Library·Patanjali: Vyakaranamahabhasya·6·6.4

Patanjali: Vyakaranamahabhasya 6.4

क्अ इइइ।१७८।२-१० रो इव्।६६१-६६२ आ कुतः अयम् अधिकारः । आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः । यदि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् । प्राक् अभ्यासविकारेभ्यः पुनः अङ्गाधिकारे सति प्रत्ययलक्षणेन सिद्धम् । अस्तु तर्हि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः । यदि प्राक् अभ्यासविकारेभ्यः अङ्गाधिकारः वव्रश्च वकारस्य सम्प्रसारणम् प्राप्नोति । आ सप्तमाध्यायपरिसमाप्तेः पुनः अङ्गाधिकारे सति उः अदत्वस्य स्थानिवद्भावान् न सम्प्रसारणे सम्प्रसारणम् इति प्रतिषेधः सिद्धः भवति । सः च इदानीम् अपरिहारः भवति यत् तत् उक्तम् अङ्गान्यत्वात् च सिद्धम् इति । अस्तु तर्हि आ सप्तमाध्यायपरिसमाप्तेः अङ्गाधिकारः । ननु च उक्तम् गुणः यङ्लुकोः इति यङ्लुग्ग्रहणम् कर्तव्यम् इति । क्रियते न्यासे एव ।

KA III.178.2-10 Ro IV.661-662 ā kutaḥ ayam adhikāraḥ . ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ . yadi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam . prāk abhyāsavikārebhyaḥ punaḥ aṅgādhikāre sati pratyayalakṣaṇena siddham . astu tarhi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ . yadi prāk abhyāsavikārebhyaḥ aṅgādhikāraḥ vavraśca vakārasya samprasāraṇam prāpnoti . ā saptamādhyāyaparisamāpteḥ punaḥ aṅgādhikāre sati uḥ adatvasya sthānivadbhāvān na samprasāraṇe samprasāraṇam iti pratiṣedhaḥ siddhaḥ bhavati . saḥ ca idānīm aparihāraḥ bhavati yat tat uktam aṅgānyatvāt ca siddham iti . astu tarhi ā saptamādhyāyaparisamāpteḥ aṅgādhikāraḥ . nanu ca uktam guṇaḥ yaṅlukoḥ iti yaṅluggrahaṇam kartavyam iti . kriyate nyāse eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१७८।११-१७९।१० रो इव्।६६२-६६५ किम् पुनः इयम् स्थान्षष्ठी , अङ्गस्य स्थाने इति । एवम् भवितुम् अर्हति । अङ्गस्य इति स्थानषष्ठी चेत् पञ्चम्यन्तस्य च अधिकारः । अङ्गस्य इति स्थानषष्ठी चेत् पञ्चम्यन्तस्य च अधिकारः कर्तव्यः । अङ्गात् इति अपि वक्तव्यम् । अनुच्यमाने हि अतः भिसः ऐस् भवति इति अतः इति पञ्चमी अङ्गस्य इति स्थानषष्ठी । तत्र अशक्यम् विविभक्तिकत्वात् अतः इति पञ्चम्या अङ्गम् विशेषयितुम् । तत्र कः दोषः । अकारात् परस्य भिस्मात्रस्य ऐस्-भावः भवति इति इह अपि प्रसज्येत : ब्राह्मणभिस्सा , ओदनभिस्सटा इति । अवयवषष्ठ्यादीनाम् च अप्रसिद्धिः । अवयवषष्ठ्यादयः च न सिध्यन्ति । तत्र कः दोषः । शासः इत् अङ्हलोः इति शासेः च अन्त्यस्य स्यात् उपधामात्रस्य च । ऊत् उपधायाः गोहः इति गोहेः च अन्त्यस्य स्यात् उपधामात्रस्य च । सिद्धम् तु परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञाभावात् । सिद्धम् एतत् । कथम् । परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः । अङ्गसञ्ज्ञाम् प्रति प्रत्ययसञ्ज्ञा प्रत्ययसञ्ज्ञाम् प्रति अङ्गसञ्ज्ञा । किम् अतः यत् परस्परम् प्रति अङ्गप्रत्ययसङ्ज्ञे भवतः । सम्बन्धषष्थीनिर्देशः च । सम्बन्धषष्थीनिर्देशः च अयम् कृतः भवति । अङ्गस्य यः भिस्-शब्दः इति । किम् च अङ्गस्य भिस्-शब्दः । निमित्तम् । यस्मिन् अङ्गम् इति एतत् भवति । कस्मिन् च एतत् भवति । प्रत्यये । एवम् अपि अवयवषष्ठ्यादयः अविशेषिताः भवन्ति । अवयवषष्ठ्यादयः अपि सम्बन्धे एव । एवम् अपि स्थानम् अविशेषितम् भवति । स्थानम् अपि सम्बन्धः एव । एवम् अपि न ज्ञायते क्व स्थानषष्ठी क्व विशेषणषष्ठी इति । यत्र षष्ठी अन्ययोगम् न अपेक्षते सा स्थानषष्ठी । यत्र हि अन्ययोगम् अपेक्षते सा विशेषणषष्ठी ।

KA III.178.11-179.10 Ro IV.662-665 kim punaḥ iyam sthānṣaṣṭhī , aṅgasya sthāne iti . evam bhavitum arhati . aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ . aṅgasya iti sthānaṣaṣṭhī cet pañcamyantasya ca adhikāraḥ kartavyaḥ . aṅgāt iti api vaktavyam . anucyamāne hi ataḥ bhisaḥ ais bhavati iti ataḥ iti pañcamī aṅgasya iti sthānaṣaṣṭhī . tatra aśakyam vivibhaktikatvāt ataḥ iti pañcamyā aṅgam viśeṣayitum . tatra kaḥ doṣaḥ . akārāt parasya bhismātrasya ais-bhāvaḥ bhavati iti iha api prasajyeta : brāhmaṇabhissā , odanabhissaṭā iti . avayavaṣaṣṭhyādīnām ca aprasiddhiḥ . avayavaṣaṣṭhyādayaḥ ca na sidhyanti . tatra kaḥ doṣaḥ . śāsaḥ it aṅhaloḥ iti śāseḥ ca antyasya syāt upadhāmātrasya ca . ūt upadhāyāḥ gohaḥ iti goheḥ ca antyasya syāt upadhāmātrasya ca . siddham tu parasparam prati aṅgapratyayasaṅjñābhāvāt . siddham etat . katham . parasparam prati aṅgapratyayasaṅjñe bhavataḥ . aṅgasañjñām prati pratyayasañjñā pratyayasañjñām prati aṅgasañjñā . kim ataḥ yat parasparam prati aṅgapratyayasaṅjñe bhavataḥ . sambandhaṣaṣthīnirdeśaḥ ca . sambandhaṣaṣthīnirdeśaḥ ca ayam kṛtaḥ bhavati . aṅgasya yaḥ bhis-śabdaḥ iti . kim ca aṅgasya bhis-śabdaḥ . nimittam . yasmin aṅgam iti etat bhavati . kasmin ca etat bhavati . pratyaye . evam api avayavaṣaṣṭhyādayaḥ aviśeṣitāḥ bhavanti . avayavaṣaṣṭhyādayaḥ api sambandhe eva . evam api sthānam aviśeṣitam bhavati . sthānam api sambandhaḥ eva . evam api na jñāyate kva sthānaṣaṣṭhī kva viśeṣaṇaṣaṣṭhī iti . yatra ṣaṣṭhī anyayogam na apekṣate sā sthānaṣaṣṭhī . yatra hi anyayogam apekṣate sā viśeṣaṇaṣaṣṭhī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१७९।११-१८०।२३ रो इव्।६६५-६६९ कानि पुनः अङ्गाधिकारस्य प्रयोजननि । अङ्गाधिकारस्य प्रयोजनम् सम्प्रसारणदीर्घत्वे । हलः उत्तरस्य सम्प्रसारणस्य दीर्घः भवति । हूतः , जीनः , संवीतः , शूनः । अङ्गस्य इति किमर्थम् । निरुतम् , दुरुतम् । नाम्सनोः च । नाम्सनोः च दीर्घत्वे प्रयोजनम् । नामि दीर्घः भवति । अग्नीनाम् , वायूनाम् । अङ्गस्य इति किमर्थम् । क्रिमिणाम् पश्य । पामनाम् पश्य । सनि दीर्घः भवति । चिचीषति , तुष्टूषति । अङ्गस्य इति किमर्थम् । दधि सनोति । मधु सनोति । लिङि एत्वे । लिङि एत्वे प्रयोजनम् । ग्लेयात् , म्लेयात् । अङ्गस्य इति किमर्थम् । निर्यायात् , निर्वायात् । अतः भिसः ऐस्त्वे । अतः भिसः ऐस्त्वे प्रयोजनम् । वृक्षैः , प्लक्षैः । अङ्गस्य इति किमर्थम् । ब्राह्मणभिस्सा , ओदनभिस्सटा । लुङादिषु अडाटौ । लुङादिषु अडाटौ प्रयोजनम् । अकार्षीत् , ऐहिष्ट । अङ्गस्य इति किमर्थम् । प्राकरोत् , उपैहिष्ट । इयङुवङ्युष्मदस्मत्तातङामिनुडानेमुक्केह्रस्वयिदीर्घभितत्वानि । इयङुवङौ प्रयोजनम् । श्रियौ श्रियः , भ्रुवौ भ्रुवः । अङ्गस्य इति किमर्थम् । श्र्यर्थम् , भ्र्वर्थम् । युष्मदस्मदोः प्रयोजनम् । सामः आकम् । युष्माकम् अस्माकम् । अङ्गस्य इति किमर्थम् । युष्मत्साम , अस्मत्साम । तातङ् प्रयोजनम् । जीवतात् भवान् । अङ्गस्य इति किमर्थम् । पच हि तावत् त्वम् । जल्प तु तावत् त्वम् । आमि नुट् प्रयोजनम् । कुमारीणम् , किशोरीणाम् । अङ्गस्य इति किमर्थम् । कुमारी , आम् इति आह । किशोरी , आम् इति आह । आने मुक् प्रयोजनम् । पचमानः , यजमानः । अङ्गस्य इति किमर्थम् । प्राणः । के ह्रस्वः प्रयोजनम् । किशोरिका , कुमारिका । अङ्गस्य इति किमर्थम् । कुमारी कायति कुमारीकः । यि दीर्घः प्रयोजनम् । चीयते , स्तूयते । अङ्गस्य इति किमर्थम् । दधियानम् , मधुयानम् । भि तत्वम् प्रयोजनम् । अद्भिः , अद्भ्यः । अङ्गस्य इति किमर्थम् । अब्भारः , अब्भक्षः । न एतानि सन्ति प्रयोजनानि । कथम् । अर्थवद्ग्रहणप्रत्ययग्रहणाभ्याम् सिद्धम् । अर्थवद्ग्रहणप्रत्ययग्रहणाभ्याम् एतानि सिद्धानि । क्व चित् अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् भविष्यति क्व चित् प्रत्ययाप्रत्ययोः ग्रहणे प्रत्ययस्य एव ग्रहणम् भवति इति । अथ वा प्रत्यये इति प्रकृत्य अङ्गकार्यम् अध्येष्ये । यदि प्रत्यये इति प्रकृत्य अङ्गकार्यम् अधीषे प्राकरोत् , उपैहिष्ट , उपसर्गात् पूर्वम् अडाटौ प्राप्नुतः । सिद्धम् तु प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् । सिद्धम् एतत् । कथम् । प्रत्ययग्रहणे यस्मात् सः विहितः तदादेः तदन्तस्य च ग्रहणम् भवति इति एवम् उपसर्गात् पूर्वम् अडाटौ न भविष्यतः ।

KA III.179.11-180.23 Ro IV.665-669 kāni punaḥ aṅgādhikārasya prayojanani . aṅgādhikārasya prayojanam samprasāraṇadīrghatve . halaḥ uttarasya samprasāraṇasya dīrghaḥ bhavati . hūtaḥ , jīnaḥ , saṃvītaḥ , śūnaḥ . aṅgasya iti kimartham . nirutam , durutam . nāmsanoḥ ca . nāmsanoḥ ca dīrghatve prayojanam . nāmi dīrghaḥ bhavati . agnīnām , vāyūnām . aṅgasya iti kimartham . krimiṇām paśya . pāmanām paśya . sani dīrghaḥ bhavati . cicīṣati , tuṣṭūṣati . aṅgasya iti kimartham . dadhi sanoti . madhu sanoti . liṅi etve . liṅi etve prayojanam . gleyāt , mleyāt . aṅgasya iti kimartham . niryāyāt , nirvāyāt . ataḥ bhisaḥ aistve . ataḥ bhisaḥ aistve prayojanam . vṛkṣaiḥ , plakṣaiḥ . aṅgasya iti kimartham . brāhmaṇabhissā , odanabhissaṭā . luṅādiṣu aḍāṭau . luṅādiṣu aḍāṭau prayojanam . akārṣīt , aihiṣṭa . aṅgasya iti kimartham . prākarot , upaihiṣṭa . iyaṅuvaṅyuṣmadasmattātaṅāminuḍānemukkehrasvayidīrghabhitatvāni . iyaṅuvaṅau prayojanam . śriyau śriyaḥ , bhruvau bhruvaḥ . aṅgasya iti kimartham . śryartham , bhrvartham . yuṣmadasmadoḥ prayojanam . sāmaḥ ākam . yuṣmākam asmākam . aṅgasya iti kimartham . yuṣmatsāma , asmatsāma . tātaṅ prayojanam . jīvatāt bhavān . aṅgasya iti kimartham . paca hi tāvat tvam . jalpa tu tāvat tvam . āmi nuṭ prayojanam . kumārīṇam , kiśorīṇām . aṅgasya iti kimartham . kumārī , ām iti āha . kiśorī , ām iti āha . āne muk prayojanam . pacamānaḥ , yajamānaḥ . aṅgasya iti kimartham . prāṇaḥ . ke hrasvaḥ prayojanam . kiśorikā , kumārikā . aṅgasya iti kimartham . kumārī kāyati kumārīkaḥ . yi dīrghaḥ prayojanam . cīyate , stūyate . aṅgasya iti kimartham . dadhiyānam , madhuyānam . bhi tatvam prayojanam . adbhiḥ , adbhyaḥ . aṅgasya iti kimartham . abbhāraḥ , abbhakṣaḥ . na etāni santi prayojanāni . katham . arthavadgrahaṇapratyayagrahaṇābhyām siddham . arthavadgrahaṇapratyayagrahaṇābhyām etāni siddhāni . kva cit arthavadgrahaṇe na anarthakasya iti evam bhaviṣyati kva cit pratyayāpratyayoḥ grahaṇe pratyayasya eva grahaṇam bhavati iti . atha vā pratyaye iti prakṛtya aṅgakāryam adhyeṣye . yadi pratyaye iti prakṛtya aṅgakāryam adhīṣe prākarot , upaihiṣṭa , upasargāt pūrvam aḍāṭau prāpnutaḥ . siddham tu pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam . siddham etat . katham . pratyayagrahaṇe yasmāt saḥ vihitaḥ tadādeḥ tadantasya ca grahaṇam bhavati iti evam upasargāt pūrvam aḍāṭau na bhaviṣyataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८०।२५-१८१।१० रो इव्।६६९-६७० इह कस्मात् न भवति : तृतीयः । अण्प्रकरणात् ऋकारस्य अप्राप्तिः । अण्प्रकरणात् ऋकारस्य दीर्घत्वम् न भविष्यति । अणः इति वर्तते । क्व प्रकृतम् । ढ्रलोपे पूर्वस्य दीर्घः अणः इति । तत् वै इकः काशे इति अनेन इग्ग्रहणेन व्यवच्छिन्नम् न शक्यम् अनुवर्तयितुम् । इग्ग्रहणस्य च अण्विशेषणत्वात् । अण्विशेषणम् इग्ग्रहणम् । अणः इकः इति । यदि तर्हि अण्विशेषणम् इग्ग्रहणम् चौ दीर्घः भवति इति इह न प्राप्नोति : अवाचा , अवाचे । न एषः दोषः । अण्ग्रहणम् अनुवर्तते इग्ग्रहणम् निवृत्तम् । एवम् अपि कर्तॄचा कर्तॄचे , अत्र न प्राप्नोति । यथालक्षणम् अप्रयुक्ते । अथ वा उभयम् निवृत्तम् । कस्मात् न भवति तृतीयः । निपातनात् । किम् निपातनम् । द्वितीयतृतीयचतुर्थतुर्याणि अन्यतरस्याम् इति ।

KA III.180.25-181.10 Ro IV.669-670 iha kasmāt na bhavati : tṛtīyaḥ . aṇprakaraṇāt ṛkārasya aprāptiḥ . aṇprakaraṇāt ṛkārasya dīrghatvam na bhaviṣyati . aṇaḥ iti vartate . kva prakṛtam . ḍhralope pūrvasya dīrghaḥ aṇaḥ iti . tat vai ikaḥ kāśe iti anena iggrahaṇena vyavacchinnam na śakyam anuvartayitum . iggrahaṇasya ca aṇviśeṣaṇatvāt . aṇviśeṣaṇam iggrahaṇam . aṇaḥ ikaḥ iti . yadi tarhi aṇviśeṣaṇam iggrahaṇam cau dīrghaḥ bhavati iti iha na prāpnoti : avācā , avāce . na eṣaḥ doṣaḥ . aṇgrahaṇam anuvartate iggrahaṇam nivṛttam . evam api kartṝcā kartṝce , atra na prāpnoti . yathālakṣaṇam aprayukte . atha vā ubhayam nivṛttam . kasmāt na bhavati tṛtīyaḥ . nipātanāt . kim nipātanam . dvitīyatṛtīyacaturthaturyāṇi anyatarasyām iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८१।१२-१८२।४ रो इव्।६७०-६७३ किमर्थम् आमः सनकारस्य ग्रहणम् क्रियते न आमि दीर्घः इति एव उच्येत । केन इदानिम् सनकारके भविष्यति । नुट् अयम् आम्भक्तः आम्ग्रहणेन ग्राहिष्यते । अतः उत्तरम् पठति : नामि दीर्घः आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत् । नामि दीर्घः आमि चेत् स्यात् कृते दीर्घत्वे न नुट् स्यात् । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् नुट् इति किम् अत्र कर्तव्यम् । परत्वात् नुट् । नित्यम् दीर्घत्वम् । कृते अपि नुटि प्राप्नोति अकृते अपि । नित्यत्वात् दीर्घत्वे कृते ह्रस्वाश्रयः नुट् न प्राप्नोति । एवम् तर्हि आह अयम् ह्रस्वान्तात् नुट् इति न च ह्रस्वान्तः अस्ति । तत्र वचनात् भविष्यति । वचनात् यत्र तत् न अस्ति । न इदम् वचनात् लभ्यम् । अस्ति अन्यत् एतस्य वचने प्रयोजनम् । किम् । यत्र दीर्घत्वम् प्रतिषिध्यते । तिसृणाम् , चतसृणाम् इति । न एतत् अस्ति प्रयोजनम् । इह तावत् चतसृणाम् इति षट्चतुर्भ्यः च इति एवम् भविष्यति । तिसृणाम् इति त्रिग्रहणम् अपि तत्र प्रकृतम् अनुवर्तते । क्व प्रकृतम् । त्रेः त्रयः इति । इदम् तर्हि त्वम् नृणम् नृपते जायसे शुचिः । न एकम् उदाहरणम् ह्रस्वग्रहणम् प्रयोजयति । तत्र वचनात् भूतपूर्वगतिः विज्ञास्यते । ह्रस्वान्तम् यत् भूतपूर्वम् इति । उत्तराऋथम् तर्हि सनकारग्रहणम् कर्तव्यम् । नोपधायाः च चर्मणाम् । नोपधायाः नामि यथा स्यात् । इह मा भूत् : चर्मणाम् , वर्मणाम् इति । नामि दीर्घः आमि चेत् स्यात् कृते दीर्घे न नुट् भवेत् । वचनात् यत्र तत् न अस्ति । नोपधायाः च चर्मणाम् ।

KA III.181.12-182.4 Ro IV.670-673 kimartham āmaḥ sanakārasya grahaṇam kriyate na āmi dīrghaḥ iti eva ucyeta . kena idānim sanakārake bhaviṣyati . nuṭ ayam āmbhaktaḥ āmgrahaṇena grāhiṣyate . ataḥ uttaram paṭhati : nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na nuṭ bhavet . nāmi dīrghaḥ āmi cet syāt kṛte dīrghatve na nuṭ syāt . idam iha sampradhāryam . dīrghatvam kriyatām nuṭ iti kim atra kartavyam . paratvāt nuṭ . nityam dīrghatvam . kṛte api nuṭi prāpnoti akṛte api . nityatvāt dīrghatve kṛte hrasvāśrayaḥ nuṭ na prāpnoti . evam tarhi āha ayam hrasvāntāt nuṭ iti na ca hrasvāntaḥ asti . tatra vacanāt bhaviṣyati . vacanāt yatra tat na asti . na idam vacanāt labhyam . asti anyat etasya vacane prayojanam . kim . yatra dīrghatvam pratiṣidhyate . tisṛṇām , catasṛṇām iti . na etat asti prayojanam . iha tāvat catasṛṇām iti ṣaṭcaturbhyaḥ ca iti evam bhaviṣyati . tisṛṇām iti trigrahaṇam api tatra prakṛtam anuvartate . kva prakṛtam . treḥ trayaḥ iti . idam tarhi tvam nṛṇam nṛpate jāyase śuciḥ . na ekam udāharaṇam hrasvagrahaṇam prayojayati . tatra vacanāt bhūtapūrvagatiḥ vijñāsyate . hrasvāntam yat bhūtapūrvam iti . uttarāṛtham tarhi sanakāragrahaṇam kartavyam . nopadhāyāḥ ca carmaṇām . nopadhāyāḥ nāmi yathā syāt . iha mā bhūt : carmaṇām , varmaṇām iti . nāmi dīrghaḥ āmi cet syāt kṛte dīrghe na nuṭ bhavet . vacanāt yatra tat na asti . nopadhāyāḥ ca carmaṇām .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८२।७-१८३।१८ रो इव्।६७३-६७७ हनः क्वौ उपधादीर्घत्वप्रसङ्गः । हनः क्वौ उपधालक्षणम् दीर्घत्वम् प्राप्नोति । अनुनासिकस्य क्विझलोः क्ङिति इति । तस्य प्रतिषेधः वक्तव्यः । वृत्रहणौ वृत्रहणः इति । नियमवचनात् सिद्धम् । इन्हन्पूषार्यम्णाम् शौ सौ च इति एतस्मात् नियमवचनात् दीर्घत्वम् न भविष्यति । नियमवचनात् सिद्धम् इति चेत् सर्वनामस्थानप्रकरणे नियमवचनात् अन्यत्र अनियमः । नियमवचनात् सिद्धम् इति चेत् सर्वनामस्थानप्रकरणे नियमवचनात् अन्यत्र नियमः न प्राप्नोति । क्व अन्यत्र । वृत्रहणि भ्रूणहनि । एवम् तर्हि दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् विनियम्य सुटि इति सुविद्वान् । दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् सर्वनामस्थाने विनियम्य , इन्हन्पूषार्यम्णाम् सर्वनामस्थाने दीर्घः भवति । किमर्थम् इदम् । नियमाऋथम् । इन्हन्पूषार्यम्णाम् सर्वनामस्थाने एव न अन्यत्र । शौ नियमम् पुनः एव विदध्यात् । ततः शौ । शौ एव सर्वनामस्थाने न अन्यत्र । ततः सौ । सौ एव सर्वनामस्थाने न अन्यत्र । भ्रूणहनि इति तथा अस्य न दुष्येत् । तथा अस्य भ्रूणहनि इति न दोषः भवति । शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमम् कुरु वा अपि असमीक्ष्य । अथ वा निवृत्ते सर्वनामस्थानप्रकरणे अविशेषेण शौ नियमम् वक्ष्यामि । इन्हन्पूषार्यम्णाम् शौ एव । ततः सौ । सौ एव । इह अपि तर्हि नियमात् न प्राप्नोति : इन्द्रः वृत्रहायते । दीर्घविधेः उपधानियमात् मे हन्त यि दीर्घविधौ च न दोषः । उपधालक्षणदीर्घत्वस्य नियमः न च एतत् उपधालक्षणम् दीर्घत्वम् । सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे । अथ वा अनुवर्तमाने सर्वनामस्थानग्रहणे अनवकाशः शौ नियमः अप्रकृतस्य अपि दीर्घत्वस्य नियामकः भविष्यति । कथम् । यस्य हि शौ नियमः सुटि न एतत् तेन न तत्र भवेत् विनियम्यम् । यस्य हि शिः सर्वनामस्थानम् न तस्य सुट् । यस्य सुट् सर्वनामस्थानम् न तस्य शिः । तत्र सर्वनामस्थानप्रकरणे नियम्यम् न अस्ति इति कृत्वा अविशेषेण शौ नियमः विज्ञास्यते । दीर्घविधिः यः इह इन्प्रभृतीनाम् तम् विनियम्य सुटि इति सुविद्वान् । शौ नियमम् पुनः एव विदध्यात् । भ्रूणहनि इति तथा अस्य न दुष्येत् । शास्ति निवर्त्य सुटि इति अविशेषे शौ नियमम् कुरु वा अपि असमीक्ष्य । दीर्घविधेः उपधानियमात् मे हन्त यि दीर्घविधौ च न दोषः । सुटि अपि वा प्रकृते अनवकाशः शौ नियमः अप्रकृतप्रतिषेधे । यस्य हि शौ नियमः सुटि न एतत् तेन न तत्र भवेत् विनियम्यम् ।

