Library·Patanjali: Vyakaranamahabhasya·7

Patanjali: Vyakaranamahabhasya 7

क्अ इइइ,३२०।२-१६ रो व्,१९८।७-१९९।९ किमर्थम् इदम् उच्यते । अवयवात् ऋतोः इति वक्ष्यति तदुत्तरपदस्य यथा स्यात् अचाम् आदेः मा भूत् । न एतत् अस्ति प्रयोजनम् । अवयवात् इति पञ्चमी तत्र अन्तरेण अपि उत्तरपदग्रहणम् उत्तरपदस्य एव भविष्यति । उत्तरार्थम् तर्हि सुसर्वार्धात् जनपदस्य इति । सुसर्वार्धात् इति पञ्चमी । दिशः अमद्राणाम् । दिशः इति पञ्चमी । प्राचाम् ग्रामनगराणाम् । दिशः इति एव । सङ्ख्यायाः संवत्सरसङ्ख्यस्य च । सङ्ख्यायाः इति पञ्चमी । वर्षस्य अभविष्यति । सङ्ख्यायाः इति एव । परिमाणान्तस्य असञ्ज्ञाशाणयोः इति । सङ्ख्यायाः इति एव । इदम् तर्हि प्रयोजनम् जे प्रोष्ठपदानाम् उत्तरपदस्य यथा स्यात् पूर्वपदस्य मा भूत् । प्रोष्ठपदासु जातः प्रोष्ठपादः ब्राह्मणः । तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः विप्रतिषेधेन द्व्याशीतिकाद्यर्थम् । तद्धितेषु अचाम् आदिवृद्धेः उत्तरपदवृद्धिः भवति विप्रतिषेधेन । किम् प्रयोजनम् । द्व्याशीतिकाद्यर्थम् । अचाम् आदिवृद्धेः अवकाशः । ऐतिकायनः , औपगवः । उत्तरपदवृद्धेः अनवकाशः । द्विषाष्टिकः , त्रिषाष्टिकः । इह उभयम् प्राप्नोति । द्व्याशीतिकः , त्र्याशीतिकः । उत्तरपदवृद्धिः भवति विप्रतिषेधेन । कः पुनः अत्र विशेषः अचाम् आदिवृद्धौ वा सत्याम् उत्तरपदवृद्धौ वा । अयम् अस्ति विशेषः । यदि अत्र अचाम् आदिवृद्धिः स्यात् ऐजागमः प्रसज्येत ।

KA III,320.2-16 Ro V,198.7-199.9 kimartham idam ucyate . avayavāt ṛtoḥ iti vakṣyati taduttarapadasya yathā syāt acām ādeḥ mā bhūt . na etat asti prayojanam . avayavāt iti pañcamī tatra antareṇa api uttarapadagrahaṇam uttarapadasya eva bhaviṣyati . uttarārtham tarhi susarvārdhāt janapadasya iti . susarvārdhāt iti pañcamī . diśaḥ amadrāṇām . diśaḥ iti pañcamī . prācām grāmanagarāṇām . diśaḥ iti eva . saṅkhyāyāḥ saṃvatsarasaṅkhyasya ca . saṅkhyāyāḥ iti pañcamī . varṣasya abhaviṣyati . saṅkhyāyāḥ iti eva . parimāṇāntasya asañjñāśāṇayoḥ iti . saṅkhyāyāḥ iti eva . idam tarhi prayojanam je proṣṭhapadānām uttarapadasya yathā syāt pūrvapadasya mā bhūt . proṣṭhapadāsu jātaḥ proṣṭhapādaḥ brāhmaṇaḥ . taddhiteṣu acām ādivṛddheḥ uttarapadavṛddhiḥ vipratiṣedhena dvyāśītikādyartham . taddhiteṣu acām ādivṛddheḥ uttarapadavṛddhiḥ bhavati vipratiṣedhena . kim prayojanam . dvyāśītikādyartham . acām ādivṛddheḥ avakāśaḥ . aitikāyanaḥ , aupagavaḥ . uttarapadavṛddheḥ anavakāśaḥ . dviṣāṣṭikaḥ , triṣāṣṭikaḥ . iha ubhayam prāpnoti . dvyāśītikaḥ , tryāśītikaḥ . uttarapadavṛddhiḥ bhavati vipratiṣedhena . kaḥ punaḥ atra viśeṣaḥ acām ādivṛddhau vā satyām uttarapadavṛddhau vā . ayam asti viśeṣaḥ . yadi atra acām ādivṛddhiḥ syāt aijāgamaḥ prasajyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२०।१८-३२१।१० रो व्,१९९।११-२०१।३ नगरग्रहणम् किमर्थम् न प्राचाम् ग्रामाणाम् इति एव सिद्धम् । न सिध्यति । अन्यः ग्रामः अन्यत् नगरम् । कथम् ज्ञायते । एवम् हि कः चित् कम् चित् पृच्छति । कुतः भवान् आगच्छति ग्रामात् । सः हि आह । न ग्रामात् नगरात् इति । ननु च भो यः एव ग्रामः तत् नगरम् । कथम् ज्ञायते । लोकतः । ये हि ग्रामे विधयः न इष्यन्ते साधीयः ते नगरे न क्रियन्ते । तत् यथा । अभक्ष्यः ग्राम्यकुक्कुटः अभक्ष्यः ग्राम्यशूकरः इति उक्ते सुतराम् नागरः अपि न भक्ष्यते । तथा ग्रामे न अध्येयम् इति साधीयः नगरे न अधीयते । तस्मात् यः एव ग्रामः तत् नगरम् । कथम् यत् उक्तम् एवम् हि कः चित् कम् चित् पृच्छति कुतः भवान् आगच्छति ग्रामात् सः आह न ग्रामात् नगरात् इति । संस्त्यायविशेषम् असौ आचष्टे । संस्त्यायविशेषाः हि एते ग्रामः घोषः नगरम् संवाहः इति । एवम् तर्हि सिद्धे सति यत् ग्रामग्रहणे नगरग्रहणम् करोति तत् ज्ञापयति आचार्यः अन्यत्र ग्रामग्रहणे नगरग्रहणम् न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । विशिष्टलिङ्गः नदीदेशः अग्रामाः इति अत्र नगरप्रतिषेधः चोदितः सः न वक्तव्यः भवति । यदि एतत् ज्ञाप्यते उदीच्यग्रामात् च बह्वचः अन्तोदात्तात् इति अत्र नगरग्रहणम् कर्तव्यम् । बाहीकग्रामेभ्यः च नगरग्रहणम् कर्तव्यम् । दिक्शब्दाः ग्रामजनपदाख्यानचानराटेषु नगरग्रहणम् कर्तव्यम् । इदम् चतुर्थम् ज्ञापकार्थम् । तत्र अतिनिर्बन्धः न लाभः । तस्मात् यस्मिन् एव ग्रामग्रहणे नगरग्रहणम् न इष्यते तस्य प्रतिषेधः वक्तव्यः ।

KA III,320.18-321.10 Ro V,199.11-201.3 nagaragrahaṇam kimartham na prācām grāmāṇām iti eva siddham . na sidhyati . anyaḥ grāmaḥ anyat nagaram . katham jñāyate . evam hi kaḥ cit kam cit pṛcchati . kutaḥ bhavān āgacchati grāmāt . saḥ hi āha . na grāmāt nagarāt iti . nanu ca bho yaḥ eva grāmaḥ tat nagaram . katham jñāyate . lokataḥ . ye hi grāme vidhayaḥ na iṣyante sādhīyaḥ te nagare na kriyante . tat yathā . abhakṣyaḥ grāmyakukkuṭaḥ abhakṣyaḥ grāmyaśūkaraḥ iti ukte sutarām nāgaraḥ api na bhakṣyate . tathā grāme na adhyeyam iti sādhīyaḥ nagare na adhīyate . tasmāt yaḥ eva grāmaḥ tat nagaram . katham yat uktam evam hi kaḥ cit kam cit pṛcchati kutaḥ bhavān āgacchati grāmāt saḥ āha na grāmāt nagarāt iti . saṃstyāyaviśeṣam asau ācaṣṭe . saṃstyāyaviśeṣāḥ hi ete grāmaḥ ghoṣaḥ nagaram saṃvāhaḥ iti . evam tarhi siddhe sati yat grāmagrahaṇe nagaragrahaṇam karoti tat jñāpayati ācāryaḥ anyatra grāmagrahaṇe nagaragrahaṇam na bhavati iti . kim etasya jñāpane prayojanam . viśiṣṭaliṅgaḥ nadīdeśaḥ agrāmāḥ iti atra nagarapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati . yadi etat jñāpyate udīcyagrāmāt ca bahvacaḥ antodāttāt iti atra nagaragrahaṇam kartavyam . bāhīkagrāmebhyaḥ ca nagaragrahaṇam kartavyam . dikśabdāḥ grāmajanapadākhyānacānarāṭeṣu nagaragrahaṇam kartavyam . idam caturtham jñāpakārtham . tatra atinirbandhaḥ na lābhaḥ . tasmāt yasmin eva grāmagrahaṇe nagaragrahaṇam na iṣyate tasya pratiṣedhaḥ vaktavyaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२१।१२-२५ रो व्,२०१।५-१८ संवत्सरग्रहणम् अनर्थकम् परिमाणान्तस्य इति कृतत्वात् । संवत्सरग्रहणम् अनर्थकम् । किम् कारणम् । परिमाणान्तस्य इति कृतत्वात् । परिमाणान्तस्य असञ्ज्ञाशाणयोः इति एव सिद्धम् । ज्ञापकम् तु कालपरिमाणानाम् वृद्धिप्रतिषेधस्य । एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् वृद्धिः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । द्वैरात्रिकः , त्रैरात्रिकः , अत्र वृद्धिः न भवति । न एतत् अस्ति प्रयोजनम् । न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा । इदम् तर्हि । द्वसमिकः , त्रैसमिकः । इदम् च अपि प्रयोजनम् द्वैरात्रिकः , त्रैरात्रिकः । ननु च उक्तम् न अस्ति अत्र विशेषः सत्याम् वा उत्तरपदवृद्धौ असत्याम् वा इति । अयम् अस्ति विशेषः । यदि अत्र उत्तरपदवृद्धिः स्यात् अचाम् आदेः वृद्धिः न स्यात् । अपरः आह : ज्ञापकम् तु कालपरिमाणानाम् परिमाणाग्रहणस्य । एवम् तर्हि ज्ञापयति आचार्यः कालपरिमाणानाम् परिमाणग्रहणेन ग्रहणम् न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । अपरिमाणबिस्ताचितकम्बल्येभ्यः न तद्धितलुकि द्विवर्षा , त्रिवर्षा । परिमाणपर्युदासेन पर्युदासः न भवति ।

KA III,321.12-25 Ro V,201.5-18 saṃvatsaragrahaṇam anarthakam parimāṇāntasya iti kṛtatvāt . saṃvatsaragrahaṇam anarthakam . kim kāraṇam . parimāṇāntasya iti kṛtatvāt . parimāṇāntasya asañjñāśāṇayoḥ iti eva siddham . jñāpakam tu kālaparimāṇānām vṛddhipratiṣedhasya . evam tarhi jñāpayati ācāryaḥ kālaparimāṇānām vṛddhiḥ na bhavati iti . kim etasya jñāpane prayojanam . dvairātrikaḥ , trairātrikaḥ , atra vṛddhiḥ na bhavati . na etat asti prayojanam . na asti atra viśeṣaḥ satyām vā uttarapadavṛddhau asatyām vā . idam tarhi . dvasamikaḥ , traisamikaḥ . idam ca api prayojanam dvairātrikaḥ , trairātrikaḥ . nanu ca uktam na asti atra viśeṣaḥ satyām vā uttarapadavṛddhau asatyām vā iti . ayam asti viśeṣaḥ . yadi atra uttarapadavṛddhiḥ syāt acām ādeḥ vṛddhiḥ na syāt . aparaḥ āha : jñāpakam tu kālaparimāṇānām parimāṇāgrahaṇasya . evam tarhi jñāpayati ācāryaḥ kālaparimāṇānām parimāṇagrahaṇena grahaṇam na bhavati iti . kim etasya jñāpane prayojanam . aparimāṇabistācitakambalyebhyaḥ na taddhitaluki dvivarṣā , trivarṣā . parimāṇaparyudāsena paryudāsaḥ na bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२२।२-६ रो व्,२०२।२-७ परस्य वृद्धिः न इति अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते प्रवाहणेयी भार्या अस्य इति प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति । अथ निवृत्तम् न दोषः भवति । यथा न दोषः तथा अस्तु । अथ वा पुनः अस्तु अनुवर्तते । ननु च उक्तम् प्रवाहणेयी भार्या अस्य प्रवाहणेयीभार्यः वृद्धिनिमित्तस्य इति पुंवद्भावप्रतिषेधः न प्राप्नोति इति । न एषः दोषः । मा भूत् एवम् । जातेः इति एवम् भविष्यति ।

KA III,322.2-6 Ro V,202.2-7 parasya vṛddhiḥ na iti anuvartate utāho na . kim ca ataḥ . yadi anuvartate pravāhaṇeyī bhāryā asya iti pravāhaṇeyībhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ na prāpnoti . atha nivṛttam na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . atha vā punaḥ astu anuvartate . nanu ca uktam pravāhaṇeyī bhāryā asya pravāhaṇeyībhāryaḥ vṛddhinimittasya iti puṃvadbhāvapratiṣedhaḥ na prāpnoti iti . na eṣaḥ doṣaḥ . mā bhūt evam . jāteḥ iti evam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२२।८-११ रो व्,२०२।९-२०३।३ अयम् योगः शक्यः अवक्तुम् । कथम् अयाथातथ्यम् , आयथातथ्यम् , अयाथापुर्यम् , आयथापुर्यम् । यदा तावत् पूर्वपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते । न यथातथा , अयथातथा । अयथातथाभावः आयथातथ्यम् । यदा उत्तरपदस्य वृद्धिः तदा एवम् विग्रहः करिष्यते । यथातथाभावः याथातथ्यम् । न याथातथ्यम् अयाथातथ्यम् ।

KA III,322.8-11 Ro V,202.9-203.3 ayam yogaḥ śakyaḥ avaktum . katham ayāthātathyam , āyathātathyam , ayāthāpuryam , āyathāpuryam . yadā tāvat pūrvapadasya vṛddhiḥ tadā evam vigrahaḥ kariṣyate . na yathātathā , ayathātathā . ayathātathābhāvaḥ āyathātathyam . yadā uttarapadasya vṛddhiḥ tadā evam vigrahaḥ kariṣyate . yathātathābhāvaḥ yāthātathyam . na yāthātathyam ayāthātathyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२२।१३-१६ रो व्,२०३।५-८ हन्तेः तकारे तद्धिते प्रतिषेधः । हन्तेः तकारे तद्धिते प्रतिषेधः वक्तव्यः । वार्त्रघ्नम् , भ्रौणघ्नम् । उक्तम् वा । किम् उक्तम् । धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानात् सिद्धम् इति ।

KA III,322.13-16 Ro V,203.5-8 hanteḥ takāre taddhite pratiṣedhaḥ . hanteḥ takāre taddhite pratiṣedhaḥ vaktavyaḥ . vārtraghnam , bhrauṇaghnam . uktam vā . kim uktam . dhātoḥ svarūpagrahaṇe tatpratyaye kāryavijñānāt siddham iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२२।१८-३२३।४ रो व्,२०३।१०-२०४।२ कृद्ग्रहणम् किमर्थम् । इह मा भूत् । ददौ , दधौ । न एतत् अस्ति प्रयोजनम् । अचिण्णलोः इति वर्तते । यदि अचिण्णलोः इति वर्तते अदायि , अधायि इति अत्र न प्राप्नोति । वचनात् चिणि भविष्यति । अचिण्णलोः इति वर्तते । एवम् अपि चौडिः , बालाकिः इति अत्र प्राप्नोति । लोपः अत्र बाधकः भविष्यति । इदम् इह सम्प्रधार्यम् । लोपः क्रियताम् युक् इति किम् अत्र कर्तव्यम् । परत्वात् युक् । एवम् तर्हि अचाम् आदेः इति वर्तते । यत्र अचाम् आदिः आकारः तत्र युक् इति । एवम् अपि ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीपाकः , अत्र प्राप्नोति । तस्मात् कृद्ग्रहणम् कर्तव्यम् ।

KA III,322.18-323.4 Ro V,203.10-204.2 kṛdgrahaṇam kimartham . iha mā bhūt . dadau , dadhau . na etat asti prayojanam . aciṇṇaloḥ iti vartate . yadi aciṇṇaloḥ iti vartate adāyi , adhāyi iti atra na prāpnoti . vacanāt ciṇi bhaviṣyati . aciṇṇaloḥ iti vartate . evam api cauḍiḥ , bālākiḥ iti atra prāpnoti . lopaḥ atra bādhakaḥ bhaviṣyati . idam iha sampradhāryam . lopaḥ kriyatām yuk iti kim atra kartavyam . paratvāt yuk . evam tarhi acām ādeḥ iti vartate . yatra acām ādiḥ ākāraḥ tatra yuk iti . evam api jñā devatā asya sthālīpākasya jñaḥ sthālīpākaḥ , atra prāpnoti . tasmāt kṛdgrahaṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२३।५-७ रो व्,२०४।४-५ अत्यल्पम् इदम् उच्यते : अनाचमेः इति । अवमिकमिचमीनाम् इति वक्तव्यम् : वामः , कामः , आचामः ।

KA III,323.5-7 Ro V,204.4-5 atyalpam idam ucyate : anācameḥ iti . avamikamicamīnām iti vaktavyam : vāmaḥ , kāmaḥ , ācāmaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२३।९-१२ रो व्,२०४।६-१० णिच्प्रकरणे धूञ्प्रीञोः नुग्वचनम् । णिच्प्रकरणे धूञ्प्रीञोः नुक् वक्तव्यः । धूनयति , प्रीणयति । पातेः लुग्वचनम् । पालयति ।

KA III,323.9-12 Ro V,204.6-10 ṇicprakaraṇe dhūñprīñoḥ nugvacanam . ṇicprakaraṇe dhūñprīñoḥ nuk vaktavyaḥ . dhūnayati , prīṇayati . pāteḥ lugvacanam . pālayati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२३।१४-२१ रो व्,२०४-२०५ स्थग्रहणम् किमर्थम् । इदम् विचारयिष्यते इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति । तत् यदा सङ्घतग्रहणम् तदा स्थग्रहणम् कर्तव्यम् इह अपि यथा स्यात् कारिका , हारिका । यदा हि वर्णग्रहणम् तदा केवलः ककारः प्रत्ययः न अस्ति इति कृत्वा वचनात् भविष्यति । अथ असुपः इति कथम् इदम् विज्ञायते । असुब्वतः अङ्गस्य इति । आहोस्वित् न चेत् सुपः परः आप् इति । किम् च अतः । यदि विज्ञायते असुब्वतः अङ्गस्य इति बहुचर्मिका अत्र न प्राप्नोति । अथ विज्ञायते न चेत् सुपः परः आप् इति न दोषः भवति । यथा न दोषः तथा अस्तु ।

KA III,323.14-21 Ro V,204-205 sthagrahaṇam kimartham . idam vicārayiṣyate ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti . tat yadā saṅghatagrahaṇam tadā sthagrahaṇam kartavyam iha api yathā syāt kārikā , hārikā . yadā hi varṇagrahaṇam tadā kevalaḥ kakāraḥ pratyayaḥ na asti iti kṛtvā vacanāt bhaviṣyati . atha asupaḥ iti katham idam vijñāyate . asubvataḥ aṅgasya iti . āhosvit na cet supaḥ paraḥ āp iti . kim ca ataḥ . yadi vijñāyate asubvataḥ aṅgasya iti bahucarmikā atra na prāpnoti . atha vijñāyate na cet supaḥ paraḥ āp iti na doṣaḥ bhavati . yathā na doṣaḥ tathā astu .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२३।२२-३२४।१८ रो व्,२०६-२०८ इदम् विचार्यते : इत्त्वे कग्रहणम् सङ्घातग्रहणम् वा स्यात् वर्णग्रहणम् वा इति । कः च अत्र विशेषः । इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः । इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकास्वु अप्राप्तिः । एतिकाः चरन्ति । वचनात् भविष्यति । अस्ति वचने प्रयोजनम् । किम् । कारिका , हारिका । अस्तु तर्हि वर्णग्रहणम् । वर्णग्रहणम् चेत् व्यवहितत्वात् अप्रसिद्धिः । वर्णग्रहणम् चेत् व्यवहितत्वात् न प्राप्नोति । कारिका , हारिका । अकारेण व्यवहितत्वात् न प्राप्नोति । एकादेशे कृते न अस्ति व्यवधानम् । एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यवधानम् एव । एवम् तर्हि आह अयम् प्रत्ययस्थात् कात् पूर्वस्य इति न क्व चित् अव्यवधानम् तत्र वचनात् भविष्यति । वचनप्रामाण्यात् इति चेत् रथकट्यादिषु अतिप्रसङ्गः । वचनप्रामाण्यात् इति चेत् रथकट्यादिषु दोषः भवति । रथकट्या , गर्गकाम्या । न एषः दोषः । येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् । केन च न अव्यवधानम् वर्णेन एकेन । सङ्घातेन पुनः व्यवधानम् भवति न भवति च । अथ वा पुनः अस्तु सङ्घातग्रहणम् । ननु च उक्तम् इत्त्वे कग्रहणम् सङ्घातग्रहणम् चेत् एतिकासु अप्राप्तिः इति । परिहृतम् एतत् वचनात् भविष्यति इति । ननु च उक्तम् अस्ति वचने प्रयोजनम् । किम् । कारिका , हारिका इति । अत्र अपि एकादेशे कृते व्यपवर्गाभावात् न प्राप्नोति । अन्तादिवद्भावेन व्यपवर्गः । उभयतः आश्रये न अन्तादिवत् । एवम् तर्हि एकादेशः पूर्वविधौ स्थानिवत् भवति इति स्थानिवद्भावात् व्यपवर्गः । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् अपि इत्त्वम् इति यत् अयम् न यासयोः इति प्रतिषेधम् शास्ति ।

