण लोकशब्दस्य पुरुषवाचित्वमाह तदिति ॥ ॥। तन्मानिनो लोकपदेन चोक्ताः लोकाभिमानिनः । अभिमान्यधिकरणन्यायेनेति भावः । *१२,३७६* अस्तु लोकशब्दस्य जनेषु वृत्तिस्तथाप्यस्यां श्रुतौ तद्विवक्षा कुतो ज्ञायते । न तावतापीष्यसिद्धिः । मुक्तविषयतायां प्रमाणाभावात् । आप्तिरेव चेहोच्यते नतु तन्नियमनमित्यत आह तद्गा इति ॥ *१२,३७७* तद्गास्तु मुक्ता इह लोकशब्दा अन्योन्यनाथा इति पैङ्गिनां श्रुतिः

"sa veda brahma, sarve 'smai devā balimāvahanti'; iti śrutyuktaṃ muktasya sarvadevapūjyatvaṃ cānavadhikaṃ vidhātureva na sarveṣāmuktaśruterevetyarthaḥ / ito 'pyevamityāha neti // pūjakā api hi devā muktā eva / amuktānāṃ muktasambandhasya nivāritatvāt / tathāca sarve devā muktāḥ sarvairmuktairdevaiḥ pūjyanta ityuktaṃ syāt / etacca vyāhatam / tata eva na (syaivotta)syottamatvasyādhamatvasya kvāpyadarśanāt / ata ukta eva śrutyarthaḥ / *12,375* syādetat / tāṃścāpnotītyukta āptā sarvāśubhanāśaliṅgādbhavatu muktaḥ / tasya cātra lokāptirevocyate / natu (mukta)svakīyāvarayantṛtetyata āha loka iti // lokā itīhāpi tu lokināṃ vaco ... iha śrutau lokā iti padaṃ tāvallokināṃ vacaḥpratipādakam / na kevalamāptā muktaḥ / lokapadamapi lokiviṣayamityapiśabdaḥ / tuśabdo vṛttiviśeṣadyotakaḥ / yathā mañcaśabdo mañcastheṣu puruṣeṣu vidyate tathā lokaśabdo 'pi lokastheṣu puruṣeṣviti / atra lakṣaṇābījasambandhastu sphuṭa eva / lākṣiṇikaprayogaprayojanaṃ vācyamityata āha loka iti // ... lokā iti hyeva ravaḥ prajāsu / prayujyate sarvajanaiḥ sadaiva ... hiśabdaḥ prasiddhau / prayojanānusandhānena vinetyevaśabdaḥ / ravaḥ śabdaḥ / prajāsu prajāviṣaye / rūḍhalakṣaṇaiṣā tatra kiṃ prayojanānveṣaṇeneti bhāvaḥ / athavā kiṃ lakṣaṇayā / yato vācaka eva lokaśabdo janānāmiti bhāvenāha lokā iti sarvajanairiti śabdaśaktijñaiḥ / prakārāntareṇa lokaśabdasya puruṣavācitvamāha taditi // ... tanmānino lokapadena coktāḥ lokābhimāninaḥ / abhimānyadhikaraṇanyāyeneti bhāvaḥ / *12,376* astu lokaśabdasya janeṣu vṛttistathāpyasyāṃ śrutau tadvivakṣā kuto jñāyate / na tāvatāpīṣyasiddhiḥ / muktaviṣayatāyāṃ pramāṇābhāvāt / āptireva cehocyate natu tanniyamanamityata āha tadgā iti // *12,377* tadgāstu muktā iha lokaśabdā anyonyanāthā iti paiṅgināṃ śrutiḥ

Sanskrit only: no published translation is held for this verse.