KA III.182.7-183.18 Ro IV.673-677 hanaḥ kvau upadhādīrghatvaprasaṅgaḥ . hanaḥ kvau upadhālakṣaṇam dīrghatvam prāpnoti . anunāsikasya kvijhaloḥ kṅiti iti . tasya pratiṣedhaḥ vaktavyaḥ . vṛtrahaṇau vṛtrahaṇaḥ iti . niyamavacanāt siddham . inhanpūṣāryamṇām śau sau ca iti etasmāt niyamavacanāt dīrghatvam na bhaviṣyati . niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra aniyamaḥ . niyamavacanāt siddham iti cet sarvanāmasthānaprakaraṇe niyamavacanāt anyatra niyamaḥ na prāpnoti . kva anyatra . vṛtrahaṇi bhrūṇahani . evam tarhi dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān . dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam sarvanāmasthāne viniyamya , inhanpūṣāryamṇām sarvanāmasthāne dīrghaḥ bhavati . kimartham idam . niyamāṛtham . inhanpūṣāryamṇām sarvanāmasthāne eva na anyatra . śau niyamam punaḥ eva vidadhyāt . tataḥ śau . śau eva sarvanāmasthāne na anyatra . tataḥ sau . sau eva sarvanāmasthāne na anyatra . bhrūṇahani iti tathā asya na duṣyet . tathā asya bhrūṇahani iti na doṣaḥ bhavati . śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru vā api asamīkṣya . atha vā nivṛtte sarvanāmasthānaprakaraṇe aviśeṣeṇa śau niyamam vakṣyāmi . inhanpūṣāryamṇām śau eva . tataḥ sau . sau eva . iha api tarhi niyamāt na prāpnoti : indraḥ vṛtrahāyate . dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ . upadhālakṣaṇadīrghatvasya niyamaḥ na ca etat upadhālakṣaṇam dīrghatvam . suṭi api vā prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe . atha vā anuvartamāne sarvanāmasthānagrahaṇe anavakāśaḥ śau niyamaḥ aprakṛtasya api dīrghatvasya niyāmakaḥ bhaviṣyati . katham . yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam . yasya hi śiḥ sarvanāmasthānam na tasya suṭ . yasya suṭ sarvanāmasthānam na tasya śiḥ . tatra sarvanāmasthānaprakaraṇe niyamyam na asti iti kṛtvā aviśeṣeṇa śau niyamaḥ vijñāsyate . dīrghavidhiḥ yaḥ iha inprabhṛtīnām tam viniyamya suṭi iti suvidvān . śau niyamam punaḥ eva vidadhyāt . bhrūṇahani iti tathā asya na duṣyet . śāsti nivartya suṭi iti aviśeṣe śau niyamam kuru vā api asamīkṣya . dīrghavidheḥ upadhāniyamāt me hanta yi dīrghavidhau ca na doṣaḥ . suṭi api vā prakṛte anavakāśaḥ śau niyamaḥ aprakṛtapratiṣedhe . yasya hi śau niyamaḥ suṭi na etat tena na tatra bhavet viniyamyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८३।२०-१८४।११ रो इव्।६७७-६७९ अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम् । अत्वसन्तस्य दीर्घत्वे पितः उपसङ्ख्यानम् कर्तव्यम् । गोमान् , यवमान् । किम् पुनः कारणम् न सिध्यति । अननुबन्धकग्रहणे हि सानुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति । अननुबन्धकग्रहणे इति उच्यते । सानुबन्धकस्य इदम् ग्रहणम् । एवम् तर्हि तदनुबन्धकग्रहणे अतदनुबन्धकस्य ग्रहणम् न इति एवम् पितः न प्राप्नोति । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । पकारलोपे कृते न अतुबन्तम् भवति अत्वन्तम् एव । यथा एव तर्हि पकारलोपे कृते न अतुबन्तम् एवम् उकारलोपे अपि कृते न अत्वन्तम् । ननु च भूतपूर्वगत्या भविष्यति अत्वन्तम् । यथा एव तर्हि भूतपूर्वगत्या अत्वन्तम् एवम् अतुबन्तम् अपि । एवम् तर्हि आश्रीयमाणे भूतपूर्वगतिः अत्वन्तम् च आस्रीयते न अतुबन्तम् । न सिध्यति । इह हि व्याकरणे सर्वेषु एव सानुबन्धकग्रहणेषु रूपम् आश्रीयते : यत्र अस्य एतत् रूपम् इति । रूपनिर्ग्रहः च न अन्तरेण लौकिकम् प्रयोगम् । तस्मिन् च लौकिके प्रयोगे सानुबन्धकानाम् प्रयोगः न अस्ति इति कृत्वा द्वितीयः प्रयोगः उपास्यते । कः असौ । उपदेशः नाम । उपदेशे च एतत् अतुबन्तम् न अत्वन्तम् । यदि पुनः अत्शब्दम् गृहीत्वा दीर्घत्वम् उच्येत । न एवम् शक्यम् । इह अपि प्रसज्येत : जगत् , जनगत् । अर्थवद्ग्रहणे न अनर्थकस्य इति एवम् एतस्य न भविष्यति । इह अपि तर्हि न प्राप्नोति : कृतवान् , भुक्तवान् इति । क्व तर्हि स्यात् । पचन् , यजन् । न वै अत्र इष्यते । अनिष्टम् च प्राप्नोति इष्तम् च न सिध्यति । तस्मात् उपसङ्ख्यानम् कर्तव्यम् ।

KA III.183.20-184.11 Ro IV.677-679 atvasantasya dīrghatve pitaḥ upasaṅkhyānam . atvasantasya dīrghatve pitaḥ upasaṅkhyānam kartavyam . gomān , yavamān . kim punaḥ kāraṇam na sidhyati . ananubandhakagrahaṇe hi sānubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti . ananubandhakagrahaṇe iti ucyate . sānubandhakasya idam grahaṇam . evam tarhi tadanubandhakagrahaṇe atadanubandhakasya grahaṇam na iti evam pitaḥ na prāpnoti . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . pakāralope kṛte na atubantam bhavati atvantam eva . yathā eva tarhi pakāralope kṛte na atubantam evam ukāralope api kṛte na atvantam . nanu ca bhūtapūrvagatyā bhaviṣyati atvantam . yathā eva tarhi bhūtapūrvagatyā atvantam evam atubantam api . evam tarhi āśrīyamāṇe bhūtapūrvagatiḥ atvantam ca āsrīyate na atubantam . na sidhyati . iha hi vyākaraṇe sarveṣu eva sānubandhakagrahaṇeṣu rūpam āśrīyate : yatra asya etat rūpam iti . rūpanirgrahaḥ ca na antareṇa laukikam prayogam . tasmin ca laukike prayoge sānubandhakānām prayogaḥ na asti iti kṛtvā dvitīyaḥ prayogaḥ upāsyate . kaḥ asau . upadeśaḥ nāma . upadeśe ca etat atubantam na atvantam . yadi punaḥ atśabdam gṛhītvā dīrghatvam ucyeta . na evam śakyam . iha api prasajyeta : jagat , janagat . arthavadgrahaṇe na anarthakasya iti evam etasya na bhaviṣyati . iha api tarhi na prāpnoti : kṛtavān , bhuktavān iti . kva tarhi syāt . pacan , yajan . na vai atra iṣyate . aniṣṭam ca prāpnoti iṣtam ca na sidhyati . tasmāt upasaṅkhyānam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८४।१३-२५ रो इव्।६७९-६८० गमेः दीर्घत्वे इङ्ग्रहणम् । गमेः दीर्घत्वे इङ्ग्रहणम् कर्तव्यम् । इङ्गमेः इति वक्तव्यम् । इह मा भूत् : सञ्जिगंसते वत्सः मात्रा इति । अग्रहणे हि अनादेशस्य अपि दीर्घप्रसङ्गः । अक्रियमाणे हि इङ्ग्रहणे अनादेशस्य अपि दीर्घत्वम् प्रसज्येत । सञ्जिगंसते वत्सः मात्रा इति । न वा छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् इङ्ग्रहणानर्थक्यम् । न वा इङ्ग्रहणम् कर्तव्यम् । किम् कारणम् । छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् । छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् दृश्यते । स्वर्गम् लोकम् सञ्जिगांसत् । छन्दसि अनादेशस्य अपि दीर्घत्वदर्शनात् इङ्ग्रहणम् अनर्थकम् । यथा एव तर्हि छन्दसि अनादेशस्य अपि गमेः दीर्घत्वम् भवति एवम् भाषायाम् अपि प्राप्नोति । तस्मात् इङ्ग्रहणम् कर्तव्यम् । न कर्तव्यम् । योगविभागः करिष्यते । अचः सनि । अजन्तानाम् सनि दीर्घः भवति । ततः हनिगम्योः । हनिगम्योः च सनि दीर्घः भवति । अचः इति एव । अचः स्थाने यौ हनिगमी ।

KA III.184.13-25 Ro IV.679-680 gameḥ dīrghatve iṅgrahaṇam . gameḥ dīrghatve iṅgrahaṇam kartavyam . iṅgameḥ iti vaktavyam . iha mā bhūt : sañjigaṃsate vatsaḥ mātrā iti . agrahaṇe hi anādeśasya api dīrghaprasaṅgaḥ . akriyamāṇe hi iṅgrahaṇe anādeśasya api dīrghatvam prasajyeta . sañjigaṃsate vatsaḥ mātrā iti . na vā chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇānarthakyam . na vā iṅgrahaṇam kartavyam . kim kāraṇam . chandasi anādeśasya api dīrghatvadarśanāt . chandasi anādeśasya api gameḥ dīrghatvam dṛśyate . svargam lokam sañjigāṃsat . chandasi anādeśasya api dīrghatvadarśanāt iṅgrahaṇam anarthakam . yathā eva tarhi chandasi anādeśasya api gameḥ dīrghatvam bhavati evam bhāṣāyām api prāpnoti . tasmāt iṅgrahaṇam kartavyam . na kartavyam . yogavibhāgaḥ kariṣyate . acaḥ sani . ajantānām sani dīrghaḥ bhavati . tataḥ hanigamyoḥ . hanigamyoḥ ca sani dīrghaḥ bhavati . acaḥ iti eva . acaḥ sthāne yau hanigamī .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८५।१-७ रो इव्।६८१ अथ उपधाग्रहणम् अनुवर्तते उत अहो न । किम् च अतः । सनि दीर्घे उपधाधिकारः चेत् व्यञ्जनप्रतिषेधः । सनि दीर्घे उपधाधिकारः चेत् व्यञ्जनप्रतिषेधः वक्तव्यः , चिचीषति तुष्टूषति इति एवम् अर्थम् । एवम् तर्हि निवृत्तम् । अनधिकारे उक्तम् । किम् उक्तम् । हनिगमिदीर्घेषु अज्ग्रहणम् इति । न एषः दोषः । उक्तम् एतत् ह्रस्वः दीर्घः प्लुतः इति यत्र ब्रूयात् अचः इति एतत् तत्र उपस्थितम् द्रष्टव्यम् इति ।

KA III.185.1-7 Ro IV.681 atha upadhāgrahaṇam anuvartate uta aho na . kim ca ataḥ . sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ . sani dīrghe upadhādhikāraḥ cet vyañjanapratiṣedhaḥ vaktavyaḥ , cicīṣati tuṣṭūṣati iti evam artham . evam tarhi nivṛttam . anadhikāre uktam . kim uktam . hanigamidīrgheṣu ajgrahaṇam iti . na eṣaḥ doṣaḥ . uktam etat hrasvaḥ dīrghaḥ plutaḥ iti yatra brūyāt acaḥ iti etat tatra upasthitam draṣṭavyam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८५।९-१६ रो इव्।६८१-६८३ अथ , ऊट् आदिः कस्मान् न भवति । आदिः टित् भवति इति प्राप्नोति । कस्य पुनः आदिः । वकारस्य । अस्तु । वकारकस्य का प्रतिपत्तिः । लोपः व्योः वलि इति लोपः भविष्यति । न एवम् शक्यम् । ज्वरत्वरस्रिव्यविमवाम् उपधायाः च इति द्वौ ऊटौ स्याताम् । एवम् तर्हि न एषः टित् । कः तर्हि । ठित् । यदि तर्हि ठित् , धौतः पटः इति एत्येधत्यूट्सु इति वृद्धिः न प्राप्नोति । चर्त्वे कृते भविष्यति । असिद्धम् चर्त्वम् । तस्य असिद्धत्वात् न प्राप्नोति । आश्रयात् सिद्धत्वम् भविष्यति । असति अन्यस्मिन् आश्रयात् सिद्धत्वम् स्यात् अस्ति च अन्यः सिद्धः वाहः उट् इति । एषः अपि ठित् करिष्यते । तत्र उभयोः चर्त्वे कृते आश्रयात् सिद्धत्वम् भविष्यति ।

KA III.185.9-16 Ro IV.681-683 atha , ūṭ ādiḥ kasmān na bhavati . ādiḥ ṭit bhavati iti prāpnoti . kasya punaḥ ādiḥ . vakārasya . astu . vakārakasya kā pratipattiḥ . lopaḥ vyoḥ vali iti lopaḥ bhaviṣyati . na evam śakyam . jvaratvarasrivyavimavām upadhāyāḥ ca iti dvau ūṭau syātām . evam tarhi na eṣaḥ ṭit . kaḥ tarhi . ṭhit . yadi tarhi ṭhit , dhautaḥ paṭaḥ iti etyedhatyūṭsu iti vṛddhiḥ na prāpnoti . cartve kṛte bhaviṣyati . asiddham cartvam . tasya asiddhatvāt na prāpnoti . āśrayāt siddhatvam bhaviṣyati . asati anyasmin āśrayāt siddhatvam syāt asti ca anyaḥ siddhaḥ vāhaḥ uṭ iti . eṣaḥ api ṭhit kariṣyate . tatra ubhayoḥ cartve kṛte āśrayāt siddhatvam bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८५।१७-१८६।१५ रो इव्।६८३-६८६ अथ क्ङिद्ग्रहणम् अनुवर्तते उत अहो न । किम् च अतः । शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम् । शूट्त्वे क्ङिदधिकारः चेत् छः षत्वम् वक्तव्यम् । प्रष्टा , प्रष्टुम् , प्रष्टव्यम् । तुक्प्रसङ्गः च । तुक् च प्राप्नोति । निवृत्ते अपि क्ङिद्ग्रहणे अवश्यम् अत्र तुगभावार्थः यत्नः कर्तव्यः । अन्तरङ्गत्वात् हि तुक् प्राप्नोति । च्छ्वोः इति सन्निपातग्रहणम् विज्ञायते । ननु एवम् अपि अन्त्यस्य प्राप्नोति । सन्निपातग्रहणसामर्थ्यात् सर्वस्य भविष्यति । एवम् अपि अङ्गस्य प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् अङ्गस्य न भविष्यति । यदि एवम् उत्पुच्छयतेः अप्रत्ययः उत्पुट् इति प्राप्नोति , उत्पुत् इति च इष्यते । तथा वाञ्छतेः अप्रत्ययः वान् , वांशौ वांशः इति न सिध्यति । यथालक्षणम् अप्रयुक्ते । तत्र तु एतावान् विशेषः । अनुवर्तमाने क्ङिद्ग्रहणे छः षत्वम् वक्तव्यम् तत्र च अपि सन्निपातग्रहणम् विज्ञेयम् । निवृत्ते दिवः ऊड्भावः । निवृत्ते दिवः ऊड्भावः प्राप्नोति । द्युभ्याम् , द्युभिः । अस्तु । कथम् द्युभ्याम् , द्युभिः इति । ऊठि कृते दिवः उत् इति उत्त्वम् भविष्यति । न सिध्यति । आन्तर्यतः दीर्घस्य दीर्घः प्राप्नोति । तदर्थम् तपरः कृतः । एवमर्थम् तपरः क्रियते । क्व पुनः क्ङिद्ग्रहणम् प्रकृतम् । अनुनासिकस्य क्विझलोः क्ङिति इति । यदि तत् अनुवर्तते अज्झनगमाम् सनि क्विझलोः च इति क्विझलोः अपि दीर्घत्वम् प्राप्नोति । झलि तावत् न दोषः । सनम् झल्ग्रहणेन विशेषयिष्यामः । सनि झलादौ इति । क्वौ अपि आचार्यप्रवृत्तिः ज्ञापयति न अनेन क्वौ दीर्घत्वम् भवति इति यत् अयम् क्विब्वचिप्रच्छ्यायतस्तुकटप्रुजुश्रीणाम् दीर्घः असम्प्रसारम् च इति दीर्घत्वम् शास्ति ।

KA III.185.17-186.15 Ro IV.683-686 atha kṅidgrahaṇam anuvartate uta aho na . kim ca ataḥ . śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam . śūṭtve kṅidadhikāraḥ cet chaḥ ṣatvam vaktavyam . praṣṭā , praṣṭum , praṣṭavyam . tukprasaṅgaḥ ca . tuk ca prāpnoti . nivṛtte api kṅidgrahaṇe avaśyam atra tugabhāvārthaḥ yatnaḥ kartavyaḥ . antaraṅgatvāt hi tuk prāpnoti . cchvoḥ iti sannipātagrahaṇam vijñāyate . nanu evam api antyasya prāpnoti . sannipātagrahaṇasāmarthyāt sarvasya bhaviṣyati . evam api aṅgasya prāpnoti . nirdiśyamānasya ādeśāḥ bhavanti iti evam aṅgasya na bhaviṣyati . yadi evam utpucchayateḥ apratyayaḥ utpuṭ iti prāpnoti , utput iti ca iṣyate . tathā vāñchateḥ apratyayaḥ vān , vāṃśau vāṃśaḥ iti na sidhyati . yathālakṣaṇam aprayukte . tatra tu etāvān viśeṣaḥ . anuvartamāne kṅidgrahaṇe chaḥ ṣatvam vaktavyam tatra ca api sannipātagrahaṇam vijñeyam . nivṛtte divaḥ ūḍbhāvaḥ . nivṛtte divaḥ ūḍbhāvaḥ prāpnoti . dyubhyām , dyubhiḥ . astu . katham dyubhyām , dyubhiḥ iti . ūṭhi kṛte divaḥ ut iti uttvam bhaviṣyati . na sidhyati . āntaryataḥ dīrghasya dīrghaḥ prāpnoti . tadartham taparaḥ kṛtaḥ . evamartham taparaḥ kriyate . kva punaḥ kṅidgrahaṇam prakṛtam . anunāsikasya kvijhaloḥ kṅiti iti . yadi tat anuvartate ajjhanagamām sani kvijhaloḥ ca iti kvijhaloḥ api dīrghatvam prāpnoti . jhali tāvat na doṣaḥ . sanam jhalgrahaṇena viśeṣayiṣyāmaḥ . sani jhalādau iti . kvau api ācāryapravṛttiḥ jñāpayati na anena kvau dīrghatvam bhavati iti yat ayam kvibvacipracchyāyatastukaṭaprujuśrīṇām dīrghaḥ asamprasāram ca iti dīrghatvam śāsti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८७।२-९ रो इव्।६८७-६८८ असिद्धवचनम् किमर्थम् । असिद्धवचने उक्तम् । किम् उक्तम् । तत्र तावत् उक्तम् षत्वतुकोः असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च इति । इह अपि असिद्धवचनम् आदेशलक्षणप्रतिषेधाऋथम् उत्सर्गलक्षणभावार्थम् च । आदेशलक्षणप्रतिषेधाऋथम् तावत् । आगहि जहि गतः , गतवान् । अनुनासिकलोपे जभावे च कृते अतः लोपः , अतः हेः इति च प्राप्नोति । असिद्धत्वात् न भवति । उत्सर्गलक्षणभावार्थम् च । एधि शाधि । अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति । असिद्धत्वात् भवति । अथ अत्रग्रहणम् किमर्थम् । अत्रग्रहणम् विषयार्थम् । विषयः प्रतिनिर्दिश्यते । अत्र एतस्मिन् आभाच्छास्त्रे आभाच्छास्त्रम् असिद्धम् यथा स्यात् । इह मा भूत् : अभाजि, रागः, उपबर्हणम् इति ।

KA III.187.2-9 Ro IV.687-688 asiddhavacanam kimartham . asiddhavacane uktam . kim uktam . tatra tāvat uktam ṣatvatukoḥ asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca iti . iha api asiddhavacanam ādeśalakṣaṇapratiṣedhāṛtham utsargalakṣaṇabhāvārtham ca . ādeśalakṣaṇapratiṣedhāṛtham tāvat . āgahi jahi gataḥ , gatavān . anunāsikalope jabhāve ca kṛte ataḥ lopaḥ , ataḥ heḥ iti ca prāpnoti . asiddhatvāt na bhavati . utsargalakṣaṇabhāvārtham ca . edhi śādhi . astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti . asiddhatvāt bhavati . atha atragrahaṇam kimartham . atragrahaṇam viṣayārtham . viṣayaḥ pratinirdiśyate . atra etasmin ābhācchāstre ābhācchāstram asiddham yathā syāt . iha mā bhūt : abhāji, rāgaḥ, upabarhaṇam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८७।१०-१८९।१३ रो इव्।६८८-६९३ कानि पुनः अस्य योगस्य प्रयोजनानि । प्रयोजनम् शैत्त्वम् धित्वे । शाभावः एत्त्वम् च धित्वे प्रयोजनम् । एधि शाधि । अस्तिशास्त्योः एत्त्वशाभावयोः कृतयोः झल्लक्षणम् धित्वम् न प्राप्नोति । असिद्धत्वात् भवति । शाभावः तावत् न प्रयोजयति । एवम् वक्ष्यामि । शास् हौ शा हौ इति । यत्वभूतः सकारः । तत्र सात् धित्वम् धि च इति सकारस्य लोपः । अथ वा , आ हौ इति वक्ष्यामि । एवम् अपि सकारस्य प्राप्नोति । उपधायाः इति वर्तते । उपधायाः आत्वे कृते सात् धित्वम् धि च इति सकारस्य लोपः । अथ वा न हौ इति वक्ष्यामि । तत्र एत्त्वे प्रतिषिद्धे सात् धित्वम् धि च इति सकारस्य लोपः । एत्त्वम् अपि लोपापवादः विज्ञास्यते न च सकारस्य लोपः प्राप्नोति । हिलोपः उत्त्वे । हिलोपः उत्त्वे प्रयोजनम् । कुरु इति अत्र हिलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति । असिद्धत्वात् भवति । एतत् अपि न अस्ति प्रयोजनम् । वक्ष्यति तत्र सार्वधातुकग्रहणस्य प्रयोजनम् सार्वधातुके भूतपूर्वमात्रे यथा स्त्यात् उत्त्वम् । तास्तिलोपेण्यणादेशाः अडाड्विधौ । तलोपः अस्तिलोपः इणः च यणादेशः अडाड्विधौ प्रयोजनम् । अकारि , ऐही इति । तलोपे कृते लुङि इति अडाटौ न क्ल्प्राप्नुतः । असिद्धत्वात् भवतः । अस्तिलोपः इणः च यणादेशः प्रयोजनम् । आसन् , आयन् इति । इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् आट् न प्राप्नोति । असिद्धत्वात् भवति । अस्तिलोपः तावत् न प्रयोजयति । आचार्यप्रवृत्तिः ज्ञापयति लोपात् आट् बलीयान् इति यत् अयम् श्नसोः अल्लोपः इति तपरकरणम् करोति । इण्यणादेशः च अपि न प्रयोजयति । यणादेशे योगविभागः करिष्यते । इणः यण् भवति । ततः एः अनेकाचः । एः च अनेकाचः इणः यण् भवति । ततः असंयोगपूर्वस्य यण् भवति । एः अनेकाचः इति एव । सर्वेषाम् एव परिहारः । उपदेशः इति वर्तते । तत्र उपदेशावस्थायाम् एव अडाटौ भवतः । अथ वा आर्धधातुके इति वर्तते । अथ वा लुङ्लङ्लृङ्क्षु अट् इति द्विलकारकः निर्देशः : लुङादिषु लकारादिषु इति । सर्वथा , ऐज्यत , औप्यत इति न सिध्यति । वक्ष्यति एतत् अजादीनाम् अटा सिद्धम् इति । अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च । अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च प्रयोजनम् । आगहि जहि गतः , गतवान् । अनुनासिकलोपे कृते जभावे च अतः हेः अतः लोपः इति च लोपः प्राप्नोति । असिद्धत्वात् न भवति । अनुनासिकलोपः तावत् न प्रयोजयति । अल्लोपे उपदेशे इति वर्तते । यदि उपदेशे इति वर्तते धिनुतः , कृणुतः अत्र न प्राप्नोति । न एषः दोषः । न उपदेशग्रहणेन प्रकृतिः अभिसम्बध्यते । किम् तर्हि । आर्धधातुकम् अभिसम्बध्यते : आर्धधातुकोपदेशे यत् अकारान्तम् इति । जभावः च न प्रयोजयति । हिलोपे योगविभागः करिष्यते । अतः हेः । ततः उतः च । उतः च हेः लुक् भवति इति । ततः प्रत्ययात् । प्रत्ययात् इति उभयोः शेषः । अथ किमर्थम् अनुनासिकलोपः हिलोपाल्लोपयोः जभावः च इति उच्यते न अनुनासिकलोपजभावौ अल्लोपहिलोपयोः इति एव उच्यते । सङ्ख्यातानुदेशः मा भूत् इति । अनुनासिकलोपः हिलोपे प्रयोजयति । मण्डूकि ताभिः आगहि । रोहितः च इह अ गहि । मरुद्भिः अग्ने अगहि । सम्प्रसारणम् अवर्णलोपे । सम्प्रसारणम् अवर्णलोपे प्रयोजनम् । मधोनः पश्य । मघोना , मघोने । सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति । असिद्धत्वात् न भवति । न एतत् अस्ति प्रयोजनम् । वक्ष्यति एतत् : मघवन्शब्दः अव्युत्पन्नम् प्रातिपदिकम्

KA III.187.10-189.13 Ro IV.688-693 kāni punaḥ asya yogasya prayojanāni . prayojanam śaittvam dhitve . śābhāvaḥ ettvam ca dhitve prayojanam . edhi śādhi . astiśāstyoḥ ettvaśābhāvayoḥ kṛtayoḥ jhallakṣaṇam dhitvam na prāpnoti . asiddhatvāt bhavati . śābhāvaḥ tāvat na prayojayati . evam vakṣyāmi . śās hau śā hau iti . yatvabhūtaḥ sakāraḥ . tatra sāt dhitvam dhi ca iti sakārasya lopaḥ . atha vā , ā hau iti vakṣyāmi . evam api sakārasya prāpnoti . upadhāyāḥ iti vartate . upadhāyāḥ ātve kṛte sāt dhitvam dhi ca iti sakārasya lopaḥ . atha vā na hau iti vakṣyāmi . tatra ettve pratiṣiddhe sāt dhitvam dhi ca iti sakārasya lopaḥ . ettvam api lopāpavādaḥ vijñāsyate na ca sakārasya lopaḥ prāpnoti . hilopaḥ uttve . hilopaḥ uttve prayojanam . kuru iti atra hilope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti . asiddhatvāt bhavati . etat api na asti prayojanam . vakṣyati tatra sārvadhātukagrahaṇasya prayojanam sārvadhātuke bhūtapūrvamātre yathā styāt uttvam . tāstilopeṇyaṇādeśāḥ aḍāḍvidhau . talopaḥ astilopaḥ iṇaḥ ca yaṇādeśaḥ aḍāḍvidhau prayojanam . akāri , aihī iti . talope kṛte luṅi iti aḍāṭau na klprāpnutaḥ . asiddhatvāt bhavataḥ . astilopaḥ iṇaḥ ca yaṇādeśaḥ prayojanam . āsan , āyan iti . iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt āṭ na prāpnoti . asiddhatvāt bhavati . astilopaḥ tāvat na prayojayati . ācāryapravṛttiḥ jñāpayati lopāt āṭ balīyān iti yat ayam śnasoḥ allopaḥ iti taparakaraṇam karoti . iṇyaṇādeśaḥ ca api na prayojayati . yaṇādeśe yogavibhāgaḥ kariṣyate . iṇaḥ yaṇ bhavati . tataḥ eḥ anekācaḥ . eḥ ca anekācaḥ iṇaḥ yaṇ bhavati . tataḥ asaṃyogapūrvasya yaṇ bhavati . eḥ anekācaḥ iti eva . sarveṣām eva parihāraḥ . upadeśaḥ iti vartate . tatra upadeśāvasthāyām eva aḍāṭau bhavataḥ . atha vā ārdhadhātuke iti vartate . atha vā luṅlaṅlṛṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu iti . sarvathā , aijyata , aupyata iti na sidhyati . vakṣyati etat ajādīnām aṭā siddham iti . anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca . anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca prayojanam . āgahi jahi gataḥ , gatavān . anunāsikalope kṛte jabhāve ca ataḥ heḥ ataḥ lopaḥ iti ca lopaḥ prāpnoti . asiddhatvāt na bhavati . anunāsikalopaḥ tāvat na prayojayati . allope upadeśe iti vartate . yadi upadeśe iti vartate dhinutaḥ , kṛṇutaḥ atra na prāpnoti . na eṣaḥ doṣaḥ . na upadeśagrahaṇena prakṛtiḥ abhisambadhyate . kim tarhi . ārdhadhātukam abhisambadhyate : ārdhadhātukopadeśe yat akārāntam iti . jabhāvaḥ ca na prayojayati . hilope yogavibhāgaḥ kariṣyate . ataḥ heḥ . tataḥ utaḥ ca . utaḥ ca heḥ luk bhavati iti . tataḥ pratyayāt . pratyayāt iti ubhayoḥ śeṣaḥ . atha kimartham anunāsikalopaḥ hilopāllopayoḥ jabhāvaḥ ca iti ucyate na anunāsikalopajabhāvau allopahilopayoḥ iti eva ucyate . saṅkhyātānudeśaḥ mā bhūt iti . anunāsikalopaḥ hilope prayojayati . maṇḍūki tābhiḥ āgahi . rohitaḥ ca iha a gahi . marudbhiḥ agne agahi . samprasāraṇam avarṇalope . samprasāraṇam avarṇalope prayojanam . madhonaḥ paśya . maghonā , maghone . samprasāraṇe kṛte yasya iti lopaḥ prāpnoti . asiddhatvāt na bhavati . na etat asti prayojanam . vakṣyati etat : maghavanśabdaḥ avyutpannam prātipadikam