KA III,323.22-324.18 Ro V,206-208 idam vicāryate : ittve kagrahaṇam saṅghātagrahaṇam vā syāt varṇagrahaṇam vā iti . kaḥ ca atra viśeṣaḥ . ittve kagrahaṇam saṅghātagrahaṇam cet etikāsu aprāptiḥ . ittve kagrahaṇam saṅghātagrahaṇam cet etikāsvu aprāptiḥ . etikāḥ caranti . vacanāt bhaviṣyati . asti vacane prayojanam . kim . kārikā , hārikā . astu tarhi varṇagrahaṇam . varṇagrahaṇam cet vyavahitatvāt aprasiddhiḥ . varṇagrahaṇam cet vyavahitatvāt na prāpnoti . kārikā , hārikā . akāreṇa vyavahitatvāt na prāpnoti . ekādeśe kṛte na asti vyavadhānam . ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyavadhānam eva . evam tarhi āha ayam pratyayasthāt kāt pūrvasya iti na kva cit avyavadhānam tatra vacanāt bhaviṣyati . vacanaprāmāṇyāt iti cet rathakaṭyādiṣu atiprasaṅgaḥ . vacanaprāmāṇyāt iti cet rathakaṭyādiṣu doṣaḥ bhavati . rathakaṭyā , gargakāmyā . na eṣaḥ doṣaḥ . yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . kena ca na avyavadhānam varṇena ekena . saṅghātena punaḥ vyavadhānam bhavati na bhavati ca . atha vā punaḥ astu saṅghātagrahaṇam . nanu ca uktam ittve kagrahaṇam saṅghātagrahaṇam cet etikāsu aprāptiḥ iti . parihṛtam etat vacanāt bhaviṣyati iti . nanu ca uktam asti vacane prayojanam . kim . kārikā , hārikā iti . atra api ekādeśe kṛte vyapavargābhāvāt na prāpnoti . antādivadbhāvena vyapavargaḥ . ubhayataḥ āśraye na antādivat . evam tarhi ekādeśaḥ pūrvavidhau sthānivat bhavati iti sthānivadbhāvāt vyapavargaḥ . evam tarhi ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām api ittvam iti yat ayam na yāsayoḥ iti pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२४।१९-२५ रो व्,२०८ ममक(र्: मामक)नरकयोः उपसङ्ख्यानम् अप्रत्ययस्थत्वात् । ममक(र्: मामक)नरकयोः उपसङ्ख्यानम् कर्तव्यम् । मामिका , नरिका । किम् पुनः कारणम् न सिध्यति । अप्रत्ययस्थत्वात् । त्यक्त्यपोः च प्रतिषिद्धत्वात् । त्यक्त्यपोः च उपसङ्ख्यानम् कर्तव्यम् । दाक्षिणात्यिका , अमात्यिका । किम् पुनः कारणम् न सिध्यति । प्रतिषिद्धत्वात् । उदीचाम् आतः स्थाने यकपूर्वायाः इति प्रतिषिद्धत्वात् ।

KA III,324.19-25 Ro V,208 mamaka(R: māmaka)narakayoḥ upasaṅkhyānam apratyayasthatvāt . mamaka(R: māmaka)narakayoḥ upasaṅkhyānam kartavyam . māmikā , narikā . kim punaḥ kāraṇam na sidhyati . apratyayasthatvāt . tyaktyapoḥ ca pratiṣiddhatvāt . tyaktyapoḥ ca upasaṅkhyānam kartavyam . dākṣiṇātyikā , amātyikā . kim punaḥ kāraṇam na sidhyati . pratiṣiddhatvāt . udīcām ātaḥ sthāne yakapūrvāyāḥ iti pratiṣiddhatvāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२६।११-१६ रो व्,२११।२-७ किमर्थम् स्त्रीलिङ्गनिर्देशः क्रियते न यकपूर्वस्य इति एव उच्येत । स्त्रीविषयः यः आकारः तस्य स्थाने यः अकारः तस्य प्रतिषेधः यथा स्यात् । इह मा भूत् । शुभम् याति इति शुभंयाः शुभंयिका , भद्रंयिका । यकपूर्वे धात्वन्तप्रतिषेधः । यकपूर्वे धात्वन्तप्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । सुनयिका , अशोकिका , अपाकिका ।

KA III,326.11-16 Ro V,211.2-7 kimartham strīliṅganirdeśaḥ kriyate na yakapūrvasya iti eva ucyeta . strīviṣayaḥ yaḥ ākāraḥ tasya sthāne yaḥ akāraḥ tasya pratiṣedhaḥ yathā syāt . iha mā bhūt . śubham yāti iti śubhaṃyāḥ śubhaṃyikā , bhadraṃyikā . yakapūrve dhātvantapratiṣedhaḥ . yakapūrve dhātvantapratiṣedhaḥ vaktavyaḥ . kim prayojanam . sunayikā , aśokikā , apākikā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२६।१८-३२७।३ रो व्,२११।९-२१२।३ एषाद्वे नञ्पूर्वे अनुदाहरणे असुपः इति प्रतिषेधात् । अथ भस्त्राग्रहणम् किमर्थम् न अभाषितपुंस्कात् इति एव सिद्धम् । भस्त्राग्रहणम् उपसर्जनार्थम् । उपसर्जनार्थः अयम् आरम्भः । अभस्त्रिका , अभस्त्रका । नञ्पूर्वग्रहणानर्थक्यम् च उत्तरपदमात्रस्य इद्वचनात् । नञ्पूर्वग्रहणम् च अनर्थकम् । किम् कारणम् । उत्तरपदमात्रस्य इद्वचनात् । उत्तरपदमात्रस्य इत्त्वम् वक्तव्यम् । निर्भस्त्रका , निर्भस्त्रिका , बहुभस्त्रका , बहुभस्त्रिका ।

KA III,326.18-327.3 Ro V,211.9-212.3 eṣādve nañpūrve anudāharaṇe asupaḥ iti pratiṣedhāt . atha bhastrāgrahaṇam kimartham na abhāṣitapuṃskāt iti eva siddham . bhastrāgrahaṇam upasarjanārtham . upasarjanārthaḥ ayam ārambhaḥ . abhastrikā , abhastrakā . nañpūrvagrahaṇānarthakyam ca uttarapadamātrasya idvacanāt . nañpūrvagrahaṇam ca anarthakam . kim kāraṇam . uttarapadamātrasya idvacanāt . uttarapadamātrasya ittvam vaktavyam . nirbhastrakā , nirbhastrikā , bahubhastrakā , bahubhastrikā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२८।२-३२९।५ रो व्,२१२।७-२१५।१ किम् इदम् ठादेशे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् । कः च अत्र विशेषः । ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः । ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः । पठिता , पठितुम् । अस्तु तर्हि सङ्घातग्रहणम् । सङ्घातग्रहणम् चेत् अणादिमाथितिकादीनाम् प्रतिषेधः । सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः वक्तव्यः । उणादीनाम् तावत् । कण्ठः , वण्ठः , शण्ठः । इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति । वर्ङग्रहणे पुनः सति अल्विधिः अयम् भवति । तस्मात् विशिष्टग्रहणम् । तस्मात् विशिष्टस्य ठकारस्य ग्रहणम् कर्तव्यम् । न कर्तव्यम् । अस्तु तावत् वर्णग्रहणम् । ननु च उक्तम् ठादेशे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति । न एषः दोषः । अङ्गात् इति वर्तते । न वा अङ्गात् इति पञ्चमी अस्ति । एवम् तर्हि प्रत्ययस्थस्य इति वर्तते । क्व प्रकृतम् । प्रत्ययस्थात् कात् पूर्वस्य अतः इत् आपि असुपः इति । तत् वै पञ्चमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । अर्थात् विभक्तिविपरिणामः भविष्यति । तत् यथा । उच्चानि देवदत्तस्य गृहाणि । आमन्त्रयस्व एनम् । देवदत्तम् इति गम्यते । देवदत्तस्य गावः अश्वाः हिरण्यम् । आढ्यः वैधवेयः । देवदत्तः इति गम्यते । पुरस्तात् षष्ठीनिर्दिष्टम् सत् अर्थात् प्रथमानिर्दिष्टम् द्वितीयानिर्दिष्टम् च भवति । एवम् इह अपि पुरस्तात् पञ्चमीनिर्दिष्टम् सत् अर्थात् षष्ठीनिर्दिष्टम् भविष्यति । एवम् अपि उणादीनाम् प्रतिषेधः वक्तव्यः । न वक्तव्यः । उणादयः अव्युत्पन्नानि प्रातिपदिकानि । एवम् अपि कर्मठः इति अत्र प्राप्नोति । एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते । अङ्गस्य यः ठकारः । किम् च अङ्गस्य ठकारः । निमित्तम् । यस्मिन् अङ्गम् इति एतत् भवति । कस्मिन् च एतत् भवति । प्रत्यये । अथ वा पुनः अस्तु सङ्घातग्रहणम् । ननु च उक्तम् सङ्घातग्रहणम् चेत् उणादिमाथितिकादीनाम् प्रतिषेधः इति उणादीनाम् तावत् प्रतिषेधः न वक्तव्यः । परिहृतम् एतत् उणादयः अव्युत्पन्नानि प्रातिपदिकानि इति । यत् अपि उच्यते इह च मथितम् पण्यम् अस्य माथितिकः इति अकारलोपे कृते तान्तात् इति कादेशः प्राप्नोति इति । न एषः दोषः । अकारलोपस्य स्थानिवद्भावात् न भविष्यति । न सिध्यति । पूर्वविधौ स्थानिवद्भावः न च अयम् पूर्वविधिः । अयम् अपि पूर्वविधिः । पूर्वस्मात् अपि विधिः पूर्वविधिः इति । अथ अपि उणादयः व्युत्पाद्यन्ते एवम् अपि न दोषः । क्रियते न्यासे एव विशिष्टग्रहणम् ठस्य इति ।

KA III,328.2-329.5 Ro V,212.7-215.1 kim idam ṭhādeśe varṇagrahaṇam āhosvit saṅghātagrahaṇam . kaḥ ca atra viśeṣaḥ . ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ . ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ vaktavyaḥ . paṭhitā , paṭhitum . astu tarhi saṅghātagrahaṇam . saṅghātagrahaṇam cet aṇādimāthitikādīnām pratiṣedhaḥ . saṅghātagrahaṇam cet uṇādimāthitikādīnām pratiṣedhaḥ vaktavyaḥ . uṇādīnām tāvat . kaṇṭhaḥ , vaṇṭhaḥ , śaṇṭhaḥ . iha ca mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ prāpnoti . varṅagrahaṇe punaḥ sati alvidhiḥ ayam bhavati . tasmāt viśiṣṭagrahaṇam . tasmāt viśiṣṭasya ṭhakārasya grahaṇam kartavyam . na kartavyam . astu tāvat varṇagrahaṇam . nanu ca uktam ṭhādeśe varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . aṅgāt iti vartate . na vā aṅgāt iti pañcamī asti . evam tarhi pratyayasthasya iti vartate . kva prakṛtam . pratyayasthāt kāt pūrvasya ataḥ it āpi asupaḥ iti . tat vai pañcamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . arthāt vibhaktivipariṇāmaḥ bhaviṣyati . tat yathā . uccāni devadattasya gṛhāṇi . āmantrayasva enam . devadattam iti gamyate . devadattasya gāvaḥ aśvāḥ hiraṇyam . āḍhyaḥ vaidhaveyaḥ . devadattaḥ iti gamyate . purastāt ṣaṣṭhīnirdiṣṭam sat arthāt prathamānirdiṣṭam dvitīyānirdiṣṭam ca bhavati . evam iha api purastāt pañcamīnirdiṣṭam sat arthāt ṣaṣṭhīnirdiṣṭam bhaviṣyati . evam api uṇādīnām pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . uṇādayaḥ avyutpannāni prātipadikāni . evam api karmaṭhaḥ iti atra prāpnoti . evam tarhi aṅgasya iti sambandhaṣaṣṭhī vijñāsyate . aṅgasya yaḥ ṭhakāraḥ . kim ca aṅgasya ṭhakāraḥ . nimittam . yasmin aṅgam iti etat bhavati . kasmin ca etat bhavati . pratyaye . atha vā punaḥ astu saṅghātagrahaṇam . nanu ca uktam saṅghātagrahaṇam cet uṇādimāthitikādīnām pratiṣedhaḥ iti uṇādīnām tāvat pratiṣedhaḥ na vaktavyaḥ . parihṛtam etat uṇādayaḥ avyutpannāni prātipadikāni iti . yat api ucyate iha ca mathitam paṇyam asya māthitikaḥ iti akāralope kṛte tāntāt iti kādeśaḥ prāpnoti iti . na eṣaḥ doṣaḥ . akāralopasya sthānivadbhāvāt na bhaviṣyati . na sidhyati . pūrvavidhau sthānivadbhāvaḥ na ca ayam pūrvavidhiḥ . ayam api pūrvavidhiḥ . pūrvasmāt api vidhiḥ pūrvavidhiḥ iti . atha api uṇādayaḥ vyutpādyante evam api na doṣaḥ . kriyate nyāse eva viśiṣṭagrahaṇam ṭhasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ, ३२९।७-९ रो व्,२१५।३-५ इह कस्मात् न भवति । आशिषा तरति आशिषिकः , उषा तरति औषिकः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । अथ इह कथम् भवितव्यम् । दोर्भ्याम् तरति । दौष्कः इति भवितव्यम् । कथम् । यदि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते ।

KA III, 329.7-9 Ro V,215.3-5 iha kasmāt na bhavati . āśiṣā tarati āśiṣikaḥ , uṣā tarati auṣikaḥ . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . atha iha katham bhavitavyam . dorbhyām tarati . dauṣkaḥ iti bhavitavyam . katham . yadi varṇaikadeśāḥ varṇagrahaṇena gṛhyante .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३२९।११-३३०।१६ रो व्,२१५।७-२१७।१३ किम् इदम् ञ्णिन्नकारग्रहणम् हन्तिविशेषणम् : ञ्णिन्नकारपरस्य हन्तेः यः हकारः इति । आहोस्वित् हकारविशेषणम् : ञ्णिन्नकारपरस्य हकारस्य सः चेत् हन्तेः इति । कः च अत्र विशेषः । हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः । हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः । घ्नन्ति , घ्नन्तु , अघ्नन् । अस्तु तर्हि हकारविशेषणम् । हकारस्य इति चेत् ञ्णिति अप्राप्तिः । हकारस्य इति चेत् ञ्णिति अप्राप्तिः । घातयति घातकः । किम् कारणम् । नकारेण व्यवहितत्वात् न प्राप्नोति । वचनात् भविष्यति । इह अपि वचनात् प्राप्नोति । हननम् इच्छति हननीयते हननीयतेः ण्वुल् हननीयकः इति । स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः । स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः । घ्नन्ति , घ्नन्तु । वचनात् भविष्यति । वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः । वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः वक्तव्यः । हन्ता , हन्तुम् । नकारग्रहणसामर्थ्यात् अलोपे न भविष्यति । अस्ति अन्यत् नकारग्रहणस्य प्रयोजनम् । किम् । श्रूयमाणविशेषणम् । यत्र नकारः श्रूयते तत्र यथा स्यात् । इह मा भूत् । हतः हथः इति । सिद्धम् तु उपधालोपे इति वचनात् । सिद्धम् एतत् । कथम् । उपधालोपे च इति वक्तव्यम् । सिध्यति । सूत्रम् तर्हि भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् हन्तेः तत्परस्य इति चेत् नकारे अप्रसिद्धिः इति । वचनात् भविष्यति । अथ वा पुनः अस्तु हकारविशेषणम् । ननु च उक्तम् हकारस्य इति चेत् ञ्णिति अप्राप्तिः इति । वचनात् भविष्यति । ननु च उक्तम् इह अपि वचनात् प्राप्नोति हननीयकः इति । न एषः दोषः । येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् । न च क्व चित् धात्ववयवेन अव्यवधानम् एतेन पुनः सङ्घातेन व्यवधानम् भवति न च भवति । यत् अपि उच्यते स्थानिवद्भावात् च अचः नकारे अप्रसिद्धिः इति वचनात् भविष्यति । ननु च उक्तम् वचनप्रामाण्यात् इति चेत् अलोपे प्रतिषेधः इति । न एषः दोषः । आनन्तर्यम् इह आश्रीयते हकारस्य नकारः इति । क्व चित् च सन्निपातकृतम् आनन्तर्यम् शास्त्रकृतम् अनानन्तर्यम् क्व चित् च न सन्निपातकृतम् न अपि शास्त्रकृतम् । लोपे सन्निपातकृतम् आनन्तर्यम् अलोपे न एव सन्निपातकृतम् न अपि शास्त्रकृतम् । यत्र कुतः चित् एव आनन्तर्यम् तत् आश्रयिष्यामः ।

KA III,329.11-330.16 Ro V,215.7-217.13 kim idam ñṇinnakāragrahaṇam hantiviśeṣaṇam : ñṇinnakāraparasya hanteḥ yaḥ hakāraḥ iti . āhosvit hakāraviśeṣaṇam : ñṇinnakāraparasya hakārasya saḥ cet hanteḥ iti . kaḥ ca atra viśeṣaḥ . hanteḥ tatparasya iti cet nakāre aprasiddhiḥ . hanteḥ tatparasya iti cet nakāre aprasiddhiḥ . ghnanti , ghnantu , aghnan . astu tarhi hakāraviśeṣaṇam . hakārasya iti cet ñṇiti aprāptiḥ . hakārasya iti cet ñṇiti aprāptiḥ . ghātayati ghātakaḥ . kim kāraṇam . nakāreṇa vyavahitatvāt na prāpnoti . vacanāt bhaviṣyati . iha api vacanāt prāpnoti . hananam icchati hananīyate hananīyateḥ ṇvul hananīyakaḥ iti . sthānivadbhāvāt ca acaḥ nakāre aprasiddhiḥ . sthānivadbhāvāt ca acaḥ nakāre aprasiddhiḥ . ghnanti , ghnantu . vacanāt bhaviṣyati . vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ . vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ vaktavyaḥ . hantā , hantum . nakāragrahaṇasāmarthyāt alope na bhaviṣyati . asti anyat nakāragrahaṇasya prayojanam . kim . śrūyamāṇaviśeṣaṇam . yatra nakāraḥ śrūyate tatra yathā syāt . iha mā bhūt . hataḥ hathaḥ iti . siddham tu upadhālope iti vacanāt . siddham etat . katham . upadhālope ca iti vaktavyam . sidhyati . sūtram tarhi bhidyate . yathānyāsam eva astu . nanu ca uktam hanteḥ tatparasya iti cet nakāre aprasiddhiḥ iti . vacanāt bhaviṣyati . atha vā punaḥ astu hakāraviśeṣaṇam . nanu ca uktam hakārasya iti cet ñṇiti aprāptiḥ iti . vacanāt bhaviṣyati . nanu ca uktam iha api vacanāt prāpnoti hananīyakaḥ iti . na eṣaḥ doṣaḥ . yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . na ca kva cit dhātvavayavena avyavadhānam etena punaḥ saṅghātena vyavadhānam bhavati na ca bhavati . yat api ucyate sthānivadbhāvāt ca acaḥ nakāre aprasiddhiḥ iti vacanāt bhaviṣyati . nanu ca uktam vacanaprāmāṇyāt iti cet alope pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . ānantaryam iha āśrīyate hakārasya nakāraḥ iti . kva cit ca sannipātakṛtam ānantaryam śāstrakṛtam anānantaryam kva cit ca na sannipātakṛtam na api śāstrakṛtam . lope sannipātakṛtam ānantaryam alope na eva sannipātakṛtam na api śāstrakṛtam . yatra kutaḥ cit eva ānantaryam tat āśrayiṣyāmaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३०।१८-२५ रो व्,२१७।१५-२१८।८ अभ्यासात् कुत्वम् असुपः । अभ्यासात् कुत्वम् असुपः इति वक्तव्यम् । इह मा भूत् । हननम् इच्छति हननीयति हननीयतेः सन् जिहननीयिषति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । हन्तेः अभ्यासात् इति उच्यते न च एषः हन्तेः अभ्यासः । हन्तेः एषः अभ्यासः । कथम् । एकाचः द्वे प्रथमस्य इति । एवम् तर्हि हन्तेः अङ्गस्य यः अभ्यासः तस्मात् इति उच्यते न च एषः हन्तेः अङ्गस्य अभ्यासः । हन्तेः अङ्गस्य एषः अभ्यासः । कथम् । एकाचः द्वे प्रथमस्य इति । एवम् तर्हि यस्मिन् हन्तिः अङ्गम् तस्मिन् यः अभ्यासः तस्मात् इति उच्यते । यस्मिन् च अत्र हन्तिः अङ्गम् न तस्मिन् अभ्यासः यस्मिन् च अभ्यासः न तस्मिन् हन्तिः अङ्गम् भवति ।

