क्अ इ,२९६।२-१० रो इइ,२९७-२९८ किमर्थम् इदम् उच्यते । अन्यत्र सञ्ज्ञासमावेशान्नियमार्थम् वचनम् । अन्यत्र सञ्ज्ञासमावेशः भवति । क्वान्यत्र । लोके व्याकरणे च । लोके तावत् । इन्द्रः शक्रः पुरुहूतः पुरन्दरः । कन्दुः कोष्ठः कुशूलः इति । एकस्य द्रव्यस्य बह्व्यः सञ्ज्ञाः भवन्ति । व्याकरणे अपि कर्तव्यम् हर्तव्यम् इति अत्र प्रत्ययकृत्कृत्यसञ्ज्ञानाम् समावेशः भवति । पाञ्चालः वैदेहः वैदर्भः इति अत्र प्रत्ययतद्धिततद्राजसञ्ज्ञानां समावेशः भवति । अन्यत्र सञ्ज्ञासमावेशात् एतस्मात् कारणात् आ कडारात् अपि सञ्ज्ञानाम् समावेशः प्राप्नोति । इष्यते च एका एव सञ्ज्ञा स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् । एवमर्थम् इदम् उच्यते । अस्ति प्रयोजनम् एतत् । किम् तर्हि इति ।
KA I,296.2-10 Ro II,297-298 kimartham idam ucyate . anyatra sañjñāsamāveśānniyamārtham vacanam . anyatra sañjñāsamāveśaḥ bhavati . kvānyatra . loke vyākaraṇe ca . loke tāvat . indraḥ śakraḥ puruhūtaḥ purandaraḥ . kanduḥ koṣṭhaḥ kuśūlaḥ iti . ekasya dravyasya bahvyaḥ sañjñāḥ bhavanti . vyākaraṇe api kartavyam hartavyam iti atra pratyayakṛtkṛtyasañjñānām samāveśaḥ bhavati . pāñcālaḥ vaidehaḥ vaidarbhaḥ iti atra pratyayataddhitatadrājasañjñānāṃ samāveśaḥ bhavati . anyatra sañjñāsamāveśāt etasmāt kāraṇāt ā kaḍārāt api sañjñānām samāveśaḥ prāpnoti . iṣyate ca ekā eva sañjñā syāt iti . tat ca antareṇa yatnam na sidhyati iti niyamārtham vacanam . evamartham idam ucyate . asti prayojanam etat . kim tarhi iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,२९६।११-२९९।२० रो इइ,२९८-३०८ कथम् त्वेतत्सूत्रम् पठितव्यम् । किम् आ कडारात् एका सञ्ज्ञा इति आहोस्वित् प्राक् कडारात् परम् कार्यम् इति । कुतः पुनः अयम् सन्देहः । उभयथा हि आचार्येण शिष्याः सूत्रम् प्रतिपादिताः : केचित् आ कडारात् एका सञ्ज्ञा इति , केचित् प्राक् कडारात् परम् कार्यम् इति । कः च अत्र विशेषः । तत्र एकसञ्ज्ञाधिकारे तद्वचनम् । तत्र एकसञ्ज्ञाधिकारे तत् वक्तव्यम् । किम् । एका सञ्ज्ञा भवति इति । ननु च यस्य अपि परङ्कार्यत्वम् तेन अपि परग्रहणम् कर्तव्यम् । परार्थम् मम भविष्यति । विप्रतिषेधे च इति । मम अपि तर्हि एकग्रहणम् परार्थम् भविष्यति । सरूपाणाम् एकशेषः एकविभक्तौ इति । सञ्ज्ञाधिकारः च अयम् । तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः । तत्र एतावत् वाच्यम् । आ कडारात् एका । किम् । एका सञ्ज्ञा भवति इति । अङ्गसञ्ज्ञया भपदसञ्ज्ञयोः असमावेशः । अण्गसञ्ज्ञया भपदसञ्ज्ञयोः समावेशः न प्राप्नोति । सार्पिष्कः बार्हिष्कः याजुष्कः धानुष्कः । बाभ्रव्यः माण्डव्य इति । अनवकाशे भपदसञ्ज्ञे अङ्गसञ्ज्ञां बाधेयाताम् । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथम् । पूर्वे तस्य भपदसञ्ज्ञे परा अङ्गसञ्ज्ञा । कथम् । एवम् स वक्ष्यति । यस्मात्प्रत्ययविधिः तदादि सुप्तिङन्तं पदम् नः क्ये सिति च । स्वादिषु असर्वनामस्थाने यचि भम् । तस्य अन्ते प्रत्यये अङ्गमिति । तत्र आरम्भसामर्थ्याच् च भपदसञ्ज्ञे परङ्कार्यत्वात् च अङ्गसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि अङ्गसञ्ज्ञापूर्विके भपदसञ्ज्ञे । कथम् ।अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत। एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः । कर्मधारयत्वे तत्पुरुषग्रहणम् । कर्मधारयत्वे तत्पुरुषग्रहणम् कर्तव्यम् । तत्पुरुषः समानाधिकरणः कर्मधारयः इति । एकसञ्ज्ञाधिकारः इति चोदितम् । अक्रियमाणे हि अनवकाशा कर्मधारयसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथम् । पूर्वा तस्य कर्मधारयसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा । कथम् । एवम् स वक्ष्यति । पूर्वकालैकसर्वजरत्पुराणनवकेवलाः समानाधिकरणेन कर्मधारयः इति । एवम् सर्वम् कर्मधारयप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति । तत्र आरम्भसामर्थ्यात् च कर्मधारयसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका कर्मधारयसञ्ज्ञा । कथम् । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन सम्भवः । तत्पुरुषत्वे द्विगुचग्रहणम् । तत्पुरुषत्वे द्विगुचग्रहणम् कर्तव्यम् । तत्पुरुषः द्विगुः च इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशा द्विगुसञ्ज्ञा तत्पुरुषसञ्ज्ञाम् बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वम् नियमानुपप्पतेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथम् । पूर्वा तस्य द्विगुसञ्ज्ञा परा तत्पुरुषसञ्ज्ञा। कथम् । एवं स वक्ष्यति । तद्धितार्थोत्तरपदसमाहारे च सङ्ख्यापूर्वः द्विगुः इति । एवम् सर्वम् द्विगुप्रकरणम् अनुक्रम्य तस्य अन्ते श्रितादिः तत्पुरुषः इति । तत्र आरम्भसामर्थ्यात् च द्विगुसञ्ज्ञा परङ्कार्यत्वात् च तत्पुरुषसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य अपि तत्पुरुषसञ्ज्ञापूर्विका द्विगुसञ्ज्ञा । कथम् । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः । गतिदिवःकर्महेतुमत्सु चग्रहणम् । गतिदिवःकर्महेतुमत्सु चग्रहणम् कर्तव्यम् । उपसर्गाः क्रियायोगे गतिश्च इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशः पसर्गसञ्ज्ञा गतिसञ्ज्ञाम् बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथम् । पूर्वा तस्य उपसर्गसञ्ज्ञा परा गतिसञ्ज्ञा । अत्र आरम्भसामर्थ्यात् च उपसर्गसञ्ज्ञा परङ्कार्यत्वात् च गतिसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारः तस्य उपसर्गसञ्ज्ञापूर्विका गतिसञ्ज्ञा । कथम् । अनुवृत्तिः क्रियते । पर्यायः प्रसज्येत । एका सञ्ज्ञा इति वचनात् न अस्ति यौगपद्येन संभवः । गतिसञ्ज्ञा अपि अनवकाशा सा वचनात् भविष्यति । सावकाशा गतिसञ्ज्ञा । कः अवकाशः । ऊर्यादीनि अवकाशः । प्रादीनां या गतिसञ्ज्ञा सा अनवकाशा । गति । दिवः कर्म । साधकतमम् करणम् दिवः कर्म च इति चकारः कर्तव्यः । अक्रियमाणे हि चकारे अनवकाशा कर्मसञ्ज्ञा करणसञ्ज्ञाम् बाधेत । परवचने हि नियमानुपपत्तेः उभयसञ्ज्ञाभावः । यस्य पुनः परङ्कार्यत्वम् नियमानुपपत्तेः तस्य उभयोः सञ्ज्ञयोः भावः सिद्धः । कथम् । पूर्वा तस्य कर्मसञ्ज्ञा परा करणसञ्ज्ञा । कथम् । एवम् स वक्ष्यति । दिवः साधकतमम् कर्म । ततः करणम् । करणसञ्ज्ञाम् च भवति साधकतमम् । दिव इति निवृत्तम् । तत्र आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा परङ्कार्यत्वात् च करणसञ्ज्ञा भविष्यति । ननु च यस्य अपि एकसञ्ज्ञाधिकारःतस्य अपि करणसञ्ज्ञापूर्विका कर्मसञ्ज्ञा ।
KA I,296.11-299.20 Ro II,298-308 katham tvetatsūtram paṭhitavyam . kim ā kaḍārāt ekā sañjñā iti āhosvit prāk kaḍārāt param kāryam iti . kutaḥ punaḥ ayam sandehaḥ . ubhayathā hi ācāryeṇa śiṣyāḥ sūtram pratipāditāḥ : kecit ā kaḍārāt ekā sañjñā iti , kecit prāk kaḍārāt param kāryam iti . kaḥ ca atra viśeṣaḥ . tatra ekasañjñādhikāre tadvacanam . tatra ekasañjñādhikāre tat vaktavyam . kim . ekā sañjñā bhavati iti . nanu ca yasya api paraṅkāryatvam tena api paragrahaṇam kartavyam . parārtham mama bhaviṣyati . vipratiṣedhe ca iti . mama api tarhi ekagrahaṇam parārtham bhaviṣyati . sarūpāṇām ekaśeṣaḥ ekavibhaktau iti . sañjñādhikāraḥ ca ayam . tatra kim anyat śakyam vijñātum anyat ataḥ sañjñāyāḥ . tatra etāvat vācyam . ā kaḍārāt ekā . kim . ekā sañjñā bhavati iti . aṅgasañjñayā bhapadasañjñayoḥ asamāveśaḥ . aṇgasañjñayā bhapadasañjñayoḥ samāveśaḥ na prāpnoti . sārpiṣkaḥ bārhiṣkaḥ yājuṣkaḥ dhānuṣkaḥ . bābhravyaḥ māṇḍavya iti . anavakāśe bhapadasañjñe aṅgasañjñāṃ bādheyātām . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrve tasya bhapadasañjñe parā aṅgasañjñā . katham . evam sa vakṣyati . yasmātpratyayavidhiḥ tadādi suptiṅantaṃ padam naḥ kye siti ca . svādiṣu asarvanāmasthāne yaci bham . tasya ante pratyaye aṅgamiti . tatra ārambhasāmarthyāc ca bhapadasañjñe paraṅkāryatvāt ca aṅgasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya api aṅgasañjñāpūrvike bhapadasañjñe . katham .anuvṛttiḥ kriyate . paryāyaḥ prasajyeta. ekā sañjñā iti vacanāt na asti yaugapadyena saṃbhavaḥ . karmadhārayatve tatpuruṣagrahaṇam . karmadhārayatve tatpuruṣagrahaṇam kartavyam . tatpuruṣaḥ samānādhikaraṇaḥ karmadhārayaḥ iti . ekasañjñādhikāraḥ iti coditam . akriyamāṇe hi anavakāśā karmadhārayasañjñā tatpuruṣasañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya karmadhārayasañjñā parā tatpuruṣasañjñā . katham . evam sa vakṣyati . pūrvakālaikasarvajaratpurāṇanavakevalāḥ samānādhikaraṇena karmadhārayaḥ iti . evam sarvam karmadhārayaprakaraṇam anukramya tasya ante śritādiḥ tatpuruṣaḥ iti . tatra ārambhasāmarthyāt ca karmadhārayasañjñā paraṅkāryatvāt ca tatpuruṣasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya api tatpuruṣasañjñāpūrvikā karmadhārayasañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena sambhavaḥ . tatpuruṣatve dvigucagrahaṇam . tatpuruṣatve dvigucagrahaṇam kartavyam . tatpuruṣaḥ dviguḥ ca iti cakāraḥ kartavyaḥ . akriyamāṇe hi cakāre anavakāśā dvigusañjñā tatpuruṣasañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupappateḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya dvigusañjñā parā tatpuruṣasañjñā. katham . evaṃ sa vakṣyati . taddhitārthottarapadasamāhāre ca saṅkhyāpūrvaḥ dviguḥ iti . evam sarvam dviguprakaraṇam anukramya tasya ante śritādiḥ tatpuruṣaḥ iti . tatra ārambhasāmarthyāt ca dvigusañjñā paraṅkāryatvāt ca tatpuruṣasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya api tatpuruṣasañjñāpūrvikā dvigusañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena saṃbhavaḥ . gatidivaḥkarmahetumatsu cagrahaṇam . gatidivaḥkarmahetumatsu cagrahaṇam kartavyam . upasargāḥ kriyāyoge gatiśca iti cakāraḥ kartavyaḥ . akriyamāṇe hi cakāre anavakāśaḥ pasargasañjñā gatisañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya upasargasañjñā parā gatisañjñā . atra ārambhasāmarthyāt ca upasargasañjñā paraṅkāryatvāt ca gatisañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥ tasya upasargasañjñāpūrvikā gatisañjñā . katham . anuvṛttiḥ kriyate . paryāyaḥ prasajyeta . ekā sañjñā iti vacanāt na asti yaugapadyena saṃbhavaḥ . gatisañjñā api anavakāśā sā vacanāt bhaviṣyati . sāvakāśā gatisañjñā . kaḥ avakāśaḥ . ūryādīni avakāśaḥ . prādīnāṃ yā gatisañjñā sā anavakāśā . gati . divaḥ karma . sādhakatamam karaṇam divaḥ karma ca iti cakāraḥ kartavyaḥ . akriyamāṇe hi cakāre anavakāśā karmasañjñā karaṇasañjñām bādheta . paravacane hi niyamānupapatteḥ ubhayasañjñābhāvaḥ . yasya punaḥ paraṅkāryatvam niyamānupapatteḥ tasya ubhayoḥ sañjñayoḥ bhāvaḥ siddhaḥ . katham . pūrvā tasya karmasañjñā parā karaṇasañjñā . katham . evam sa vakṣyati . divaḥ sādhakatamam karma . tataḥ karaṇam . karaṇasañjñām ca bhavati sādhakatamam . diva iti nivṛttam . tatra ārambhasāmarthyāt ca karmasañjñā paraṅkāryatvāt ca karaṇasañjñā bhaviṣyati . nanu ca yasya api ekasañjñādhikāraḥtasya api karaṇasañjñāpūrvikā karmasañjñā .
Sanskrit only: no published translation is held for this verse.
क्अ इ,२९९।२१-३०१।२० रो इइ,३०८-३१३ परवचने सिति पदं भम् । परवचने सिति पदम् भसञ्ज्ञमपि प्राप्नोति । अयम् ते योनिः ऋत्वियः । प्रजम् विन्दाम ऋत्विजयाम् । आरम्भसामर्थ्यात् च पदसञ्ज्ञा परङ्कार्यत्वात् च भसञ्ज्ञा प्राप्नोति । गतिबुद्ध्यादीनाम् ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् । गतिबुद्ध्यादीआं ण्यन्तानाम् कर्म कर्तृसञ्ज्ञम् अपि प्राप्नोति । आरम्भसामर्थ्यात् च कर्मसञ्ज्ञा पदसञ्ज्ञा परङ्कार्यत्वात् च कर्तृसञ्ज्ञा प्राप्नोति । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न कर्मसञ्ज्ञायाम् कर्तृसञ्ज्ञा भवति इति यत् अयम् हृक्रोः अन्यतरस्याम् इति अन्तरस्याङ्ग्रहणम् करोति । शेषवचनम् च घिसञ्ज्ञानिवृत्त्यर्थम् । शेषग्रहणम् च कर्तव्यम् । शेषः घि असखि इति । किम् प्रयोजनम् । घिसाञ्ज्ञानिवृत्त्यर्थम् । नदीसञ्ज्ञायाम् घिसञ्ज्ञा मा भूत् इति । शकट्यै पद्धत्यै बुद्धयै धेन्वै । इतरथा हि परङ्कार्यत्वात् च घिसञ्ज्ञा आरम्भसामर्थ्यात् च ङिति ह्रस्वः च इति नदीसञ्ज्ञा । न वा असम्भवात् । न वा असम्भवात् । न वा कर्तव्यम् । नदीसञ्ज्ञायाम् घिसञ्ज्ञा कस्मात् न भवति । असम्भवात् । कः असौ असम्भवः । ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणः । ह्रस्वलक्षणा हि नदीसञ्ज्ञा घिसञ्ज्ञायाम् च गुणेन भवितव्यम् । तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञाभावः । तत्र वचनप्रामाण्यात् नदीसञ्ज्ञायाम् घिसञ्ज्ञा न भविष्यति । किम् कारणम् । आश्रयाभावात् । आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् यणादेशाभावः । आश्रयाभावात् नदीसञ्ज्ञायाम् घिसञ्ज्ञानिवृत्तिः इति चेत् एवम् उच्यते यणादेशः अपि न प्राप्नोति । न एषः दोषः । नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञाभावः । नद्याश्रयः यणादेशः । यदा नदीसञ्ज्ञया घिसञ्ज्ञा बाधिता तत उत्तरकालम् यणादेशेन भवितव्यम् । नद्याश्रयत्वात् यणादेशस्य ह्रस्वस्य नदीसञ्ज्ञा भविष्यति । बहुव्रीह्यर्थम् तु । बह्व्रीहिप्रतिषेधार्थम् तु शेषग्रहणम् कर्तव्यम् । शेषः बवुव्रीहिः इति । किं प्रयोजनम् । प्रयोजनमव्ययीभावोपमानद्विगुकृल्लोपेषु । अव्ययीभावे । उन्मत्तगङ्गम् लोहितगङ्गम् । उपमाने । शस्त्रीश्यामा कुमुदश्येनी । द्विगु । पञ्चगवम् दशगवम् । कृल्लोपे । निष्कौशाम्बिः निर्वाराणसिः । तत्र शेषवचनात् दोषः सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहिप्रतिषेधः । तत्र शेषवचनात् दोषः भवति । सङ्ख्यासमानाधिकरणञ्समासेषु बहुव्रीहेः प्रतिषेधः प्राप्नोति । सङ्ख्या । द्वीरावतीकः देशः त्रीरावतीकः देशः । समानाधिकरण । वीर्पुरुषकः ग्रामः । नञ्समासे । अब्राह्मणकः देशः अवृषलकः देशः । कृल्लोपे च शेषवचनात् प्रादिभिः न बहुव्रीहिः । कृल्लोपे च शेषवचनात् प्रादिभिः न प्राप्नोति । प्रपतितपर्णः प्रपर्णकः प्रपतितपलाशः प्रपलाशकः इति । अथ एकसञ्ज्ञाधिकारे कथम् सिध्यति । एकसञ्ज्ञाधिकारे विप्रतिषेधाद् बहुव्रीहिः । एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः भविष्यति । एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः । एकसञ्ज्ञाधिकारे विप्रतिषेधात् बहुव्रीहिः इति चेत् क्तार्थे प्रतिषेधः वक्तव्यः । निष्कौशाम्बिः निर्वाराणसिः । तत्पुरुषः अत्र बाधकः भविष्यति । तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः । तत्पुरुषः इति चेत् अन्यत्र क्तार्थात् प्रतिषेधः वक्तव्यः । प्रपतितपर्णः प्रपर्णकः प्रतितत्पलाशः प्रपलाशकः इति । सिद्धम् तु प्रादीनाम् क्तार्थे तत्पुरुषवचनात् । सिद्धमेतत् । कथम् । प्रादीनाम् क्तार्थे तत्पुरुषः भवति इति वक्तव्यम् ।
KA I,299.21-301.20 Ro II,308-313 paravacane siti padaṃ bham . paravacane siti padam bhasañjñamapi prāpnoti . ayam te yoniḥ ṛtviyaḥ . prajam vindāma ṛtvijayām . ārambhasāmarthyāt ca padasañjñā paraṅkāryatvāt ca bhasañjñā prāpnoti . gatibuddhyādīnām ṇyantānām karma kartṛsañjñam . gatibuddhyādīāṃ ṇyantānām karma kartṛsañjñam api prāpnoti . ārambhasāmarthyāt ca karmasañjñā padasañjñā paraṅkāryatvāt ca kartṛsañjñā prāpnoti . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na karmasañjñāyām kartṛsañjñā bhavati iti yat ayam hṛkroḥ anyatarasyām iti antarasyāṅgrahaṇam karoti . śeṣavacanam ca ghisañjñānivṛttyartham . śeṣagrahaṇam ca kartavyam . śeṣaḥ ghi asakhi iti . kim prayojanam . ghisāñjñānivṛttyartham . nadīsañjñāyām ghisañjñā mā bhūt iti . śakaṭyai paddhatyai buddhayai dhenvai . itarathā hi paraṅkāryatvāt ca ghisañjñā ārambhasāmarthyāt ca ṅiti hrasvaḥ ca iti nadīsañjñā . na vā asambhavāt . na vā asambhavāt . na vā kartavyam . nadīsañjñāyām ghisañjñā kasmāt na bhavati . asambhavāt . kaḥ asau asambhavaḥ . hrasvalakṣaṇā hi nadīsañjñā ghisañjñāyām ca guṇaḥ . hrasvalakṣaṇā hi nadīsañjñā ghisañjñāyām ca guṇena bhavitavyam . tatra vacanaprāmāṇyāt nadīsañjñāyām ghisañjñābhāvaḥ . tatra vacanaprāmāṇyāt nadīsañjñāyām ghisañjñā na bhaviṣyati . kim kāraṇam . āśrayābhāvāt . āśrayābhāvāt nadīsañjñāyām ghisañjñānivṛttiḥ iti cet yaṇādeśābhāvaḥ . āśrayābhāvāt nadīsañjñāyām ghisañjñānivṛttiḥ iti cet evam ucyate yaṇādeśaḥ api na prāpnoti . na eṣaḥ doṣaḥ . nadyāśrayatvāt yaṇādeśasya hrasvasya nadīsañjñābhāvaḥ . nadyāśrayaḥ yaṇādeśaḥ . yadā nadīsañjñayā ghisañjñā bādhitā tata uttarakālam yaṇādeśena bhavitavyam . nadyāśrayatvāt yaṇādeśasya hrasvasya nadīsañjñā bhaviṣyati . bahuvrīhyartham tu . bahvrīhipratiṣedhārtham tu śeṣagrahaṇam kartavyam . śeṣaḥ bavuvrīhiḥ iti . kiṃ prayojanam . prayojanamavyayībhāvopamānadvigukṛllopeṣu . avyayībhāve . unmattagaṅgam lohitagaṅgam . upamāne . śastrīśyāmā kumudaśyenī . dvigu . pañcagavam daśagavam . kṛllope . niṣkauśāmbiḥ nirvārāṇasiḥ . tatra śeṣavacanāt doṣaḥ saṅkhyāsamānādhikaraṇañsamāseṣu bahuvrīhipratiṣedhaḥ . tatra śeṣavacanāt doṣaḥ bhavati . saṅkhyāsamānādhikaraṇañsamāseṣu bahuvrīheḥ pratiṣedhaḥ prāpnoti . saṅkhyā . dvīrāvatīkaḥ deśaḥ trīrāvatīkaḥ deśaḥ . samānādhikaraṇa . vīrpuruṣakaḥ grāmaḥ . nañsamāse . abrāhmaṇakaḥ deśaḥ avṛṣalakaḥ deśaḥ . kṛllope ca śeṣavacanāt prādibhiḥ na bahuvrīhiḥ . kṛllope ca śeṣavacanāt prādibhiḥ na prāpnoti . prapatitaparṇaḥ praparṇakaḥ prapatitapalāśaḥ prapalāśakaḥ iti . atha ekasañjñādhikāre katham sidhyati . ekasañjñādhikāre vipratiṣedhād bahuvrīhiḥ . ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ bhaviṣyati . ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ . ekasañjñādhikāre vipratiṣedhāt bahuvrīhiḥ iti cet ktārthe pratiṣedhaḥ vaktavyaḥ . niṣkauśāmbiḥ nirvārāṇasiḥ . tatpuruṣaḥ atra bādhakaḥ bhaviṣyati . tatpuruṣaḥ iti cet anyatra ktārthāt pratiṣedhaḥ . tatpuruṣaḥ iti cet anyatra ktārthāt pratiṣedhaḥ vaktavyaḥ . prapatitaparṇaḥ praparṇakaḥ pratitatpalāśaḥ prapalāśakaḥ iti . siddham tu prādīnām ktārthe tatpuruṣavacanāt . siddhametat . katham . prādīnām ktārthe tatpuruṣaḥ bhavati iti vaktavyam .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३०१।२१-३०३।१४ रो इइ,३१३-३१७ कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् ह्रस्वसञ्ज्ञाम् दीर्घप्लुतौ । ह्रस्वसञ्ज्ञाम् दीर्घप्लुतसञ्ज्ञे बाधेते । तिङ्सार्वधातुकम् लिङ्लिटोः आर्धधातुकम् । तिङः सार्वधातुकसञ्ज्ञाम् लिङ्लिटोःआर्धधातुसञ्ज्ञा बाधते । अपत्यम् वृद्धम् युवा । अपत्यम् वृद्धम् यवुसञ्ज्ञा बाधते । घिम् नदी । घिसञ्ज्ञाम् नदीसञ्ज्ञा बाधते । लघु गुरु । लघुसञ्ज्ञाम् गुरुसञ्ज्ञा बाधते । पदम् भम् । पदसञ्ज्ञाम् भसञ्ज्ञा बाधते । अपादाद्नम् उत्तराणि धनुषा विध्यति कंसपात्र्याम् भुङ्क्ते गाम् दोग्धि धनुः विध्यति इति । अपादानसञ्ज्ञाम् उत्तराणि कारकाणि बाधन्ते । क्व । धनुषा विध्यति । कंसपात्र्याम् भुङ्क्ते । गाम् दोग्धि । धनुः विध्यति । धनुषा विध्यति इति अपाययुक्तत्वात् च ध्रुवमपाये अपादानम् इति अपादानसञ्ज्ञा प्राप्नोति साधकतमम् करणम् इति च करणसञ्ज्ञा । करणसञ्ज्ञा परा सा भवति । कंसपात्र्याम् भुङ्क्ते इति अत्र अपायुक्तत्वात् च ध्रुवमपाये अपादानमिति अपादानसञ्ज्ञा प्राप्नोति आधारः अधिकरणम् इति च अधिकरणसञ्ज्ञा । अधिकरणसञ्ज्ञा परा सा भवति । गाम् दोग्धि इति अत्र अपायुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति कर्तुरीप्सिततमम् कर्म । इति च कर्मसञ्ज्ञा । कर्मसञ्ज्ञा परा सा भवति । धनुः विध्यति इति अत्र अपाययुक्तत्वात् च अपादानसञ्ज्ञा प्राप्नोति स्वतन्त्रः कर्ता इति च । कर्तृसञ्ज्ञा परा सा भवति । क्रुधद्रुहोः उप्सृष्टयोः कर्म संप्रदानम् । क्रुधद्रुहोः उप्सृष्टयोः कर्मसञ्ज्ञा संप्रदानसञ्ज्ञाम् बाधते । करणम् पराणि साधु असिः छिनत्ति । करणसञ्ज्ञाम् पराणि आणि बाधन्ते । क्व । धनुः विध्यति । असिः छिनत्ति इति । अधिकरणम् कर्म गेहम् प्रविशति । अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते । क्व । गेहम् प्रविशति इति । अधिकरणम् कर्ता स्थाली पचति । अधिकरणसञ्ज्ञाम् कर्मसञ्ज्ञा बाधते । क्व । स्थाली पचति इति । अध्युपसृष्टम् कर्म । अध्युपसृष्टम् कर्म अधिकरणसञ्ज्ञाम् बाधते । गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा । गत्युपसर्गसञ्ज्ञे कर्मप्रवचनीयसञ्ज्ञा बाधते । परस्मैपदम् आत्मनेपदम् । परस्मैपदसञ्ज्ञाम् आत्मनेपदसञ्ज्ञा बाधते । समाससञ्ज्ञाः च । समाससञ्ज्ञाः च याः याः पराः अनवकाशाः च ताः ताः पूर्वाः सावकाशाः च बाधन्ते ।
KA I,301.21-303.14 Ro II,313-317 kāni punaḥ asya yogasya prayojanāni . prayojanam hrasvasañjñām dīrghaplutau . hrasvasañjñām dīrghaplutasañjñe bādhete . tiṅsārvadhātukam liṅliṭoḥ ārdhadhātukam . tiṅaḥ sārvadhātukasañjñām liṅliṭoḥārdhadhātusañjñā bādhate . apatyam vṛddham yuvā . apatyam vṛddham yavusañjñā bādhate . ghim nadī . ghisañjñām nadīsañjñā bādhate . laghu guru . laghusañjñām gurusañjñā bādhate . padam bham . padasañjñām bhasañjñā bādhate . apādādnam uttarāṇi dhanuṣā vidhyati kaṃsapātryām bhuṅkte gām dogdhi dhanuḥ vidhyati iti . apādānasañjñām uttarāṇi kārakāṇi bādhante . kva . dhanuṣā vidhyati . kaṃsapātryām bhuṅkte . gām dogdhi . dhanuḥ vidhyati . dhanuṣā vidhyati iti apāyayuktatvāt ca dhruvamapāye apādānam iti apādānasañjñā prāpnoti sādhakatamam karaṇam iti ca karaṇasañjñā . karaṇasañjñā parā sā bhavati . kaṃsapātryām bhuṅkte iti atra apāyuktatvāt ca dhruvamapāye apādānamiti apādānasañjñā prāpnoti ādhāraḥ adhikaraṇam iti ca adhikaraṇasañjñā . adhikaraṇasañjñā parā sā bhavati . gām dogdhi iti atra apāyuktatvāt ca apādānasañjñā prāpnoti karturīpsitatamam karma . iti ca karmasañjñā . karmasañjñā parā sā bhavati . dhanuḥ vidhyati iti atra apāyayuktatvāt ca apādānasañjñā prāpnoti svatantraḥ kartā iti ca . kartṛsañjñā parā sā bhavati . krudhadruhoḥ upsṛṣṭayoḥ karma saṃpradānam . krudhadruhoḥ upsṛṣṭayoḥ karmasañjñā saṃpradānasañjñām bādhate . karaṇam parāṇi sādhu asiḥ chinatti . karaṇasañjñām parāṇi āṇi bādhante . kva . dhanuḥ vidhyati . asiḥ chinatti iti . adhikaraṇam karma geham praviśati . adhikaraṇasañjñām karmasañjñā bādhate . kva . geham praviśati iti . adhikaraṇam kartā sthālī pacati . adhikaraṇasañjñām karmasañjñā bādhate . kva . sthālī pacati iti . adhyupasṛṣṭam karma . adhyupasṛṣṭam karma adhikaraṇasañjñām bādhate . gatyupasargasañjñe karmapravacanīyasañjñā . gatyupasargasañjñe karmapravacanīyasañjñā bādhate . parasmaipadam ātmanepadam . parasmaipadasañjñām ātmanepadasañjñā bādhate . samāsasañjñāḥ ca . samāsasañjñāḥ ca yāḥ yāḥ parāḥ anavakāśāḥ ca tāḥ tāḥ pūrvāḥ sāvakāśāḥ ca bādhante .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३०३।१५-३०४।९ रो इइ,३१७-३१९ अर्थवत् प्रातिपदिकम् । अर्थवत् प्रातिपदिकसञ्ज्ञम् भवति । गुणवचनम् च । गुणवचनसञ्ज्ञम् च भवति अर्थवत् । समासकृत्तद्धिताव्ययसर्वनाम असर्वलिङ्गा जातिः । ४१॥समास । समाससञ्ज्ञा च वक्तव्या । कृत् । कृत्सञ्ज्ञा च वक्तव्या । तद्धित । तद्धितसञ्ज्ञा च वक्तव्या । अव्यय । अव्ययसञ्ज्ञा च वक्तव्या । सर्वनाम । सर्वनामसञ्ज्ञा च वक्तव्या । असर्वलिङ्गा जातिः इति एतत् च वक्तव्यम् । सङ्ख्या । सङ्ख्यासञ्ज्ञा च वक्तव्या । डु च । डुसञ्ज्ञा च वक्तव्या । का पुनः डुसञ्ज्ञा । षट्सञ्ज्ञा । एकद्रव्योपनिवेशिनी सञ्ज्ञा । एकद्रव्योपनिवेशिनी सञ्ज्ञा इति एतत् च वक्तव्यम् । किमर्थम् इदमुच्यते । यथान्यासे एव भूयिष्ठाः सञ्ज्ञाः क्रियन्ते । सन्ति च एव अत्र काः चित् अपूर्वाः सञ्ज्ञाः । अपि च एतेन आनुपूर्व्येण सन्निविष्टानाम् बाधनम् यथा स्यात् । गुणवचनसञ्ज्ञायाः च एताभिः बाधनम् यथा स्यात् इति ।
KA I,303.15-304.9 Ro II,317-319 arthavat prātipadikam . arthavat prātipadikasañjñam bhavati . guṇavacanam ca . guṇavacanasañjñam ca bhavati arthavat . samāsakṛttaddhitāvyayasarvanāma asarvaliṅgā jātiḥ . 41||samāsa | samāsasañjñā ca vaktavyā . kṛt . kṛtsañjñā ca vaktavyā . taddhita . taddhitasañjñā ca vaktavyā . avyaya . avyayasañjñā ca vaktavyā . sarvanāma . sarvanāmasañjñā ca vaktavyā . asarvaliṅgā jātiḥ iti etat ca vaktavyam . saṅkhyā . saṅkhyāsañjñā ca vaktavyā . ḍu ca . ḍusañjñā ca vaktavyā . kā punaḥ ḍusañjñā . ṣaṭsañjñā . ekadravyopaniveśinī sañjñā . ekadravyopaniveśinī sañjñā iti etat ca vaktavyam . kimartham idamucyate . yathānyāse eva bhūyiṣṭhāḥ sañjñāḥ kriyante . santi ca eva atra kāḥ cit apūrvāḥ sañjñāḥ . api ca etena ānupūrvyeṇa sanniviṣṭānām bādhanam yathā syāt . guṇavacanasañjñāyāḥ ca etābhiḥ bādhanam yathā syāt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३०४।११-३०६।१० रो इइ,३१९-३२५ विप्रतिषेधः इति कः अयम् शब्दः । विप्रतिपूर्वात् सिद्धेः कर्मव्यतिहारे कर्मव्यतिहारे घञ् । इतरेतरप्रतिषेधः विप्रतिषेधः । अन्योन्यप्रतिषेधः विप्रतिषेधः । कः पुनः विप्रतिषेधः । द्वौ प्रसङ्गौ अन्यार्थौ एकस्मिन् सः विप्रतिषेधः । द्वौ प्रसण्गौ यदा अन्यार्थौ भवतः एकस्मिन् च युगपत् प्राप्त्नुतः सः विप्रतिषेधः । क्व पुनः अन्यार्थौ क्व च एकस्मिन् युगपत् प्राप्नुतः । वृक्षाभ्याम् , वृक्षेषु इति अन्यार्थौ वृक्षेभ्यः इति अत्र युगपत् प्राप्नुतः । किम् च स्यात् । एकस्मिन् युगपदसम्भवात् पूर्वपरप्राप्तेः उभयप्रसङ्गः । एकस्मिन् युगपदसम्भवात्पूर्वस्याः च परस्याः च प्राप्तेः उभयप्रसङ्गः । इदम् विप्रतिषिद्धम् यत् उच्यते एकस्मिन् युगपदसम्भवात्पूर्वपरप्राप्तेः उभयप्रसङ्गः इति । कथम् हि एकस्मिन् च नाम युगपदसम्भवः स्यात् पूर्वस्याः च परस्याःच प्राप्तेः उभयप्रसङ्गः च स्यात् । न एतत् विप्रतिषिद्धम् । यत् उच्यते एकस्मिन् युगपदसम्भवात् इति कार्ययोः युगपदसम्भवः शास्त्रयोः उभयप्रसङ्गः । तृजादिभिः तुल्यम् । तृजादिभिः तुल्यम् पर्यायः प्राप्नोति । तत् यथा तृजादयः पर्यायेण भवन्ति । किम् पुनः कारणम् तृजादयः पर्यायेण भवन्ति । अनवयप्रसङ्गात् प्रतिपदम् विधेः च । अनवयवेन प्रसज्यन्ते प्रतिपदम् च विधीयन्ते । अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् । अप्रतिपत्तिः वा पुनः उभयोः शास्त्रयोः स्यात् । किम् कारणम् । तुल्यबलत्वात् । तुल्यबले हि उभे शास्त्रे । तत् यथा । द्वयोः तुल्यबलयोः एकः प्रेष्यः भवति । सः तयोः पर्यायेण कार्यम् करोति । यदा तम् उभौ युगपत् प्रेषयतः नानादिक्षु च कार्ये भवतः तदा यदि असौ अविरोधार्थी भवति ततः उभयोः न करोति । किम् पुनः कारणम् उभयोः न करोति । यौगपद्यासम्भवात् । न अस्ति यौगपद्येन सम्भवः । तत्र प्रतिपत्त्यर्थम् वचनम् । तत्र प्रतिपत्त्यर्थम् इदम् वक्तव्यम् । तव्यदादीनाम् तु अप्रसिद्धिः । तव्यदादीनाम् तु कार्यस्य अप्रसिद्धिः । न हि किम् चित् तव्यदादिषु नियमकारि शास्त्रम् आरभ्यते येन तव्यदादयः स्युः । यः च भवता हेतुः व्यपदिष्टः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तुल्यः स तव्यदादिषु । न एषः दोषः । अनवकाशाः तव्यदादयः उच्यन्ते च । ते वचनात् भविष्यन्ति । यः च भवता हेतुः व्यपदिष्टः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तुल्यः स तव्यदादिषु । एतावत् इह सूत्रम् विप्रतिषेधे परम् इति । पठिष्यति हि आचार्यः सकृद्गतौ विर्प्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति । पुनः च पठिष्यति पुनः प्रसङ्गविज्ञानात् सिद्धम् इति । किम् पुनः इयता सूत्रेण उभयम् लभ्यम् । लभ्यम् इति आह । कथम् । इह भवता द्वौ हेतू व्यपदिष्टौ । तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति च अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति च । तत् यदा तावत् एषः हेतुः तृजादिभिः तुल्यम् पर्यायः प्राप्नोति इति तदा विप्रतिषेढे परम् इति अनेन किम् क्रियते । नियमः । विप्रतिषेधे परम् एव भवति इति । तदा एतत् उपपन्नम् भवति सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति । यदा तु एषः हेतुः अप्रतिपत्तिः वा उभयोः तुल्यबलत्वात् इति तदा विप्रतिषेधे परम् इति अनेन किम् क्रियते । द्वारम् । विप्रतिषेधे परम् तावत् भवति तस्मिन् क्र्टे यदि पूर्वम् अपि प्राप्नोति तत् अपि भवति । तदा एतत् उपपन्नम् भवति पुनःप्रसङ्गविज्ञानात् सिद्धम् इति । विप्रतिषेधे परम् इति उक्त्वा अङ्गाधिकारे पूर्वम् इति वक्तव्यम् । किम् कृतम् भवति । पूर्वविप्रतिषेधाः न पठितव्याः भवन्ति । गुणवृद्ध्यौत्वतृज्वद्भावेभ्यः नुम् पूर्वविप्रतिषिद्धम् । नुमचिरतृज्वद्भावेभ्यः नुट् इति । कथम् ये परविप्रतिषेधाः । इत्त्वोत्त्वाभ्याम् गुणवृद्धी भवतः विप्रतिषेधेन इति । सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । कथम् ये पूर्वविप्रतिषेधाः । विप्रतिषेधे परम् इति एव सिद्धम् । कथम् । परशब्दः अयम् बह्वर्थः । अस्ति एव व्यवस्थायाम् वर्तते । तत् यथा पूर्वः परः इति । अस्ति अन्यार्थे वर्तते । परपुत्रः परभार्या । अन्यपुत्रः अन्यभार्या इति गम्यते । अस्ति प्राधान्ये वर्तते । तत् यथा परम् इयं ब्राह्माणी अस्मिन् कुटुम्बे । प्रधानम् इति गम्यते । अस्ति
KA I,304.11-306.10 Ro II,319-325 vipratiṣedhaḥ iti kaḥ ayam śabdaḥ . vipratipūrvāt siddheḥ karmavyatihāre karmavyatihāre ghañ . itaretarapratiṣedhaḥ vipratiṣedhaḥ . anyonyapratiṣedhaḥ vipratiṣedhaḥ . kaḥ punaḥ vipratiṣedhaḥ . dvau prasaṅgau anyārthau ekasmin saḥ vipratiṣedhaḥ . dvau prasaṇgau yadā anyārthau bhavataḥ ekasmin ca yugapat prāptnutaḥ saḥ vipratiṣedhaḥ . kva punaḥ anyārthau kva ca ekasmin yugapat prāpnutaḥ . vṛkṣābhyām , vṛkṣeṣu iti anyārthau vṛkṣebhyaḥ iti atra yugapat prāpnutaḥ . kim ca syāt . ekasmin yugapadasambhavāt pūrvaparaprāpteḥ ubhayaprasaṅgaḥ . ekasmin yugapadasambhavātpūrvasyāḥ ca parasyāḥ ca prāpteḥ ubhayaprasaṅgaḥ . idam vipratiṣiddham yat ucyate ekasmin yugapadasambhavātpūrvaparaprāpteḥ ubhayaprasaṅgaḥ iti . katham hi ekasmin ca nāma yugapadasambhavaḥ syāt pūrvasyāḥ ca parasyāḥca prāpteḥ ubhayaprasaṅgaḥ ca syāt . na etat vipratiṣiddham . yat ucyate ekasmin yugapadasambhavāt iti kāryayoḥ yugapadasambhavaḥ śāstrayoḥ ubhayaprasaṅgaḥ . tṛjādibhiḥ tulyam . tṛjādibhiḥ tulyam paryāyaḥ prāpnoti . tat yathā tṛjādayaḥ paryāyeṇa bhavanti . kim punaḥ kāraṇam tṛjādayaḥ paryāyeṇa bhavanti . anavayaprasaṅgāt pratipadam vidheḥ ca . anavayavena prasajyante pratipadam ca vidhīyante . apratipattiḥ vā ubhayoḥ tulyabalatvāt . apratipattiḥ vā punaḥ ubhayoḥ śāstrayoḥ syāt . kim kāraṇam . tulyabalatvāt . tulyabale hi ubhe śāstre . tat yathā . dvayoḥ tulyabalayoḥ ekaḥ preṣyaḥ bhavati . saḥ tayoḥ paryāyeṇa kāryam karoti . yadā tam ubhau yugapat preṣayataḥ nānādikṣu ca kārye bhavataḥ tadā yadi asau avirodhārthī bhavati tataḥ ubhayoḥ na karoti . kim punaḥ kāraṇam ubhayoḥ na karoti . yaugapadyāsambhavāt . na asti yaugapadyena sambhavaḥ . tatra pratipattyartham vacanam . tatra pratipattyartham idam vaktavyam . tavyadādīnām tu aprasiddhiḥ . tavyadādīnām tu kāryasya aprasiddhiḥ . na hi kim cit tavyadādiṣu niyamakāri śāstram ārabhyate yena tavyadādayaḥ syuḥ . yaḥ ca bhavatā hetuḥ vyapadiṣṭaḥ apratipattiḥ vā ubhayoḥ tulyabalatvāt iti tulyaḥ sa tavyadādiṣu . na eṣaḥ doṣaḥ . anavakāśāḥ tavyadādayaḥ ucyante ca . te vacanāt bhaviṣyanti . yaḥ ca bhavatā hetuḥ vyapadiṣṭaḥ tṛjādibhiḥ tulyam paryāyaḥ prāpnoti iti tulyaḥ sa tavyadādiṣu . etāvat iha sūtram vipratiṣedhe param iti . paṭhiṣyati hi ācāryaḥ sakṛdgatau virpratiṣedhe yat bādhitam tat bādhitam eva iti . punaḥ ca paṭhiṣyati punaḥ prasaṅgavijñānāt siddham iti . kim punaḥ iyatā sūtreṇa ubhayam labhyam . labhyam iti āha . katham . iha bhavatā dvau hetū vyapadiṣṭau . tṛjādibhiḥ tulyam paryāyaḥ prāpnoti iti ca apratipattiḥ vā ubhayoḥ tulyabalatvāt iti ca . tat yadā tāvat eṣaḥ hetuḥ tṛjādibhiḥ tulyam paryāyaḥ prāpnoti iti tadā vipratiṣeḍhe param iti anena kim kriyate . niyamaḥ . vipratiṣedhe param eva bhavati iti . tadā etat upapannam bhavati sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . yadā tu eṣaḥ hetuḥ apratipattiḥ vā ubhayoḥ tulyabalatvāt iti tadā vipratiṣedhe param iti anena kim kriyate . dvāram . vipratiṣedhe param tāvat bhavati tasmin krṭe yadi pūrvam api prāpnoti tat api bhavati . tadā etat upapannam bhavati punaḥprasaṅgavijñānāt siddham iti . vipratiṣedhe param iti uktvā aṅgādhikāre pūrvam iti vaktavyam . kim kṛtam bhavati . pūrvavipratiṣedhāḥ na paṭhitavyāḥ bhavanti . guṇavṛddhyautvatṛjvadbhāvebhyaḥ num pūrvavipratiṣiddham . numaciratṛjvadbhāvebhyaḥ nuṭ iti . katham ye paravipratiṣedhāḥ . ittvottvābhyām guṇavṛddhī bhavataḥ vipratiṣedhena iti . sūtram ca bhidyate . yathānyāsam eva astu . katham ye pūrvavipratiṣedhāḥ . vipratiṣedhe param iti eva siddham . katham . paraśabdaḥ ayam bahvarthaḥ . asti eva vyavasthāyām vartate . tat yathā pūrvaḥ paraḥ iti . asti anyārthe vartate . paraputraḥ parabhāryā . anyaputraḥ anyabhāryā iti gamyate . asti prādhānye vartate . tat yathā param iyaṃ brāhmāṇī asmin kuṭumbe . pradhānam iti gamyate . asti
Sanskrit only: no published translation is held for this verse.