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१८९।१४-१९०।९ रो इव्।६९३-६९५ यदि तर्हि अयम् योगः न आरभ्यते , उत् तु कृञः कथम् ओः विनिवृत्तौ । इह कुर्वः कुर्मः कुर्यात् इति उकारलोपे कृते सार्वधातुकपरे उकारे इति उत्त्वम् न प्राप्नोति । णेः अपि च इटि कथम् विनिवृत्तिः । इह च कारयतेः कारिष्यते णेः अनिटि इति णिलोपः न प्राप्नोति । अब्रुवतः तव योगम् इमम् स्यात् लुक् च चिणः नु कथम् न तरस्य । इह च , अकारितराम् अहारितराम् इति चिणः उत्तरस्य तरस्य लुक् न स्यात् । चम् भगवान् कृतवान् तु तदर्थम् तेन भवेत् इटि णेः निवृत्तिः । इह स्यसिच्सीयुट्तासिषु भावकर्मणोः उपदेशे अज्झनग्रहदृशाम् वा चिण्वत् इट् च किम् च । णिलोपः च । म्वोः अपि ये च तथा अपि अनुवृत्तौ । इह अपि कुर्वः कुर्मः कुर्यात् इति म्वोः ये च इति एतत् अपि अनुवर्तिष्यते । चिण्लुकि च क्ङितः एव लुक् स्यात् । चिण्लुकि अपि प्रकृतम् क्ङिद्ग्रहणम् अनुवर्तते । क्व प्रकृतम् । गमहनखनघसाम् लोपः क्ङिति अनङि इति । तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । चिणः इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् ल्प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । उत् तु कृञः कथम् ओः विनिवृत्तौ । णेः अपि च इटि कथम् विनिवृत्तिः । अब्रुवतः तव योगम् इमम् स्यात् लुक् च चिणः नु कथम् न तरस्य । चम् भगवान् कृतवान् तु तदर्थम् तेन भवेत् इटि णेः निवृत्तिः । म्वोः अपि ये च तथा अपि अनुवृत्तौ । चिण्लुकि च क्ङितः एव लुक् स्यात् ।

KA III.189.14-190.9 Ro IV.693-695 yadi tarhi ayam yogaḥ na ārabhyate , ut tu kṛñaḥ katham oḥ vinivṛttau . iha kurvaḥ kurmaḥ kuryāt iti ukāralope kṛte sārvadhātukapare ukāre iti uttvam na prāpnoti . ṇeḥ api ca iṭi katham vinivṛttiḥ . iha ca kārayateḥ kāriṣyate ṇeḥ aniṭi iti ṇilopaḥ na prāpnoti . abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya . iha ca , akāritarām ahāritarām iti ciṇaḥ uttarasya tarasya luk na syāt . cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ . iha syasicsīyuṭtāsiṣu bhāvakarmaṇoḥ upadeśe ajjhanagrahadṛśām vā ciṇvat iṭ ca kim ca . ṇilopaḥ ca . mvoḥ api ye ca tathā api anuvṛttau . iha api kurvaḥ kurmaḥ kuryāt iti mvoḥ ye ca iti etat api anuvartiṣyate . ciṇluki ca kṅitaḥ eva luk syāt . ciṇluki api prakṛtam kṅidgrahaṇam anuvartate . kva prakṛtam . gamahanakhanaghasām lopaḥ kṅiti anaṅi iti . tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . ciṇaḥ iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm lprakalpayiṣyati tasmāt iti uttarasya iti . ut tu kṛñaḥ katham oḥ vinivṛttau . ṇeḥ api ca iṭi katham vinivṛttiḥ . abruvataḥ tava yogam imam syāt luk ca ciṇaḥ nu katham na tarasya . cam bhagavān kṛtavān tu tadartham tena bhavet iṭi ṇeḥ nivṛttiḥ . mvoḥ api ye ca tathā api anuvṛttau . ciṇluki ca kṅitaḥ eva luk syāt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९०।१०-१९२।८ रो इव्।६९५-७०१ आरभ्यमाणे अपि एतस्मिन् योगे सिद्धम् वसुसम्प्रसारणम् अज्विधौ । वसुसम्प्रसारणम् अज्विधौ सिद्धम् वक्तव्यम् । किम् प्रयोजनम् । पपुषः पश्य । तस्थुषः पश्य । निन्युषः पश्य । चिच्युषः पश्य । लुलुवुषः पश्य । पुपुवुषः पश्य इति । वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि यथा स्युः इति । किम् पुनः कारणम् न सिध्यन्ति । बहिरङ्गलक्षणत्वात् असिद्धत्वात् च । बहिरङ्गलक्षणम् च एव हि वसुसम्प्रसारणम् असिद्धम् च । आत्त्वम् यलोपाल्लोपयोः पशुषः न वाजान् चाखायिता चाखायितुम् । आत्त्वम् यलोपाल्लोपयोः सिद्धम् वक्तव्यम् । किम् प्रयोजनम् । पशुषः न वाजान् । पशुषः इति आत्त्त्वस्य असिद्धत्वात् आतः धातोः इति आकारलोपः न प्राप्नोति । चाखायिता चाखायितुम् इति आत्त्वस्य असिद्धत्वात् यस्य हलः इति यलोपः प्राप्नोति । समानाश्रयवचनात् सिद्धम् । समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् । इह तावत् पपुषः पश्य , तस्थुषः पश्य , निन्युषः पश्य , चिच्युषः पश्य , लुलुवुषः पश्य , पुपुवुषः पश्य इति । वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् । पशुषः इति विटि आत्त्वम् विडन्तस्य विभक्तौ आकारलोपः । चाखायिता चाखायितुम् इति यङि आत्त्वम् यङन्तस्य च आर्धधातुके लोपः इति । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अत्रग्रहणसामर्थ्यात् । ननु च अन्यत् अत्रग्रहणस्य प्रयोजनम् उक्तम् । किम् उक्तम् । अत्रग्रहणम् विषयार्थम् इति । अधिकारात् अपि एतत् सिद्धम् । इह पपुषः , चिच्युषः , लुलुवुषः , द्वौ हेतू व्य्पदिष्टौ बहिरङ्गलक्षणत्वम् असिद्धत्वम् च इति । तत्र भवएत् असिद्धत्वम् प्रत्युक्तम् बहिरङ्गलक्षणत्वम् तु न एव प्रत्युक्तम् । न एषः दोषः बहिरङ्गम् अन्तरङ्गम् इति च प्रतिद्वन्द्विभाविनौ एतौ अर्थौ । कथम् । सति अन्तरङ्गे बहिरङ्गम् सति च बहिरङ्गे अन्तरङ्गम् । न च अत्र अन्तरङ्गबहिरङ्गयोः युगपत् समवस्थानम् अस्ति । न अनभिनिर्वृत्ते बहिरङ्गे अन्तरङ्गम् प्राप्नोति । तत्र निमित्तम् एव बहिरङ्गम् अन्तरङ्गस्य । ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि । ह्रस्वयलोपाल्लोपाः च अयादेशे ल्यपि सिद्धाः वक्तव्याः । प्रशमय्य गतः , प्रतमय्य गतः । प्रबेभिदय्य गतः । प्रचेच्छिदय्य गतः । प्रस्तनय्य गतः । प्रगदय्य गतः । ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति । अत्र अपि एषः परिहारः समानाश्रयवचनात् सिद्धम् इति । कथम् । णौ एते विधयः णेः ल्यपि अयादेशः । वुग्युटौ उवङ्यणोः । वुग्युटौ उवङ्यणोः सिद्धौ वक्तव्यौ । बभूवतुः , बभूवुः : वुकः असिद्धत्वात् उवङादेशः प्राप्नोति । उपदिदीये , उपदिदीयाते : युटः असिद्धत्वात् यणादेशः प्राप्नोति । वुकः तावत् न वक्तव्यः । वुकम् न वक्ष्यामि । एवम् वक्ष्यामि : भुवः लुङ्लिटोः ऊत् उपधायाः इति । अत्र उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति । एवम् अपि कुतः नु खलु एतत् उवङादेशे कृते या उपधा तस्याः ऊत्त्वम् भविष्यति न पुनः साम्प्रतिकी या उपधा तस्याः स्यात् भकारस्य । न एषः दोषः । ओः इति वर्तते । तेन उवर्णस्य भविष्यति । भवेत् सिद्धम् बभूवतुः , बभूवुः । इदम् तु न सिध्यति : बभूव बभूविथ इति । किम् कारणम् । गुणवृद्ध्योः कृतयोः उवर्णाभावात् । न अत्र गुणवृद्धी प्राप्नुतः । किम् कारणम् । क्ङिति च इति प्रतिषेधात् । कथम् कित्त्वम् । इन्धिभवतिभ्याम् च इति । तत् वै वयम् कित्त्वम् प्रत्याचक्ष्महे वुका । इह तु कित्त्वेन वुक् प्रत्याख्यायते । किम् पुनः अत्र न्याय्यम् । वुग्वचनम् एव न्याय्यम् । सति अपि हि कित्त्वे स्याताम् एव अत्र गुणवृद्धी । किम् कारणम् । इग्लक्षणयोः गुणवृद्ध्योः सः प्रतिषेधः न च एषा इग्लक्षणा वृद्धिः । एवम् तर्हि न अर्थः वुका न अपि कित्त्वेन । स्ताम् अत्र गुणवृद्धी । गुणवृद्ध्योः कृतयोः अवावोः च कृतयोः या उपधा तस्याः ऊत्त्वम् भविष्यति । कथम् । ओः इति अत्र अवर्णम् अपि प्रतिनिर्दिश्यते । इह अपि तर्हि प्राप्नोति । कीलालपः पश्य । शुभंयः पश्य इति

KA III.190.10-192.8 Ro IV.695-701 ārabhyamāṇe api etasmin yoge siddham vasusamprasāraṇam ajvidhau . vasusamprasāraṇam ajvidhau siddham vaktavyam . kim prayojanam . papuṣaḥ paśya . tasthuṣaḥ paśya . ninyuṣaḥ paśya . cicyuṣaḥ paśya . luluvuṣaḥ paśya . pupuvuṣaḥ paśya iti . vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni yathā syuḥ iti . kim punaḥ kāraṇam na sidhyanti . bahiraṅgalakṣaṇatvāt asiddhatvāt ca . bahiraṅgalakṣaṇam ca eva hi vasusamprasāraṇam asiddham ca . āttvam yalopāllopayoḥ paśuṣaḥ na vājān cākhāyitā cākhāyitum . āttvam yalopāllopayoḥ siddham vaktavyam . kim prayojanam . paśuṣaḥ na vājān . paśuṣaḥ iti ātttvasya asiddhatvāt ātaḥ dhātoḥ iti ākāralopaḥ na prāpnoti . cākhāyitā cākhāyitum iti āttvasya asiddhatvāt yasya halaḥ iti yalopaḥ prāpnoti . samānāśrayavacanāt siddham . samānāśrayam asiddham bhavati vyāśrayam ca etat . iha tāvat papuṣaḥ paśya , tasthuṣaḥ paśya , ninyuṣaḥ paśya , cicyuṣaḥ paśya , luluvuṣaḥ paśya , pupuvuṣaḥ paśya iti . vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam . paśuṣaḥ iti viṭi āttvam viḍantasya vibhaktau ākāralopaḥ . cākhāyitā cākhāyitum iti yaṅi āttvam yaṅantasya ca ārdhadhātuke lopaḥ iti . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . atragrahaṇasāmarthyāt . nanu ca anyat atragrahaṇasya prayojanam uktam . kim uktam . atragrahaṇam viṣayārtham iti . adhikārāt api etat siddham . iha papuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , dvau hetū vypadiṣṭau bahiraṅgalakṣaṇatvam asiddhatvam ca iti . tatra bhavaet asiddhatvam pratyuktam bahiraṅgalakṣaṇatvam tu na eva pratyuktam . na eṣaḥ doṣaḥ bahiraṅgam antaraṅgam iti ca pratidvandvibhāvinau etau arthau . katham . sati antaraṅge bahiraṅgam sati ca bahiraṅge antaraṅgam . na ca atra antaraṅgabahiraṅgayoḥ yugapat samavasthānam asti . na anabhinirvṛtte bahiraṅge antaraṅgam prāpnoti . tatra nimittam eva bahiraṅgam antaraṅgasya . hrasvayalopāllopāḥ ca ayādeśe lyapi . hrasvayalopāllopāḥ ca ayādeśe lyapi siddhāḥ vaktavyāḥ . praśamayya gataḥ , pratamayya gataḥ . prabebhidayya gataḥ . pracecchidayya gataḥ . prastanayya gataḥ . pragadayya gataḥ . hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti . atra api eṣaḥ parihāraḥ samānāśrayavacanāt siddham iti . katham . ṇau ete vidhayaḥ ṇeḥ lyapi ayādeśaḥ . vugyuṭau uvaṅyaṇoḥ . vugyuṭau uvaṅyaṇoḥ siddhau vaktavyau . babhūvatuḥ , babhūvuḥ : vukaḥ asiddhatvāt uvaṅādeśaḥ prāpnoti . upadidīye , upadidīyāte : yuṭaḥ asiddhatvāt yaṇādeśaḥ prāpnoti . vukaḥ tāvat na vaktavyaḥ . vukam na vakṣyāmi . evam vakṣyāmi : bhuvaḥ luṅliṭoḥ ūt upadhāyāḥ iti . atra uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati . evam api kutaḥ nu khalu etat uvaṅādeśe kṛte yā upadhā tasyāḥ ūttvam bhaviṣyati na punaḥ sāmpratikī yā upadhā tasyāḥ syāt bhakārasya . na eṣaḥ doṣaḥ . oḥ iti vartate . tena uvarṇasya bhaviṣyati . bhavet siddham babhūvatuḥ , babhūvuḥ . idam tu na sidhyati : babhūva babhūvitha iti . kim kāraṇam . guṇavṛddhyoḥ kṛtayoḥ uvarṇābhāvāt . na atra guṇavṛddhī prāpnutaḥ . kim kāraṇam . kṅiti ca iti pratiṣedhāt . katham kittvam . indhibhavatibhyām ca iti . tat vai vayam kittvam pratyācakṣmahe vukā . iha tu kittvena vuk pratyākhyāyate . kim punaḥ atra nyāyyam . vugvacanam eva nyāyyam . sati api hi kittve syātām eva atra guṇavṛddhī . kim kāraṇam . iglakṣaṇayoḥ guṇavṛddhyoḥ saḥ pratiṣedhaḥ na ca eṣā iglakṣaṇā vṛddhiḥ . evam tarhi na arthaḥ vukā na api kittvena . stām atra guṇavṛddhī . guṇavṛddhyoḥ kṛtayoḥ avāvoḥ ca kṛtayoḥ yā upadhā tasyāḥ ūttvam bhaviṣyati . katham . oḥ iti atra avarṇam api pratinirdiśyate . iha api tarhi prāpnoti . kīlālapaḥ paśya . śubhaṃyaḥ paśya iti

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९२।९-१९३।१९ रो इव्।७०१-७०५ किम् पुनः प्राक् भात् असिद्धत्वम् आहोस्वित् सह तेन । कुतः पुनः अयम् सन्देहः । आङा अयम् निर्देशः क्रियते आङ् च पुनः सन्देहम् जनयति । तत् यथा : आ पाटलिपुत्रात् वृष्टः देवः इति सन्देहः : किम् प्राक् पाटलिपुत्रात् सह तेन इति । एवम् इह अपि सन्देहः : प्राक् भात् सह तेन इति । कः च अत्र विशेषः । प्राक् भात् इति चेत् सुनामघोनाभूगुणेषु उपसङ्ख्यानम् । प्राक् भात् इति चेत् सुनामघोनाभूगुणेषु उपसङ्ख्यानम् कर्तव्यम् । शुनः पश्य । शुना शुने । सम्प्रसारणे कृते अल्लोपः अनः इति प्राप्नोति । यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न संयोगात् वमन्तात् इति प्रतिषेधः भविष्यति । यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः । कथम् । न अस्त्रि अत्र विशेषः अल्लोपेन वा निवृत्तौ सत्याम् पूर्वत्वेन वा । अयम् अस्ति विशेषः । अल्लोपेन निवृत्तौ सत्याम् उदात्तनिवृत्तिस्वरः प्रसज्येत । न अत्र उदात्तनिवृत्तिस्वरः प्राप्नोति । किम् कारणम् । न गोश्वन्साववर्ण इति प्रतिषेधात् । न एषः उदात्तनिवृत्तिस्वरस्य प्रतिषेधः । कस्य तर्हि । तृतीयादिस्वरस्य । यत्र तर्हि तृतीयादिस्वरः न अस्ति । शुनः पश्य इति । एवम् तर्हि न वयम् लक्षणस्य प्रतिषेधम् शिष्मः । किम् तर्हि येन केन चित् लक्षणेन प्राप्तस्य विभक्तिस्वरस्य अयम् प्रतिषेधः । यत्र तर्हि विभक्तिस्वरः न अस्ति । बहुशुनी इति । यदि पुनः अयम् उदात्तनिवृत्तिस्वरस्य अपि प्रतिषेधः विज्ञायेत । न एवम् शक्यम् । इह अपि प्रस्ज्येत कुमारी इति । एवम् तर्हि आचार्यप्रवृत्तिः ज्ञापयति न उदात्तनिवृत्तिस्वरः शुनि अवतरति इति यत् अयम् श्वन्शब्दम् गौरादिषु पठति । अन्तोदात्तार्थम् यत्नम् करोति । सिद्धम् हि स्यात् ङीपा एव । मघोनः पश्य । मघोना मघोने । सम्प्रसारणे कृते यस्य इति लोपः प्राप्नोति । यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति । यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः । कथम् । वक्ष्यति एतत् मघवन्-शब्दः अव्युत्पन्नम् प्रातिपदिकम् इति । भूगुणः । भूयान् । भूभावे कृते ओः गुणः प्राप्नोति । यस्य पुनः सह तेन असिद्धत्वम् असिद्धत्वात् तस्य न भविष्यति । यस्य अपि प्राक् भात् असिद्धत्वम् तस्य अपि एषः न दोषः । कथम् । दीर्घोच्चारणसामर्थ्यात् न भविष्यति । अस्ति दीर्घोच्चारणस्य प्रयोजनम् । किम् । भूमा इति । निपातनात् एतत् सिद्धम् । किम् निपातनम् । बहोः नञ्वत् उत्तरपदभूम्नि इति । अथ वा पुनः अस्तु सह तेन इति । आ भात् इति चेत् सुसम्प्रसारणयलोपप्रस्थादीनाम् प्रतिषेधः । पपुषः पश्य । तस्थुषः , निन्युषः , चिच्युषः , लुलुवुषः , पुपुवुषः इति । वसोः सम्प्रसारणे कृते अचि इति आकारलोपादीनि न सिध्यन्ति । न एषः दोषः । उक्तम् एतत् समानाश्रयवचनात् सिद्धम् इति । कथम् । वसौ आकारलोपादीनि वसन्तस्य विभक्तौ सम्प्रसारणम् । यलोपः । सौरी बलाका । यः असौ अणि अकारः लुप्यते तस्य असिद्धत्वात् ईति यलोपः न प्राप्नोति । अत्र अपि एषः एव परिहारः । समानाश्रयवचनात् सिद्धम् इति । कथम् । अणि अकारलोपः अणन्तस्य ईति लोपः । प्रस्थादिषु । प्रेयान् , स्थेयान् । प्रस्थादीनाम् असिद्धत्वात् प्रकृत्या एकाच् इति प्रकृतिभावः न प्राप्नोति । न एषः दोषः । यथा एव प्रस्थादीनाम् असिद्धत्वात् प्रकृतिभावः न प्राप्नोति एवम् टिलोपः अपि न भविष्यति ।

KA III.192.9-193.19 Ro IV.701-705 kim punaḥ prāk bhāt asiddhatvam āhosvit saha tena . kutaḥ punaḥ ayam sandehaḥ . āṅā ayam nirdeśaḥ kriyate āṅ ca punaḥ sandeham janayati . tat yathā : ā pāṭaliputrāt vṛṣṭaḥ devaḥ iti sandehaḥ : kim prāk pāṭaliputrāt saha tena iti . evam iha api sandehaḥ : prāk bhāt saha tena iti . kaḥ ca atra viśeṣaḥ . prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam . prāk bhāt iti cet sunāmaghonābhūguṇeṣu upasaṅkhyānam kartavyam . śunaḥ paśya . śunā śune . samprasāraṇe kṛte allopaḥ anaḥ iti prāpnoti . yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na saṃyogāt vamantāt iti pratiṣedhaḥ bhaviṣyati . yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . katham . na astri atra viśeṣaḥ allopena vā nivṛttau satyām pūrvatvena vā . ayam asti viśeṣaḥ . allopena nivṛttau satyām udāttanivṛttisvaraḥ prasajyeta . na atra udāttanivṛttisvaraḥ prāpnoti . kim kāraṇam . na gośvansāvavarṇa iti pratiṣedhāt . na eṣaḥ udāttanivṛttisvarasya pratiṣedhaḥ . kasya tarhi . tṛtīyādisvarasya . yatra tarhi tṛtīyādisvaraḥ na asti . śunaḥ paśya iti . evam tarhi na vayam lakṣaṇasya pratiṣedham śiṣmaḥ . kim tarhi yena kena cit lakṣaṇena prāptasya vibhaktisvarasya ayam pratiṣedhaḥ . yatra tarhi vibhaktisvaraḥ na asti . bahuśunī iti . yadi punaḥ ayam udāttanivṛttisvarasya api pratiṣedhaḥ vijñāyeta . na evam śakyam . iha api prasjyeta kumārī iti . evam tarhi ācāryapravṛttiḥ jñāpayati na udāttanivṛttisvaraḥ śuni avatarati iti yat ayam śvanśabdam gaurādiṣu paṭhati . antodāttārtham yatnam karoti . siddham hi syāt ṅīpā eva . maghonaḥ paśya . maghonā maghone . samprasāraṇe kṛte yasya iti lopaḥ prāpnoti . yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati . yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . katham . vakṣyati etat maghavan-śabdaḥ avyutpannam prātipadikam iti . bhūguṇaḥ . bhūyān . bhūbhāve kṛte oḥ guṇaḥ prāpnoti . yasya punaḥ saha tena asiddhatvam asiddhatvāt tasya na bhaviṣyati . yasya api prāk bhāt asiddhatvam tasya api eṣaḥ na doṣaḥ . katham . dīrghoccāraṇasāmarthyāt na bhaviṣyati . asti dīrghoccāraṇasya prayojanam . kim . bhūmā iti . nipātanāt etat siddham . kim nipātanam . bahoḥ nañvat uttarapadabhūmni iti . atha vā punaḥ astu saha tena iti . ā bhāt iti cet susamprasāraṇayalopaprasthādīnām pratiṣedhaḥ . papuṣaḥ paśya . tasthuṣaḥ , ninyuṣaḥ , cicyuṣaḥ , luluvuṣaḥ , pupuvuṣaḥ iti . vasoḥ samprasāraṇe kṛte aci iti ākāralopādīni na sidhyanti . na eṣaḥ doṣaḥ . uktam etat samānāśrayavacanāt siddham iti . katham . vasau ākāralopādīni vasantasya vibhaktau samprasāraṇam . yalopaḥ . saurī balākā . yaḥ asau aṇi akāraḥ lupyate tasya asiddhatvāt īti yalopaḥ na prāpnoti . atra api eṣaḥ eva parihāraḥ . samānāśrayavacanāt siddham iti . katham . aṇi akāralopaḥ aṇantasya īti lopaḥ . prasthādiṣu . preyān , stheyān . prasthādīnām asiddhatvāt prakṛtyā ekāc iti prakṛtibhāvaḥ na prāpnoti . na eṣaḥ doṣaḥ . yathā eva prasthādīnām asiddhatvāt prakṛtibhāvaḥ na prāpnoti evam ṭilopaḥ api na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९३।२१-१९४।८ रो इव्।७०५-७०७ अथ किमर्थम् श्नमः सशकारस्य ग्रहणम् क्रियते न नात् नलोपः इति एव उच्येत । नात् नलोपः इति इयति उच्यमाने नन्दिता नन्दकः इति अत्र अपि प्रसज्येत । एवम् तर्हि एवम् वक्ष्यामि नात् नलोपः अनिदिताम् । ततः हलः उपधायाः क्ङिति । अनिदिताम् इति । न एवम् शक्यम् । इह न स्यात् : हिनस्ति । तस्मात् न एवम् शक्यम् । न चेत् एवम् नन्दिता नन्दकः इति प्राप्नोति । एवम् तर्हि क्ङिति इति वर्तते । एवम् अपि हिनस्ति इति अत्र न प्राप्नोति । न एषा परसप्तमी । का तर्हि । सत्सप्तमी । क्ङिति सति । एवम् तर्हि नशब्दः एव अत्र क्ङित्त्वेन विशेष्यते क्ङित् चेत् नशब्दः भवति इति । एवम् अपि यज्ञानाम् , यत्नानाम् इति अत्र न प्राप्नोति । दीर्घत्वम् अत्र बाधकम् भविष्यति । इदम् इह सम्प्रधार्यम् । दीर्घत्वम् क्रियताम् नलोपः इति किम् अत्र कर्तव्यम् । परत्वात् नलोपः । तस्मात् सशकारस्य ग्रहणम् कर्तव्यम् । अथ क्रियमाणे अपि सशकारग्रहणे इह कस्मात् न भवति विश्नानाम् , प्रश्नानाम् इति । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

KA III.193.21-194.8 Ro IV.705-707 atha kimartham śnamaḥ saśakārasya grahaṇam kriyate na nāt nalopaḥ iti eva ucyeta . nāt nalopaḥ iti iyati ucyamāne nanditā nandakaḥ iti atra api prasajyeta . evam tarhi evam vakṣyāmi nāt nalopaḥ aniditām . tataḥ halaḥ upadhāyāḥ kṅiti . aniditām iti . na evam śakyam . iha na syāt : hinasti . tasmāt na evam śakyam . na cet evam nanditā nandakaḥ iti prāpnoti . evam tarhi kṅiti iti vartate . evam api hinasti iti atra na prāpnoti . na eṣā parasaptamī . kā tarhi . satsaptamī . kṅiti sati . evam tarhi naśabdaḥ eva atra kṅittvena viśeṣyate kṅit cet naśabdaḥ bhavati iti . evam api yajñānām , yatnānām iti atra na prāpnoti . dīrghatvam atra bādhakam bhaviṣyati . idam iha sampradhāryam . dīrghatvam kriyatām nalopaḥ iti kim atra kartavyam . paratvāt nalopaḥ . tasmāt saśakārasya grahaṇam kartavyam . atha kriyamāṇe api saśakāragrahaṇe iha kasmāt na bhavati viśnānām , praśnānām iti . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९४।१०-१९५।४ रो इव्।७०७-७०९ अनिदिताम् नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम् । अनिदिताम् नलोपे लङ्गिकम्प्योः उपतपशरीरविकारयोः उपसङ्ख्यानम् कर्तव्यम् । विलगितः , विकपितः । उपतपशरीरविकारयोः इति किमर्थम् । विलङ्गितः , विकम्पितः । बृहेः अचि अनिटि । बृहेः अचि अनिटि उपसङ्ख्यानम् कर्तव्यम् । निबर्हयति निबर्हकः । अचि इति किमर्थम् । निबृंह्यते । अनिटि इति किमर्थम् । निबृंहिता निबृंहितुम् । तत् तु उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । बृहिः प्रकृत्यन्तरम् । कथम् ज्ञायते । अचि इति लोपः उच्यते । अनजादौ अपि दृश्यते : निबृह्यते । अनिटि इति उच्यते । इटौ अपि दृश्यते : निबर्हितुम् । अजादौ इति उच्यते । अजादौ अपि न दृश्यते : निबृंहयति निबृंहकः । रञ्जेः णौ मृगमरणे उपसङ्ख्यानम् कर्तव्यम् । रजयति मृगान् । मृगमरणे इति किमर्थम् । रञ्जयति वस्त्राणि । घिनुणि च उपसङ्ख्यानम् कर्तव्यम् । रागी । घिनुणि निपातनात् सिद्धम् । किम् निपातनम् । त्यजरज इति । अशक्यम् धातुनिर्देशे निपातनम् तन्त्रम् आश्रयितुम् । इह हि दोषः स्यात् : दशहनः करणे : दंष्ट्रा । न एतत् धातुनिपातनम् । किम् तर्हि । प्रत्ययान्तस्य एतत् रूपम् । तस्मिन् च अस्य प्रत्यये लोपः भवति । दंशसञ्जस्वञ्जाम् शपि इति । रजकरजनरजःसु उपसङ्ख्यानम् कर्तव्यम् । रजकः , रजननम् , रजः इति । रजकरजनरजःसु कित्त्वात् सिद्धम् । कितः एव एते औणादिकाः । तत् यथा रुचकः , भुवनम् , शिरः इति ।