KA III,330.18-25 Ro V,217.15-218.8 abhyāsāt kutvam asupaḥ . abhyāsāt kutvam asupaḥ iti vaktavyam . iha mā bhūt . hananam icchati hananīyati hananīyateḥ san jihananīyiṣati iti . tat tarhi vaktavyam . na vaktavyam . hanteḥ abhyāsāt iti ucyate na ca eṣaḥ hanteḥ abhyāsaḥ . hanteḥ eṣaḥ abhyāsaḥ . katham . ekācaḥ dve prathamasya iti . evam tarhi hanteḥ aṅgasya yaḥ abhyāsaḥ tasmāt iti ucyate na ca eṣaḥ hanteḥ aṅgasya abhyāsaḥ . hanteḥ aṅgasya eṣaḥ abhyāsaḥ . katham . ekācaḥ dve prathamasya iti . evam tarhi yasmin hantiḥ aṅgam tasmin yaḥ abhyāsaḥ tasmāt iti ucyate . yasmin ca atra hantiḥ aṅgam na tasmin abhyāsaḥ yasmin ca abhyāsaḥ na tasmin hantiḥ aṅgam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३१।२-८ रो व्,२१९।२-८ अचङि इति किमर्थम् । प्राजीहयत् दूतम् । हेः चङि प्रतिषेधानर्थक्यम् अङ्गान्यत्वात् । हेः चङि प्रतिषेधः अनर्थकः । किम् कारणम् । अङ्गान्यत्वात् । ण्यन्तम् एतत् अङ्गम् अन्यत् भवति । लोपे कृते न अङ्गान्यत्वम् । स्थानिवद्भावात् अङ्गान्यत्वम् एव । ज्ञापकम् तु अन्य्त्र ण्यधिकस्य कुत्वविज्ञानार्थम् । एवम् तर्हि ज्ञापयति आचार्यः अन्यत्र ण्यधिकस्य कुत्वम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । प्रजिघाययिषति इति अत्र कुत्वम् सिद्धम् भवति ।

KA III,331.2-8 Ro V,219.2-8 acaṅi iti kimartham . prājīhayat dūtam . heḥ caṅi pratiṣedhānarthakyam aṅgānyatvāt . heḥ caṅi pratiṣedhaḥ anarthakaḥ . kim kāraṇam . aṅgānyatvāt . ṇyantam etat aṅgam anyat bhavati . lope kṛte na aṅgānyatvam . sthānivadbhāvāt aṅgānyatvam eva . jñāpakam tu anytra ṇyadhikasya kutvavijñānārtham . evam tarhi jñāpayati ācāryaḥ anyatra ṇyadhikasya kutvam bhavati iti . kim etasya jñāpane prayojanam . prajighāyayiṣati iti atra kutvam siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३१।१०-१४ रो व्,२१९।१०-१४ जिग्रहणे ज्यः प्रतिषेधः । जिग्रहणे ज्यः प्रतिषेधः वक्तव्यः । जिज्यतुः , जिज्युः इति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् एतस्य न भविष्यति । सा तर्हि एषा परिभषा कर्तव्या । अवश्यम् कर्तव्या अध्याप्य गतः इति एवमर्थम् ।

KA III,331.10-14 Ro V,219.10-14 jigrahaṇe jyaḥ pratiṣedhaḥ . jigrahaṇe jyaḥ pratiṣedhaḥ vaktavyaḥ . jijyatuḥ , jijyuḥ iti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam etasya na bhaviṣyati . sā tarhi eṣā paribhaṣā kartavyā . avaśyam kartavyā adhyāpya gataḥ iti evamartham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३१।१६-३३२।२ रो व्,२१९।१६-२२०।७ क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः निष्ठायाम् अनिटः कुत्ववचनात् । क्वाद्यजिव्रजियाचिरुचीनाम् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । कुत्वम् कस्मात् न भवति । निष्ठायाम् अनिटः कुत्ववचनात् । निष्ठायाम् अनिटः कुत्वम् वक्ष्यामि सेटः च एते निष्ठायाम् । यदि निष्ठायाम् अनिटः कुत्वम् उच्यते कथम् शोकः समुद्रः इति । शुच्युब्ज्योः घञि कुत्वम् । शुच्युब्ज्योः घञि कुत्वम् वक्तव्यम् । कथम् अर्कः । अर्चेः कविधानात् सिद्धम् । न एतत् घञन्तम् । औणादिकः एषः कशब्दः तस्मिन् आष्टमिकम् कुत्वम् ।

KA III,331.16-332.2 Ro V,219.16-220.7 kvādyajivrajiyācirucīnām apratiṣedhaḥ niṣṭhāyām aniṭaḥ kutvavacanāt . kvādyajivrajiyācirucīnām apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . kutvam kasmāt na bhavati . niṣṭhāyām aniṭaḥ kutvavacanāt . niṣṭhāyām aniṭaḥ kutvam vakṣyāmi seṭaḥ ca ete niṣṭhāyām . yadi niṣṭhāyām aniṭaḥ kutvam ucyate katham śokaḥ samudraḥ iti . śucyubjyoḥ ghañi kutvam . śucyubjyoḥ ghañi kutvam vaktavyam . katham arkaḥ . arceḥ kavidhānāt siddham . na etat ghañantam . auṇādikaḥ eṣaḥ kaśabdaḥ tasmin āṣṭamikam kutvam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३२।४-१० रो व्,२२१।२-८ भुजः पाणौ । भुजः पाणौ इति वक्तव्यम् । कथम् न्युब्जः उपतापे इति । न्युब्जेः कर्तृत्वात् अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । कुत्वम् कस्मत् न भवति । कर्तृत्वात् । न एतत् घञन्तम् । कर्तृप्रत्ययः एषः । न्युब्जति इति न्युब्जः । अधिकरणसाधनः वै लक्ष्यते घञ् । न्युब्जिताः शेरते अस्मिन् न्युब्जः उपतापे इति । एषः अपि हि कर्तृसाधनः एव । न्युब्जयति इति न्युब्जः ।

KA III,332.4-10 Ro V,221.2-8 bhujaḥ pāṇau . bhujaḥ pāṇau iti vaktavyam . katham nyubjaḥ upatāpe iti . nyubjeḥ kartṛtvāt apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . kutvam kasmat na bhavati . kartṛtvāt . na etat ghañantam . kartṛpratyayaḥ eṣaḥ . nyubjati iti nyubjaḥ . adhikaraṇasādhanaḥ vai lakṣyate ghañ . nyubjitāḥ śerate asmin nyubjaḥ upatāpe iti . eṣaḥ api hi kartṛsādhanaḥ eva . nyubjayati iti nyubjaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३२।१२-२१ रो व्,२२१।१०-२२२।८ प्रवचिग्रहणम् अनर्थकम् वचः अशब्दसञ्ज्ञाभावात् । प्रवचिग्रहणम् अनर्थकम् । किम् कारणम् । वचोऽशब्दसञ्ज्ञाभावात् । वचोऽशब्दसञ्ज्ञायाम् प्रतिषेधः उच्यते प्रपूर्वः च वचिः अशब्दसञ्ज्ञायाम् वर्तते । उपसर्गनियमार्थम् तर्हि इदम् वक्तव्यम् । प्रपूर्वस्य एव वचेः अशब्दसञ्ज्ञायाम् प्रतिषेधः यथा स्यात् । इह मा भूत् । अविवाक्यम् इति । उपसर्गपूर्वनियमार्थम् इति चेत् अविवाक्यस्य विशेषवचनत् सिद्धम् । विशेषे एतत् वक्तव्यम् । अविवाक्यम् अहः इति । क्व मा भूत् । अविवाच्यम् एव अन्यत् इति । ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् । ण्यप्रतिषेधे त्यजेः उपसङ्ख्यानम् कर्तव्यम् । त्याज्यम् ।

KA III,332.12-21 Ro V,221.10-222.8 pravacigrahaṇam anarthakam vacaḥ aśabdasañjñābhāvāt . pravacigrahaṇam anarthakam . kim kāraṇam . vaco'śabdasañjñābhāvāt . vaco'śabdasañjñāyām pratiṣedhaḥ ucyate prapūrvaḥ ca vaciḥ aśabdasañjñāyām vartate . upasarganiyamārtham tarhi idam vaktavyam . prapūrvasya eva vaceḥ aśabdasañjñāyām pratiṣedhaḥ yathā syāt . iha mā bhūt . avivākyam iti . upasargapūrvaniyamārtham iti cet avivākyasya viśeṣavacanat siddham . viśeṣe etat vaktavyam . avivākyam ahaḥ iti . kva mā bhūt . avivācyam eva anyat iti . ṇyapratiṣedhe tyajeḥ upasaṅkhyānam . ṇyapratiṣedhe tyajeḥ upasaṅkhyānam kartavyam . tyājyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३३।२-६ रो व्,२२२।१०-१४ [भोज्यम् अभ्यवहार्ह्ये] । भोज्यम् अभ्यवहार्ये इति वक्तव्यम् । इह अपि यथा स्यात् । भोज्यः सूपः , भोज्या यवागूः इति । किम् पुनः कारणम् न सिध्यति । भक्षिः अयम् खरविशदे वर्तते तेन द्रवे न प्राप्नोति । न अवश्यम् भक्षिः खरविशदे एव वर्तते । किम् तर्हि अन्यत्र अपि वर्तते । तत् यथा । अब्भक्षः , वायुभक्षः इति ।

KA III,333.2-6 Ro V,222.10-14 [bhojyam abhyavahārhye] . bhojyam abhyavahārye iti vaktavyam . iha api yathā syāt . bhojyaḥ sūpaḥ , bhojyā yavāgūḥ iti . kim punaḥ kāraṇam na sidhyati . bhakṣiḥ ayam kharaviśade vartate tena drave na prāpnoti . na avaśyam bhakṣiḥ kharaviśade eva vartate . kim tarhi anyatra api vartate . tat yathā . abbhakṣaḥ , vāyubhakṣaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३३।८-१० रो व्,२२३।२-४ वा इति शक्यम् अवक्तुम् । कस्मात् न भवति । तत् अग्निः अग्नये ददात् । अस्तु अत्र लोपः आटः श्रवणम् भविष्यति तेन उभयम् सिध्यति । दधत् रत्नानि दाशुषे , ददात् रत्नानि दाशुषे ।

KA III,333.8-10 Ro V,223.2-4 vā iti śakyam avaktum . kasmāt na bhavati . tat agniḥ agnaye dadāt . astu atra lopaḥ āṭaḥ śravaṇam bhaviṣyati tena ubhayam sidhyati . dadhat ratnāni dāśuṣe , dadāt ratnāni dāśuṣe .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३३।१२-२० रो व्,२२३।६-२२४।१ [ओतः शिति] । ओतः शिति इति वक्तव्यम् । किम् प्रयोजनम् । उत्तरत्र शिद्ग्रहणाभावाय । तत्र अयम् अपि अर्थः ष्ठिवुक्लम्वाचमाम् शिति इति शिद्ग्रहणम् न कर्तव्यम् भवति । ननु च भोः श्यन्ग्रहणम् अपि तर्हि उत्तरार्थम् कर्तव्यम् । शमाम् अष्टानाम् दीर्घः श्यनि इति श्यन्ग्रहणम् न कर्तव्यम् भवति । अत्र अपि अस्तु शिति इति एव । यदि शिति इति उच्यते अनु त्वा इन्द्रः भ्रमतु मदतु अत्र अपि प्राप्नोति । शमादिभिः अत्र शितम् विशेषयिष्यामः । शमादीनाम् यः शित् इति । कः च शमादीनाम् शित् । शमादिभ्यः यः विहितः । एवम् अपि तस्यति , यस्यति अत्र प्राप्नोति । अष्टानाम् इति वचनात् न भविष्यति ।

KA III,333.12-20 Ro V,223.6-224.1 [otaḥ śiti] . otaḥ śiti iti vaktavyam . kim prayojanam . uttaratra śidgrahaṇābhāvāya . tatra ayam api arthaḥ ṣṭhivuklamvācamām śiti iti śidgrahaṇam na kartavyam bhavati . nanu ca bhoḥ śyangrahaṇam api tarhi uttarārtham kartavyam . śamām aṣṭānām dīrghaḥ śyani iti śyangrahaṇam na kartavyam bhavati . atra api astu śiti iti eva . yadi śiti iti ucyate anu tvā indraḥ bhramatu madatu atra api prāpnoti . śamādibhiḥ atra śitam viśeṣayiṣyāmaḥ . śamādīnām yaḥ śit iti . kaḥ ca śamādīnām śit . śamādibhyaḥ yaḥ vihitaḥ . evam api tasyati , yasyati atra prāpnoti . aṣṭānām iti vacanāt na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३४।२-४ रो व्,२२४।३-५ दीर्घत्वम् आङि चमः । दीर्घत्वम् आङि चमः इति वक्तव्यम् । आचामति । इह मा भूत् । उच्चमति , विचमति इति ।

KA III,334.2-4 Ro V,224.3-5 dīrghatvam āṅi camaḥ . dīrghatvam āṅi camaḥ iti vaktavyam . ācāmati . iha mā bhūt . uccamati , vicamati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३४।६-१२ रो व्,२२४।७-१३ इषेः छत्वम् अहलि । इषेः छत्वम् अहलि इति वक्तव्यम् । इह मा भूत् । इष्णाति , इष्यति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अचि इति वर्तते । एवम् अपि इषाण इति अत्र प्राप्नोति । अथ अहलि इति उच्यमाने कस्मात् एव अत्र छत्वम् न भवति । न एवम् विज्ञायते न हल् अहल् अहलि इति । कथम् तर्हि । अविद्यमानः हल् अस्मिन् सः अयम् अहल् अहलि इति । यदि एवम् अचि इति अपि वर्तमाने न दोषः । न हि अचा शित् विशेष्यते । शिति भवति कतर्स्मिन् अचि इति । कथम् तर्हि । शिता अच् विशेष्यते । अचि भवति कतर्स्मिन् शिति इति ।

KA III,334.6-12 Ro V,224.7-13 iṣeḥ chatvam ahali . iṣeḥ chatvam ahali iti vaktavyam . iha mā bhūt . iṣṇāti , iṣyati . tat tarhi vaktavyam . na vaktavyam . aci iti vartate . evam api iṣāṇa iti atra prāpnoti . atha ahali iti ucyamāne kasmāt eva atra chatvam na bhavati . na evam vijñāyate na hal ahal ahali iti . katham tarhi . avidyamānaḥ hal asmin saḥ ayam ahal ahali iti . yadi evam aci iti api vartamāne na doṣaḥ . na hi acā śit viśeṣyate . śiti bhavati katarsmin aci iti . katham tarhi . śitā ac viśeṣyate . aci bhavati katarsmin śiti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३४।१५-२० रो व्,२२५।३-८ पिबेः गुणप्रतिषेधः । पिबेः गुणप्रतिषेधः वक्तव्यः । पिबति । लघूपधगुणः प्राप्नोति । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । गुणः कस्मात् न भवति । पिबिः अदन्तः । अदन्ते इति चेत् उक्तम् । किम् उक्तम् । धातोः अन्ते इति चेत् अनुदात्तेचबग्रहणम् इति । अथ वा अङ्गवृत्ते पुनर्वृत्तौ अविधिः निष्ठितस्य इति एवम् न भविष्यति ।

KA III,334.15-20 Ro V,225.3-8 pibeḥ guṇapratiṣedhaḥ . pibeḥ guṇapratiṣedhaḥ vaktavyaḥ . pibati . laghūpadhaguṇaḥ prāpnoti . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . guṇaḥ kasmāt na bhavati . pibiḥ adantaḥ . adante iti cet uktam . kim uktam . dhātoḥ ante iti cet anudāttecabagrahaṇam iti . atha vā aṅgavṛtte punarvṛttau avidhiḥ niṣṭhitasya iti evam na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३५।२-६ रो व्,२२५-२२६ दीर्घोच्चारणम् किमर्थम् न ज्ञाजनोः जः इति एव उच्येत । का रूपसिद्धिः : जानाति , जायते । अतः दीर्घः यञि इति दीर्घत्वम् भविष्यति । एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति । किम् एतस्य ज्ञापने प्रयोजनम् । पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति ।

KA III,335.2-6 Ro V,225-226 dīrghoccāraṇam kimartham na jñājanoḥ jaḥ iti eva ucyeta . kā rūpasiddhiḥ : jānāti , jāyate . ataḥ dīrghaḥ yañi iti dīrghatvam bhaviṣyati . evam tarhi siddhe sati yat dīrghoccāraṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punarvṛttau avidhiḥ iti . kim etasya jñāpane prayojanam . pibeḥ guṇapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३५।८-१६ रो व्,२२६ जुसि गुणे यासुट्प्रतिषेधः । जुसि गुणे यासुडादौ प्रतिषेधः वक्तव्यः । चिनुयुः , सुनुयुः इति । न वक्तव्यः । न एवम् विज्ञायते मिदेः गुणः जुसि च इति । कथम् तर्हि । मिदेः गुणः अजुसि च इति । किम् इदम् अजुसि इति । अजादौ उसि अजुसि इति । इह अपि तर्हि प्राप्नोति । चक्रुः , जह्रुः इति । एवम् तर्हि शिति इति वर्तते । एवम् अपि अजुहवुः , अबिभयुः इति अत्र न प्राप्नोति । भूतपूर्वगत्या भविष्यति । न सिध्यति न हि उस् शिद्भूतपूर्वः । उस् शिद्भूतपूर्वः न अस्ति इति कृत्वा उसि यः शिद्भूतपूर्वः तस्मिन् भविष्यति । अथ वा क्रियते न्यासे एव । अविभक्तिकः निर्देशः । न एवम् विज्ञायते मिदेः गुणः जुसि च इति । कथम् तर्हि । मिदेः गुणः उ जुसि इति । किम् इदम् उ जुसि इति । उकारादौ जुसि । अथ वा अचि इति वर्तते तेन जुसम् विशेषयिष्यामः । अजादौ जुसि इति ।

KA III,335.8-16 Ro V,226 jusi guṇe yāsuṭpratiṣedhaḥ . jusi guṇe yāsuḍādau pratiṣedhaḥ vaktavyaḥ . cinuyuḥ , sunuyuḥ iti . na vaktavyaḥ . na evam vijñāyate mideḥ guṇaḥ jusi ca iti . katham tarhi . mideḥ guṇaḥ ajusi ca iti . kim idam ajusi iti . ajādau usi ajusi iti . iha api tarhi prāpnoti . cakruḥ , jahruḥ iti . evam tarhi śiti iti vartate . evam api ajuhavuḥ , abibhayuḥ iti atra na prāpnoti . bhūtapūrvagatyā bhaviṣyati . na sidhyati na hi us śidbhūtapūrvaḥ . us śidbhūtapūrvaḥ na asti iti kṛtvā usi yaḥ śidbhūtapūrvaḥ tasmin bhaviṣyati . atha vā kriyate nyāse eva . avibhaktikaḥ nirdeśaḥ . na evam vijñāyate mideḥ guṇaḥ jusi ca iti . katham tarhi . mideḥ guṇaḥ u jusi iti . kim idam u jusi iti . ukārādau jusi . atha vā aci iti vartate tena jusam viśeṣayiṣyāmaḥ . ajādau jusi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३५।१८-३३७।३ रो व्,२२६।१५-२२९।३ इह जागरयति , जागरकः इति गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति तस्याः प्रतिषेधः वक्तव्यः । चिण्णलोः प्रतिषेधसामर्थ्यात् अन्यत्र गुणभूतस्य वृद्धिप्रतिषेधः । यत् अयम् अचिण्णलोः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः न गुणाभिनिर्वृत्तस्य वृद्धिः भवति इति । किम् पुनः अयम् पर्युदासः : यत् अन्यत् विचिण्णल्ङिद्भ्यः इति । आहोस्वित् प्रसज्य अयम् प्रतिषेधः : विचिण्णल्ङित्सु न इति । कः च अत्र विशेषः । प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधप्रसङ्गः । प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति । अजागरुः । उत्तमे च णलि । प्रसज्यप्रतिषेधे जुसिगुणप्रतिषेधः प्राप्नोति । अजागरुः । न वा अनन्तरस्य प्रतिषेधात् । न वा एषः दोषः । किम् कारणम् । अनन्तरस्य प्रतिषेधात् । अनन्तरम् यत् गुणविधानम् तस्य प्रतिषेधः । जुसि पूर्वेण गुणविधानम् । जुसि पूर्वेण गुणः विधीयते जुसि च इति । णलि च । किम् । न वा अनन्तरस्य प्रतिषेधात् इति एव । णलि च पूर्वेण गुणः विधीयते सार्वधातुकार्धधातुकयोः इति । अथ वा पुनः अस्तु पर्युदासः । अतः अन्यत्र विधाने वौ अगुणत्वम् । अतः अन्यत्र विधाने वौ अगुणत्वम् । न वा पर्युदाससामर्थ्यात् । न वा वक्तव्यम् । किम् कारणम् । पर्युदाससामर्थ्यात् अत्र गुणः न भविष्यति । अस्ति अन्यत् पर्युदासे प्रयोजनम् । किम् । क्विबर्थम् पर्युदासः स्यात् । शुद्धपरस्य विशब्दस्य प्रतिषेधे ग्रहणम् अनुनासिकपरः च क्वौ विशब्दः । वस्वर्थम् तर्हि पर्युदासः स्यात् । जागृवांसः अनु ग्मन् । कथम् पुनः वेः पर्युदासः उच्यमानः वस्वर्थः शक्यः विज्ञातुम् । सामर्थ्यात् वस्वर्थम् इति विज्ञास्यते । वस्वर्थम् इति चेत् न सार्वधातुकत्वात् सिद्धम् । वस्वर्थम् इति चेत् न । किम् कारणम् । सार्वधातुकत्वात् सिद्धम् । कथम् सार्वधातुकसञ्ज्ञा । छान्दसः क्वसुः । लिट् च छन्दसि सार्वधातुकम् अपि भवति । तत्र सार्वधातुकम् अपिन् ङित् इति ङित्त्वात् पर्युदासः भविष्यति । अथ वा वकारस्य एव इदम् अशक्तिजेन इकारेण ग्रहणम् ।