क्अ इ,३०६।११-३०९।२३ रो इइ,३२५-३३५ अन्तरङ्गम् च । अन्तरङ्गम् च बलीयः भवति इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् यणेकादेशेत्त्वोत्त्वानि गुणवृद्धिद्विर्वचनाल्लोपस्वरेभ्यः । गुणात् यणादेशः : स्योनः , स्योना । गुणः च प्राप्नोति यणादेः च । परत्वात् गुणः स्यात् । यणादेशः भवत्यन्तरङ्गतः । वृद्धेः यणादेशः । द्यौकामिः स्यौकामिः । वृद्धिः च प्राप्नोति यणादेः च । परत्वात् वृद्धिः स्यात् । यणादेशः भवति अन्तरङ्गतः । द्विर्वचनात् यणादेशः । दुद्यूषति सुस्यूषति । द्विर्वचनम् च प्राप्नोति यणादेः च । नित्यत्वात् द्विर्वचनम् स्यात् । यणादेशः भवति अन्तरङ्गतः । अल्लोपस्य च यणादेशस्य च न अस्ति सम्प्रधारणा । स्वरात् यणादेशः । द्यौकामिः स्यौकामिः । स्वरः च प्राप्नोति यणादेः च । परत्वात् स्वरः स्यात् । यणादेशः भवति अन्तरङ्गतः । गुणात् एकादेशः । काद्रवेयः मन्त्रम् अपश्यत् । गुणः च प्राप्नोति एकादेशः च । परत्वात् गुणः स्यात् । एकादेशः भवति अन्तरङ्गतः । वृद्धेः एकादेशः । वैक्ष्माणिः सौस्थितिः । वृद्धिः च प्राप्नोति एकादेशः च । परत्वात् वृद्धिः स्यात् । एकादेशः भवति अन्तरङ्गतः । द्विर्वचनात् एकादेशः । ज्ञाया ओदनः ज्ञौदनः । ज्ञौदनम् इच्छति ज्ञौदनीयति । ज्ञौदनीयतेः सन् जुज्ञौदनीयिषति । द्विर्वचनम् च प्राप्नोति एकादेशः च । नित्यत्वात् द्विर्वचनम् स्यात् । एकादेशः भवति अन्तरङ्गतः । अल्लोपात् एकादेशः । शुना शुने । अल्लोपः च प्राप्नोति एकादेशः च । परत्वात् अल्लोपः स्यात् । एकादेशः भवति अन्तरङ्गतः । न एतत् अस्ति प्रयोजनम् । न अस्ति अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा । अयम् अस्ति विशेषः । अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत । न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति । किम् कारणम् । न गोश्वन्साववर्ण इति प्रतिषेधात् । न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि । तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरः न अस्ति । शुनः पश्य इति । एवम् तर्हि न लाक्षणिकस्य प्रतिषेधम् शिष्मः । किम् तर्हि । येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य प्रतिषेधः । यत्र तर्हि विभक्तिः न अस्ति । बह्हुशुनी इति । यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत । न एवम् शक्यम् । इह अपि प्रसज्येत : कुमारी इति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति नोदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति । अन्तोदात्तार्थम् यत्नम् करोति । सिद्धम् हि स्यान् ङीपा एव । स्वरात् एकादेकादेशः । सौत्थितिः वैक्ष्माणिः । स्वरः च प्राप्नोति एकादेशः च । परत्वात्स्वरः स्यात् । एकादेशः भवति अन्तरङ्गतः । गुणस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा । वृद्धेः इत्त्वोत्त्वे । स्तौर्णिः पौर्तिः । वृद्धिः च प्राप्नोति इत्त्वोत्त्वे च । परत्वात् वृद्धिः स्यात् । इत्त्वोत्त्वे भवतः अन्तरङ्गतः । द्विर्वचनात् इत्त्वोत्त्वे । आतेस्तीर्यते आपोपूर्यते । द्विर्वचनम् च प्राप्नोति इत्त्वोत्त्वे च । नित्यत्वात् द्विर्वचनम् स्यात् । इत्त्वोत्त्वे भवतः अन्तरङ्गतः । अल्लोपस्य च इत्त्वोत्त्वयोः च न अस्ति सम्प्रधारणा । स्वरे नास्ति विशेषः । इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् । इण्ङिशीनाम् आत् गुणः सवर्णदीर्घत्वात् प्रयोजनम् । अयजे इन्द्रम् अवपे इन्द्रम् । वृक्षे इन्द्रम् प्लक्षे इन्द्रम् । ये इन्द्रम् ते इन्द्रम् । आत् गुणः च प्राप्नोति सवर्णदीर्घत्वम् च । परत्वात् सवरणदीर्घत्वम् स्यात् । आत् गुणः भवति अन्तरङ्गतः । न वा सवर्णदीर्घत्वस्य अनवकाशत्वात् । न वा एतत् अन्तरङ्गेण अपि सिध्यति । किम् कारणम् । सवर्णदीर्घत्वस्य अनवकाशत्वात् । अनवकाशम् सवर्णदीर्घत्वम् आत् गुणम् बाधेत । न एतत् अन्तरङ्गे अस्ति अनवकाशम् परम् इति । इह अपि स्योनः , स्योना इति शक्यम् वक्तुम् न वा परत्वात् गुणस्य इति । ऊङापोः एकादेशः ईत्वलोपाभ्याम् । ऊङापोः एकादेशः ईत्वलोपाभ्याम् भवति अन्तरङ्गतः प्रयोजनम् । ईत्वात् एकादेशः । खट्वीयति मालीयति । ईत्वम् च प्राप्नोति एकादेशः च । परत्वात् ईत्वम् स्यात् । एकादेशः भवति अन्तरङ्गतः । लोपात् एकादेशः । कामण्डलेयः भाद्रबाहेयः । लोपः च प्राप्नोति एकादेशः च । परत्वात् लोपः स्यात् । एकादेशः भवति अन्तरङ्गतः । अथ किमर्थम् ईत्वलोपाभ्याम् इति उच्यते न लोपेत्वाभ्यामिति एव उच्येत । सङ्ख्यातानुदेशः मा भूत् इति । आपः अपि एकादेशः लोपे प्रयोजयति
KA I,306.11-309.23 Ro II,325-335 antaraṅgam ca . antaraṅgam ca balīyaḥ bhavati iti vaktavyam . kim prayojanam . prayojanam yaṇekādeśettvottvāni guṇavṛddhidvirvacanāllopasvarebhyaḥ . guṇāt yaṇādeśaḥ : syonaḥ , syonā . guṇaḥ ca prāpnoti yaṇādeḥ ca . paratvāt guṇaḥ syāt . yaṇādeśaḥ bhavatyantaraṅgataḥ . vṛddheḥ yaṇādeśaḥ . dyaukāmiḥ syaukāmiḥ . vṛddhiḥ ca prāpnoti yaṇādeḥ ca . paratvāt vṛddhiḥ syāt . yaṇādeśaḥ bhavati antaraṅgataḥ . dvirvacanāt yaṇādeśaḥ . dudyūṣati susyūṣati . dvirvacanam ca prāpnoti yaṇādeḥ ca . nityatvāt dvirvacanam syāt . yaṇādeśaḥ bhavati antaraṅgataḥ . allopasya ca yaṇādeśasya ca na asti sampradhāraṇā . svarāt yaṇādeśaḥ . dyaukāmiḥ syaukāmiḥ . svaraḥ ca prāpnoti yaṇādeḥ ca . paratvāt svaraḥ syāt . yaṇādeśaḥ bhavati antaraṅgataḥ . guṇāt ekādeśaḥ . kādraveyaḥ mantram apaśyat . guṇaḥ ca prāpnoti ekādeśaḥ ca . paratvāt guṇaḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . vṛddheḥ ekādeśaḥ . vaikṣmāṇiḥ sausthitiḥ . vṛddhiḥ ca prāpnoti ekādeśaḥ ca . paratvāt vṛddhiḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . dvirvacanāt ekādeśaḥ . jñāyā odanaḥ jñaudanaḥ . jñaudanam icchati jñaudanīyati . jñaudanīyateḥ san jujñaudanīyiṣati . dvirvacanam ca prāpnoti ekādeśaḥ ca . nityatvāt dvirvacanam syāt . ekādeśaḥ bhavati antaraṅgataḥ . allopāt ekādeśaḥ . śunā śune . allopaḥ ca prāpnoti ekādeśaḥ ca . paratvāt allopaḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . na etat asti prayojanam . na asti atra viśeṣaḥ allopena vā nivṛttau satyām pūrvatvena vā . ayam asti viśeṣaḥ . allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta . na atra udāttanivṛttisvaraḥ prāpnoti . kim kāraṇam . na gośvansāvavarṇa iti pratiṣedhāt . na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ . kasya tarhi . tṛtīyādisvarasya . yatra tarhi tṛtīyādisvaraḥ na asti . śunaḥ paśya iti . evam tarhi na lākṣaṇikasya pratiṣedham śiṣmaḥ . kim tarhi . yena kena cit lakṣaṇena prāptasya vibhaktisvarasya pratiṣedhaḥ . yatra tarhi vibhaktiḥ na asti . bahhuśunī iti . yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta . na evam śakyam . iha api prasajyeta : kumārī iti . evam tarhi ācāryapravṛttiḥ jñāpayati nodāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu paṭhati . antodāttārtham yatnam karoti . siddham hi syān ṅīpā eva . svarāt ekādekādeśaḥ . sautthitiḥ vaikṣmāṇiḥ . svaraḥ ca prāpnoti ekādeśaḥ ca . paratvātsvaraḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . guṇasya ca ittvottvayoḥ ca na asti sampradhāraṇā . vṛddheḥ ittvottve . staurṇiḥ paurtiḥ . vṛddhiḥ ca prāpnoti ittvottve ca . paratvāt vṛddhiḥ syāt . ittvottve bhavataḥ antaraṅgataḥ . dvirvacanāt ittvottve . ātestīryate āpopūryate . dvirvacanam ca prāpnoti ittvottve ca . nityatvāt dvirvacanam syāt . ittvottve bhavataḥ antaraṅgataḥ . allopasya ca ittvottvayoḥ ca na asti sampradhāraṇā . svare nāsti viśeṣaḥ . iṇṅiśīnām āt guṇaḥ savarṇadīrghatvāt . iṇṅiśīnām āt guṇaḥ savarṇadīrghatvāt prayojanam . ayaje indram avape indram . vṛkṣe indram plakṣe indram . ye indram te indram . āt guṇaḥ ca prāpnoti savarṇadīrghatvam ca . paratvāt savaraṇadīrghatvam syāt . āt guṇaḥ bhavati antaraṅgataḥ . na vā savarṇadīrghatvasya anavakāśatvāt . na vā etat antaraṅgeṇa api sidhyati . kim kāraṇam . savarṇadīrghatvasya anavakāśatvāt . anavakāśam savarṇadīrghatvam āt guṇam bādheta . na etat antaraṅge asti anavakāśam param iti . iha api syonaḥ , syonā iti śakyam vaktum na vā paratvāt guṇasya iti . ūṅāpoḥ ekādeśaḥ ītvalopābhyām . ūṅāpoḥ ekādeśaḥ ītvalopābhyām bhavati antaraṅgataḥ prayojanam . ītvāt ekādeśaḥ . khaṭvīyati mālīyati . ītvam ca prāpnoti ekādeśaḥ ca . paratvāt ītvam syāt . ekādeśaḥ bhavati antaraṅgataḥ . lopāt ekādeśaḥ . kāmaṇḍaleyaḥ bhādrabāheyaḥ . lopaḥ ca prāpnoti ekādeśaḥ ca . paratvāt lopaḥ syāt . ekādeśaḥ bhavati antaraṅgataḥ . atha kimartham ītvalopābhyām iti ucyate na lopetvābhyāmiti eva ucyeta . saṅkhyātānudeśaḥ mā bhūt iti . āpaḥ api ekādeśaḥ lope prayojayati
Sanskrit only: no published translation is held for this verse.
क्अ इ,३०९।२३-३११।११ रो इइ,३३५-३३९ यदि सन्ति प्रयोजनानि इति एषा परिभाषा क्रियते ननु च इयम् अपि कर्तव्या असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति । किम् प्रयोजनम् । पचावेदम् पचामेदम् । असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरण्गलक्षणम् ऐत्वम् मा भूत् इति । उभे तर्हि कर्तव्ये । न इति आह । अनया एव सिद्धम् । इह अपि स्योनः स्योना इति असिद्धत्वात् बहिरङ्गलक्षणस्य गुणस्य अन्तरङ्गलक्षणः यणादेशो भविष्यति । यदि असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उच्यते अक्षद्यूः हिरण्यद्यूः असिद्धत्वात् असिद्धत्वात् बहिरङ्गलक्षणस्य ऊठः अन्तरङ्गलक्षणः यणादेशः न प्राप्नोति । न एषः दोषः । असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति उक्त्वा ततः वक्ष्यामि न अजानन्तर्ये बहिष्ट्वप्रकॢप्तिः इति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् षत्वतुकोः असिद्धः इति आह । इयम् तर्हि परिभाषा कर्तव्या असिद्धम् बहिरङ्गलक्षणमन्तरङ्गलक्षणे इति । एषा च न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाषा इति यत् अयम् वाहः ऊठ् इति ऊठम् शास्ति । तस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् । तस्य एतस्य लक्षणस्य दोषः पूर्वपदोत्तरपदयोः वृद्धिस्वरौ एकादेशात् अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः । पूर्वैषुकामशमः अपरैषुकामशमः गुडोदकम् तिलोदकम् । उदके अकेवले इति पूर्वोत्तरपदयोः व्यपवर्गाभावात् न स्यात् । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति पूर्वोत्तरपदयोः तावत् कार्यम् भवति न एकादेशः इति यत् अयम् न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । इन्द्रे द्वौ अचौ । तत्र एकः यस्य ईति च इति लोपेन ह्रियते अपरः एकादेशेन । ततः अनच्कः इन्द्रः सम्पन्नः । तत्र कः प्रसङ्गः वृद्धेः । पश्यति तु आचार्यः पूर्वपदोत्तरपद्योः तावत्कार्यम् भवति न एकादेशः इति ततः न इन्द्रस्य परस्य इति प्रतिषेधम् शास्ति । यणादेशात् इयुवौ । यणादेशात् इयुवौ अन्तरङ्गतः अभिनिर्वृत्तात् न प्राप्नुतः । वैयाकरणः सौवश्वः इति । लक्षणम् हि भवति य्वोः वृद्धिप्रसङ्गे इयुवौ भवतः इति । न एषः दोषः । अनवकाशौ इयुवौ । अचि इति उच्यते । किम् पुनः कारणम् अचि ति उच्यते । इह मा भूताम् । ऐतिकायनः औपगवः इति । स्ताम् अत्र इयुवौ लोपः व्योः वलि इति लोपः भविष्यति । यत्र तर्हि लोपः न अस्ति । प्रैयमेधः प्रैयम्गवः इति । उसि पररूपात् च । उसि पररूपात् च अन्तरङ्गतः अभिनिर्वृत्तात् इयादेशः न प्राप्नोति । पचेयुः यजेयुः । न एषः दोषः । न एवम् विज्ञायते या इति एतस्य इय् भवति इति । कथम् तर्हि । यास् इति एतस्य इय् भवति इति । लुक् लोपयणयवायावेकादेशेभ्यः । लोपयणयवायावेकादेशेभ्यः लुक् बलीयान् इति वक्तव्यम् । लोपात् । गोमान् प्रियः अस्य गोमत्प्रियः यवमत्प्रियः । गोमान् इव आचरति गोमत्यते यवमत्यते । यणादेशात् । ग्रामण्यः कुलम् ग्रामणिकुलम् सेनान्यः कुलम् सेनानिकुलम् । अयवायावेकादेशेभ्यः । गवे हितम् गोहितम् रायः कुलम् रैकुलम् नावः कुलम् नौकुलम् वृकाद्भयम् वृकभयम् । लुक् च प्राप्नोति एते च विधयः । परत्वात् एते विधयः स्युः । लुक् बलीयान् इति वक्तव्यम् लुक् यथा स्यात् ।
KA I,309.23-311.11 Ro II,335-339 yadi santi prayojanāni iti eṣā paribhāṣā kriyate nanu ca iyam api kartavyā asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . kim prayojanam . pacāvedam pacāmedam . asiddhatvāt bahiraṅgalakṣaṇasya guṇasya antaraṇgalakṣaṇam aitvam mā bhūt iti . ubhe tarhi kartavye . na iti āha . anayā eva siddham . iha api syonaḥ syonā iti asiddhatvāt bahiraṅgalakṣaṇasya guṇasya antaraṅgalakṣaṇaḥ yaṇādeśo bhaviṣyati . yadi asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti ucyate akṣadyūḥ hiraṇyadyūḥ asiddhatvāt asiddhatvāt bahiraṅgalakṣaṇasya ūṭhaḥ antaraṅgalakṣaṇaḥ yaṇādeśaḥ na prāpnoti . na eṣaḥ doṣaḥ . asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti uktvā tataḥ vakṣyāmi na ajānantarye bahiṣṭvaprakḷptiḥ iti . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam ṣatvatukoḥ asiddhaḥ iti āha . iyam tarhi paribhāṣā kartavyā asiddham bahiraṅgalakṣaṇamantaraṅgalakṣaṇe iti . eṣā ca na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣā iti yat ayam vāhaḥ ūṭh iti ūṭham śāsti . tasya doṣaḥ pūrvapadottarapadayoḥ vṛddhisvarau ekādeśāt . tasya etasya lakṣaṇasya doṣaḥ pūrvapadottarapadayoḥ vṛddhisvarau ekādeśāt antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ . pūrvaiṣukāmaśamaḥ aparaiṣukāmaśamaḥ guḍodakam tilodakam . udake akevale iti pūrvottarapadayoḥ vyapavargābhāvāt na syāt . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati pūrvottarapadayoḥ tāvat kāryam bhavati na ekādeśaḥ iti yat ayam na indrasya parasya iti pratiṣedham śāsti . katham kṛtvā jñāpakam . indre dvau acau . tatra ekaḥ yasya īti ca iti lopena hriyate aparaḥ ekādeśena . tataḥ anackaḥ indraḥ sampannaḥ . tatra kaḥ prasaṅgaḥ vṛddheḥ . paśyati tu ācāryaḥ pūrvapadottarapadyoḥ tāvatkāryam bhavati na ekādeśaḥ iti tataḥ na indrasya parasya iti pratiṣedham śāsti . yaṇādeśāt iyuvau . yaṇādeśāt iyuvau antaraṅgataḥ abhinirvṛttāt na prāpnutaḥ . vaiyākaraṇaḥ sauvaśvaḥ iti . lakṣaṇam hi bhavati yvoḥ vṛddhiprasaṅge iyuvau bhavataḥ iti . na eṣaḥ doṣaḥ . anavakāśau iyuvau . aci iti ucyate . kim punaḥ kāraṇam aci ti ucyate . iha mā bhūtām . aitikāyanaḥ aupagavaḥ iti . stām atra iyuvau lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati . yatra tarhi lopaḥ na asti . praiyamedhaḥ praiyamgavaḥ iti . usi pararūpāt ca . usi pararūpāt ca antaraṅgataḥ abhinirvṛttāt iyādeśaḥ na prāpnoti . paceyuḥ yajeyuḥ . na eṣaḥ doṣaḥ . na evam vijñāyate yā iti etasya iy bhavati iti . katham tarhi . yās iti etasya iy bhavati iti . luk lopayaṇayavāyāvekādeśebhyaḥ . lopayaṇayavāyāvekādeśebhyaḥ luk balīyān iti vaktavyam . lopāt . gomān priyaḥ asya gomatpriyaḥ yavamatpriyaḥ . gomān iva ācarati gomatyate yavamatyate . yaṇādeśāt . grāmaṇyaḥ kulam grāmaṇikulam senānyaḥ kulam senānikulam . ayavāyāvekādeśebhyaḥ . gave hitam gohitam rāyaḥ kulam raikulam nāvaḥ kulam naukulam vṛkādbhayam vṛkabhayam . luk ca prāpnoti ete ca vidhayaḥ . paratvāt ete vidhayaḥ syuḥ . luk balīyān iti vaktavyam luk yathā syāt .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१२।२-३१३।२३ रो इइ,३४०-३४४ यू इति किमर्थम् । खट्वा माला । किम् च स्यात् । खट्वाबन्धुः मालाबन्धुः । नदी बन्धुनि इति एषः स्वरः प्रसज्येत । इह च बहुखट्वकः इति नद्यृतः च इति नित्यः कप् प्रसज्येत । न एषः दोषः । आचार्यप्रवृत्तिः ज्ञापयति न आपः नदीसञ्ज्ञा भवति इति यत् अयम् ङेः आम् नद्याम्नीभ्यः इति पृथक् आब्ग्रहणम् करोति । इह तर्हि मात्रे मातुः इति आट् नद्याः इति आट् प्रसज्येत । किम् पुनः इदम् दीर्घयोः ग्रहणम् आहोस्विद् ह्रस्वयोः । किम् चातः । यदि दीर्घयोः ग्रहणम् यू इति निर्देशः न उपपद्यते । दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते । उत्तरत्र च विशेषणम् न प्रकल्पेत यू ह्रस्वौ इति । यदि यू न ह्रस्वौ । अथ ह्रस्वौ न यू । यू ह्रस्वौ चेति विप्रतिषिद्धम् । अथ ह्रस्वयोः हे शकटे अत्र अपि प्रसज्येत । न एषः दोषः । अवश्यम् अत्र विभाषा नदीसञ्ज्ञा एषितव्या । उभयम् हि इष्यते : हे शकटि हे शकटे इति । इह तर्हि शकटिबन्धुः इति नदी बन्धुनि इति एषः स्वरः प्रसज्येत । इह च बहुशकटिः इति नद्यृतः चेति नित्यः कप् प्रसज्येत । न एषः दोषः । ङिति ह्रस्वः च इति अयम् नियमार्थः भविष्यति । ङिति एव यू ह्रस्वौ नदीसञ्ज्ञौ भवतः न न्यत्र इति । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । नित्या नदीसञ्ज्ञा प्राप्ता सा विभाषा विधेया । तत्र अपूर्वः विधिः अस्तु नियमः अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । अथ अयम् नित्यः योगः स्यात् प्रकल्पेत नियमः । बाढम् प्रकल्पेत । नित्यः तर्थि भविष्यति । तत् कथम् । योगविभागः करिष्यते । इदम् अस्ति । यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि । ततः ङिति । ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः । ततः ह्रस्वौ । ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः । इयङुवङ्स्थानौ वा न इति च निवृत्तम् । यदि एवम् शकटये अत्र गुणः न प्राप्नोति । द्वितीयः योगविभागः करिष्यते । शेषग्रहणम् न करिष्यते । कथम् । इदम् अस्ति । यू स्त्र्याख्यौ नदी न इयङुवङ्स्थानौ अस्त्री वामि । ततः ङिति । ङिति च इयङुवङ्स्थानौ यू वा अस्त्री नदीसञ्ज्ञौ न भवतः । ततः ह्रस्वौ । ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः । ततः ह्रस्वौ । ह्रस्वौ च यू स्त्र्याख्यौ ङिति नदीसञ्ज्ञौ भवतः । इयङुवङ्स्थानौ वा न इति च निवृत्तम् । ततः घि । घिसञ्ज्ञौ च भवतः स्त्र्याख्यौ यू ह्रस्वौ ङिति । ततः असखि । सखिवर्जितौ च यू ह्रस्वौ घिसञ्ज्ञौ भवतः । स्त्र्याख्यौ ङिति इति च निवृत्तम् । यदि तर्हि शेषग्रहणम् न क्रियते न अर्थः एकेन अपि योगविभागेन । अविशेषेण नदीसञ्ज्ञा उत्सर्गः । तस्याः ह्रस्वयोः घिसञ्ज्ञा बाधिका । तस्याम् नित्यायाम् प्राप्तायाम् ङिति विभाषा आरभ्यते । अथ वा पुनः अस्तु दीर्घयोः । ननु च उक्तम् निर्देशः न उपपद्यते । दीर्घात् हि पूर्वसवर्णः प्रतिषिध्यते । वा छन्दसि इति एवम् भविष्यति । छन्दसि इति उच्यते न च इदम् छन्दः । छन्दोवत् सूत्राणि भवन्ति इति । यत् अपि उच्यते उत्तरत्र विशेषेणम् न प्रकल्पेत यू ह्रस्वौ इति । यदि यू न ह्रस्वौ अथ ह्रस्वौ न यू । यू ह्रस्वौ इति विप्रतिषिद्धम् इति । न एतत् विप्रतिषिद्धम् । आह अयम् यू ह्रस्वौ इति । यदि यू न ह्रस्वौ । अथ ह्रस्वौ न यू । ते एवम् विज्ञास्यामः य्वोः यौ ह्रस्वौ इति । कौ च य्वोः ह्रस्वौ । सवर्णौ । अथ स्त्र्याख्यौ इति कः अयम् शब्दः । स्त्रियम् आचक्षाते स्त्र्याख्यौ । यदि एवम् स्त्र्याख्यायौ इति प्राप्नोति । अनुपसर्गे हि कः विधीयते । न तर्हि इदानीम् इदम् भवति यस्मिन् दश सहस्राणि पुत्रे जाते गवाम् ददौ । ब्राह्मणेभ्यः प्रियाख्येभ्यः सः अयम् उञ्छेन जीवति । छन्दोवत् कवयः कुर्वन्ति । न हि एषा इष्टिः । एवम् तर्हि कर्मसाधनः भविष्यति : स्त्रियाम् आख्यायेते स्त्र्याख्यौ । यदि कर्मसाधनः कृत्स्त्रियाः धातुस्त्रियाः च न सिध्यति
KA I,312.2-313.23 Ro II,340-344 yū iti kimartham . khaṭvā mālā . kim ca syāt . khaṭvābandhuḥ mālābandhuḥ . nadī bandhuni iti eṣaḥ svaraḥ prasajyeta . iha ca bahukhaṭvakaḥ iti nadyṛtaḥ ca iti nityaḥ kap prasajyeta . na eṣaḥ doṣaḥ . ācāryapravṛttiḥ jñāpayati na āpaḥ nadīsañjñā bhavati iti yat ayam ṅeḥ ām nadyāmnībhyaḥ iti pṛthak ābgrahaṇam karoti . iha tarhi mātre mātuḥ iti āṭ nadyāḥ iti āṭ prasajyeta . kim punaḥ idam dīrghayoḥ grahaṇam āhosvid hrasvayoḥ . kim cātaḥ . yadi dīrghayoḥ grahaṇam yū iti nirdeśaḥ na upapadyate . dīrghāt hi pūrvasavarṇaḥ pratiṣidhyate . uttaratra ca viśeṣaṇam na prakalpeta yū hrasvau iti . yadi yū na hrasvau . atha hrasvau na yū . yū hrasvau ceti vipratiṣiddham . atha hrasvayoḥ he śakaṭe atra api prasajyeta . na eṣaḥ doṣaḥ . avaśyam atra vibhāṣā nadīsañjñā eṣitavyā . ubhayam hi iṣyate : he śakaṭi he śakaṭe iti . iha tarhi śakaṭibandhuḥ iti nadī bandhuni iti eṣaḥ svaraḥ prasajyeta . iha ca bahuśakaṭiḥ iti nadyṛtaḥ ceti nityaḥ kap prasajyeta . na eṣaḥ doṣaḥ . ṅiti hrasvaḥ ca iti ayam niyamārthaḥ bhaviṣyati . ṅiti eva yū hrasvau nadīsañjñau bhavataḥ na nyatra iti . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . nityā nadīsañjñā prāptā sā vibhāṣā vidheyā . tatra apūrvaḥ vidhiḥ astu niyamaḥ astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . atha ayam nityaḥ yogaḥ syāt prakalpeta niyamaḥ . bāḍham prakalpeta . nityaḥ tarthi bhaviṣyati | tat katham . yogavibhāgaḥ kariṣyate . idam asti . yū stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi . tataḥ ṅiti . ṅiti ca iyaṅuvaṅsthānau yū vā astrī nadīsañjñau na bhavataḥ . tataḥ hrasvau . hrasvau ca yū stryākhyau ṅiti nadīsañjñau bhavataḥ . iyaṅuvaṅsthānau vā na iti ca nivṛttam . yadi evam śakaṭaye atra guṇaḥ na prāpnoti . dvitīyaḥ yogavibhāgaḥ kariṣyate . śeṣagrahaṇam na kariṣyate . katham . idam asti . yū stryākhyau nadī na iyaṅuvaṅsthānau astrī vāmi . tataḥ ṅiti . ṅiti ca iyaṅuvaṅsthānau yū vā astrī nadīsañjñau na bhavataḥ . tataḥ hrasvau . hrasvau ca yū stryākhyau ṅiti nadīsañjñau bhavataḥ . tataḥ hrasvau . hrasvau ca yū stryākhyau ṅiti nadīsañjñau bhavataḥ . iyaṅuvaṅsthānau vā na iti ca nivṛttam . tataḥ ghi . ghisañjñau ca bhavataḥ stryākhyau yū hrasvau ṅiti . tataḥ asakhi . sakhivarjitau ca yū hrasvau ghisañjñau bhavataḥ . stryākhyau ṅiti iti ca nivṛttam . yadi tarhi śeṣagrahaṇam na kriyate na arthaḥ ekena api yogavibhāgena . aviśeṣeṇa nadīsañjñā utsargaḥ . tasyāḥ hrasvayoḥ ghisañjñā bādhikā . tasyām nityāyām prāptāyām ṅiti vibhāṣā ārabhyate . atha vā punaḥ astu dīrghayoḥ . nanu ca uktam nirdeśaḥ na upapadyate . dīrghāt hi pūrvasavarṇaḥ pratiṣidhyate . vā chandasi iti evam bhaviṣyati . chandasi iti ucyate na ca idam chandaḥ . chandovat sūtrāṇi bhavanti iti . yat api ucyate uttaratra viśeṣeṇam na prakalpeta yū hrasvau iti . yadi yū na hrasvau atha hrasvau na yū . yū hrasvau iti vipratiṣiddham iti . na etat vipratiṣiddham . āha ayam yū hrasvau iti . yadi yū na hrasvau . atha hrasvau na yū . te evam vijñāsyāmaḥ yvoḥ yau hrasvau iti . kau ca yvoḥ hrasvau . savarṇau . atha stryākhyau iti kaḥ ayam śabdaḥ . striyam ācakṣāte stryākhyau . yadi evam stryākhyāyau iti prāpnoti . anupasarge hi kaḥ vidhīyate . na tarhi idānīm idam bhavati yasmin daśa sahasrāṇi putre jāte gavām dadau . brāhmaṇebhyaḥ priyākhyebhyaḥ saḥ ayam uñchena jīvati . chandovat kavayaḥ kurvanti . na hi eṣā iṣṭiḥ . evam tarhi karmasādhanaḥ bhaviṣyati : striyām ākhyāyete stryākhyau . yadi karmasādhanaḥ kṛtstriyāḥ dhātustriyāḥ ca na sidhyati
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१३।२३-३१५।३ रो इइ,३४५-३४९ अथ आख्याग्रहणम् किमर्थम् । नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् । नदीसञ्ज्ञायाम् आख्याग्रहणम् स्त्रीविषयार्थम् । स्त्रीविषयौ एव यौ नित्यम् तयोः एव नदीसञ्ज्ञा यथा स्यात् । इह मा भूत् ग्रामण्ये सेनान्ये स्त्रियै इति । प्रथमलिङ्गग्रहणम् च । प्रथमलिङ्गग्रहणम् च कर्तव्यम् । प्रथमलिङ्गे यौ स्त्र्याखौ इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् क्विब्लुप्समासाः । कुमार्यै ब्राह्मणाय । लुप् । खरकुट्यै ब्राह्मणाय । अतितन्त्र्यै ब्राह्मणाय अतिलक्ष्म्यै ब्राह्मणाय । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अवयवस्त्रीविषयत्वात् सिद्धम् । अवयवः अत्र स्त्रीविषयः तदाश्रया नदीसञ्ज्ञा भविष्यति । अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानप्रतिषेधप्रसङ्गः अवयवस्य इयङुवङ्स्थानत्वात् । अवयवस्त्रीविषयत्वात् सिद्धम् इति चेत् इयङुवङ्स्थानप्रतिषेधे यण्स्थानयोः अपि य्वोः प्रतिषेधः प्रसज्येत । आध्यै प्रध्यै ब्राह्मण्यै । किम् कारणम् । अवयवस्य इयङुवङ्स्थानत्वात् । अवयवः अत्र इयङुवङ्स्थानः । सिद्धम् त्वङ्गरूपग्रहणात् यस्य अङ्गस्य इयुवौ तत्प्रतिषेधात् । सिद्धम् एतत् । कथम् । अङ्गरूपम् गृह्यते । यस्य अङ्गस्य इयुवौ भवतः तस्य इदम् ग्रहणम् । न च एतस्य अङ्गस्य इयुवौ भवतः । ह्रस्वेयुव्स्थानप्रवृत्तौ च स्त्रीवचने । ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् । शकट्यै अतिशकट्यै ब्रामणाण्यै । क्व मा भूत् । शकटये अतिशकटये ब्राह्मणाय । धेन्वै अतिधेन्वै ब्राह्मण्यै । क्व मा भूत् । धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत् । श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत् । भ्रुवे अतिभ्रुवे ब्राह्मणाय । अपरः आह : ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ अपि स्त्रीवचनौ एव नदीसञ्ज्ञौ भवतः इति वक्तव्यम् : शकट्यै , अतिशकट्यै ब्रामणाण्यै । क्व मा भूत् । शकटये अतिशकटये ब्राह्मणाय । धेन्वै अतिधेन्वै ब्राह्मण्यै । क्व मा भूत् । धेनवे अतिधेनवे ब्राह्मणाय । श्रियै अतिश्रियै ब्राह्मण्यै । क्व मा भूत् । श्रिये अतिश्रिये ब्राह्मणाय । भ्रुवै अतिभ्रुवै ब्राह्मण्यै । क्व मा भूत् । भ्रुवे अतिभ्रुवे ब्राह्मणाय । किमर्थम् पुनः इदम् उच्यते । प्रथमलिङ्गग्रहणम् चोदितम् । तत् द्वेष्यम् विजानीयात् : सर्वम् एतत् विकल्पते इति । तत् आचार्यः सुहृत् भूत्वा अन्वाचष्टे ह्रस्वौ च इयुव्स्थानौ च प्रवृत्तौ च प्राक् च प्रवृत्तेः स्त्रीवचनौ एव इति ।