KA III.194.10-195.4 Ro IV.707-709 aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam . aniditām nalope laṅgikampyoḥ upatapaśarīravikārayoḥ upasaṅkhyānam kartavyam . vilagitaḥ , vikapitaḥ . upatapaśarīravikārayoḥ iti kimartham . vilaṅgitaḥ , vikampitaḥ . bṛheḥ aci aniṭi . bṛheḥ aci aniṭi upasaṅkhyānam kartavyam . nibarhayati nibarhakaḥ . aci iti kimartham . nibṛṃhyate . aniṭi iti kimartham . nibṛṃhitā nibṛṃhitum . tat tu upasaṅkhyānam kartavyam . na kartavyam . bṛhiḥ prakṛtyantaram . katham jñāyate . aci iti lopaḥ ucyate . anajādau api dṛśyate : nibṛhyate . aniṭi iti ucyate . iṭau api dṛśyate : nibarhitum . ajādau iti ucyate . ajādau api na dṛśyate : nibṛṃhayati nibṛṃhakaḥ . rañjeḥ ṇau mṛgamaraṇe upasaṅkhyānam kartavyam . rajayati mṛgān . mṛgamaraṇe iti kimartham . rañjayati vastrāṇi . ghinuṇi ca upasaṅkhyānam kartavyam . rāgī . ghinuṇi nipātanāt siddham . kim nipātanam . tyajaraja iti . aśakyam dhātunirdeśe nipātanam tantram āśrayitum . iha hi doṣaḥ syāt : daśahanaḥ karaṇe : daṃṣṭrā . na etat dhātunipātanam . kim tarhi . pratyayāntasya etat rūpam . tasmin ca asya pratyaye lopaḥ bhavati . daṃśasañjasvañjām śapi iti . rajakarajanarajaḥsu upasaṅkhyānam kartavyam . rajakaḥ , rajananam , rajaḥ iti . rajakarajanarajaḥsu kittvāt siddham . kitaḥ eva ete auṇādikāḥ . tat yathā rucakaḥ , bhuvanam , śiraḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९५।८-१९६।२ रो इव्।७०९-७११ शासः इत्त्वे आशासः क्वौ । शासः इत्त्वे आशासः क्वौ उपसङ्ख्यानम् कर्तव्यम् । आशीः इति । किम् पुनः इदम् नियमार्थम् आहोस्वित् विध्यर्थम् । कथम् च नियमार्थम् स्यात् कथम् वा विध्यर्थम् । यदि तावत् शासिमात्रस्य ग्रहणम् ततः नियमार्थम् । अथि हि यस्मात् शासः अङ् विहितः तस्य ग्रहणम् ततः विध्यर्थम् । यदि अपि शासिमात्रस्य ग्रहणम् एवम् अपि विध्यर्थम् एव । कथम् । अङ्हलोः इति उच्यते न च अत्र हलादिम् पश्यामः । ननु च क्विप् एव हलादिः । क्विपः लोपे कृते हलाद्यभावात् न प्राप्नोति । इदम् इह सम्प्रधार्यम् । क्विब्लोपः क्रियताम् अङ्हलोः इत्त्त्वम् इति किम् अत्र कर्तव्यम् । परत्वात् अङ्हलोः इत्त्त्वम् । नित्यः क्विब्लोपः । कृते अपि अङ्हलोः इत्त्त्वे प्राप्नोति अकृते अपि । नित्यत्वात् क्विब्लोपे कृते हलाद्यभावात् न प्राप्नोति । एवम् तर्हि प्रत्ययलक्षणेन भविष्यति । वर्णाश्रये न अस्ति प्रत्ययलक्षणम् । यदि वा कानि चित् वर्णाश्रयाणि अपि प्रत्ययलक्षणेन भवन्ति तथा च इदम् अपि भविष्यति । अथ वा एवम् वक्ष्यामि । शासः इत् अङ्हलोः । ततः क्वौ । क्वौ च शासः इत् भवति । आर्यशीः , मित्रशीः । ततः आङः । आङ्पूर्वात् च क्वौ शासः इत् भवति । आशीः इति । इदम् इदानीम् किमर्थम् । नियमार्थम् । आङ्पूर्वात् शासः क्वौ एव । क्व मा भूत् । आशास्यते , आशास्यमानः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । अविशेषेण शासः इत् भवति इति उक्त्वा ततः अङि इति वक्ष्यामि । तत् नियमार्थम् भविष्यति । अङि एव अजादौ न अन्यस्मिन् अजादौ इति । इह अपि तर्हि नियमात् इत्त्वम् प्राप्नोति । आशास्यते , आशास्यमानः इति । यस्मात् शासेः अङ् विहितः तस्य ग्रहणम् न च एतस्मात् शासेः अङ् विहितः । कथम् आशीः इति । निपातनात् सिद्धम् । किम् निपातनम् । क्षियाशीःप्रैषेषु तिङ् आकाङ्क्षम् इति ।

KA III.195.8-196.2 Ro IV.709-711 śāsaḥ ittve āśāsaḥ kvau . śāsaḥ ittve āśāsaḥ kvau upasaṅkhyānam kartavyam . āśīḥ iti . kim punaḥ idam niyamārtham āhosvit vidhyartham . katham ca niyamārtham syāt katham vā vidhyartham . yadi tāvat śāsimātrasya grahaṇam tataḥ niyamārtham . athi hi yasmāt śāsaḥ aṅ vihitaḥ tasya grahaṇam tataḥ vidhyartham . yadi api śāsimātrasya grahaṇam evam api vidhyartham eva . katham . aṅhaloḥ iti ucyate na ca atra halādim paśyāmaḥ . nanu ca kvip eva halādiḥ . kvipaḥ lope kṛte halādyabhāvāt na prāpnoti . idam iha sampradhāryam . kviblopaḥ kriyatām aṅhaloḥ itttvam iti kim atra kartavyam . paratvāt aṅhaloḥ itttvam . nityaḥ kviblopaḥ . kṛte api aṅhaloḥ itttve prāpnoti akṛte api . nityatvāt kviblope kṛte halādyabhāvāt na prāpnoti . evam tarhi pratyayalakṣaṇena bhaviṣyati . varṇāśraye na asti pratyayalakṣaṇam . yadi vā kāni cit varṇāśrayāṇi api pratyayalakṣaṇena bhavanti tathā ca idam api bhaviṣyati . atha vā evam vakṣyāmi . śāsaḥ it aṅhaloḥ . tataḥ kvau . kvau ca śāsaḥ it bhavati . āryaśīḥ , mitraśīḥ . tataḥ āṅaḥ . āṅpūrvāt ca kvau śāsaḥ it bhavati . āśīḥ iti . idam idānīm kimartham . niyamārtham . āṅpūrvāt śāsaḥ kvau eva . kva mā bhūt . āśāsyate , āśāsyamānaḥ iti . tat tarhi vaktavyam . na vaktavyam . aviśeṣeṇa śāsaḥ it bhavati iti uktvā tataḥ aṅi iti vakṣyāmi . tat niyamārtham bhaviṣyati . aṅi eva ajādau na anyasmin ajādau iti . iha api tarhi niyamāt ittvam prāpnoti . āśāsyate , āśāsyamānaḥ iti . yasmāt śāseḥ aṅ vihitaḥ tasya grahaṇam na ca etasmāt śāseḥ aṅ vihitaḥ . katham āśīḥ iti . nipātanāt siddham . kim nipātanam . kṣiyāśīḥpraiṣeṣu tiṅ ākāṅkṣam iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९६।५-८ रो इव्।७११ अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च । अनुदात्तोपदेशे अनुनासिकलोपः ल्यपि च इति वक्तव्यम् । प्रमत्य प्रतत्य । ततः वा अमः । वा अमः इति वक्तव्यम् । प्रयत्य प्रयम्य प्ररत्य प्ररम्य प्रणत्य प्रणम्य ।

KA III.196.5-8 Ro IV.711 anudāttopadeśe anunāsikalopaḥ lyapi ca . anudāttopadeśe anunāsikalopaḥ lyapi ca iti vaktavyam . pramatya pratatya . tataḥ vā amaḥ . vā amaḥ iti vaktavyam . prayatya prayamya praratya praramya praṇatya praṇamya .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९६।१०-१२ रो इव्।७१२ गमादीनाम् इति वक्तव्यम् । इह अपि यथा स्यात् । परीतत् सहकण्ठिका । संयत् , सनुत् इति । ऊङ् च गमादीनाम् इति वक्तव्यम् । अग्रेगूः , भ्रूः ।

KA III.196.10-12 Ro IV.712 gamādīnām iti vaktavyam . iha api yathā syāt . parītat sahakaṇṭhikā . saṃyat , sanut iti . ūṅ ca gamādīnām iti vaktavyam . agregūḥ , bhrūḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९६।१४-२२ रो इव्।७१२-७१३ अथ किम् अयम् समुच्चयः , सनि च झलादौ च इति , आहोस्वित् सन्विशेषणम् झल्ग्रहणम् , सनि झलादौ इति । किम् च अतः । यदि समुच्चयः सनि अझलादौ अपि प्राप्नोति । सिसनिषति जिजनिषते चिखनिषति । अथ सन्विशेषणम् झल्ग्रहणम् जातः , जातवान् इति अत्र न प्राप्नोति । यथा इच्छसि तथा अस्तु । अस्तु तावत् समुच्चयः । ननु च उक्तम् सनि अझलादौ अपि प्राप्नोति इति । न एषः दोषः । प्रकृतम् झल्ग्रहणम् अनुवर्तते । तेन सनम् विशेषयिष्यामः । सनि झलादौ इति । अथ वा पुनः अस्तु सन्विशेषणम् । कथम् जातः , जातवान् इति । प्रकृतम् झलि क्ङिति इति अनुवर्तते । यदि एवम् न अर्थः झल्ग्रहणेन । योगविभागः करिष्यते । जनसनखनाम् अनुनासिकस्य आकारः भवति झलि क्ङिति । ततः सनि । सनि च जनसनखनाम् अनुनासिकस्य आकारः भवति झलि इति एव । तस्मात् न अर्थः झल्ग्रहणेन ।

KA III.196.14-22 Ro IV.712-713 atha kim ayam samuccayaḥ , sani ca jhalādau ca iti , āhosvit sanviśeṣaṇam jhalgrahaṇam , sani jhalādau iti . kim ca ataḥ . yadi samuccayaḥ sani ajhalādau api prāpnoti . sisaniṣati jijaniṣate cikhaniṣati . atha sanviśeṣaṇam jhalgrahaṇam jātaḥ , jātavān iti atra na prāpnoti . yathā icchasi tathā astu . astu tāvat samuccayaḥ . nanu ca uktam sani ajhalādau api prāpnoti iti . na eṣaḥ doṣaḥ . prakṛtam jhalgrahaṇam anuvartate . tena sanam viśeṣayiṣyāmaḥ . sani jhalādau iti . atha vā punaḥ astu sanviśeṣaṇam . katham jātaḥ , jātavān iti . prakṛtam jhali kṅiti iti anuvartate . yadi evam na arthaḥ jhalgrahaṇena . yogavibhāgaḥ kariṣyate . janasanakhanām anunāsikasya ākāraḥ bhavati jhali kṅiti . tataḥ sani . sani ca janasanakhanām anunāsikasya ākāraḥ bhavati jhali iti eva . tasmāt na arthaḥ jhalgrahaṇena .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९७।१-१९८।१२ रो इव्।७१३-७१६ सनोतेः अनुनासिकलोपात् आत्त्वम् विप्रतिषेधेन । सनोतेः अनुनासिकलोपात् आत्त्वम् भवति विप्रतिषेधेन । सनोतेः अनुनासिकलोपस्य अवकाशः अन्ये तनोत्यादयः । आत्त्वस्य अवकाशः अन्ये जनादयः । सनोतेः अनुनासिकस्य उभयम् प्राप्नोति । सातः सातवान् इति । आत्त्वम् भवति विप्रतिषेधेन । न एषः युक्तः विप्रतिषेधः । न हि सनोतेः अनुनासिकलोपस्य अन्ये तनोत्यादयः अवकाशः । सनोतेः यः तनोत्यादिषु पाठः सः अनवकाशः । न खलु अपि आत्त्वस्य अन्ये जनादयः अवकाशः । सनोतेः यत् आत्त्वे ग्रहणम् तत् अनवकाशम् । तस्य अनवकाशत्वात् अयुक्तः विप्रतिषेधः । एवम् तर्हि तनोत्यादिषु पाठः तावत् सावकाशः । कः अवकाशः । अन्यानि तनोत्यादिकार्याणि । तनादिभ्यः तथासोः इति । आत्त्वे अपि ग्रहणम् सावकाशम् । कः अवकाशः । सनि च ये विभाषा च । उभयोः सावकाशयोः युक्तः विप्रतिषेधः । एवम् अपि अयुक्तः विप्रतिषेधः । पठिष्यति हि आचार्यः पूर्वत्र असिद्धे न अस्ति विप्रतिषेधः अभावात् उत्तरस्य इति । एकस्य नाम अभावे विप्रतिषेधः न स्यात् किम् पुनः यत्र उभयम् न अस्ति । न एषः दोषः । भवति इह विप्रतिषेधः । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमाम् गंस्यते । आचार्यप्रवृत्तिः ज्ञापयति भवति इह विप्रतिषेधः इति यत् अयम् घुमाश्थागापाजहातिसाम् हलि इति हल्ग्रहणम् करोति । कथम् कृत्वा ज्ञापकम् । हल्ग्रहणस्य एतत् प्रयोजनम् हलादौ ईत्त्वम् यथा स्यात् इह मा भूत् , गोदः , कम्बलदः इति । यदि च अत्र विप्रतिषेधः न स्यात् हल्ग्रहणम् अनर्थकम् स्यात् । अस्तु अत्र ईत्त्वम् । ईत्त्वस्य असिद्धत्वात् लोपः भविष्यति । पश्यति तु आचार्यः भवति इह विप्रतिषेधः । ततः हल्ग्रहणम् करोति । न एतत् अस्ति ज्ञापकम् । व्यवस्थार्थम् एतत् स्यात् । हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति । किम् च स्यात् । इयङादेशः प्रसज्येत । ननु च असिद्धत्वात् एव इयङादेशः न भविष्यति । न शक्यम् ईत्त्वम् इयङादेशे असिद्धम् विज्ञातुम् । इह हि दोषः स्यात् : धियौ धियः पियौ पियः इति । न एतत् ईत्त्वम् । किम् तर्हि । ध्याप्योः सम्प्रसारणम् एतत् । समानाश्रयम् खलु अपि असिद्धम् भवति व्याश्रम् च एतत् । कथम् । क्वौ ईत्त्वम् क्विबन्तस्य विभक्तौ इयङादेशः । व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् । कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् इति । तत्र चक्रकम् अव्यवस्था प्रसज्येत । न अस्ति चक्रकप्रसङ्गः । न हि अव्यवस्थाकारिण शास्त्रेण भवितव्यम् । शास्त्रतः नाम व्यवस्था । तत्र ईत्त्वस्य असिद्धत्वात् लोपः लोपेन व्यवस्थानम् भविष्यति । न खलु अपि तस्मिन् तत् एव असिद्धम् भवति । व्यवस्थार्थम् एव तर्हि हल्ग्रहणम् कर्तव्यम् । हलादौ ईत्त्वम् यथा स्यात् अजादौ मा भूत् इति । कुतः हि एतत् ईत्त्वस्य असिद्धत्वात् लोपः लोपेन अवस्थानम् भविष्यति न पुनः लोपस्य असिद्धत्वात् ईत्त्वम् ईत्त्वेन व्यवस्थानम् स्यात् । तत् एव खलु अपि तस्मिन् असिद्धम् भवति । कथम् । पठिष्यति हि आचार्यः चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् तलोपस्य च असिद्धत्वात् इति । चिणः लुक् चिणः लुकि एव असिद्धः भवति । एवम् तर्हि यदि व्यवस्थार्थम् एतत् स्यात् न एव अयम् हल्ग्रहणम् कुर्वीत । अविशेषेण अयम् ईत्त्वम् उक्त्वा तस्य अजादौ लोपम् अपवादम् विदधीत । इदम् अस्ति । आतः लोपः इटि च इति । ततः घुमाश्थागापाजहातिसाम् । लोपः भवति इटि च अजादौ क्ङिति । किमर्थम् पुनः इदम् । ईत्त्वम् वक्ष्यामि तद्बाधनार्थम् । ततः ईत् । ईत् च भवति घ्वादीनाम् । ततः एः लिङि । वा अन्यस्य संयोगादेः । न ल्यपि । मयतेः इत् अन्यतरस्याम् । ततः यति । यति च ईत् भवति । सः अयम् एवम् लघीयसा न्यासेन सिद्धे सति यत् हल्ग्रहणम् करोति गरीयांसम् यत्नम् आरभते तत् ज्ञापयति आचार्यः भवति इह विप्रतिषेधः इति ।

KA III.197.1-198.12 Ro IV.713-716 sanoteḥ anunāsikalopāt āttvam vipratiṣedhena . sanoteḥ anunāsikalopāt āttvam bhavati vipratiṣedhena . sanoteḥ anunāsikalopasya avakāśaḥ anye tanotyādayaḥ . āttvasya avakāśaḥ anye janādayaḥ . sanoteḥ anunāsikasya ubhayam prāpnoti . sātaḥ sātavān iti . āttvam bhavati vipratiṣedhena . na eṣaḥ yuktaḥ vipratiṣedhaḥ . na hi sanoteḥ anunāsikalopasya anye tanotyādayaḥ avakāśaḥ . sanoteḥ yaḥ tanotyādiṣu pāṭhaḥ saḥ anavakāśaḥ . na khalu api āttvasya anye janādayaḥ avakāśaḥ . sanoteḥ yat āttve grahaṇam tat anavakāśam . tasya anavakāśatvāt ayuktaḥ vipratiṣedhaḥ . evam tarhi tanotyādiṣu pāṭhaḥ tāvat sāvakāśaḥ . kaḥ avakāśaḥ . anyāni tanotyādikāryāṇi . tanādibhyaḥ tathāsoḥ iti . āttve api grahaṇam sāvakāśam . kaḥ avakāśaḥ . sani ca ye vibhāṣā ca . ubhayoḥ sāvakāśayoḥ yuktaḥ vipratiṣedhaḥ . evam api ayuktaḥ vipratiṣedhaḥ . paṭhiṣyati hi ācāryaḥ pūrvatra asiddhe na asti vipratiṣedhaḥ abhāvāt uttarasya iti . ekasya nāma abhāve vipratiṣedhaḥ na syāt kim punaḥ yatra ubhayam na asti . na eṣaḥ doṣaḥ . bhavati iha vipratiṣedhaḥ . kim vaktavyam etat . na hi . katham anucyamām gaṃsyate . ācāryapravṛttiḥ jñāpayati bhavati iha vipratiṣedhaḥ iti yat ayam ghumāśthāgāpājahātisām hali iti halgrahaṇam karoti . katham kṛtvā jñāpakam . halgrahaṇasya etat prayojanam halādau īttvam yathā syāt iha mā bhūt , godaḥ , kambaladaḥ iti . yadi ca atra vipratiṣedhaḥ na syāt halgrahaṇam anarthakam syāt . astu atra īttvam . īttvasya asiddhatvāt lopaḥ bhaviṣyati . paśyati tu ācāryaḥ bhavati iha vipratiṣedhaḥ . tataḥ halgrahaṇam karoti . na etat asti jñāpakam . vyavasthārtham etat syāt . halādau īttvam yathā syāt ajādau mā bhūt iti . kim ca syāt . iyaṅādeśaḥ prasajyeta . nanu ca asiddhatvāt eva iyaṅādeśaḥ na bhaviṣyati . na śakyam īttvam iyaṅādeśe asiddham vijñātum . iha hi doṣaḥ syāt : dhiyau dhiyaḥ piyau piyaḥ iti . na etat īttvam . kim tarhi . dhyāpyoḥ samprasāraṇam etat . samānāśrayam khalu api asiddham bhavati vyāśram ca etat . katham . kvau īttvam kvibantasya vibhaktau iyaṅādeśaḥ . vyavasthārtham eva tarhi halgrahaṇam kartavyam . kutaḥ hi etat īttvasya asiddhatvāt lopaḥ na punaḥ lopasya asiddhatvāt īttvam iti . tatra cakrakam avyavasthā prasajyeta . na asti cakrakaprasaṅgaḥ . na hi avyavasthākāriṇa śāstreṇa bhavitavyam . śāstrataḥ nāma vyavasthā . tatra īttvasya asiddhatvāt lopaḥ lopena vyavasthānam bhaviṣyati . na khalu api tasmin tat eva asiddham bhavati . vyavasthārtham eva tarhi halgrahaṇam kartavyam . halādau īttvam yathā syāt ajādau mā bhūt iti . kutaḥ hi etat īttvasya asiddhatvāt lopaḥ lopena avasthānam bhaviṣyati na punaḥ lopasya asiddhatvāt īttvam īttvena vyavasthānam syāt . tat eva khalu api tasmin asiddham bhavati . katham . paṭhiṣyati hi ācāryaḥ ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt talopasya ca asiddhatvāt iti . ciṇaḥ luk ciṇaḥ luki eva asiddhaḥ bhavati . evam tarhi yadi vyavasthārtham etat syāt na eva ayam halgrahaṇam kurvīta . aviśeṣeṇa ayam īttvam uktvā tasya ajādau lopam apavādam vidadhīta . idam asti . ātaḥ lopaḥ iṭi ca iti . tataḥ ghumāśthāgāpājahātisām . lopaḥ bhavati iṭi ca ajādau kṅiti . kimartham punaḥ idam . īttvam vakṣyāmi tadbādhanārtham . tataḥ īt . īt ca bhavati ghvādīnām . tataḥ eḥ liṅi . vā anyasya saṃyogādeḥ . na lyapi . mayateḥ it anyatarasyām . tataḥ yati . yati ca īt bhavati . saḥ ayam evam laghīyasā nyāsena siddhe sati yat halgrahaṇam karoti garīyāṃsam yatnam ārabhate tat jñāpayati ācāryaḥ bhavati iha vipratiṣedhaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९८।१४-१८ रो इव्।७१७ इह अन्यतरस्याङ्ग्रहणम् शक्यम् अकर्तुम् । कथम् । सनः क्तिचि लोपः च आत्त्त्वम् च विभाषा इति । अपरः आह : सर्वः एव अयम् योगः शक्यः अवक्तुम् । कथम् । इह लोपः अपि प्रकृतः आत्त्वम् अपि प्रकृतम् विभाषाग्रहणम् अपि प्रकृतम् । तत्र केवलम् अभिसम्बन्धमात्रम् कर्तव्यम् : सनः क्तिचि लोपः च आत्त्वम् च विभाषा ।

KA III.198.14-18 Ro IV.717 iha anyatarasyāṅgrahaṇam śakyam akartum . katham . sanaḥ ktici lopaḥ ca ātttvam ca vibhāṣā iti . aparaḥ āha : sarvaḥ eva ayam yogaḥ śakyaḥ avaktum . katham . iha lopaḥ api prakṛtaḥ āttvam api prakṛtam vibhāṣāgrahaṇam api prakṛtam . tatra kevalam abhisambandhamātram kartavyam : sanaḥ ktici lopaḥ ca āttvam ca vibhāṣā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९८।२०-१९९।१५ रो इव्।७१७-७२१ कानि पुनः आर्धधातुकाधिकारस्य प्रयोजनानि । अतः लोपः यलोपः च णिलोपः च प्रयोजनम् आल्लोपः ईत्त्वम् एत्वम् च चिण्वद्भावः च सीयुटि । अतः लोपः । चिकीर्षिता चिकीर्षितुम् । आरधधातुके इति किमर्थम् । चिकीर्षति । न एतत् अस्ति प्रयोजनम् । अस्तु अत्र सनः अकारलोपः । शपः अकारस्य श्रवणम् भविष्यति । शपः एव तर्हि मा भूत् । एतत् अपि न अस्ति प्रयोजनम् । आचार्यप्रवृत्तिः ज्ञापयति न अनेन शबकारस्य लोपः भवति इति यत् अयम् अदिप्रभृतिभ्यः शपः लुकम् शास्ति । न एतत् अस्ति ज्ञापकम् । कार्याऋथम् एतत् स्यात् । वित्तः , मृष्टः इति । यत् तर्हि आकारान्तेभ्यः लुकम् शास्ति । इदम् तर्हि प्रयोजनम् । वृक्षस्य प्लक्षस्य । अतः लोपः । प्राप्नोति । यलोपः अपि प्रयोजनम् । बेभिदिता चेच्छिदिता । आरधधातुके इति किमर्थम् । बेभिद्यते चेच्छिद्यते । णिलोपः । पाच्यते याज्यते । आरधधातुके इति किमर्थम् । पाचयति याजयति । आल्लोपः । ययतुः ययुः । आरधधातुके इति किमर्थम् । यान्ति वान्ति । ईत्त्वम् । दीयते , धीयते । आरधधातुके इति किमर्थम् । अदाताम् अधाताम् । एत्वम् । स्नेयात् , म्लेयात् । आरधधातुके इति किमर्थम् । स्नायात् । चिण्वद्भावः च सीयुटि । चिण्वद्भावे सीयुटि किम् उदाहरणम् । कारिषीष्ट हारिषीष्ट । आरधधातुके इति किमर्थम् । क्रियेत ह्रियेत । न एतत् उदाहरणम् । यका व्यवहितत्वात् न भविष्यति । इदम् तर्हि उदाहरणम् : प्रस्नुवीत । इदम् च अपि उदाहरणम् : क्रियेत ह्रियेत । ननु च उक्तम् यका व्यवहितत्वात् न भविष्यति इति । यकः एव तर्हि मा भूत् इति । किम् च स्यात् । वृद्धिः । वृद्धौ च कृतायाम् युक् प्रसज्येत ।