KA III,335.18-337.3 Ro V,226.15-229.3 iha jāgarayati , jāgarakaḥ iti guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti tasyāḥ pratiṣedhaḥ vaktavyaḥ . ciṇṇaloḥ pratiṣedhasāmarthyāt anyatra guṇabhūtasya vṛddhipratiṣedhaḥ . yat ayam aciṇṇaloḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ na guṇābhinirvṛttasya vṛddhiḥ bhavati iti . kim punaḥ ayam paryudāsaḥ : yat anyat viciṇṇalṅidbhyaḥ iti . āhosvit prasajya ayam pratiṣedhaḥ : viciṇṇalṅitsu na iti . kaḥ ca atra viśeṣaḥ . prasajyapratiṣedhe jusiguṇapratiṣedhaprasaṅgaḥ . prasajyapratiṣedhe jusiguṇapratiṣedhaḥ prāpnoti . ajāgaruḥ . uttame ca ṇali . prasajyapratiṣedhe jusiguṇapratiṣedhaḥ prāpnoti . ajāgaruḥ . na vā anantarasya pratiṣedhāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . anantarasya pratiṣedhāt . anantaram yat guṇavidhānam tasya pratiṣedhaḥ . jusi pūrveṇa guṇavidhānam . jusi pūrveṇa guṇaḥ vidhīyate jusi ca iti . ṇali ca . kim . na vā anantarasya pratiṣedhāt iti eva . ṇali ca pūrveṇa guṇaḥ vidhīyate sārvadhātukārdhadhātukayoḥ iti . atha vā punaḥ astu paryudāsaḥ . ataḥ anyatra vidhāne vau aguṇatvam . ataḥ anyatra vidhāne vau aguṇatvam . na vā paryudāsasāmarthyāt . na vā vaktavyam . kim kāraṇam . paryudāsasāmarthyāt atra guṇaḥ na bhaviṣyati . asti anyat paryudāse prayojanam . kim . kvibartham paryudāsaḥ syāt . śuddhaparasya viśabdasya pratiṣedhe grahaṇam anunāsikaparaḥ ca kvau viśabdaḥ . vasvartham tarhi paryudāsaḥ syāt . jāgṛvāṃsaḥ anu gman . katham punaḥ veḥ paryudāsaḥ ucyamānaḥ vasvarthaḥ śakyaḥ vijñātum . sāmarthyāt vasvartham iti vijñāsyate . vasvartham iti cet na sārvadhātukatvāt siddham . vasvartham iti cet na . kim kāraṇam . sārvadhātukatvāt siddham . katham sārvadhātukasañjñā . chāndasaḥ kvasuḥ . liṭ ca chandasi sārvadhātukam api bhavati . tatra sārvadhātukam apin ṅit iti ṅittvāt paryudāsaḥ bhaviṣyati . atha vā vakārasya eva idam aśaktijena ikāreṇa grahaṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३७।५-३३८।१२ रो व्,२२९।५-२३२।४ संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति । संयोगे गुरुसञ्ज्ञायाम् भेत्ता , भेत्तुम् इति गुणः न प्राप्नोति । विध्यपेक्षम् लघोः च असौ । विध्यपेक्षम् लघुग्रहणम् कृतम् लघोः च असौ विहितः । कथम् कुण्डिः न दुष्यति । कुण्डिता , हुण्डिता अत्र कस्मात् न भवति । धातोः नुमः । धातोः नुम्विधौ उक्तम् तत्र धातुग्रहणस्य प्रयोजनम् धातूपदेशावस्थायाम् एव नुम् भवति इति । कथम् रञ्जेः । कथम् रञ्जेः उपधालक्षणा वृद्धिः । आश्चर्यः रागः , विचित्रः रागः । स्यन्दिश्रन्थ्योः निपातनात् । यत् अयम् स्यन्दिश्रन्थ्योः अवृद्ध्यर्थम् निपातनम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् वृद्धिः इति । अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः । अनङ्लोपः । दध्ना , सक्थ्ना । शिदीर्घत्वम् । कुण्डानि , वनानि । एवम् तर्हि अभ्यस्तस्य यत् आह अचि । यत् अयम् न अभ्यस्तस्य अचि पिति सार्वधातुके इति अज्ग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति । लङर्थम् तत् कृतम् भवेत् । लङर्थम् एतत् स्यात् । अनेन इक् । क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे । यत् अयम् त्रसिगृधिधृषिक्षिपेः क्नुः इकः झल् हलन्तात् च इति क्नुसनौ कितौ करोति तत् ज्ञापयति आचार्यः भवति एवञ्जातीयकानाम् गुणः इति । संयोगे गुरुसञ्ज्ञायाम् गुणः भेत्तुः न सिध्यति , विध्यपेक्षम् लघोः च असौ कथम् कुण्डिः न दुष्यति । धातोः नुमः कथम् रञ्जेः स्यन्दिश्रन्थ्योः निपातनात् , अनङ्लोपशिदीर्घत्वे विध्यपेक्षे न सिध्यतः । अभ्यस्तस्य यत् आह अचि लङर्थम् तत् कृतम् भवेत् , क्नुसुनोः यत् कृतम् कित्त्वम् ज्ञापकम् स्यात् लघोः गुणे ।

KA III,337.5-338.12 Ro V,229.5-232.4 saṃyoge gurusañjñāyām guṇaḥ bhettuḥ na sidhyati . saṃyoge gurusañjñāyām bhettā , bhettum iti guṇaḥ na prāpnoti . vidhyapekṣam laghoḥ ca asau . vidhyapekṣam laghugrahaṇam kṛtam laghoḥ ca asau vihitaḥ . katham kuṇḍiḥ na duṣyati . kuṇḍitā , huṇḍitā atra kasmāt na bhavati . dhātoḥ numaḥ . dhātoḥ numvidhau uktam tatra dhātugrahaṇasya prayojanam dhātūpadeśāvasthāyām eva num bhavati iti . katham rañjeḥ . katham rañjeḥ upadhālakṣaṇā vṛddhiḥ . āścaryaḥ rāgaḥ , vicitraḥ rāgaḥ . syandiśranthyoḥ nipātanāt . yat ayam syandiśranthyoḥ avṛddhyartham nipātanam karoti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām vṛddhiḥ iti . anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ . anaṅlopaḥ . dadhnā , sakthnā . śidīrghatvam . kuṇḍāni , vanāni . evam tarhi abhyastasya yat āha aci . yat ayam na abhyastasya aci piti sārvadhātuke iti ajgrahaṇam karoti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām guṇaḥ iti . laṅartham tat kṛtam bhavet . laṅartham etat syāt . anena ik . knusunoḥ yat kṛtam kittvam jñāpakam syāt laghoḥ guṇe . yat ayam trasigṛdhidhṛṣikṣipeḥ knuḥ ikaḥ jhal halantāt ca iti knusanau kitau karoti tat jñāpayati ācāryaḥ bhavati evañjātīyakānām guṇaḥ iti . saṃyoge gurusañjñāyām guṇaḥ bhettuḥ na sidhyati , vidhyapekṣam laghoḥ ca asau katham kuṇḍiḥ na duṣyati . dhātoḥ numaḥ katham rañjeḥ syandiśranthyoḥ nipātanāt , anaṅlopaśidīrghatve vidhyapekṣe na sidhyataḥ . abhyastasya yat āha aci laṅartham tat kṛtam bhavet , knusunoḥ yat kṛtam kittvam jñāpakam syāt laghoḥ guṇe .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३८।१४-२६ रो व्,२३२।६-२३३।४ अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि पस्पशाते , चाकशीमि , वावशतीः इति दर्शनात् । अभ्यस्तानाम् उपधाह्रस्वत्वम् अचि वक्तव्यम् । किम् प्रयोजनम् । पस्पशाते , चाकशीमि । वावशतीः इति प्रयोगः दृश्यते । कपोतः शरदम् पस्पशाते । अहम् भुवनम् चाकशीमि । वावशतीः उत् आजत् इति । बहुलम् छन्दसि आनुषक् जुजोषत् इति दर्शनात् । बहुलम् छन्दसि वक्तव्यम् उपधाह्रस्वत्वम् । किम् प्रयोजनम् । आनुषक् जुजोषत् इति दर्शनात् । यः ते आतित्यम् आनुषक् जुजोषत् । यदि उपधाह्रस्वत्वम् उच्यते , प्रियाम् मयूरः प्रतिनर्नृतीति यद्वत् त्वम् नरवर नर्नृतीषि हृष्टः , अत्र गुणः प्राप्नोति । तस्मात् न अर्थः उपधाह्रस्वत्वेन । कस्मात् न भवति । पस्पशाते , चाकशीमि , वावशतीः इति । स्पशिकशिवशयः प्रकृत्यन्तराणि ।

KA III,338.14-26 Ro V,232.6-233.4 abhyastānām upadhāhrasvatvam aci paspaśāte , cākaśīmi , vāvaśatīḥ iti darśanāt . abhyastānām upadhāhrasvatvam aci vaktavyam . kim prayojanam . paspaśāte , cākaśīmi . vāvaśatīḥ iti prayogaḥ dṛśyate . kapotaḥ śaradam paspaśāte . aham bhuvanam cākaśīmi . vāvaśatīḥ ut ājat iti . bahulam chandasi ānuṣak jujoṣat iti darśanāt . bahulam chandasi vaktavyam upadhāhrasvatvam . kim prayojanam . ānuṣak jujoṣat iti darśanāt . yaḥ te ātityam ānuṣak jujoṣat . yadi upadhāhrasvatvam ucyate , priyām mayūraḥ pratinarnṛtīti yadvat tvam naravara narnṛtīṣi hṛṣṭaḥ , atra guṇaḥ prāpnoti . tasmāt na arthaḥ upadhāhrasvatvena . kasmāt na bhavati . paspaśāte , cākaśīmi , vāvaśatīḥ iti . spaśikaśivaśayaḥ prakṛtyantarāṇi .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३९।२-७ रो व्,२३३।६-११ भूसुवोः प्रतिषेधे एकाज्ग्रहणम् बोभवीत्यर्थम् । भूसुवोः प्रतिषेधे एकाज्ग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । बोभवीत्यर्थम् । इह मा भूत् । बोभवीति । यदि एकाज्ग्रहणम् क्रियते अभूत् अत्र न प्राप्नोति । क्व तर्हि स्यात् । मा भूत् । तस्मात् न अर्थः एकाज्ग्रहणेन । कस्मात् न भवति । बोभवीति इति । बोभूतु इति एतत् नियमार्थम् भविष्यति । अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति । क्व मा भूत् । बोभवीति इति ।

KA III,339.2-7 Ro V,233.6-11 bhūsuvoḥ pratiṣedhe ekājgrahaṇam bobhavītyartham . bhūsuvoḥ pratiṣedhe ekājgrahaṇam kartavyam . kim prayojanam . bobhavītyartham . iha mā bhūt . bobhavīti . yadi ekājgrahaṇam kriyate abhūt atra na prāpnoti . kva tarhi syāt . mā bhūt . tasmāt na arthaḥ ekājgrahaṇena . kasmāt na bhavati . bobhavīti iti . bobhūtu iti etat niyamārtham bhaviṣyati . atra eva yaṅlugantasya guṇaḥ na bhavati na anyatra iti . kva mā bhūt . bobhavīti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३९।९ रो व्,२३४।२-१२ किमर्थम् तृहिरागतश्नम्कः न तृहेः इम् भवति इति एव उच्येत । तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् । तृणहिग्रहणम् श्नमि कृते इम् यथा स्यात् । तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् । तृहिग्रहणे हि सति इम्विषये श्नमः अभावः स्यात् । किम् कारणम् । अनवकाशत्वात् । अनवकाशः इम् श्नमम् बाधेत । इदम् अयुक्तम् वर्तते । किम् अत्र अयुक्तम् । तृणहिग्रहणम् श्नमिमोः व्यवस्थार्थम् इति उक्त्वा ततः उच्यते तृहिग्रहणे हि इम्विषये श्नमभावः अनवकाशत्वात् इति । तत्र वक्तव्यम् तृणहिग्रहणम् श्नमिमोः भावाय तृहिग्रहणे हि इम्विषेये श्नमभावः अनवकाशत्वात् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । व्यवस्थार्थम् इति एव सिद्धम् न हि असतः व्यवस्था इति ।

KA III,339.9 Ro V,234.2-12 kimartham tṛhirāgataśnamkaḥ na tṛheḥ im bhavati iti eva ucyeta . tṛṇahigrahaṇam śnamimoḥ vyavasthārtham . tṛṇahigrahaṇam śnami kṛte im yathā syāt . tṛhigrahaṇe hi imviṣaye śnamabhāvaḥ anavakāśatvāt . tṛhigrahaṇe hi sati imviṣaye śnamaḥ abhāvaḥ syāt . kim kāraṇam . anavakāśatvāt . anavakāśaḥ im śnamam bādheta . idam ayuktam vartate . kim atra ayuktam . tṛṇahigrahaṇam śnamimoḥ vyavasthārtham iti uktvā tataḥ ucyate tṛhigrahaṇe hi imviṣaye śnamabhāvaḥ anavakāśatvāt iti . tatra vaktavyam tṛṇahigrahaṇam śnamimoḥ bhāvāya tṛhigrahaṇe hi imviṣeye śnamabhāvaḥ anavakāśatvāt iti . tat tarhi vaktavyam . na vaktavyam . vyavasthārtham iti eva siddham na hi asataḥ vyavasthā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३३९।२०-२२ रो व्,२३४।१४-२३५।१ सार्वधातुके इति वर्तमाने पुनः सार्वधातुकग्रहणम् किमर्थम् । पुनः सार्वधातुकग्रहणम् अपिदर्थम् । अपिदर्थः अयम् आरम्भः । अध्रिगो शमीध्वम् सुशमि शमीध्व शमीध्वम् अध्रिगो ।

KA III,339.20-22 Ro V,234.14-235.1 sārvadhātuke iti vartamāne punaḥ sārvadhātukagrahaṇam kimartham . punaḥ sārvadhātukagrahaṇam apidartham . apidarthaḥ ayam ārambhaḥ . adhrigo śamīdhvam suśami śamīdhva śamīdhvam adhrigo .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४०।२-५ रो व्,२३५।३-७ अतः दीर्घात् बहुवचने एत्त्वम् विप्रतिषेधेन । अतः दीर्घात् बहुवचने एत्त्वम् भवति विप्रतिषेधेन । अतः दीर्घः यञि सुपि च इति अस्य अवकाशः । वृक्षाभ्याम् , प्लक्षाभ्याम् । बहुवचने झलि एत् इति अस्य अवकाशः । वृक्षेषु , प्लक्षेषु । इह उभयम् प्राप्नोति । वृक्षेभ्यः , प्लक्षेभ्यः । एत्त्वम् भवति विप्रतिषेधेन ।

KA III,340.2-5 Ro V,235.3-7 ataḥ dīrghāt bahuvacane ettvam vipratiṣedhena . ataḥ dīrghāt bahuvacane ettvam bhavati vipratiṣedhena . ataḥ dīrghaḥ yañi supi ca iti asya avakāśaḥ . vṛkṣābhyām , plakṣābhyām . bahuvacane jhali et iti asya avakāśaḥ . vṛkṣeṣu , plakṣeṣu . iha ubhayam prāpnoti . vṛkṣebhyaḥ , plakṣebhyaḥ . ettvam bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४०।७-१६ रो व्,२३५।९-२३६।३ डलकवतीनाम् प्रतिषेधः वक्तव्यः । अम्बाडे , अम्बाले , अम्बिके । तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः । तल्ह्रस्वत्वम् वा ङिसम्बुद्ध्योः इति वक्तव्यम् । देवत , देवते । देवतायाम् , देवते । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । सः कथम् न वक्तव्यः भवति । अम्बार्थम् द्व्यक्षरम् यदि । यदि अम्बार्थम् द्व्यक्षरम् गृह्यते । तत् तर्हि ह्रस्वत्वम् वक्तव्यम् । अवश्यम् छन्दसि ह्रस्वत्वम् वक्तव्यम् उपगायन्तु माम् पत्नयः गर्भिणयः युवतयः इति एवम् अर्थम् । मातॄणाम् मातच् पुत्रार्थम् अर्हते । मातॄणाम् मातजादेशः वक्तव्यः पुत्रार्थम् अर्हते । गार्गीमात , वात्सीमात ।

KA III,340.7-16 Ro V,235.9-236.3 ḍalakavatīnām pratiṣedhaḥ vaktavyaḥ . ambāḍe , ambāle , ambike . talhrasvatvam vā ṅisambuddhyoḥ . talhrasvatvam vā ṅisambuddhyoḥ iti vaktavyam . devata , devate . devatāyām , devate . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . saḥ katham na vaktavyaḥ bhavati . ambārtham dvyakṣaram yadi . yadi ambārtham dvyakṣaram gṛhyate . tat tarhi hrasvatvam vaktavyam . avaśyam chandasi hrasvatvam vaktavyam upagāyantu mām patnayaḥ garbhiṇayaḥ yuvatayaḥ iti evam artham . mātṝṇām mātac putrārtham arhate . mātṝṇām mātajādeśaḥ vaktavyaḥ putrārtham arhate . gārgīmāta , vātsīmāta .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४०।१८-३४१।२ रो व्,२३६।५-१२ इह कस्मात् न भवति । नदि, कुमारि , किशोरि , ब्राह्मणि , ब्रह्मबन्धु । ह्रस्ववचनसामर्थ्यात् । अस्ति अन्यत् ह्रस्ववचने प्रयोजनम् पृथग्विभक्तिम् मा उच्चीचरम् इति । शक्यम् पृथग्विभक्तिः अनुच्चारयितुम् । कथम् । एवम् अयम् ब्रूयात् । अम्बार्थानाम् ह्रस्वः नदीह्रस्वयोः गुणः इति । यदि एवम् उच्यते जसि च इति अत्र नद्याः अपि गुणः प्राप्नोति । एवम् तर्हि योगविभागः करिष्यते । अम्बार्थनद्योः ह्रस्वः । ततः ह्रस्वस्य । ह्रस्वस्य च ह्रस्वः भवति । किमर्थम् इदम् । गुणम् वक्ष्यति तद्बाधनार्थम् । ततः गुणः । गुणः च भवति ह्रस्वस्य इति । अथ वा ह्रस्वस्य गुणः इति अत्र अम्बार्थनद्योः ह्रस्वः इति एतत् अनुवर्तिष्यते ।

KA III,340.18-341.2 Ro V,236.5-12 iha kasmāt na bhavati . nadi, kumāri , kiśori , brāhmaṇi , brahmabandhu . hrasvavacanasāmarthyāt . asti anyat hrasvavacane prayojanam pṛthagvibhaktim mā uccīcaram iti . śakyam pṛthagvibhaktiḥ anuccārayitum . katham . evam ayam brūyāt . ambārthānām hrasvaḥ nadīhrasvayoḥ guṇaḥ iti . yadi evam ucyate jasi ca iti atra nadyāḥ api guṇaḥ prāpnoti . evam tarhi yogavibhāgaḥ kariṣyate . ambārthanadyoḥ hrasvaḥ . tataḥ hrasvasya . hrasvasya ca hrasvaḥ bhavati . kimartham idam . guṇam vakṣyati tadbādhanārtham . tataḥ guṇaḥ . guṇaḥ ca bhavati hrasvasya iti . atha vā hrasvasya guṇaḥ iti atra ambārthanadyoḥ hrasvaḥ iti etat anuvartiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४१।४-९ रो व्,२३७।२-७ जसादिषु छन्दसि वावचनम् प्राक् णौ चङि उपधायाः । जसादिषु छन्दसि वा इति वक्तव्यम् । किम् अविशेषेण । न इति आह । प्राक् णौ चङ्युपधायाः । किम् प्रयोजनम् । अम्बे, दर्वि , शतक्रत्वः , पश्वे नृभ्यः , किकिदीव्या । अम्बे , अम्ब , दर्वि , दर्वे , शतक्रवः शतक्रतवः , पश्वे , पशवे , किकिदीव्या , किकिदीविना ।

KA III,341.4-9 Ro V,237.2-7 jasādiṣu chandasi vāvacanam prāk ṇau caṅi upadhāyāḥ . jasādiṣu chandasi vā iti vaktavyam . kim aviśeṣeṇa . na iti āha . prāk ṇau caṅyupadhāyāḥ . kim prayojanam . ambe, darvi , śatakratvaḥ , paśve nṛbhyaḥ , kikidīvyā . ambe , amba , darvi , darve , śatakravaḥ śatakratavaḥ , paśve , paśave , kikidīvyā , kikidīvinā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४१।११-१५ रो व्,२३७।९-२३८।३ घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः । घेः ङिति गुणविधाने ङीसार्वधातुके प्रतिषेधः वक्तव्यः । पट्वी , मृद्वी , कुरुतः इति । सुबधिकारात् सिद्धम् । सुप् इति वर्तते । क्व प्रकृतम् । सुपि च बहुवचने झलि एत् इति ।

KA III,341.11-15 Ro V,237.9-238.3 gheḥ ṅiti guṇavidhāne ṅīsārvadhātuke pratiṣedhaḥ . gheḥ ṅiti guṇavidhāne ṅīsārvadhātuke pratiṣedhaḥ vaktavyaḥ . paṭvī , mṛdvī , kurutaḥ iti . subadhikārāt siddham . sup iti vartate . kva prakṛtam . supi ca bahuvacane jhali et iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४१।१७-३४२।५ रो व्,२३८।५-१३ इह अतिखट्वाय , अतिमालाय इति ह्रस्वत्वे कृते स्थानिवद्भावात् याट् प्राप्नोति तस्य प्रतिषेधः वक्तव्यः । न वक्तव्यः । याड्विधाने अतिखट्वाय इति अप्रतिषेधः ह्रस्वादेशत्वात् । याड्विधाने अतिखट्वाय , अतिमालाय इति अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । याट् कस्मात् न भवति । ह्रस्वादेशत्वात् । ह्रस्वादेशः अयम् । उक्तम् एतत् ङ्याब्ग्रहणे अदीर्घः इति । अथ इदानीम् असति अपि स्थानिवद्भावे दीर्घत्वे कृते आप् च असौ भूतपूर्वः इति कृत्वा याट् कस्मात् न भवति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति । ननु च इदानीम् सति अपि स्थानिवद्भावे एतया परिभाषया शक्यम् उपस्थातुम् । न इति आह । न च तदानीम् क्वचित् अपि स्थानिवद्भावः स्यात् ।