KA I,313.23-315.3 Ro II,345-349 atha ākhyāgrahaṇam kimartham . nadīsañjñāyām ākhyāgrahaṇam strīviṣayārtham . nadīsañjñāyām ākhyāgrahaṇam strīviṣayārtham . strīviṣayau eva yau nityam tayoḥ eva nadīsañjñā yathā syāt . iha mā bhūt grāmaṇye senānye striyai iti . prathamaliṅgagrahaṇam ca . prathamaliṅgagrahaṇam ca kartavyam . prathamaliṅge yau stryākhau iti vaktavyam . kim prayojanam . prayojanam kviblupsamāsāḥ . kumāryai brāhmaṇāya . lup . kharakuṭyai brāhmaṇāya . atitantryai brāhmaṇāya atilakṣmyai brāhmaṇāya . tat tarhi vaktavyam . na vaktavyam . avayavastrīviṣayatvāt siddham . avayavaḥ atra strīviṣayaḥ tadāśrayā nadīsañjñā bhaviṣyati . avayavastrīviṣayatvāt siddham iti cet iyaṅuvaṅsthānapratiṣedhe yaṇsthānapratiṣedhaprasaṅgaḥ avayavasya iyaṅuvaṅsthānatvāt . avayavastrīviṣayatvāt siddham iti cet iyaṅuvaṅsthānapratiṣedhe yaṇsthānayoḥ api yvoḥ pratiṣedhaḥ prasajyeta . ādhyai pradhyai brāhmaṇyai . kim kāraṇam . avayavasya iyaṅuvaṅsthānatvāt . avayavaḥ atra iyaṅuvaṅsthānaḥ . siddham tvaṅgarūpagrahaṇāt yasya aṅgasya iyuvau tatpratiṣedhāt . siddham etat . katham . aṅgarūpam gṛhyate . yasya aṅgasya iyuvau bhavataḥ tasya idam grahaṇam . na ca etasya aṅgasya iyuvau bhavataḥ . hrasveyuvsthānapravṛttau ca strīvacane . hrasvau ca iyuvsthānau ca pravṛttau ca prāk ca pravṛtteḥ strīvacanau eva nadīsañjñau bhavataḥ iti vaktavyam . śakaṭyai atiśakaṭyai brāmaṇāṇyai . kva mā bhūt . śakaṭaye atiśakaṭaye brāhmaṇāya . dhenvai atidhenvai brāhmaṇyai . kva mā bhūt . dhenave atidhenave brāhmaṇāya . śriyai atiśriyai brāhmaṇyai . kva mā bhūt . śriye atiśriye brāhmaṇāya . bhruvai atibhruvai brāhmaṇyai . kva mā bhūt . bhruve atibhruve brāhmaṇāya . aparaḥ āha : hrasvau ca iyuvsthānau ca pravṛttau api strīvacanau eva nadīsañjñau bhavataḥ iti vaktavyam : śakaṭyai , atiśakaṭyai brāmaṇāṇyai . kva mā bhūt . śakaṭaye atiśakaṭaye brāhmaṇāya . dhenvai atidhenvai brāhmaṇyai . kva mā bhūt . dhenave atidhenave brāhmaṇāya . śriyai atiśriyai brāhmaṇyai . kva mā bhūt . śriye atiśriye brāhmaṇāya . bhruvai atibhruvai brāhmaṇyai . kva mā bhūt . bhruve atibhruve brāhmaṇāya . kimartham punaḥ idam ucyate . prathamaliṅgagrahaṇam coditam . tat dveṣyam vijānīyāt : sarvam etat vikalpate iti . tat ācāryaḥ suhṛt bhūtvā anvācaṣṭe hrasvau ca iyuvsthānau ca pravṛttau ca prāk ca pravṛtteḥ strīvacanau eva iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१५।५-१५ रो इइ,३४९-३५० योगविभागः कर्तव्यः । षष्थीयुक्तः छन्दसि । षष्थीयुक्तः पतिशब्दः छन्दसि घिसञ्ज्ञः भवति । ततः वा । वा छन्दसि सर्वे विधयो भवति । सुपाम् व्यत्ययः । तिङाम् व्यत्ययः । वर्णव्यत्ययः । लिङ्गव्यत्ययः । कालव्यत्ययः । पुरुषव्यत्ययः । आत्मनेपदव्यत्ययः । परस्मैपदव्यत्ययः । सुपाम् व्यत्ययः । युक्त मात असीत् धुरि दक्षिणायाः । दक्षिणायाम् इति प्राप्ते । तिङाम् व्यत्ययः । चषलम् ये अश्वयूपय तक्षति । तक्षन्ति इति प्राप्ते । वर्णव्यत्ययः । त्रिष्टुभौजः शुभितम् उग्रवीरम् । सुहितमिति प्राप्ते । लिङ्गव्यत्ययः । मधोः गृह्णाति मधोः तृप्ताः इव आसते । मधुनः इति प्राप्ते । कालव्यत्ययः । श्वः अग्नीन् आधास्यमानेन श्वः सोमेन यक्षमाणेन । श्वः आधाता श्वः यष्टा इति प्राप्ते । पुरुषव्यत्ययः । अधा सः वीरैः दशभिः वियूयाः । वियूयात् इति प्राप्ते । आत्मनेपदव्यत्ययः । ब्रह्मचारिणम् इच्छते । इच्छति इति प्राप्ते । परस्मैपदव्यत्ययः । प्रतीपम् अन्यः ऊर्मिः युध्यति । अन्वीपम् अन्यः ऊर्मिः युध्यति । युध्यते इति प्राप्ते ।
KA I,315.5-15 Ro II,349-350 yogavibhāgaḥ kartavyaḥ . ṣaṣthīyuktaḥ chandasi . ṣaṣthīyuktaḥ patiśabdaḥ chandasi ghisañjñaḥ bhavati . tataḥ vā . vā chandasi sarve vidhayo bhavati . supām vyatyayaḥ . tiṅām vyatyayaḥ . varṇavyatyayaḥ . liṅgavyatyayaḥ . kālavyatyayaḥ . puruṣavyatyayaḥ . ātmanepadavyatyayaḥ . parasmaipadavyatyayaḥ . supām vyatyayaḥ . yukta māta asīt dhuri dakṣiṇāyāḥ . dakṣiṇāyām iti prāpte . tiṅām vyatyayaḥ . caṣalam ye aśvayūpaya takṣati . takṣanti iti prāpte . varṇavyatyayaḥ . triṣṭubhaujaḥ śubhitam ugravīram . suhitamiti prāpte . liṅgavyatyayaḥ . madhoḥ gṛhṇāti madhoḥ tṛptāḥ iva āsate . madhunaḥ iti prāpte . kālavyatyayaḥ . śvaḥ agnīn ādhāsyamānena śvaḥ somena yakṣamāṇena . śvaḥ ādhātā śvaḥ yaṣṭā iti prāpte . puruṣavyatyayaḥ . adhā saḥ vīraiḥ daśabhiḥ viyūyāḥ . viyūyāt iti prāpte . ātmanepadavyatyayaḥ . brahmacāriṇam icchate . icchati iti prāpte . parasmaipadavyatyayaḥ . pratīpam anyaḥ ūrmiḥ yudhyati | anvīpam anyaḥ ūrmiḥ yudhyati . yudhyate iti prāpte .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१५।१७-३१७।४ रो इइ,३५१-३५६ यस्मात् इति व्यपदेशाय । अथ प्रत्ययग्रहणम् किमर्थम् । यस्मात् विधिः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने स्त्री इयती स्त्रीयति इति अत्र अपि प्रसज्येत । प्रत्ययग्रहणे पुनः क्रियमाणे न दोषः भवति । अथ विधिग्रहणम् किमर्थम् । यस्मात् प्रत्ययः तदादि प्रत्यये अङ्गम् इति इयति उच्यमाने दधि अधुना मधु अधुना अत्रापि प्रसज्येत । विधिग्रहणेण पुनः क्रियमाणे न दोषः भवति । तत् एतत् प्रत्ययग्रहणेन विधिग्रहणेन च समुदितेन क्रियते सन्नियोगः । यस्मात् यः प्रत्ययः विधीयते तदादि तस्मिन् अङ्गसञ्ज्ञम् भवति इति । अथ तदादिग्रहणम् किमर्थम् । अङ्गसञ्ज्ञायाम् तदादिवचनम् स्यादिनुमर्थम् । अङ्गसञ्ज्ञायाम् तदादिग्रहणम् क्रियते स्याद्यर्थम् नुमर्थम् च । स्याद्यर्थम् तावत् । करिष्यावः करिष्यामः । नुमर्थम् । कुण्डानि वनानि । मित्सुटोः उपसम्ख्यानम् । मित्वतः सुड्वतः च पसम्ख्यानम् कर्तव्यम् । मित्वतः । भिनत्ति छिनत्ति अभिनत् अच्छिनत् । सुड्वतः । सञ्चरकस्तु सञ्चस्करुः । किम् पुनः कारणम् न सिध्यति । सुटः बहिरङ्गत्वात् । बहिरङ्गः सुट् । अन्तरङ्गः गुणः । असिद्धम् बहिरङ्गम् अन्तरङ्गे । वक्ष्यति एतत् संयोगादेः गुणविधाने संयोगोपधग्रहणम् कृञर्थम् । यदि संयोगोपधग्रहणम् क्रियते न अर्थः संयोगादिग्रहणेन । इह अपि सस्वरतुः सस्वरुः इति संयोगोपधस्य इति एव सिद्धम् । भवेत् एवमर्थेन न अर्थः । इदम् तु न सिध्यति सञ्चकरतुः सञ्चस्करुः । किम् पुनः कारणम् न सिध्यति । इह तस्य वा ग्रहणम् भवति तदादेः वा न चेदम् तत् न अपि तदादि । सिद्धम् तु तदाद्यादिवचनात् । सिद्धम् एतत् । कथम् । तदाद्यादि अङ्गसञ्ज्ञम् भवति इति वक्तव्यम् । किम् इदम् तदाद्यादि इति । तस्य आदिः तदादिः , तदादिः आदिः यस्य तदिदम् तदाद्यादि इति । सः तर्हि तथा निर्देशः कर्तव्यः । न कर्तव्यः । उत्तरपदलोपः अत्र द्रष्टव्यः । तत् यथा : उष्ट्रमुखम् इव मुखम् अस्य उष्ट्रमुखः , खरमुखः , एवम् तदाद्यादि तदादि इति । तदेकदेशविज्ञानात् वा सिद्धम् । तदेकदेशविज्ञानात् वा सिद्धम् एतत् । तदेकदेशभूतम् तद्ग्रहणेन गृह्यते। तद् यथा । गङ्गा यमुना देवदत्ता इति । अनेका नदी गङ्गाम् यमुनाम् च प्रविष्टा गङ्गायमुनाग्रहणेन गृह्यते । तथा देवदत्तास्थः गर्भः देवदत्ताग्रहणेन गृह्यते । विषमः उपन्यासः । इह के चित् शब्दाः अक्तपरिमाणानाम् अर्थानाम् वाचकाः भवन्ति ये एते सङ्ख्याशब्दाः परिमाणशब्दाः च । पञ्च सप्त इति : एकेन अपि अपाये न भवन्ति । द्रोणः खारी आढकम् इति : नैवा अधिके भवन्ति न च न्यूने । के चित् यावत् एव तत् भवति तावत् एव आहुः ये एते जातिशब्दाः गुणशब्दाः च । तैलम् घृतम् इति : खार्याम् अपि भवन्ति द्रोणे अपि । शुक्लः नीलः कृष्णः इति : हिमवति अपि भवति वटकणिकामात्रे अपि द्रव्ये । अङ्गसञ्ज्ञा च अपि अक्तपरिमाणानाम् क्रियते । सा केन अधिकस्य स्यात् । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति यत् अयम् न इदमदसोः अकोः इति सककारयोः प्रतिषेधम् शास्ति । कथम् कृत्वा ज्ञापकम् । इदमदसोः कार्यम् उच्यमानम् कः प्रसङ्गो यत् सककारयोः स्यात् । पश्यति तु आचार्यः तदेकदेशभूतम् तद्ग्रहणेन गृह्यते इति ततः सककारयोः प्रतिषेधम् शास्ति ।
KA I,315.17-317.4 Ro II,351-356 yasmāt iti vyapadeśāya . atha pratyayagrahaṇam kimartham . yasmāt vidhiḥ tadādi pratyaye aṅgam iti iyati ucyamāne strī iyatī strīyati iti atra api prasajyeta . pratyayagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . atha vidhigrahaṇam kimartham . yasmāt pratyayaḥ tadādi pratyaye aṅgam iti iyati ucyamāne dadhi adhunā madhu adhunā atrāpi prasajyeta . vidhigrahaṇeṇa punaḥ kriyamāṇe na doṣaḥ bhavati . tat etat pratyayagrahaṇena vidhigrahaṇena ca samuditena kriyate sanniyogaḥ . yasmāt yaḥ pratyayaḥ vidhīyate tadādi tasmin aṅgasañjñam bhavati iti . atha tadādigrahaṇam kimartham . aṅgasañjñāyām tadādivacanam syādinumartham . aṅgasañjñāyām tadādigrahaṇam kriyate syādyartham numartham ca . syādyartham tāvat . kariṣyāvaḥ kariṣyāmaḥ . numartham . kuṇḍāni vanāni . mitsuṭoḥ upasamkhyānam . mitvataḥ suḍvataḥ ca pasamkhyānam kartavyam . mitvataḥ . bhinatti chinatti abhinat acchinat . suḍvataḥ . sañcarakastu sañcaskaruḥ . kim punaḥ kāraṇam na sidhyati . suṭaḥ bahiraṅgatvāt . bahiraṅgaḥ suṭ . antaraṅgaḥ guṇaḥ . asiddham bahiraṅgam antaraṅge . vakṣyati etat saṃyogādeḥ guṇavidhāne saṃyogopadhagrahaṇam kṛñartham . yadi saṃyogopadhagrahaṇam kriyate na arthaḥ saṃyogādigrahaṇena . iha api sasvaratuḥ sasvaruḥ iti saṃyogopadhasya iti eva siddham . bhavet evamarthena na arthaḥ . idam tu na sidhyati sañcakaratuḥ sañcaskaruḥ . kim punaḥ kāraṇam na sidhyati . iha tasya vā grahaṇam bhavati tadādeḥ vā na cedam tat na api tadādi . siddham tu tadādyādivacanāt . siddham etat . katham . tadādyādi aṅgasañjñam bhavati iti vaktavyam . kim idam tadādyādi iti . tasya ādiḥ tadādiḥ , tadādiḥ ādiḥ yasya tadidam tadādyādi iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na kartavyaḥ . uttarapadalopaḥ atra draṣṭavyaḥ . tat yathā : uṣṭramukham iva mukham asya uṣṭramukhaḥ , kharamukhaḥ , evam tadādyādi tadādi iti . tadekadeśavijñānāt vā siddham . tadekadeśavijñānāt vā siddham etat . tadekadeśabhūtam tadgrahaṇena gṛhyate. tad yathā . gaṅgā yamunā devadattā iti . anekā nadī gaṅgām yamunām ca praviṣṭā gaṅgāyamunāgrahaṇena gṛhyate . tathā devadattāsthaḥ garbhaḥ devadattāgrahaṇena gṛhyate . viṣamaḥ upanyāsaḥ . iha ke cit śabdāḥ aktaparimāṇānām arthānām vācakāḥ bhavanti ye ete saṅkhyāśabdāḥ parimāṇaśabdāḥ ca . pañca sapta iti : ekena api apāye na bhavanti . droṇaḥ khārī āḍhakam iti : naivā adhike bhavanti na ca nyūne . ke cit yāvat eva tat bhavati tāvat eva āhuḥ ye ete jātiśabdāḥ guṇaśabdāḥ ca . tailam ghṛtam iti : khāryām api bhavanti droṇe api . śuklaḥ nīlaḥ kṛṣṇaḥ iti : himavati api bhavati vaṭakaṇikāmātre api dravye . aṅgasañjñā ca api aktaparimāṇānām kriyate . sā kena adhikasya syāt . evam tarhi ācāryapravṛttiḥ jñāpayati tadekadeśabhūtam tadgrahaṇena gṛhyate iti yat ayam na idamadasoḥ akoḥ iti sakakārayoḥ pratiṣedham śāsti . katham kṛtvā jñāpakam . idamadasoḥ kāryam ucyamānam kaḥ prasaṅgo yat sakakārayoḥ syāt . paśyati tu ācāryaḥ tadekadeśabhūtam tadgrahaṇena gṛhyate iti tataḥ sakakārayoḥ pratiṣedham śāsti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१७।५-३१८।४ रो इइ,३५६-३५९ अथ द्वितीयम् प्रत्ययग्रहणम् किमर्थम् । प्रत्ययग्रहणम् पदादौ अप्रसङ्गार्थम् । प्रत्ययग्रहणम् क्रियते पदादौ अङ्गसञ्ज्ञा मा भूत् इति । किम् च स्यात् । स्त्र्यर्थम् , श्र्यर्थम् , भ्वर्थम् : अङ्गस्य इति इयङुवङौ स्याताम् । परिमाणार्थम् च । परिमाणार्थम् च द्वितीयम् प्रत्ययग्रहणम् क्रियते । यस्मात् प्रत्ययविधिः तदादि अङ्गम् इति इयति उच्यमाने दाशतयस्य अपि अङ्गसञ्ज्ञा प्रसज्येत । तत् तर्हि कर्तव्यम् । न कर्तव्यम् । केन इदानीम् अङ्गकार्यम् भविष्यति । प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये । प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् उपैहिष्ट उपसर्गात् पूर्वौ अडाटौ प्राप्नुतः । सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः तदादितदन्तविज्ञानात् । सिद्धम् एतत् । कथम् । प्रत्ययग्रहणे यस्मात् सः प्रत्ययः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा परिभाषा क्रियेत प्रत्ययग्रहणम् वा । अवश्यम् एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि । प्रयोजनम् धातुप्रातिपदिकप्रत्ययसमासतद्धितविधिस्वराः । धातु । देवदत्तः चिकीर्षति । सङ्घातस्य धातुसञ्ज्ञा प्राप्नोति । प्रातिपदिक । देवदत्त्ः गार्ग्यः । सङ्घातस्य प्रातिपदिकसञ्ज्ञा प्राप्नोति । प्रत्यय । महान्तम् पुत्रम् इच्छति । सम्घातात् प्रत्ययोत्पत्तिः प्राप्नोति । समास । ऋद्धस्य राज्ञः पुरुषः । सम्घातस्य समाससञ्ज्ञा प्राप्नोति । तद्धितविधि । देवदत्तः गार्ग्यायणः । सम्घातात् तद्धितोत्पत्तिः प्राप्नोति । स्वर । देवदत्तः गार्ग्यः । सम्घात्स्य ञ्नित्यादिः नित्यम् इति आद्युदात्तत्वम् प्राप्नोति । प्रत्ययग्रहणे यस्मात् स तदादेः तदन्तस्य ग्रहणम् भवति इति न दोषः भवति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । एवम् वक्ष्यामि : यस्मात् प्रत्ययविधिः तदादि प्रत्यये गृह्यमाणे गृह्यते । ततः अङ्गम् । अङ्गसञ्ज्ञम् च भवति यस्मा त्प्रत्ययविधिः तदादि प्रत्यये ।
KA I,317.5-318.4 Ro II,356-359 atha dvitīyam pratyayagrahaṇam kimartham . pratyayagrahaṇam padādau aprasaṅgārtham . pratyayagrahaṇam kriyate padādau aṅgasañjñā mā bhūt iti . kim ca syāt . stryartham , śryartham , bhvartham : aṅgasya iti iyaṅuvaṅau syātām . parimāṇārtham ca . parimāṇārtham ca dvitīyam pratyayagrahaṇam kriyate . yasmāt pratyayavidhiḥ tadādi aṅgam iti iyati ucyamāne dāśatayasya api aṅgasañjñā prasajyeta . tat tarhi kartavyam . na kartavyam . kena idānīm aṅgakāryam bhaviṣyati . pratyaye iti prakṛtya aṅgakāryam adhyeṣye . pratyaye iti prakṛtya aṅgakāryam adhīṣe prākarot upaihiṣṭa upasargāt pūrvau aḍāṭau prāpnutaḥ . siddham tu pratyayagrahaṇe yasmāt saḥ tadāditadantavijñānāt . siddham etat . katham . pratyayagrahaṇe yasmāt saḥ pratyayaḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti eṣā paribhāṣā kartavyā . kaḥ punaḥ atra viśeṣaḥ eṣā paribhāṣā kriyeta pratyayagrahaṇam vā . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam dhātuprātipadikapratyayasamāsataddhitavidhisvarāḥ . dhātu . devadattaḥ cikīrṣati . saṅghātasya dhātusañjñā prāpnoti . prātipadika . devadattḥ gārgyaḥ . saṅghātasya prātipadikasañjñā prāpnoti . pratyaya . mahāntam putram icchati . samghātāt pratyayotpattiḥ prāpnoti . samāsa . ṛddhasya rājñaḥ puruṣaḥ . samghātasya samāsasañjñā prāpnoti . taddhitavidhi . devadattaḥ gārgyāyaṇaḥ . samghātāt taddhitotpattiḥ prāpnoti . svara . devadattaḥ gārgyaḥ . samghātsya ñnityādiḥ nityam iti ādyudāttatvam prāpnoti . pratyayagrahaṇe yasmāt sa tadādeḥ tadantasya grahaṇam bhavati iti na doṣaḥ bhavati . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . evam vakṣyāmi : yasmāt pratyayavidhiḥ tadādi pratyaye gṛhyamāṇe gṛhyate . tataḥ aṅgam . aṅgasañjñam ca bhavati yasmā tpratyayavidhiḥ tadādi pratyaye .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१८।५-१८ रो इइ,३५९-३६० यदि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उच्यते अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः न प्राप्नोति । एवम् तर्हि प्रत्ययग्रहणे यस्मात् सः तदादेः ग्रहणम् भवति इति उक्त्वा ततः वक्ष्यामि : कृद्ग्रहणे गतिकारकपूर्वस्य अपि । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति ति एषा परिभाषा कर्तव्या । कानि एतस्याः परिभाषायाः प्रयोजनानि । प्रयोजनम् समासतद्धितविधिस्वराः । समास । अवतपेनकुलस्थितम् ते एतत् उदकेविशीर्णम् ते एतत् सगतिकेन सनकुलेन च समासः सिद्धः भवति । समास । तद्धितविधि । साङ्कूटिनम् व्यावक्रोशी । सम्घातात् तद्धितोपत्तिः सिद्धा भवति । तद्धितविधि । स्वर । दूरात् आगतः दूरादागतः इति । अन्तः थाथघञ्क्ताजबित्रकाणाम् इति एषः स्वरः सिद्धः भवति । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति न दोषः भवति । सा तर्हि एषा परिभाषा कर्तव्या । न कर्तव्या । आचार्यप्रवृत्तिः ज्ञापयति भवति एषा परिभाष इति यत् अयम् गतिः अनन्तरः इति अनन्तरग्रहणम् करोति ।
KA I,318.5-18 Ro II,359-360 yadi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti ucyate avatapenakulasthitam te etat udakeviśīrṇam te etat sagatikena sanakulena ca samāsaḥ na prāpnoti . evam tarhi pratyayagrahaṇe yasmāt saḥ tadādeḥ grahaṇam bhavati iti uktvā tataḥ vakṣyāmi : kṛdgrahaṇe gatikārakapūrvasya api . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati ti eṣā paribhāṣā kartavyā . kāni etasyāḥ paribhāṣāyāḥ prayojanāni . prayojanam samāsataddhitavidhisvarāḥ . samāsa . avatapenakulasthitam te etat udakeviśīrṇam te etat sagatikena sanakulena ca samāsaḥ siddhaḥ bhavati . samāsa . taddhitavidhi . sāṅkūṭinam vyāvakrośī . samghātāt taddhitopattiḥ siddhā bhavati . taddhitavidhi . svara . dūrāt āgataḥ dūrādāgataḥ iti . antaḥ thāthaghañktājabitrakāṇām iti eṣaḥ svaraḥ siddhaḥ bhavati . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti na doṣaḥ bhavati . sā tarhi eṣā paribhāṣā kartavyā . na kartavyā . ācāryapravṛttiḥ jñāpayati bhavati eṣā paribhāṣa iti yat ayam gatiḥ anantaraḥ iti anantaragrahaṇam karoti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१८।२०-३१९।६ रो इइ,३६१-३६२ अन्तग्रहणम् किमर्थम् न सुप्तिङ् पदम् इति एव उच्यते । केन इदानीम् तदन्तानाम् भविष्यति । तदन्तविधिना । अतः उत्तरम् पठति । पदसञ्ज्ञायाम् अन्तवचनम् अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिप्रतिषेधार्थम् । पदसञ्ज्ञायाम् अन्तग्रहणम् क्रियते ज्ञापकार्थम् । किम् ज्ञाप्यम् । एतत् ज्ञापयति आचार्यः अन्यत्र सञ्ज्ञाविधौ प्रत्ययग्रहणे तदन्तविधिः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । तरप्तमौ घः । तरप्तमबन्तस्य घसञ्ज्ञा न भवति । किम् च स्यात् । कुमारी गौरितरा । घादिषु नद्याः ह्रस्वः भवति इति ह्रस्वत्वम् प्रसज्येत । यदि एतत् ज्ञाप्यते सनाद्यन्ताः धातवः इति अन्तग्रहणम् कर्तव्यम् । कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् । इदम् तृतीयम् ज्ञापकार्थम् । द्वे तावत् क्रियेते न्यासे एव । यत् अपि उच्यते कृत्तद्धितसमासाः च इति अन्तग्रहणम् कर्तव्यम् इति । न कर्तव्यम् । अर्थवत् इति वर्तते कृत्तद्धान्तम् च एव अर्थवत् न केवलाः कृतः तद्धिताः वा ।
KA I,318.20-319.6 Ro II,361-362 antagrahaṇam kimartham na suptiṅ padam iti eva ucyate . kena idānīm tadantānām bhaviṣyati . tadantavidhinā . ataḥ uttaram paṭhati . padasañjñāyām antavacanam anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhipratiṣedhārtham . padasañjñāyām antagrahaṇam kriyate jñāpakārtham . kim jñāpyam . etat jñāpayati ācāryaḥ anyatra sañjñāvidhau pratyayagrahaṇe tadantavidhiḥ na bhavati iti . kim etasya jñāpane prayojanam . taraptamau ghaḥ . taraptamabantasya ghasañjñā na bhavati . kim ca syāt . kumārī gauritarā . ghādiṣu nadyāḥ hrasvaḥ bhavati iti hrasvatvam prasajyeta . yadi etat jñāpyate sanādyantāḥ dhātavaḥ iti antagrahaṇam kartavyam . kṛttaddhitasamāsāḥ ca iti antagrahaṇam kartavyam . idam tṛtīyam jñāpakārtham . dve tāvat kriyete nyāse eva . yat api ucyate kṛttaddhitasamāsāḥ ca iti antagrahaṇam kartavyam iti . na kartavyam . arthavat iti vartate kṛttaddhāntam ca eva arthavat na kevalāḥ kṛtaḥ taddhitāḥ vā .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१९।८-९ रो इइ,३६३ किमर्थम् इदम् उच्यते न सुबन्तम् पदम् इति एव सिद्धम् । नियमार्थः अयमारम्भः । नान्तमेव क्ये पदसञ्ज्ञम् भवति न अन्यत् । क्व मा भूत् । वाच्यति स्रुच्यति ।
KA I,319.8-9 Ro II,363 kimartham idam ucyate na subantam padam iti eva siddham . niyamārthaḥ ayamārambhaḥ . nāntameva kye padasañjñam bhavati na anyat . kva mā bhūt . vācyati srucyati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३१९।११-२२ रो इइ,३६३-३६४ असर्वनामस्थाने इति उच्यते । तत्र ते राजा तक्षा असर्वनामस्थाने इति पदसञ्ज्ञायाः प्रतिषेधः प्रसज्येत । न अप्रतिषेधात् । न अयम् प्रसज्यप्रतिषेधः सर्वनामस्थाने न इति । किम् तर्हि । पर्युदासः अयम् यत् अन्यत् सर्वनामस्थानात् इति । सर्वनामस्थाने अव्यापारः । यदि केन चित्प्राप्नोति तेन भविष्यति । पूर्वेण च प्राप्नोति । अप्राप्तेः वा । अथ वा अनन्तरा या प्राप्तिः सा प्रतिषिध्यते । कुतः एतत् । अन्तरस्य विधिः वा भवति प्रतिषेधः वा इति । पूर्वा प्राप्तिः अप्रतिषिद्धा तया भविष्यति । ननु च इयम् प्राप्तिः पूर्वाम् प्राप्तिम् बाधते । न उत्सहते प्रतिषिद्धा सती बाधितुम् । अथ वा योगविभागः करिष्यते । स्वादिषु पूर्वम् पदसञ्ज्ञम् भवति । ततः सर्वनामस्थाने अयचिपूर्वम् पदसञ्ज्ञम् भवति । ततो भम् । भसञ्ज्ञम् च भवति यजादौ असर्वनामस्थाने इति । यदि तर्हि सौ अपि पदम् भवति एचः प्लुतविकारे पदान्तग्रहणम् चोदितम् इह मा भूत् भद्रम् करोषि गौः इति तस्मिन् क्रियमाणे अपि प्राप्नोति । वाक्यपदयोः अन्त्यस्य इति एवम् तत् । भुवद्वद्भ्यः धारयद्भ्यः एतयोः पदसञ्ज्ञा वक्तव्या । भुवद्वद्भ्यः धारयद्वद्भ्यः ।
KA I,319.11-22 Ro II,363-364 asarvanāmasthāne iti ucyate . tatra te rājā takṣā asarvanāmasthāne iti padasañjñāyāḥ pratiṣedhaḥ prasajyeta . na apratiṣedhāt . na ayam prasajyapratiṣedhaḥ sarvanāmasthāne na iti . kim tarhi . paryudāsaḥ ayam yat anyat sarvanāmasthānāt iti . sarvanāmasthāne avyāpāraḥ . yadi kena citprāpnoti tena bhaviṣyati . pūrveṇa ca prāpnoti . aprāpteḥ vā . atha vā anantarā yā prāptiḥ sā pratiṣidhyate . kutaḥ etat . antarasya vidhiḥ vā bhavati pratiṣedhaḥ vā iti . pūrvā prāptiḥ apratiṣiddhā tayā bhaviṣyati . nanu ca iyam prāptiḥ pūrvām prāptim bādhate . na utsahate pratiṣiddhā satī bādhitum . atha vā yogavibhāgaḥ kariṣyate . svādiṣu pūrvam padasañjñam bhavati . tataḥ sarvanāmasthāne ayacipūrvam padasañjñam bhavati . tato bham . bhasañjñam ca bhavati yajādau asarvanāmasthāne iti . yadi tarhi sau api padam bhavati ecaḥ plutavikāre padāntagrahaṇam coditam iha mā bhūt bhadram karoṣi gauḥ iti tasmin kriyamāṇe api prāpnoti . vākyapadayoḥ antyasya iti evam tat . bhuvadvadbhyaḥ dhārayadbhyaḥ etayoḥ padasañjñā vaktavyā . bhuvadvadbhyaḥ dhārayadvadbhyaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२०।२-१४ रो इइ,३६५-३६६ भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः । भसञ्ज्ञायाम् उत्तरपदलोपे षषः प्रतिषेधः वक्तव्यः । अनुकम्पितः षडड्गुलिः षडिकः । सिद्धम् अचः स्थानिवत्त्वात् । सिद्धम् एतत् । कथम् । अचः स्थानिवद्भावात् भसञ्ज्ञा न भविष्यति । इह अपि तर्हि प्राप्नोति । वागाशीर्दत्तः वाचिकः इति । वक्ष्यति एतत् : सिद्धम् एकाक्षरपूर्वपदानाम् उत्तरपदलोपवचनात् इति । इह अपि तर्हि प्राप्नोति षडड्गुलिः षडिकः इति । वक्ष्यति एतत् : षषः ठाजादिवचनात् सिद्धम् इति । नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् । नभोङ्गिरोमनुषाम् वति उपसम्ख्यानम् कर्तव्यम् । नभस्वत् अङ्गिरस्वत् मनुष्वत् । वृषण् वस्वश्वयोः । वृषण् इति एतस्य वस्वशयोः भसञ्ज्ञा वक्तव्या । वृषण्वसुः वृषणश्वस्य यत् शिरः वृषणश्वस्य मेने ।
KA I,320.2-14 Ro II,365-366 bhasañjñāyām uttarapadalope ṣaṣaḥ pratiṣedhaḥ . bhasañjñāyām uttarapadalope ṣaṣaḥ pratiṣedhaḥ vaktavyaḥ . anukampitaḥ ṣaḍaḍguliḥ ṣaḍikaḥ . siddham acaḥ sthānivattvāt . siddham etat . katham . acaḥ sthānivadbhāvāt bhasañjñā na bhaviṣyati . iha api tarhi prāpnoti . vāgāśīrdattaḥ vācikaḥ iti . vakṣyati etat : siddham ekākṣarapūrvapadānām uttarapadalopavacanāt iti . iha api tarhi prāpnoti ṣaḍaḍguliḥ ṣaḍikaḥ iti . vakṣyati etat : ṣaṣaḥ ṭhājādivacanāt siddham iti . nabhoṅgiromanuṣām vati upasamkhyānam . nabhoṅgiromanuṣām vati upasamkhyānam kartavyam . nabhasvat aṅgirasvat manuṣvat . vṛṣaṇ vasvaśvayoḥ . vṛṣaṇ iti etasya vasvaśayoḥ bhasañjñā vaktavyā . vṛṣaṇvasuḥ vṛṣaṇaśvasya yat śiraḥ vṛṣaṇaśvasya mene .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२०।१६-२१ रो इइ,३६६-३६७ अर्थग्रहणम् किमर्थम् न तसौ मतौ इति एव उच्येत । तसौ मतौ इति इयति उच्यमाने इहैव स्यात् पयस्वान् यशस्वान् । इह न स्यात् पयस्वी यशस्वी । अर्थग्रहणे पुनः क्रियमाणे मतुपि च सिद्धम् भवति यः च न्यः तेन समानार्थः तस्मिन् च । यदि अर्थग्रहणम् क्रियते पयस्वान् यशस्वान् अत्र न प्राप्नोति । किम् कारणम् । न हि मतुप् मत्वर्थे वर्तते । मतुप् अपि मत्वर्थे वर्तते । तत् यथा देवदत्तशालायाम् ब्राह्मणा आनीयन्ताम् इति उक्ते यदि देवदत्तः पि ब्राह्मणः भवति सः अपि आनीयते ।
KA I,320.16-21 Ro II,366-367 arthagrahaṇam kimartham na tasau matau iti eva ucyeta . tasau matau iti iyati ucyamāne ihaiva syāt payasvān yaśasvān . iha na syāt payasvī yaśasvī . arthagrahaṇe punaḥ kriyamāṇe matupi ca siddham bhavati yaḥ ca nyaḥ tena samānārthaḥ tasmin ca . yadi arthagrahaṇam kriyate payasvān yaśasvān atra na prāpnoti . kim kāraṇam . na hi matup matvarthe vartate . matup api matvarthe vartate . tat yathā devadattaśālāyām brāhmaṇā ānīyantām iti ukte yadi devadattaḥ pi brāhmaṇaḥ bhavati saḥ api ānīyate .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२०।२३ रो इइ,३६७ उभयसञ्ज्ञान्यपि इति वक्तव्यम् । सः सुष्ठुभा सः ऋक्वता गणेन ।