तुशब्दो ऽवधारणे । इह ये चामुष्मादित्यस्यां श्रौतौ तद्गाः परावरलोकगताः मुक्ता एव लोक इति शब्दो एषां ते लोकशब्दाः । ते चान्योन्यनाथाः उत्तमा अधमानां स्वीयानां नियामका इत्येवमेतच्छतिव्याख्यानरूपा पैङ्गिश्रुतिरस्ति । यद्यपि मुक्तस्य विकारावर्तिव्यापारनिषेधादेवैतत्सिद्धम् । तथापि दार्ढ्याय श्रुत्युदाहरणम् । एतेन लक्षणापक्षे मुख्ये बाधकं चोक्तं भवति । अभिमानिपक्षे तु भूतपूर्वगत्या मुक्तेषु लोकशब्दो व्याख्येयः । *१२,३७८* प्रकारान्तरेणास्यां श्रुतौ मुक्तस्य मुक्तनियामकत्वं प्रतिपादयन्नाह अलोकेति ॥ अलोकशब्देन विमुक्तिभाजो वाच्याः ॥। लोकदोषातीतत्वाद्विदेहत्वाद्वेति भावः । ततः किं प्रकृत इत्यत आह पदमिति ॥ ॥। पदं तादृगपीह युक्तम् इह पराञ्चो लोका अर्वाञ्चो लोका इत्यत्र तादृगलोक इत्यपि पदं छेत्तुं युक्तम् । लोकालोकशब्दयोः संहिताया(यां)ः समानरूपत्वादिति भावः । योगवृत्त्यापि लोकशब्दस्य मुक्तेषु वृत्तिः सम्भवतीत्याह लोकेति ॥ लोकाभिधाश्चापि यतो हि मुक्ताः प्रकाशरूपाः सततं च सर्वे यतः सर्वे ऽपि मुक्ताः सततमपि प्रकाशरूपाः प्रसिद्धास्ततो ऽपि लोकाभिधाः । लोकतेः पचाद्यचि कृते रूपमेतत् । दर्शनं प्रकाश इति च नार्थान्तरम् । *१२,३७९* यदुक्तं प्राग्लोकाभिमानिनो ये मुक्तास्त इह लोकशब्दार्था इति तदसत् । ते हि उत्तमाः । नच तन्नियमनं मुक्तानां सम्भवतीत्यतो मोक्तं विस्मार्षीरित्याह ब्रह्मैवेति ॥ ब्रह्मैव लोकाधिपतिर्विमुक्तो भवेदिति प्राह तुरश्रुतिश्च

tuśabdo 'vadhāraṇe / iha ye cāmuṣmādityasyāṃ śrautau tadgāḥ parāvaralokagatāḥ muktā eva loka iti śabdo eṣāṃ te lokaśabdāḥ / te cānyonyanāthāḥ uttamā adhamānāṃ svīyānāṃ niyāmakā ityevametacchativyākhyānarūpā paiṅgiśrutirasti / yadyapi muktasya vikārāvartivyāpāraniṣedhādevaitatsiddham / tathāpi dārḍhyāya śrutyudāharaṇam / etena lakṣaṇāpakṣe mukhye bādhakaṃ coktaṃ bhavati / abhimānipakṣe tu bhūtapūrvagatyā mukteṣu lokaśabdo vyākhyeyaḥ / *12,378* prakārāntareṇāsyāṃ śrutau muktasya muktaniyāmakatvaṃ pratipādayannāha aloketi // alokaśabdena vimuktibhājo vācyāḥ ... lokadoṣātītatvādvidehatvādveti bhāvaḥ / tataḥ kiṃ prakṛta ityata āha padamiti // ... padaṃ tādṛgapīha yuktam iha parāñco lokā arvāñco lokā ityatra tādṛgaloka ityapi padaṃ chettuṃ yuktam / lokālokaśabdayoḥ saṃhitāyā(yāṃ)ḥ samānarūpatvāditi bhāvaḥ / yogavṛttyāpi lokaśabdasya mukteṣu vṛttiḥ sambhavatītyāha loketi // lokābhidhāścāpi yato hi muktāḥ prakāśarūpāḥ satataṃ ca sarve yataḥ sarve 'pi muktāḥ satatamapi prakāśarūpāḥ prasiddhāstato 'pi lokābhidhāḥ / lokateḥ pacādyaci kṛte rūpametat / darśanaṃ prakāśa iti ca nārthāntaram / *12,379* yaduktaṃ prāglokābhimānino ye muktāsta iha lokaśabdārthā iti tadasat / te hi uttamāḥ / naca tanniyamanaṃ muktānāṃ sambhavatītyato moktaṃ vismārṣīrityāha brahmaiveti // brahmaiva lokādhipatirvimukto bhavediti prāha turaśrutiśca

Sanskrit only: no published translation is held for this verse.