KA III,341.17-342.5 Ro V,238.5-13 iha atikhaṭvāya , atimālāya iti hrasvatve kṛte sthānivadbhāvāt yāṭ prāpnoti tasya pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . yāḍvidhāne atikhaṭvāya iti apratiṣedhaḥ hrasvādeśatvāt . yāḍvidhāne atikhaṭvāya , atimālāya iti apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . yāṭ kasmāt na bhavati . hrasvādeśatvāt . hrasvādeśaḥ ayam . uktam etat ṅyābgrahaṇe adīrghaḥ iti . atha idānīm asati api sthānivadbhāve dīrghatve kṛte āp ca asau bhūtapūrvaḥ iti kṛtvā yāṭ kasmāt na bhavati . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti . nanu ca idānīm sati api sthānivadbhāve etayā paribhāṣayā śakyam upasthātum . na iti āha . na ca tadānīm kvacit api sthānivadbhāvaḥ syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४२।७-१२ रो व्,२३९।२-७ इदुद्भ्याम् आम्विधानम् औत्त्वस्य परत्वात् । इदुद्भ्याम् आम् विधेयः । शकट्याम् , पद्धत्याम् , धेन्वाम् इति । किम् पुनः कारणम् न सिध्यति । औत्त्वस्य परत्वात् । परत्वात् औत्त्वम् प्राप्नोति । योगविभागात् सिद्धम् । योगविभागः करिष्यते । ङेः आम् नद्याम्नीभ्यः । ततः इदुद्भ्याम् । इदुद्भ्याम् उत्तरस्य ङेः आम् भवति इति । शकट्याम् , पद्धत्याम् , धेन्वाम् इति । ततः औत् अत् च घेः ।

KA III,342.7-12 Ro V,239.2-7 idudbhyām āmvidhānam auttvasya paratvāt . idudbhyām ām vidheyaḥ . śakaṭyām , paddhatyām , dhenvām iti . kim punaḥ kāraṇam na sidhyati . auttvasya paratvāt . paratvāt auttvam prāpnoti . yogavibhāgāt siddham . yogavibhāgaḥ kariṣyate . ṅeḥ ām nadyāmnībhyaḥ . tataḥ idudbhyām . idudbhyām uttarasya ṅeḥ ām bhavati iti . śakaṭyām , paddhatyām , dhenvām iti . tataḥ aut at ca gheḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४२।१४-३४३।९ रो व्,२३९।९-२४१।१ औत्त्वे योगविभागः । औत्त्वे योगविभागः कर्तव्यः । औत् । औत् भवति इदुद्भ्याम् । ततः अत् च घेः । अकारः च भवति घेः इति । किमर्थः योगविभागः । सखिपतिभ्याम् औत्त्वार्थः । सखिपतिभ्याम् औत्त्वम् यथा स्यात् । सख्यौ , पत्यौ । एकयोगे हि अप्राप्तिः अत्त्वसन्नियोगात् । एकयोगे हि सति औत्त्वस्य अप्राप्तिः । किम् कारणम् । अत्त्वसन्नियोगात् । अत्त्वसन्नियोगेन औत्त्वम् उच्यते तेन यत्र एव औत्त्वम् स्यात् । न वा अकारस्य अन्वाचयवचनात् यथा क्यङि सलोपः । न वा अर्थ औत्त्वे योगविभागेन । किम् कारणम् । अकारस्य अन्वाचयवचनात् । प्रधानशिष्टम् औत्त्वम् अन्वाचयशिष्टम् अत्त्वम् यथा क्यङि सलोपः । तत् यथा । प्रधानशिष्टः क्यङ् प्रातिपदिकमात्रात् भवति यत्र च स्कारः तत्र लोपः । अत्त्वे टाप्प्रतिषेधः । अत्त्वे टापः प्रतिषेधः वक्तव्यः । शकटौ , पद्धतौ , धेनौ । अत्त्वे कृते टाप् प्राप्नोति । न वा सन्निपातलक्षणस्य अनिमित्तत्वात् । न वा वक्तव्यः । किम् कारणम् । सन्निपातलक्षणस्य अनिमित्तत्वात् । सन्निपातलक्षणः विधिः अनिमित्तम् तद्विघातस्य इति टाप् न भविष्यति । डित्करणात् वा । अथ वा डित् आउकारः करिष्यते । औ डित् च घेः ।

KA III,342.14-343.9 Ro V,239.9-241.1 auttve yogavibhāgaḥ . auttve yogavibhāgaḥ kartavyaḥ . aut . aut bhavati idudbhyām . tataḥ at ca gheḥ . akāraḥ ca bhavati gheḥ iti . kimarthaḥ yogavibhāgaḥ . sakhipatibhyām auttvārthaḥ . sakhipatibhyām auttvam yathā syāt . sakhyau , patyau . ekayoge hi aprāptiḥ attvasanniyogāt . ekayoge hi sati auttvasya aprāptiḥ . kim kāraṇam . attvasanniyogāt . attvasanniyogena auttvam ucyate tena yatra eva auttvam syāt . na vā akārasya anvācayavacanāt yathā kyaṅi salopaḥ . na vā artha auttve yogavibhāgena . kim kāraṇam . akārasya anvācayavacanāt . pradhānaśiṣṭam auttvam anvācayaśiṣṭam attvam yathā kyaṅi salopaḥ . tat yathā . pradhānaśiṣṭaḥ kyaṅ prātipadikamātrāt bhavati yatra ca skāraḥ tatra lopaḥ . attve ṭāppratiṣedhaḥ . attve ṭāpaḥ pratiṣedhaḥ vaktavyaḥ . śakaṭau , paddhatau , dhenau . attve kṛte ṭāp prāpnoti . na vā sannipātalakṣaṇasya animittatvāt . na vā vaktavyaḥ . kim kāraṇam . sannipātalakṣaṇasya animittatvāt . sannipātalakṣaṇaḥ vidhiḥ animittam tadvighātasya iti ṭāp na bhaviṣyati . ḍitkaraṇāt vā . atha vā ḍit āukāraḥ kariṣyate . au ḍit ca gheḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४३।११-१४ रो व्,२४१।३-६ किमर्थम् अस्त्रियाम् इति उच्यते न आङः ना पुंसि इति एव उच्येत । का रूपसिद्धिः : त्रपुणा , जतुना । नुमा सिद्धम् । न एवम् शक्यम् । इह हि अमुना ब्राह्मणकुलेन इति मुभावस्य असिद्धत्वात् नुम् न स्यात् । अस्त्रियाम् इति पुनः उच्यमाने न दोषः भवति । कथम् । वक्ष्यति एतत् न मु टादेशे ।

KA III,343.11-14 Ro V,241.3-6 kimartham astriyām iti ucyate na āṅaḥ nā puṃsi iti eva ucyeta . kā rūpasiddhiḥ : trapuṇā , jatunā . numā siddham . na evam śakyam . iha hi amunā brāhmaṇakulena iti mubhāvasya asiddhatvāt num na syāt . astriyām iti punaḥ ucyamāne na doṣaḥ bhavati . katham . vakṣyati etat na mu ṭādeśe .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४४।२-३४५।७ रो व्,२४२-२४५ अथ णिग्रहणम् किमर्थम् न चङि उपधायाः ह्रस्वः इति एव उच्येत । चङि उपधायाः ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , ऊकारस्य एव ह्रस्वत्वम् प्रसज्येत । न एतत् अस्ति प्रयोजनम् । वृद्धिः अत्र बाधिका भविष्यति । वृद्धौ तर्हि कृतायाम् औकारस्य एव ह्रस्वत्वम् प्रसज्येत । न एतत् अस्ति । अन्तरङ्गत्वात् अत्र आवादेशः भविष्यति । न हि इदानीम् ह्रस्वभाविनी उपधा भवति । तस्मात् णिग्रहणम् कर्तव्यम् । अथ चङ्ग्रहणम् किमर्थम् न णौ उपधायाः इति एव सिद्धम् । णौ उपधायाः ह्रस्वः इति इयति उच्यमाने , कारयति , हारयति इति अत्र अपि प्रसज्येत । न एतत् अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति न णौ एव ह्रस्वत्वम् भवति इति यत् अयम् मिताम् ह्रस्वत्वम् शास्ति । इह अपि तर्हि न प्राप्नोति । अचीकरत् , अजीहरत् । वचनात् भविष्यति । इह अपि तर्हि वचनात् प्राप्नोति । कारयति , हारयति । तस्मात् चङ्ग्रहणम् कर्तव्यम् । अथ उपधाग्रहणम् किमर्थम् । णौ चङि उपधाग्रहणम् अन्त्यप्रतिषेधार्थम् । णौ चङि उपधाग्रहणम् क्रियते अन्त्यस्य ह्रस्त्वत्वम् मा भूत् । णौ चङि ह्रस्वः इति इयति उच्यमाने , अलीलवत् , अपीपवत् , अन्त्यस्य एव ह्रस्वत्वम् प्रसज्येत । न एतत् अस्ति प्रयोजनम् । अन्तरङ्गत्वात् अत्र आवादेशः भवति । न हि इदानीम् ह्रस्वभावी अन्त्यः अस्ति । अन्त्यः ह्रस्वभावी न अस्ति इति कृत्वा वचनात् अनन्त्यस्य भविष्यति । इह अपि वचनात् प्राप्नोति । अचकाङ्क्षत् , अववाञ्छत् । येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् । केन च न अव्यवधानम् । वर्णेन । एतेन पुनः सङ्घतेन वय्वधानम् भवति न भवति च । उत्तरार्थम् तर्हि उपधाग्रहणम् कर्तव्यम् । लोपः पिबतेः ई च अभ्यासस्य उपधायाः यथा स्यात् । अपीप्यत् , अपीप्यताम् , अपीप्यन् । अथ इह कथम् भवितव्यम् । मा भवान् अटिटत् इति । आहोस्वित् मा भवान् आटिटत् इति । मा भवान् आटिटत् इति भवितव्यम् । ह्रस्वत्वम् कस्मात् न भवति । द्विर्वचने कृते परेण रूपेण व्यवहितम् इति कृत्वा । इदम् इह सम्प्रधार्यम् । द्विर्वचनम् क्रियताम् ह्रस्वत्वम् इति किम् अत्र कर्तव्यम् । परत्वात् ह्रस्वत्वम् । नित्यम् द्विर्वचनम् । कृते ह्रस्वत्वे प्राप्नोति अकृते अपि । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति द्विर्वचनात् ह्रस्वत्वम् बलीयः इति यत् अयम् ओणिम् ऋदितम् करोति । कथम् कृत्वा ज्ञापकम् । ऋदित्करणे एतत् प्रयोजनम् ऋदिताम् न इति प्रतिषेधः यथा स्यात् । यदि च अत्र पूर्वम् द्विर्वचनम् स्यात् ऋदित्करणम् अनर्थकम् स्यात् । द्विर्वचने कृते परेण व्यवहितत्वात् ह्रस्वत्वम् न भविष्यति । पश्यति तु आचार्यः द्विर्वचनात् ह्रस्वत्वम् बलीयः इति ततः ओणिम् ऋदितम् करोति । तस्मात् मा भवान् अटिटत् इति एव भवितव्यम् ।

KA III,344.2-345.7 Ro V,242-245 atha ṇigrahaṇam kimartham na caṅi upadhāyāḥ hrasvaḥ iti eva ucyeta . caṅi upadhāyāḥ hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , ūkārasya eva hrasvatvam prasajyeta . na etat asti prayojanam . vṛddhiḥ atra bādhikā bhaviṣyati . vṛddhau tarhi kṛtāyām aukārasya eva hrasvatvam prasajyeta . na etat asti . antaraṅgatvāt atra āvādeśaḥ bhaviṣyati . na hi idānīm hrasvabhāvinī upadhā bhavati . tasmāt ṇigrahaṇam kartavyam . atha caṅgrahaṇam kimartham na ṇau upadhāyāḥ iti eva siddham . ṇau upadhāyāḥ hrasvaḥ iti iyati ucyamāne , kārayati , hārayati iti atra api prasajyeta . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati na ṇau eva hrasvatvam bhavati iti yat ayam mitām hrasvatvam śāsti . iha api tarhi na prāpnoti . acīkarat , ajīharat . vacanāt bhaviṣyati . iha api tarhi vacanāt prāpnoti . kārayati , hārayati . tasmāt caṅgrahaṇam kartavyam . atha upadhāgrahaṇam kimartham . ṇau caṅi upadhāgrahaṇam antyapratiṣedhārtham . ṇau caṅi upadhāgrahaṇam kriyate antyasya hrastvatvam mā bhūt . ṇau caṅi hrasvaḥ iti iyati ucyamāne , alīlavat , apīpavat , antyasya eva hrasvatvam prasajyeta . na etat asti prayojanam . antaraṅgatvāt atra āvādeśaḥ bhavati . na hi idānīm hrasvabhāvī antyaḥ asti . antyaḥ hrasvabhāvī na asti iti kṛtvā vacanāt anantyasya bhaviṣyati . iha api vacanāt prāpnoti . acakāṅkṣat , avavāñchat . yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . kena ca na avyavadhānam . varṇena . etena punaḥ saṅghatena vayvadhānam bhavati na bhavati ca . uttarārtham tarhi upadhāgrahaṇam kartavyam . lopaḥ pibateḥ ī ca abhyāsasya upadhāyāḥ yathā syāt . apīpyat , apīpyatām , apīpyan . atha iha katham bhavitavyam . mā bhavān aṭiṭat iti . āhosvit mā bhavān āṭiṭat iti . mā bhavān āṭiṭat iti bhavitavyam . hrasvatvam kasmāt na bhavati . dvirvacane kṛte pareṇa rūpeṇa vyavahitam iti kṛtvā . idam iha sampradhāryam . dvirvacanam kriyatām hrasvatvam iti kim atra kartavyam . paratvāt hrasvatvam . nityam dvirvacanam . kṛte hrasvatve prāpnoti akṛte api . evam tarhi ācāryapravṛttiḥ jñāpayati dvirvacanāt hrasvatvam balīyaḥ iti yat ayam oṇim ṛditam karoti . katham kṛtvā jñāpakam . ṛditkaraṇe etat prayojanam ṛditām na iti pratiṣedhaḥ yathā syāt . yadi ca atra pūrvam dvirvacanam syāt ṛditkaraṇam anarthakam syāt . dvirvacane kṛte pareṇa vyavahitatvāt hrasvatvam na bhaviṣyati . paśyati tu ācāryaḥ dvirvacanāt hrasvatvam balīyaḥ iti tataḥ oṇim ṛditam karoti . tasmāt mā bhavān aṭiṭat iti eva bhavitavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४५।८-२२ रो व्,२४५-२४७ उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानात् । उपधाह्रस्वत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् : वादितवन्तम् प्रयोजितवान् अवीवदद्वीणाम् परिवादकेन । किम् पुनः कारणम् न सिध्यति । णिचा व्यवहितत्वात् । णिलोपे कृते न अस्ति व्यवधानम् । स्थानिवद्भावात् व्यवधानम् एव । प्रतिषिध्यते अत्र स्थानिवद्भावः चङ्परनिर्ह्रासे न स्थानिवत् इति । एवम् अपि अग्लोपिनाम् न इति प्रतिषेधः प्राप्नोति । वृद्धौ कृतायाम् लोपः तत् न अग्लोपै अङ्गम् भवति । इदम् इह सम्प्रधार्यम् । वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् वृद्धिः । नित्यः लोपः । कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि । अनित्यः लोपः । अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अन्यस्य अकृतायाम् शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात् वृद्धिः । वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति वृद्धेः लोपः बलीयान् इति यत् अयम् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति । न एतत् अस्ति ज्ञापकम् । अस्ति अन्यत् एतस्य वचने प्रयोजनम् । किम् । यत्र वृद्धौ अपि कृतायाम् एव लुप्यते । अत्यरराजत् । यत् तर्हि प्रत्याहारग्रहणम् करोति । इतरथा हि अलोपिनाम् न इति ब्रूयात् । एवम् वा वृद्धेः लोपः बलीयान् इति । अथ वा आरभ्यते पूर्वविप्रतिषेधः ण्यल्लोपावियङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् इति । तस्मात् उपसङ्ख्यानम् कर्तव्यम् इति ।

KA III,345.8-22 Ro V,245-247 upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānāt . upadhāhrasvatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam prayojitavān avīvadadvīṇām parivādakena . kim punaḥ kāraṇam na sidhyati . ṇicā vyavahitatvāt . ṇilope kṛte na asti vyavadhānam . sthānivadbhāvāt vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ caṅparanirhrāse na sthānivat iti . evam api aglopinām na iti pratiṣedhaḥ prāpnoti . vṛddhau kṛtāyām lopaḥ tat na aglopai aṅgam bhavati . idam iha sampradhāryam . vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam . paratvāt vṛddhiḥ . nityaḥ lopaḥ . kṛtāyām api vṛddhau prāpnoti akṛtāyām api . anityaḥ lopaḥ . anyasya kṛtāyām vṛddhau prāpnoti anyasya akṛtāyām śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt vṛddhiḥ . vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati . evam tarhi ācāryapravṛttiḥ jñāpayati vṛddheḥ lopaḥ balīyān iti yat ayam aglopinām na iti pratiṣedham śāsti . na etat asti jñāpakam . asti anyat etasya vacane prayojanam . kim . yatra vṛddhau api kṛtāyām eva lupyate . atyararājat . yat tarhi pratyāhāragrahaṇam karoti . itarathā hi alopinām na iti brūyāt . evam vā vṛddheḥ lopaḥ balīyān iti . atha vā ārabhyate pūrvavipratiṣedhaḥ ṇyallopāviyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham iti . tasmāt upasaṅkhyānam kartavyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४५।२४-३४६।१६ रो व्,२४७।४-२४९।४ अग्लोपिप्रतिषेधानर्थक्यम् च स्थानिवद्भावात् । अग्लोपिप्रतिषेधः च अनर्थकः । किम् कारणम् । स्थानिवद्भावात् । स्थानिवद्भावात् अत्र ह्रस्वत्वम् न भविष्यति । यत्र तर्हि स्थानिवद्भावः न अस्ति तदर्थम् अयम् योगः वक्तव्यः । क्व स्थानिवद्भावः न अस्ति । यः हलचोः आदेशः । अत्यरराजत् । किम् पुनः कारणम् हलचोः आदेशः न स्थानिवत् इति उच्यते । अजादेशः स्थानिवत् इति उच्यते न च अयम् अचः एव आदेशः । किम् तर्हि अचः अन्यस्य च । अग्लोपिनाम् न इति अपि तर्हि प्रतिषेधः न प्राप्नोति । किम् कारणम् । अग्लोपिनाम् न इति उच्यते न च अत्र अच् एव लुप्यते । किम् तर्हि । अच् च अन्यः च । यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भविष्यति । यथा एव तर्हि यः अत्र अच् लुप्यते तदाश्रयः प्रतिषेधः भवति एवम् यः अत्र अच् लुप्यते तदाश्रयः स्थानिवद्भावः भविष्यति । एवम् तर्हि सिद्धे सति यत् अग्लोपिनाम् न इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः इतः उत्तरम् स्थानिवद्भावः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । पूर्वत्र असिद्धे न स्थानिवत् इति उक्तम् तत् न वक्तव्यम् भवति । यदि एतत् ज्ञाप्यते , आदीधयतेः आदीधकः , आवेवयतेः आवेवकः । यीवर्णयोः दीधीवेव्योः इति लोपः न प्राप्नोति । इह च यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति । न एषः दोषः । यत् तावत् उच्यते आदीधयतेः आदीधकः , आवेवयतेः आवेवकः , यीवर्णयोः इति लोपः न प्राप्नोति इति यीवर्णयोः इति अत्र वर्णग्रहणसामर्थ्यात् भविष्यति । यत् अपि उच्यते यत् प्रलुनीहि अत्र तिङि च उदात्तवति इति एषः स्वरः न प्राप्नोति इति बहिरङ्गः यणादेशः अन्तरङ्गः स्वरः असिद्धम् बहिरङ्गम् अन्तरङ्गे ।