KA I,320.23 Ro II,367 ubhayasañjñānyapi iti vaktavyam . saḥ suṣṭhubhā saḥ ṛkvatā gaṇena .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२१।२-२७ रो इइ,३६८-३७२ बहुषु बहुवचनम् इति उच्यते । केषु बहुषु । अर्थेषु । यदि एवम् वृक्षः प्लक्षः अत्र अपि प्राप्नोति । बहवः ते अर्थाः मूलम् स्कन्धः फलम् पलाशम् इति । एवम् तर्हि एकवचनम् द्विवचनम् बहुवचनमिति शब्दसञ्ज्ञाः एताः । येषु अर्थेषु स्वादयः विधीयन्ते तेषु बहुषु । केषु च अर्थेषु स्वादयः विधीयन्ते । कर्मादिषु । न वै कर्मादयः विभक्त्यर्थाः । के तर्हि । एकत्वादयः । एकत्वादिषु अपि वै विभक्यर्थेषु अवश्यम् कर्मादयः निमित्तत्वेन उपादेयाः । कर्मणः एकत्वे कर्मणः द्वित्वे कर्मणः बहुत्वे इति । सः तर्हि तथा निर्देशः कर्तव्यः । न हि अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः । इह च : इति एके मन्यन्ते , तत् एके मन्यन्ते इति परत्वात् एकवचनम् प्राप्नोति । बहुषु बहुवचनम् इति एषः योगः परः करिष्यते । सूत्रविपर्यासः कृतः भवति । इह च : बहुः ओदनः , बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति । न एषः दोषः । यत् तावत् उच्यते न हि अन्तरेण भावप्रययम् गुणप्रधानः भवति निर्देशः इति तन् न । अन्तरेण अपि भावप्रत्ययम् गुणप्रधानः भवति निर्देशः । कथम् । इह कदा चित् गुणः गुणिविशेषकः भवति । तत् यथा पटः शुक्लः इति । कदा चित् च गुणिना गुणः व्य्पदिश्यते । पठस्य शुक्लः इति । तत् यदा तावत् गुणः गुणिविशेषकः भवति पटः शुक्लः इति तदा सामानाधिकरण्यम् गुणगुणिनोः । तदा न अन्तरेण भावप्रत्ययम् गुणप्रधानः भवति निर्देशः । यदा तु गुणिना गुणः व्यपदिश्यते पटस्य शुक्लः इति स्वप्रधानः तदा गुणः भवति । तदा द्रव्ये षष्ठी । तदा अन्तरेण भावप्रत्ययम् गुअणप्रधानः भवति निर्देशः । न च इह वयम् एकत्वादिभिः कर्मादीन् विशेषयिष्यामः । किम् तर्हि । कर्मादिभिः एकत्वादीन् विशेषयिष्यामः । कथम् । एकस्मिन् एकवचनम् । कस्यैकस्मिन् । कर्मणः । द्वयोः द्विवचनम् । कयोः द्वयोः । कर्मणोः । बहुषु बहुवचनम् । केषाम् बहुषु । कर्मणाम् इति । कथम् बहुषु बहुवचनमिति । एतत् एव ज्ञापयति आचार्यः नानाधिकरणवाची यः बहुशब्दः तस्य इदम् ग्रहणम् न वैपुल्यवाचिनः इति । किम् एतस्य ज्ञापने प्रयोजनम् । यत् उक्तम् बहुः ओदनः बहुः सूपः इति परत्वात् बहुवचनम् प्राप्नोति इति स दोषः न भवति । यत् अप्युच्यते इति एके मन्यन्ते तत् एके मन्यन्त इति परत्वात् एकवचनम् प्राप्नोति इति न एषः दोषः । एकशब्दः अयम् बह्वर्थः । अस्ति एव सम्ख्यावाची । तत् यथा एकः द्वौ बहवः इति । अस्ति असहायवाची । तत् यथा एकाग्नयः एकहलानि एकाकिभिः क्षुद्रकैः जितम् इति । अस्ति अन्यार्थे वर्तते । तत् यथा सधमादः द्युम्नः एकाः ताः । अन्याः इति अर्थः । तत् यः अन्यार्थे वर्तते तस्य एषः प्रयोगः ।
KA I,321.2-27 Ro II,368-372 bahuṣu bahuvacanam iti ucyate . keṣu bahuṣu . artheṣu . yadi evam vṛkṣaḥ plakṣaḥ atra api prāpnoti . bahavaḥ te arthāḥ mūlam skandhaḥ phalam palāśam iti . evam tarhi ekavacanam dvivacanam bahuvacanamiti śabdasañjñāḥ etāḥ . yeṣu artheṣu svādayaḥ vidhīyante teṣu bahuṣu . keṣu ca artheṣu svādayaḥ vidhīyante . karmādiṣu . na vai karmādayaḥ vibhaktyarthāḥ . ke tarhi . ekatvādayaḥ . ekatvādiṣu api vai vibhakyartheṣu avaśyam karmādayaḥ nimittatvena upādeyāḥ . karmaṇaḥ ekatve karmaṇaḥ dvitve karmaṇaḥ bahutve iti . saḥ tarhi tathā nirdeśaḥ kartavyaḥ . na hi antareṇa bhāvapratyayam guṇapradhānaḥ bhavati nirdeśaḥ . iha ca : iti eke manyante , tat eke manyante iti paratvāt ekavacanam prāpnoti . bahuṣu bahuvacanam iti eṣaḥ yogaḥ paraḥ kariṣyate . sūtraviparyāsaḥ kṛtaḥ bhavati . iha ca : bahuḥ odanaḥ , bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti . na eṣaḥ doṣaḥ . yat tāvat ucyate na hi antareṇa bhāvaprayayam guṇapradhānaḥ bhavati nirdeśaḥ iti tan na . antareṇa api bhāvapratyayam guṇapradhānaḥ bhavati nirdeśaḥ . katham . iha kadā cit guṇaḥ guṇiviśeṣakaḥ bhavati . tat yathā paṭaḥ śuklaḥ iti . kadā cit ca guṇinā guṇaḥ vypadiśyate . paṭhasya śuklaḥ iti . tat yadā tāvat guṇaḥ guṇiviśeṣakaḥ bhavati paṭaḥ śuklaḥ iti tadā sāmānādhikaraṇyam guṇaguṇinoḥ . tadā na antareṇa bhāvapratyayam guṇapradhānaḥ bhavati nirdeśaḥ . yadā tu guṇinā guṇaḥ vyapadiśyate paṭasya śuklaḥ iti svapradhānaḥ tadā guṇaḥ bhavati . tadā dravye ṣaṣṭhī . tadā antareṇa bhāvapratyayam guaṇapradhānaḥ bhavati nirdeśaḥ . na ca iha vayam ekatvādibhiḥ karmādīn viśeṣayiṣyāmaḥ . kim tarhi . karmādibhiḥ ekatvādīn viśeṣayiṣyāmaḥ . katham . ekasmin ekavacanam . kasyaikasmin . karmaṇaḥ . dvayoḥ dvivacanam . kayoḥ dvayoḥ . karmaṇoḥ . bahuṣu bahuvacanam . keṣām bahuṣu . karmaṇām iti . katham bahuṣu bahuvacanamiti . etat eva jñāpayati ācāryaḥ nānādhikaraṇavācī yaḥ bahuśabdaḥ tasya idam grahaṇam na vaipulyavācinaḥ iti . kim etasya jñāpane prayojanam . yat uktam bahuḥ odanaḥ bahuḥ sūpaḥ iti paratvāt bahuvacanam prāpnoti iti sa doṣaḥ na bhavati . yat apyucyate iti eke manyante tat eke manyanta iti paratvāt ekavacanam prāpnoti iti na eṣaḥ doṣaḥ . ekaśabdaḥ ayam bahvarthaḥ . asti eva samkhyāvācī . tat yathā ekaḥ dvau bahavaḥ iti . asti asahāyavācī . tat yathā ekāgnayaḥ ekahalāni ekākibhiḥ kṣudrakaiḥ jitam iti . asti anyārthe vartate . tat yathā sadhamādaḥ dyumnaḥ ekāḥ tāḥ . anyāḥ iti arthaḥ . tat yaḥ anyārthe vartate tasya eṣaḥ prayogaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२२।१-२५ रो इइ,३७२-३७५ किमर्थम् पुनः इदम् उच्यते । सुप्तिङाम् अविशेषविधानात् दृष्तविप्रयोगत्वात् च नियमार्थम् वचनम् । सुपः अविशेषेण प्रातिपदिकमात्रात् विधीयन्ते । तिङः अविशेषेण धातुमात्रात् विधीयन्ते । तत्र एतत् स्यात् यदि अप्यविशेषेण विधीयन्ते न एव विप्रयोगः लक्ष्यते इति । दृष्टविप्रयोगत्वात् च । दृश्यते खलु अपि विप्रयोगः । तद्यथा : अक्षीणि मे दर्शनीयानि , पादाः मे सुकुमाराः इति । सुप्तिङोः अविशेषविधानात् दृष्टविप्रयोगत्वात् च व्यतिकरः प्राप्नोति । इष्यते च अव्यतिकरः स्यात् इति । तत् च अन्तरेण यत्नम् न सिध्यति इति नियमार्थम् वचनम् । एवमर्थम् इदम् उच्यते । अथ एतस्मिन् नियमार्थे सति किम् पुनः अयम् प्रत्ययनियमः : एकस्मिन् एव एकवचनम् , द्वयोः एव द्विवचनम् , बहुषु एव बहुवचनम् इति । आहोस्वित् अर्थनियमः : एकस्मिन् एकवचनम् एव , द्वयोः द्विवचनम् एव , बहुषु बहुवचनम् एव इति । कः च अत्र विशेषः । तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् । तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञा न प्राप्नोति । उच्चैः नीचैः इति । किम् कारणम् । असुबन्तत्वात् । अर्थनियमे सिद्धम् । अर्थनियमे सिद्धम् भवति । अस्तु अर्थनियमः । अथ वा पुनः अस्तु प्रत्ययनियमः । ननु च उक्तम् : तत्र प्रत्ययनियमे अव्ययानाम् पदसञ्ज्ञाभावः असुबन्तत्वात् इति । न एषः दोषः । सुपाम् कर्मादयः अपि अर्थाः सङ्ख्या च एव तथा तिङाम् । सुपाम् सङ्ख्या च एव अर्थः कर्मादयः च । तथा तिङाम् । प्रसिद्धः नियमः तत्र । प्रसिद्धः तत्र नियमः । नियमः प्रकृतेषु वा । अथ वा प्रकृतान् अर्थान् अपेक्ष्य नियमः । के च प्रकृताः । एकत्वादयः । एकस्मिन् एव एकवचनम् न द्वयोः न बहुषु । द्वयोः एव द्विवचनम् नैकस्मिन् न बहुषु । बहुषु एव बहुवचनम् न द्वयोः न एकस्मिन् इति । अथ वा आचार्यप्रवृत्तिः ज्ञापयति उत्पद्यन्ते अव्ययेभ्यः स्वादयः इति यत् अयम् अव्ययात् आप्सुपः इति अव्ययात् लुकम् शास्ति ।
KA I,322.1-25 Ro II,372-375 kimartham punaḥ idam ucyate . suptiṅām aviśeṣavidhānāt dṛṣtaviprayogatvāt ca niyamārtham vacanam . supaḥ aviśeṣeṇa prātipadikamātrāt vidhīyante . tiṅaḥ aviśeṣeṇa dhātumātrāt vidhīyante . tatra etat syāt yadi apyaviśeṣeṇa vidhīyante na eva viprayogaḥ lakṣyate iti . dṛṣṭaviprayogatvāt ca . dṛśyate khalu api viprayogaḥ . tadyathā : akṣīṇi me darśanīyāni , pādāḥ me sukumārāḥ iti . suptiṅoḥ aviśeṣavidhānāt dṛṣṭaviprayogatvāt ca vyatikaraḥ prāpnoti . iṣyate ca avyatikaraḥ syāt iti . tat ca antareṇa yatnam na sidhyati iti niyamārtham vacanam . evamartham idam ucyate . atha etasmin niyamārthe sati kim punaḥ ayam pratyayaniyamaḥ : ekasmin eva ekavacanam , dvayoḥ eva dvivacanam , bahuṣu eva bahuvacanam iti . āhosvit arthaniyamaḥ : ekasmin ekavacanam eva , dvayoḥ dvivacanam eva , bahuṣu bahuvacanam eva iti . kaḥ ca atra viśeṣaḥ . tatra pratyayaniyame avyayānām padasañjñābhāvaḥ asubantatvāt . tatra pratyayaniyame avyayānām padasañjñā na prāpnoti . uccaiḥ nīcaiḥ iti . kim kāraṇam . asubantatvāt . arthaniyame siddham . arthaniyame siddham bhavati . astu arthaniyamaḥ . atha vā punaḥ astu pratyayaniyamaḥ . nanu ca uktam : tatra pratyayaniyame avyayānām padasañjñābhāvaḥ asubantatvāt iti . na eṣaḥ doṣaḥ . supām karmādayaḥ api arthāḥ saṅkhyā ca eva tathā tiṅām . supām saṅkhyā ca eva arthaḥ karmādayaḥ ca . tathā tiṅām . prasiddhaḥ niyamaḥ tatra . prasiddhaḥ tatra niyamaḥ . niyamaḥ prakṛteṣu vā . atha vā prakṛtān arthān apekṣya niyamaḥ . ke ca prakṛtāḥ . ekatvādayaḥ . ekasmin eva ekavacanam na dvayoḥ na bahuṣu . dvayoḥ eva dvivacanam naikasmin na bahuṣu . bahuṣu eva bahuvacanam na dvayoḥ na ekasmin iti . atha vā ācāryapravṛttiḥ jñāpayati utpadyante avyayebhyaḥ svādayaḥ iti yat ayam avyayāt āpsupaḥ iti avyayāt lukam śāsti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२३।२-३२४।५ रो इइ,३७६-३७९ किम् इदम् कारके इति । सञ्ज्ञानिर्देशः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । इह हि व्याकरणे ये वा एते लोके प्रतीतपदार्थकाः शब्दाः तैः निर्देशाः क्रियन्ते पशुः अपत्यम् देवता इति याः वा एताः कृत्रिमाः टिघुघभसञ्ज्ञाः ताभिः । न च अयम् लोके ध्रुवादीनाम् प्रतीतपदार्थकः शब्दः न खलु अपि कृत्रिमा सञ्ज्ञा अन्यत्र अविधानात् । सञ्ज्ञाधिकारः च अयम् । तत्र किम् अन्यत् शक्यम् विज्ञातुम् अन्यत् अतः सञ्ज्ञायाः । कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः । कारके इति सञ्ज्ञानिर्देशः चेत्सञ्ज्ञिनः अपि निर्देशः कर्तव्यः । साधकम् निर्वर्तकम् कारकसञ्ज्ञम् भवति इति वक्तव्यम् । इतरथा हि अनिष्टप्रसङ्गः ग्रामस्य समीपात् आगच्छति इति अकारकस्य । इतरथा हि अनिष्टम् प्रसज्येत । अकारकस्य अपि अपादादनसञ्ज्ञा प्रसज्येत । क्व । ग्रामस्य समीपात् आगच्छति इति । न एषः दोषः । न अत्र ग्रामः अपाययुक्तः । किम् तर्हि । समीपम् । यदा च ग्रामः अपाययुक्तः भवति भवति तदा अपादानसञ्ज्ञा । तत् यथा ग्रामात् आगच्छति इति । कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति । कर्मसञ्ज्ञा च प्राप्नोति अकथितस्य। क्व । ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति । न एषः दोषः । अयम् अकथितशब्दः अस्ति एव सङ्कीर्तिते वर्तते । तत् यथा कः चित् कम् चित् सञ्चक्ष्य आह असौ अत्र अकथितः । असंकीर्तितः इति गम्यते । अस्ति अप्राधान्ये वर्तते । तत् यथा अकथितः असौ ग्रामे अकथितः असौ नगरे इति उच्यते यः यत्र अप्रधानः भवति । तत् यदा अप्राधान्ये अकथित्शब्दः वर्तते तदा एषः दोषः कर्मसञ्ज्ञाप्रसङ्गः अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति । अपादानम् च वृक्षस्य पर्णम् पतति इति । अपादानसञ्ज्ञा च प्राप्नोति । क्व । वृक्षस्य पर्णम् पतति । कुड्यस्य पिण्डः पतति इति । ना वा अपायस्याविवक्षितत्वात् । न वा एषः दोषः । किम् कारणम् । अपायस्य अविवक्षितत्वात् । न अत्र अपायः विवक्षितः । किम् तर्हि । सम्बन्धः । यदा च अपायः विवक्षितः भवति भवति तदा अपादानसञ्ज्ञा । तत् यथा । वृक्षात् पर्णम् पतति इति । सम्बन्धस्तु तदा न विवक्षितः भवति । न ज्ञायते कङ्कस्य वा कुररस्य वा इति ।
KA I,323.2-324.5 Ro II,376-379 kim idam kārake iti . sañjñānirdeśaḥ . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . iha hi vyākaraṇe ye vā ete loke pratītapadārthakāḥ śabdāḥ taiḥ nirdeśāḥ kriyante paśuḥ apatyam devatā iti yāḥ vā etāḥ kṛtrimāḥ ṭighughabhasañjñāḥ tābhiḥ . na ca ayam loke dhruvādīnām pratītapadārthakaḥ śabdaḥ na khalu api kṛtrimā sañjñā anyatra avidhānāt . sañjñādhikāraḥ ca ayam . tatra kim anyat śakyam vijñātum anyat ataḥ sañjñāyāḥ . kārake iti sañjñānirdeśaḥ cetsañjñinaḥ api nirdeśaḥ . kārake iti sañjñānirdeśaḥ cetsañjñinaḥ api nirdeśaḥ kartavyaḥ . sādhakam nirvartakam kārakasañjñam bhavati iti vaktavyam . itarathā hi aniṣṭaprasaṅgaḥ grāmasya samīpāt āgacchati iti akārakasya . itarathā hi aniṣṭam prasajyeta . akārakasya api apādādanasañjñā prasajyeta . kva . grāmasya samīpāt āgacchati iti . na eṣaḥ doṣaḥ . na atra grāmaḥ apāyayuktaḥ . kim tarhi . samīpam . yadā ca grāmaḥ apāyayuktaḥ bhavati bhavati tadā apādānasañjñā . tat yathā grāmāt āgacchati iti . karmasañjñāprasaṅgaḥ akathitasya brāhmaṇasya putram panthānam pṛcchati iti . karmasañjñā ca prāpnoti akathitasya. kva . brāhmaṇasya putram panthānam pṛcchati iti . na eṣaḥ doṣaḥ . ayam akathitaśabdaḥ asti eva saṅkīrtite vartate . tat yathā kaḥ cit kam cit sañcakṣya āha asau atra akathitaḥ . asaṃkīrtitaḥ iti gamyate . asti aprādhānye vartate . tat yathā akathitaḥ asau grāme akathitaḥ asau nagare iti ucyate yaḥ yatra apradhānaḥ bhavati . tat yadā aprādhānye akathitśabdaḥ vartate tadā eṣaḥ doṣaḥ karmasañjñāprasaṅgaḥ akathitasya brāhmaṇasya putram panthānam pṛcchati iti . apādānam ca vṛkṣasya parṇam patati iti . apādānasañjñā ca prāpnoti . kva . vṛkṣasya parṇam patati . kuḍyasya piṇḍaḥ patati iti . nā vā apāyasyāvivakṣitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . apāyasya avivakṣitatvāt . na atra apāyaḥ vivakṣitaḥ . kim tarhi . sambandhaḥ . yadā ca apāyaḥ vivakṣitaḥ bhavati bhavati tadā apādānasañjñā . tat yathā . vṛkṣāt parṇam patati iti . sambandhastu tadā na vivakṣitaḥ bhavati . na jñāyate kaṅkasya vā kurarasya vā iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२४।६-३२६।१७ रो इइ,३७९-३८६ अयम् तर्हि दोषः कर्मसञ्ज्ञाप्रसङ्गः च अकथितस्य ब्राह्मणस्य पुत्रम् पन्थानम् पृच्छति इति । न एषः दोषः । कारकः इति महती सञ्ज्ञा क्रियते । सञ्ज्ञा च नाम यतः न लघीयः । कुतः एतत् । लघ्वर्थम् हि सञ्ज्ञाकारणम् । तत्र महत्याः सञ्ज्ञायाः करणे एतत्प्रयोजनम् अन्वर्थसञ्ज्ञा यथा विज्ञायेत । करोति इति कारकम् इति । अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दानुपपत्तिः । अन्वर्थम् इति चेत् अकर्तरि कर्तृशब्दः न उपपद्यते । करणम् कारकम् अधिकरणम् कारकम् इति । सिद्धम् तु प्रतिकारकम् क्रियाभेदात् पचादीनाम् करणाधिकरणयोः कर्तृभावः । सिद्धः करणाधिकरणयोः कर्तृभावः । कुतः । प्रतिकारकम् क्रियाभेदात् पचादीनाम् । पचादीनाम् हि प्रतिकारकम् क्रिया भिद्यते । किम् इदम् प्रतिकारकम् इति । कारकम् कारकम् प्रति प्रतिकारकम् । कः असौ प्रतिकारकम् क्रियाभेदः पचादीनाम् । अधिश्रयणोदकासेचनतण्डुलावपनैधोपदकर्षणिक्रियाः प्रधानस्य कर्तुः पाकः । अधिश्रयणोदकासेचनतण्डुलावपनैधोपकर्षणादिक्रियाः कुर्वन् एव देवदत्तः पचति इति उच्यते । तत्र तदा पचिः वर्तते । एषः प्रधानकर्तुः पाकः । एतत् प्रधानकर्तुः कर्तृत्वम् । द्रोणम् पचति आढकम् पचति ति सम्भवनक्रिया धारणक्रिया च अधिकरणस्य पाकः । द्रोणम् पचति आढकम् पचति इति सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली पचति इति उचत्ये । तत्र तदा पचिः वर्तते । एषः धिकरणस्य पाकः । एतत् अधिकरणस्य कर्तृत्वम् । एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति ज्वल्वनक्रिया करणस्य पाकः । एधाः पक्ष्यन्ति आ विक्लित्तेः ज्वलिष्यन्ति इति कुर्वन्ति काष्ठानि पचन्ति इति उच्यन्ते । तत्र तदा पचिः वर्तते । एषः करणस्य पाकः ।एतत् करणस्य कर्तृत्वम् । उद्यमननिपातनानि कर्तुः छिदिक्रिया । उद्यमननिपातनानि कुर्वन् देवदत्तः छिनत्ति इति उच्यते । तत्र तदा छिदिः वर्तते । एषः प्रधानकर्तुः छेदः । एतत् प्रधानकर्तुः कर्तृत्वम् । यत् तत् न तृणेन तत्परशोः छेदनम् । यत् तत् समाने उद्यमने निपातने च परशुना छिद्यते न तृणेन तत् परशोः छेदनम् । अवश्यम् च एतत् एवम् विज्ञेयम् । इतरथा हि असितृणयोः छेदने अविशेषः स्यात् । यः हि मन्यत उद्यमननिपातनात् एव एतत् भवति छिनत्ति इति असितृणयोः छेदने न तस्य विशेषः स्यात् । यत् असिना छिद्यते तृणेन अपि तत् छिद्येत । अपादानादीनाम् तु अप्रसिद्धिः । अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः । यथा हि भवता करणाधिकरणयोः कर्तृत्वम् निर्दर्शितम् न तथा अपादानादीनाम् कर्तृत्वम् निदर्श्यते । न वा स्वतन्त्रपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा । न वा एषः दोषः । किम् कारणम् । स्वतन्त्रपरतन्त्रत्वात् । सर्वत्र एव अत्र स्वातन्त्र्यम् पारतन्त्र्यम् च विवक्षितम् । तयोः पर्यायेण वचनम् । तयोः स्वातन्त्र्यपारतन्त्र्ययोः पर्यायेण वचनम् भविष्यति । वचनाश्रया च सञ्ज्ञा भविष्यति । तत् यथा । बलाहकात् विद्योतते । बलाहके विद्योतते । बलाहकः विद्योतते इति । किम् तर्हि उच्यते अपादानादीनाम् तु अप्रसिद्धिः इति । एवम् तर्हि न ब्रूमः अपादानादीनाम् कर्तृत्वस्य अप्रसिद्धिः इति । पर्याप्तम् करणाधिकरणयोः कर्तृत्वम् निदर्शितम् अपादानीनाम् कर्तृत्वनिर्दर्शनाय । पर्याप्तः ह्येकः पुलाकः स्थाल्याः निर्दर्शनाय । किम् तर्हि । सञ्ज्ञायाः अप्रसिद्धिः । यावता सर्वत्र एव अत्र स्वातन्त्र्यम् विद्यते पारतन्त्र्यम् च तत्र परत्वात् कर्तृसञ्ज्ञा एव प्राप्नोति । अत्र अपि न वा स्वतन्त्र्यपरतन्त्रत्वात् तयोः पर्यायेण वचनम् वचनाश्रया च सञ्ज्ञा इति एव । यथा पुनः इदम् स्थाल्याः स्वातन्त्र्यम् निदर्शितम् सम्भवनक्रियाम् धारणक्रियाम् च कुर्वती स्थाली स्वतन्त्रा इति क्व इदानीम् परतन्त्रा स्यात् । यत् तत् प्रक्षालनम् परिवर्तनम् वा । न वै एवमर्थम् स्थाली उपादियते प्रक्षालनम् परिवर्तनम् च करिष्यामि इति । कथम् तर्हि । सम्भवनक्रियाम् धारणक्रियाम् च करिष्यति इति । तत्र च सौ स्वतन्त्रा । क्व इदानीम् परतन्त्रा । एवम् तर्हि स्थालीस्थे यत्ने कथ्यमाने स्थाली स्वतन्त्रा कर्तृस्थे यत्ने कथ्यमाने परतन्त्रा । ननु च भोः कर्तृस्थे अपि वै यत्ने कथ्यमाने स्थाली सम्भवनक्रियाम् धारणक्रियाम् च करोति । तत्र असौ स्वतन्त्रा । क्व इदानीम् परतन्त्रा । एवम् तर्हि प्रधानेन समवाये स्थाली परतन्त्रा व्यवाये स्वतन्त्रा । तत् यथा अमात्यादीनाम् राज्ञा सह समवाये पारतन्त्र्यम् व्यवाये स्वातन्त्र्यम् । किम् पुनः प्रधानम् । कर्ता ।कथम् पुनः ज्ञायते कर्ता प्रधानम् इति । यत् सर्वेषु साधनेषु सम्निहितेषु कर्ता प्रवर्तयिता भवति । ननु च भोः प्रधानेन अपि वै समवाये स्थाल्याः अनेनार्थः अधिकरणम् कारकम् इति
KA I,324.6-326.17 Ro II,379-386 ayam tarhi doṣaḥ karmasañjñāprasaṅgaḥ ca akathitasya brāhmaṇasya putram panthānam pṛcchati iti . na eṣaḥ doṣaḥ . kārakaḥ iti mahatī sañjñā kriyate . sañjñā ca nāma yataḥ na laghīyaḥ . kutaḥ etat . laghvartham hi sañjñākāraṇam . tatra mahatyāḥ sañjñāyāḥ karaṇe etatprayojanam anvarthasañjñā yathā vijñāyeta . karoti iti kārakam iti . anvartham iti cet akartari kartṛśabdānupapattiḥ . anvartham iti cet akartari kartṛśabdaḥ na upapadyate . karaṇam kārakam adhikaraṇam kārakam iti . siddham tu pratikārakam kriyābhedāt pacādīnām karaṇādhikaraṇayoḥ kartṛbhāvaḥ . siddhaḥ karaṇādhikaraṇayoḥ kartṛbhāvaḥ . kutaḥ . pratikārakam kriyābhedāt pacādīnām . pacādīnām hi pratikārakam kriyā bhidyate . kim idam pratikārakam iti . kārakam kārakam prati pratikārakam . kaḥ asau pratikārakam kriyābhedaḥ pacādīnām . adhiśrayaṇodakāsecanataṇḍulāvapanaidhopadakarṣaṇikriyāḥ pradhānasya kartuḥ pākaḥ . adhiśrayaṇodakāsecanataṇḍulāvapanaidhopakarṣaṇādikriyāḥ kurvan eva devadattaḥ pacati iti ucyate . tatra tadā paciḥ vartate . eṣaḥ pradhānakartuḥ pākaḥ . etat pradhānakartuḥ kartṛtvam . droṇam pacati āḍhakam pacati ti sambhavanakriyā dhāraṇakriyā ca adhikaraṇasya pākaḥ . droṇam pacati āḍhakam pacati iti sambhavanakriyām dhāraṇakriyām ca kurvatī sthālī pacati iti ucatye . tatra tadā paciḥ vartate . eṣaḥ dhikaraṇasya pākaḥ . etat adhikaraṇasya kartṛtvam . edhāḥ pakṣyanti ā viklitteḥ jvaliṣyanti iti jvalvanakriyā karaṇasya pākaḥ . edhāḥ pakṣyanti ā viklitteḥ jvaliṣyanti iti kurvanti kāṣṭhāni pacanti iti ucyante . tatra tadā paciḥ vartate . eṣaḥ karaṇasya pākaḥ .etat karaṇasya kartṛtvam . udyamananipātanāni kartuḥ chidikriyā . udyamananipātanāni kurvan devadattaḥ chinatti iti ucyate . tatra tadā chidiḥ vartate . eṣaḥ pradhānakartuḥ chedaḥ . etat pradhānakartuḥ kartṛtvam . yat tat na tṛṇena tatparaśoḥ chedanam . yat tat samāne udyamane nipātane ca paraśunā chidyate na tṛṇena tat paraśoḥ chedanam . avaśyam ca etat evam vijñeyam . itarathā hi asitṛṇayoḥ chedane aviśeṣaḥ syāt . yaḥ hi manyata udyamananipātanāt eva etat bhavati chinatti iti asitṛṇayoḥ chedane na tasya viśeṣaḥ syāt . yat asinā chidyate tṛṇena api tat chidyeta . apādānādīnām tu aprasiddhiḥ . apādānādīnām kartṛtvasya aprasiddhiḥ . yathā hi bhavatā karaṇādhikaraṇayoḥ kartṛtvam nirdarśitam na tathā apādānādīnām kartṛtvam nidarśyate . na vā svatantraparatantratvāt tayoḥ paryāyeṇa vacanam vacanāśrayā ca sañjñā . na vā eṣaḥ doṣaḥ . kim kāraṇam . svatantraparatantratvāt . sarvatra eva atra svātantryam pāratantryam ca vivakṣitam . tayoḥ paryāyeṇa vacanam . tayoḥ svātantryapāratantryayoḥ paryāyeṇa vacanam bhaviṣyati . vacanāśrayā ca sañjñā bhaviṣyati . tat yathā . balāhakāt vidyotate . balāhake vidyotate . balāhakaḥ vidyotate iti . kim tarhi ucyate apādānādīnām tu aprasiddhiḥ iti . evam tarhi na brūmaḥ apādānādīnām kartṛtvasya aprasiddhiḥ iti . paryāptam karaṇādhikaraṇayoḥ kartṛtvam nidarśitam apādānīnām kartṛtvanirdarśanāya . paryāptaḥ hyekaḥ pulākaḥ sthālyāḥ nirdarśanāya . kim tarhi . sañjñāyāḥ aprasiddhiḥ . yāvatā sarvatra eva atra svātantryam vidyate pāratantryam ca tatra paratvāt kartṛsañjñā eva prāpnoti . atra api na vā svatantryaparatantratvāt tayoḥ paryāyeṇa vacanam vacanāśrayā ca sañjñā iti eva . yathā punaḥ idam sthālyāḥ svātantryam nidarśitam sambhavanakriyām dhāraṇakriyām ca kurvatī sthālī svatantrā iti kva idānīm paratantrā syāt . yat tat prakṣālanam parivartanam vā . na vai evamartham sthālī upādiyate prakṣālanam parivartanam ca kariṣyāmi iti . katham tarhi . sambhavanakriyām dhāraṇakriyām ca kariṣyati iti . tatra ca sau svatantrā . kva idānīm paratantrā . evam tarhi sthālīsthe yatne kathyamāne sthālī svatantrā kartṛsthe yatne kathyamāne paratantrā . nanu ca bhoḥ kartṛsthe api vai yatne kathyamāne sthālī sambhavanakriyām dhāraṇakriyām ca karoti . tatra asau svatantrā . kva idānīm paratantrā . evam tarhi pradhānena samavāye sthālī paratantrā vyavāye svatantrā . tat yathā amātyādīnām rājñā saha samavāye pāratantryam vyavāye svātantryam . kim punaḥ pradhānam . kartā .katham punaḥ jñāyate kartā pradhānam iti . yat sarveṣu sādhaneṣu samnihiteṣu kartā pravartayitā bhavati . nanu ca bhoḥ pradhānena api vai samavāye sthālyāḥ anenārthaḥ adhikaraṇam kārakam iti
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२६।१९-१९-३२७।२१ रो इइ,३८७-३९२ ध्रुवम् इति किमर्थम् । ग्रामात् आगच्छति शकटेन । न एतत् अस्ति । करणसञ्ज्ञा अत्र बाधिका भविष्यति । इदम् तर्हि ग्रामात् आगच्छन् कंसपात्र्याम् पाणिना ओदनम् भुङ्क्ते इति । अत्र अपि अधिकरणसञ्ज्ञा बाधिका भविष्यति । इदम् तर्हि वृक्षस्य पर्णम् पतति । कुड्यस्य पिण्डः पतिति इति । जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् । जुगुप्साविरामप्रमादार्थानाम् उपसम्ख्यानम् कर्तव्यम् । जुगुप्सा । अधर्मात् जुगुप्सते। अधर्मात् बीभत्सते । विराम । धर्मात् विरमति। धर्मात् निवर्तते । प्रमाद । धर्मात् प्रमाद्यति । धर्मात् मुह्यति । इह च उपसम्ख्यानम् कर्तव्यम् । साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति । तत् तर्हि इदम् वक्तव्यम् । न वक्तव्यम् । इह तावत् अधर्मात् जुगुप्सते अधर्मात् बीभत्सते इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखः अधर्मः न अनेन कृत्यम् अस्ति इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् । इह च धर्मात् विरमति धर्मात् निवर्तते इति धर्मात् प्रमाद्यति धर्मात् मुह्यति इति । यः एषः मनुष्यः सम्भिन्नबुद्धिः भवति सः पश्यति न इदम् किम् चित् धर्मः नाम न एनम् करिष्यामि इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवमपाये अपादानम् इति एव सिद्धम् । इह च साम्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति । यः तैः साम्यम् गतवान् भवति सः एतत्प्रयुङ्क्ते । गतियुक्तेषु अपादानसञ्ज्ञा न पपद्यते अध्रुवत्वात् । गतियुक्तेषु अपादानसञ्ज्ञा न उपपद्यते । अश्वात् त्रस्तात् पतितः । रथात् प्रवीतात् पतितः । सार्थात् गच्छतः हीनः इति । किम् कारणम् । अध्रुवत्वात् । न वा अध्रौव्यस्य अविविक्षितत्वात् । न वा एषः दोषः । किम् कारणम् । अध्रौव्यस्य अविवक्षितत्वात् । न अत्र अध्रौव्यम् विवक्षितम् । किम् तर्हि । ध्रौव्यम् । इह तावत् अश्वात् त्रस्तात् पतितः इति । यत् तदश्वे अश्वत्वम् आशुगामित्वम् तत् ध्रुवम् तत् च विवक्षितम् । रथात् प्रवीतात् पतितः इति यत् तत् रथे रथत्वम् रमन्ते अस्मिन् रथः इति तत् ध्रुवम् तत् च विवक्षितम् । सार्थात् गच्छतः हीनः इति यत् तत्सार्थे सार्थत्वम् सहार्थीभावः तत् ध्रुवम् तत् च विवक्षिक्तम् । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते अत्यन्तगतियुक्ताः तत्र कथम् । धावतः पतितः । त्वरमाणात् पतितः इति । अत्र अपि न वा अध्रौव्यस्य अविवक्षितत्वात् इति एव सिद्धम् । कथम् पुनः सतः नाम अविवक्षा स्यात् । सतः अपि अविवक्षा भवति । तत् यथा अलोमिका एडका । अनुदरा कन्य इति । असतः च विवक्षा भवति । समुद्रः कुण्डिका । विन्ध्यः वर्धितकम् इति ।