KA III.198.20-199.15 Ro IV.717-721 kāni punaḥ ārdhadhātukādhikārasya prayojanāni . ataḥ lopaḥ yalopaḥ ca ṇilopaḥ ca prayojanam āllopaḥ īttvam etvam ca ciṇvadbhāvaḥ ca sīyuṭi . ataḥ lopaḥ . cikīrṣitā cikīrṣitum . āradhadhātuke iti kimartham . cikīrṣati . na etat asti prayojanam . astu atra sanaḥ akāralopaḥ . śapaḥ akārasya śravaṇam bhaviṣyati . śapaḥ eva tarhi mā bhūt . etat api na asti prayojanam . ācāryapravṛttiḥ jñāpayati na anena śabakārasya lopaḥ bhavati iti yat ayam adiprabhṛtibhyaḥ śapaḥ lukam śāsti . na etat asti jñāpakam . kāryāṛtham etat syāt . vittaḥ , mṛṣṭaḥ iti . yat tarhi ākārāntebhyaḥ lukam śāsti . idam tarhi prayojanam . vṛkṣasya plakṣasya . ataḥ lopaḥ . prāpnoti . yalopaḥ api prayojanam . bebhiditā cecchiditā . āradhadhātuke iti kimartham . bebhidyate cecchidyate . ṇilopaḥ . pācyate yājyate . āradhadhātuke iti kimartham . pācayati yājayati . āllopaḥ . yayatuḥ yayuḥ . āradhadhātuke iti kimartham . yānti vānti . īttvam . dīyate , dhīyate . āradhadhātuke iti kimartham . adātām adhātām . etvam . sneyāt , mleyāt . āradhadhātuke iti kimartham . snāyāt . ciṇvadbhāvaḥ ca sīyuṭi . ciṇvadbhāve sīyuṭi kim udāharaṇam . kāriṣīṣṭa hāriṣīṣṭa . āradhadhātuke iti kimartham . kriyeta hriyeta . na etat udāharaṇam . yakā vyavahitatvāt na bhaviṣyati . idam tarhi udāharaṇam : prasnuvīta . idam ca api udāharaṇam : kriyeta hriyeta . nanu ca uktam yakā vyavahitatvāt na bhaviṣyati iti . yakaḥ eva tarhi mā bhūt iti . kim ca syāt . vṛddhiḥ . vṛddhau ca kṛtāyām yuk prasajyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।१९९।१७-२००।११ रो इव्।७२१-७२३ अयम् रम् रेफस्य स्थाने कस्मात् न भवति । मित् अचः अन्त्यात् परः इति अनेन अचाम् अन्त्यात् परः क्रियते । रेफस्य तर्हि श्रवणम् कस्मात् न भवति । षष्ठ्युच्चारणसामर्थ्यात् । भारद्वाजीयाः पठन्ति भ्रस्जः रोपधयोः लोपः आगमः रम् विधीयते इति । भ्रस्जादेशात् सम्प्रसारणम् विप्रतिषेधेन । भ्रस्जादेशात् सम्प्रसारणम् भवति विप्रतिषेधेन । भ्रस्जादेशस्य अवकाशः : भर्ष्टा भ्रष्टा । सम्प्रसारणस्य अवकाशः : भृज्जति । इह उभयम् प्राप्नोति : भृष्टः , भृष्टवान् । सम्प्रसारणम् भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । रसेः वा ऋवचनात् सिद्धम् । रसोः वा ऋ भवति इति वक्ष्यामि । रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः । रसोः वा ऋवचने सिचि वृद्धेः भ्रस्जादेशः वक्तव्यः । वृद्धौ कृतायाम् इदम् एव रूपम् स्यात् : अभ्राक्षीत् । इदम् न स्यात् : अभार्क्षीत् । सर्वथा वयम् पूर्वविप्रतिषेधात् न मुच्यामहे सूत्रम् च भिद्यते । यथान्यासम् एव अस्तु । ननु च उक्तम् भ्रस्जादेशात् सम्प्रसारणम् विप्रतिषेधेन इति । इदम् इह सम्प्रधार्यम् । भ्रस्जादेशः क्रियताम् सम्प्रसारणम् इति किम् अत्र कर्तव्यम् । परत्वात् भ्रस्जादेशः । नित्यत्वात् सम्प्रसारणम् । कृते अपि भ्रस्जादेशे प्राप्नोति अकृते अपि । भ्रस्जादेशः अपि नित्यः । कृते अपि सम्प्रसारणे प्राप्नोति अकृते अपि प्राप्नोति । कथम् । यः असौ ऋकारे रेफः तस्य च उपधायाः च कृते अपि प्राप्नोति । अनित्यः भ्रस्जादेशः । न हि कृते सम्प्रसारणे प्राप्नोति । किम् कारणम् । न हि वर्णैकदेशाः वर्णग्रहणेन गृह्यन्ते । अथ अपि गृह्यन्ते एवम् अपि अनित्यः । कथम् । उपदेशः इति वर्तते । तत् च अवश्यम् उपदेशग्रहणम् अनुवर्त्यम् बरीभृज्ज्यतः इति एवमर्थम् ।

KA III.199.17-200.11 Ro IV.721-723 ayam ram rephasya sthāne kasmāt na bhavati . mit acaḥ antyāt paraḥ iti anena acām antyāt paraḥ kriyate . rephasya tarhi śravaṇam kasmāt na bhavati . ṣaṣṭhyuccāraṇasāmarthyāt . bhāradvājīyāḥ paṭhanti bhrasjaḥ ropadhayoḥ lopaḥ āgamaḥ ram vidhīyate iti . bhrasjādeśāt samprasāraṇam vipratiṣedhena . bhrasjādeśāt samprasāraṇam bhavati vipratiṣedhena . bhrasjādeśasya avakāśaḥ : bharṣṭā bhraṣṭā . samprasāraṇasya avakāśaḥ : bhṛjjati . iha ubhayam prāpnoti : bhṛṣṭaḥ , bhṛṣṭavān . samprasāraṇam bhavati vipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . raseḥ vā ṛvacanāt siddham . rasoḥ vā ṛ bhavati iti vakṣyāmi . rasoḥ vā ṛvacane sici vṛddheḥ bhrasjādeśaḥ . rasoḥ vā ṛvacane sici vṛddheḥ bhrasjādeśaḥ vaktavyaḥ . vṛddhau kṛtāyām idam eva rūpam syāt : abhrākṣīt . idam na syāt : abhārkṣīt . sarvathā vayam pūrvavipratiṣedhāt na mucyāmahe sūtram ca bhidyate . yathānyāsam eva astu . nanu ca uktam bhrasjādeśāt samprasāraṇam vipratiṣedhena iti . idam iha sampradhāryam . bhrasjādeśaḥ kriyatām samprasāraṇam iti kim atra kartavyam . paratvāt bhrasjādeśaḥ . nityatvāt samprasāraṇam . kṛte api bhrasjādeśe prāpnoti akṛte api . bhrasjādeśaḥ api nityaḥ . kṛte api samprasāraṇe prāpnoti akṛte api prāpnoti . katham . yaḥ asau ṛkāre rephaḥ tasya ca upadhāyāḥ ca kṛte api prāpnoti . anityaḥ bhrasjādeśaḥ . na hi kṛte samprasāraṇe prāpnoti . kim kāraṇam . na hi varṇaikadeśāḥ varṇagrahaṇena gṛhyante . atha api gṛhyante evam api anityaḥ . katham . upadeśaḥ iti vartate . tat ca avaśyam upadeśagrahaṇam anuvartyam barībhṛjjyataḥ iti evamartham .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२००।१३-२०१।६ रो इव्।७२४-७२५ ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः पूर्वविप्रतिषिद्धम् । ण्यल्लोपौ इयङ्यण्गुणवृद्धिदीर्घत्वेभ्यः भवतः पूर्वविप्रतिषेधेन । णिलोपस्य अवकाशः : कार्यते हार्यते । इयङादेशस्य अवकाशः : श्रियौ श्रियः । इह उभयम् प्राप्नोति : आटिटत् , आशिशत् । ननु च अत्र यणादेशेन भवितव्यम् । इदम् तर्हि : अततक्षत् , अररक्षत् । यणादेशस्य अवकाशः : निन्यतुः , निन्युः । णिलोपस्य सः एव । इह उभयम् प्राप्नोति : आटिटत् , आशिशत् । वृद्देः अवकाशः : सखायौ सखायः । णिलोपस्य सः एव । इह उभयम् प्राप्नोति : कारयतेः कारकः , हारयतेः हारकः । गुणस्य अवकाशः : चेता स्तोता । णिलोपस्य अवकाशः : आटिटत् , आशिशत् । इह उभयम् प्राप्नोति : कारणा हारणा । दीर्घत्वस्य अवकाशः : चीयते , स्तूयते । णिलोपस्य अवकाशः : कारणा हारणा । इह उभयम् प्राप्नोति : कार्यते हार्यति । णिलोपः भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । सन्तु अत्र एते विधयः । एतेषु विधिषु कृतेषु स्थानिवद्भावात् णिग्रहणेन ग्रहणात् णिलोपः भविष्यति । न एवम् शक्यम् । इयङादेशे हि दोषः स्यात् । अन्त्यस्य लोपः प्रसज्येत । अल्लोपस्य इयङ्यणोः च न अस्ति सम्प्रधारणा । वृद्धेः अवकाशः : प्रियम् आचष्टे प्रापयति । अल्लोपस्य अवकाशः : चिकीर्षिता चिकीर्षितुम् । इह उभयम् प्राप्नोति : चिकीर्षकः , जिहीर्षकः । गुणस्य अल्लोपस्य च न अस्ति सम्प्रधारणा । दीर्घत्वस्य अवकाशः : अपि काकः श्येनायते । अल्लोपस्य सः एव । इह उभयम् प्राप्नोति : चिकीर्ष्यते जिहीर्ष्यते । अल्लोपः भवति विप्रतिषेधेन । सः तर्हि पूर्वविप्रतिषेधः वक्तव्यः । न वक्तव्यः । इष्टवाची परशब्दः । विप्रतिषेधे परम् यत् इष्टम् तत् भवति इति ।

KA III.200.13-201.6 Ro IV.724-725 ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ pūrvavipratiṣiddham . ṇyallopau iyaṅyaṇguṇavṛddhidīrghatvebhyaḥ bhavataḥ pūrvavipratiṣedhena . ṇilopasya avakāśaḥ : kāryate hāryate . iyaṅādeśasya avakāśaḥ : śriyau śriyaḥ . iha ubhayam prāpnoti : āṭiṭat , āśiśat . nanu ca atra yaṇādeśena bhavitavyam . idam tarhi : atatakṣat , ararakṣat . yaṇādeśasya avakāśaḥ : ninyatuḥ , ninyuḥ . ṇilopasya saḥ eva . iha ubhayam prāpnoti : āṭiṭat , āśiśat . vṛddeḥ avakāśaḥ : sakhāyau sakhāyaḥ . ṇilopasya saḥ eva . iha ubhayam prāpnoti : kārayateḥ kārakaḥ , hārayateḥ hārakaḥ . guṇasya avakāśaḥ : cetā stotā . ṇilopasya avakāśaḥ : āṭiṭat , āśiśat . iha ubhayam prāpnoti : kāraṇā hāraṇā . dīrghatvasya avakāśaḥ : cīyate , stūyate . ṇilopasya avakāśaḥ : kāraṇā hāraṇā . iha ubhayam prāpnoti : kāryate hāryati . ṇilopaḥ bhavati vipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . santu atra ete vidhayaḥ . eteṣu vidhiṣu kṛteṣu sthānivadbhāvāt ṇigrahaṇena grahaṇāt ṇilopaḥ bhaviṣyati . na evam śakyam . iyaṅādeśe hi doṣaḥ syāt . antyasya lopaḥ prasajyeta . allopasya iyaṅyaṇoḥ ca na asti sampradhāraṇā . vṛddheḥ avakāśaḥ : priyam ācaṣṭe prāpayati . allopasya avakāśaḥ : cikīrṣitā cikīrṣitum . iha ubhayam prāpnoti : cikīrṣakaḥ , jihīrṣakaḥ . guṇasya allopasya ca na asti sampradhāraṇā . dīrghatvasya avakāśaḥ : api kākaḥ śyenāyate . allopasya saḥ eva . iha ubhayam prāpnoti : cikīrṣyate jihīrṣyate . allopaḥ bhavati vipratiṣedhena . saḥ tarhi pūrvavipratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . iṣṭavācī paraśabdaḥ . vipratiṣedhe param yat iṣṭam tat bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०१।८-२०२।२ रो इव्।७२६-७२८ किम् इदम् यलोपे वर्णग्रहणम् आहोस्वित् सङ्घातग्रहणम् । कः च अत्र विशेषः । यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः । यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः वक्तव्यः । शुच्यिता शुच्यितुम् । अस्ति तर्जो सङ्घातग्रहणम् । यदि सङ्घातग्रहणम् अन्त्यस्य लोपः प्राप्नोति । सिद्धः अन्त्यस्य पूर्वेण एव । तत्र आरम्भसामर्थ्यात् सर्वस्य भविष्यति । एवम् अपि तेन अतिप्रसक्तम् इति कृत्वा नियमः विज्ञायेत । यस्य हलः एव न अन्यतः । क्व मा भूत् । लोलूयिता पोपूयिता । कैमर्थक्यात् नियमः भवति । विधेयम् न अस्ति इति कृत्वा । इह च अस्ति विधेयम् । किम् । अन्त्यस्य लोपः प्राप्तः सः सर्वस्य विधेयः । तत्र अपूर्वः विधिः अस्तु नियम अस्तु इति अपूर्वः एव विधिः भविष्यति न नियमः । एवम् अपि अन्त्यस्य प्राप्नोति । किम् कारणम् । न हि लोपः सर्वापहारी । ननु च सङ्घातग्रहणसामर्थ्यात् सर्वस्य भविष्यति । सङ्घातग्रहणम् चेत् क्यस्य विभाषायाम् दोषः । सङ्घातग्रहणम् चेत् क्यस्य विभाषायाम् दोषः भवति । समिधिता समिध्यिता । यदा लोपः तदा सर्वस्य लोपः । यदा अलोपः तदा सर्वस्य अलोपः प्राप्नोति । आदेः परवचनात् सिद्धम् । हलः इति पञ्चमी । तस्मात् इति उत्तरस्य आदेः परस्य इति यकारस्य एव भविष्यति । अथ वा पुनः अस्तु वर्णग्रहणम् । ननु च उक्तम् यलोपे वर्णग्रहणम् चेत् धात्वन्तस्य प्रतिषेधः इति । न एषः दोषः । अङ्गात् इति हि वर्तते । न वा अङ्गात् इति पञ्चमी अस्ति । एवम् तर्हि अङ्गस्य इति सम्बन्धषष्ठी विज्ञास्यते । अङ्गस्य यः यकारः । किम् च अङ्गस्य यकारः । निमित्तम् । यस्मिन् अङ्गम् इति एतत् भवति । कस्मिन् च एतत् भवति । प्रत्यये ।

KA III.201.8-202.2 Ro IV.726-728 kim idam yalope varṇagrahaṇam āhosvit saṅghātagrahaṇam . kaḥ ca atra viśeṣaḥ . yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ . yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ vaktavyaḥ . śucyitā śucyitum . asti tarjo saṅghātagrahaṇam . yadi saṅghātagrahaṇam antyasya lopaḥ prāpnoti . siddhaḥ antyasya pūrveṇa eva . tatra ārambhasāmarthyāt sarvasya bhaviṣyati . evam api tena atiprasaktam iti kṛtvā niyamaḥ vijñāyeta . yasya halaḥ eva na anyataḥ . kva mā bhūt . lolūyitā popūyitā . kaimarthakyāt niyamaḥ bhavati . vidheyam na asti iti kṛtvā . iha ca asti vidheyam . kim . antyasya lopaḥ prāptaḥ saḥ sarvasya vidheyaḥ . tatra apūrvaḥ vidhiḥ astu niyama astu iti apūrvaḥ eva vidhiḥ bhaviṣyati na niyamaḥ . evam api antyasya prāpnoti . kim kāraṇam . na hi lopaḥ sarvāpahārī . nanu ca saṅghātagrahaṇasāmarthyāt sarvasya bhaviṣyati . saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ . saṅghātagrahaṇam cet kyasya vibhāṣāyām doṣaḥ bhavati . samidhitā samidhyitā . yadā lopaḥ tadā sarvasya lopaḥ . yadā alopaḥ tadā sarvasya alopaḥ prāpnoti . ādeḥ paravacanāt siddham . halaḥ iti pañcamī . tasmāt iti uttarasya ādeḥ parasya iti yakārasya eva bhaviṣyati . atha vā punaḥ astu varṇagrahaṇam . nanu ca uktam yalope varṇagrahaṇam cet dhātvantasya pratiṣedhaḥ iti . na eṣaḥ doṣaḥ . aṅgāt iti hi vartate . na vā aṅgāt iti pañcamī asti . evam tarhi aṅgasya iti sambandhaṣaṣṭhī vijñāsyate . aṅgasya yaḥ yakāraḥ . kim ca aṅgasya yakāraḥ . nimittam . yasmin aṅgam iti etat bhavati . kasmin ca etat bhavati . pratyaye .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०२।४-९ रो इव्।७२८ अथ अनिटि इति किमर्थम् । कारयिता कारयितुम् । अनिटि इति शक्यम् अवक्तुम् । कस्मात् न भवति कारयिता कारयितुम् । निष्ठायाम् सेटि इति एतत् नियमार्थम् भविष्यति । निष्ठायाम् एव सेटि णेः लोपः भवति न अयत्र । क्व मा भूत् । कारयिता कारयितुम् । अथ वा उपरिष्टात् योगविभागः करिष्यते । इदम् अस्ति । निष्ठायाम् सेटि । जनित मन्त्र । शमिता यज्ञे । ततः अय् । अयादेशः भवति णेः सेटि । तत आमन्ताल्वायेत्न्विष्णुषु अय् भवति इति एव ।

KA III.202.4-9 Ro IV.728 atha aniṭi iti kimartham . kārayitā kārayitum . aniṭi iti śakyam avaktum . kasmāt na bhavati kārayitā kārayitum . niṣṭhāyām seṭi iti etat niyamārtham bhaviṣyati . niṣṭhāyām eva seṭi ṇeḥ lopaḥ bhavati na ayatra . kva mā bhūt . kārayitā kārayitum . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . idam asti . niṣṭhāyām seṭi . janita mantra . śamitā yajñe . tataḥ ay . ayādeśaḥ bhavati ṇeḥ seṭi . tata āmantālvāyetnviṣṇuṣu ay bhavati iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०२।११-२०३।६ रो इव्।७२८-७३० अथ सेड्ग्रहणम् किमर्थम् । निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् । निष्ठायाम् सेड्ग्रहणम् क्रियते अनिटि प्रतिषेधः यथा स्यात् इति । सञ्ज्ञपितः पशुः इति । निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् इति चेत् तत् सिद्धम् अनिडभावात् । निष्ठायाम् सेड्ग्रहणम् अनिटि प्रतिषेधार्थम् इति चेत् अन्तरेण अपि सेड्ग्रहणम् तत् सिद्धम् । कथम् । अनिडभावात् । ननु च यस्य विभाषा इति ज्ञपेः इट्प्रतिषेधः । एकाचः हि प्रतिषेधः । एकाचः हि सः प्रतिषेधः ज्ञपिः च अनेकाच् । इड्भावार्थम् तु तन्निमित्तत्वात् लोपस्य । इड्भावार्थम् तर्हि सेड्ग्रहणम् क्रियते । कथम् पुनः सेटि इति अनेन इट् शक्यः भावयितुम् । तन्निमित्तत्वात् लोपस्य । न अत्र अकृते इटि णिलोपेन भवितव्यम् । किम् कारणम् । सेटि इति उच्यते । अवचने हि णिलोपे इट्प्रतिषेधप्रसङ्गः । अक्रियमाणे हि सेड्ग्रहणे णिलोपे कृते एकाचः इति इट्प्रतिषेधः प्रसज्येत । कारितम् , हारितम् । एवम् तर्हि न अर्थः सेड्ग्रहणेन न अपि सूत्रेण । कथम् । सप्तमे योगविभागः करिष्यते । इदम् अस्ति । निष्ठायाम् न इट् भवति । ततः णेः । ण्यन्तस्य निष्ठायाम् न इट् भवति । कारितम् , हारितम् । ततः वृत्तम् । वृत्तम् इति च निपात्यते । किम् निपात्यते । णेः निष्ठायाम् लोपः निपात्यते । किम् प्रयोजनम् । नियमार्थम् । अत्र एव णेः निष्ठायाम् लोपः भवति न अन्यत्र । क्व मा भूत् । कारितम् , हारितम् । इह अपि तर्हि प्राप्नोति : वर्तितम् अन्नम् , वर्तिता भिक्षा इति । ततः अध्ययने । अध्ययने चेत् वृतिः वर्तते इति ।

KA III.202.11-203.6 Ro IV.728-730 atha seḍgrahaṇam kimartham . niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham . niṣṭhāyām seḍgrahaṇam kriyate aniṭi pratiṣedhaḥ yathā syāt iti . sañjñapitaḥ paśuḥ iti . niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet tat siddham aniḍabhāvāt . niṣṭhāyām seḍgrahaṇam aniṭi pratiṣedhārtham iti cet antareṇa api seḍgrahaṇam tat siddham . katham . aniḍabhāvāt . nanu ca yasya vibhāṣā iti jñapeḥ iṭpratiṣedhaḥ . ekācaḥ hi pratiṣedhaḥ . ekācaḥ hi saḥ pratiṣedhaḥ jñapiḥ ca anekāc . iḍbhāvārtham tu tannimittatvāt lopasya . iḍbhāvārtham tarhi seḍgrahaṇam kriyate . katham punaḥ seṭi iti anena iṭ śakyaḥ bhāvayitum . tannimittatvāt lopasya . na atra akṛte iṭi ṇilopena bhavitavyam . kim kāraṇam . seṭi iti ucyate . avacane hi ṇilope iṭpratiṣedhaprasaṅgaḥ . akriyamāṇe hi seḍgrahaṇe ṇilope kṛte ekācaḥ iti iṭpratiṣedhaḥ prasajyeta . kāritam , hāritam . evam tarhi na arthaḥ seḍgrahaṇena na api sūtreṇa . katham . saptame yogavibhāgaḥ kariṣyate . idam asti . niṣṭhāyām na iṭ bhavati . tataḥ ṇeḥ . ṇyantasya niṣṭhāyām na iṭ bhavati . kāritam , hāritam . tataḥ vṛttam . vṛttam iti ca nipātyate . kim nipātyate . ṇeḥ niṣṭhāyām lopaḥ nipātyate . kim prayojanam . niyamārtham . atra eva ṇeḥ niṣṭhāyām lopaḥ bhavati na anyatra . kva mā bhūt . kāritam , hāritam . iha api tarhi prāpnoti : vartitam annam , vartitā bhikṣā iti . tataḥ adhyayane . adhyayane cet vṛtiḥ vartate iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०३।७-१२ रो इव्।७३१ वृधिरमिशृधीनाम् उपसङ्ख्यानम् सार्वधातुकत्वात् । वृधिरमिशृधीनाम् उपसङ्ख्यानम् कर्तव्यम् । किम् कारणम् । सार्वधातुकत्वात् । वर्धन्तु त्वा सुष्टुतयः गिरः मे । वर्धयन्तु इति एवम् प्राप्ते । बृहस्पतिः त्वा सुम्ने रम्णातु । रमयतु इति एवम् प्राप्ते । अग्ने शर्ध महते सौभगाय । शर्धय इति एवम् प्राप्ते । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । वृधिरमिशृधीनाम् आर्धधातुकत्वात् सिद्धम् । कथम् आर्धधातुकत्वम् । अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।

KA III.203.7-12 Ro IV.731 vṛdhiramiśṛdhīnām upasaṅkhyānam sārvadhātukatvāt . vṛdhiramiśṛdhīnām upasaṅkhyānam kartavyam . kim kāraṇam . sārvadhātukatvāt . vardhantu tvā suṣṭutayaḥ giraḥ me . vardhayantu iti evam prāpte . bṛhaspatiḥ tvā sumne ramṇātu . ramayatu iti evam prāpte . agne śardha mahate saubhagāya . śardhaya iti evam prāpte . tat tarhi vaktavyam . na vaktavyam . vṛdhiramiśṛdhīnām ārdhadhātukatvāt siddham . katham ārdhadhātukatvam . anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०३।१४-२० रो इव्।७३१-७३२ किम् पुनः अयम् क्त्नुः आहोस्वित् इत्नुः । कः च अत्र विशेषः । क्त्नौ इटि णेः गुणवचनम् । क्त्नौ इटि णेः गुणः वक्तव्त्यः । गदयित्नुः , स्तनयित्नुः । अस्तु तर्हि इत्नुः । इत्नौ प्रत्ययान्तरकरणम् । यदि तर्हि इत्नुः प्रत्ययान्तरम् कर्तव्यम् । अयादेशे च उपसङ्ख्यानम् । अयादेशे च उपसङ्ख्यानम् कर्तव्यम् । उभयम् क्रियते न्यासे एव ।

KA III.203.14-20 Ro IV.731-732 kim punaḥ ayam ktnuḥ āhosvit itnuḥ . kaḥ ca atra viśeṣaḥ . ktnau iṭi ṇeḥ guṇavacanam . ktnau iṭi ṇeḥ guṇaḥ vaktavtyaḥ . gadayitnuḥ , stanayitnuḥ . astu tarhi itnuḥ . itnau pratyayāntarakaraṇam . yadi tarhi itnuḥ pratyayāntaram kartavyam . ayādeśe ca upasaṅkhyānam . ayādeśe ca upasaṅkhyānam kartavyam . ubhayam kriyate nyāse eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०३।२२-२०४।९ रो इव्। ७३२-७३३ ल्यपि लघुपूर्वस्य इति चेत् व्यञ्जनान्तेषु उपसङ्ख्यानम् । ल्यपि लघुपूर्वस्य इति चेत् व्यञ्जनान्तेषु उपसङ्ख्यानम् कर्तव्यम् । प्रशमय्य गतः । प्रतमय्य गतः । अल्लोपे च गुरुपूर्वात् प्रतिषेधः । अल्लोपे च गुरुपूर्वात् प्रतिषेधः वक्तव्यः । प्रचिकीर्ष्य गतः । ल्यपि लघुपूर्वात् इति वचनात् सिद्धम् । ल्यपि लघुपूर्वात् इति वक्तव्यम् । एवम् अपि ह्रस्वयलोपाल्लोपानाम् असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः न प्राप्नोति । प्रशमय्य गतः । प्रतमय्य गतः । प्रबेभिदय्य गतः । प्रचेच्छिदय्य गतः । प्रगदय्य गतः । प्रस्तनय्य गतः । ह्रस्वादिषु च उक्तम् । किम् उक्तम् । समानाश्रयत्वात् सिद्धम् इति । कथम् । णौ एते विधयः । णेः ल्यपि अयादेशः ।

KA III.203.22-204.9 Ro IV. 732-733 lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam . lyapi laghupūrvasya iti cet vyañjanānteṣu upasaṅkhyānam kartavyam . praśamayya gataḥ . pratamayya gataḥ . allope ca gurupūrvāt pratiṣedhaḥ . allope ca gurupūrvāt pratiṣedhaḥ vaktavyaḥ . pracikīrṣya gataḥ . lyapi laghupūrvāt iti vacanāt siddham . lyapi laghupūrvāt iti vaktavyam . evam api hrasvayalopāllopānām asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ na prāpnoti . praśamayya gataḥ . pratamayya gataḥ . prabebhidayya gataḥ . pracecchidayya gataḥ . pragadayya gataḥ . prastanayya gataḥ . hrasvādiṣu ca uktam . kim uktam . samānāśrayatvāt siddham iti . katham . ṇau ete vidhayaḥ . ṇeḥ lyapi ayādeśaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०४।११-१५ रो इव्। ७३४ इङादेशस्य प्रतिषेधः वक्तव्यः । अध्याप्य गतः । आपः सानुबन्धकनिर्देशात् इङि सिद्धम् । आपः सानुबन्धकनिर्देशः करिष्यते । तेन इङादेशस्य न भविष्यति । सः तर्हि सानुबन्धकनिर्देशः कर्तव्यः । न कर्तव्यः । लक्षणप्रतिपदोक्तयोः प्रतिपदोक्तस्य एव इति एवम् न भविष्यति ।