KA III,345.24-346.16 Ro V,247.4-249.4 aglopipratiṣedhānarthakyam ca sthānivadbhāvāt . aglopipratiṣedhaḥ ca anarthakaḥ . kim kāraṇam . sthānivadbhāvāt . sthānivadbhāvāt atra hrasvatvam na bhaviṣyati . yatra tarhi sthānivadbhāvaḥ na asti tadartham ayam yogaḥ vaktavyaḥ . kva sthānivadbhāvaḥ na asti . yaḥ halacoḥ ādeśaḥ . atyararājat . kim punaḥ kāraṇam halacoḥ ādeśaḥ na sthānivat iti ucyate . ajādeśaḥ sthānivat iti ucyate na ca ayam acaḥ eva ādeśaḥ . kim tarhi acaḥ anyasya ca . aglopinām na iti api tarhi pratiṣedhaḥ na prāpnoti . kim kāraṇam . aglopinām na iti ucyate na ca atra ac eva lupyate . kim tarhi . ac ca anyaḥ ca . yaḥ atra ac lupyate tadāśrayaḥ pratiṣedhaḥ bhaviṣyati . yathā eva tarhi yaḥ atra ac lupyate tadāśrayaḥ pratiṣedhaḥ bhavati evam yaḥ atra ac lupyate tadāśrayaḥ sthānivadbhāvaḥ bhaviṣyati . evam tarhi siddhe sati yat aglopinām na iti pratiṣedham śāsti tat jñāpayati ācāryaḥ itaḥ uttaram sthānivadbhāvaḥ na bhavati iti . kim etasya jñāpane prayojanam . pūrvatra asiddhe na sthānivat iti uktam tat na vaktavyam bhavati . yadi etat jñāpyate , ādīdhayateḥ ādīdhakaḥ , āvevayateḥ āvevakaḥ . yīvarṇayoḥ dīdhīvevyoḥ iti lopaḥ na prāpnoti . iha ca yat pralunīhi atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate ādīdhayateḥ ādīdhakaḥ , āvevayateḥ āvevakaḥ , yīvarṇayoḥ iti lopaḥ na prāpnoti iti yīvarṇayoḥ iti atra varṇagrahaṇasāmarthyāt bhaviṣyati . yat api ucyate yat pralunīhi atra tiṅi ca udāttavati iti eṣaḥ svaraḥ na prāpnoti iti bahiraṅgaḥ yaṇādeśaḥ antaraṅgaḥ svaraḥ asiddham bahiraṅgam antaraṅge .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४६।१८-२० रो व्,२४९।६-२५०।३ काण्यादीनाम् च इति वक्तव्यम् । के पुनः काण्यादयः । काणिराणिश्राणिभाणिहेठिलोपयः । अचकाणत् , अचीकणत् , अरराणत् , अरीरणत् , अशश्राणत् , अशीश्रणत् , अबभाणत् , अबीभणत् , अजिहेठत् , अजीहिठत् , अलुलोपत् , अलूलुपत् ।

KA III,346.18-20 Ro V,249.6-250.3 kāṇyādīnām ca iti vaktavyam . ke punaḥ kāṇyādayaḥ . kāṇirāṇiśrāṇibhāṇiheṭhilopayaḥ . acakāṇat , acīkaṇat , ararāṇat , arīraṇat , aśaśrāṇat , aśīśraṇat , ababhāṇat , abībhaṇat , ajiheṭhat , ajīhiṭhat , alulopat , alūlupat .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४६।२२-३४७।१५ रो व्,२५०।५-२५२।५ इह अवदिग्ये , अवदिग्याते , अवदिग्यरे दिग्यादेशे कृते द्विर्वचनम् प्राप्नोति तत्र साभ्यासस्य इति वक्तव्यम् । ननु च द्विर्वचने कृते साभ्यासस्य दिग्यादेशः भविष्यति । न सिध्यति । किम् कारणम् । दिग्यादेशस्य परत्वात् साभ्यासस्य आदेशवचनम् । दिग्यादेशः क्रियताम् द्विर्वचनम् इति परत्वात् दिग्यादेशेन भवितव्यम् । तत्र साभ्यासस्य इति वक्तव्यम् । एवम् तर्हि दिग्यादेशः द्विर्वचनम् बाधिष्यते । पुनःप्रसङ्गविज्ञानात् द्विर्वचनम् प्राप्नोति । पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् । पुनःप्रसङ्गः इति चेत् अमादिभिः तुल्यम् एतत् भवति । तत् यथा । अमादिषु कृतेषु पुनःप्रसङ्गात् शिशीलुग्नुमः न भवन्ति । एवम् दिग्यादेशे कृते पुनःप्रसङ्गात् द्विर्वचनम् न भविष्यति । अथ वा विप्रतिषेधे पुनःप्रसङ्गः इति उच्यते विप्रतिषेधः च द्वयोः सावकशयोः । इह पुनः अनवकाशः दिग्यादेशः द्विर्वचनम् बाधिष्यते । यदि तर्हि अनवकाशाः विधयः बाधकाः भवन्ति , बभूव , भूभावः द्विर्वचनम् बाधेत । सावकाशः भूभावः । कः अवकाशः । भविता , भवितुम् । इह तर्हि चक्षिङः ख्याञ् वा लिटि इति ख्याञ् द्विर्वचनम् बाधेत । इह च अपि बभूव इति यदि तावत् स्थाने द्विर्वचनम् भूभावः सर्वादेशः प्राप्नोति अथ द्विःप्रयोगः द्विर्वचनम् परस्य भूभावे कृते पूर्वस्य श्रवणम् प्राप्नोति । न एषः दोषः । आर्धधातुकीयाः सामान्येन भवन्ति अनवस्थितेषु प्रत्ययेषु । तत्र आर्धधातुकसामान्ये भूभावे कृते यः यतः प्रत्ययः प्राप्नोति सः ततः भविष्यति ।

KA III,346.22-347.15 Ro V,250.5-252.5 iha avadigye , avadigyāte , avadigyare digyādeśe kṛte dvirvacanam prāpnoti tatra sābhyāsasya iti vaktavyam . nanu ca dvirvacane kṛte sābhyāsasya digyādeśaḥ bhaviṣyati . na sidhyati . kim kāraṇam . digyādeśasya paratvāt sābhyāsasya ādeśavacanam . digyādeśaḥ kriyatām dvirvacanam iti paratvāt digyādeśena bhavitavyam . tatra sābhyāsasya iti vaktavyam . evam tarhi digyādeśaḥ dvirvacanam bādhiṣyate . punaḥprasaṅgavijñānāt dvirvacanam prāpnoti . punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam . punaḥprasaṅgaḥ iti cet amādibhiḥ tulyam etat bhavati . tat yathā . amādiṣu kṛteṣu punaḥprasaṅgāt śiśīlugnumaḥ na bhavanti . evam digyādeśe kṛte punaḥprasaṅgāt dvirvacanam na bhaviṣyati . atha vā vipratiṣedhe punaḥprasaṅgaḥ iti ucyate vipratiṣedhaḥ ca dvayoḥ sāvakaśayoḥ . iha punaḥ anavakāśaḥ digyādeśaḥ dvirvacanam bādhiṣyate . yadi tarhi anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti , babhūva , bhūbhāvaḥ dvirvacanam bādheta . sāvakāśaḥ bhūbhāvaḥ . kaḥ avakāśaḥ . bhavitā , bhavitum . iha tarhi cakṣiṅaḥ khyāñ vā liṭi iti khyāñ dvirvacanam bādheta . iha ca api babhūva iti yadi tāvat sthāne dvirvacanam bhūbhāvaḥ sarvādeśaḥ prāpnoti atha dviḥprayogaḥ dvirvacanam parasya bhūbhāve kṛte pūrvasya śravaṇam prāpnoti . na eṣaḥ doṣaḥ . ārdhadhātukīyāḥ sāmānyena bhavanti anavasthiteṣu pratyayeṣu . tatra ārdhadhātukasāmānye bhūbhāve kṛte yaḥ yataḥ pratyayaḥ prāpnoti saḥ tataḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४७।१७-३४८।७ रो व्,२५२।७-२५४।३ संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् । संयोगादेः गुणविधाने संयोगोपधग्रहणम् कर्तव्यम् । किमर्थम् । कृञर्थम् । इह अपि यथा स्यात् । सञ्चस्करतुः , सञ्चस्करुः । यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन । इह अपि सस्वरतुः , सस्वरुः संयोगोपधस्य इति एव सिद्धम् । भवेत् सिद्धम् सस्वरतुः , सस्वरुः इति इदम् तु न सिध्यति सञ्चस्करतुः , सञ्चस्करुः इति । किम् कारणम् । सुटः बहिरङ्गलक्षणत्वात् । बहिरङ्गम् सुट् । अन्तरङ्गः गुणः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । संयोगादिग्रहणे तु क्रियमाणे संयोगोपधग्रहणम् अनन्यार्थम् विज्ञायते । ऋतः लिटि गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन । ऋतः लिटि गुणाञ् ञ्ङिति वृद्धिः भवति पूर्वविप्रतिषेधेन । ऋतः लिटि गुणस्य अवकाशः । सस्वरतुः , सस्वरुः । ञ्णिति वृद्धेः अवकाशः । स्वारकः , ध्वारकः । इह उभयम् प्राप्नोति । सस्वार , दध्वार । ञ्णिति वृद्धिः भवति पूर्वविप्रतिषेधेन । पुनःप्रसङ्गविज्ञानात् वा सिद्धम् । अथ वा पुनःप्रसङ्गात् गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः भविष्यति । न एषः युक्तः परिहारः । पुनःप्रसङ्गः नाम सः भवति यत्र तेन एव कृते प्राप्नोति तेन एव च अकृते । अत्र खलु गुणे कृते रपरत्वे च अतः उपधायाः इति वृद्धिः प्राप्नोति अकृते च अचः ञ्णिति इति । तस्मात् सुष्ठु उच्यते लिति गुणात् ञ्णिति वृद्धिः विप्रतिषेधेन इति ।

KA III,347.17-348.7 Ro V,252.7-254.3 saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kṛñartham . saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kartavyam . kimartham . kṛñartham . iha api yathā syāt . sañcaskaratuḥ , sañcaskaruḥ . yadi saṃyogopadhagrahaṇam kriyate na arthaḥ saṃyogādigrahaṇena . iha api sasvaratuḥ , sasvaruḥ saṃyogopadhasya iti eva siddham . bhavet siddham sasvaratuḥ , sasvaruḥ iti idam tu na sidhyati sañcaskaratuḥ , sañcaskaruḥ iti . kim kāraṇam . suṭaḥ bahiraṅgalakṣaṇatvāt . bahiraṅgam suṭ . antaraṅgaḥ guṇaḥ . asiddham bahiraṅgam antaraṅge . saṃyogādigrahaṇe tu kriyamāṇe saṃyogopadhagrahaṇam ananyārtham vijñāyate . ṛtaḥ liṭi guṇāt ñṇiti vṛddhiḥ vipratiṣedhena . ṛtaḥ liṭi guṇāñ ñṅiti vṛddhiḥ bhavati pūrvavipratiṣedhena . ṛtaḥ liṭi guṇasya avakāśaḥ . sasvaratuḥ , sasvaruḥ . ñṇiti vṛddheḥ avakāśaḥ . svārakaḥ , dhvārakaḥ . iha ubhayam prāpnoti . sasvāra , dadhvāra . ñṇiti vṛddhiḥ bhavati pūrvavipratiṣedhena . punaḥprasaṅgavijñānāt vā siddham . atha vā punaḥprasaṅgāt guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ bhaviṣyati . na eṣaḥ yuktaḥ parihāraḥ . punaḥprasaṅgaḥ nāma saḥ bhavati yatra tena eva kṛte prāpnoti tena eva ca akṛte . atra khalu guṇe kṛte raparatve ca ataḥ upadhāyāḥ iti vṛddhiḥ prāpnoti akṛte ca acaḥ ñṇiti iti . tasmāt suṣṭhu ucyate liti guṇāt ñṇiti vṛddhiḥ vipratiṣedhena iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४८।९-१४ रो व्,२५४।५-१० किमर्थम् ह्रस्वः वा इति उच्यते न गुणः वा इति उच्येत । तत्र अयम् अपि अर्थः गुणग्रहणम् न कर्तव्यम् भवति । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । ऋतः च संयोगादेः गुणः इति । ऋतः ह्रस्वत्वम् इत्त्वप्रतिषेधार्थम् । ऋतः ह्रस्वत्वम् उच्यते इत्त्वप्रतिषेधार्थम् । इत्त्वम् मा भूत् इति । गुणः वा इति इयति उच्यमाने गुणेन मुक्ते इत्त्वम् प्रसज्येत । ह्रस्वः वा इति उच्यमाने ह्रस्वेन मुक्ते यथाप्राप्तः गुणः भविष्यति ।

KA III,348.9-14 Ro V,254.5-10 kimartham hrasvaḥ vā iti ucyate na guṇaḥ vā iti ucyeta . tatra ayam api arthaḥ guṇagrahaṇam na kartavyam bhavati . prakṛtam anuvartate . kva prakṛtam . ṛtaḥ ca saṃyogādeḥ guṇaḥ iti . ṛtaḥ hrasvatvam ittvapratiṣedhārtham . ṛtaḥ hrasvatvam ucyate ittvapratiṣedhārtham . ittvam mā bhūt iti . guṇaḥ vā iti iyati ucyamāne guṇena mukte ittvam prasajyeta . hrasvaḥ vā iti ucyamāne hrasvena mukte yathāprāptaḥ guṇaḥ bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४८।१६-१९ रो व्,२५५।२-५ के अणः ह्रस्वत्वे तद्धितग्रहणम् कृन्निवृत्त्यर्थम् । के अणः ह्रस्वत्वे तद्धितग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । कृन्निवृत्त्यर्थम् । कृति मा भूत् । राका , धाका इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । उणादयः अव्युत्पन्नानि प्रातिपदिकानि ।

KA III,348.16-19 Ro V,255.2-5 ke aṇaḥ hrasvatve taddhitagrahaṇam kṛnnivṛttyartham . ke aṇaḥ hrasvatve taddhitagrahaṇam kartavyam . kim prayojanam . kṛnnivṛttyartham . kṛti mā bhūt . rākā , dhākā iti . tat tarhi vaktavyam . na vaktavyam . uṇādayaḥ avyutpannāni prātipadikāni .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४८।२१-२२ रो व्,२५५।७-८ इह कस्मात् न भवति । प्रोह्यते , उपोह्यते । एकादेशे कृते व्यपवर्गाभावात् । एवम् अपि आ , ऊह्यते , ओह्यते , समोह्यते । अणः इति वर्तते ।

KA III,348.21-22 Ro V,255.7-8 iha kasmāt na bhavati . prohyate , upohyate . ekādeśe kṛte vyapavargābhāvāt . evam api ā , ūhyate , ohyate , samohyate . aṇaḥ iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४९।२-६ रो व्,२५६।१-५ एतेः लिङि उपसर्गात् । एतेः लिङि उपसर्गात् इति वक्तव्यम् । इह मा भूत् । ईयात् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । उपसर्गात् इति वर्तते । एवम् तर्हि आचार्यः अन्वाचष्टे उपसर्गात् इति अनुवर्तते इति । न एतत् अन्वाख्येयम् अधिकाराः अनुवर्तन्ते इति । एषः एव न्यायः यत् उत अधिकाराः अनुवर्तेरन् ।

KA III,349.2-6 Ro V,256.1-5 eteḥ liṅi upasargāt . eteḥ liṅi upasargāt iti vaktavyam . iha mā bhūt . īyāt . tat tarhi vaktavyam . na vaktavyam . upasargāt iti vartate . evam tarhi ācāryaḥ anvācaṣṭe upasargāt iti anuvartate iti . na etat anvākhyeyam adhikārāḥ anuvartante iti . eṣaḥ eva nyāyaḥ yat uta adhikārāḥ anuvarteran .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४९।८-१२ रो व्,२५६।७-११ दीर्घोच्चारणम् किमर्थम् न रिङ् ऋतः इति एव उच्यते । का रूपसिद्धिः : मात्रीयति , पित्रीयति । अकृत्सार्वधातुकयोः इति दीर्घत्वम् भविष्यति । एवम् तर्हि सिद्धे सति यत् दीर्घोच्चारणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनः वृत्तौ अविधिः निष्ठितस्य इति । किम् एतस्य ज्ञापने प्रयोजनम् । पिबेः गुणप्रतिषेधः चोदितः सः न वक्तव्यः भवति ।

KA III,349.8-12 Ro V,256.7-11 dīrghoccāraṇam kimartham na riṅ ṛtaḥ iti eva ucyate . kā rūpasiddhiḥ : mātrīyati , pitrīyati . akṛtsārvadhātukayoḥ iti dīrghatvam bhaviṣyati . evam tarhi siddhe sati yat dīrghoccāraṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punaḥ vṛttau avidhiḥ niṣṭhitasya iti . kim etasya jñāpane prayojanam . pibeḥ guṇapratiṣedhaḥ coditaḥ saḥ na vaktavyaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४९।१४-१६ रो व्,२५६।१३-२५७।३ यङ्प्रकरणे हन्तेः हिंसायाम् ईट् । यण्प्रकरणे हन्तेः हिंसायाम् ईट् वक्तव्यः । जेघ्नीयते । यदि ईट् अभ्यासरूपम् न सिध्यति । एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् ईक् । एवम् अपि उपधालोपः न प्राप्नोति । एवम् तर्हि यङ्प्रकरणे हन्तेः हिंसायाम् घ्नी ।

KA III,349.14-16 Ro V,256.13-257.3 yaṅprakaraṇe hanteḥ hiṃsāyām īṭ . yaṇprakaraṇe hanteḥ hiṃsāyām īṭ vaktavyaḥ . jeghnīyate . yadi īṭ abhyāsarūpam na sidhyati . evam tarhi yaṅprakaraṇe hanteḥ hiṃsāyām īk . evam api upadhālopaḥ na prāpnoti . evam tarhi yaṅprakaraṇe hanteḥ hiṃsāyām ghnī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३४९।१९-३५०।५ रो व्,२५७।५-११ अत्यल्पम् इदम् उच्यते : अपुत्रस्य इति । अपुत्रादीनाम् इति वक्तव्यम् इह अपि यथा स्यात् : जनीयन्तः न्वग्रवः पुत्रीयन्तः सुदानवः । छन्दसि प्रतिषेधे दीर्घप्रतिषेधः । छन्दसि प्रतिषेधे दीर्घत्वस्य प्रतिषेधः वक्तव्यः । संस्वेदयुः , मित्रयुः । न वा अश्वाघस्य आद्वचनम् अवधारणार्थम् । न वा वक्तव्यम् । किम् कारणम् । अश्वाघस्य आद्वचनम् अवधारणार्थम् भविष्यति अश्वाघयोः एव छन्चसि दीर्घः भविष्यति न अन्यस्य इति ।

KA III,349.19-350.5 Ro V,257.5-11 atyalpam idam ucyate : aputrasya iti . aputrādīnām iti vaktavyam iha api yathā syāt : janīyantaḥ nvagravaḥ putrīyantaḥ sudānavaḥ . chandasi pratiṣedhe dīrghapratiṣedhaḥ . chandasi pratiṣedhe dīrghatvasya pratiṣedhaḥ vaktavyaḥ . saṃsvedayuḥ , mitrayuḥ . na vā aśvāghasya ādvacanam avadhāraṇārtham . na vā vaktavyam . kim kāraṇam . aśvāghasya ādvacanam avadhāraṇārtham bhaviṣyati aśvāghayoḥ eva chancasi dīrghaḥ bhaviṣyati na anyasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५०।७-११ रो व्,२५८।२-६ श्यतेः इत्त्वम् व्रते नित्यम् । श्यतेः इत्त्वम् व्रते नित्यम् इति वक्तव्यम् । संशितव्रतः । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । देवत्रातः गलः ग्राहः इतियोगे च सद्विधिः , मिथः ते न विभाष्यन्ते गवाक्षः संशितव्रतः ।

KA III,350.7-11 Ro V,258.2-6 śyateḥ ittvam vrate nityam . śyateḥ ittvam vrate nityam iti vaktavyam . saṃśitavrataḥ . tat tarhi vaktavyam . na vaktavyam . devatrātaḥ galaḥ grāhaḥ itiyoge ca sadvidhiḥ , mithaḥ te na vibhāṣyante gavākṣaḥ saṃśitavrataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५०।१५-३५१।२ रो व्,२५९।२-१५ अवदत्तम् विदत्तम् च प्रदत्तम् च आदिकर्मणि , सुदत्तम् अनुदत्तम् च निदत्तम् इति च इष्यते । किम् पुनः अयम् तकारान्तः आहोस्वित् दकारान्तः उत धकारान्तः अथ वा थकारान्तः । कः च अत्र विशेषः । तान्ते दोषः दीर्घत्वम् स्यात् । यदि तकारान्तः दस्ति इति दीर्घत्वम् प्राप्नोति । दान्ते दोषः निष्ठानत्वम् । अथ दकारान्तः रदाभ्याम् निष्ठातः इति नत्वम् प्राप्नोति । धान्ते दोषः धत्वप्राप्तिः । अथ धान्तः झषः तथोः धः अधः इति धत्वम् प्राप्नोति । थान्ते अदोषः तस्मात् थान्तः । अथ थकारान्तः न दोषः भवति ।

KA III,350.15-351.2 Ro V,259.2-15 avadattam vidattam ca pradattam ca ādikarmaṇi , sudattam anudattam ca nidattam iti ca iṣyate . kim punaḥ ayam takārāntaḥ āhosvit dakārāntaḥ uta dhakārāntaḥ atha vā thakārāntaḥ . kaḥ ca atra viśeṣaḥ . tānte doṣaḥ dīrghatvam syāt . yadi takārāntaḥ dasti iti dīrghatvam prāpnoti . dānte doṣaḥ niṣṭhānatvam . atha dakārāntaḥ radābhyām niṣṭhātaḥ iti natvam prāpnoti . dhānte doṣaḥ dhatvaprāptiḥ . atha dhāntaḥ jhaṣaḥ tathoḥ dhaḥ adhaḥ iti dhatvam prāpnoti . thānte adoṣaḥ tasmāt thāntaḥ . atha thakārāntaḥ na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५१।४-२२ रो व्,२६०।२-२६१।४ अचः उपसर्गात् तत्वे आकारग्रहणम् । अचः उपसर्गात् तत्वे आकारग्रहणम् कर्तव्यम् । न कर्तव्यम् । अलः अन्त्यस्य विधयः भवन्ति इति आकारस्य भविष्यति । न सिध्यति । किम् कारणम् । आदेः हि परस्य । अत्र हि तस्मात् इति उत्तरस्य आदेः परस्य इति दकारस्य प्राप्नोति । न एषः दोषः । अवर्णप्रकरणात् सिद्धम् । अस्य इति वर्तते । क्व प्रकृतम् । अस्य द्वौ इति । यदि अवर्णग्रहणम् अनुवर्तते दद्भावे दोषः भवति । एवम् तर्हि एवम् वक्ष्यामि दः अद्घोः इति । दः यः आकारः तस्य अत् भवति । ततः अचः उपसर्गात् तः । अस्य इति एव । एवम् अपि सूत्रभेदः कृतः भवति । न असौ सूत्रभेदः । सूत्रभेदम् कम् उपाचरन्ति । यत्र तत् एव अन्यत् सूत्रम् क्रियते भूयः वा । यत् हि तत् एव उपसंहृत्य क्रियते न असौ सूत्रभेदः । अथ वा द्वितकारकः निर्देशः क्रियते सः अनेकाल् शित् सर्वस्य इति सर्वस्य भविष्यति । इह अपि तर्हि प्राप्नोति । अद्भिः , अद्भ्यः इति । अचः इति वर्तते । तत् च अवश्यम् अज्ग्रहणम् अनुवर्त्यम् लवाभ्याम् इति एवमर्थम् । अथ वा त्रितकारकः निर्देशः करिष्यते इहार्थौ द्वौ उत्तरार्थः च एकः । द्यतेः इत्त्वात् अचः तः । द्यतेः इत्त्वात् अचः तः इति एतत् भवति विप्रतिषेधेन । द्यतेः इत्त्वस्य अवकाशः । निर्दितम् , निर्दितवान् । अचः तः इति अस्य अवकाशः । प्रत्तम् , अवत्तम् । इह उभयम् प्राप्नोति । नीत्तम् , वीत्तम् । अचः तः इति एतत् भवति विप्रतिषेधेन ।