KA I,326.19-19-327.21 Ro II,387-392 dhruvam iti kimartham . grāmāt āgacchati śakaṭena . na etat asti . karaṇasañjñā atra bādhikā bhaviṣyati . idam tarhi grāmāt āgacchan kaṃsapātryām pāṇinā odanam bhuṅkte iti . atra api adhikaraṇasañjñā bādhikā bhaviṣyati . idam tarhi vṛkṣasya parṇam patati . kuḍyasya piṇḍaḥ patiti iti . jugupsāvirāmapramādārthānām upasamkhyānam . jugupsāvirāmapramādārthānām upasamkhyānam kartavyam . jugupsā . adharmāt jugupsate. adharmāt bībhatsate . virāma | dharmāt viramati. dharmāt nivartate . pramāda . dharmāt pramādyati . dharmāt muhyati . iha ca upasamkhyānam kartavyam . sāmkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti . tat tarhi idam vaktavyam . na vaktavyam . iha tāvat adharmāt jugupsate adharmāt bībhatsate iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati duḥkhaḥ adharmaḥ na anena kṛtyam asti iti . saḥ buddhyā samprāpya nivartate . tatra dhruvamapāye apādānam iti eva siddham . iha ca dharmāt viramati dharmāt nivartate iti dharmāt pramādyati dharmāt muhyati iti . yaḥ eṣaḥ manuṣyaḥ sambhinnabuddhiḥ bhavati saḥ paśyati na idam kim cit dharmaḥ nāma na enam kariṣyāmi iti . saḥ buddhyā samprāpya nivartate . tatra dhruvamapāye apādānam iti eva siddham . iha ca sāmkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti . yaḥ taiḥ sāmyam gatavān bhavati saḥ etatprayuṅkte . gatiyukteṣu apādānasañjñā na papadyate adhruvatvāt . gatiyukteṣu apādānasañjñā na upapadyate . aśvāt trastāt patitaḥ . rathāt pravītāt patitaḥ . sārthāt gacchataḥ hīnaḥ iti . kim kāraṇam . adhruvatvāt . na vā adhrauvyasya avivikṣitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . adhrauvyasya avivakṣitatvāt . na atra adhrauvyam vivakṣitam . kim tarhi . dhrauvyam . iha tāvat aśvāt trastāt patitaḥ iti . yat tadaśve aśvatvam āśugāmitvam tat dhruvam tat ca vivakṣitam . rathāt pravītāt patitaḥ iti yat tat rathe rathatvam ramante asmin rathaḥ iti tat dhruvam tat ca vivakṣitam . sārthāt gacchataḥ hīnaḥ iti yat tatsārthe sārthatvam sahārthībhāvaḥ tat dhruvam tat ca vivakṣiktam . yadi api tāvat atra etat śakyate vaktum ye tu ete atyantagatiyuktāḥ tatra katham . dhāvataḥ patitaḥ . tvaramāṇāt patitaḥ iti . atra api na vā adhrauvyasya avivakṣitatvāt iti eva siddham . katham punaḥ sataḥ nāma avivakṣā syāt . sataḥ api avivakṣā bhavati . tat yathā alomikā eḍakā . anudarā kanya iti . asataḥ ca vivakṣā bhavati . samudraḥ kuṇḍikā . vindhyaḥ vardhitakam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२७।२३-३२८।३ रो इइ,३९२-३९३ अयम् योगः शक्यः अवक्तुम् । कथम् वृकेभ्यः बिभेति दस्युभ्यः बिभेति चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति । इह तावत् वृकेभ्यः बिभेति दस्युभ्यः बिभेति इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि माम् वृकाः पश्यन्ति ध्रुवः मे मृत्युः इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् । इह चौरेभ्यः त्रायते दस्युभ्यः त्रायते इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति यदि इमम् पश्यन्ति ध्रुवम् अस्य वधबन्धपरिक्लेशाः इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।
KA I,327.23-328.3 Ro II,392-393 ayam yogaḥ śakyaḥ avaktum . katham vṛkebhyaḥ bibheti dasyubhyaḥ bibheti caurebhyaḥ trāyate dasyubhyaḥ trāyate iti . iha tāvat vṛkebhyaḥ bibheti dasyubhyaḥ bibheti iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati yadi mām vṛkāḥ paśyanti dhruvaḥ me mṛtyuḥ iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham . iha caurebhyaḥ trāyate dasyubhyaḥ trāyate iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati yadi imam paśyanti dhruvam asya vadhabandhaparikleśāḥ iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२८।५-८ रो इइ,३९३ अयम् अपि योगः शक्यः अवक्तुम् । कथम् अध्ययनात् पराजयते इति । यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति दुःखम् अध्ययनम् दुर्धरम् च गुरवः च दुरुपचाराः इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।
KA I,328.5-8 Ro II,393 ayam api yogaḥ śakyaḥ avaktum . katham adhyayanāt parājayate iti . yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati duḥkham adhyayanam durdharam ca guravaḥ ca durupacārāḥ iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२८।१०-२४ रो इइ,३९३-३९५ किम् उदाहरणम् । माषेभ्यः गाः वारयति । भवेद् यस्य माषाः न गावः तस्य माषाः ईप्सिताः स्युः । यस्य तु खलु गावः न माषाः कथम् तस्य माषाः ईप्सिताः स्युः । तस्य अपि माषाः एव ईप्सिताः । आतः च ईप्सिताः यवेभ्य्ः गाः वारयति । इह कूपात् अन्धम् वारयति इति कूपे अपादानसञ्ज्ञा न प्राप्नोति । न हि तस्य कूपः ईप्सितः । कः तर्हि । अन्धः । तस्य अपि कूपः एव ईप्सितः । पश्यति अयम् अन्धः कूपम् मा प्रापत् इति । अथ वा यथा एव अस्य अन्यत्र अपश्यतः ईप्सा एवम् कूपे अपि । इह अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्राप्नोति । कर्मसञ्ज्ञात्र बाधिका भविष्यति । अग्नौ अपि तर्हि बाधिका स्यात् । तस्मात् वक्तव्यम् कर्मणः यत् ईप्सितम् इति ईप्सितेप्सितम् इति वा । वारणर्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् । वारणार्थेषु कर्मग्रहणम् अनर्थकम् । किम् कारणम् । कर्तुः ईप्सिततमम् कर्म इति वचनात् । कर्तुः ईप्सिततमम् कर्म इति एव सिद्धम् । अयम् अपि योगः शक्यः अवक्तुम् । कथम् माषेभ्यः गाः वारयति इति । पश्यति अयम् यदि इमाः गावः तत्र गच्छन्ति ध्रुवम् सस्यविनाशः सस्यविनाशे अधर्मः च एव राजभयम् च । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।
KA I,328.10-24 Ro II,393-395 kim udāharaṇam . māṣebhyaḥ gāḥ vārayati . bhaved yasya māṣāḥ na gāvaḥ tasya māṣāḥ īpsitāḥ syuḥ . yasya tu khalu gāvaḥ na māṣāḥ katham tasya māṣāḥ īpsitāḥ syuḥ . tasya api māṣāḥ eva īpsitāḥ . ātaḥ ca īpsitāḥ yavebhyḥ gāḥ vārayati . iha kūpāt andham vārayati iti kūpe apādānasañjñā na prāpnoti . na hi tasya kūpaḥ īpsitaḥ . kaḥ tarhi . andhaḥ . tasya api kūpaḥ eva īpsitaḥ . paśyati ayam andhaḥ kūpam mā prāpat iti . atha vā yathā eva asya anyatra apaśyataḥ īpsā evam kūpe api . iha agneḥ māṇavakam vārayati iti māṇavake apādānasañjñā prāpnoti . karmasañjñātra bādhikā bhaviṣyati . agnau api tarhi bādhikā syāt . tasmāt vaktavyam karmaṇaḥ yat īpsitam iti īpsitepsitam iti vā . vāraṇartheṣu karmagrahaṇānarthakyam kartuḥ īpsitatamam karma iti vacanāt . vāraṇārtheṣu karmagrahaṇam anarthakam . kim kāraṇam . kartuḥ īpsitatamam karma iti vacanāt . kartuḥ īpsitatamam karma iti eva siddham . ayam api yogaḥ śakyaḥ avaktum . katham māṣebhyaḥ gāḥ vārayati iti . paśyati ayam yadi imāḥ gāvaḥ tatra gacchanti dhruvam sasyavināśaḥ sasyavināśe adharmaḥ ca eva rājabhayam ca . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२९।२-४ रो इइ,३९६ अयम् अपि योगः शक्यः अवक्तुम् । कथम् उपाध्यायात् अन्तर्धत्ते इति । पश्यति अयम् यदि माम् उपाध्यायः पश्यति ध्रुवम् प्रेषणम् उपालम्भः वा इति । सः बुद्ध्या सम्प्राप्य निवर्तते । तत्र ध्रुवम् अपाये अपादानम् इति एव सिद्धम् ।
KA I,329.2-4 Ro II,396 ayam api yogaḥ śakyaḥ avaktum . katham upādhyāyāt antardhatte iti . paśyati ayam yadi mām upādhyāyaḥ paśyati dhruvam preṣaṇam upālambhaḥ vā iti . saḥ buddhyā samprāpya nivartate . tatra dhruvam apāye apādānam iti eva siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२९।६-२२ रो इइ,३९६-३९८ उपयोगे इति किमर्थम् । नटस्य शृणोति । ग्रन्थिकस्य शृणोति । उपयोगे इति उच्यमाने अपि अत्र प्राप्नोति । एषः अपि हि उपयोगः । आतः च उपयोगः यत् आरम्भकाः रङ्गम् गच्छन्ति नटस्य श्रोष्यामः , ग्रन्थिकस्य श्रोष्यामः इति । एवम् तर्हि उपयोगे इति उच्यते सर्वः च उपयोगः । तत्र प्रकर्षगतिः विज्ञास्यते : साधीयः यः उपयोगः इति । कः च साधीयः । यः ग्रन्थार्थयोः । अथ वा उपयोगः कः भवितुम् अर्हति । यः नियमपूर्वकः । तत् यथा उपयुक्ताः माणवकाः इति उच्यन्ते ये एते नियमपूर्वकम् अधीतवन्तः भवन्ति । किम् पुनः आख्याता अनुपयोगे कारकम् आहोस्वित् अकारकम् । कः च अत्र विशेषः । आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञाप्रसङ्गः । आख्याता अनुपयोगे कारकम् इति चेत् अकथित्वात् कर्मसञ्ज्ञा प्राप्नोति । अस्तु तर्हि अकारकम् । अकारकम् इति चेत् उपयोगवचनानर्थक्यम् । यदि अकारकम् उपयोगवचनम् अनर्थकम् । अस्तु तर्हि कारकम् । ननु च उक्तम् आख्याता अनुपयोगे कारकम् इति चेत् अकथितत्वात् कर्मसञ्ज्ञाप्रसङ्गः इति । न एषः दोषः । परिगणनम् तत्र क्रियते । दुहियाचिरुधिप्रच्छिभिक्षिचिञाम् इति । अयम् अपि योगः शक्यः अवक्तुम् । कथम् उपाध्यायात् अधीते इति । अपक्रामति तस्मात् तदध्ययनम् । यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति । सत्ततत्वात् । अथ वा ज्योतिर्वत् ज्ञानानि भवन्ति ।
KA I,329.6-22 Ro II,396-398 upayoge iti kimartham . naṭasya śṛṇoti . granthikasya śṛṇoti . upayoge iti ucyamāne api atra prāpnoti . eṣaḥ api hi upayogaḥ . ātaḥ ca upayogaḥ yat ārambhakāḥ raṅgam gacchanti naṭasya śroṣyāmaḥ , granthikasya śroṣyāmaḥ iti . evam tarhi upayoge iti ucyate sarvaḥ ca upayogaḥ . tatra prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ upayogaḥ iti . kaḥ ca sādhīyaḥ . yaḥ granthārthayoḥ . atha vā upayogaḥ kaḥ bhavitum arhati . yaḥ niyamapūrvakaḥ . tat yathā upayuktāḥ māṇavakāḥ iti ucyante ye ete niyamapūrvakam adhītavantaḥ bhavanti . kim punaḥ ākhyātā anupayoge kārakam āhosvit akārakam . kaḥ ca atra viśeṣaḥ . ākhyātā anupayoge kārakam iti cet akathitvāt karmasañjñāprasaṅgaḥ . ākhyātā anupayoge kārakam iti cet akathitvāt karmasañjñā prāpnoti . astu tarhi akārakam . akārakam iti cet upayogavacanānarthakyam . yadi akārakam upayogavacanam anarthakam . astu tarhi kārakam . nanu ca uktam ākhyātā anupayoge kārakam iti cet akathitatvāt karmasañjñāprasaṅgaḥ iti . na eṣaḥ doṣaḥ . parigaṇanam tatra kriyate . duhiyācirudhipracchibhikṣiciñām iti . ayam api yogaḥ śakyaḥ avaktum . katham upādhyāyāt adhīte iti . apakrāmati tasmāt tadadhyayanam . yadi apakrāmati kim na atyantāya apakrāmati . sattatatvāt . atha vā jyotirvat jñānāni bhavanti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३२९।२४-३३०।२ रो इइ,३९९ अयम् अपि योगः शक्यः अवक्तुम् । कथम् गोमयात् वृश्चिकः जायते । गोलोमाविलोमभ्यः दुर्वाः जायन्ते इति । अपक्रामन्ति ताः तेभ्यः । यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति । सन्ततत्वात् । अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।
KA I,329.24-330.2 Ro II,399 ayam api yogaḥ śakyaḥ avaktum . katham gomayāt vṛścikaḥ jāyate . golomāvilomabhyaḥ durvāḥ jāyante iti . apakrāmanti tāḥ tebhyaḥ . yadi apakrāmati kim na atyantāya apakrāmati . santatatvāt . atha vā anyāḥ canyāḥ ca prādurbhavanti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३०।४-६ रो इइ,३९९ अयम् अपि योगः शक्यः अवक्तुम् । कथम् हिमवतः गङ्गा प्रभवति इति । अपक्रामन्ति ताः तस्मात् आपः । यदि अपक्रामति किम् न अत्यन्ताय अपक्रामति । सन्ततत्वात् । अथ वा अन्याः चन्याः च प्रादुर्भवन्ति ।
KA I,330.4-6 Ro II,399 ayam api yogaḥ śakyaḥ avaktum . katham himavataḥ gaṅgā prabhavati iti . apakrāmanti tāḥ tasmāt āpaḥ . yadi apakrāmati kim na atyantāya apakrāmati . santatatvāt . atha vā anyāḥ canyāḥ ca prādurbhavanti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३०।८-१७ रो इइ,४००-४०१ कर्मग्रहणम् किमर्थम् । यम् अभिप्रैति सः सम्प्रदानम् इति इयति उच्यमाने कर्मणः एव सम्प्रदानसञ्ज्ञा प्रसज्येत । कर्मग्रहणे पुनः क्रियमाणे न दोषः भवति । कर्म निमित्तत्वेन आश्रीयते । अथ यम्सग्रहणम् किमर्थम् । कर्मणा अभिप्रैति सम्प्रदानम् इति इयति उच्यमाने अभिप्रयतः एव सम्प्रदानसञ्ज्ञा प्रसज्येत । यम्सग्रहणे पुनः क्रियमाणे न दोषः भवति । यम्सग्रहणात् अभिप्रयतः सम्प्रदानसञ्ज्ञा निर्भज्यते । अथ अभिप्रग्रहणम् किमर्थम् । कर्मणा यम् एति स सम्प्रदानम् इति इयति उच्यमाने यम् एव सम्प्रत्येति तत्र एव स्यात् । उपाध्यायाय गाम् ददाति इति । इह न स्यात् । उपाध्यायाय गाम् अदात् । उपाध्यायाय गाम् दास्यति इति । अभिप्रग्रहणे पुनः क्रियमाणे न दोषः भवति । अभिः आभिमुख्ये वर्तते प्रशब्दः आदिकर्मणि । तेन यम् च अभिप्रैति यम् च अभिप्रैष्यति यम् च अभिप्रागाद् आभिमुख्यमात्रे सर्वत्र सिद्धम् भवति ।
KA I,330.8-17 Ro II,400-401 karmagrahaṇam kimartham . yam abhipraiti saḥ sampradānam iti iyati ucyamāne karmaṇaḥ eva sampradānasañjñā prasajyeta . karmagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . karma nimittatvena āśrīyate . atha yamsagrahaṇam kimartham . karmaṇā abhipraiti sampradānam iti iyati ucyamāne abhiprayataḥ eva sampradānasañjñā prasajyeta . yamsagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . yamsagrahaṇāt abhiprayataḥ sampradānasañjñā nirbhajyate . atha abhipragrahaṇam kimartham . karmaṇā yam eti sa sampradānam iti iyati ucyamāne yam eva sampratyeti tatra eva syāt . upādhyāyāya gām dadāti iti . iha na syāt . upādhyāyāya gām adāt . upādhyāyāya gām dāsyati iti . abhipragrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . abhiḥ ābhimukhye vartate praśabdaḥ ādikarmaṇi . tena yam ca abhipraiti yam ca abhipraiṣyati yam ca abhiprāgād ābhimukhyamātre sarvatra siddham bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३०।१८-३३१।४ रो इइ,४०१-४०३ क्रियाग्रहणम् अपि कर्तव्यम् । इह अपि यथा स्यात् । श्राद्धाय निगर्हते । युद्धाय सन्नह्यते । पत्ये शेते इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कथम् । क्रियाम् हि लोके कर्म इति उपचरन्ति । काम् क्रियाम् करिष्यसि । किम् कर्म करिष्यसि इति । एवम् अपि कर्तव्यम् । कृत्रिमाकृत्रिमयोः कृत्रिमे सम्प्रत्ययः भवति । क्रिया अपि कृत्रिमम् कर्म । न सिध्यति । कर्तुः ईप्सिततमम् कर्म इति उच्यते कथम् च नाम क्रियया क्रिया ईप्सिततमा स्यात् । क्रिया अपि क्रियया ईप्सिततमा भवति । कया क्रियया । सन्दर्शनक्रियया वा प्रार्थयतिक्रियया वा अध्यवस्यतिक्रियया वा । इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः बुद्ध्या तावत् कम्चिदर्थम् सम्पश्यति सन्दृष्टे प्रार्थना प्रार्थनायाम् अधवसायः अध्यवसाये आरम्भः आरम्भे निर्वृत्तिः निर्वृत्तौ फलावाप्तिः । एवम् क्रिया अपि कृत्रिमम् कर्म । एवम् अपि कर्मणः करणसञ्ज्ञा वक्तव्या सम्प्रदानस्य च कर्मसञ्ज्ञा । पशुना रुद्रम् यजते । पशुम् रुद्राय ददाति इति अर्थः । अग्नौ किल पशुः प्रक्षिप्यते तत् रुद्राय पह्रियते इति ।
KA I,330.18-331.4 Ro II,401-403 kriyāgrahaṇam api kartavyam . iha api yathā syāt . śrāddhāya nigarhate . yuddhāya sannahyate . patye śete iti . tat tarhi vaktavyam . na vaktavyam . katham . kriyām hi loke karma iti upacaranti . kām kriyām kariṣyasi . kim karma kariṣyasi iti . evam api kartavyam . kṛtrimākṛtrimayoḥ kṛtrime sampratyayaḥ bhavati . kriyā api kṛtrimam karma . na sidhyati . kartuḥ īpsitatamam karma iti ucyate katham ca nāma kriyayā kriyā īpsitatamā syāt . kriyā api kriyayā īpsitatamā bhavati . kayā kriyayā . sandarśanakriyayā vā prārthayatikriyayā vā adhyavasyatikriyayā vā . iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ buddhyā tāvat kamcidartham sampaśyati sandṛṣṭe prārthanā prārthanāyām adhavasāyaḥ adhyavasāye ārambhaḥ ārambhe nirvṛttiḥ nirvṛttau phalāvāptiḥ . evam kriyā api kṛtrimam karma . evam api karmaṇaḥ karaṇasañjñā vaktavyā sampradānasya ca karmasañjñā . paśunā rudram yajate . paśum rudrāya dadāti iti arthaḥ . agnau kila paśuḥ prakṣipyate tat rudrāya pahriyate iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३१।६-९ रो इइ,४०३-४०४ किमेते एकार्थाः आहोस्वित् नानार्थाः । किम् च अतः । यदि एकार्थाः किमर्थम् पृथक् निर्दिश्यन्ते । अथ नानार्थाः कथम् कुपिना शक्यन्ते विशेषयितुम् । एवम् तर्हि नानार्थाः कुपौ तु एषाम् सामान्यम् अस्ति । न हि अकुपितः क्रुध्यते न वा अकुपितः द्रुह्यति न वा अकुपितः ईर्ष्यति न वा अकुपितः असूयति ।
KA I,331.6-9 Ro II,403-404 kimete ekārthāḥ āhosvit nānārthāḥ . kim ca ataḥ . yadi ekārthāḥ kimartham pṛthak nirdiśyante . atha nānārthāḥ katham kupinā śakyante viśeṣayitum . evam tarhi nānārthāḥ kupau tu eṣām sāmānyam asti . na hi akupitaḥ krudhyate na vā akupitaḥ druhyati na vā akupitaḥ īrṣyati na vā akupitaḥ asūyati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३१।११-३३२।३ रो इइ,४०४-४०६ तमग्रहणम् किमर्थम् न साधकम् करणम् इति एव उच्येत षाधकम् करणम् इति इयति उच्यमाने सर्वेषाम् कारकाणाम् करणसञ्ज्ञा प्रसज्येत । सर्वाणि हि कारकाणि साधकानि । तमग्रहणे पुनः क्रियमाणे न दोषः भवति । न एतत् अस्ति प्रयोजनम् । पूर्वाः तावत् सञ्ज्ञाः अपवादत्वात् बाधिकाः भविष्यन्ति पराः परत्वात् च अनवकाशत्वात् च । इह तर्हि धनुषा विध्यति अपाययुक्तत्वात् च अपादानसञ्ज्ञा साधकत्वात् च करणसञ्ज्ञा प्राप्नोति । तमग्रहणे पुनः क्रियमाणे न दोषः भवति । एवम् तर्हि लोकतः एतत् सिद्धम् । तत् यथा । लोके अभिरूपाय उदकमानेयम् अभिरूपाय कन्या देया इति न च अनभिरूपे प्रवृत्तिः अस्ति । तत्र अभिरूपतमाय इति गम्यते । एवम् इह अपि साधकम् करणम् इति उच्यते सर्वाणि च कारकाणि साधकानि न च असाधके प्रवृत्तिः अस्ति । तत्र साधकतमम् इति विज्ञास्यते । एवम् तर्हि सिद्धे सति यत् तमग्रहणम् करोति तत् ज्ञापयति आचार्यः कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । अपादानम् आचार्यः किम् न्याय्यम् मन्यते । यत्र सम्प्राप्य निवृत्तिः । तेन इह एव स्यात् ग्रामात् आगच्छति नगरात् आगच्छति इति । साङ्काश्यकेभ्यः पाटलिपुत्रकाः अभिरूपतराः इति अत्र न स्यात् । कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति । तथा आधारम् आचार्यः किम् न्याय्यम् मन्यते । यत्र कृत्स्नः आधारात्मा व्याप्तः भवति । तेन इह एव स्यात् तिलेषु तैलम् दध्नि सर्पिः इति । गङ्गायाम् गावः कूपे गर्गर्कुलम् इति अत्र न स्यात् । कारकसञ्ज्ञायाम् तरतमयोगः न भवति इति अत्र अपि सिद्धम् भवति ।
KA I,331.11-332.3 Ro II,404-406 tamagrahaṇam kimartham na sādhakam karaṇam iti eva ucyeta ṣādhakam karaṇam iti iyati ucyamāne sarveṣām kārakāṇām karaṇasañjñā prasajyeta . sarvāṇi hi kārakāṇi sādhakāni . tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . na etat asti prayojanam . pūrvāḥ tāvat sañjñāḥ apavādatvāt bādhikāḥ bhaviṣyanti parāḥ paratvāt ca anavakāśatvāt ca . iha tarhi dhanuṣā vidhyati apāyayuktatvāt ca apādānasañjñā sādhakatvāt ca karaṇasañjñā prāpnoti . tamagrahaṇe punaḥ kriyamāṇe na doṣaḥ bhavati . evam tarhi lokataḥ etat siddham . tat yathā . loke abhirūpāya udakamāneyam abhirūpāya kanyā deyā iti na ca anabhirūpe pravṛttiḥ asti . tatra abhirūpatamāya iti gamyate . evam iha api sādhakam karaṇam iti ucyate sarvāṇi ca kārakāṇi sādhakāni na ca asādhake pravṛttiḥ asti . tatra sādhakatamam iti vijñāsyate . evam tarhi siddhe sati yat tamagrahaṇam karoti tat jñāpayati ācāryaḥ kārakasañjñāyām taratamayogaḥ na bhavati iti . kim etasya jñāpane prayojanam . apādānam ācāryaḥ kim nyāyyam manyate . yatra samprāpya nivṛttiḥ . tena iha eva syāt grāmāt āgacchati nagarāt āgacchati iti . sāṅkāśyakebhyaḥ pāṭaliputrakāḥ abhirūpatarāḥ iti atra na syāt . kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham bhavati . tathā ādhāram ācāryaḥ kim nyāyyam manyate . yatra kṛtsnaḥ ādhārātmā vyāptaḥ bhavati . tena iha eva syāt tileṣu tailam dadhni sarpiḥ iti . gaṅgāyām gāvaḥ kūpe gargarkulam iti atra na syāt . kārakasañjñāyām taratamayogaḥ na bhavati iti atra api siddham bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३२।५-८ रो इइ,४०६-४०७ वसेः अश्यर्थस्य प्रतिषेधः । वसेः अश्यर्थस्य प्रतिषेधः वक्तव्यः । ग्राम उपवसति इति । सः तर्हि वक्तव्यः । न वक्तव्यः । न अत्र उपपूर्वस्य वसेः ग्रामः अधिकरणम् । कस्य तर्हि । अनुपसर्गस्य । ग्रामे असौ वसन् त्रिरात्रम् उपवसति इति ।
KA I,332.5-8 Ro II,406-407 vaseḥ aśyarthasya pratiṣedhaḥ . vaseḥ aśyarthasya pratiṣedhaḥ vaktavyaḥ . grāma upavasati iti . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . na atra upapūrvasya vaseḥ grāmaḥ adhikaraṇam . kasya tarhi . anupasargasya . grāme asau vasan trirātram upavasati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३२।१०-१३ रो इइ,४०७ तमग्रहणम् किमर्थम् । कर्तुः ईप्सितम् कर्म इति इयति उच्यमाने इह: अग्नेः माणवकम् वारयति इति माणवके अपादानसञ्ज्ञा प्रसज्येत । न एषः दोषः । कर्मसञ्ज्ञा तत्र बाधिका भविष्यति । अग्नौ अपि तर्हि बाधिका स्यात् । इह पुनः तमग्रहणे क्रियमाणे तत् उपपन्नम् भवति यत् उक्तम् वारणार्थेषु कर्मग्रहणानर्थक्यम् कर्तुः ईप्सिततमम् कर्म इति वचनात् इति ।
KA I,332.10-13 Ro II,407 tamagrahaṇam kimartham . kartuḥ īpsitam karma iti iyati ucyamāne iha: agneḥ māṇavakam vārayati iti māṇavake apādānasañjñā prasajyeta . na eṣaḥ doṣaḥ . karmasañjñā tatra bādhikā bhaviṣyati . agnau api tarhi bādhikā syāt . iha punaḥ tamagrahaṇe kriyamāṇe tat upapannam bhavati yat uktam vāraṇārtheṣu karmagrahaṇānarthakyam kartuḥ īpsitatamam karma iti vacanāt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३२।१४-२५ रो इइ,४०८-४०९ इह उच्यते ओदनम् पचति इति । यदि ओदनः पच्येत द्रव्यान्तरम भिनिर्वर्तेत । न एषः दोषः । तादर्थ्यात् ताच्छब्द्यम् भविष्यति । ओदनार्थाः तण्डुलाः ओदनः इति । अथ इह कथम् भवितव्यम् तण्डुलान् ओदनम् पचति इति आहोस्वित् तण्डुलानाम् ओदनम् पचति इति । उभ्यथा अपि भवितव्यम् । कथम् । इह हि तण्डुलान् ओदनम् पचति इति द्व्यर्थः पचिः । तण्डुलान् पचन् ओदनम् निर्वर्तयति इति । इह इदनीम् तण्डुलानाम् ओदनम् पचति इति द्व्यर्थः च एव पचिः विकारयोगे च षष्ठी । तण्डुलविकारम् ओदनम् निर्वर्तयति इति । इह कः चित् कम् चिदामन्त्रयते सिद्धम् भुज्यताम् इति । सः आमन्त्रयमाणः आह प्रभूतम् भुक्तम् अस्माभिः इति । आमन्त्रयमाणः आह दधि खलु भविष्यति पयः खलु भविष्यति । आमन्त्र्यमाणः आह दध्ना खलु भुञ्जीय पयसा खलु भुञ्जीय इति । अत्र कर्मसञ्ज्ञा प्राप्नोति । तत् हि तस्य ईप्सिततमम् भवति । तस्य अपि ओदनः एव एव ईप्सिततमः न तु गुणेषु अस्य अनुरोधः । तत् यथा भुञ्जीय अहम् ओदनम् यदि मृदुविशदः स्यात् इति एवम् इह अपि दधिगुणम् ओदनम् भुञ्जीय पयोगुणमोदनम् भुञ्जीय इति ।
KA I,332.14-25 Ro II,408-409 iha ucyate odanam pacati iti . yadi odanaḥ pacyeta dravyāntarama bhinirvarteta . na eṣaḥ doṣaḥ . tādarthyāt tācchabdyam bhaviṣyati . odanārthāḥ taṇḍulāḥ odanaḥ iti . atha iha katham bhavitavyam taṇḍulān odanam pacati iti āhosvit taṇḍulānām odanam pacati iti . ubhyathā api bhavitavyam . katham . iha hi taṇḍulān odanam pacati iti dvyarthaḥ paciḥ . taṇḍulān pacan odanam nirvartayati iti . iha idanīm taṇḍulānām odanam pacati iti dvyarthaḥ ca eva paciḥ vikārayoge ca ṣaṣṭhī . taṇḍulavikāram odanam nirvartayati iti . iha kaḥ cit kam cidāmantrayate siddham bhujyatām iti . saḥ āmantrayamāṇaḥ āha prabhūtam bhuktam asmābhiḥ iti . āmantrayamāṇaḥ āha dadhi khalu bhaviṣyati payaḥ khalu bhaviṣyati . āmantryamāṇaḥ āha dadhnā khalu bhuñjīya payasā khalu bhuñjīya iti . atra karmasañjñā prāpnoti . tat hi tasya īpsitatamam bhavati . tasya api odanaḥ eva eva īpsitatamaḥ na tu guṇeṣu asya anurodhaḥ . tat yathā bhuñjīya aham odanam yadi mṛduviśadaḥ syāt iti evam iha api dadhiguṇam odanam bhuñjīya payoguṇamodanam bhuñjīya iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३३।१-११ रो इइ,४१०-४११ ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञाप्रसङ्गः क्रियेप्सितत्वात् । ईप्सितस्य कर्मसञ्ज्ञायाम् निर्वृत्तस्य कारकत्वे कर्मसञ्ज्ञा न प्राप्नोति । गुडम् भक्षयति इति । किम् कारणम् । क्रियेप्सितत्वात् । क्रिया तस्य ईप्सिता । न वा उभयेप्सितत्वात् । न वा एषः दोषः । किम् कारणम् । उभयेप्सितत्वात् । उभयम् तस्य ईप्सितम् । आतः च उभयम् यस्य हि गुडभक्षणे बुद्धिः प्रसक्ता भवति न असौ लोष्टम् भक्षयित्वा कृती भवति । यदि अपि तावत् अत्र एतत् शक्यते वक्तुम् ये तु एते राजकर्मिणः मनुष्याः तेषाम् कः चित् कम् चित् आह कटम् कुरु इति । स आह न अहम् कटम् करिष्यामि घटः मया आहृतः इति । तस्य क्रियामात्रम् ईप्सितम् । यदि अपि तस्य क्रियामात्रम् ईप्सितम् यः तु असौ प्रेषयति तस्य उभयम् ईप्सितम् इति ।
KA I,333.1-11 Ro II,410-411 īpsitasya karmasañjñāyām nirvṛttasya kārakatve karmasañjñāprasaṅgaḥ kriyepsitatvāt . īpsitasya karmasañjñāyām nirvṛttasya kārakatve karmasañjñā na prāpnoti . guḍam bhakṣayati iti . kim kāraṇam . kriyepsitatvāt . kriyā tasya īpsitā . na vā ubhayepsitatvāt . na vā eṣaḥ doṣaḥ . kim kāraṇam . ubhayepsitatvāt . ubhayam tasya īpsitam . ātaḥ ca ubhayam yasya hi guḍabhakṣaṇe buddhiḥ prasaktā bhavati na asau loṣṭam bhakṣayitvā kṛtī bhavati . yadi api tāvat atra etat śakyate vaktum ye tu ete rājakarmiṇaḥ manuṣyāḥ teṣām kaḥ cit kam cit āha kaṭam kuru iti . sa āha na aham kaṭam kariṣyāmi ghaṭaḥ mayā āhṛtaḥ iti . tasya kriyāmātram īpsitam . yadi api tasya kriyāmātram īpsitam yaḥ tu asau preṣayati tasya ubhayam īpsitam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३३।१३-२३ रो इइ,४११-४१२ किम् उदाहरणम् । विषम् भक्षयति इति । न एतत् अस्ति । पूर्वेण अपि एतत् सिध्यति । न सिध्यति । कर्तुः ईप्सिततमम् कर्म इति उच्यते कस्य च नाम विषभक्षणम् ईप्सितम् स्यात् । विषभक्षणम् अपि कस्य चित् ईप्सितम् भवति । कथम् । इह यः एषः मनुष्यः दुःखार्तः भवति सः अन्यानि दुःखानि अनुनिशम्य विषभक्षणम् एव ज्यायः मन्यते । आतः च ईप्सितम् यत् तत् भक्षयति । यत् तर्थि अन्यत् करिष्यामि इति अन्यत् करोति तत् उदाहरणम् । किम् पुनः तत् । ग्रामान्तरम् अयम् गच्छन् चौरान् पश्यति अहिम् लङ्घयति कण्टकान् मृद्नाति । इह ईप्सितस्य अपि कर्मसञ्ज्ञा आरभ्यते अनीप्सितस्य अपि । यत् इदानीम् न एव ईप्सितमम् न अपि अनीप्सितम् तत्र कथम् भवितव्यम् । ग्रामान्तरम् अयम् गच्छन् वृक्षमूलानि उपसर्पति कुड्यमूलानि उपसर्पति इति । अत्र अपि सिद्धम् । कथम् । अनीप्सितम् इति न अयम् प्रसज्यप्रतिषेधः ईप्सितम् न इति । किम् तर्हि । पर्युदासः अयम् यत् अन्यत् ईप्सितात् तत् अनीप्सितम् इति । अन्यत् च एतत् ईप्सितात् यत् न एव ईप्सितम् न अपि अनीप्सितम् इति ।