तथाच नानुपपत्तिरिति ॥ *१२,३८०* एवं स्वमतेन श्रुतिं व्याख्याय यत्परेषां व्याख्यानमादित्यमण्डले परमेश्वरमुपासीनस्य विदुषः परलाकाधिपत्यं भवति चक्षुष्युपासीनस्यार्वाक्तनलोकाधिपत्यं भवतीति तन्निराकरोति नचेति ॥ नचेह विज्ञानफलं समुक्तं लोकाधिपत्यं ॥। इह श्रुतौ । लोकाधिपत्यं विज्ञानफलं समुक्तमिति व्याख्यानं न युक्तम् । कुत इत्यत आह रवीति ॥ ॥। रविबिम्बतो हरौ । उक्तं पृथक् तच्च पुरैव यस्माद् ॥। चशब्देन चक्षुर्गते चेति समुच्चिनोति । यस्मात् कारणात् तत् लोकाधिपत्यं पुरैव पूर्ववाक्य एव रविबिम्बगे हरौ चक्षुरन्तर्गते च पृथक् विभागेनोक्तम् । आदित्यगतं प्रकृत्य"स एष ये चामुष्मात्पराञ्चो लोकास्तेषां चेष्ये मनुष्यकामानां चऽ; इति । तस्मान्नेति । एतदुक्तं भवति । न समस्तलोकाधिपत्यं विदुषो युज्यते । तस्य भगवद्धर्मत्वेनात्रैवोक्तत्वादिति । *१२,३८१* भगवद्धर्मो ऽपि विदुषो भवतीत्यङ्गीकारे को दोष इति चेत् । तत्किं भगवान् स्वीयसर्वलोकाधिपत्यं परित्यज्य विदुषे ददातीति । उत विद्वांसमवान्तरेश्वरं करोतीति । अथ विद्वांस्तादात्म्यं प्राप्नोतीति । नाद्यः । भगवदैश्वर्यस्य समस्तश्रुत्यादौ नित्यत्वावगमात् । किं चैकस्मै विदुषे दत्तस्वाधिपत्यो मगवानन्यस्मै (विदुषे) किं दद्यात् । सर्वपापक्षयलिङ्गविरोधाच्च । अत एव न द्वितीयः । हिरण्यगर्भे तद्युज्यत इति चेन्न । पाप्म(प)शब्देन प्रकृत्देर्बन्धस्य विवक्षितत्वात् । अत एवोक्तं सर्वाशुभेति । "तस्योदिति नामऽ; इति हि परमेश्वरस्योच्छब्दं नामत्वेनोक्त्वा तस्य निर्वचनं क्रियते"स एष सर्वेभ्यः पाप्मभ्य उदितेऽ; इति । तत्रोदितत्वमेवोच्छब्दाथर्ः । कस्मादित्यपेक्षायां योग्यं किमपि ग्राह्यम् । नच तत्पापमेवेति नियामकमस्ति । अतः सर्वमप्यशुभं तत्र विवक्षितम् । तदेव च विदुषः फलमुच्यते । तृतीयं निराकरोति भेद इति ॥ ॥। भेदो ऽमुनेत्यादि च सम्यगुक्तः