KA III.204.11-15 Ro IV. 734 iṅādeśasya pratiṣedhaḥ vaktavyaḥ . adhyāpya gataḥ . āpaḥ sānubandhakanirdeśāt iṅi siddham . āpaḥ sānubandhakanirdeśaḥ kariṣyate . tena iṅādeśasya na bhaviṣyati . saḥ tarhi sānubandhakanirdeśaḥ kartavyaḥ . na kartavyaḥ . lakṣaṇapratipadoktayoḥ pratipadoktasya eva iti evam na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०५।३-१२ रो इव्। ७३४-७३६ भावकर्मणोः इति कथम् इदम् विज्ञायते । भावकर्मणोः ये स्यादयः इति , आहोस्वित् भावकर्मवाचिनि परतः ये स्यादयः इति । किम् च अतः । यदि विज्ञायते भावकर्मणोः ये स्यादयः इति सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः । अथ विज्ञायते भावकर्मवाचिनि परतः ये स्यादयः इति स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः । यथा इच्छसि तथा अस्तु । अस्तु तावत् भावकर्मणोः ये स्यादयः इति । स्यसिच्तासयः च विशेषिताः । ननु च उक्तम् सीयुट् विशेषितः स्यसिच्तासयः अविशेषिताः इति । स्यसिच्तासयः च विशेषिताः । कथम् । भावकर्मणोः यक् भवति इति अत्र स्यादयः अपि अनुवर्तिष्यन्ते । अथ वा पुनः अस्तु भावकर्मवाचिनि परतः ये स्यादयः इति । ननु च उक्तम् स्यसिच्तासयः विशेषिताः सीयुट् अविशेषितः इति । सीयुट् च विशेषितः । कथम् । भावकर्मवाचिनि परतः सीयुट् न अस्ति इति कृत्व भावकर्मवाचिनि सीयुटि कार्यम् विज्ञास्यते ।

KA III.205.3-12 Ro IV. 734-736 bhāvakarmaṇoḥ iti katham idam vijñāyate . bhāvakarmaṇoḥ ye syādayaḥ iti , āhosvit bhāvakarmavācini parataḥ ye syādayaḥ iti . kim ca ataḥ . yadi vijñāyate bhāvakarmaṇoḥ ye syādayaḥ iti sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ . atha vijñāyate bhāvakarmavācini parataḥ ye syādayaḥ iti syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ . yathā icchasi tathā astu . astu tāvat bhāvakarmaṇoḥ ye syādayaḥ iti . syasictāsayaḥ ca viśeṣitāḥ . nanu ca uktam sīyuṭ viśeṣitaḥ syasictāsayaḥ aviśeṣitāḥ iti . syasictāsayaḥ ca viśeṣitāḥ . katham . bhāvakarmaṇoḥ yak bhavati iti atra syādayaḥ api anuvartiṣyante . atha vā punaḥ astu bhāvakarmavācini parataḥ ye syādayaḥ iti . nanu ca uktam syasictāsayaḥ viśeṣitāḥ sīyuṭ aviśeṣitaḥ iti . sīyuṭ ca viśeṣitaḥ . katham . bhāvakarmavācini parataḥ sīyuṭ na asti iti kṛtva bhāvakarmavācini sīyuṭi kāryam vijñāsyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०५।१३-२०६।७ रो इव्। ७३६-७३८ अथ इट् च इति उच्यते । कस्य अयम् इट् भवति । अङ्गस्य इति वर्तते । यदि एवम् आदितः इट् प्राप्नोति अडाड्वत् । तत् यथा अडाटौ टित्त्वात् आदितः भवतः तद्वत् । एवम् तर्हि स्यादीनाम् एव भविष्यन्ति । एवम् अपि षष्ठ्यभावात् न प्राप्नोति । ननु च भावकर्मणोः इति एषा षष्ठी । न एषा षष्ठी । किम् तर्हि अर्थिनिर्देशे एषा सप्तमी : भावे च अर्थे कर्मणि च इति । एवम् तर्हि भावकर्मणोः इति एषा सप्तमी स्यादिषु इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मिन् इति निर्दिष्टे पूर्वस्य इति । एवम् अपि न सिध्यति । किम् कारणम् । न हि अर्थेन पौर्वापर्यम् अस्ति । अर्थे असम्भवात् तद्वाचिनि शब्दे कार्यम् विज्ञास्यते । एवम् अपि सीयुटः न प्राप्नोति । एवम् तर्हि सप्तमे योगविभागः करिष्यते । आर्धधातुकस्य इट् । यावान् इट् नाम सः सर्वः आर्धधातुकस्य इट् भवति । ततः वलादेः । वलादेः आर्धधातुकस्य इट् भवति इति । यदि एवम् स्यसिच्सीयुट्तासिषु इट् भवति चिण्वद्भावः अविशेषितः भवति । तत्र कः दोषः । स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् इति क्व चित् एव चिण्वद्भावः स्यात् । एवम् तर्हि स्यादीन् अपेक्षिष्यामहे । स्यसिच्सीयुट्तासिषु इट् भवति अज्झनग्रहदृशाम् वा चिण्वत् स्यादिषु इति । अथ के पुनः इमम् इटम् प्रयोजयन्ति । ये अनुदात्ताः । अथ ये उदात्ताः तेषाम् कथम् । सिद्धम् तेन एव परत्वात् । उदात्तेभ्यः अपि वा अनेन एव इट् एषितव्यः । किम् प्रयोजनम् । कारयतेः कारिष्यते , हारयतेः हारिष्यते । इटः असिद्धत्वात् अनिटि इति णिलोपः यथा स्यात् । कथम् पुनः इच्छता अपि भवता उदात्तेभ्यः अनेन एव इट् लभ्यः न पुनः अनेन अस्तु तेन वा इति तेन एव स्यात् विप्रतिषेधेन । ननु च नित्यः अयम् कृते अपि तस्मिन् प्राप्नोति अकृते अपि प्राप्नोति । न तु अस्मिन् कृते अपि सः प्राप्नोति । किम् कारणम् । अवलादित्वात् । तस्मात् अनेन एव भविष्यति इट् ।

KA III.205.13-206.7 Ro IV. 736-738 atha iṭ ca iti ucyate . kasya ayam iṭ bhavati . aṅgasya iti vartate . yadi evam āditaḥ iṭ prāpnoti aḍāḍvat . tat yathā aḍāṭau ṭittvāt āditaḥ bhavataḥ tadvat . evam tarhi syādīnām eva bhaviṣyanti . evam api ṣaṣṭhyabhāvāt na prāpnoti . nanu ca bhāvakarmaṇoḥ iti eṣā ṣaṣṭhī . na eṣā ṣaṣṭhī . kim tarhi arthinirdeśe eṣā saptamī : bhāve ca arthe karmaṇi ca iti . evam tarhi bhāvakarmaṇoḥ iti eṣā saptamī syādiṣu iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmin iti nirdiṣṭe pūrvasya iti . evam api na sidhyati . kim kāraṇam . na hi arthena paurvāparyam asti . arthe asambhavāt tadvācini śabde kāryam vijñāsyate . evam api sīyuṭaḥ na prāpnoti . evam tarhi saptame yogavibhāgaḥ kariṣyate . ārdhadhātukasya iṭ . yāvān iṭ nāma saḥ sarvaḥ ārdhadhātukasya iṭ bhavati . tataḥ valādeḥ . valādeḥ ārdhadhātukasya iṭ bhavati iti . yadi evam syasicsīyuṭtāsiṣu iṭ bhavati ciṇvadbhāvaḥ aviśeṣitaḥ bhavati . tatra kaḥ doṣaḥ . syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat iti kva cit eva ciṇvadbhāvaḥ syāt . evam tarhi syādīn apekṣiṣyāmahe . syasicsīyuṭtāsiṣu iṭ bhavati ajjhanagrahadṛśām vā ciṇvat syādiṣu iti . atha ke punaḥ imam iṭam prayojayanti . ye anudāttāḥ . atha ye udāttāḥ teṣām katham . siddham tena eva paratvāt . udāttebhyaḥ api vā anena eva iṭ eṣitavyaḥ . kim prayojanam . kārayateḥ kāriṣyate , hārayateḥ hāriṣyate . iṭaḥ asiddhatvāt aniṭi iti ṇilopaḥ yathā syāt . katham punaḥ icchatā api bhavatā udāttebhyaḥ anena eva iṭ labhyaḥ na punaḥ anena astu tena vā iti tena eva syāt vipratiṣedhena . nanu ca nityaḥ ayam kṛte api tasmin prāpnoti akṛte api prāpnoti . na tu asmin kṛte api saḥ prāpnoti . kim kāraṇam . avalāditvāt . tasmāt anena eva bhaviṣyati iṭ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०६।८-१७ रो इव्। ७३९ कानि पुनः अस्य योगस्य प्रयोजनानि । वृद्धिः चिण्वत् युक् च हन्तेः च घत्वम् दीर्घः च उक्तः यः मिताम् वा चिणि इति । वृद्धिः प्रयोजनम् । चेष्यते चायिष्यते । युक् च प्रयोजनम् । ग्लास्यते , ग्लायिष्यते । हन्तेः च घत्वम् प्रयोजनम् । हनिष्यते घानिष्यते । दीर्घः च उक्तः यः मिताम् वा चिणि इति सः च प्रयोजनम् । शमिष्यते शामिष्यते तमिष्यते तामिष्यते । इट् च असिद्धः तेन मे लुप्यते णिः नित्यः च अयम् वल्निमित्तः विघाती । इटः असिद्धत्वात् णेः अनिटि इति णिलोपः यथा स्यात् । कथम् पुनः अयम् नित्यः । कृताकृतप्रसङ्गित्वात् । कृते अपि तस्मिन् इटि साप्तमिके आर्धधातुकस्य इट् वलादेः इति पुनः अयम् भवति । अस्मिन् तु विहिते वलादित्वस्य निमित्तस्य विहतत्वात् साप्तमिकः न भवति ।

KA III.206.8-17 Ro IV. 739 kāni punaḥ asya yogasya prayojanāni . vṛddhiḥ ciṇvat yuk ca hanteḥ ca ghatvam dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi iti . vṛddhiḥ prayojanam . ceṣyate cāyiṣyate . yuk ca prayojanam . glāsyate , glāyiṣyate . hanteḥ ca ghatvam prayojanam . haniṣyate ghāniṣyate . dīrghaḥ ca uktaḥ yaḥ mitām vā ciṇi iti saḥ ca prayojanam . śamiṣyate śāmiṣyate tamiṣyate tāmiṣyate . iṭ ca asiddhaḥ tena me lupyate ṇiḥ nityaḥ ca ayam valnimittaḥ vighātī . iṭaḥ asiddhatvāt ṇeḥ aniṭi iti ṇilopaḥ yathā syāt . katham punaḥ ayam nityaḥ . kṛtākṛtaprasaṅgitvāt . kṛte api tasmin iṭi sāptamike ārdhadhātukasya iṭ valādeḥ iti punaḥ ayam bhavati . asmin tu vihite valāditvasya nimittasya vihatatvāt sāptamikaḥ na bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०६।१८-२२ रो इव्। ७४० अथ उपदेशग्रहणम् किमर्थम् । चिण्वद्भावे उपदेशवचनम् ऋकारगुणबलीयस्त्वात् । चिण्वद्भावे उपदेशवचनम् क्रियते ऋकारगुणस्य बलीयस्त्वात् । कारिष्यते । परत्वात् गुणे कृते रपरत्वे च अनजन्तत्वात् चिण्वद्भावः न प्राप्नोति । उपदेशग्रहणात् भविष्यति ।

KA III.206.18-22 Ro IV. 740 atha upadeśagrahaṇam kimartham . ciṇvadbhāve upadeśavacanam ṛkāraguṇabalīyastvāt . ciṇvadbhāve upadeśavacanam kriyate ṛkāraguṇasya balīyastvāt . kāriṣyate . paratvāt guṇe kṛte raparatve ca anajantatvāt ciṇvadbhāvaḥ na prāpnoti . upadeśagrahaṇāt bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०६।२३-२०७।७ रो इव्। ७४०-७४१ वधिभावात् सीयुटि चिण्वद्भावः विप्रतिषेधेन । वधिभावात् सीयुटि चिण्वद्भावः भवति विप्रतिषेधेन । वधिभावस्य अवकाशः : वध्यात् , वध्यास्ताम् , वध्यासुः । चिण्वद्भावस्य अवकाशः : घानिष्यते , अघानिष्यत । इह उभयम् प्राप्नोति : घानिषीष्ट घानिषीयास्ताम् घानिषीरन् । चिण्वद्भावः भवति विप्रतिषेधेन । अथ इदानीम् चिण्वद्भावे कृते पुनःप्रसङ्गविज्ञानात् वधिभावः कस्मात् न भवति । सकृद्गतौ विप्रतिषेधे यत् बाधितम् तत् बाधितम् एव इति । हनिणिङादेशप्रतिषेधः च । हनिणिङादेशानाम् च प्रतिषेधः वक्तव्यः । हनिष्यते , घानिष्यते , एष्यते , आयिष्यते , अध्येष्यते , अध्यायिष्यते । लुङि इति हनिणिङादेशाः प्राप्नुवन्ति । अङ्गस्य इति तु प्रकरणात् अङ्गशास्त्रातिदेशात् सिद्धम् । आङ्गम् यत् कार्यम् तत् प्रतिनिर्दिश्यते न च हनिणिङादेशाः आङ्गाः ।भवन्ति इति ।

KA III.206.23-207.7 Ro IV. 740-741 vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ vipratiṣedhena . vadhibhāvāt sīyuṭi ciṇvadbhāvaḥ bhavati vipratiṣedhena . vadhibhāvasya avakāśaḥ : vadhyāt , vadhyāstām , vadhyāsuḥ . ciṇvadbhāvasya avakāśaḥ : ghāniṣyate , aghāniṣyata . iha ubhayam prāpnoti : ghāniṣīṣṭa ghāniṣīyāstām ghāniṣīran . ciṇvadbhāvaḥ bhavati vipratiṣedhena . atha idānīm ciṇvadbhāve kṛte punaḥprasaṅgavijñānāt vadhibhāvaḥ kasmāt na bhavati . sakṛdgatau vipratiṣedhe yat bādhitam tat bādhitam eva iti . haniṇiṅādeśapratiṣedhaḥ ca . haniṇiṅādeśānām ca pratiṣedhaḥ vaktavyaḥ . haniṣyate , ghāniṣyate , eṣyate , āyiṣyate , adhyeṣyate , adhyāyiṣyate . luṅi iti haniṇiṅādeśāḥ prāpnuvanti . aṅgasya iti tu prakaraṇāt aṅgaśāstrātideśāt siddham . āṅgam yat kāryam tat pratinirdiśyate na ca haniṇiṅādeśāḥ āṅgāḥ .bhavanti iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०७।९-२१ रो इव्।७४१-७४३ अथ इड्ग्रहणम् किमर्थम् । इड्ग्रहणम् अक्ङिदर्थम् । इड्ग्रहणम् क्रियते अक्ङिति लोपः यथा स्यात् : पपिथ तस्थिथ इति । सार्वधातुके च आदि इति आर्धधातुकाधिकारात् उपसङ्ख्यानम् । सार्वधातुके च आदि इति आर्धधातुकाधिकारात् उपसङ्ख्यानम् कर्तव्यम् । इषम् ऊर्जम् अहम् इतः आदि । ननु च क्ङिति इति वर्तमाने यथा एव इड्ग्रहणम् अक्ङिदर्थम् एवम् आर्धधातुके इति अपि वर्तमाने इड्ग्रहणम् सार्वधातुकार्थम् भविष्यति । न सिध्यति । किम् कारणम् । न हि क्ङिता अच् विशेष्यते : अचि भवति । कतरस्मिन् । क्ङिति इति । किम् तर्हि अचा क्ङित् विशेष्यते : क्ङिति भवति । कतरस्मिन् । अचि इति । किम् पुनः कारणम् अचा क्ङित् विशेष्यते । यथा इट् अपि अज्ग्रहणेन विशेष्यते । अस्ति च इदानीम् क्व चित् इट् अनजादिः यदर्थः विधिः स्यात् । अस्ति इति आह : दासीय धासीय । तत् तर्हि उपसङ्ख्यानम् कर्तव्यम् । न कर्तव्यम् । आर्धधातुकग्रहणात् सिद्धम् । कथम् । आर्धधातुकत्वम् । उभयथा छन्दसि इति वचनात् । अन्ये अपि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते ।

KA III.207.9-21 Ro IV.741-743 atha iḍgrahaṇam kimartham . iḍgrahaṇam akṅidartham . iḍgrahaṇam kriyate akṅiti lopaḥ yathā syāt : papitha tasthitha iti . sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam . sārvadhātuke ca ādi iti ārdhadhātukādhikārāt upasaṅkhyānam kartavyam . iṣam ūrjam aham itaḥ ādi . nanu ca kṅiti iti vartamāne yathā eva iḍgrahaṇam akṅidartham evam ārdhadhātuke iti api vartamāne iḍgrahaṇam sārvadhātukārtham bhaviṣyati . na sidhyati . kim kāraṇam . na hi kṅitā ac viśeṣyate : aci bhavati . katarasmin . kṅiti iti . kim tarhi acā kṅit viśeṣyate : kṅiti bhavati . katarasmin . aci iti . kim punaḥ kāraṇam acā kṅit viśeṣyate . yathā iṭ api ajgrahaṇena viśeṣyate . asti ca idānīm kva cit iṭ anajādiḥ yadarthaḥ vidhiḥ syāt . asti iti āha : dāsīya dhāsīya . tat tarhi upasaṅkhyānam kartavyam . na kartavyam . ārdhadhātukagrahaṇāt siddham . katham . ārdhadhātukatvam . ubhayathā chandasi iti vacanāt . anye api dhātupratyayāḥ ubhayathā chandasi dṛśyante .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०७।२३-२०८।५ रो इव्।७४३-७४४ ईत्त्वे वकारप्रतिषेधः घृतम् घृतपावानः इति दर्शनात् । ईत्त्वे वकारे प्रतिषेधः वक्तव्यः । किम् प्रयोजनम् । घृतम् घृतपावानः इति दर्शनात् । इह मा भूत् : घृतम् घृतपावानः पिबत । वसाम् वसपावानः पिबत इति । यदि तर्हि वकारे प्रतिषेधः उच्यते कथम् दीवरी पीवरी इति । धीवरी पीवरी इति च उक्तम् । किम् उक्तम् । न एतत् ईत्त्वम् । किम् तर्हि । ध्याप्योः एतत् सम्प्रसारणम् इति । सः तर्हि प्रतिषेधः वक्तयः । न वक्तव्यः । वनिप् एषः भविष्यति न क्वनिप् इति ।

KA III.207.23-208.5 Ro IV.743-744 īttve vakārapratiṣedhaḥ ghṛtam ghṛtapāvānaḥ iti darśanāt . īttve vakāre pratiṣedhaḥ vaktavyaḥ . kim prayojanam . ghṛtam ghṛtapāvānaḥ iti darśanāt . iha mā bhūt : ghṛtam ghṛtapāvānaḥ pibata . vasām vasapāvānaḥ pibata iti . yadi tarhi vakāre pratiṣedhaḥ ucyate katham dīvarī pīvarī iti . dhīvarī pīvarī iti ca uktam . kim uktam . na etat īttvam . kim tarhi . dhyāpyoḥ etat samprasāraṇam iti . saḥ tarhi pratiṣedhaḥ vaktayaḥ . na vaktavyaḥ . vanip eṣaḥ bhaviṣyati na kvanip iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०८।७-२०९।१७ रो इव्।७४५-७४८ कस्य अयम् प्रतिषेधः । आटः प्राप्नोति । अटः अपि इष्यते । तत् तर्हि अटः ग्रहणम् कर्तव्यम् । न कर्तव्यम् । प्रकृतम् अनुवर्तते । क्व प्रकृतम् । लुङ्लङ्ल्ङ्क्षु अट् उदात्तः इति । यदि तत् अनुवर्तते आट् अजादीनाम् अट् च इति अट् अपि प्राप्नोति । अस्तु । अटि कृते पुनः आटि भविष्यति । इह अपि तर्हि अटि कृते पुनः आट् प्राप्नोति : अकार्षीत् , अहार्षीत् । अड्वचनात् न भविष्यति । इह अपि तर्हि अड्वचनात् न स्यात् : ऐहिष्ट , ऐक्षिष्त । आड्वचनात् भविष्यति । इह अपि तर्हि आड्वचनात् प्राप्नोति : अकार्षीत् , अहार्षीत् । अकृते अटि यः अजादिः इति एवम् एतत् विज्ञास्यते । किम् वक्तव्यम् एतत् । न हि । कथम् अनुच्यमानम् गंस्यते । अज्वचनसामर्थ्यात् । यदि कृते अटि यः अजादिः तत्र स्यात् अज्ग्रहणम् अनर्थकम् स्यात् । अथ वा उपदेशे इति वर्तते । अथ वा आर्धधातुके इति वर्तते । अथ वा लुङ्लङ्ल्ङ्क्षु अट् इति द्विलकारकः निर्देशः : लुङादिषु लकारादिषु यः अजादिः इति । सर्वथा , ऐज्यत , औप्यत इति एतत् न सिध्यति । एवम् तर्हि अजादीनाम् अटा सिद्धम् । अजादीनाम् अटा एव सिद्धम् । न अर्थः आटा । एवम् तर्हि वृद्ध्यर्थम् आट् वक्तव्यः । वृद्ध्यर्थम् इति चेत् अटः । अटः वृद्धिम् वक्ष्यामि । यदि तर्हि अटः वृद्धिः उच्यते अस्ववः हसति इति अत्र । वृद्धिः प्रप्नोति रोः उत्वे कृते । धातौ वृद्धिम् अटः स्मरेत् । धातौ अटः वृद्धिम् वक्ष्यामि । तत् तर्हि धातुग्रहणम् कर्तव्यम् । न कर्तव्यम् । योगविभागः करिष्यते । अटः अचि वृद्धिः भवति । ततः उपसर्गात् ऋति वृद्धिः भवति । ततः धातौ । धातौ इति उभयोः शेषः । इह तर्हि : आटीत् , आशीत् इति अतः गुणे इति पररूपत्वम् प्राप्नोति । पररूपम् गुणे न अटः । पररूपम् गुणे अटः न इति वक्ष्यामि । ओमाङोः उसि तत् समम् । यदि अपि एतत् उच्यते अथ वा एतर्हि उसि ओमाङ्क्षु आटः पररूपप्रतिषेधः चोदितः स न वक्तव्यः भवति । छन्दोर्थम् तर्हि आट् वक्तव्यः । अरैक् उ कृष्णाः । त्रितः एनम् आयुनक् । सुरुचः वेन् आवः । छन्दोर्थम् बहुलम् दीर्घम् । बहुलम् छन्दसि दीर्घत्वम् दृश्यते । तत् यथा : पूरुषः , नारकः इति । एवम् तर्हि आयन् , आसन् । इणस्त्योः यण्लोपयोः कृतयोः अनजादित्वात् वृद्धिः न प्राप्नोति । इणस्त्योः अन्तरङ्गतः । अन्तरङ्गत्वात् वृद्धिः भविष्यति । तस्मात् न अर्थः आड्ग्रहणेन । अजादीनाम् अटा सिद्धम् । वृद्ध्यर्थम् इति चेत् अटः । अस्ववः हसति इति अत्र । धातौ वृद्धिम् अटः स्मरेत् । पररूपम् गुणे न अटः । ओमाङोः उसि तत् समम् । छन्दोर्थम् बहुलम् दीर्घम् । इणस्त्योः अन्तरङ्गतः ।

KA III.208.7-209.17 Ro IV.745-748 kasya ayam pratiṣedhaḥ . āṭaḥ prāpnoti . aṭaḥ api iṣyate . tat tarhi aṭaḥ grahaṇam kartavyam . na kartavyam . prakṛtam anuvartate . kva prakṛtam . luṅlaṅlṅkṣu aṭ udāttaḥ iti . yadi tat anuvartate āṭ ajādīnām aṭ ca iti aṭ api prāpnoti . astu . aṭi kṛte punaḥ āṭi bhaviṣyati . iha api tarhi aṭi kṛte punaḥ āṭ prāpnoti : akārṣīt , ahārṣīt . aḍvacanāt na bhaviṣyati . iha api tarhi aḍvacanāt na syāt : aihiṣṭa , aikṣiṣta . āḍvacanāt bhaviṣyati . iha api tarhi āḍvacanāt prāpnoti : akārṣīt , ahārṣīt . akṛte aṭi yaḥ ajādiḥ iti evam etat vijñāsyate . kim vaktavyam etat . na hi . katham anucyamānam gaṃsyate . ajvacanasāmarthyāt . yadi kṛte aṭi yaḥ ajādiḥ tatra syāt ajgrahaṇam anarthakam syāt . atha vā upadeśe iti vartate . atha vā ārdhadhātuke iti vartate . atha vā luṅlaṅlṅkṣu aṭ iti dvilakārakaḥ nirdeśaḥ : luṅādiṣu lakārādiṣu yaḥ ajādiḥ iti . sarvathā , aijyata , aupyata iti etat na sidhyati . evam tarhi ajādīnām aṭā siddham . ajādīnām aṭā eva siddham . na arthaḥ āṭā . evam tarhi vṛddhyartham āṭ vaktavyaḥ . vṛddhyartham iti cet aṭaḥ . aṭaḥ vṛddhim vakṣyāmi . yadi tarhi aṭaḥ vṛddhiḥ ucyate asvavaḥ hasati iti atra . vṛddhiḥ prapnoti roḥ utve kṛte . dhātau vṛddhim aṭaḥ smaret . dhātau aṭaḥ vṛddhim vakṣyāmi . tat tarhi dhātugrahaṇam kartavyam . na kartavyam . yogavibhāgaḥ kariṣyate . aṭaḥ aci vṛddhiḥ bhavati . tataḥ upasargāt ṛti vṛddhiḥ bhavati . tataḥ dhātau . dhātau iti ubhayoḥ śeṣaḥ . iha tarhi : āṭīt , āśīt iti ataḥ guṇe iti pararūpatvam prāpnoti . pararūpam guṇe na aṭaḥ . pararūpam guṇe aṭaḥ na iti vakṣyāmi . omāṅoḥ usi tat samam . yadi api etat ucyate atha vā etarhi usi omāṅkṣu āṭaḥ pararūpapratiṣedhaḥ coditaḥ sa na vaktavyaḥ bhavati . chandortham tarhi āṭ vaktavyaḥ . araik u kṛṣṇāḥ . tritaḥ enam āyunak . surucaḥ ven āvaḥ . chandortham bahulam dīrgham . bahulam chandasi dīrghatvam dṛśyate . tat yathā : pūruṣaḥ , nārakaḥ iti . evam tarhi āyan , āsan . iṇastyoḥ yaṇlopayoḥ kṛtayoḥ anajāditvāt vṛddhiḥ na prāpnoti . iṇastyoḥ antaraṅgataḥ . antaraṅgatvāt vṛddhiḥ bhaviṣyati . tasmāt na arthaḥ āḍgrahaṇena . ajādīnām aṭā siddham . vṛddhyartham iti cet aṭaḥ . asvavaḥ hasati iti atra . dhātau vṛddhim aṭaḥ smaret . pararūpam guṇe na aṭaḥ . omāṅoḥ usi tat samam . chandortham bahulam dīrgham . iṇastyoḥ antaraṅgataḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०९।१९-२२ रो इव्।७४८-७४९ इयङादिप्रकरणे तन्वादीनाम् छन्दसि बहुलम् । इयङादिप्रकरणे तन्वादीनाम् छन्दसि बहुलम् उपसङ्ख्यानम् कर्तव्यम् । तन्वम् पुषेम । तनुवम् पुषेम । विष्वम् पश्य । विषुवम् पश्य । स्वर्गम् लोकम् । सुवर्गम् लोकम् । त्र्यम्बकम् यजामहे । त्रियम्बकम् यजामहे ।