KA I,333.13-23 Ro II,411-412 kim udāharaṇam . viṣam bhakṣayati iti . na etat asti . pūrveṇa api etat sidhyati . na sidhyati . kartuḥ īpsitatamam karma iti ucyate kasya ca nāma viṣabhakṣaṇam īpsitam syāt . viṣabhakṣaṇam api kasya cit īpsitam bhavati . katham . iha yaḥ eṣaḥ manuṣyaḥ duḥkhārtaḥ bhavati saḥ anyāni duḥkhāni anuniśamya viṣabhakṣaṇam eva jyāyaḥ manyate . ātaḥ ca īpsitam yat tat bhakṣayati . yat tarthi anyat kariṣyāmi iti anyat karoti tat udāharaṇam . kim punaḥ tat . grāmāntaram ayam gacchan caurān paśyati ahim laṅghayati kaṇṭakān mṛdnāti . iha īpsitasya api karmasañjñā ārabhyate anīpsitasya api . yat idānīm na eva īpsitamam na api anīpsitam tatra katham bhavitavyam . grāmāntaram ayam gacchan vṛkṣamūlāni upasarpati kuḍyamūlāni upasarpati iti . atra api siddham . katham . anīpsitam iti na ayam prasajyapratiṣedhaḥ īpsitam na iti . kim tarhi . paryudāsaḥ ayam yat anyat īpsitāt tat anīpsitam iti . anyat ca etat īpsitāt yat na eva īpsitam na api anīpsitam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३३।२५-३३४।१५ रो इइ,४१३-४१८ केन अकथितम् । अपादानादिभिः विशेषकथाभिः । किम् उदाहरणम् । दुहियाचिरुधिप्रछिभिक्षिचिञाम् उपयोगनिमित्तम् अपूर्वविधौ ब्रुविशासिगुणेन च यत्सचते तत् अकीर्तितम् आचरितम् कविना । दुहि : गाम् दोग्धि पयः । न एतत् अस्ति । कथिता अत्र पूर्वा अपादन्सञ्ज्ञा । दुहि । याचि : इदम् तर्हि पौरवम् गाम् याचते इति । न एतत् अस्ति । कथिता अत्र पूर्वा अपादन्सञ्ज्ञा । न याचनात् एव अपायः भवति । याचितः असौ यदि ददाति ततः अपायेन युज्यते । याचि । रुधि : अन्ववरुणद्धि गाम् व्रजम् । न एतत् अस्ति । कथिता अत्र पूर्वा अधिकरणसञ्ज्ञा । रुधि । प्रच्छि : माणवकम् पन्थानम् पृच्छति । न एतत् अस्ति । कथिता अत्र पूर्वा अपादानसञ्ज्ञा । न प्रश्नात् एव अपायः भवति । पृष्तः असौ यदि आचाष्टे ततः अपायेन युज्यते । प्रच्छि। भिक्षि : पौरवम् गाम् भिक्षते । न एतत् अस्ति । कथिता अत्र पूर्वा अपादानसञ्ज्ञा । न भिक्षणात् एव अपायः भवति । भिक्षितः असौ यदि ददाति ततः अपायेन युज्यते । भिक्षि । चिञ् : वृक्षम् अवचिनोति फलानि । न एतत् अस्ति । कथिता अत्र पूर्वा अपादानसञ्ज्ञा । ब्रुविशासिगुणेन च यत् सचते तत् अकीर्तितम् आचरितम् कविना । ब्रुविशासिगुणेन च यत् सचते सम्बध्यते तत् च दाहरणम् । किम् पुनः तत् । पुत्रम् ब्रूते धर्मम् । पुत्रम् अनुशास्ति धर्मम् इति । न एतत् अस्ति । कथिता अत्र पूर्वा सम्प्रदानसञ्ज्ञा । तस्मात् त्रीणि एव उदाहरणानि । पौरवम् गाम् याचते । माणवकम् पन्थानम् पृच्छति । पौरवम् गाम् भिक्षते इति ।
KA I,333.25-334.15 Ro II,413-418 kena akathitam . apādānādibhiḥ viśeṣakathābhiḥ . kim udāharaṇam . duhiyācirudhiprachibhikṣiciñām upayoganimittam apūrvavidhau bruviśāsiguṇena ca yatsacate tat akīrtitam ācaritam kavinā . duhi : gām dogdhi payaḥ . na etat asti . kathitā atra pūrvā apādansañjñā . duhi . yāci : idam tarhi pauravam gām yācate iti . na etat asti . kathitā atra pūrvā apādansañjñā . na yācanāt eva apāyaḥ bhavati . yācitaḥ asau yadi dadāti tataḥ apāyena yujyate . yāci . rudhi : anvavaruṇaddhi gām vrajam . na etat asti . kathitā atra pūrvā adhikaraṇasañjñā . rudhi . pracchi : māṇavakam panthānam pṛcchati . na etat asti . kathitā atra pūrvā apādānasañjñā . na praśnāt eva apāyaḥ bhavati . pṛṣtaḥ asau yadi ācāṣṭe tataḥ apāyena yujyate . pracchi. bhikṣi : pauravam gām bhikṣate . na etat asti . kathitā atra pūrvā apādānasañjñā . na bhikṣaṇāt eva apāyaḥ bhavati . bhikṣitaḥ asau yadi dadāti tataḥ apāyena yujyate . bhikṣi . ciñ : vṛkṣam avacinoti phalāni . na etat asti . kathitā atra pūrvā apādānasañjñā . bruviśāsiguṇena ca yat sacate tat akīrtitam ācaritam kavinā . bruviśāsiguṇena ca yat sacate sambadhyate tat ca dāharaṇam . kim punaḥ tat . putram brūte dharmam . putram anuśāsti dharmam iti . na etat asti . kathitā atra pūrvā sampradānasañjñā . tasmāt trīṇi eva udāharaṇāni . pauravam gām yācate . māṇavakam panthānam pṛcchati . pauravam gām bhikṣate iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३४।१६-३३५।२८ रो इइ,४१८-४२४ अथ ये धातूनाम् द्विकर्मकाः तेषाम् किम् कथिते लादयः भवन्ति आहोस्वित् अकथिते । कथिते लादयः । कथिते लादिभिः अभिहिते गुणम्कर्मणि का कर्तव्या । कथिते लादयः चेत् स्युः षष्ट्ःईम् कुर्यात् तदा गुणे । कथिते लादयः चेत् स्युः षष्ठी गुणकर्मणि तदा कर्तव्या । दुह्यते गोः पयः । याच्यते पौरवस्य कम्बलः इति । कथम् । अकारकम् ह्यकथितत्वात् । अकारकम् हि एतत् भवति । किम् कारणम् । अकथितत्वात् । कारकम् चेत् तु न अकथा । अथ कारकम् न अकथितम् । अथ कारके सति का कर्तव्या । कारकम् चेत् विजानीयात् याम् याम् मन्येत सा भवेत् । कारकम् चेत् विजानातीयात् या या प्राप्नोति सा कर्तव्या । दुह्यते गोः पयः । याच्यते पौरवात् कम्बलः इति । कथिते अभिहिते त्वविधिः त्वमतिः गुणकर्मणि लादिविधिः सपरे । कथिते लादिभिः अभिहिते त्वविधिः एषः भवति । किम् इदम् त्वविधिः इति । तव विधिः त्वविधिः । त्वमतिः । किमिदम् त्वमतिः इति । तव मतिः त्वमतिः । न एवम् अन्ये मन्यन्ते । कथम् तर्हि अन्ये मन्यन्ते । गुणकर्मणि लादिविधिः सपरे । गुणकर्मणि लादिविधियः भवन्ति सह परेण योगेन । गतिबुद्धिप्रत्यवसानार्थशब्दकर्माकर्मकाणाम् अणिकर्ता सः णौ इति । ध्रुवचेष्टितयुक्तिषु च अपि अगुणे तत् अनल्पमतेः वचनम् स्मरत । ध्रुवयुक्तिषु चेष्टितयुक्तिषु च अपि अगुणे कर्मणि लादयः भवन्ति । तत् अनल्प्मतेः आचार्यस्य वचनम् स्मर्यताम् । अपरः आह : प्रधानकर्मणि आख्येये लादीन् आहुः द्विकर्मणाम् । प्रधानकर्मणि अभिधेये द्विकर्मणाम् धातूनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् । अजाम् नयति ग्रामम् । अजा नीयते ग्रामम् । अजा नीता ग्रामम् इति । अप्रधाने दुहादीनाम् । अप्रधाने दुहादीनाम् कर्मणि लादयः भवन्ति इति वक्तव्यम् । दुह्यते गौः पयः । ण्यन्ते कर्तुः च कर्मणः । लादयः भवन्ति इति वक्तव्यम् । गम्यते देवदत्तः ग्रामम् यज्ञदत्तेन । के पुनः धातूनाम् द्विकर्मकाः । नीवह्योः हरतेः च अपि गत्यर्थानाम् तथा एव च द्विकर्मकेषु ग्रहणम् द्रष्टव्यम् इति निश्चयः । अजाम् नयति ग्रामम् । भारम् वहति ग्रामम् । भारम् हरति ग्रामम् । गत्यर्थानाम् । गमयति देवदत्तम् ग्रामम् । यापयति देवदत्तम् ग्रामम् । सिद्धम् वा अपो अन्यकर्मणः । सिद्धम् वा पुनः एतत् भवति । कुतः । अन्यकर्मणः । अन्यस्य अत्र अजा कर्म अन्यस्य ग्रामः । अजाम् असौ गृहीत्वा ग्रामम् नयति । अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः भवेत् । अन्यकर्म इति चेत् ब्रूयात् लादीनाम् अविधिः अयम् भवेत् । अजा नीयते ग्रामम् इति । परसाधने उत्पद्यमानेन लेन अजायाः अभिधानम् न प्राप्नोति ।
KA I,334.16-335.28 Ro II,418-424 atha ye dhātūnām dvikarmakāḥ teṣām kim kathite lādayaḥ bhavanti āhosvit akathite . kathite lādayaḥ . kathite lādibhiḥ abhihite guṇamkarmaṇi kā kartavyā . kathite lādayaḥ cet syuḥ ṣaṣṭḥīm kuryāt tadā guṇe . kathite lādayaḥ cet syuḥ ṣaṣṭhī guṇakarmaṇi tadā kartavyā . duhyate goḥ payaḥ . yācyate pauravasya kambalaḥ iti . katham . akārakam hyakathitatvāt . akārakam hi etat bhavati . kim kāraṇam . akathitatvāt . kārakam cet tu na akathā . atha kārakam na akathitam . atha kārake sati kā kartavyā . kārakam cet vijānīyāt yām yām manyeta sā bhavet . kārakam cet vijānātīyāt yā yā prāpnoti sā kartavyā . duhyate goḥ payaḥ . yācyate pauravāt kambalaḥ iti . kathite abhihite tvavidhiḥ tvamatiḥ guṇakarmaṇi lādividhiḥ sapare . kathite lādibhiḥ abhihite tvavidhiḥ eṣaḥ bhavati . kim idam tvavidhiḥ iti . tava vidhiḥ tvavidhiḥ . tvamatiḥ . kimidam tvamatiḥ iti . tava matiḥ tvamatiḥ . na evam anye manyante . katham tarhi anye manyante . guṇakarmaṇi lādividhiḥ sapare . guṇakarmaṇi lādividhiyaḥ bhavanti saha pareṇa yogena . gatibuddhipratyavasānārthaśabdakarmākarmakāṇām aṇikartā saḥ ṇau iti . dhruvaceṣṭitayuktiṣu ca api aguṇe tat analpamateḥ vacanam smarata . dhruvayuktiṣu ceṣṭitayuktiṣu ca api aguṇe karmaṇi lādayaḥ bhavanti . tat analpmateḥ ācāryasya vacanam smaryatām . aparaḥ āha : pradhānakarmaṇi ākhyeye lādīn āhuḥ dvikarmaṇām . pradhānakarmaṇi abhidheye dvikarmaṇām dhātūnām karmaṇi lādayaḥ bhavanti iti vaktavyam . ajām nayati grāmam . ajā nīyate grāmam . ajā nītā grāmam iti . apradhāne duhādīnām . apradhāne duhādīnām karmaṇi lādayaḥ bhavanti iti vaktavyam . duhyate gauḥ payaḥ . ṇyante kartuḥ ca karmaṇaḥ . lādayaḥ bhavanti iti vaktavyam . gamyate devadattaḥ grāmam yajñadattena . ke punaḥ dhātūnām dvikarmakāḥ . nīvahyoḥ harateḥ ca api gatyarthānām tathā eva ca dvikarmakeṣu grahaṇam draṣṭavyam iti niścayaḥ . ajām nayati grāmam . bhāram vahati grāmam . bhāram harati grāmam . gatyarthānām . gamayati devadattam grāmam . yāpayati devadattam grāmam . siddham vā apo anyakarmaṇaḥ . siddham vā punaḥ etat bhavati . kutaḥ . anyakarmaṇaḥ . anyasya atra ajā karma anyasya grāmaḥ . ajām asau gṛhītvā grāmam nayati . anyakarma iti cet brūyāt lādīnām avidhiḥ bhavet . anyakarma iti cet brūyāt lādīnām avidhiḥ ayam bhavet . ajā nīyate grāmam iti . parasādhane utpadyamānena lena ajāyāḥ abhidhānam na prāpnoti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३६।१-१७ रो इइ,४२५-४२८ कालभावाध्वगन्तव्याः कर्मसञ्ज्ञा हि अर्कर्मणाम् । कालभावाध्वगन्तव्याः अकर्मकाणाम् धातूनाम् कर्मसञ्ज्ञाः भवन्ति इति वक्तव्यम् । काल । मासम् आस्ते । मासम् स्वपिति । भाव । गोदोहम् आस्ते । गोदोहम् स्वपिति । अध्वगन्तव्य । क्रोशम् आस्ते । क्रोशम् स्वपिति । देशः च अकर्मणाम् कर्मसञ्ज्ञः भवति इति वक्तव्यम् । कुरून् स्वपिति । पञ्चालान् स्वपिति । विपरीतम् तु यत् कर्म तत् कल्म कवयः विदुः । किमिदम् कल्म इति । अपरिसमाप्तम् कर्म कल्म । न वा अस्मिन् सर्वाणि कर्मकार्याणि क्रियन्ते । किम् तर्हि । द्वितीया एव । यस्मिन् तु कर्मणि उपजायते अन्यत् धात्वर्थयोगा अपि च यत्र षष्ठी तत् कर्म कल्म इति च कल्म न उक्तम् धातोः हि वृत्तिः न रलत्वतः अस्ति । एतेन कर्मसञ्ज्ञा सर्वा सिद्धा भवति कथितेन । तत्र ईप्सितस्य किम् स्यात् प्रयोजनम् कर्मसञ्ज्ञायाः । यत् तु कथितम् पुरस्तात् ईप्सिततयुक्तम् च तस्य सिद्ध्यर्थम् । ईप्सितम् एव तु यत् स्यात् तस्य भविष्यति कथितेन । अथ इह कथम् भवितव्यम् । नेता अश्वस्य स्रुघ्नम् इति आहोस्वित् नेता अश्वस्य स्रुघ्नस्य इति । उभयथा गोणिकापुत्रः ।
KA I,336.1-17 Ro II,425-428 kālabhāvādhvagantavyāḥ karmasañjñā hi arkarmaṇām . kālabhāvādhvagantavyāḥ akarmakāṇām dhātūnām karmasañjñāḥ bhavanti iti vaktavyam . kāla . māsam āste . māsam svapiti . bhāva . godoham āste . godoham svapiti . adhvagantavya . krośam āste . krośam svapiti . deśaḥ ca akarmaṇām karmasañjñaḥ bhavati iti vaktavyam . kurūn svapiti . pañcālān svapiti . viparītam tu yat karma tat kalma kavayaḥ viduḥ . kimidam kalma iti . aparisamāptam karma kalma . na vā asmin sarvāṇi karmakāryāṇi kriyante . kim tarhi . dvitīyā eva . yasmin tu karmaṇi upajāyate anyat dhātvarthayogā api ca yatra ṣaṣṭhī tat karma kalma iti ca kalma na uktam dhātoḥ hi vṛttiḥ na ralatvataḥ asti . etena karmasañjñā sarvā siddhā bhavati kathitena . tatra īpsitasya kim syāt prayojanam karmasañjñāyāḥ . yat tu kathitam purastāt īpsitatayuktam ca tasya siddhyartham . īpsitam eva tu yat syāt tasya bhaviṣyati kathitena . atha iha katham bhavitavyam . netā aśvasya srughnam iti āhosvit netā aśvasya srughnasya iti . ubhayathā goṇikāputraḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३६।१९-३३७।१३ रो इइ,४२९-४३१ शब्दकर्म इति कथम् इदम् विज्ञायते । शब्दः येषाम् क्रिया इति आहोस्वित् शब्दः येषाम् कर्म इति । कः च अत्र विशेषः । शब्दकर्मनिर्देशे शब्दक्रियाणाम् इति चेत् ह्वयत्यादीनाम् प्रतिषेधः । शब्दकर्मनिर्देशे शब्दक्रियाणामिति चेद् ह्वयदादीनाम् प्रतिषेधः वक्तव्यः । के पुनः ह्वयतादयः । ह्वयति क्रन्दति शब्दायते । ह्वयति देवदत्तः । ह्वाययति देवदत्तेन । क्रन्दति देवदत्तः । क्रन्दयति देवदत्तेन । शब्दायते देवदत्तः । शब्दाययति देवदत्तेन इति । शृणोत्यादीन् आम् च उपसम्ख्यानम् अशब्दक्रियत्वात् । शृणोत्यादीनाम् च उपसम्ख्यानम् कर्तव्यम् । के पुनः शृणोत्यादयः । शृणोति विजानाति उपलभते । शृणोति देवदत्तः । श्रावयति देवदत्तम् । विजानाति देवदत्तः । विज्ञापयति देवदत्तम् । उपलभते देवदत्तः । उपलम्भयति देवदत्तम् । किम् पुनः कारणम् न सिध्यति । अशब्दक्रियत्वाद् । अस्तु तर्हि शब्दः येषाम् कर्म इति । शब्दकर्मणः इति चेत् जल्पतिप्रभृतीनाम् उपसम्ख्यानम् । शब्दकर्मण इति चेत् जल्पतिप्रभृतीनामुपसङ्ख्यानम् कर्तव्यम् । के पुनः जल्पतिप्रभृअतयः । जल्पति विलपति आभाषते । जल्पति देवदत्तः । जल्पयति देवदत्तम् । विलपति देवदत्तः । विलापयति देवदत्तम् । आभाषते देवदत्तः ।आभाषयति देवदत्तम् । दृशेः सर्वत्र । दृशेः सर्वत्र उपसङ्ख्यानम् कर्तव्यम् । पश्यति रूपतर्कः कार्षापणम् । दर्शयति रूपतर्कम् कार्षापणम् ।
KA I,336.19-337.13 Ro II,429-431 śabdakarma iti katham idam vijñāyate . śabdaḥ yeṣām kriyā iti āhosvit śabdaḥ yeṣām karma iti . kaḥ ca atra viśeṣaḥ . śabdakarmanirdeśe śabdakriyāṇām iti cet hvayatyādīnām pratiṣedhaḥ . śabdakarmanirdeśe śabdakriyāṇāmiti ced hvayadādīnām pratiṣedhaḥ vaktavyaḥ . ke punaḥ hvayatādayaḥ . hvayati krandati śabdāyate . hvayati devadattaḥ . hvāyayati devadattena . krandati devadattaḥ . krandayati devadattena . śabdāyate devadattaḥ . śabdāyayati devadattena iti . śṛṇotyādīn ām ca upasamkhyānam aśabdakriyatvāt . śṛṇotyādīnām ca upasamkhyānam kartavyam . ke punaḥ śṛṇotyādayaḥ . śṛṇoti vijānāti upalabhate . śṛṇoti devadattaḥ . śrāvayati devadattam . vijānāti devadattaḥ . vijñāpayati devadattam . upalabhate devadattaḥ . upalambhayati devadattam . kim punaḥ kāraṇam na sidhyati . aśabdakriyatvād . astu tarhi śabdaḥ yeṣām karma iti . śabdakarmaṇaḥ iti cet jalpatiprabhṛtīnām upasamkhyānam . śabdakarmaṇa iti cet jalpatiprabhṛtīnāmupasaṅkhyānam kartavyam . ke punaḥ jalpatiprabhṛatayaḥ . jalpati vilapati ābhāṣate . jalpati devadattaḥ . jalpayati devadattam . vilapati devadattaḥ . vilāpayati devadattam . ābhāṣate devadattaḥ .ābhāṣayati devadattam . dṛśeḥ sarvatra . dṛśeḥ sarvatra upasaṅkhyānam kartavyam . paśyati rūpatarkaḥ kārṣāpaṇam . darśayati rūpatarkam kārṣāpaṇam .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३७।१४-२७ रो इइ,४३१-४३२ अदिखादिनीवहीनाम् प्रतिषेधः । अदिखादिनीवहीनाम् प्रतिषेधः वक्तव्यः । अत्ति देवदत्तः । आदयते देवदत्तेन । अपरः आह : सर्वम् एव प्रत्यवसानकार्यम् अदेः न भवति इति वक्तव्यम् , परस्मैपदम् अपि । इदम् एकम् इष्यते : क्तः अधिकरणे च द्रौव्यगतिप्रत्यवसानार्थेभ्यः : इदम् एषाम् जग्धम् । खादि । खादति देवदत्तः । खादयति देवदत्तेन । नी । नयति देवदत्तः । नाययति देवदत्तेन । वहेरनियन्तृकर्तृकस्य । वहेः अनियन्तृकर्तृकस्य इति वक्तव्यम् । वहति भारम् देवदत्तः । वाहयति भारम् देवदत्तेन । अनियन्तृकर्तृकस्य इति किमर्थम् । वहन्ति यवान् बलीवर्दाः । वाहयन्ति बलीवर्दान् यवान् । भक्षेः अहिंसार्थस्य । भक्षेः अहिम्सार्थस्य इति वक्तव्यम् । भक्षयति पिण्डीम् देवदत्तः । भक्षयति पिण्डीम् देवदत्तेन । अहिम्सार्थस्य इति किमर्थम् । भक्षयन्ति यवान् बलीवर्दाः । भक्षयन्ति बलीवर्दान् यवान् ।
KA I,337.14-27 Ro II,431-432 adikhādinīvahīnām pratiṣedhaḥ . adikhādinīvahīnām pratiṣedhaḥ vaktavyaḥ . atti devadattaḥ . ādayate devadattena . aparaḥ āha : sarvam eva pratyavasānakāryam adeḥ na bhavati iti vaktavyam , parasmaipadam api . idam ekam iṣyate : ktaḥ adhikaraṇe ca drauvyagatipratyavasānārthebhyaḥ : idam eṣām jagdham . khādi . khādati devadattaḥ . khādayati devadattena . nī . nayati devadattaḥ . nāyayati devadattena . vaheraniyantṛkartṛkasya . vaheḥ aniyantṛkartṛkasya iti vaktavyam . vahati bhāram devadattaḥ . vāhayati bhāram devadattena . aniyantṛkartṛkasya iti kimartham . vahanti yavān balīvardāḥ . vāhayanti balīvardān yavān . bhakṣeḥ ahiṃsārthasya . bhakṣeḥ ahimsārthasya iti vaktavyam . bhakṣayati piṇḍīm devadattaḥ . bhakṣayati piṇḍīm devadattena . ahimsārthasya iti kimartham . bhakṣayanti yavān balīvardāḥ . bhakṣayanti balīvardān yavān .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३८।१-९ रो इइ,४३२-४३५ अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् । अकर्मकग्रहणे कालकर्मकाणाम् उपसङ्ख्यानम् कर्तव्यम् । मासम् आस्ते देवदत्तः । मासम् आसयति देवदत्तम् । मासम् शेते देवदत्तः । मासम् शाययति देवदत्तम् । सिद्धम् तु कालकर्मकाणाम् अकर्मकवद्वचनात् । सिद्धम् एतत् । कथम् । कालकर्मकाः अकर्मकवत् भवन्ति इति वक्तव्यम् । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अकर्मकाणाम् इति उच्यते न च के चित् कदा चित् कालभावाध्वभिः अकर्मकाः । ते एवम् विज्ञास्यामः । क्व चित् ये अकर्मकाः इति । अथ वा येन कर्मणा सकर्म्काः च अकर्मकाः च भवन्ति तेन अकर्मकाणाम् । न च एतेन कर्मणा कः चित् अपि अकर्मकः । अथ वा यत् कर्म भवति न च भवति तेन कर्मकाणाम् । न च एतत् कर्म क्व चित् अपि न भवति ।
KA I,338.1-9 Ro II,432-435 akarmakagrahaṇe kālakarmakāṇām upasaṅkhyānam . akarmakagrahaṇe kālakarmakāṇām upasaṅkhyānam kartavyam . māsam āste devadattaḥ . māsam āsayati devadattam . māsam śete devadattaḥ . māsam śāyayati devadattam . siddham tu kālakarmakāṇām akarmakavadvacanāt . siddham etat . katham . kālakarmakāḥ akarmakavat bhavanti iti vaktavyam . tat tarhi vaktavyam . na vaktavyam . akarmakāṇām iti ucyate na ca ke cit kadā cit kālabhāvādhvabhiḥ akarmakāḥ . te evam vijñāsyāmaḥ . kva cit ye akarmakāḥ iti . atha vā yena karmaṇā sakarmkāḥ ca akarmakāḥ ca bhavanti tena akarmakāṇām . na ca etena karmaṇā kaḥ cit api akarmakaḥ . atha vā yat karma bhavati na ca bhavati tena karmakāṇām . na ca etat karma kva cit api na bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३८।११-१५ रो इइ,४३५ हृक्रोः वावचने अभिवादिदृश्योः आत्मनेपदे उपसङ्ख्यानम् । हृक्रोर्वावचने अभिवादिदृशोः आत्मनेपदे उपसङ्ख्यानम् कर्तव्यम् । अभिवदति गुरुम् देवदत्तः । अभिवादयते गुरुम् देवदत्तम् । अभिवादयते गुरुम् देवदत्तेन । पश्यन्ति भृत्याः राजानम् । दर्शयते भृत्यान् राजा । दर्शयते भृत्यैः राजा । कथम् च अत्र आत्मनेपदम् । एकस्य णेः अणौ इ ति अपरस्य णिचः च इति ।
KA I,338.11-15 Ro II,435 hṛkroḥ vāvacane abhivādidṛśyoḥ ātmanepade upasaṅkhyānam . hṛkrorvāvacane abhivādidṛśoḥ ātmanepade upasaṅkhyānam kartavyam . abhivadati gurum devadattaḥ . abhivādayate gurum devadattam . abhivādayate gurum devadattena . paśyanti bhṛtyāḥ rājānam . darśayate bhṛtyān rājā . darśayate bhṛtyaiḥ rājā . katham ca atra ātmanepadam . ekasya ṇeḥ aṇau i ti aparasya ṇicaḥ ca iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३८।१७-२० रो इइ,४३५-४३६ किम् यस्य स्वम् तन्त्रम् सः स्वतन्त्रः । किम् च अतः । तन्तुवाये प्राप्नोति । न एषः दोषः । अयम् तन्त्रशब्दः अस्ति एव विताने वर्तते । तत् यथा : आस्तीर्णम् तन्त्रम् । प्रेतम् तन्त्रम् । वितानः इति गम्यते । अस्ति प्राधान्ये वर्तते । तत् यथा स्वतन्त्रः असौ ब्राह्मणः इति उच्यते । स्वप्रधानः इति गम्यते । तत् यः प्राधान्ये वर्तते तन्त्रशब्दः तस्य इदम् ग्रहणम् ।
KA I,338.17-20 Ro II,435-436 kim yasya svam tantram saḥ svatantraḥ . kim ca ataḥ . tantuvāye prāpnoti . na eṣaḥ doṣaḥ . ayam tantraśabdaḥ asti eva vitāne vartate . tat yathā : āstīrṇam tantram . pretam tantram . vitānaḥ iti gamyate . asti prādhānye vartate . tat yathā svatantraḥ asau brāhmaṇaḥ iti ucyate . svapradhānaḥ iti gamyate . tat yaḥ prādhānye vartate tantraśabdaḥ tasya idam grahaṇam .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३८।२१-३३९।९ रो इइ, ४३६-४३८ स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् अस्वत्रन्त्वात् । स्वतन्त्रस्य कर्तृसञ्ज्ञायाम् हेतुमति उपसङ्ख्यानम् कर्तव्यम् । पाचयति ओदनम् देवदत्तः यज्ञदत्तेन इति । किम् पुनः कारणम् न सिध्यति । अस्वतन्त्रत्वात् । न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् । न वा कर्तव्यम् । किम् कारणम् । स्वातन्त्र्यात् । स्वतन्त्रः असौ भवति । इतरथा हि अकुर्वति अपि कारयति इति स्यात् । यः हि मन्यते न असौ स्वतन्त्रः अकुर्वति अपि तस्य कारयति इति एतत् स्यात् । न अकुर्वत् इ इति चेत् स्वतन्त्रः । न चेत् अकुर्वति तस्मिन् कारयति इति एतत् भवति स्वतन्त्रः असौ भवति । शक्यम् तावत् अनेन उपसम्ख्यानम् कुर्वता वक्तुम् कुर्वन् स्वतन्त्रः अकुर्वन् न इति । साधीयः ज्ञापकम् भवति । प्रेषिते च किल अयम् क्रियाम् च अक्रियाम् च दृष्ट्वा अध्यवस्यति कुर्वन् स्वतन्त्रः अकुर्वन् न इति । यदि च प्रेषितः असौ न करोति स्वतन्त्रः असौ भवति इति ।
KA I,338.21-339.9 Ro II, 436-438 svatantrasya kartṛsañjñāyām hetumati upasaṅkhyānam asvatrantvāt . svatantrasya kartṛsañjñāyām hetumati upasaṅkhyānam kartavyam . pācayati odanam devadattaḥ yajñadattena iti . kim punaḥ kāraṇam na sidhyati . asvatantratvāt . na vā svātrantryāt itarathā hi akurvati api kārayati iti syāt . na vā kartavyam . kim kāraṇam . svātantryāt . svatantraḥ asau bhavati . itarathā hi akurvati api kārayati iti syāt . yaḥ hi manyate na asau svatantraḥ akurvati api tasya kārayati iti etat syāt . na akurvat i iti cet svatantraḥ . na cet akurvati tasmin kārayati iti etat bhavati svatantraḥ asau bhavati . śakyam tāvat anena upasamkhyānam kurvatā vaktum kurvan svatantraḥ akurvan na iti . sādhīyaḥ jñāpakam bhavati . preṣite ca kila ayam kriyām ca akriyām ca dṛṣṭvā adhyavasyati kurvan svatantraḥ akurvan na iti . yadi ca preṣitaḥ asau na karoti svatantraḥ asau bhavati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३३९।११-२१ रो इइ,४३८-४३९ प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञाप्रसिद्धिः । प्रैषे अस्वतन्त्रप्रयोजकत्वात् हेतुसञ्ज्ञायाः अप्रसिद्धिः । स्वतन्त्रप्रयोजकः हेतुसञ्ज्ञः भवति इति उच्यते । न च असौ स्वतन्त्रम् प्रयोजयति । स्वतन्त्रत्वात् सिद्धम् । सिद्धम् एतत् । कथम् । स्वतन्त्रत्वात् । स्वतन्त्रम् असौ प्रयोजयति । स्वतन्त्रत्वात् सिद्धम् इति चेत् स्वतन्त्रपरतन्त्रत्वम् विप्रतिषिद्दम् । यदि स्वतन्त्रः न प्रयोज्यः अथ प्रयोज्यः न स्वतन्त्रः प्रयोज्यः स्वतन्त्रः च इति विप्रतिषिद्धम् । उक्तम् वा । किम् उक्तम् । एकम् तावत् उक्तम् न वा स्वात्रन्त्र्यात् इतरथा हि अकुर्वति अपि कारयति इति स्यात् इति । अपरम् उक्तम् । न वा सामान्यकृतत्वात् हेतुतः हि अविशिष्टम् स्वतन्त्रप्रयोजकत्वात् अप्रयोजकः इति चेत् मुक्तमसम्शयेन तुल्यम् इति ।
KA I,339.11-21 Ro II,438-439 praiṣe asvatantraprayojakatvāt hetusañjñāprasiddhiḥ . praiṣe asvatantraprayojakatvāt hetusañjñāyāḥ aprasiddhiḥ . svatantraprayojakaḥ hetusañjñaḥ bhavati iti ucyate . na ca asau svatantram prayojayati . svatantratvāt siddham . siddham etat . katham . svatantratvāt . svatantram asau prayojayati . svatantratvāt siddham iti cet svatantraparatantratvam vipratiṣiddam . yadi svatantraḥ na prayojyaḥ atha prayojyaḥ na svatantraḥ prayojyaḥ svatantraḥ ca iti vipratiṣiddham . uktam vā . kim uktam . ekam tāvat uktam na vā svātrantryāt itarathā hi akurvati api kārayati iti syāt iti . aparam uktam . na vā sāmānyakṛtatvāt hetutaḥ hi aviśiṣṭam svatantraprayojakatvāt aprayojakaḥ iti cet muktamasamśayena tulyam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४०।२-२५ रो इइ,४४०-४४२ किमर्थम् रेफाधिकः ईश्वरशब्दः गृह्यते । रीश्वरात् वीश्वरात् मा भूत् । रीश्वरात् इति उच्यते वीश्वरात् मा भूत् । शकि णमुल्कमुलौ ईश्वरे तोसुन्कसुनौ इति । न एतत् अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति अनन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति यत् अयम् कृत् मेजन्तः इति कृतः मान्तस्य एजन्तस्य च अव्ययसञ्ज्ञाम् शास्ति । कृत् मेजन्तः परः अपि सः । परः अपि एतस्मात् कृत् मान्तः एजन्तः च अस्ति । तदर्थम् एतत् स्यात् । यत् तर्हि अव्ययीभावस्य अव्ययसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः नन्तरः यः ईश्वरशब्दः तस्य ग्रहणम् इति । समासेषु अव्ययीभावः । समासस्य एतत् ज्ञापकम् स्यात् । अव्ययीभावः एव समासः अव्ययसञ्ज्ञः भवति न अन्यः इति । एवम् तर्हि लोकतः एतत् सिद्धम् । तत् यथा लोके आ वनान्तात् आ उदकान्तात् प्रियम् पान्थमन् उव्रजेत् इति यः एव प्रथमः वनान्तः उदकान्तः च ततः नुव्रजति । लौकिकम् च अतिवर्तते । द्वितीयम् च तृतीयम् च वनान्तम् उदकान्तम् वा अनुव्रजति । तस्मात् रेफादिकः ईश्वरशब्दः ग्रहीतव्यः । अथ प्राग्वचनम् किमर्थम् । प्राग्वचनम् सञ्ज्ञानिवृत्त्यर्थम् । प्राग्वचनम् क्रियते निपातसञ्ज्ञायाः अनिवृत्तिः यथा स्यात् । अक्रियमाणे हि प्राग्वचने अनवकाशाः गत्युपसर्गकर्मप्रवचनीयसञ्ज्ञाः निपातसञ्ज्ञाम् बाधेरन् । ताः मा बाधिषत इति प्राग्वचनम् क्रियते । अथ क्रियमाणे अपि प्राग्वचने यावता अनवकाशाः एताः सञ्ज्ञाः कस्मात् एव न बाधन्ते । क्रियमाणे हि प्राग्वचने सत्याम् निपातसञ्ज्ञायाम् एताः अवयवसञ्ज्ञाः आरभ्यन्ते । तत्र वचनात् समावेशः भवति ।