tathāca nānupapattiriti // *12,380* evaṃ svamatena śrutiṃ vyākhyāya yatpareṣāṃ vyākhyānamādityamaṇḍale parameśvaramupāsīnasya viduṣaḥ paralākādhipatyaṃ bhavati cakṣuṣyupāsīnasyārvāktanalokādhipatyaṃ bhavatīti tannirākaroti naceti // naceha vijñānaphalaṃ samuktaṃ lokādhipatyaṃ ... iha śrutau / lokādhipatyaṃ vijñānaphalaṃ samuktamiti vyākhyānaṃ na yuktam / kuta ityata āha ravīti // ... ravibimbato harau / uktaṃ pṛthak tacca puraiva yasmād ... caśabdena cakṣurgate ceti samuccinoti / yasmāt kāraṇāt tat lokādhipatyaṃ puraiva pūrvavākya eva ravibimbage harau cakṣurantargate ca pṛthak vibhāgenoktam / ādityagataṃ prakṛtya"sa eṣa ye cāmuṣmātparāñco lokāsteṣāṃ ceṣye manuṣyakāmānāṃ ca'; iti / tasmānneti / etaduktaṃ bhavati / na samastalokādhipatyaṃ viduṣo yujyate / tasya bhagavaddharmatvenātraivoktatvāditi / *12,381* bhagavaddharmo 'pi viduṣo bhavatītyaṅgīkāre ko doṣa iti cet / tatkiṃ bhagavān svīyasarvalokādhipatyaṃ parityajya viduṣe dadātīti / uta vidvāṃsamavāntareśvaraṃ karotīti / atha vidvāṃstādātmyaṃ prāpnotīti / nādyaḥ / bhagavadaiśvaryasya samastaśrutyādau nityatvāvagamāt / kiṃ caikasmai viduṣe dattasvādhipatyo magavānanyasmai (viduṣe) kiṃ dadyāt / sarvapāpakṣayaliṅgavirodhācca / ata eva na dvitīyaḥ / hiraṇyagarbhe tadyujyata iti cenna / pāpma(pa)śabdena prakṛtderbandhasya vivakṣitatvāt / ata evoktaṃ sarvāśubheti / "tasyoditi nāma'; iti hi parameśvarasyocchabdaṃ nāmatvenoktvā tasya nirvacanaṃ kriyate"sa eṣa sarvebhyaḥ pāpmabhya udite'; iti / tatroditatvamevocchabdātharḥ / kasmādityapekṣāyāṃ yogyaṃ kimapi grāhyam / naca tatpāpameveti niyāmakamasti / ataḥ sarvamapyaśubhaṃ tatra vivakṣitam / tadeva ca viduṣaḥ phalamucyate / tṛtīyaṃ nirākaroti bheda iti // ... bhedo 'munetyādi ca samyaguktaḥ

Sanskrit only: no published translation is held for this verse.

विदुषः । परमेश्वरादिति शेषः । आदिपदेनानेनेत्यस्य ग्रहणम् । क्रियाविशेषणं चैतत् । भेदश्चेति सम्बन्धः । सम्यगिति । स्पष्टम् । नहि तदात्मा तत्प्रसादात्तद्धर्मा भवति । *१२,३८३* भवेदेतद्यद्यमुनानेनेत्येतदमुना देवेन प्रसन्नेन निमित्तेनेति व्याख्यायेव । नचैवम् । किं नाम । अमुना रूपेणामुष्य तादात्म्यं प्राप्येति । नचैवं सति भेदोक्तिरस्तीत्यत आह त्वप्रत्ययमिति ॥ त्वप्रत्ययं चाप्यतिहाय नैव रूपेण तेनेति भवेदिहार्थः चशब्दस्तत्समानार्थप्रत्ययान्तरसमुच्चयार्थः । अपिशब्दो रूपेणेति पदस्य । तेन इत्यमुना अनेनेत्युभयोर्ग्रहणम् । अतिहाय प्रवृत्तायामिह श्रुतौ । भवे(देवं प)दयं परस्यस्याभिलाषः श्रुतिस्तु न तथा वक्ति । यदि खल्वदस्त्वेनादस्तयेदंत्वेनेदंतयेति भाववाची प्रत्ययः स्यात् । यदि वा(चा)मुना रूपेणात्मना, अनेन रूपेणात्मनेति पदं स्यात् । तदा प्रतीमो ऽयमर्थः श्रुत्यभिप्रेत इति । नचैतदस्तीति । *१२,३८४* ननु भावप्रधाना निर्देशा बहुलमुपलभ्यते । ततो विनापि प्रत्ययेन सो ऽर्थो भविष्यति । सोपस्कराणि च वाक्यानि भवन्ति । ततो रूपेणेत्यादिपदाध्याहारो वा करिष्यते । को दोष इति चेन्न । निश्चिते हि वाक्यार्थे तदुपपद्यते । नच तन्निश्चायकमत्रास्तीत्याशयवान्दोषान्तरमाह भवतीति ॥ भवत्यसावित्यणुशब्दमत्र विहाय वाक्यानि बहूनि दोषः