KA III.209.19-22 Ro IV.748-749 iyaṅādiprakaraṇe tanvādīnām chandasi bahulam . iyaṅādiprakaraṇe tanvādīnām chandasi bahulam upasaṅkhyānam kartavyam . tanvam puṣema . tanuvam puṣema . viṣvam paśya . viṣuvam paśya . svargam lokam . suvargam lokam . tryambakam yajāmahe . triyambakam yajāmahe .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२०९।२४-२१०।१५ रो इव्।७४९-७५१ अथ इह कस्मात् न भवति : ब्राह्मणस्य नियौ , ब्राह्मणस्य नियः । अङ्गाधिकारात् । अङ्गस्य इति अनुवर्तते । एवम् अपि परमनियौ परमनियः इति अत्र प्राप्नोति । गतिकारकपूर्वस्य इष्यते । यणादेशः स्वरपदपूर्वोपधस्य च । यणादेशः स्वरपूर्वोपधस्य पदपूर्वोपधस्य च इति वक्तव्यम् । स्वरपूर्वोपधस्य : निन्यतुः , निन्युः । पदपूर्वोपधस्य : उन्न्यौ , उन्न्यः , उद्ध्यौ , उद्ध्यः । उभयकृतम्: ग्रामण्यौ , ग्रामण्यः , सेनान्यौ , सेनान्यः । असंयोगपूर्वे हि अनिष्टप्रसङ्गः । असंयोगपूर्वस्य इति हि उच्यमाने अनिष्टम् प्रसज्येत । उद्ध्यौ , उद्ध्यः , उन्न्यौ , उन्न्यः । असंयोगपूर्वस्य इति प्रतिषेधः प्रसज्येत । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । धातोः इति वर्तते । तत्र धातुना संयोगम् विशेषयिष्यामः । धातोः यः संयोगः तत्पूर्वस्य न इति । उपसर्जनम् वै संयोगः न च उपसर्जनस्य विशेषणम् अस्ति । धातोः इति अनुवर्तनसामर्थ्यात् उपसर्जनस्य अपि विशेषणम् भविष्यति । अस्ति अन्यत् धातोः इति अनुवर्तनस्य प्रयोजनम् । किम् । इवर्णम् विशेषयिष्यामः । न एतत् अस्ति प्रयोजनम् । यत् हि अधातोः इवर्णम् भवितव्यम् एव तस्य यणादेशेन इकः यण् अचि इति एव ।

KA III.209.24-210.15 Ro IV.749-751 atha iha kasmāt na bhavati : brāhmaṇasya niyau , brāhmaṇasya niyaḥ . aṅgādhikārāt . aṅgasya iti anuvartate . evam api paramaniyau paramaniyaḥ iti atra prāpnoti . gatikārakapūrvasya iṣyate . yaṇādeśaḥ svarapadapūrvopadhasya ca . yaṇādeśaḥ svarapūrvopadhasya padapūrvopadhasya ca iti vaktavyam . svarapūrvopadhasya : ninyatuḥ , ninyuḥ . padapūrvopadhasya : unnyau , unnyaḥ , uddhyau , uddhyaḥ . ubhayakṛtam: grāmaṇyau , grāmaṇyaḥ , senānyau , senānyaḥ . asaṃyogapūrve hi aniṣṭaprasaṅgaḥ . asaṃyogapūrvasya iti hi ucyamāne aniṣṭam prasajyeta . uddhyau , uddhyaḥ , unnyau , unnyaḥ . asaṃyogapūrvasya iti pratiṣedhaḥ prasajyeta . tat tarhi vaktavyam . na vaktavyam . dhātoḥ iti vartate . tatra dhātunā saṃyogam viśeṣayiṣyāmaḥ . dhātoḥ yaḥ saṃyogaḥ tatpūrvasya na iti . upasarjanam vai saṃyogaḥ na ca upasarjanasya viśeṣaṇam asti . dhātoḥ iti anuvartanasāmarthyāt upasarjanasya api viśeṣaṇam bhaviṣyati . asti anyat dhātoḥ iti anuvartanasya prayojanam . kim . ivarṇam viśeṣayiṣyāmaḥ . na etat asti prayojanam . yat hi adhātoḥ ivarṇam bhavitavyam eva tasya yaṇādeśena ikaḥ yaṇ aci iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१०।१७-२० रो इव्।७५१ वर्षाभूपुनर्भ्वः च । वर्षाभू इति अत्र पुनर्भ्वः च इति वक्तव्यम् : पुनर्भ्वौ , पुनर्भ्वः । अत्यल्पम् इदम् उच्यते । वर्षादृन्कारपुनःपूर्वस्य भुवः इति वक्तव्यम् : वर्षाभ्वौ , वर्षाभ्वः , दृन्भ्वौ , दृन्भ्वः , कारभ्वौ , कारभ्वः , पुनर्भ्वौ , पुनर्भ्वः ।

KA III.210.17-20 Ro IV.751 varṣābhūpunarbhvaḥ ca . varṣābhū iti atra punarbhvaḥ ca iti vaktavyam : punarbhvau , punarbhvaḥ . atyalpam idam ucyate . varṣādṛnkārapunaḥpūrvasya bhuvaḥ iti vaktavyam : varṣābhvau , varṣābhvaḥ , dṛnbhvau , dṛnbhvaḥ , kārabhvau , kārabhvaḥ , punarbhvau , punarbhvaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२-२११।१४ रो इव्।७५१-७५२ हुश्नुग्रहणम् अनर्थकम् । किम् कारणम् । अन्यस्य अभावात् । न हि अन्यत् सार्वधातुके अस्ति यस्य यणादेशः स्यात् । ननु च अयम् अस्ति : याति , वाति इति । क्ङिति अनुवर्तते । इह तर्हि : यातः , वातः इति । अचि इति वर्तते । इह तर्हि : यान्ति , वान्ति । य्वोः इति वर्तते । एवम् अपि धियन्ति , पियन्ति इति अत्र प्राप्नोति । ओः इति वर्तते । एवम् अपि सुवन्ति , रुवन्ति इति अत्र प्राप्नोति । अनेकाचः इति वर्तते । एवम् अपि असुवन् , अरुवन् इति अत्र प्राप्नोति । एतत् अपि अटः असिद्धत्वात् एकाच् भवति । एवम् अपि प्रोर्णुवन्ति इति अत्र प्राप्नोति । असंयोगपूर्वस्य इति वर्तते । यङ्लुगर्थम् तर्हि हुश्नुग्रहणम् कर्तव्यम् । यङ्लुगन्तम् अनेकाच् असंयोगपूर्वम् उवर्णान्तम् अस्ति । तदर्थम् इदम् । नदम् योयुवतीनाम् । वृषभम् रोरुवतीनाम् । यङ्लुगर्थम् इति चेत् आर्धधातुकत्वात् सिद्धम् । यङ्लुगर्थम् इति चेत् तत् न । किम् कारणम् । आर्धधातुकत्वात् सिद्धम् । कथम् आर्धधातुकत्वम् । उभयथा छन्दसि इति वचनात् । अन्ये अपि हि धातुप्रत्ययाः उभयथा छन्दसि दृश्यन्ते । एवम् तर्हि सिद्धे सति यत् हुश्नुग्रहणम् करोति तत् ज्ञापयति आचार्यः यङ्लुक् भाषायाम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । बेभिदीति , चेच्छिदीति एतत् सिद्धम् भवति भाषायाम् अपि ।

KA III.22-211.14 Ro IV.751-752 huśnugrahaṇam anarthakam . kim kāraṇam . anyasya abhāvāt . na hi anyat sārvadhātuke asti yasya yaṇādeśaḥ syāt . nanu ca ayam asti : yāti , vāti iti . kṅiti anuvartate . iha tarhi : yātaḥ , vātaḥ iti . aci iti vartate . iha tarhi : yānti , vānti . yvoḥ iti vartate . evam api dhiyanti , piyanti iti atra prāpnoti . oḥ iti vartate . evam api suvanti , ruvanti iti atra prāpnoti . anekācaḥ iti vartate . evam api asuvan , aruvan iti atra prāpnoti . etat api aṭaḥ asiddhatvāt ekāc bhavati . evam api prorṇuvanti iti atra prāpnoti . asaṃyogapūrvasya iti vartate . yaṅlugartham tarhi huśnugrahaṇam kartavyam . yaṅlugantam anekāc asaṃyogapūrvam uvarṇāntam asti . tadartham idam . nadam yoyuvatīnām . vṛṣabham roruvatīnām . yaṅlugartham iti cet ārdhadhātukatvāt siddham . yaṅlugartham iti cet tat na . kim kāraṇam . ārdhadhātukatvāt siddham . katham ārdhadhātukatvam . ubhayathā chandasi iti vacanāt . anye api hi dhātupratyayāḥ ubhayathā chandasi dṛśyante . evam tarhi siddhe sati yat huśnugrahaṇam karoti tat jñāpayati ācāryaḥ yaṅluk bhāṣāyām bhavati iti . kim etasya jñāpane prayojanam . bebhidīti , cecchidīti etat siddham bhavati bhāṣāyām api .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२११।१६-२१२।८ रो इव्।७५३-७५४ अथ किमर्थम् गुहेः विकृतस्य ग्रहणम् क्रियते न पुनः गुहः इति एव उच्येत । गोहिग्रहणम् विषयार्थम् । गोहिग्रहणम् क्रियते विषयार्थम् । विषयः प्रतिनिर्दिश्यते । यत्र अस्य एतत् रूपम् तत्र यथा स्यात् । इह मा भूत् : निजुगुहतुः , निजुगुहुः इति । अयादेशप्रतिषेधार्थम् च । अयादेशप्रतिषेधार्थम् च विकृतग्रहणम् क्रियते । ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात् । ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रगूह्य गतः । किम् कारणम् । ऊत्त्वस्य असिद्धत्वात् । असिद्धम् ऊत्त्वम् । तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत । विषयार्थेन तावत् न अर्थः गोहिग्रहणेन । प्रश्लिष्टनिर्देशात् सिद्धम् । प्रश्लिष्टनिर्देशः अयम् । उ-ऊत् : ऊत् इति । तत्र ह्रस्वस्य अवकाशः : निजुगुहतुः , निजुगुहुः । गुणस्य अवकाशः : निगोढा , नोगोढुम् । इह उभयम् प्राप्नोति : निगूहयति , निगूहकः । परत्वात् गुणे कृते आन्तर्यतः दीर्घस्य दीर्घः भविष्यति । अयादेशप्रतिषेधार्थेन अपि न अर्थः । समानाश्रयवचनात् सिद्धम् । समानाश्रयम् असिद्धम् भवति व्याश्रयम् च एतत् । कथम् । णौ ऊत्त्वम् णेः ल्यपि अयादेशः ।

KA III.211.16-212.8 Ro IV.753-754 atha kimartham guheḥ vikṛtasya grahaṇam kriyate na punaḥ guhaḥ iti eva ucyeta . gohigrahaṇam viṣayārtham . gohigrahaṇam kriyate viṣayārtham . viṣayaḥ pratinirdiśyate . yatra asya etat rūpam tatra yathā syāt . iha mā bhūt : nijuguhatuḥ , nijuguhuḥ iti . ayādeśapratiṣedhārtham ca . ayādeśapratiṣedhārtham ca vikṛtagrahaṇam kriyate . hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt . hrasvādeśe hi sati ayādeśaḥ prasajyeta . pragūhya gataḥ . kim kāraṇam . ūttvasya asiddhatvāt . asiddham ūttvam . tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta . viṣayārthena tāvat na arthaḥ gohigrahaṇena . praśliṣṭanirdeśāt siddham . praśliṣṭanirdeśaḥ ayam . u-ūt : ūt iti . tatra hrasvasya avakāśaḥ : nijuguhatuḥ , nijuguhuḥ . guṇasya avakāśaḥ : nigoḍhā , nogoḍhum . iha ubhayam prāpnoti : nigūhayati , nigūhakaḥ . paratvāt guṇe kṛte āntaryataḥ dīrghasya dīrghaḥ bhaviṣyati . ayādeśapratiṣedhārthena api na arthaḥ . samānāśrayavacanāt siddham . samānāśrayam asiddham bhavati vyāśrayam ca etat . katham . ṇau ūttvam ṇeḥ lyapi ayādeśaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१२।१०-१५ रो इव्।७५४ अथ किमर्थम् दुषेः विकृतस्य ग्रहणम् क्रियते न पुनः दुषः इति एव उच्येत । दोषिग्रहणम् च । किम् । अयादेशप्रतिषेधार्थम् ह्रस्वादेशे हि अयादेशप्रसङ्गः ऊत्त्वस्य असिद्धत्वात् । ह्रस्वादेशे हि सति अयादेशः प्रसज्येत । प्रदूष्य गतः । किम् कारणम् । ऊत्त्वस्य असिद्धत्वात् । असिद्धम् ऊत्त्वम् । तस्य असिद्धत्वात् ल्यपि लघुपूर्वात् इति अयादेशः प्रसज्येत । अत्र अपि समानाश्रयवचनात् सिद्धम् इति एव ।

KA III.212.10-15 Ro IV.754 atha kimartham duṣeḥ vikṛtasya grahaṇam kriyate na punaḥ duṣaḥ iti eva ucyeta . doṣigrahaṇam ca . kim . ayādeśapratiṣedhārtham hrasvādeśe hi ayādeśaprasaṅgaḥ ūttvasya asiddhatvāt . hrasvādeśe hi sati ayādeśaḥ prasajyeta . pradūṣya gataḥ . kim kāraṇam . ūttvasya asiddhatvāt . asiddham ūttvam . tasya asiddhatvāt lyapi laghupūrvāt iti ayādeśaḥ prasajyeta . atra api samānāśrayavacanāt siddham iti eva .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१२।१७-२१३।४ रो इव्।७५४-७५५ चिण्णमुलोः णिज्व्यवेतानाम् यङ्लोपे च उपसङ्ख्यानम् कर्तव्यम् । शमयन्तम् प्रयोजितवान् , अशमि , अशामि , शमम् शमम् , शामम् शामम् । शंशमयतेः : अशंशमि , अशंशामि , शंशमम् शंशमम् , शंशामम् शंशामम् । किम् पुनः कारणम् न सिध्यति । चिण्णमुल्परे णौ मिताम् अङ्गानाम् दीर्घः भवति इति उच्यते । यः च अत्र चिण्णमुल्परः न तस्मिन् मित् अङ्गम् यस्मिन् च मित् अङ्गम् न असौ चिण्णमुल्परः इति । लोपे कृते चिण्णमुल्परः भवति । स्थानिवद्भावात् न चिण्णमुल्परः । ननु च प्रतिषिध्यते अत्र स्थानिवद्भावः दीर्घविधिम् प्रति न स्थानिवत् इति । एवम् अपि असिद्धत्वात् न प्राप्नोति । एवम् तर्हि चिण्णमुलोः णिज्व्यवेतानाम् यङ्लोपे च अन्तरङ्गलक्षणत्वात् सिद्धम् । किम् इदम् अन्तरङ्गलक्षणत्वात् इति । यावत् ब्रूयात् समानाश्रयवचनात् सिद्धम् इति एव व्याश्रयम् च एतत् । कथम् । णेः णौ लोपः णौ चिण्णमुल्परे मिताम् अङ्गानाम् दीर्घत्वम् उच्यते । तस्मात् न अर्थः उपसङ्ख्यानेन इति ।

KA III.212.17-213.4 Ro IV.754-755 ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca upasaṅkhyānam kartavyam . śamayantam prayojitavān , aśami , aśāmi , śamam śamam , śāmam śāmam . śaṃśamayateḥ : aśaṃśami , aśaṃśāmi , śaṃśamam śaṃśamam , śaṃśāmam śaṃśāmam . kim punaḥ kāraṇam na sidhyati . ciṇṇamulpare ṇau mitām aṅgānām dīrghaḥ bhavati iti ucyate . yaḥ ca atra ciṇṇamulparaḥ na tasmin mit aṅgam yasmin ca mit aṅgam na asau ciṇṇamulparaḥ iti . lope kṛte ciṇṇamulparaḥ bhavati . sthānivadbhāvāt na ciṇṇamulparaḥ . nanu ca pratiṣidhyate atra sthānivadbhāvaḥ dīrghavidhim prati na sthānivat iti . evam api asiddhatvāt na prāpnoti . evam tarhi ciṇṇamuloḥ ṇijvyavetānām yaṅlope ca antaraṅgalakṣaṇatvāt siddham . kim idam antaraṅgalakṣaṇatvāt iti . yāvat brūyāt samānāśrayavacanāt siddham iti eva vyāśrayam ca etat . katham . ṇeḥ ṇau lopaḥ ṇau ciṇṇamulpare mitām aṅgānām dīrghatvam ucyate . tasmāt na arthaḥ upasaṅkhyānena iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१३।६-९ रो इव्।७५६ अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् इह अपि यथा स्यात् : समुपाभिच्छादः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । यत्र त्रिप्रभृतयः सन्ति द्वौ अपि तत्र स्तः । तत्र अद्व्युपसर्गस्य इति एव सिद्धम् । न वै एषः लोके सम्प्रत्ययः । न हि द्विपुत्रः आनीयताम् इति उक्ते त्रिपुत्रः आनीयते । तस्मात् अद्विप्रभृत्युपसर्गस्य इति वक्तव्यम् ।

KA III.213.6-9 Ro IV.756 adviprabhṛtyupasargasya iti vaktavyam iha api yathā syāt : samupābhicchādaḥ iti . tat tarhi vaktavyam . na vaktavyam . yatra triprabhṛtayaḥ santi dvau api tatra staḥ . tatra advyupasargasya iti eva siddham . na vai eṣaḥ loke sampratyayaḥ . na hi dviputraḥ ānīyatām iti ukte triputraḥ ānīyate . tasmāt adviprabhṛtyupasargasya iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१३।११-१३ रो इव्।७५६-७५७ हल्ग्रहणम् अनर्थकम् अन्यत्र अपि दर्शनात् । हल्ग्रहणम् अनर्थकम् । किम् कारणम् । अन्यत्र अपि दर्शनात् । अन्यत्र अपि लोपः दृश्यते । अग्निः तृणानि बब्सति । शरावे बप्सति चरुः ।

KA III.213.11-13 Ro IV.756-757 halgrahaṇam anarthakam anyatra api darśanāt . halgrahaṇam anarthakam . kim kāraṇam . anyatra api darśanāt . anyatra api lopaḥ dṛśyate . agniḥ tṛṇāni babsati . śarāve bapsati caruḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१३।१५-२१४।७ रो इव्।७५७-७५८ इटः प्रतिषेधः वक्तव्यः । रुदिहि स्वपिहि । झलः इति धित्वम् प्राप्नोति । हेः धित्वे हलधिकारात् इटः अप्रतिषेधः । हेः धित्वे हलधिकारात् इटः अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । धित्वम् कस्मात् न भवति । हलधिकारात् । प्रकृतम् हल्ग्रहणम् अनुवर्तते । क्व प्रकृतम् । घसिभसोः हलि इति । तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । तत् वै तत्र प्रत्याख्यायते । तत्र प्रत्याख्यातम् सत् यया विभक्त्या निर्दिश्यमानम् अर्थवत्तया निर्दिष्टम् इह अनुवर्तिष्यते । अथ वा हुझल्भयः इति एषा पञ्चमी हलि इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति । अथ वा निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति । यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति । इटा व्यवहितत्वात् । यदि एवम् छिन्धकि भिन्धकि इति अत्र धित्वम् न प्राप्नोति । धित्वे कृते अकच् भविष्यति । इदम् इह सम्प्रधार्यम् । धित्वम् क्रियताम् अकच् इति किम् अत्र कर्तव्यम् । परत्वात् धित्वम् । नित्यः अकच् । कृते अपि धित्वे प्राप्नोति अकृते अपि । अकच् अपि अनित्यः । अन्यस्य कृते धित्वे प्राप्नोति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन् विधिः अनित्यः भवति । उभयोः अनित्ययोः परत्वात् धित्वे कृते अकच् भविष्यति । अथ वा हकारस्य एव अशक्तिजेन इकारेण ग्रहणम् ।

KA III.213.15-214.7 Ro IV.757-758 iṭaḥ pratiṣedhaḥ vaktavyaḥ . rudihi svapihi . jhalaḥ iti dhitvam prāpnoti . heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ . heḥ dhitve haladhikārāt iṭaḥ apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . dhitvam kasmāt na bhavati . haladhikārāt . prakṛtam halgrahaṇam anuvartate . kva prakṛtam . ghasibhasoḥ hali iti . tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . tat vai tatra pratyākhyāyate . tatra pratyākhyātam sat yayā vibhaktyā nirdiśyamānam arthavattayā nirdiṣṭam iha anuvartiṣyate . atha vā hujhalbhayaḥ iti eṣā pañcamī hali iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti . atha vā nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati . yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . iṭā vyavahitatvāt . yadi evam chindhaki bhindhaki iti atra dhitvam na prāpnoti . dhitve kṛte akac bhaviṣyati . idam iha sampradhāryam . dhitvam kriyatām akac iti kim atra kartavyam . paratvāt dhitvam . nityaḥ akac . kṛte api dhitve prāpnoti akṛte api . akac api anityaḥ . anyasya kṛte dhitve prāpnoti anyasya akṛte śabdāntarasya ca prāpnuvan vidhiḥ anityaḥ bhavati . ubhayoḥ anityayoḥ paratvāt dhitve kṛte akac bhaviṣyati . atha vā hakārasya eva aśaktijena ikāreṇa grahaṇam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१४।९-२५ रो इव्।७५९-७६० चिणः लुकि तग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । इह मा भूत् : अकारितराम् , अहारितराम् इति । चिणः लुकि तग्रहणानर्थक्यम् सङ्घातस्य अप्रत्ययत्वात् । चिणः लुकि तग्रहणम् अनर्थकम् । किम् कारणम् । सङ्घातस्य अप्रत्ययत्वात् । सङ्घातस्य लुक् कस्मात् न भवति । अप्रत्ययत्वात् । प्रत्ययस्य लुक्श्लुलुपः भवन्ति इति उच्यते न च सङ्घातः प्रत्ययः । तलोपे तर्हि कृते परस्य प्राप्नोति । तलोपस्य च असिद्धत्वात् । असिद्धः तलोपः । तस्य असिद्धत्वात् न भविष्यति । कार्यकृतत्वात् वा । अथ वा कृतः चिणः लुक् इति कृत्वा पुनः न भविष्यति लुक् । तत् यथा वसन्ते ब्राह्मणः अग्नीन् आदधीत इति सकृत् आधाय कृतः शास्त्रार्थः इति कृत्वा पुनः प्रवृत्तिः न भवति । विषमः उपन्यासः । युक्तम् यत् तस्य एव पुनः प्रवृत्तिः न स्यात् । यत् तु तदाश्रयम् प्राप्नोति न तत् शक्यम् बाधितुम् । तत् यथा वसन्ते ब्राह्मणः अग्निष्टोमादिभिः क्रतुभिः यजेत इति अग्न्याधाननिमित्तम् वसन्ते वसन्ते इज्यते । तस्मात् पूर्वोक्तौ एव परिहारौ । अथ वा क्ङिति इति वर्तते । क्व प्रकृतम् । गमहनजनखनघसाम् लोपः क्ङिति अनङि इति । तत् वै सप्तमीनिर्दिष्टम् षष्ठीनिर्दिष्टेन च इह अर्थः । चिणः लुक् इति एषा पञ्चमी क्ङिति इति सप्तम्याः षष्ठीम् प्रकल्पयिष्यति तस्मात् इति उत्तरस्य इति ।

KA III.214.9-25 Ro IV.759-760 ciṇaḥ luki tagrahaṇam kartavyam . kim prayojanam . iha mā bhūt : akāritarām , ahāritarām iti . ciṇaḥ luki tagrahaṇānarthakyam saṅghātasya apratyayatvāt . ciṇaḥ luki tagrahaṇam anarthakam . kim kāraṇam . saṅghātasya apratyayatvāt . saṅghātasya luk kasmāt na bhavati . apratyayatvāt . pratyayasya lukślulupaḥ bhavanti iti ucyate na ca saṅghātaḥ pratyayaḥ . talope tarhi kṛte parasya prāpnoti . talopasya ca asiddhatvāt . asiddhaḥ talopaḥ . tasya asiddhatvāt na bhaviṣyati . kāryakṛtatvāt vā . atha vā kṛtaḥ ciṇaḥ luk iti kṛtvā punaḥ na bhaviṣyati luk . tat yathā vasante brāhmaṇaḥ agnīn ādadhīta iti sakṛt ādhāya kṛtaḥ śāstrārthaḥ iti kṛtvā punaḥ pravṛttiḥ na bhavati . viṣamaḥ upanyāsaḥ . yuktam yat tasya eva punaḥ pravṛttiḥ na syāt . yat tu tadāśrayam prāpnoti na tat śakyam bādhitum . tat yathā vasante brāhmaṇaḥ agniṣṭomādibhiḥ kratubhiḥ yajeta iti agnyādhānanimittam vasante vasante ijyate . tasmāt pūrvoktau eva parihārau . atha vā kṅiti iti vartate . kva prakṛtam . gamahanajanakhanaghasām lopaḥ kṅiti anaṅi iti . tat vai saptamīnirdiṣṭam ṣaṣṭhīnirdiṣṭena ca iha arthaḥ . ciṇaḥ luk iti eṣā pañcamī kṅiti iti saptamyāḥ ṣaṣṭhīm prakalpayiṣyati tasmāt iti uttarasya iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१५।२-११ रो इव्।७६०-७६१ कथम् इदम् विज्ञायते । उकारात् प्रत्ययात् इति आहोस्वित् उकारान्तात् प्रत्ययात् इति । किम् च अतः । यदि विज्ञायते उकारात् प्रत्ययात् इति सिद्धम् तनु कुरु । चिनु सुनु इति न सिध्यति । अथ विज्ञायते उकारान्तात् प्रत्ययात् इति सिद्धम् चिनु सुनु इति । तनु कुरु न सिध्यति । तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् : तक्ष्णुहि , अक्ष्णुहि । आप्नुहि शक्नुहि इति अत्र न स्यात् । यथा इच्छसि तथा अस्तु । अस्तु तावत् उकारात् प्रत्ययात् इति । कथम् चिनु सुनु इति । तदन्तविधिना भविष्यति । अथ वा पुनः अस्तु उकारान्तात् प्रत्ययात् इति । कथम् तनु कुरु इति । व्यप्देशिवद्भावेन भविष्यति । यत् अपि उच्यते तथा असंयोगपूर्वग्रहणेन इह एव पर्युदासः स्यात् : तक्ष्णुहि , अक्ष्णुहि । आप्नुहि शक्नुहि इति अत्र न स्यात् इति । न अस्माभिः असंयोगपूर्वग्रहणेन उकारान्तम् विशेष्यते । किम् तर्हि । उकारः । उकारः यः असंयोगपूर्वः तदन्तात् प्रत्ययात् इति ।