KA I,340.2-25 Ro II,440-442 kimartham rephādhikaḥ īśvaraśabdaḥ gṛhyate . rīśvarāt vīśvarāt mā bhūt . rīśvarāt iti ucyate vīśvarāt mā bhūt . śaki ṇamulkamulau īśvare tosunkasunau iti . na etat asti prayojanam . ācāryapravṛttiḥ jñāpayati anantaraḥ yaḥ īśvaraśabdaḥ tasya grahaṇam iti yat ayam kṛt mejantaḥ iti kṛtaḥ māntasya ejantasya ca avyayasañjñām śāsti . kṛt mejantaḥ paraḥ api saḥ . paraḥ api etasmāt kṛt māntaḥ ejantaḥ ca asti . tadartham etat syāt . yat tarhi avyayībhāvasya avyayasañjñām śāsti tat jñāpayati ācāryaḥ nantaraḥ yaḥ īśvaraśabdaḥ tasya grahaṇam iti . samāseṣu avyayībhāvaḥ . samāsasya etat jñāpakam syāt . avyayībhāvaḥ eva samāsaḥ avyayasañjñaḥ bhavati na anyaḥ iti . evam tarhi lokataḥ etat siddham . tat yathā loke ā vanāntāt ā udakāntāt priyam pānthaman uvrajet iti yaḥ eva prathamaḥ vanāntaḥ udakāntaḥ ca tataḥ nuvrajati . laukikam ca ativartate . dvitīyam ca tṛtīyam ca vanāntam udakāntam vā anuvrajati . tasmāt rephādikaḥ īśvaraśabdaḥ grahītavyaḥ . atha prāgvacanam kimartham . prāgvacanam sañjñānivṛttyartham . prāgvacanam kriyate nipātasañjñāyāḥ anivṛttiḥ yathā syāt . akriyamāṇe hi prāgvacane anavakāśāḥ gatyupasargakarmapravacanīyasañjñāḥ nipātasañjñām bādheran . tāḥ mā bādhiṣata iti prāgvacanam kriyate . atha kriyamāṇe api prāgvacane yāvatā anavakāśāḥ etāḥ sañjñāḥ kasmāt eva na bādhante . kriyamāṇe hi prāgvacane satyām nipātasañjñāyām etāḥ avayavasañjñāḥ ārabhyante . tatra vacanāt samāveśaḥ bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४१।२-९ रो इइ,४४२-४४४ अयम् सत्त्वशब्दः अस्ति एव द्रव्यपदार्थकः । तत् यथा सत्त्वम् अयम् ब्राह्मणः सत्त्वमियम् ब्राह्मणी इति । अस्ति क्रियापदार्थकः । सद्भावः सत्त्वम् इति । कस्य इदम् ग्रहणम् । द्रव्यपदार्थकस्य । कुतः एतत् । एवम् हि कृत्वा विधिः च सिद्धः भवति प्रतिषेधः च । किम् पुनः अयम् पर्युदासः । यत् अन्यत् सत्त्ववचनात् इति । आहोस्वित् प्रसज्य अयम् प्रतिषेधः । सत्त्ववचने न इति । किम् च अतः । यदि पर्युदासः विप्रः इति अत्र अपि प्राप्नोति । क्रियाद्रव्यवचनः अयम् सम्घातो द्रव्यात् अन्यश्च विधिना आश्रीयते । अस्ति च प्रादिभिः सामान्यम् इति कृत्वा तदन्तविधिना निपातसञ्ज्ञा प्राप्नोति । अथ प्रसज्यप्रतिषेधः न दोषः भवति । यथा न दोषः तथा अस्तु ।
KA I,341.2-9 Ro II,442-444 ayam sattvaśabdaḥ asti eva dravyapadārthakaḥ . tat yathā sattvam ayam brāhmaṇaḥ sattvamiyam brāhmaṇī iti . asti kriyāpadārthakaḥ . sadbhāvaḥ sattvam iti . kasya idam grahaṇam . dravyapadārthakasya . kutaḥ etat . evam hi kṛtvā vidhiḥ ca siddhaḥ bhavati pratiṣedhaḥ ca . kim punaḥ ayam paryudāsaḥ . yat anyat sattvavacanāt iti . āhosvit prasajya ayam pratiṣedhaḥ . sattvavacane na iti . kim ca ataḥ . yadi paryudāsaḥ vipraḥ iti atra api prāpnoti . kriyādravyavacanaḥ ayam samghāto dravyāt anyaśca vidhinā āśrīyate . asti ca prādibhiḥ sāmānyam iti kṛtvā tadantavidhinā nipātasañjñā prāpnoti . atha prasajyapratiṣedhaḥ na doṣaḥ bhavati . yathā na doṣaḥ tathā astu .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४२।२-६ रो इइ,४४६ कारिकाशब्दस्य । कारिकाशब्दस्य उपसङ्ख्यानम् कर्तव्यम् । कारिकाकृत्य । पुनश्चनसौ छन्दसि । पुनश्चनसौ छन्दसि गतिसञ्ज्ञौ भवतः इति वक्तव्यम् । पुनरुत्स्यूतम् वासः देयम् । पुनर्निष्कृतः रथः । उशिक् दूतः चनोहितः ।
KA I,342.2-6 Ro II,446 kārikāśabdasya . kārikāśabdasya upasaṅkhyānam kartavyam . kārikākṛtya . punaścanasau chandasi . punaścanasau chandasi gatisañjñau bhavataḥ iti vaktavyam . punarutsyūtam vāsaḥ deyam . punarniṣkṛtaḥ rathaḥ . uśik dūtaḥ canohitaḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४२।७-३४३।८ रो इइ,४४६-४४८ गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति इति वचनम् । गत्युपसर्गसञ्ज्ञाः क्रियायोगे यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञाः भवन्ति इति वक्तव्यम् । किम् प्रयोजनम् । प्रयोजनम् घञ् षट्वणत्वे । घञ् । प्रवृद्धः भावः प्रभावः । अनुपसर्गे इति प्रतिषेधः मा भूत् । षत्वम् । विगताः सेचकाः अस्मात् ग्रामात् विसेचकः ग्रामः । उपसर्गात् इति षत्वम् मा भूत् । णत्वम् । प्रगताः नायकाः अस्मात् ग्रामात् प्रनायकः ग्रामः । उपसर्गादिति णत्वम् मा भूत् । वृद्धिविधौ च धातुग्रहणानर्थक्यम् । वृद्धिविधौ च धातुग्रहणम् अनर्थकम् । उपसर्गात् ऋति धातौ इति । तत्र धातुग्रहणस्य एतत् प्रयोजनम् इह मा भूत् प्रर्षभम् वनम् इति । क्रियमाणे च अपि धातुग्रहणे प्रर्च्छक इति अत्र प्राप्नोति । यत्क्रियायुक्ताः तम् प्रति इति वचनात् न भवति । वद्विध्नभावाबीत्त्वस्वाङ्गादिस्वरणत्वेषु दोषः भवति । वद्विधि। यत् उद्वतः निवतः यासि बप्सत् । वद्विधि । नस्भाव । प्रणसम् मुखम् उन्नसम् मुखम् । नस्भाव । अबीत्त्व ।प्रेपम् परेपम् । अबित्त्व । स्वाङ्गादिस्वर । प्रस्फिक् प्रोदरः । स्वाङ्गादिस्वर । णत्व । प्र णः शूद्रः प्र णः आचार्यः प्र णः राजा प्र णः वृत्रहा । उपसर्गात् इति एते विधयः न प्राप्नुवन्ति । वद्विधिनस्भावबीत्त्वस्वाङ्गदिस्वरणत्वेषु वचनप्रामाण्यात् सिद्धम् । अनवकाशाः एते विधयः । ते वचनप्रामाण्यात् भविष्यन्ति । सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु । सुदुरोः प्रतिषेधः नुम्विधितत्वषत्वणत्वेषु वक्तव्यः । नुम्विधि : सुलभम् दुर्लभम् । उपसर्गात् इति नुम् मा भूत् इति । न सुदुर्भ्याम् केवलाभ्याम् । इति एतत् न वक्तव्यम् भवति । न एतत् अस्ति प्रयोजनम् । क्रियते एतत् न्यासे एव । तत्वम् । सुदत्तम् । अचः उपसर्गात् तः इति तत्वम् मा भूत् इति । षत्वम् । सुसिक्तम् घटशतेन सुस्तुतम् श्लोकशतेन । उपसर्गात् इति षत्वम् मा भूतिति । सुः पूजायाम् इति एतत् न वक्तव्यम् भवति । न एतत् अस्ति प्रयोजनम् । क्रियत एतत् न्यासे एव । णत्वम् । दुर्नयम् दुर्नीतमिति । उपसर्गात् इति णत्वम् मा भूत् इति ।
KA I,342.7-343.8 Ro II,446-448 gatyupasargasañjñāḥ kriyāyoge yatkriyāyuktāḥ tam prati iti vacanam . gatyupasargasañjñāḥ kriyāyoge yatkriyāyuktāḥ tam prati gatyupasargasañjñāḥ bhavanti iti vaktavyam . kim prayojanam . prayojanam ghañ ṣaṭvaṇatve . ghañ . pravṛddhaḥ bhāvaḥ prabhāvaḥ . anupasarge iti pratiṣedhaḥ mā bhūt . ṣatvam . vigatāḥ secakāḥ asmāt grāmāt visecakaḥ grāmaḥ . upasargāt iti ṣatvam mā bhūt . ṇatvam . pragatāḥ nāyakāḥ asmāt grāmāt pranāyakaḥ grāmaḥ . upasargāditi ṇatvam mā bhūt . vṛddhividhau ca dhātugrahaṇānarthakyam . vṛddhividhau ca dhātugrahaṇam anarthakam . upasargāt ṛti dhātau iti . tatra dhātugrahaṇasya etat prayojanam iha mā bhūt prarṣabham vanam iti . kriyamāṇe ca api dhātugrahaṇe prarcchaka iti atra prāpnoti . yatkriyāyuktāḥ tam prati iti vacanāt na bhavati . vadvidhnabhāvābīttvasvāṅgādisvaraṇatveṣu doṣaḥ bhavati . vadvidhi. yat udvataḥ nivataḥ yāsi bapsat . vadvidhi . nasbhāva . praṇasam mukham unnasam mukham . nasbhāva . abīttva .prepam parepam . abittva . svāṅgādisvara . prasphik prodaraḥ . svāṅgādisvara . ṇatva . pra ṇaḥ śūdraḥ pra ṇaḥ ācāryaḥ pra ṇaḥ rājā pra ṇaḥ vṛtrahā . upasargāt iti ete vidhayaḥ na prāpnuvanti . vadvidhinasbhāvabīttvasvāṅgadisvaraṇatveṣu vacanaprāmāṇyāt siddham . anavakāśāḥ ete vidhayaḥ . te vacanaprāmāṇyāt bhaviṣyanti . suduroḥ pratiṣedhaḥ numvidhitatvaṣatvaṇatveṣu . suduroḥ pratiṣedhaḥ numvidhitatvaṣatvaṇatveṣu vaktavyaḥ . numvidhi : sulabham durlabham . upasargāt iti num mā bhūt iti . na sudurbhyām kevalābhyām . iti etat na vaktavyam bhavati . na etat asti prayojanam . kriyate etat nyāse eva . tatvam . sudattam . acaḥ upasargāt taḥ iti tatvam mā bhūt iti . ṣatvam . susiktam ghaṭaśatena sustutam ślokaśatena . upasargāt iti ṣatvam mā bhūtiti . suḥ pūjāyām iti etat na vaktavyam bhavati . na etat asti prayojanam . kriyata etat nyāse eva . ṇatvam . durnayam durnītamiti . upasargāt iti ṇatvam mā bhūt iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४३।१०-१२ रो इइ,४४९ कृभ्वस्तियोगे इति वक्तव्यम् । इह एव यथा स्यात् । ऊरीकृत्य ऊरीभूय । इह मा भूत् । ऊरी पक्त्वा । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । क्रियायोगे इति अनुवर्तते न च अन्यया क्रियया ऊर्यादिच्विडाचाम् योगः अस्ति ।
KA I,343.10-12 Ro II,449 kṛbhvastiyoge iti vaktavyam . iha eva yathā syāt . ūrīkṛtya ūrībhūya . iha mā bhūt . ūrī paktvā . tat tarhi vaktavyam . na vaktavyam . kriyāyoge iti anuvartate na ca anyayā kriyayā ūryādicviḍācām yogaḥ asti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४३।१४-२२ रो इइ,४४९-४५० कथम् इदम् विज्ञायते । इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति आहोस्वित् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति । किम् च अतः । यदि विज्ञायत इतेः परम् इतिपरम् न इतिपरम् अनितिपरम् इति खाट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति । अथ इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति । अस्तु तावत् इतिः परो यस्मात् तत् इदम् इतिपरम् न इतिपरम् अनितिपरमिति । ननु च उक्तम् श्रौषट् वौषट् इति कृत्वा निरष्ठीवत् इति अत्र प्राप्नोति इति । न एषः दोषः । इदम् तावत् अयम् प्रष्टव्यः । अथ इह ते प्राक् धातोः इति कथम् गतिमात्रस्य पूर्वप्रयोग्ः भवति । उपोद्धरति इति । गत्याकृतिः प्रतिनिर्दिश्यते । इह अपि तर्हि अनुकरणाकृतिः निर्दिश्यते ।
KA I,343.14-22 Ro II,449-450 katham idam vijñāyate . iteḥ param itiparam na itiparam anitiparam iti āhosvit itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti . kim ca ataḥ . yadi vijñāyata iteḥ param itiparam na itiparam anitiparam iti khāṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti . atha itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti . astu tāvat itiḥ paro yasmāt tat idam itiparam na itiparam anitiparamiti . nanu ca uktam śrauṣaṭ vauṣaṭ iti kṛtvā niraṣṭhīvat iti atra prāpnoti iti . na eṣaḥ doṣaḥ . idam tāvat ayam praṣṭavyaḥ . atha iha te prāk dhātoḥ iti katham gatimātrasya pūrvaprayogḥ bhavati . upoddharati iti . gatyākṛtiḥ pratinirdiśyate . iha api tarhi anukaraṇākṛtiḥ nirdiśyate .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४३।२३-३४४। ३ रो इइ,४५० किमर्थम् इदम् उच्यते । अनुकरणस्य इतिकरणपरत्वप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः । अनुकरणस्य इतिकरणपरत्वप्रतिषेधः उच्यते । किम् प्रयोजनम् । अनिष्टशब्दनिवृत्त्यर्थः । अनिष्ठशब्दता मा भूत् इति । इदम् विचारयिष्यति तेप्राग्धातुवचनम् प्रयोगनियमार्थम् वा स्यात् सञ्ज्ञानियमार्थम् वा इति । तत् यदा प्रयोगनियमार्थम् तदा अनिष्ठशब्दनिवृत्त्यर्थम् इदम् वक्तव्यम् । यदा हि सञ्ज्ञानियमार्थम् तदा न दोषः भवति ।
KA I,343.23-344. 3 Ro II,450 kimartham idam ucyate . anukaraṇasya itikaraṇaparatvapratiṣedhaḥ aniṣṭaśabdanivṛttyarthaḥ . anukaraṇasya itikaraṇaparatvapratiṣedhaḥ ucyate . kim prayojanam . aniṣṭaśabdanivṛttyarthaḥ . aniṣṭhaśabdatā mā bhūt iti . idam vicārayiṣyati teprāgdhātuvacanam prayoganiyamārtham vā syāt sañjñāniyamārtham vā iti . tat yadā prayoganiyamārtham tadā aniṣṭhaśabdanivṛttyartham idam vaktavyam . yadā hi sañjñāniyamārtham tadā na doṣaḥ bhavati .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४४।५-१० रो इइ,४५०-४५१ इदम् अतिबहु क्रियते आदरे अनादरे सत् असत् इति । आदारे सत् इति एव सिद्धम् । कथम् असत्कृत्य इति । तदन्तिविधिना भविष्यति । केन इदानीम् अनादरे भविष्यति । नञा आदरप्रतिषेधम् विज्ञास्यामः । नादरे अनादरे इति । न एवम् शक्यम् । आदरप्रसङ्गे एव हि स्यात् । अनादरप्रसङ्गे न स्यात् । अनादरग्रहणे पुनः क्रियमाणे बहुव्रीहिः अयम् विज्ञायते । अविद्यमानादरे अनादरे इति । तस्मात् अनादरग्रहणम् कर्तव्यम् । असतः तु तदन्तविधिना सिद्धम् ।
KA I,344.5-10 Ro II,450-451 idam atibahu kriyate ādare anādare sat asat iti . ādāre sat iti eva siddham . katham asatkṛtya iti . tadantividhinā bhaviṣyati . kena idānīm anādare bhaviṣyati . nañā ādarapratiṣedham vijñāsyāmaḥ . nādare anādare iti . na evam śakyam . ādaraprasaṅge eva hi syāt . anādaraprasaṅge na syāt . anādaragrahaṇe punaḥ kriyamāṇe bahuvrīhiḥ ayam vijñāyate . avidyamānādare anādare iti . tasmāt anādaragrahaṇam kartavyam . asataḥ tu tadantavidhinā siddham .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४४। १२-१४ रो इइ,४५२ अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम् । अन्तःशब्दस्य आङ्किविधिसमासणत्वेषु पसङ्ख्यानम् कर्तव्यम् । अङ् । अन्तर्धा । किविधिः । अन्तर्धिः । समासः । अन्तर्हत्य । णत्वम् । अन्तर्हण्यात् गोभ्यो गाः ।
KA I,344. 12-14 Ro II,452 antaḥśabdasya āṅkividhisamāsaṇatveṣu pasaṅkhyānam . antaḥśabdasya āṅkividhisamāsaṇatveṣu pasaṅkhyānam kartavyam . aṅ . antardhā . kividhiḥ . antardhiḥ . samāsaḥ . antarhatya . ṇatvam . antarhaṇyāt gobhyo gāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४४।१६-३४५।७ रो इइ,४५२-४५३ साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् । साक्षात्प्रभृतिषु च्व्यर्थग्रहणम् कर्तव्यम् । असाक्षात्साक्षात्कृत्वा साक्षात्कृत्य । यदा हि साक्षात् एव किम् चित् क्रियते तदा मा भूत् इति । मकारान्तत्वम् च गतिसञ्ज्ञासन्नियुक्तम् । मकारान्तत्वम् च गतिसञ्ज्ञासन्नियोगेन वक्तव्यम् । लवणङ्कृत्य । तत्र च्विप्रतिषेधः । तत्र च्व्यन्तस्य प्रतिषेधः वक्तव्यः । लवणीकृत्य । न वा पूर्वेण कृतत्वात् ण वा वक्तव्यम् । किम् कारणम् । पूर्वेण कृतत्वात् । अस्तु अनेन विभाषा । पूर्वेण नित्यः भविष्यति । इदम् तर्हि प्रयोजनम् । मकारान्तत्वम् च गतिसञ्ज्ञासन्नियुक्तम् इति उक्तम् । तत् च्व्यन्तस्य मा भूत् इति । एतत् अपि न अस्ति प्रयोजनम् । लवणशब्दस्य अयम् विभाषा लवणम्शब्द आदेशः क्रियते । यदि च लवणी शब्दस्य अपि विभाषा लवणम्शब्दः आदेशः भवति न किम् चिद् दुष्यति । त्रैशब्द्यम् च ह साध्यम् । । तच्च एवम् सति सिद्धम् भवति इति ।
KA I,344.16-345.7 Ro II,452-453 sākṣātprabhṛtiṣu cvyarthagrahaṇam . sākṣātprabhṛtiṣu cvyarthagrahaṇam kartavyam . asākṣātsākṣātkṛtvā sākṣātkṛtya . yadā hi sākṣāt eva kim cit kriyate tadā mā bhūt iti . makārāntatvam ca gatisañjñāsanniyuktam . makārāntatvam ca gatisañjñāsanniyogena vaktavyam . lavaṇaṅkṛtya . tatra cvipratiṣedhaḥ . tatra cvyantasya pratiṣedhaḥ vaktavyaḥ . lavaṇīkṛtya . na vā pūrveṇa kṛtatvāt ṇa vā vaktavyam . kim kāraṇam . pūrveṇa kṛtatvāt . astu anena vibhāṣā . pūrveṇa nityaḥ bhaviṣyati . idam tarhi prayojanam . makārāntatvam ca gatisañjñāsanniyuktam iti uktam . tat cvyantasya mā bhūt iti . etat api na asti prayojanam . lavaṇaśabdasya ayam vibhāṣā lavaṇamśabda ādeśaḥ kriyate . yadi ca lavaṇī śabdasya api vibhāṣā lavaṇamśabdaḥ ādeśaḥ bhavati na kim cid duṣyati . traiśabdyam ca ha sādhyam . | tacca evam sati siddham bhavati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४५।९-३४६।१४ रो इइ,४५३-४५६ किमिदम् प्राग्धातुवचनम् प्रयोगनियमार्थम् : एते प्राक् एव धातोः प्रयोक्तव्याः । आहोस्वित् सञ्ज्ञानियमार्थम् : एते प्राक् च अक्प्राक् च प्रयोक्तव्याः , प्राक् प्रयुज्यमानानाम् गतिसञ्ज्ञा भवति इति । कः च अत्र विशेषः । प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः अनिष्टशब्दनिवृत्त्यर्थः । प्राग्धातुवचनम् प्रयोगनियमार्थम् इति चेत् अनुकरणस्य इतिकरणपरप्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । अनिष्टशब्दनिवृत्त्यर्थः । अनिष्टशबता मा भूत् इति । छन्दसि परव्यवहितवचनम् च । छन्दसि परे अपि व्यवहिताः च इति वक्तव्यम् । सञ्ज्ञानियमे सिद्धम् । सञ्ज्ञानियमे सिद्धम् एतत् भवति । अस्तु तर्हि सञ्ज्ञानियमः । उभयोः अनर्थकम् वचनम् अनिष्टादर्शनात् । उभयोः अपि पक्षयोः वचनमनर्थकम् । किम् कारणम् । अनिष्टादर्शनात् । न हि कः चित्प्रपचति इति प्रयोक्तव्ये पचतिप्र इति प्रयुङ्क्ते । यदि च अनिष्टम् दृश्येत ततः यत्नार्हम् स्यात् । उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् । उपसर्जनसन्निपाते तु पूर्वपरव्यवस्थार्थम् एतत् वक्तव्यम् । ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् । अत्र गतेः प्राक् धातोः प्रयोगः यथा स्यात् । यदि उपसर्जनसन्निपाते पूर्वपरव्यवस्थार्थम् इदम् उच्यते सुकटम्कराणि वीरणान् इ इति अत्र गतेः प्राक् धातोः प्रयोगः प्राप्नोति । आचार्यप्रवृत्तिः ज्ञापयति न अत्र गतेः प्राक्प्रयोगः भवति इति यत् अयम् ईषद्दुःसुषु कृच्छ्राकृच्छार्थेषु खल् इति खकारम् अनुबन्धम् करोति । कथम् कृत्वा ज्ञापकम् । खित्करणे एतत् प्रयोजनम् खिति इति मुम् यथा स्यात् इति । यदि च अत्र गतेः प्राक्प्रयोगः स्यात् खित्करणम् अनर्थकम् स्यात् । अस्तु अत्र मुम् । अनव्ययस्य इति प्रतिषेधः भविष्यति । पश्यति तु आचार्यः न अत्र गतेः प्राक् धतोः प्रयोगः भवति इति ततः खकारम् अनुबन्धम् करोति । न एतत् अस्ति ज्ञापकम् । यदि अपि अत्र गतेः प्राक्प्रयोगः स्यात् स्यातेवात्र मुमागमः । कथम् । कृद्ग्रहणे गतिकारकपूर्वस्य अपि ग्रहणम् भवति इति । तस्मात् न अर्थः एवमर्थेन प्राग्धातुवचनेन । कथम् ऋषभम् कूलमुद्रुजम् ऋषभम् कूलमुद्वहम् । न एषः दोषः । न एषः उदिः उपपदम् । किम् तर्हि । विशेषणम् । उदि कूले रुजिवहोः । उत्पूर्वाभ्याम् रुजिवहिभ्याम् कूले उपपदे इति ।
KA I,345.9-346.14 Ro II,453-456 kimidam prāgdhātuvacanam prayoganiyamārtham : ete prāk eva dhātoḥ prayoktavyāḥ . āhosvit sañjñāniyamārtham : ete prāk ca akprāk ca prayoktavyāḥ , prāk prayujyamānānām gatisañjñā bhavati iti . kaḥ ca atra viśeṣaḥ . prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ aniṣṭaśabdanivṛttyarthaḥ . prāgdhātuvacanam prayoganiyamārtham iti cet anukaraṇasya itikaraṇaparapratiṣedhaḥ vaktavyaḥ . kim prayojanam . aniṣṭaśabdanivṛttyarthaḥ . aniṣṭaśabatā mā bhūt iti . chandasi paravyavahitavacanam ca . chandasi pare api vyavahitāḥ ca iti vaktavyam . sañjñāniyame siddham . sañjñāniyame siddham etat bhavati . astu tarhi sañjñāniyamaḥ . ubhayoḥ anarthakam vacanam aniṣṭādarśanāt . ubhayoḥ api pakṣayoḥ vacanamanarthakam . kim kāraṇam . aniṣṭādarśanāt . na hi kaḥ citprapacati iti prayoktavye pacatipra iti prayuṅkte . yadi ca aniṣṭam dṛśyeta tataḥ yatnārham syāt . upasarjanasannipāte tu pūrvaparavyavasthārtham . upasarjanasannipāte tu pūrvaparavyavasthārtham etat vaktavyam . ṛṣabham kūlamudrujam ṛṣabham kūlamudvaham . atra gateḥ prāk dhātoḥ prayogaḥ yathā syāt . yadi upasarjanasannipāte pūrvaparavyavasthārtham idam ucyate sukaṭamkarāṇi vīraṇān i iti atra gateḥ prāk dhātoḥ prayogaḥ prāpnoti . ācāryapravṛttiḥ jñāpayati na atra gateḥ prākprayogaḥ bhavati iti yat ayam īṣadduḥsuṣu kṛcchrākṛcchārtheṣu khal iti khakāram anubandham karoti . katham kṛtvā jñāpakam . khitkaraṇe etat prayojanam khiti iti mum yathā syāt iti . yadi ca atra gateḥ prākprayogaḥ syāt khitkaraṇam anarthakam syāt . astu atra mum . anavyayasya iti pratiṣedhaḥ bhaviṣyati . paśyati tu ācāryaḥ na atra gateḥ prāk dhatoḥ prayogaḥ bhavati iti tataḥ khakāram anubandham karoti . na etat asti jñāpakam . yadi api atra gateḥ prākprayogaḥ syāt syātevātra mumāgamaḥ . katham . kṛdgrahaṇe gatikārakapūrvasya api grahaṇam bhavati iti . tasmāt na arthaḥ evamarthena prāgdhātuvacanena . katham ṛṣabham kūlamudrujam ṛṣabham kūlamudvaham . na eṣaḥ doṣaḥ . na eṣaḥ udiḥ upapadam . kim tarhi . viśeṣaṇam . udi kūle rujivahoḥ . utpūrvābhyām rujivahibhyām kūle upapade iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४६।१६-१८ रो इइ,४५६-४५७ किमर्थम् महती सञ्ज्ञा क्रियते । अन्वर्थसञ्ज्ञा यथा विज्ञायेत । कर्म प्रोक्तवन्तः कर्मप्रवचनीयाः इति । के पुनः कर्म प्रोक्तवन्तः । ये सम्प्रति क्रियाम् न आहुः । के च सम्प्रति क्रियाम् न आहुः । ये अप्रयुज्यमानस्य क्रियाम् आहुः ते कर्मप्रवचनीयाः ।
KA I,346.16-18 Ro II,456-457 kimartham mahatī sañjñā kriyate . anvarthasañjñā yathā vijñāyeta . karma proktavantaḥ karmapravacanīyāḥ iti . ke punaḥ karma proktavantaḥ . ye samprati kriyām na āhuḥ . ke ca samprati kriyām na āhuḥ . ye aprayujyamānasya kriyām āhuḥ te karmapravacanīyāḥ .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४६।२०-३४७।२१ रो इइ,४५८-४६० किमर्थम् इदम् उच्यते । कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् । गत्युपसर्गसञ्ज्ञे मा भूताम् इति । किम् च स्यात् । शाकल्यस्य सम्हिताम् अनु प्रावर्षत् : गतिः गतौ इति निघातः प्रसज्येत । यदि एवम् वेः अपि कर्मप्रवचनीयसञ्ज्ञा वक्तव्या । वेः अपि निघातः न इष्यते : प्रादेशम् प्रादेशम् विपरिलिखति । अस्ति अत्र विशेषः । न अत्र वेः लिखिम् प्रति क्रियायोगः । किम् तर्हि । अप्रयुज्यमानम् । प्रादेशम् प्रादेशम् विमाय परिलिखति इति । यदि एवम् अनोः अपि कर्मप्रवचनीयसञ्ज्ञया न अर्थः । अनोः अपि हि न वृषिम् प्रति क्रियायोगः । किम् तर्हि अप्रयुज्यमानम् । शाकल्येन सुकृताम् सम्हिताम् अनुविशम्य देवः प्रावर्षत् । इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति । अतः उत्तरम् पठति । अनुर्लक्षणेवचनानर्थक्यम् सामान्यकृतत्वात् । अनुर्लक्षणेवचनार्थक्यम् । किम् कारणम् । सामान्यकृतत्वात् । सामान्येन एव अत्र कर्मप्रवचनीयसञ्ज्ञा भविष्यति लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः इति । हेत्वर्थम् तु वचनम् । हेत्वर्थम् इदम् वक्तव्यम् । हेतुः शाकल्यस्य सम्हिता वर्षस्य न लक्षणम् । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । लक्षणम् हि नाम सः भवति येन पुनः पुनः लक्ष्यते न यः सकृदपि निमित्तत्वाय कल्पते । सकृत् च असौ शाकल्येन सुकृताम् सम्हिताम् अनुशिम्य देवः प्रावर्षत् । सः तर्हि तथा । निर्देशः कर्तव्यः अनुः हेतौ इति । अथ इदानीम् लक्षणेन हेतुः अपि व्याप्तः न अर्थः अनेन । लक्षणेन हेतुः अपि व्याप्तः । न हि अवश्यम् तत् एव लक्षणम् भवति येन पुनः पुनः लक्ष्यते । किम् तर्हि । यत् सकृत् अपि निमित्त्वाय कल्पते तत् अपि लक्षणम् भवति । तत् यथा अपि भवान् कमण्डुलपाणिम् छात्रम् अद्रक्षीत् इति । सकृत् आसौ कमण्डलुपाणिः छात्रः दृष्टः तस्य तत् एव लक्षणम् भवति । तत् एव तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति । एतत् अपि न अस्ति प्रयोजनम् । सिद्धा अत्र द्वितीया कर्मप्रवचनीययुक्ते इति एव । न सिध्यति । परत्वात् हेतुत्वाश्रया तृतीया प्राप्नोति ।
KA I,346.20-347.21 Ro II,458-460 kimartham idam ucyate . karmapravacanīyasañjñā yathā syāt . gatyupasargasañjñe mā bhūtām iti . kim ca syāt . śākalyasya samhitām anu prāvarṣat : gatiḥ gatau iti nighātaḥ prasajyeta . yadi evam veḥ api karmapravacanīyasañjñā vaktavyā . veḥ api nighātaḥ na iṣyate : prādeśam prādeśam viparilikhati . asti atra viśeṣaḥ . na atra veḥ likhim prati kriyāyogaḥ . kim tarhi . aprayujyamānam . prādeśam prādeśam vimāya parilikhati iti . yadi evam anoḥ api karmapravacanīyasañjñayā na arthaḥ . anoḥ api hi na vṛṣim prati kriyāyogaḥ . kim tarhi aprayujyamānam . śākalyena sukṛtām samhitām anuviśamya devaḥ prāvarṣat . idam tarhi prayojanam dvitīyā yathā syāt karmapravacanīyayukte dvitīyā iti . ataḥ uttaram paṭhati . anurlakṣaṇevacanānarthakyam sāmānyakṛtatvāt . anurlakṣaṇevacanārthakyam . kim kāraṇam . sāmānyakṛtatvāt . sāmānyena eva atra karmapravacanīyasañjñā bhaviṣyati lakṣaṇetthambhūtākhyānabhāgavīpsāsu pratiparyanavaḥ iti . hetvartham tu vacanam . hetvartham idam vaktavyam . hetuḥ śākalyasya samhitā varṣasya na lakṣaṇam . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . lakṣaṇam hi nāma saḥ bhavati yena punaḥ punaḥ lakṣyate na yaḥ sakṛdapi nimittatvāya kalpate . sakṛt ca asau śākalyena sukṛtām samhitām anuśimya devaḥ prāvarṣat . saḥ tarhi tathā . nirdeśaḥ kartavyaḥ anuḥ hetau iti . atha idānīm lakṣaṇena hetuḥ api vyāptaḥ na arthaḥ anena . lakṣaṇena hetuḥ api vyāptaḥ . na hi avaśyam tat eva lakṣaṇam bhavati yena punaḥ punaḥ lakṣyate . kim tarhi . yat sakṛt api nimittvāya kalpate tat api lakṣaṇam bhavati . tat yathā api bhavān kamaṇḍulapāṇim chātram adrakṣīt iti . sakṛt āsau kamaṇḍalupāṇiḥ chātraḥ dṛṣṭaḥ tasya tat eva lakṣaṇam bhavati . tat eva tarhi prayojanam dvitīyā yathā syāt karmapravacanīyayukte dvitīyā iti . etat api na asti prayojanam . siddhā atra dvitīyā karmapravacanīyayukte iti eva . na sidhyati . paratvāt hetutvāśrayā tṛtīyā prāpnoti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४७।२३-२५ रो इइ,४६१ आङ् मर्यादाभिविध्योः इति वक्तव्यम् । इह अपि यथा स्यात् आकुमारम् यशः पाणिनेः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । मर्यादावचने इति एव सिद्धम् । एषा अस्य यशसः मर्यादा ।
KA I,347.23-25 Ro II,461 āṅ maryādābhividhyoḥ iti vaktavyam . iha api yathā syāt ākumāram yaśaḥ pāṇineḥ iti . tat tarhi vaktavyam . na vaktavyam . maryādāvacane iti eva siddham . eṣā asya yaśasaḥ maryādā .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४८।२-६ रो इइ,४६१-४६२ कस्य लक्षणदयः अर्थाः निर्दिश्यन्ते । वृक्षादीनाम् । किमर्थम् पुनः इदम् उच्यते । कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् । गत्युपसर्गसञ्ज्ञे मा भूताम् इति । न एतत् अस्ति प्रयोजनम् । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः न च वृक्षादीन् प्रति क्रियायोगः । इदम् तर्हि प्रयोजनम् द्वितीया यथा स्यात् कर्मप्रवचनीययुक्ते द्वितीया इति । वृक्षम् प्रति विद्योतते । वृक्षमनु विद्योतते इति ।