viduṣaḥ / parameśvarāditi śeṣaḥ / ādipadenānenetyasya grahaṇam / kriyāviśeṣaṇaṃ caitat / bhedaśceti sambandhaḥ / samyagiti / spaṣṭam / nahi tadātmā tatprasādāttaddharmā bhavati / *12,383* bhavedetadyadyamunānenetyetadamunā devena prasannena nimitteneti vyākhyāyeva / nacaivam / kiṃ nāma / amunā rūpeṇāmuṣya tādātmyaṃ prāpyeti / nacaivaṃ sati bhedoktirastītyata āha tvapratyayamiti // tvapratyayaṃ cāpyatihāya naiva rūpeṇa teneti bhavedihārthaḥ caśabdastatsamānārthapratyayāntarasamuccayārthaḥ / apiśabdo rūpeṇeti padasya / tena ityamunā anenetyubhayorgrahaṇam / atihāya pravṛttāyāmiha śrutau / bhave(devaṃ pa)dayaṃ parasyasyābhilāṣaḥ śrutistu na tathā vakti / yadi khalvadastvenādastayedaṃtvenedaṃtayeti bhāvavācī pratyayaḥ syāt / yadi vā(cā)munā rūpeṇātmanā, anena rūpeṇātmaneti padaṃ syāt / tadā pratīmo 'yamarthaḥ śrutyabhipreta iti / nacaitadastīti / *12,384* nanu bhāvapradhānā nirdeśā bahulamupalabhyate / tato vināpi pratyayena so 'rtho bhaviṣyati / sopaskarāṇi ca vākyāni bhavanti / tato rūpeṇetyādipadādhyāhāro vā kariṣyate / ko doṣa iti cenna / niścite hi vākyārthe tadupapadyate / naca tanniścāyakamatrāstītyāśayavāndoṣāntaramāha bhavatīti // bhavatyasāvityaṇuśabdamatra vihāya vākyāni bahūni doṣaḥ

Sanskrit only: no published translation is held for this verse.

यद्यस्यां श्रुतौ तादात्म्यप्राप्त्या(प्तौ) तदीयं सर्वलोकाधिपत्यमस्य भवतीत्यर्थो विवक्षितः स्यात् । तर्ह्यत्रैतदर्थप्रतिपादने ऽयं विद्वानसौ परमात्मा भवतीत्येतावदेव वक्तव्यम् । नतु सो ऽमुनैवेत्यादिकम् । तादात्म्यप्राप्तौ तद्धर्मर्(म्य)स्य स्वतः सिद्धत्वात् । अयमसौ भवतीत्यल्पं शब्दं विहाय बहूनि वाक्यानि प्रयुञ्जानायाः श्रुतेरकुशलत्वदोषः स्यात् । नहि कश्चिदल्पीयसा प्रयत्नेन सिद्धत्यर्थे महान्तं प्रयत्नमातिष्ठमा(नः सद्भि)नो महद्भिराद्रियते । किं चात्र परमेश्वरः सगुणो वा विवक्षितो निर्गुणो वा । आद्ये न विदुषस्तत्तादात्म्यमस्ति । परेणा(प्य)नभ्युपगतत्वात्(मात्) । न द्वितीयः । निर्गुणस्याऽदित्यादिपरिच्छेदानुपपत्तेः । ऐश्वर्यासम्भवाच्च । नच तद्भूयंगतस्य सर्वलोकाधिपत्यं भवतीति । *१२,३८६* अपव्याख्याननिराकरणमुपसंहरन्पादार्थं सङ्क्षेपेणाह अत इति ॥ अतो जगद्वयापृतिमन्त एव ब्रह्मादयः पूर्णगुणाः क्रमेण । अमन्दमानन्दमजस्रमेव भुञ्जन्त आत्मीयमजात् समासते