KA III,351.4-22 Ro V,260.2-261.4 acaḥ upasargāt tatve ākāragrahaṇam . acaḥ upasargāt tatve ākāragrahaṇam kartavyam . na kartavyam . alaḥ antyasya vidhayaḥ bhavanti iti ākārasya bhaviṣyati . na sidhyati . kim kāraṇam . ādeḥ hi parasya . atra hi tasmāt iti uttarasya ādeḥ parasya iti dakārasya prāpnoti . na eṣaḥ doṣaḥ . avarṇaprakaraṇāt siddham . asya iti vartate . kva prakṛtam . asya dvau iti . yadi avarṇagrahaṇam anuvartate dadbhāve doṣaḥ bhavati . evam tarhi evam vakṣyāmi daḥ adghoḥ iti . daḥ yaḥ ākāraḥ tasya at bhavati . tataḥ acaḥ upasargāt taḥ . asya iti eva . evam api sūtrabhedaḥ kṛtaḥ bhavati . na asau sūtrabhedaḥ . sūtrabhedam kam upācaranti . yatra tat eva anyat sūtram kriyate bhūyaḥ vā . yat hi tat eva upasaṃhṛtya kriyate na asau sūtrabhedaḥ . atha vā dvitakārakaḥ nirdeśaḥ kriyate saḥ anekāl śit sarvasya iti sarvasya bhaviṣyati . iha api tarhi prāpnoti . adbhiḥ , adbhyaḥ iti . acaḥ iti vartate . tat ca avaśyam ajgrahaṇam anuvartyam lavābhyām iti evamartham . atha vā tritakārakaḥ nirdeśaḥ kariṣyate ihārthau dvau uttarārthaḥ ca ekaḥ . dyateḥ ittvāt acaḥ taḥ . dyateḥ ittvāt acaḥ taḥ iti etat bhavati vipratiṣedhena . dyateḥ ittvasya avakāśaḥ . nirditam , nirditavān . acaḥ taḥ iti asya avakāśaḥ . prattam , avattam . iha ubhayam prāpnoti . nīttam , vīttam . acaḥ taḥ iti etat bhavati vipratiṣedhena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५१।२४-३५२।३ रो व्,२६१।६-१० अपः भि मासः छन्दसि । अपः भि इति अत्र मासः छन्दसि उपसङ्ख्यानम् कर्तव्यम् : मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा । अत्यल्पम् इदम् उच्यते । स्ववस्स्वतवसोः मासः उषसः च तः इष्यते : स्ववद्भिः , स्वतवद्भिः , समुषद्भिः अजायथाः , मा अद्भिः इष्ट्वा इन्द्रः वृत्रहा ।

KA III,351.24-352.3 Ro V,261.6-10 apaḥ bhi māsaḥ chandasi . apaḥ bhi iti atra māsaḥ chandasi upasaṅkhyānam kartavyam : mā adbhiḥ iṣṭvā indraḥ vṛtrahā . atyalpam idam ucyate . svavassvatavasoḥ māsaḥ uṣasaḥ ca taḥ iṣyate : svavadbhiḥ , svatavadbhiḥ , samuṣadbhiḥ ajāyathāḥ , mā adbhiḥ iṣṭvā indraḥ vṛtrahā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५२।५-७ रो व्,२६१।१२-१४ इस्त्वम् सनि राधः हिंसायाम् । इस्त्वम् सनि राधः हिंसायाम् इति वक्तव्यम् । प्रतिरित्सति । हिंसायाम् इति किमर्थम् । आरिरात्सति ।

KA III,352.5-7 Ro V,261.12-14 istvam sani rādhaḥ hiṃsāyām . istvam sani rādhaḥ hiṃsāyām iti vaktavyam . pratiritsati . hiṃsāyām iti kimartham . ārirātsati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५२।९-१७ रो व्,२६२।१-९ ज्ञपेः ईत्त्वम् अनन्त्यस्य । ज्ञपेः ईत्त्वम् अनन्त्यस्य इति वक्तव्यम् । ज्ञीप्सति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । लोपः अन्त्यस्य बाधकः भविष्यति । अनवकाशाः विधयः बाधकाः भवन्ति सावकाशः च णिलोपः । कः अवकाशः । कारणा , हारणा । एवम् अपि ईत्त्वम् अन्त्यस्य लोपस्य बाधकम् स्यात् । अनवकाशाः हि विधयः बाधकाः भवन्ति ईत्त्वम् अपि सावकाशम् । कः अवकाशः । अनन्त्यः । कथम् पुनः सति अन्त्ये अनन्त्यस्य ईत्त्वम् स्यात् । भवेत् यः अचा आङ्गम् विशेषयेत् तस्य अनन्त्यस्य न स्यात् । वयम् तु खलु अङेन अचम् विशेषयिष्यामः । अङ्गस्य अचः यत्रतत्रस्थस्य इति । एवम् अपि उभयोः सावकाशयोः परत्वात् ईत्त्वम् प्राप्नोति । तस्मात् अनन्त्यस्य इति वक्तव्यम् ।

KA III,352.9-17 Ro V,262.1-9 jñapeḥ īttvam anantyasya . jñapeḥ īttvam anantyasya iti vaktavyam . jñīpsati . tat tarhi vaktavyam . na vaktavyam . lopaḥ antyasya bādhakaḥ bhaviṣyati . anavakāśāḥ vidhayaḥ bādhakāḥ bhavanti sāvakāśaḥ ca ṇilopaḥ . kaḥ avakāśaḥ . kāraṇā , hāraṇā . evam api īttvam antyasya lopasya bādhakam syāt . anavakāśāḥ hi vidhayaḥ bādhakāḥ bhavanti īttvam api sāvakāśam . kaḥ avakāśaḥ . anantyaḥ . katham punaḥ sati antye anantyasya īttvam syāt . bhavet yaḥ acā āṅgam viśeṣayet tasya anantyasya na syāt . vayam tu khalu aṅena acam viśeṣayiṣyāmaḥ . aṅgasya acaḥ yatratatrasthasya iti . evam api ubhayoḥ sāvakāśayoḥ paratvāt īttvam prāpnoti . tasmāt anantyasya iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५२।१९-२० रो व्,२६२।११-१२ अभ्यासस्य अनचि । अभ्यासस्य इति यत् उच्यते तत् अनचि द्रष्टव्यम् । पतापतः , चराचरः , वदावदः ।

KA III,352.19-20 Ro V,262.11-12 abhyāsasya anaci . abhyāsasya iti yat ucyate tat anaci draṣṭavyam . patāpataḥ , carācaraḥ , vadāvadaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५३।२-२० रो व्,२६३।२-२६४।६ किम् अयम् षष्ठीसमासः : हलाम् आदिः हलादिः हलादिः शिष्यते इति । आहोस्वित् कर्मधारयः : हल् आदिः हलादिः हलादिः शिष्यते इति । कः च अत्र विशेषः । हलादिशेषे षष्ठीसमासः इति चेत् अजादिषु शेषप्रसङ्गः । हलादिशेषे षष्ठीसमासः इति चेत् अजादिषु शेषः प्राप्नोति । आनक्ष , आनक्षतुः , आनक्षुः । अस्तु तर्हि कर्मधारयः । कर्मधारयः इति चेत् आदिशेषनिमित्तत्वात् लोपस्य तदभावे लोपवचनम् । कर्मधारयः इति चेत् आदिशेषनिमित्तत्वात् लोपस्य तदभावे आद्यस्य हलः अभवे लोपः वक्तव्यः । आटतुः , आटुः । तस्मात् अनादिलोपः । तस्मात् अनादिः हल् लुप्यते इति वक्तव्यम् । उक्तम् वा । किम् उक्तम् । प्रतिविधास्यते हलादिशेषः इति । अयम् इदानीम् सः प्रतिविधानकालः । इदम् प्रतिविधीयते । इदम् प्रकृतम् अत्र लोपः अभ्यासस्य इति । ततः वक्ष्यामि । ह्रस्वः । ह्रस्वः भवति आदेशः । अभ्यासस्य लोपः इति अनुवर्तते । तत्र ह्रस्वभाविनाम् ह्रस्वः लोपभाविनाम् लोपः भविष्यति । ततः हलादिः शेषः च इति । अथ वा एवम् वक्ष्यामि । ह्रस्वः अहल् । ह्रस्वः भवति अभ्यासस्य इति । ततः अहल् । अहल् च भवति अभ्यासः । ततः आदिः शेषः । आदिः शेषः भवति अभ्यासस्य इति । अथ वा योगविभागः करिष्यते । ह्रस्वादेशः भवति अभ्यासस्य । ततः हल् । हल् च लुप्यते अभ्यासस्य । ततः आदिः शेषः । आदिः शेषः च भवति अभ्यासस्य ।

KA III,353.2-20 Ro V,263.2-264.6 kim ayam ṣaṣṭhīsamāsaḥ : halām ādiḥ halādiḥ halādiḥ śiṣyate iti . āhosvit karmadhārayaḥ : hal ādiḥ halādiḥ halādiḥ śiṣyate iti . kaḥ ca atra viśeṣaḥ . halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaprasaṅgaḥ . halādiśeṣe ṣaṣṭhīsamāsaḥ iti cet ajādiṣu śeṣaḥ prāpnoti . ānakṣa , ānakṣatuḥ , ānakṣuḥ . astu tarhi karmadhārayaḥ . karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya tadabhāve lopavacanam . karmadhārayaḥ iti cet ādiśeṣanimittatvāt lopasya tadabhāve ādyasya halaḥ abhave lopaḥ vaktavyaḥ . āṭatuḥ , āṭuḥ . tasmāt anādilopaḥ . tasmāt anādiḥ hal lupyate iti vaktavyam . uktam vā . kim uktam . pratividhāsyate halādiśeṣaḥ iti . ayam idānīm saḥ pratividhānakālaḥ . idam pratividhīyate . idam prakṛtam atra lopaḥ abhyāsasya iti . tataḥ vakṣyāmi . hrasvaḥ . hrasvaḥ bhavati ādeśaḥ . abhyāsasya lopaḥ iti anuvartate . tatra hrasvabhāvinām hrasvaḥ lopabhāvinām lopaḥ bhaviṣyati . tataḥ halādiḥ śeṣaḥ ca iti . atha vā evam vakṣyāmi . hrasvaḥ ahal . hrasvaḥ bhavati abhyāsasya iti . tataḥ ahal . ahal ca bhavati abhyāsaḥ . tataḥ ādiḥ śeṣaḥ . ādiḥ śeṣaḥ bhavati abhyāsasya iti . atha vā yogavibhāgaḥ kariṣyate . hrasvādeśaḥ bhavati abhyāsasya . tataḥ hal . hal ca lupyate abhyāsasya . tataḥ ādiḥ śeṣaḥ . ādiḥ śeṣaḥ ca bhavati abhyāsasya .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५३।२२-३५४।२० रो व्,२६४।८-२६६।१० शर्पूर्वशेषे खर्पूर्वग्रहणम् । शर्पूर्वशेषे खर्पूर्वग्रहणम् कर्तव्यम् । खर्पूर्वाः खयः शिष्यन्ते खरः लुप्यन्ते इति वक्तव्यम् । किम् प्रयोजनम् । उचिच्छिषति । व्युचिच्छिषति । तुकः श्रवणम् मा भूत् इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । चर्त्वे कृते तुक् न भविष्यति । असिद्धम् चर्त्वम् तस्य असिद्धत्वात् तुक् प्राप्नोति । सिद्धकाण्डे पठितम् अभ्यासजश्त्वचर्त्वम् एत्त्वतुकोः इति । एवम् अपि अन्तरङ्गत्वात् प्राप्नोति तस्मात् खर्पूर्वग्रहणम् कर्तव्यम् । न कर्तव्यम् । एत्त्वतुग्ग्रहणम् न करिष्यते । अभ्यासजश्त्वचर्त्वम् सिद्धम् इति एव । आदिशेषप्रसङ्गः तु । आदिशेषः तु प्राप्नोति । तिष्ठासति । ननु च अनादिशेषः आदिशेषम् बाधिष्यते । कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् । असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् । यदि आदिशेषः अपि भवति शर्पूर्ववचनम् इदानीम् किमर्थम् स्यात् । शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपप्रतिषेधार्थम् । शर्पूर्ववचनम् किमर्थम् इति चेत् खयाम् लोपः मा भूत् इति । व्यपकर्षविज्ञानात् सिद्धम् । व्यपकर्षविज्ञानात् सिद्धम् एतत् । किम् इदम् व्यपकर्षविज्ञानात् इति । अपवादविज्ञानात् । अपवादत्वात् अत्र अनादिशेषः आदिशेषम् बाधिष्यते । ननु च उक्तम् कथम् अन्यस्य उच्यमानम् अन्यस्य बाधकम् स्यात् इति । इदम् तावत् अयम् प्रष्टव्यः । यदि तत् न उच्येत किम् इह स्यात् । हलादिशेषः । हलादिशेषः चेत् न अप्राप्ते हलादिशेषे इदम् उच्यते तत् बाधकम् भविष्यति । यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति अस्ति च सम्भवः यत् उभयम् स्यात् इति सति अपि सम्भवे बाधनम् भवति । तत् यथा । दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् बाधकम् भवति । एवम् इह अपि सति अपि सम्भवे अनादिशेषः आदिशेषम् बाधिष्यते ।

KA III,353.22-354.20 Ro V,264.8-266.10 śarpūrvaśeṣe kharpūrvagrahaṇam . śarpūrvaśeṣe kharpūrvagrahaṇam kartavyam . kharpūrvāḥ khayaḥ śiṣyante kharaḥ lupyante iti vaktavyam . kim prayojanam . ucicchiṣati . vyucicchiṣati . tukaḥ śravaṇam mā bhūt iti . tat tarhi vaktavyam . na vaktavyam . cartve kṛte tuk na bhaviṣyati . asiddham cartvam tasya asiddhatvāt tuk prāpnoti . siddhakāṇḍe paṭhitam abhyāsajaśtvacartvam ettvatukoḥ iti . evam api antaraṅgatvāt prāpnoti tasmāt kharpūrvagrahaṇam kartavyam . na kartavyam . ettvatuggrahaṇam na kariṣyate . abhyāsajaśtvacartvam siddham iti eva . ādiśeṣaprasaṅgaḥ tu . ādiśeṣaḥ tu prāpnoti . tiṣṭhāsati . nanu ca anādiśeṣaḥ ādiśeṣam bādhiṣyate . katham anyasya ucyamānam anyasya bādhakam syāt . asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt . yadi ādiśeṣaḥ api bhavati śarpūrvavacanam idānīm kimartham syāt . śarpūrvavacanam kimartham iti cet khayām lopapratiṣedhārtham . śarpūrvavacanam kimartham iti cet khayām lopaḥ mā bhūt iti . vyapakarṣavijñānāt siddham . vyapakarṣavijñānāt siddham etat . kim idam vyapakarṣavijñānāt iti . apavādavijñānāt . apavādatvāt atra anādiśeṣaḥ ādiśeṣam bādhiṣyate . nanu ca uktam katham anyasya ucyamānam anyasya bādhakam syāt iti . idam tāvat ayam praṣṭavyaḥ . yadi tat na ucyeta kim iha syāt . halādiśeṣaḥ . halādiśeṣaḥ cet na aprāpte halādiśeṣe idam ucyate tat bādhakam bhaviṣyati . yat api ucyate asati khalu api sambhave bādhanam bhavati asti ca sambhavaḥ yat ubhayam syāt iti sati api sambhave bādhanam bhavati . tat yathā . dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam bādhakam bhavati . evam iha api sati api sambhave anādiśeṣaḥ ādiśeṣam bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५४।२४-३५५।१६ रो व्,२६६।१४-२६७।१५ दाधर्ति इति किम् निपात्यते । धारयतेः श्लौ अभ्यासस्य दीर्घत्वम् णिलुक् च । अनिपात्यम् । तूतुजानवदभ्यासस्य दीर्घत्वम् पर्णशुषिवत् णिलुक् भविष्यति । धृङः वा अभ्यासस्य दीर्घत्वम् परस्मैपदम् च । अनिपात्यम् । तूतुजानवदभ्यासस्य दीर्घत्वम् युध्यतिवत् परस्मैपदम् भविष्यति । दर्धर्ति इति किम् निपात्यते । धारयतेः श्लौ अभ्यासस्य रुक् णिलुक् च । अनिपात्यम् । देवाअदुह्रवद्रुट् पर्णश्रुषिवत् णिलुक् भविष्यति । धृङः वा अभ्यासस्य रुक् परस्मैपदम् च । अनिपात्यम् । देवाअदुह्रवत् रुड्युध्यतिवत् परस्मैपदम् च भविष्यति । बोभूतु इति किम् निपात्यते । भवतेः यङ्लुगन्तस्य अगुणत्वम् निपात्यते । न एतत् अस्ति प्रयोजनम् । सिद्धम् अत्र अगुणत्वम् भूसुवोः तिङि इति । एवम् तर्हि नियमार्थम् भविष्यति । अत्र एव यङ्लुगन्तस्य गुणः न भवति न अन्यत्र इति । क्व मा भूत् । बोभवीति इति । तेतिक्ते इति किम् निपात्यते । तिजेः यङ्लुगन्तस्य आत्मनेपदम् निपात्यते । न एतत् अस्ति प्रयोजनम् । सिद्धम् अत्र आत्मनेपदम् अनुदात्तङितः आत्मनेपदम् इति । नियमार्थम् तर्हि भविष्यति । अत्र एव यङ्लुगन्तस्य आत्मनेपदम् भवति न अन्यत्र इति । क्व मा भूत् । बेभिदि इति चेच्छिदि इति ।

KA III,354.24-355.16 Ro V,266.14-267.15 dādharti iti kim nipātyate . dhārayateḥ ślau abhyāsasya dīrghatvam ṇiluk ca . anipātyam . tūtujānavadabhyāsasya dīrghatvam parṇaśuṣivat ṇiluk bhaviṣyati . dhṛṅaḥ vā abhyāsasya dīrghatvam parasmaipadam ca . anipātyam . tūtujānavadabhyāsasya dīrghatvam yudhyativat parasmaipadam bhaviṣyati . dardharti iti kim nipātyate . dhārayateḥ ślau abhyāsasya ruk ṇiluk ca . anipātyam . devāaduhravadruṭ parṇaśruṣivat ṇiluk bhaviṣyati . dhṛṅaḥ vā abhyāsasya ruk parasmaipadam ca . anipātyam . devāaduhravat ruḍyudhyativat parasmaipadam ca bhaviṣyati . bobhūtu iti kim nipātyate . bhavateḥ yaṅlugantasya aguṇatvam nipātyate . na etat asti prayojanam . siddham atra aguṇatvam bhūsuvoḥ tiṅi iti . evam tarhi niyamārtham bhaviṣyati . atra eva yaṅlugantasya guṇaḥ na bhavati na anyatra iti . kva mā bhūt . bobhavīti iti . tetikte iti kim nipātyate . tijeḥ yaṅlugantasya ātmanepadam nipātyate . na etat asti prayojanam . siddham atra ātmanepadam anudāttaṅitaḥ ātmanepadam iti . niyamārtham tarhi bhaviṣyati . atra eva yaṅlugantasya ātmanepadam bhavati na anyatra iti . kva mā bhūt . bebhidi iti cecchidi iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५५।१८-३५६।५ रो व्,२६८।२-२६९।२ किमर्थम् स्वपेः अभ्यासस्य सम्प्रसारणम् उच्यते यदा सर्वेषु अभ्यासस्थानेषु स्वपेः सम्प्रसारणम् उक्तम् । स्वापिग्रहणम् व्यपेतार्थम् । स्वापिग्रहणम् क्रियते व्यपेतार्थम् । व्यपेतार्थः अयम् आरम्भः । सुष्वापयिषति इति । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति । तत्र क्यजन्ते अतिप्रसङ्गः । तत्र क्यजन्ते अतिप्रसङ्गः भवति । इह अपि प्राप्नोति । स्वापकम् इच्छति स्वापकीयति स्वापकीयतेः सन् सिस्वापकीयिषति इति । सिद्धम् तु णिग्रहणात् । सिद्धम् एतत् । कथम् । णिग्रहणम् कर्तव्यम् । न कर्तव्यम् । निर्देशात् एव हि व्यक्तम् ण्यन्तस्य ग्रहणम् इति । न अत्र निर्देशः प्रमाणम् शक्यम् कर्तुम् । यथा हि निर्देशः तथा इह अपि प्रसज्येत । स्वापम् करोति स्वापयति स्वापयतेः सन् सिस्वापयिषति इति । तस्मात् णिग्रहणम् कर्तव्यम् ।