KA I,348.2-6 Ro II,461-462 kasya lakṣaṇadayaḥ arthāḥ nirdiśyante . vṛkṣādīnām . kimartham punaḥ idam ucyate . karmapravacanīyasañjñā yathā syāt . gatyupasargasañjñe mā bhūtām iti . na etat asti prayojanam . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ na ca vṛkṣādīn prati kriyāyogaḥ . idam tarhi prayojanam dvitīyā yathā syāt karmapravacanīyayukte dvitīyā iti . vṛkṣam prati vidyotate . vṛkṣamanu vidyotate iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४८।८-२० रो इइ,४६२-४६४ किमर्थम् अधिपर्योः अनर्थकयोः कर्मप्रवचनीयसञ्ज्ञा उच्यते । कर्मप्रवचनीयसञ्ज्ञा यथा स्यात् । गत्युपसर्गसञ्ज्ञे मा भूताम् इति । न एतत् अस्ति प्रयोजनम् । यत्क्रियायुक्ताः तम् प्रति गत्युपसर्गसञ्ज्ञे भवतः अनर्थकौ च इमौ । इदम् तर्हि प्रयोजनम् पञ्चमी यथा स्यात् पञ्चमी अपाङ्परिभिः इति । कुतः पर्यागम्यत इति । सिद्धा अत्र पञ्चमी अपादाने इति एव । आतः च अपादानपञ्चमी एषा । यत्र अपि अधिशब्देन योगे पञ्चमी न विधीयते तत्र अपि श्रूयते । कुतः अध्यागम्यत इति । एवम् तर्हि सिद्धे सति यत् अनर्थकयोः गत्युपसर्गसञ्ज्ञाबाधिकाम् कर्मप्रवचनीयसञ्ज्ञाम् शास्ति तत् ज्ञापयति आचार्यः अनर्थकानाम् अपि एषाम् भवति अर्थवत्कृतम् इति । किम् एतस्य ज्ञापने प्रयोजनम् । निपातस्य अनर्थकस्य प्रातिपदिकत्वम् चोदितम् । तत् न वक्तव्यम् भवति । अथ वा न एव इमौ अनर्थकौ । किम् तर्हि अनर्थकौ इति उच्यते । अनर्थान्तर्वाचिनौ अनर्थकौ । धातुना उक्ताम् क्रियाम् आहतुः । तद् अविशिष्टम् भवति यथा शङ्खे पयः । यदि एवम् धातुना उक्तत्वात् तस्यार्थस्य उपसर्गप्रयोगो न प्राप्नोति उक्तार्थानाम् अप्रयोगः इति । उक्तार्थानामपि प्रयोगः दृश्यते । तत् यथा अपूपौ द्वौ आनय । ब्राह्मणौ द्वौ अनय इति ।
KA I,348.8-20 Ro II,462-464 kimartham adhiparyoḥ anarthakayoḥ karmapravacanīyasañjñā ucyate . karmapravacanīyasañjñā yathā syāt . gatyupasargasañjñe mā bhūtām iti . na etat asti prayojanam . yatkriyāyuktāḥ tam prati gatyupasargasañjñe bhavataḥ anarthakau ca imau . idam tarhi prayojanam pañcamī yathā syāt pañcamī apāṅparibhiḥ iti . kutaḥ paryāgamyata iti . siddhā atra pañcamī apādāne iti eva . ātaḥ ca apādānapañcamī eṣā . yatra api adhiśabdena yoge pañcamī na vidhīyate tatra api śrūyate . kutaḥ adhyāgamyata iti . evam tarhi siddhe sati yat anarthakayoḥ gatyupasargasañjñābādhikām karmapravacanīyasañjñām śāsti tat jñāpayati ācāryaḥ anarthakānām api eṣām bhavati arthavatkṛtam iti . kim etasya jñāpane prayojanam . nipātasya anarthakasya prātipadikatvam coditam . tat na vaktavyam bhavati . atha vā na eva imau anarthakau . kim tarhi anarthakau iti ucyate . anarthāntarvācinau anarthakau . dhātunā uktām kriyām āhatuḥ . tad aviśiṣṭam bhavati yathā śaṅkhe payaḥ . yadi evam dhātunā uktatvāt tasyārthasya upasargaprayogo na prāpnoti uktārthānām aprayogaḥ iti . uktārthānāmapi prayogaḥ dṛśyate . tat yathā apūpau dvau ānaya . brāhmaṇau dvau anaya iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४८।२२-३४९। ४ रो इइ,४६४-४६५ इह कस्मात् न भवति । सर्पिषः अपि स्यात् । गोमूत्रस्य अपि स्यात् । किम् च स्यात् । द्वितीया अपि प्रसज्येत कर्मप्रवचनीययुक्ते द्वितीया इति । न एषः दोषः । न इमे अप्यर्थाः निर्दिश्यन्ते । किम् तर्हि । परपदार्थाः इमे निर्दिश्यन्ते । एतेषु अर्थेषु यत् पदम् वर्तते तत् प्रति अपिः कर्मप्रवचनीयसञ्ज्ञः भवति इति । अथ वा यत् अत्र कर्मप्रवचनीययुक्तम् न अदः प्रयुज्यते । किम् पुनः तत् । बिन्दुः । बिन्दोः तर्हि कस्मात् न भवति । उपपदविभक्तेः कारकविभक्तिः बलीयसी इति प्रथमा भविष्यति इति ।
KA I,348.22-349. 4 Ro II,464-465 iha kasmāt na bhavati . sarpiṣaḥ api syāt . gomūtrasya api syāt . kim ca syāt . dvitīyā api prasajyeta karmapravacanīyayukte dvitīyā iti . na eṣaḥ doṣaḥ . na ime apyarthāḥ nirdiśyante . kim tarhi . parapadārthāḥ ime nirdiśyante . eteṣu artheṣu yat padam vartate tat prati apiḥ karmapravacanīyasañjñaḥ bhavati iti . atha vā yat atra karmapravacanīyayuktam na adaḥ prayujyate . kim punaḥ tat . binduḥ . bindoḥ tarhi kasmāt na bhavati . upapadavibhakteḥ kārakavibhaktiḥ balīyasī iti prathamā bhaviṣyati iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४९।६-९ रो इइ,४६६ अधिरीश्वरवचने उक्तम् । किम् उक्तम् । यस्य च ईश्वरवचनम् इति कर्तृनिर्देशः चेत् अवचनात् सिद्धम् । प्रथमानुपपत्तिः तु । स्ववचनात् सिद्धम् इति । अधिः स्वम् प्रति कर्मप्रवचनीयसञ्ज्ञः भवति इति वक्तव्यम् ।
KA I,349.6-9 Ro II,466 adhirīśvaravacane uktam . kim uktam . yasya ca īśvaravacanam iti kartṛnirdeśaḥ cet avacanāt siddham . prathamānupapattiḥ tu . svavacanāt siddham iti . adhiḥ svam prati karmapravacanīyasañjñaḥ bhavati iti vaktavyam .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३४९।११-१९ रो इइ,४६६-४६७ लादेशे परस्मैपदग्रहणम् पुरुषबाधितत्वात् । लादेशे परस्मैपदग्रहणम् कर्तव्यम् । किम् कारणम् । पुरुषबाधितत्वात् । इह वचने हि सञ्ज्ञाबाधनम् । इह हि क्रियमाणे अनवकाशा पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधेत । परस्मैपदसञ्ज्ञा अपि अनवकाशा । सा वचनात् भविष्यति । सावकाशा परसमैपदसञ्ज्ञा । कः वकाशः । शतृक्क्वसू अवकाशः । सिचि वृद्धौ तु परस्मैपदग्रहणम् ज्ञापकम् पुरुषाबाधकत्वस्य । यत् अयम् सिचि वृद्धिः परस्मैपदेषु इति परस्मैपदग्रहणम् करोति तत् ज्ञापयति आचार्यः न पुरुषसञ्ज्ञा परस्मैपदसञ्ज्ञाम् बाधते इति ।
KA I,349.11-19 Ro II,466-467 lādeśe parasmaipadagrahaṇam puruṣabādhitatvāt . lādeśe parasmaipadagrahaṇam kartavyam . kim kāraṇam . puruṣabādhitatvāt . iha vacane hi sañjñābādhanam . iha hi kriyamāṇe anavakāśā puruṣasañjñā parasmaipadasañjñām bādheta . parasmaipadasañjñā api anavakāśā . sā vacanāt bhaviṣyati . sāvakāśā parasamaipadasañjñā . kaḥ vakāśaḥ . śatṛkkvasū avakāśaḥ . sici vṛddhau tu parasmaipadagrahaṇam jñāpakam puruṣābādhakatvasya . yat ayam sici vṛddhiḥ parasmaipadeṣu iti parasmaipadagrahaṇam karoti tat jñāpayati ācāryaḥ na puruṣasañjñā parasmaipadasañjñām bādhate iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३५०।२-२४ रो इइ,४६८-४६९ प्रथममध्यमोत्तमसञ्ज्ञायाम् आत्मनेपदग्रहणम् समसङ्ख्यार्थम् । प्रथममध्यमोत्तमसञ्ज्ञायाम् आत्मनेपदग्रहणम् कर्तव्यम् । आत्मनेपदानाम् च प्रथममध्यमोत्तमसञ्ज्ञाः भवन्ति इति वक्तव्यम् । किम् प्रयोजनम् । समसङ्ख्यार्थम् । सङ्ख्यातानुदेशः यथा स्यात् । अक्रियमाणे हि आत्मनेपदग्रहणे तिस्रः सञ्ज्ञाः षट् सञ्ज्ञिनः । वैषम्यात् सङ्ख्यातानुदेशः न प्राप्नोति । क्रियमाणे अपि च आत्मनेपदग्रहणे आनुपूर्व्यवचनम् च । आनुपूर्व्यवचनम् च कर्तव्यम् । अक्रियमणे हि कस्य चित् एव त्रिकस्य प्रथमसञ्ज्ञा स्यात् कस्य चित् एव मध्यमसञ्ज्ञा कस्य चित् एव उत्तमसञ्ज्ञा । न वैकशेषनिर्देशात् । यत् तावत् उच्यते आत्मनेपदग्रहणम् कर्तव्यम् समसङ्ख्यार्थम् इति । तत् न कर्तव्यम् । सञ्ज्ञाः अपि षत् एव निर्दिश्यन्ते । कथम् । एकशेषनिर्देसात् । एकशेषनिर्देशः अयम् । अथ एतस्मिन् एकशेषनिर्देशे सति किम् अयम् कृतैकशेषाणाम् द्वन्द्वः । प्रथमः च प्रथमः च प्रथमौ मध्यमः च मध्यमः च मध्यमौ उत्तमः च उत्तमः च उत्तमौ प्रथमौ च मध्यमौ च उत्तमौ च प्रथममध्यमोत्तमाः इति । आहोस्वित् कृतद्वन्द्वानाम् एकशेषः । प्रथमौ च मध्यमः च उत्तमः च प्रथममध्यमोत्तमाः । प्रथममध्यमोत्त्तमाः च प्रथममध्यमोत्तमाः च प्रथममध्यमोत्तमाः इति । किम् च अतः । यदि कृतैकेशेषाणाम् द्वन्द्वः प्रथममध्यमयोः प्रथमसञ्ज्ञा प्राप्नोति । उत्तमप्रथमयोः मध्यमसञ्ज्ञा प्राप्नोति । मध्यमोत्तमयोः उत्तमसञ्ज्ञा प्राप्नोति । अथ कृतद्वन्द्वानामेकशेषो न दोषः भवति । यथा न दोषः तथा अस्तु । किम् पुनः अत्र न्याय्यम् । उभयम् इति आह । उभयम् हि दृश्यते । तत् यथा । बहु शक्तिकिटकम् बहूनि शक्तिकिटकानि बहु स्थालीपिठरम् बहूनि स्थालीपिठराणि । यत् अपि उच्यते क्रियमाणे अपि आत्मनेपदग्रहणे आनुर्पूर्व्यवचनम् कर्तव्यम् इति । न कर्तव्यम् । लोकतः एतत् सिद्धम् । तत् यथा लोके विहव्यस्य द्वाभ्याम् द्वाभ्याम् अग्निः उप्स्थेयः इति । न च उच्यते आनुपूर्व्येण इति आनुपूर्व्येण च उपस्थीयत इति ।
KA I,350.2-24 Ro II,468-469 prathamamadhyamottamasañjñāyām ātmanepadagrahaṇam samasaṅkhyārtham . prathamamadhyamottamasañjñāyām ātmanepadagrahaṇam kartavyam . ātmanepadānām ca prathamamadhyamottamasañjñāḥ bhavanti iti vaktavyam . kim prayojanam . samasaṅkhyārtham . saṅkhyātānudeśaḥ yathā syāt . akriyamāṇe hi ātmanepadagrahaṇe tisraḥ sañjñāḥ ṣaṭ sañjñinaḥ . vaiṣamyāt saṅkhyātānudeśaḥ na prāpnoti . kriyamāṇe api ca ātmanepadagrahaṇe ānupūrvyavacanam ca . ānupūrvyavacanam ca kartavyam . akriyamaṇe hi kasya cit eva trikasya prathamasañjñā syāt kasya cit eva madhyamasañjñā kasya cit eva uttamasañjñā . na vaikaśeṣanirdeśāt . yat tāvat ucyate ātmanepadagrahaṇam kartavyam samasaṅkhyārtham iti . tat na kartavyam . sañjñāḥ api ṣat eva nirdiśyante . katham . ekaśeṣanirdesāt . ekaśeṣanirdeśaḥ ayam . atha etasmin ekaśeṣanirdeśe sati kim ayam kṛtaikaśeṣāṇām dvandvaḥ . prathamaḥ ca prathamaḥ ca prathamau madhyamaḥ ca madhyamaḥ ca madhyamau uttamaḥ ca uttamaḥ ca uttamau prathamau ca madhyamau ca uttamau ca prathamamadhyamottamāḥ iti . āhosvit kṛtadvandvānām ekaśeṣaḥ . prathamau ca madhyamaḥ ca uttamaḥ ca prathamamadhyamottamāḥ . prathamamadhyamotttamāḥ ca prathamamadhyamottamāḥ ca prathamamadhyamottamāḥ iti . kim ca ataḥ . yadi kṛtaikeśeṣāṇām dvandvaḥ prathamamadhyamayoḥ prathamasañjñā prāpnoti . uttamaprathamayoḥ madhyamasañjñā prāpnoti . madhyamottamayoḥ uttamasañjñā prāpnoti . atha kṛtadvandvānāmekaśeṣo na doṣaḥ bhavati . yathā na doṣaḥ tathā astu . kim punaḥ atra nyāyyam . ubhayam iti āha . ubhayam hi dṛśyate . tat yathā . bahu śaktikiṭakam bahūni śaktikiṭakāni bahu sthālīpiṭharam bahūni sthālīpiṭharāṇi . yat api ucyate kriyamāṇe api ātmanepadagrahaṇe ānurpūrvyavacanam kartavyam iti . na kartavyam . lokataḥ etat siddham . tat yathā loke vihavyasya dvābhyām dvābhyām agniḥ upstheyaḥ iti . na ca ucyate ānupūrvyeṇa iti ānupūrvyeṇa ca upasthīyata iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३५१।२-१० रो इइ,४७०-४७१ त्रीणि त्रीणि इति अनुवर्तते उताहो न । किम् च अतः । यदि अनुवर्तते अष्ठनः आ विभक्तौ इति आत्वम् न प्राप्नोति । अथ निवृत्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत् अनुवर्तते इति । ननु च उक्तम् अष्ठन आ विभक्तौ इति आत्वम् न प्राप्नोति इति । वचनात् भविष्यति । अथ वा पुनः अस्तु निवृत्तम् । ननु च उक्तम् प्रथमयोः पूर्वसवर्णः इति अत्र प्रत्यययोः एव ग्रहणम् प्राप्नोति इति । न एषः दोषः । अचि इति अनुवर्तते । न चाजादी प्रथमौ प्रत्ययौ स्तः । ननु च एवम् विज्ञायते अजादी यौ प्रथमौ अजादीनाम् वा यौ प्रथमौ इति । यत् तर्हि तस्मात् शसः नः पुम्सि इति अनुक्रान्तम् पूर्वसवर्णदीर्घम् प्रतिनिर्दिशति तत् ज्ञापयति आचार्यः विभक्त्योः ग्रहणम् इति । अथ वा वचनग्रहणम् एव कुर्यात् । औजसोः पूर्वसवर्णः इति ।
KA I,351.2-10 Ro II,470-471 trīṇi trīṇi iti anuvartate utāho na . kim ca ataḥ . yadi anuvartate aṣṭhanaḥ ā vibhaktau iti ātvam na prāpnoti . atha nivṛttam prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam prāpnoti . yathā icchasi tathā astu . astu tāvat anuvartate iti . nanu ca uktam aṣṭhana ā vibhaktau iti ātvam na prāpnoti iti . vacanāt bhaviṣyati . atha vā punaḥ astu nivṛttam . nanu ca uktam prathamayoḥ pūrvasavarṇaḥ iti atra pratyayayoḥ eva grahaṇam prāpnoti iti . na eṣaḥ doṣaḥ . aci iti anuvartate . na cājādī prathamau pratyayau staḥ . nanu ca evam vijñāyate ajādī yau prathamau ajādīnām vā yau prathamau iti . yat tarhi tasmāt śasaḥ naḥ pumsi iti anukrāntam pūrvasavarṇadīrgham pratinirdiśati tat jñāpayati ācāryaḥ vibhaktyoḥ grahaṇam iti . atha vā vacanagrahaṇam eva kuryāt . aujasoḥ pūrvasavarṇaḥ iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३५४।१७-३५६।१३ रो इइ,४७८-४८४ परः सन्निकर्षः सम्हिता चेत् अद्रुतायाम् असंहितम् । परः सन्निकर्षः संहिता चेत् अद्रुतायाम् वृत्तौ संहितासञ्ज्ञा न प्राप्नोति । द्रुतायाम् एव हि परः सन्निकर्षो वर्णानाम् न अद्रुतायाम् । तुल्यः सम्निकर्षः । तुल्यः सम्निकर्षः वर्णानाम् द्रुतमध्यमविलिम्बितासु वृत्तिषु । किङ्कृतः तर्थि विशेषः । वर्णकालभूयस्त्वम् तु । वर्णानाम् तु कालभूयस्त्वम् । तत् यथा । हस्तिमशकयोः तुल्यः सन्निकर्षः प्राणिभूयस्त्वम् तु । यदि एवम् द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानम् कालभेदात् । द्रुतायाम् तपरकरणे मध्यमविलिम्बितयोः उपसङ्ख्यानम् कर्तव्यम् । किम् कारणम् । कालभेदात् । ये द्रुतायाम् वृत्तौ वर्णाः त्रिभागाधिकाः ते मध्यमायाम् ये मध्यमायाम् वृत्तौ वर्णाः त्रिभागाधिकास्ते विलिम्बितायाम् । उक्तम् वा । किम् उक्तम् । सिद्धम् तु अवस्थिताः वर्णाः वक्तुः चिराचिरवचनात् वृत्तयः विशिष्यन्ते इति । अथ वा शब्दाविरामः संहिता इति एतत् लक्षणम् करिष्यते । शब्दाविरामे प्रतिवर्णम् अवसानम् । शब्दाविरामे प्रतिवर्णम् अवसानसञ्ज्ञा प्राप्नोति । किम् इदम् प्रतिवर्णम् इति । वर्णम् वर्णम् प्रति प्रतिवर्णम् । येन एव यत्नेन एकः वर्णः उच्च्यार्यते विच्छिन्ने वर्णे उपसंहृत्य तम् अन्यम् उपादाय द्वितीयः प्रयुज्यते तथा तृतीयः तथा चतुर्थः । एवम् तर्हि अनवकाशा संहितासञ्ज्ञा अवसानसञ्ज्ञाम् बाधिष्यते । अथ वा अवसानसञ्ज्ञायाम् प्रकर्षगतिः विज्ञास्यते : साधीयः यः विरामः इति । कः च साधीयः । यः शब्दार्थयोः विरामः । अथ वा ह्रादाविरामः संहा इति एतत् लक्षणम् करिष्यते । ह्रादाविरामे स्पर्शाघोषसंयोगे असन्निधानात् असंहितम् । ह्रादाविरामे स्पर्शानाम् अघोषाणाम् संयोगे असम्निधानात् संहितासञ्ज्ञा न प्राप्नोति । कुक्कुटः पिप्पका पित्तम् इति । किम् उच्यते संयोगे इति । अथ यत्र एकः पचति इति एकः पूर्वपरयोः ह्रादेन प्रच्छाद्यते । तद् यथा । द्वयोः रक्तयोः वस्त्रयोः मध्ये शुक्लम् वस्त्रम् तद्गुणम् उपलभ्यते । बदरपिटके रिक्तकः लोहकंसः तद्गुणः उपलभ्यते । एकेन तुल्यः सन्निधिः । यथा एकः वर्णः ह्रादेन प्रच्छाद्यते एवम् अनेकः अपि । अथ वा पौर्वापर्यम् अकालव्यपेतम् संहिता इति एतत् लक्षणम् करिष्यते। पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् असंहितम् । पौर्वापर्यम् अकालव्यपेतम् संहिता चेत् पूर्वापराभावात् संहितासञ्ज्ञा न प्राप्नोति । न हि वर्णानाम् पौर्वापर्यम् अस्ति । किम् कारणम् । एकैकवर्णवर्तित्वात् वाचः उच्चरितप्रध्वंसित्वात् च वर्णानाम् । एकैकवर्णवर्तिनी वाक् । न द्वौ युगपत् उच्चारयति । गौः इति यावत् गकारे वाक् वर्तते न औकारे न विसर्जनीये । यावत् औकारे न गकारे न विसर्जनीये । यावत् विसर्जनीये न गकारे न औकारे । उच्चरितप्रध्वंसित्वात् । उच्चरितप्रध्वंसिनः खलु अपि वर्णाः । उच्चरितः प्रध्वस्तः । अथ अपरः प्रयुज्यते । न वर्णः वर्णस्य सहायः । एवम् तर्हि बुद्धौ कृत्वा सर्वाः चेष्ठाः कर्ता धीरः तत्वन्नीतिः शब्देन अर्थान् वाच्यान् दृष्ट्वा बुद्धौ कुर्यात् पौर्वापर्यम् । बुद्धिविषयम् एव शब्दानाम् पौर्वापर्यम् । इह यः एषः मनुष्यः प्रेक्षापूर्वकारी भवति सः पश्यति असमिन् अर्थे अयम् शब्दः प्रयोक्त्वयः स्मिन् तावत् शब्दे अयम् तावत् वर्णः ततः अयम् ततः अयम् इति ।
KA I,354.17-356.13 Ro II,478-484 paraḥ sannikarṣaḥ samhitā cet adrutāyām asaṃhitam . paraḥ sannikarṣaḥ saṃhitā cet adrutāyām vṛttau saṃhitāsañjñā na prāpnoti . drutāyām eva hi paraḥ sannikarṣo varṇānām na adrutāyām . tulyaḥ samnikarṣaḥ . tulyaḥ samnikarṣaḥ varṇānām drutamadhyamavilimbitāsu vṛttiṣu . kiṅkṛtaḥ tarthi viśeṣaḥ . varṇakālabhūyastvam tu . varṇānām tu kālabhūyastvam . tat yathā . hastimaśakayoḥ tulyaḥ sannikarṣaḥ prāṇibhūyastvam tu . yadi evam drutāyām taparakaraṇe madhyamavilimbitayoḥ upasaṅkhyānam kālabhedāt . drutāyām taparakaraṇe madhyamavilimbitayoḥ upasaṅkhyānam kartavyam . kim kāraṇam . kālabhedāt . ye drutāyām vṛttau varṇāḥ tribhāgādhikāḥ te madhyamāyām ye madhyamāyām vṛttau varṇāḥ tribhāgādhikāste vilimbitāyām . uktam vā . kim uktam . siddham tu avasthitāḥ varṇāḥ vaktuḥ cirāciravacanāt vṛttayaḥ viśiṣyante iti . atha vā śabdāvirāmaḥ saṃhitā iti etat lakṣaṇam kariṣyate . śabdāvirāme prativarṇam avasānam . śabdāvirāme prativarṇam avasānasañjñā prāpnoti . kim idam prativarṇam iti . varṇam varṇam prati prativarṇam . yena eva yatnena ekaḥ varṇaḥ uccyāryate vicchinne varṇe upasaṃhṛtya tam anyam upādāya dvitīyaḥ prayujyate tathā tṛtīyaḥ tathā caturthaḥ . evam tarhi anavakāśā saṃhitāsañjñā avasānasañjñām bādhiṣyate . atha vā avasānasañjñāyām prakarṣagatiḥ vijñāsyate : sādhīyaḥ yaḥ virāmaḥ iti . kaḥ ca sādhīyaḥ . yaḥ śabdārthayoḥ virāmaḥ . atha vā hrādāvirāmaḥ saṃhā iti etat lakṣaṇam kariṣyate . hrādāvirāme sparśāghoṣasaṃyoge asannidhānāt asaṃhitam . hrādāvirāme sparśānām aghoṣāṇām saṃyoge asamnidhānāt saṃhitāsañjñā na prāpnoti . kukkuṭaḥ pippakā pittam iti . kim ucyate saṃyoge iti . atha yatra ekaḥ pacati iti ekaḥ pūrvaparayoḥ hrādena pracchādyate . tad yathā . dvayoḥ raktayoḥ vastrayoḥ madhye śuklam vastram tadguṇam upalabhyate . badarapiṭake riktakaḥ lohakaṃsaḥ tadguṇaḥ upalabhyate . ekena tulyaḥ sannidhiḥ . yathā ekaḥ varṇaḥ hrādena pracchādyate evam anekaḥ api . atha vā paurvāparyam akālavyapetam saṃhitā iti etat lakṣaṇam kariṣyate. paurvāparyam akālavyapetam saṃhitā cet pūrvāparābhāvāt asaṃhitam . paurvāparyam akālavyapetam saṃhitā cet pūrvāparābhāvāt saṃhitāsañjñā na prāpnoti . na hi varṇānām paurvāparyam asti . kim kāraṇam . ekaikavarṇavartitvāt vācaḥ uccaritapradhvaṃsitvāt ca varṇānām . ekaikavarṇavartinī vāk . na dvau yugapat uccārayati . gauḥ iti yāvat gakāre vāk vartate na aukāre na visarjanīye . yāvat aukāre na gakāre na visarjanīye . yāvat visarjanīye na gakāre na aukāre . uccaritapradhvaṃsitvāt . uccaritapradhvaṃsinaḥ khalu api varṇāḥ . uccaritaḥ pradhvastaḥ . atha aparaḥ prayujyate . na varṇaḥ varṇasya sahāyaḥ . evam tarhi buddhau kṛtvā sarvāḥ ceṣṭhāḥ kartā dhīraḥ tatvannītiḥ śabdena arthān vācyān dṛṣṭvā buddhau kuryāt paurvāparyam . buddhiviṣayam eva śabdānām paurvāparyam . iha yaḥ eṣaḥ manuṣyaḥ prekṣāpūrvakārī bhavati saḥ paśyati asamin arthe ayam śabdaḥ prayoktvayaḥ smin tāvat śabde ayam tāvat varṇaḥ tataḥ ayam tataḥ ayam iti .
Sanskrit only: no published translation is held for this verse.
क्अ इ,३५६।१५-३५८।८ रो इइ,४८४-४८८ इदम् विचार्यते अभावः अवसानलक्षणम् स्याद् विरामः वा इति । कः च अत्र विशेषः । अभावे अवसानलक्षणे उपर्यभाववचनम् । अभावेआवसानलक्षणे उपर्यभावग्रहणम् कर्तव्यम् । उपरि यः अभावः इति वक्तव्यम् । पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति । किम् च स्यात् । रसः रथः । खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि विरामः । विरामे विरामवचनम् । यस्य विरामः विरामग्रहणम् तेन कर्तव्यम् । ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् । परार्थम् मम भविष्यति । अभावः लोपः । ततः अवसानम् च इति । मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति । विरामः लोपः अवसानम् च इति । उपरि यः विरामः इति वक्तव्यम् । पुरस्तात् अपि शब्दस्य विरामः तत्र मा भूत् इति । किम् च स्यात् । रसः रथः । खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । आरम्भपूर्वकः मम विरामः । अथ वा न इदम् अवसानलक्षणम् विचार्यते । किम् तर्हि । सञ्ज्ञी । अभावः वसानसञ्ज्ञी स्यात् विरामः वा इति । कः च अत्र विशेषः । अभावे अवसानसञ्ज्ञिनि उपर्यभाववचनम् । अभावे अवसानसञ्ज्ञिन् युपर्यभावग्रहणम् कर्तव्यम् । उपरि यः भावः इति वक्तव्यम् । पुरस्तात् अपि हि शब्दस्य अभावः तत्र मा भूत् इति । किम् च स्यात् । रसः रथः । खरवसानयोर्विसर्जनीयः इति विसर्जनीयः प्रसज्येत । अस्तु तर्हि विरामः अवासनम् । विरामे विरामवचनम् । यस्य विरामः तेन विरामग्रहणम् कर्तव्यम् । ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् । परार्थम् मम भविष्यति । अभावः लोपः । ततः अवसानम् च इति । मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति । विरामः लोपः अवसानम् च इति । उपरि यः विरामः इति वक्तव्यम् । ननु च यस्य अपि अभावः तेन अपि अभावग्रहणम् कर्तव्यम् । परार्थम् मम भविष्यति । अभावः लोपः । ततः अवसानम् च इति । मम अपि तर्हि विरामग्रहणम् परार्थम् भविष्यति । विरामः लोपः अवसानम् च इति । उपरि यः विरामः इति वक्तव्यम् । ननु च उक्तम् आरम्भपूर्वकः इति । न अवश्यम् अयम् रमिः प्रवृत्तौ एव वर्तते । किम् तर्हि । अप्रवृत्तौ अपि । तत् यथा । उपरतानि अस्मिन् कुले व्रतानि । उपरतः स्वाध्यायः इति । न च तत्र स्वाध्यायः भूतपूर्वः भवति न अपि व्रतानि । भावाविरामभावित्वात् शब्दस्य वसानलक्षणम् न । भावाविरामभावित्वात् शब्दस्य अवसानलक्षणम् न उपपद्यते । किम् इदम् भावाविरामभावित्वात् इति । भावस्य अविरामः भावाविरामः भावाविरामेण भवति इति भावाविरामभावी भावाविरामभाविनः भावो भावाविरामभावित्वम् । अपरः आह । भावभावित्वादविरामभावित्वात् च शब्दस्य अवसानलक्षणम् न उपपद्यते इति । तत्परः इति वा वर्णस्य अवसानम् । विरामपरः वर्णः वसानसञ्ज्ञः भवति इति वक्तव्यम् । वर्णः अन्त्यः वा अवसानम् । अथ वा व्यक्तम् एव पठितव्यम् अन्त्यः वर्णः वसानसञ्ज्ञः भवति इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । संहितावसानयोः लोकविदितत्वात् सिद्धम् । सम्हिता अवसानम् इति लोकविदितौ एतौ अर्थौ । एवम् हि कः चित् कम् चिद् अधीयानम् आह : शन्नोदेवीयम् सम्हितया अधीष्व इति । सः तत्र परमसन्निकर्षम् अधीते । अपरः आह : केन वस्यसि इति । सः आह : अकारेण इकारेण उकारेण इति । एवम् एतौ लोकविदिततौ अर्थौ । तयोः लोकविदितत्वात् सिद्धम् इति ।
KA I,356.15-358.8 Ro II,484-488 idam vicāryate abhāvaḥ avasānalakṣaṇam syād virāmaḥ vā iti . kaḥ ca atra viśeṣaḥ . abhāve avasānalakṣaṇe uparyabhāvavacanam . abhāveāvasānalakṣaṇe uparyabhāvagrahaṇam kartavyam . upari yaḥ abhāvaḥ iti vaktavyam . purastāt api hi śabdasya abhāvaḥ tatra mā bhūt iti . kim ca syāt . rasaḥ rathaḥ . kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta . astu tarhi virāmaḥ . virāme virāmavacanam . yasya virāmaḥ virāmagrahaṇam tena kartavyam . nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam . parārtham mama bhaviṣyati . abhāvaḥ lopaḥ . tataḥ avasānam ca iti . mama api tarhi virāmagrahaṇam parārtham bhaviṣyati . virāmaḥ lopaḥ avasānam ca iti . upari yaḥ virāmaḥ iti vaktavyam . purastāt api śabdasya virāmaḥ tatra mā bhūt iti . kim ca syāt . rasaḥ rathaḥ . kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta . ārambhapūrvakaḥ mama virāmaḥ . atha vā na idam avasānalakṣaṇam vicāryate . kim tarhi . sañjñī . abhāvaḥ vasānasañjñī syāt virāmaḥ vā iti . kaḥ ca atra viśeṣaḥ . abhāve avasānasañjñini uparyabhāvavacanam . abhāve avasānasañjñin yuparyabhāvagrahaṇam kartavyam . upari yaḥ bhāvaḥ iti vaktavyam . purastāt api hi śabdasya abhāvaḥ tatra mā bhūt iti . kim ca syāt . rasaḥ rathaḥ . kharavasānayorvisarjanīyaḥ iti visarjanīyaḥ prasajyeta . astu tarhi virāmaḥ avāsanam . virāme virāmavacanam . yasya virāmaḥ tena virāmagrahaṇam kartavyam . nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam . parārtham mama bhaviṣyati . abhāvaḥ lopaḥ . tataḥ avasānam ca iti . mama api tarhi virāmagrahaṇam parārtham bhaviṣyati . virāmaḥ lopaḥ avasānam ca iti . upari yaḥ virāmaḥ iti vaktavyam . nanu ca yasya api abhāvaḥ tena api abhāvagrahaṇam kartavyam . parārtham mama bhaviṣyati . abhāvaḥ lopaḥ . tataḥ avasānam ca iti . mama api tarhi virāmagrahaṇam parārtham bhaviṣyati . virāmaḥ lopaḥ avasānam ca iti . upari yaḥ virāmaḥ iti vaktavyam . nanu ca uktam ārambhapūrvakaḥ iti . na avaśyam ayam ramiḥ pravṛttau eva vartate . kim tarhi . apravṛttau api . tat yathā . uparatāni asmin kule vratāni . uparataḥ svādhyāyaḥ iti . na ca tatra svādhyāyaḥ bhūtapūrvaḥ bhavati na api vratāni . bhāvāvirāmabhāvitvāt śabdasya vasānalakṣaṇam na . bhāvāvirāmabhāvitvāt śabdasya avasānalakṣaṇam na upapadyate . kim idam bhāvāvirāmabhāvitvāt iti . bhāvasya avirāmaḥ bhāvāvirāmaḥ bhāvāvirāmeṇa bhavati iti bhāvāvirāmabhāvī bhāvāvirāmabhāvinaḥ bhāvo bhāvāvirāmabhāvitvam . aparaḥ āha . bhāvabhāvitvādavirāmabhāvitvāt ca śabdasya avasānalakṣaṇam na upapadyate iti . tatparaḥ iti vā varṇasya avasānam . virāmaparaḥ varṇaḥ vasānasañjñaḥ bhavati iti vaktavyam . varṇaḥ antyaḥ vā avasānam . atha vā vyaktam eva paṭhitavyam antyaḥ varṇaḥ vasānasañjñaḥ bhavati iti . tat tarhi vaktavyam . na vaktavyam . saṃhitāvasānayoḥ lokaviditatvāt siddham . samhitā avasānam iti lokaviditau etau arthau . evam hi kaḥ cit kam cid adhīyānam āha : śannodevīyam samhitayā adhīṣva iti . saḥ tatra paramasannikarṣam adhīte . aparaḥ āha : kena vasyasi iti . saḥ āha : akāreṇa ikāreṇa ukāreṇa iti . evam etau lokaviditatau arthau . tayoḥ lokaviditatvāt siddham iti .
Sanskrit only: no published translation is held for this verse.
A library of Sanskrit texts, held as their editions give them, with a search and a study companion that quote only what is held.
532 texts, 7,62,517 verses.
© 2026 HREEM. Sanskrit from GRETIL (CC BY-NC-SA 4.0, or the terms of the individual file), Sanskrit Wikisource (public-domain texts; page markup CC BY-SA 4.0) and the Digital Corpus of Sanskrit (CC BY 4.0). Translations are public domain unless a verse says otherwise.