yadyasyāṃ śrutau tādātmyaprāptyā(ptau) tadīyaṃ sarvalokādhipatyamasya bhavatītyartho vivakṣitaḥ syāt / tarhyatraitadarthapratipādane 'yaṃ vidvānasau paramātmā bhavatītyetāvadeva vaktavyam / natu so 'munaivetyādikam / tādātmyaprāptau taddharmar(mya)sya svataḥ siddhatvāt / ayamasau bhavatītyalpaṃ śabdaṃ vihāya bahūni vākyāni prayuñjānāyāḥ śruterakuśalatvadoṣaḥ syāt / nahi kaścidalpīyasā prayatnena siddhatyarthe mahāntaṃ prayatnamātiṣṭhamā(naḥ sadbhi)no mahadbhirādriyate / kiṃ cātra parameśvaraḥ saguṇo vā vivakṣito nirguṇo vā / ādye na viduṣastattādātmyamasti / pareṇā(pya)nabhyupagatatvāt(māt) / na dvitīyaḥ / nirguṇasyā'dityādiparicchedānupapatteḥ / aiśvaryāsambhavācca / naca tadbhūyaṃgatasya sarvalokādhipatyaṃ bhavatīti / *12,386* apavyākhyānanirākaraṇamupasaṃharanpādārthaṃ saṅkṣepeṇāha ata iti // ato jagadvayāpṛtimanta eva brahmādayaḥ pūrṇaguṇāḥ krameṇa / amandamānandamajasrameva bhuñjanta ātmīyamajāt samāsate

Sanskrit only: no published translation is held for this verse.

जगच्छब्देन स्वी(स्यकी)यावरमुक्ता गृह्यन्ते । जगद्वयापारवर्जमित्येतन्मुक्तेतरजगद्विषयम् । अतो न तद्विरोध इत्येतदप्यनेन सूचयति । अन्यथा स्वावरमुक्तनिमका एवेत्यवक्ष्यत् । तथाचानन्याधिपतिपदमुक्तार्थमेवेति भावः । आत्मीयं नतु परमेश्वरम् । अजात् परमेश्वरात्तमविहायेत्यर्थः । तत्प्रसादादिति वा । ॥ इति श्रीमन्न्यायसुधायां अनन्याधिपतित्वाधिकरणम् ॥ *१२,३८८* एवंपरिसमापितग्रन्थो भगवानाचार्यः स्वप्रतिपादितप्रकारं स्वस्यातिविशदानादिसावर्ज्ञप्रदं निरुपाधिकपरमप्रेमास्पदगुणगणं पुरुषोत्तमं पौनःपुन्येन प्रणमति नम इति ॥ नमो नमो ऽशेषविशेषपूर्णगुणैकधाम्ने पुरुषोत्तमाय । भक्तानुकम्पादतिशुद्धसंविद्दात्रे ऽनुपाधिप्रियसद्गुणात्मने

jagacchabdena svī(syakī)yāvaramuktā gṛhyante / jagadvayāpāravarjamityetanmuktetarajagadviṣayam / ato na tadvirodha ityetadapyanena sūcayati / anyathā svāvaramuktanimakā evetyavakṣyat / tathācānanyādhipatipadamuktārthameveti bhāvaḥ / ātmīyaṃ natu parameśvaram / ajāt parameśvarāttamavihāyetyarthaḥ / tatprasādāditi vā / // iti śrīmannyāyasudhāyāṃ ananyādhipatitvādhikaraṇam // *12,388* evaṃparisamāpitagrantho bhagavānācāryaḥ svapratipāditaprakāraṃ svasyātiviśadānādisāvarjñapradaṃ nirupādhikaparamapremāspadaguṇagaṇaṃ puruṣottamaṃ paunaḥpunyena praṇamati nama iti // namo namo 'śeṣaviśeṣapūrṇaguṇaikadhāmne puruṣottamāya / bhaktānukampādatiśuddhasaṃviddātre 'nupādhipriyasadguṇātmane

Sanskrit only: no published translation is held for this verse.