KA III,355.18-356.5 Ro V,268.2-269.2 kimartham svapeḥ abhyāsasya samprasāraṇam ucyate yadā sarveṣu abhyāsasthāneṣu svapeḥ samprasāraṇam uktam . svāpigrahaṇam vyapetārtham . svāpigrahaṇam kriyate vyapetārtham . vyapetārthaḥ ayam ārambhaḥ . suṣvāpayiṣati iti . asti prayojanam etat . kim tarhi iti . tatra kyajante atiprasaṅgaḥ . tatra kyajante atiprasaṅgaḥ bhavati . iha api prāpnoti . svāpakam icchati svāpakīyati svāpakīyateḥ san sisvāpakīyiṣati iti . siddham tu ṇigrahaṇāt . siddham etat . katham . ṇigrahaṇam kartavyam . na kartavyam . nirdeśāt eva hi vyaktam ṇyantasya grahaṇam iti . na atra nirdeśaḥ pramāṇam śakyam kartum . yathā hi nirdeśaḥ tathā iha api prasajyeta . svāpam karoti svāpayati svāpayateḥ san sisvāpayiṣati iti . tasmāt ṇigrahaṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५६।७-११ रो व्,२६९।४-८ त्रिग्रहणानर्थक्यम् गणान्तत्वात् । त्रिग्रहणम् अनर्थकम् । किम् कारणम् । गणान्तत्वात् । त्रयः एव निजादयः । उत्तरार्थम् तु । उत्तरार्थम् तर्हि त्रिग्रहणम् कर्तव्यम् । भृञाम् इत् त्रयाणाम् यथा स्यात् । इह मा भूत् । जहाति ।

KA III,356.7-11 Ro V,269.4-8 trigrahaṇānarthakyam gaṇāntatvāt . trigrahaṇam anarthakam . kim kāraṇam . gaṇāntatvāt . trayaḥ eva nijādayaḥ . uttarārtham tu . uttarārtham tarhi trigrahaṇam kartavyam . bhṛñām it trayāṇām yathā syāt . iha mā bhūt . jahāti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५६।१३-१५ रो व्,२६९।१०-२७०।३ अर्तिग्रहणम् किमर्थम् न बहुलम् छन्दसि इति एव सिद्धम् । न हि अन्तरेण छन्दः अर्तेः श्लुः लभ्यः । एवम् तर्हि सिद्धे यत् अर्तिग्रहणम् करोति तत् ज्ञापयति आचार्यः भाषायाम् श्लुः भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । इयर्ति इति एतत् सिद्धम् भवति ।

KA III,356.13-15 Ro V,269.10-270.3 artigrahaṇam kimartham na bahulam chandasi iti eva siddham . na hi antareṇa chandaḥ arteḥ śluḥ labhyaḥ . evam tarhi siddhe yat artigrahaṇam karoti tat jñāpayati ācāryaḥ bhāṣāyām śluḥ bhavati iti . kim etasya jñāpane prayojanam . iyarti iti etat siddham bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५६।१७-३५७।१९ रो व्,२७०।५-२७२।२ ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् । ऐचोः यङि दीर्घत्वम् प्राप्नोति । डोढौक्यते , तोत्रौक्यते इति । ननु च ह्रस्वत्वे कृते दीर्घत्वम् न भविष्यति । न सिध्यति । किम् कारणम् । ह्रस्वात् हि परम् दीर्घत्वम् । ह्रस्वत्वम् क्रियताम् दीर्घत्वम् इति किम् अत्र कर्तव्यम् । परत्वात् दीर्घत्वेन भवितव्यम् । न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् । न वा एषः दोषः । किम् कारणम् । अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् । अभ्यासविकारेषु अपवादाः उत्सर्गान् न बाधन्ते इति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । प्रयोजनम् सन्वद्भावस्य दीर्घत्वम् । अचीकरत् , अजीहरत् । सन्वद्भावम् अपवादत्वात् दीर्घत्वम् न बाधते । मान्प्रभृतीनाम् दीर्घत्वम् इत्त्वस्य । मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् इत्त्वम् न बाधते । गणेः ईत्वम् हलादिशेषस्य । गणेः ईत्वम् अपवादत्वात् हलादिशेषम् न बाधते । इदम् अयुक्तम् वर्तते । किम् अत्र अयुक्तम् । ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्त्वा ततः उच्यते न वा अभ्यासविकारेषु अपवादस्य उत्सर्गाबाधकत्वात् इति । तस्याः च परिभाषायाः प्रयोजनानि नाम उच्यन्ते प्रयोजनम् सन्वद्भावस्य दीर्घत्वम् मान्प्रभृतीनाम् दीर्घत्वम् इत्त्वस्य गणेः ईत्वम् हलादिशेषस्य इति च । न च सन्वद्भावम् अपवादत्वात् दीर्घत्वम् बाधते । किम् तर्हि परत्वात् । न खलु अपि मान्प्रभृतीनाम् दीर्घत्वम् अपवादत्वात् दीर्घत्वम् बाधते । किम् तर्हि अन्तरङ्गत्वात् । न खलु अपि गणेः ईत्त्वम् अपवादत्वात् हलादिशेषम् बाधते । किम् तर्हि अनवकाशत्वात् । एवम् तर्हि इयम् परिभाषा कर्तव्या अभ्यासविकारेषु बाधकाः न बाधन्ते इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् अकितः इति प्रतिषेधम् शास्ति ।

KA III,356.17-357.19 Ro V,270.5-272.2 aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam . aicoḥ yaṅi dīrghatvam prāpnoti . ḍoḍhaukyate , totraukyate iti . nanu ca hrasvatve kṛte dīrghatvam na bhaviṣyati . na sidhyati . kim kāraṇam . hrasvāt hi param dīrghatvam . hrasvatvam kriyatām dīrghatvam iti kim atra kartavyam . paratvāt dīrghatvena bhavitavyam . na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . abhyāsavikāreṣu apavādasya utsargābādhakatvāt . abhyāsavikāreṣu apavādāḥ utsargān na bādhante iti eṣā paribhāṣā kartavyā . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam sanvadbhāvasya dīrghatvam . acīkarat , ajīharat . sanvadbhāvam apavādatvāt dīrghatvam na bādhate . mānprabhṛtīnām dīrghatvam ittvasya . mānprabhṛtīnām dīrghatvam apavādatvāt ittvam na bādhate . gaṇeḥ ītvam halādiśeṣasya . gaṇeḥ ītvam apavādatvāt halādiśeṣam na bādhate . idam ayuktam vartate . kim atra ayuktam . aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam iti uktvā tataḥ ucyate na vā abhyāsavikāreṣu apavādasya utsargābādhakatvāt iti . tasyāḥ ca paribhāṣāyāḥ prayojanāni nāma ucyante prayojanam sanvadbhāvasya dīrghatvam mānprabhṛtīnām dīrghatvam ittvasya gaṇeḥ ītvam halādiśeṣasya iti ca . na ca sanvadbhāvam apavādatvāt dīrghatvam bādhate . kim tarhi paratvāt . na khalu api mānprabhṛtīnām dīrghatvam apavādatvāt dīrghatvam bādhate . kim tarhi antaraṅgatvāt . na khalu api gaṇeḥ īttvam apavādatvāt halādiśeṣam bādhate . kim tarhi anavakāśatvāt . evam tarhi iyam paribhāṣā kartavyā abhyāsavikāreṣu bādhakāḥ na bādhante iti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam akitaḥ iti pratiṣedham śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५७।२१-३५८।१८ रो व्,२७२।४-२७४।२ अकितः इति किमर्थम् । यंयम्यते , रंरम्यते । अकितः इति शक्यम् अकर्तुम् । कस्मात् न भवति यंयम्यते , रंरम्यते इति । नुकि कृते अनजन्तत्वात् । अतः उत्तरम् पठति । अकिद्वचनम् अन्यत्र किदन्तस्य अलः अन्त्यनिवृत्त्यर्थम् । अकिद्वचनम् क्रियते ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः अन्यत्र किदन्तस्य अभ्यासस्य अलोन्त्यविधिः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । प्रयोजनम् ह्रस्वत्वात्त्वेत्त्वगुणेषु । ह्रस्वत्वम् । अवचच्छतुः , अवचच्छुः । अत्त्वम् । चच्छृदतुः , चच्छृदुः । इत्त्वम् । चिच्छादयिषति , चिच्छर्दयिषति । गुणः । चेच्छिद्यते , चोच्छुष्यते । तुकि कृते अनन्त्यत्वात् एते विधयः न प्राप्नुवन्ति । विप्रतिषेधात् सिद्धम् । न एतानि सन्ति प्रयोजनानि । विप्रतिषेधेन अपि एतानि सिद्धानि । तुक् क्रियताम् एते विधयः इति किम् अत्र कर्तव्यम् । परत्वात् एते विधयः इति । तदन्ताग्रहणात् वा । अथ वा न एवम् विज्ञायते अभ्यासस्य अजन्तस्य ऋकारान्तस्य अकारान्तस्य इगन्तस्य इति । कथम् तर्हि । अभ्यासे यः अच् अभ्यासे यः ऋकारः अभ्यासे यः अकारः अभ्यासे यः इच् इति । एवम् च कृत्वा दीर्घत्वम् प्राप्नोति । एवम् तर्हि इदम् इह व्यपदेश्यम् सत् आचार्यः न व्यपदिशति । किम् अपवादः नुक् दीर्घत्वस्य इति । एवम् तर्हि सिद्धे सति यत् अकितः इति प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अभ्यासविकारेषु बाधकाः न बाधन्ते इति । किम् एतस्य ज्ञापने प्रयोजनम् । ऐचोः यङि दीर्घप्रसङ्गः ह्रस्वात् हि परम् दीर्घत्वम् इति उक्तम् सः न दोषः भवति ।

KA III,357.21-358.18 Ro V,272.4-274.2 akitaḥ iti kimartham . yaṃyamyate , raṃramyate . akitaḥ iti śakyam akartum . kasmāt na bhavati yaṃyamyate , raṃramyate iti . nuki kṛte anajantatvāt . ataḥ uttaram paṭhati . akidvacanam anyatra kidantasya alaḥ antyanivṛttyartham . akidvacanam kriyate jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ anyatra kidantasya abhyāsasya alontyavidhiḥ na bhavati iti . kim etasya jñāpane prayojanam . prayojanam hrasvatvāttvettvaguṇeṣu . hrasvatvam . avacacchatuḥ , avacacchuḥ . attvam . cacchṛdatuḥ , cacchṛduḥ . ittvam . cicchādayiṣati , cicchardayiṣati . guṇaḥ . cecchidyate , cocchuṣyate . tuki kṛte anantyatvāt ete vidhayaḥ na prāpnuvanti . vipratiṣedhāt siddham . na etāni santi prayojanāni . vipratiṣedhena api etāni siddhāni . tuk kriyatām ete vidhayaḥ iti kim atra kartavyam . paratvāt ete vidhayaḥ iti . tadantāgrahaṇāt vā . atha vā na evam vijñāyate abhyāsasya ajantasya ṛkārāntasya akārāntasya igantasya iti . katham tarhi . abhyāse yaḥ ac abhyāse yaḥ ṛkāraḥ abhyāse yaḥ akāraḥ abhyāse yaḥ ic iti . evam ca kṛtvā dīrghatvam prāpnoti . evam tarhi idam iha vyapadeśyam sat ācāryaḥ na vyapadiśati . kim apavādaḥ nuk dīrghatvasya iti . evam tarhi siddhe sati yat akitaḥ iti pratiṣedham śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā abhyāsavikāreṣu bādhakāḥ na bādhante iti . kim etasya jñāpane prayojanam . aicoḥ yaṅi dīrghaprasaṅgaḥ hrasvāt hi param dīrghatvam iti uktam saḥ na doṣaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५८।२०-३५९।२ रो व्,२७४।४-१० नुकि यंयम्यते , रंरम्यते इति रूपासिद्धिः । नुकि सति यंयम्यते , रंरम्यते इति रूपम् न सिध्यति । अनुस्वारागमवचनात् सिद्धम् । अनुस्वारागमः वक्तव्यः । एवम् अपि इदम् एव रूपम् स्यात् यंय्यम्यते , इदम् न स्यात् यंयम्यते । पदान्तवत् च । पदान्तात् च इति वक्तव्यम् । वा पदान्तस्य इति ।

KA III,358.20-359.2 Ro V,274.4-10 nuki yaṃyamyate , raṃramyate iti rūpāsiddhiḥ . nuki sati yaṃyamyate , raṃramyate iti rūpam na sidhyati . anusvārāgamavacanāt siddham . anusvārāgamaḥ vaktavyaḥ . evam api idam eva rūpam syāt yaṃyyamyate , idam na syāt yaṃyamyate . padāntavat ca . padāntāt ca iti vaktavyam . vā padāntasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५९।४-६ रो व्,२७४।१२-१४ रीक् ऋत्वतः संयोगार्थम् । रीक् ऋत्वतः इति वक्तव्यम् । किम् प्रयोजनम् । संयोगार्थम् । संयोगान्ताः प्रयोजयन्ति । वरीवृश्च्यते , परीपृच्छ्यते , बरीभृज्ज्यते ।

KA III,359.4-6 Ro V,274.12-14 rīk ṛtvataḥ saṃyogārtham . rīk ṛtvataḥ iti vaktavyam . kim prayojanam . saṃyogārtham . saṃyogāntāḥ prayojayanti . varīvṛścyate , parīpṛcchyate , barībhṛjjyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५९।८-९ रो व्,२७५।२-४ मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम् । मर्मृज्यते , मर्मृज्यमानासः इति च उपसङ्ख्यानम् कर्तव्यम् । मर्मृज्यते , मर्मृज्यमानासः ।

KA III,359.8-9 Ro V,275.2-4 marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam . marmṛjyate , marmṛjyamānāsaḥ iti ca upasaṅkhyānam kartavyam . marmṛjyate , marmṛjyamānāsaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५९।११-१७ रो व्,२७५।६-१२ किम् इदम् ऋकारग्रहणम् अङ्गविशेषणम् । ऋकारान्तस्य अङ्गस्य इति । आहोस्वित् अभ्यासविशेषणम् । ऋकारान्तस्य अभ्यासस्य इति । अङ्गविशेषणम् इति आह । कथम् ज्ञायते । यत् अयम् तपरकरणम् करोति । कथम् कृत्वा ज्ञापकम् । न हि कः चित् अभ्यासे दीर्घः अस्ति यदर्थम् तपरकरणम् क्रियेत । अथ अङ्गविशेषणे ऋकारग्रहणे सति तपरकरणे किम् प्रयोजनम् । इह मा भूत् । चाकीर्ति , चाकीर्तः , चाकिरति । किरतिम् चर्करीतान्तम् पचति इति अत्र यः नयेत् , प्राप्तिज्ञम् तम् अहम् मन्ये प्रारब्धः तेन सङ्ग्रहः ।

KA III,359.11-17 Ro V,275.6-12 kim idam ṛkāragrahaṇam aṅgaviśeṣaṇam . ṛkārāntasya aṅgasya iti . āhosvit abhyāsaviśeṣaṇam . ṛkārāntasya abhyāsasya iti . aṅgaviśeṣaṇam iti āha . katham jñāyate . yat ayam taparakaraṇam karoti . katham kṛtvā jñāpakam . na hi kaḥ cit abhyāse dīrghaḥ asti yadartham taparakaraṇam kriyeta . atha aṅgaviśeṣaṇe ṛkāragrahaṇe sati taparakaraṇe kim prayojanam . iha mā bhūt . cākīrti , cākīrtaḥ , cākirati . kiratim carkarītāntam pacati iti atra yaḥ nayet , prāptijñam tam aham manye prārabdhaḥ tena saṅgrahaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ,३५९।१९-३६०।२४ रो व्,२७६।१-२७८।३ इह कस्मात् न भवति । अजजागरत् । लघुनि चङ्परे इति उच्यते व्यवहितम् च अत्र लघु चङ्परम् । इह अपि तर्हि न प्राप्नोति । अचीकरत् , अजीहरत् । वचनात् भविष्यति । इह अपि वचनात् प्राप्नोति । अजजागरत् । येन न अव्यवधानम् तेन व्यवहिते अपि वचनप्रामाण्यात् । केन च न अव्यवधानम् । वर्णेन । एतेन पुनः सङ्घातेन व्यवधानम् भवति न भवति च । एवम् अपि अचिक्षणत् अत्र न प्राप्नोति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति भवति एवञ्जातीयकानाम् इत्त्वम् इति यत् अयम् अत्स्मृदॄत्वरप्रथम्रदस्तॄस्पशाम् इति इत्त्वबाधनार्थम् अत्त्वम् शास्ति । सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम् । सन्वद्भावदीर्घत्वे णेः णिचि उपसङ्ख्यानम् कर्तव्यम् : वादितवन्तम् प्रयोजितवान् , अवीवदत् वीणाम् परिवादकेन । किम् पुनः कारणम् न सिध्यति । णिचा व्यवहितत्वात् । लोपे कृते न अस्ति व्यवधानम् । स्थानिवद्भावात् व्यवधानम् एव । प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति । एवम् अपि अनग्लोपः इति प्रतिषेधम् प्राप्नोति । वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति । एवम् तर्हि इदम् इह सम्प्रधार्यम् । वृद्धिः क्रियताम् लोपः इति किम् अत्र कर्तव्यम् । परत्वात् वृद्धिः । नित्यः लोपः । कृतायाम् अपि वृद्धौ प्राप्नोति अकृतायाम् अपि । लोपः अपि अनित्यः । अन्यस्य कृतायाम् वृद्धौ प्राप्नोति अकृतायाम् अन्यस्य शब्दान्तस्य च प्राप्नुवन् विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात् वृद्धिः । वृद्धौ कृतायाम् लोपः तत् न अग्लोपि अङ्गम् भवति । मीमादीनाम् तु लोपप्रसङ्गः । मीमादीनाम् तु लोपः प्राप्नोति । अमीमपत् । सिद्धम् तु रूपातिदेशात् । सिद्धम् एतत् । कथम् । रूपातिदेशः अयम् । सनि यादृशम् अभ्यासरूपम् तत् सन्वद्भावेन अतिदिश्यते न च मीमादीनाम् सनि अभ्यासरूपम् अस्ति । अङ्गान्यत्वात् वा सिद्धम् । अथ वा ण्यन्तम् एतत् अङ्गम् अन्यत् । लोपे कृते न अङ्गान्यत्वम् । स्थानिवद्भावात् अङ्गम् अन्यत् । कथम् अजिज्ञपत् । अत्र सनि अपि ण्यन्तस्य एव उपादानम् आप्ज्ञप्यृधाम् ईत् इति । अत्र अङ्गान्यत्वाभावात् अभ्यासलोपः स्यात् । तस्मात् पूर्वः एव परिहारः सिद्धम् तु रूपातिदेशात् इति ।

KA III,359.19-360.24 Ro V,276.1-278.3 iha kasmāt na bhavati . ajajāgarat . laghuni caṅpare iti ucyate vyavahitam ca atra laghu caṅparam . iha api tarhi na prāpnoti . acīkarat , ajīharat . vacanāt bhaviṣyati . iha api vacanāt prāpnoti . ajajāgarat . yena na avyavadhānam tena vyavahite api vacanaprāmāṇyāt . kena ca na avyavadhānam . varṇena . etena punaḥ saṅghātena vyavadhānam bhavati na bhavati ca . evam api acikṣaṇat atra na prāpnoti . evam tarhi ācāryapravṛttiḥ jñāpayati bhavati evañjātīyakānām ittvam iti yat ayam atsmṛdṝtvaraprathamradastṝspaśām iti ittvabādhanārtham attvam śāsti . sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam . sanvadbhāvadīrghatve ṇeḥ ṇici upasaṅkhyānam kartavyam : vāditavantam prayojitavān , avīvadat vīṇām parivādakena . kim punaḥ kāraṇam na sidhyati . ṇicā vyavahitatvāt . lope kṛte na asti vyavadhānam . sthānivadbhāvāt vyavadhānam eva . pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . evam api anaglopaḥ iti pratiṣedham prāpnoti . vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati . evam tarhi idam iha sampradhāryam . vṛddhiḥ kriyatām lopaḥ iti kim atra kartavyam . paratvāt vṛddhiḥ . nityaḥ lopaḥ . kṛtāyām api vṛddhau prāpnoti akṛtāyām api . lopaḥ api anityaḥ . anyasya kṛtāyām vṛddhau prāpnoti akṛtāyām anyasya śabdāntasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt vṛddhiḥ . vṛddhau kṛtāyām lopaḥ tat na aglopi aṅgam bhavati . mīmādīnām tu lopaprasaṅgaḥ . mīmādīnām tu lopaḥ prāpnoti . amīmapat . siddham tu rūpātideśāt . siddham etat . katham . rūpātideśaḥ ayam . sani yādṛśam abhyāsarūpam tat sanvadbhāvena atidiśyate na ca mīmādīnām sani abhyāsarūpam asti . aṅgānyatvāt vā siddham . atha vā ṇyantam etat aṅgam anyat . lope kṛte na aṅgānyatvam . sthānivadbhāvāt aṅgam anyat . katham ajijñapat . atra sani api ṇyantasya eva upādānam āpjñapyṛdhām īt iti . atra aṅgānyatvābhāvāt abhyāsalopaḥ syāt . tasmāt pūrvaḥ eva parihāraḥ siddham tu rūpātideśāt iti .

Sanskrit only: no published translation is held for this verse.