अशेषविशेषैः पूर्णा ये गुणास्तेषां प्रधानाश्रयाय, भक्ते मय्यनुकम्पादनुक्रोशात् । अत एव ताच्छीलिकस्य तृनः प्रयोगः । सद्गुणानुवादेनानुपाधिप्रियत्वं तादात्म्यं च विधीयत इति न पुनरुक्तिः । *१२,३९०* यथा भगवत्स्वरूपविज्ञानं समस्तपुरुषार्थसाधनं तथा स्वस्वरूपविज्ञानमपीत्यतः तदाविष्कुर्वन्नाह यस्येति ॥ यस्य त्रीण्युदितानि वेदवचने रूपाणि दिव्यानलं बट् तद् दर्शतमित्थमेव निहितं देवस्य भर्गो महत् । वायो रामवचोनयं प्रथमकं पृक्षो द्वितीयं वपुर्मध्वो यत्तु तृतीयमेतदनुमा ग्रन्थः कृतः केशवे

aśeṣaviśeṣaiḥ pūrṇā ye guṇāsteṣāṃ pradhānāśrayāya, bhakte mayyanukampādanukrośāt / ata eva tācchīlikasya tṛnaḥ prayogaḥ / sadguṇānuvādenānupādhipriyatvaṃ tādātmyaṃ ca vidhīyata iti na punaruktiḥ / *12,390* yathā bhagavatsvarūpavijñānaṃ samastapuruṣārthasādhanaṃ tathā svasvarūpavijñānamapītyataḥ tadāviṣkurvannāha yasyeti // yasya trīṇyuditāni vedavacane rūpāṇi divyānalaṃ baṭ tad darśatamitthameva nihitaṃ devasya bhargo mahat / vāyo rāmavaconayaṃ prathamakaṃ pṛkṣo dvitīyaṃ vapurmadhvo yattu tṛtīyametadanumā granthaḥ kṛtaḥ keśave

Sanskrit only: no published translation is held for this verse.

अमुना वायुनायं केशवे विषये ग्रन्थः कृत इत्यन्वयः । *१२,३९१* कीदृशं तस्य मूलरूपं कथंभूतानि च तानि त्रीणि रूपाणीत्यत उक्तम् बडित्यादि ॥ यस्य तन्मूलरूपं बट् बलात्मकं दर्शतं ज्ञानरूपं च । दृशेरौणशदिको ऽतच्प्रत्ययः । अनेन वायुशब्दो निरुक्तः । वशब्दो बलवाची । अयतिः गत्यर्थः । गत्यर्थाश्चावगत्यर्थाः । तत उण् । वश्चासौ आयुश्चेति वायुरिति । किञ्च भर्गो भरणगमनयोः कर्तृ । हुभृञ् भरणे, गमॢ गतौ, आभ्यामसुन्प्रत्ययो डिच्च । इदमपि वायुशब्दव्याख्यानम् । वा गतिगन्धनयोरित्यतः कृवापाजिमिस्वदिसाध्यशूभ्य उणित्युण् । अनेकार्थत्वाद्धातूनां वातिर्भरणे ऽपि वर्तते । अपि च महत् श्रेष्ठम् । वयः श्रेष्ठत्व इत्यस्मादुण् । न केवलं मूलरूपमेवं किन्तु यस्यावतारेषु निहितं रूपमित्थमेव । यस्य प्रथमकं प्रथमं रूपं रामविषयाणि वचांसि मूलरामायणादीनि रामवचांसि तेषां नयं नीयन्ते शिष्येषु प्रवर्त्यन्ते ऽनेनेति । एरजित्यच् । यस्य द्वितीयं वपुः पृक्षः । पृच्छब्दः पृतनावाची प्रसिद्धः । तस्मिन्कर्मण्युपपदे क्षै क्षय इत्येतस्मात् आतो ऽनुपसर्गे क इति कः । उपपदतकारलोपश्छान्दसः । पुंलिङ्गं(ङ्गः) च श्रुत्यनुसारेण । असुन्वा प्रत्ययः । किदित नपुंसकमेवेदम् । रिपुपृतनाक्षयकारीत्यर्थः । *१२,३९२* यस्य तृतीयं वपुः एतन्मध्वः । मधुशब्दः सुखवाची । "मधुत द्यौरस्तु नः पिताऽ; इति प्रयोगात् । वशब्दः शास्त्रापरपर्यायतीर्थवाची । वातेरवगत्यर्थात्करणे घञर्थे कविधानमिति कः । सुखसाधनं तीर्थमस्येति । स्वरित्यत्रेवोकारलोपः । *१२,३९९* भगवत्स्वरूपप्रतिपादनेनैव ग्रन्थोपसंहारः समुचित इत्याशयवान्नित्यापरोक्षं भगवन्तं सम्बोध्य स्तौति निःशेषमिति ॥ निःशेषदोषरहितकल्याणाखिलसद्गुण । भूतिस्वयम्भुशर्वादिवन्द्यं त्वां नौमि मे प्रियम्

amunā vāyunāyaṃ keśave viṣaye granthaḥ kṛta ityanvayaḥ / *12,391* kīdṛśaṃ tasya mūlarūpaṃ kathaṃbhūtāni ca tāni trīṇi rūpāṇītyata uktam baḍityādi // yasya tanmūlarūpaṃ baṭ balātmakaṃ darśataṃ jñānarūpaṃ ca / dṛśerauṇaśadiko 'tacpratyayaḥ / anena vāyuśabdo niruktaḥ / vaśabdo balavācī / ayatiḥ gatyarthaḥ / gatyarthāścāvagatyarthāḥ / tata uṇ / vaścāsau āyuśceti vāyuriti / kiñca bhargo bharaṇagamanayoḥ kartṛ / hubhṛñ bharaṇe, gamḷ gatau, ābhyāmasunpratyayo ḍicca / idamapi vāyuśabdavyākhyānam / vā gatigandhanayorityataḥ kṛvāpājimisvadisādhyaśūbhya uṇityuṇ / anekārthatvāddhātūnāṃ vātirbharaṇe 'pi vartate / api ca mahat śreṣṭham / vayaḥ śreṣṭhatva ityasmāduṇ / na kevalaṃ mūlarūpamevaṃ kintu yasyāvatāreṣu nihitaṃ rūpamitthameva / yasya prathamakaṃ prathamaṃ rūpaṃ rāmaviṣayāṇi vacāṃsi mūlarāmāyaṇādīni rāmavacāṃsi teṣāṃ nayaṃ nīyante śiṣyeṣu pravartyante 'neneti / erajityac / yasya dvitīyaṃ vapuḥ pṛkṣaḥ / pṛcchabdaḥ pṛtanāvācī prasiddhaḥ / tasminkarmaṇyupapade kṣai kṣaya ityetasmāt āto 'nupasarge ka iti kaḥ / upapadatakāralopaśchāndasaḥ / puṃliṅgaṃ(ṅgaḥ) ca śrutyanusāreṇa / asunvā pratyayaḥ / kidita napuṃsakamevedam / ripupṛtanākṣayakārītyarthaḥ / *12,392* yasya tṛtīyaṃ vapuḥ etanmadhvaḥ / madhuśabdaḥ sukhavācī / "madhuta dyaurastu naḥ pitā'; iti prayogāt / vaśabdaḥ śāstrāparaparyāyatīrthavācī / vāteravagatyarthātkaraṇe ghañarthe kavidhānamiti kaḥ / sukhasādhanaṃ tīrthamasyeti / svarityatrevokāralopaḥ / *12,399* bhagavatsvarūpapratipādanenaiva granthopasaṃhāraḥ samucita ityāśayavānnityāparokṣaṃ bhagavantaṃ sambodhya stauti niḥśeṣamiti // niḥśeṣadoṣarahitakalyāṇākhilasadguṇa / bhūtisvayambhuśarvādivandyaṃ tvāṃ naumi me priyam

Sanskrit only: no published translation is held for this verse.