KA III.215.2-11 Ro IV.760-761 katham idam vijñāyate . ukārāt pratyayāt iti āhosvit ukārāntāt pratyayāt iti . kim ca ataḥ . yadi vijñāyate ukārāt pratyayāt iti siddham tanu kuru . cinu sunu iti na sidhyati . atha vijñāyate ukārāntāt pratyayāt iti siddham cinu sunu iti . tanu kuru na sidhyati . tathā asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi . āpnuhi śaknuhi iti atra na syāt . yathā icchasi tathā astu . astu tāvat ukārāt pratyayāt iti . katham cinu sunu iti . tadantavidhinā bhaviṣyati . atha vā punaḥ astu ukārāntāt pratyayāt iti . katham tanu kuru iti . vyapdeśivadbhāvena bhaviṣyati . yat api ucyate tathā asaṃyogapūrvagrahaṇena iha eva paryudāsaḥ syāt : takṣṇuhi , akṣṇuhi . āpnuhi śaknuhi iti atra na syāt iti . na asmābhiḥ asaṃyogapūrvagrahaṇena ukārāntam viśeṣyate . kim tarhi . ukāraḥ . ukāraḥ yaḥ asaṃyogapūrvaḥ tadantāt pratyayāt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१५।१२-१७ रो इव्।७६०-७६२ उतः च प्रत्ययात् छन्दोवावचनम् । उतः च प्रत्ययात् इति अत्र छन्दसि वा इति वक्तव्यम् । अव स्थिर तनुहि यातुजुनाम् । धिनुहि यज्ञम् धिनुहि यज्ञपतिम् । तेन मा भागिनम् कृणुहि । उत्तरार्थम् च । के चित् तावत् आहुः छन्दोग्रहणम् कर्तव्यम् इति । अपरे आहुः : वावचनम् कर्तव्यम् इति । लोपः च अस्य अन्यरतस्याम् म्वोः इति अत्र अन्यरतस्याङ्ग्रहणम् न कर्तव्यम् भवति ।

KA III.215.12-17 Ro IV.760-762 utaḥ ca pratyayāt chandovāvacanam . utaḥ ca pratyayāt iti atra chandasi vā iti vaktavyam . ava sthira tanuhi yātujunām . dhinuhi yajñam dhinuhi yajñapatim . tena mā bhāginam kṛṇuhi . uttarārtham ca . ke cit tāvat āhuḥ chandograhaṇam kartavyam iti . apare āhuḥ : vāvacanam kartavyam iti . lopaḥ ca asya anyaratasyām mvoḥ iti atra anyaratasyāṅgrahaṇam na kartavyam bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१५।१९-२१७।५ रो इव्।७६२-७६५ सार्वधातुके इति किमर्थम् । इह मा भूत् : सञ्चस्करतुः , सञ्चस्करुः । स्यान्तस्य प्रतिषेधः वक्तव्यः : करिष्यति करिष्यतः । कृञः उत्त्वे उकारान्तनिर्देशात् स्यान्तस्य अप्रतिषेधः । कृञः उत्त्वे उकारान्तनिर्देशात् स्यान्तस्य अप्रतिषेधः । अनर्थकः प्रतिषेधः अप्रतिषेधः । उत्त्वम् कस्मात् न भवति । उकारान्तनिर्देशात् । अशक्यः करोतौ उकारान्तनिर्देशः तन्त्रम् आश्रयितुम् । इह सम्परिभ्याम् भूषणसमवाययोः क्रोतौ इह एव स्यात् : संस्करोति । संस्कर्ता संसक्र्तुम् इति अत्र न स्यात् । न ब्रूमः अस्मात् उकारान्तनिर्देशात् यः अयम् करोति इति । किम् तर्हि । उकारप्रकरणात् उकारान्तम् अङ्गम् अभिसम्बध्यते । उतः इति वर्तते । यदि एवम् न अर्थः सार्वधातुकग्रहणेन । कस्मात् न भवति सञ्चस्करतुः , सञ्चस्करुः इति । उतः इति वर्तते । उत्तरार्थम् तर्हि सार्वधातुकग्रहणम् कर्तव्यम् । श्नसोः अल्लोपः इति । श्नम् सार्वधातुके एव । अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् । उत्तरार्थम् एव तर्हि । श्नाभ्यस्तयोः आतः इति । श्ना सार्वधातुके एव । अभ्यस्तम् अपि आकारान्तम् आर्धधातुके न अस्ति । ननु च इदम् अस्ति : अप्सु यायावरः प्रवपेत पिण्डान् इति । न एतत् आकारान्तम् । यकारान्तम् एतत् । उत्तरार्थम् एव तर्हि । ई हलि अघोः इति । तत्र अपि श्नाभ्यस्तयोः इति एव । अतः अपि उत्तरार्थम् एव तर्हि । इद् दरिद्रस्य इति । वक्ष्यति एतत् : दरिद्रातेः आर्धधातुके लोपः सिद्धः च प्रत्ययविधौ इति । अतः अपि उत्तरार्थम् । भियः अन्यतरस्याम् । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थम् एव । जहातेः च । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थम् । आ च हौ । हौ इति उच्यते । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थम् । लोपः यि । अभ्यस्तस्य इति एव । अतः अपि उत्तरार्थम् । घव्सोः एत् हौ अभ्यासलोपः च इति । हौ इति उच्यते । तत् एव तर्हि प्रयोजनम् । श्नसोः अल्लोपः इति । ननु च उक्तम् श्नम् सार्वधातुके एव । अस्तेः अपि आर्धधातुके भूभावेन भवितव्यम् इति । अनुप्रयोगे तु भुवा अस्त्यबाधनम् स्मरन्ति कर्तुः वचनात् मनीषिणः । अनुप्रयोगे तु भुवा अस्तेः अबाधनम् इष्यते : ईहाम् आस , ईहाम् आसतुः , ईहाम् आसुः इति । किम् च स्यात् यदि अत्र लोपः स्यात् । लोपे द्विर्वचनासिद्धिः । लोपे कृते अनच्कत्वात् द्विर्वचनम् स्यात् । स्थानिवद्भादात् भविष्यति । स्थानिवत् इति चेत् कृते भवेत् द्वित्वे । कृते द्वित्वे लोपः प्राप्नोति । अस्ति तर्हि परस्य लोपः । अभ्यासस्य यः अकारः तस्य दीर्घत्वम् भविष्यति । न एवम् सिध्यति कस्मात् प्रत्यङ्गत्वात् भवेत् हि पररूपम् । न एवम् सिध्यति । कस्मात् । प्रत्यङ्गत्वात् पररूपम् प्राप्नोति । तस्मिन् च कृते लोपः । पररूपे च कृते लोपः प्राप्नोति । दीर्घत्वम् बाधकम् भवेत् तत्र । अतः आदेः इति दीर्घत्वम् बाधकम् भविष्यति । इदम् तर्हि प्रयोजनम् । सार्वधातुके भूतपूर्वमात्रे अपि यथा स्यात् : कुरु इति ।

KA III.215.19-217.5 Ro IV.762-765 sārvadhātuke iti kimartham . iha mā bhūt : sañcaskaratuḥ , sañcaskaruḥ . syāntasya pratiṣedhaḥ vaktavyaḥ : kariṣyati kariṣyataḥ . kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ . kṛñaḥ uttve ukārāntanirdeśāt syāntasya apratiṣedhaḥ . anarthakaḥ pratiṣedhaḥ apratiṣedhaḥ . uttvam kasmāt na bhavati . ukārāntanirdeśāt . aśakyaḥ karotau ukārāntanirdeśaḥ tantram āśrayitum . iha samparibhyām bhūṣaṇasamavāyayoḥ krotau iha eva syāt : saṃskaroti . saṃskartā saṃsakrtum iti atra na syāt . na brūmaḥ asmāt ukārāntanirdeśāt yaḥ ayam karoti iti . kim tarhi . ukāraprakaraṇāt ukārāntam aṅgam abhisambadhyate . utaḥ iti vartate . yadi evam na arthaḥ sārvadhātukagrahaṇena . kasmāt na bhavati sañcaskaratuḥ , sañcaskaruḥ iti . utaḥ iti vartate . uttarārtham tarhi sārvadhātukagrahaṇam kartavyam . śnasoḥ allopaḥ iti . śnam sārvadhātuke eva . asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam . uttarārtham eva tarhi . śnābhyastayoḥ ātaḥ iti . śnā sārvadhātuke eva . abhyastam api ākārāntam ārdhadhātuke na asti . nanu ca idam asti : apsu yāyāvaraḥ pravapeta piṇḍān iti . na etat ākārāntam . yakārāntam etat . uttarārtham eva tarhi . ī hali aghoḥ iti . tatra api śnābhyastayoḥ iti eva . ataḥ api uttarārtham eva tarhi . id daridrasya iti . vakṣyati etat : daridrāteḥ ārdhadhātuke lopaḥ siddhaḥ ca pratyayavidhau iti . ataḥ api uttarārtham . bhiyaḥ anyatarasyām . abhyastasya iti eva . ataḥ api uttarārtham eva . jahāteḥ ca . abhyastasya iti eva . ataḥ api uttarārtham . ā ca hau . hau iti ucyate . abhyastasya iti eva . ataḥ api uttarārtham . lopaḥ yi . abhyastasya iti eva . ataḥ api uttarārtham . ghavsoḥ et hau abhyāsalopaḥ ca iti . hau iti ucyate . tat eva tarhi prayojanam . śnasoḥ allopaḥ iti . nanu ca uktam śnam sārvadhātuke eva . asteḥ api ārdhadhātuke bhūbhāvena bhavitavyam iti . anuprayoge tu bhuvā astyabādhanam smaranti kartuḥ vacanāt manīṣiṇaḥ . anuprayoge tu bhuvā asteḥ abādhanam iṣyate : īhām āsa , īhām āsatuḥ , īhām āsuḥ iti . kim ca syāt yadi atra lopaḥ syāt . lope dvirvacanāsiddhiḥ . lope kṛte anackatvāt dvirvacanam syāt . sthānivadbhādāt bhaviṣyati . sthānivat iti cet kṛte bhavet dvitve . kṛte dvitve lopaḥ prāpnoti . asti tarhi parasya lopaḥ . abhyāsasya yaḥ akāraḥ tasya dīrghatvam bhaviṣyati . na evam sidhyati kasmāt pratyaṅgatvāt bhavet hi pararūpam . na evam sidhyati . kasmāt . pratyaṅgatvāt pararūpam prāpnoti . tasmin ca kṛte lopaḥ . pararūpe ca kṛte lopaḥ prāpnoti . dīrghatvam bādhakam bhavet tatra . ataḥ ādeḥ iti dīrghatvam bādhakam bhaviṣyati . idam tarhi prayojanam . sārvadhātuke bhūtapūrvamātre api yathā syāt : kuru iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१७।७-८ रो इव्। ७६५-७६६ अथ अत्र तपरकरणम् किमर्थम् । इह मा भूत् : आस्ताम् , आसन् । न एतत् अस्ति प्रयोजनम् । आटः असिद्धत्वात् न भविष्यति ।

KA III.217.7-8 Ro IV. 765-766 atha atra taparakaraṇam kimartham . iha mā bhūt : āstām , āsan . na etat asti prayojanam . āṭaḥ asiddhatvāt na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१७।१०-१८ रो इव्।७६६ दरिद्रातेः आर्धधातुके लोपः । दरिद्रातेः आर्धधातुके लोपः वक्तव्यः । सिद्धः च प्रत्ययविधौ । सः च सिद्धः प्रत्ययविधौ । किम् प्रयोजनम् । दरिद्राति इति दरिद्रः । आकारान्तलक्षणः प्रत्ययविधिः मा भूत् इति । न दरिद्रायके लोपः दरिद्राणे च न इष्यते । दिदरिद्रासस्ति इति एके दिदरिद्रिषति इति वा । वा अद्यतन्याम् । अद्यतन्याम् वा इति वक्तव्यम् । अदरिद्रीत् , अदरिद्रासीत् ।

KA III.217.10-18 Ro IV.766 daridrāteḥ ārdhadhātuke lopaḥ . daridrāteḥ ārdhadhātuke lopaḥ vaktavyaḥ . siddhaḥ ca pratyayavidhau . saḥ ca siddhaḥ pratyayavidhau . kim prayojanam . daridrāti iti daridraḥ . ākārāntalakṣaṇaḥ pratyayavidhiḥ mā bhūt iti . na daridrāyake lopaḥ daridrāṇe ca na iṣyate . didaridrāsasti iti eke didaridriṣati iti vā . vā adyatanyām . adyatanyām vā iti vaktavyam . adaridrīt , adaridrāsīt .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१७।२०-२१८।२० रो इव्।७६७-७६८ णकारषकारादेशादेः एत्त्ववचनम् लिटि । णकारषकारादेशादेः एत्त्वम् लिटि वक्तव्यम् । नेमतुः , नेमुः , सेहे, सेहाते , सेहिरे । किम् पुनः कारणम् न सिध्यति । अनादेशादेः इति ल्प्रतिषेधः प्राप्नोति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । लिटा अत्र आदेशादिम् विशेषयिष्यामः । लिटि यः आदेशादिः तदादेः न इति । अस्ति अन्यत् लिड्ग्रहणस्य प्रयोजनम् । किम् । इह मा भूत् : पक्ता पक्तुम् । न एतत् अस्ति प्रयोजनम् । क्ङिति इति वर्तते । एवम् अपि पक्वः पक्ववान् इति अत्र प्राप्नोति । अभ्यासलोपसन्नियोगेन एत्त्वम् उच्यते न च अत्र अभ्यासलोपसम् पश्यामः । एवम् अपि पापच्यते अत्र प्राप्नोति । दीर्घत्वम् अत्र बाधकम् भविष्यति । न अप्राप्ते अभ्यासविकारे एत्तम् अरभ्यते । तत् यथ अन्यान् अभ्यासविकारान् बाधते एवम् दीर्घत्वम् अपि बाधेत । सत्यम् एवम् एतत् । अभ्यासविकारेषु तु ज्येष्ठमध्यमकनीयांसः प्रकाराः भवन्ति । तत्र ह्रस्वहलादिशेषौ उत्सर्गौ । तयोः दीर्घत्वम् अपवादः एत्त्वम् च । अपवादविप्रतिषेधात् दीर्घत्वम् भविष्यति । इह तर्हि बभणतुः , बभणुः इति अभ्यासादेशस्य असिद्धत्वात् एत्त्वम् प्राप्नोति । फलिभजिग्रहणम् तु ज्ञापकम् अभ्यासादेशसिद्धत्वस्य । यत् अयम् फलिभज्योः ग्रहणम् करोति तत् ज्ञापयति आचार्यः सिद्धः अभ्यासादेशः एत्त्वे इति । यदि एवम् प्रथमतृतीयादीनाम् आदेशादित्वात् एत्त्वाभावः । प्रथमतृतीयादीनाम् तर्हि आदेशादित्वात् एत्त्वम् न प्राप्नोति । पेचतुः , पेचुः , देभतुः , देभुः । न वा शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य । न वा एषः दोषः । किम् कारणम् । शसिदद्योः प्रतिषेधः ज्ञापकः रूपाभेदे एत्त्वविज्ञानस्य । यत् अयम् शसिदद्योः प्रतिषेधम् शास्ति तत् ज्ञापयति आचार्यः रूपाभेदेन यः आदेशादयः न तेषाम् प्रतिषेधः इति ।

KA III.217.20-218.20 Ro IV.767-768 ṇakāraṣakārādeśādeḥ ettvavacanam liṭi . ṇakāraṣakārādeśādeḥ ettvam liṭi vaktavyam . nematuḥ , nemuḥ , sehe, sehāte , sehire . kim punaḥ kāraṇam na sidhyati . anādeśādeḥ iti lpratiṣedhaḥ prāpnoti . tat tarhi vaktavyam . na vaktavyam . liṭā atra ādeśādim viśeṣayiṣyāmaḥ . liṭi yaḥ ādeśādiḥ tadādeḥ na iti . asti anyat liḍgrahaṇasya prayojanam . kim . iha mā bhūt : paktā paktum . na etat asti prayojanam . kṅiti iti vartate . evam api pakvaḥ pakvavān iti atra prāpnoti . abhyāsalopasanniyogena ettvam ucyate na ca atra abhyāsalopasam paśyāmaḥ . evam api pāpacyate atra prāpnoti . dīrghatvam atra bādhakam bhaviṣyati . na aprāpte abhyāsavikāre ettam arabhyate . tat yatha anyān abhyāsavikārān bādhate evam dīrghatvam api bādheta . satyam evam etat . abhyāsavikāreṣu tu jyeṣṭhamadhyamakanīyāṃsaḥ prakārāḥ bhavanti . tatra hrasvahalādiśeṣau utsargau . tayoḥ dīrghatvam apavādaḥ ettvam ca . apavādavipratiṣedhāt dīrghatvam bhaviṣyati . iha tarhi babhaṇatuḥ , babhaṇuḥ iti abhyāsādeśasya asiddhatvāt ettvam prāpnoti . phalibhajigrahaṇam tu jñāpakam abhyāsādeśasiddhatvasya . yat ayam phalibhajyoḥ grahaṇam karoti tat jñāpayati ācāryaḥ siddhaḥ abhyāsādeśaḥ ettve iti . yadi evam prathamatṛtīyādīnām ādeśāditvāt ettvābhāvaḥ . prathamatṛtīyādīnām tarhi ādeśāditvāt ettvam na prāpnoti . pecatuḥ , pecuḥ , debhatuḥ , debhuḥ . na vā śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya . na vā eṣaḥ doṣaḥ . kim kāraṇam . śasidadyoḥ pratiṣedhaḥ jñāpakaḥ rūpābhede ettvavijñānasya . yat ayam śasidadyoḥ pratiṣedham śāsti tat jñāpayati ācāryaḥ rūpābhedena yaḥ ādeśādayaḥ na teṣām pratiṣedhaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१८।२१-२१९।७ रो इव्।७६८-७६९ दम्भः एत्त्वम् । दम्भः एत्त्वम् वक्तव्यम् । देभतुः , देभुः । किम् पुनः कारणम् न सिध्यति । नलोपस्य असिद्धत्वात् । असिद्धः नलोपः । तस्य असिद्धत्वात् एत्त्वम् न प्राप्नोति । नशिमन्योः अलिटि एत्त्वम् । नशिमन्योः अलिटि एत्त्वम् वक्तव्यम् । छन्दसि अमिपच्योः अपि । छन्दसि अमिपच्योः अपि इति वक्तव्यम् । किम् प्रयोजनम् । अनेशम् मेनका इति एतत् व्येमानम् लिङि पेचिरन् । यज् आयेजे वप् आवेपे दम्भः एत्त्वम् अलक्षणम् । असिद्धत्वात् नलोपस्य दम्भः एत्त्वम् न सिध्यति । श्नसोः अत्त्वे तकारेण ज्ञाप्यते तु एत्त्वशासनम् । अनित्यः अयम् विधिः इति ।

KA III.218.21-219.7 Ro IV.768-769 dambhaḥ ettvam . dambhaḥ ettvam vaktavyam . debhatuḥ , debhuḥ . kim punaḥ kāraṇam na sidhyati . nalopasya asiddhatvāt . asiddhaḥ nalopaḥ . tasya asiddhatvāt ettvam na prāpnoti . naśimanyoḥ aliṭi ettvam . naśimanyoḥ aliṭi ettvam vaktavyam . chandasi amipacyoḥ api . chandasi amipacyoḥ api iti vaktavyam . kim prayojanam . aneśam menakā iti etat vyemānam liṅi peciran . yaj āyeje vap āvepe dambhaḥ ettvam alakṣaṇam . asiddhatvāt nalopasya dambhaḥ ettvam na sidhyati . śnasoḥ attve takāreṇa jñāpyate tu ettvaśāsanam . anityaḥ ayam vidhiḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१९।९-१९ रो इव्।७७०-७७१ थल्ग्रहणम् किमर्थम् । थल्ग्रहणम् अक्ङिदर्थम् । थल्ग्रहणम् क्रियते अक्ङिदर्थम् । अक्ङिति एत्त्वम् यथा स्यात् । पेचिथ शेकिथ । न एतत् अस्ति प्रयोजनम् । सेड्ग्रहणम् एवे अत्र अक्ङिदर्थम् भविष्यति । इदम् तर्हि प्रयोजनम् । समुच्चयः यथा विज्ञायेत । थलि च सेटि क्ङिति च सेटि इति । किम् प्रयोजनम् । पेचिव पेचिम। तत्र पचादिभ्यः इड्वचनम् इति वक्ष्यति । तत् न वक्तव्यम् भवति । इह कस्मात् न भवति : लुलविथ । गुणस्य प्रतिषेधात् । इह अपि तर्हि न प्राप्नोति : पेचिथ शेकिथ । गुणस्य यः अकारः इति एवम् एतत् विज्ञास्यते । एवम् अपि शशरिथ , अत्र प्राप्नोति । गुणस्य एषः अकारः । कथम् । वृद्धिः भवति गुणः भवति इति रेफशिराः गुणवृद्धिसञ्ज्ञकः अभिनिर्वर्तते । अथ वा आचार्यप्रवृत्तिः ज्ञापयति ने एवञ्जातीयकानाम् एत्त्वम् भवति इति यत् अयम् तॄफलभजत्रपः च इति तॄग्रहणम् करोति ।

KA III.219.9-19 Ro IV.770-771 thalgrahaṇam kimartham . thalgrahaṇam akṅidartham . thalgrahaṇam kriyate akṅidartham . akṅiti ettvam yathā syāt . pecitha śekitha . na etat asti prayojanam . seḍgrahaṇam eve atra akṅidartham bhaviṣyati . idam tarhi prayojanam . samuccayaḥ yathā vijñāyeta . thali ca seṭi kṅiti ca seṭi iti . kim prayojanam . peciva pecima. tatra pacādibhyaḥ iḍvacanam iti vakṣyati . tat na vaktavyam bhavati . iha kasmāt na bhavati : lulavitha . guṇasya pratiṣedhāt . iha api tarhi na prāpnoti : pecitha śekitha . guṇasya yaḥ akāraḥ iti evam etat vijñāsyate . evam api śaśaritha , atra prāpnoti . guṇasya eṣaḥ akāraḥ . katham . vṛddhiḥ bhavati guṇaḥ bhavati iti rephaśirāḥ guṇavṛddhisañjñakaḥ abhinirvartate . atha vā ācāryapravṛttiḥ jñāpayati ne evañjātīyakānām ettvam bhavati iti yat ayam tṝphalabhajatrapaḥ ca iti tṝgrahaṇam karoti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२१९।२१-२२०।८ रो इव्।७७१-७७२ राधादिषु स्थानिनिर्देशः । राधादिषु स्थानिनिर्देशः कर्तव्यः । न कर्तव्यः । एकहल्मध्ये इति वर्तते । यदि एवम् त्रेसतुः , त्रेसुः , र शब्दस्य एत्त्वम् प्राप्नोति । अस्तु । अलः अन्त्यस्य विधयः भवन्ति इति अकारस्य भविष्यति । अनर्थके अलः अन्त्यविधिः न इति एवम् न प्राप्नोति । न एतस्याः परिभाषायाः सन्ति प्रयोजनानि । अथ वा अतः इति वर्तते । एवम् अपि राधेः न प्राप्नोति । आकारग्रहणम् अपि प्रकृतम् अनुवर्तते । क्व प्रकृतम् । श्नाभ्यास्तयोः आतः इति । अथ वा श्नसोः अल्लोपः इति अत्र तपरकरणम् प्रत्याख्यायते । तत् प्रकृतम् इह अनुवर्तिष्यते । यदि तत् अनुवर्तते अतः एकहल्मध्ये अनादेशादेः लिटि अस्य च इति अवर्णमात्रस्य एत्त्वम् प्राप्नोति । बबाधे । अकारेण तपरेण अवर्णम् विशेषयिष्यामः । अस्य आतः इति । इह इदानीम् अस्य इति अनुवर्तते अतः इति निवृत्तम् ।

KA III.219.21-220.8 Ro IV.771-772 rādhādiṣu sthāninirdeśaḥ . rādhādiṣu sthāninirdeśaḥ kartavyaḥ . na kartavyaḥ . ekahalmadhye iti vartate . yadi evam tresatuḥ , tresuḥ , ra śabdasya ettvam prāpnoti . astu . alaḥ antyasya vidhayaḥ bhavanti iti akārasya bhaviṣyati . anarthake alaḥ antyavidhiḥ na iti evam na prāpnoti . na etasyāḥ paribhāṣāyāḥ santi prayojanāni . atha vā ataḥ iti vartate . evam api rādheḥ na prāpnoti . ākāragrahaṇam api prakṛtam anuvartate . kva prakṛtam . śnābhyāstayoḥ ātaḥ iti . atha vā śnasoḥ allopaḥ iti atra taparakaraṇam pratyākhyāyate . tat prakṛtam iha anuvartiṣyate . yadi tat anuvartate ataḥ ekahalmadhye anādeśādeḥ liṭi asya ca iti avarṇamātrasya ettvam prāpnoti . babādhe . akāreṇa tapareṇa avarṇam viśeṣayiṣyāmaḥ . asya ātaḥ iti . iha idānīm asya iti anuvartate ataḥ iti nivṛttam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२०।११-१८ रो इव्।७७२-७७३ अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् । अर्वणस् तृ मघोनः च न शिष्यम् । किम् कारणम् । छान्दसम् हि तत् । दृष्टानुविधिः छन्दसि भवति । मतुब्वन्योः विधानात् च । मतुब्वनी खलु अपि छन्दसि विधीयेते । छन्दसि उभयदर्शनात् । उभयम् खलु अपि छन्दसि दृश्यते । इमानि अर्वणः पदानि । अनर्वणम् वृषभम् मन्द्रजिह्वम् ।

KA III.220.11-18 Ro IV.772-773 arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat . arvaṇas tṛ maghonaḥ ca na śiṣyam . kim kāraṇam . chāndasam hi tat . dṛṣṭānuvidhiḥ chandasi bhavati . matubvanyoḥ vidhānāt ca . matubvanī khalu api chandasi vidhīyete . chandasi ubhayadarśanāt . ubhayam khalu api chandasi dṛśyate . imāni arvaṇaḥ padāni . anarvaṇam vṛṣabham mandrajihvam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२१।२-२२२।१७ रो इव्।७७३-७७७ पादः उपधाह्रस्वत्वम् । पादः उपधाह्रस्वत्वम् वक्तव्यम् । द्विपदः पश्य । आदेशे हि सर्वादेशप्रसङ्गः । आदेशे हि सति सर्वादेशः प्रसज्येत । सर्वस्य द्विपाच्छब्दस्य त्रिपाच्छब्दस्य च पच्छब्दादेशः प्रसज्येत येन विधिः तदन्तस्य इति । तत् तर्हि वक्तव्यम् । न वा निर्दिश्यमानस्य आदेशत्वात् । न वा वक्तव्यम् । किम् कारणम् । निर्दिश्यमानस्य आदेशाः भवन्ति इति एषा परिभाषा कर्तव्या । कः पुनः अत्र विशेषः एषा वा परिभाषा क्रियेत उपधाह्रस्वत्वम् वा उच्येत । अवश्यम् एषा परिभाषा कर्तव्या । बहूनि एतस्याः परिभाषायाः प्रयोजनानि कानि । प्रयोजनम् सुप्तिङादेशे । सुप् । कुमार्याम् , कोशोर्याम् , खट्वायाम् , मालायाम् , तस्याम् , यस्याम् । आड्याट्स्याट्सु कृतेषु साड्याट्स्याट्कस्य आम् प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । इदम् इह सम्प्रधार्यम् । आड्याट्स्याटः क्रियन्ताम् आम् इति किम् अत्र कर्तव्यम् । परत्वात् आम् । नित्याः आड्याट्स्याटः । कृते अपि आमि प्रप्नुवन्ति अकृते अपि । अनित्याः आड्याट्स्याटः । अन्यस्य कृते आमि प्रप्नुवन्ति अन्यस्य अकृते शब्दान्तरस्य च प्राप्नुवन्तः अनित्याः भवन्ति । उभयोः अनित्ययोः परत्वात् आम् । इदम् तर्हि । तस्यै यस्यै । स्याटि कृते सस्याट्कस्य स्मैभावः प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति । स्याटा व्यवहितत्वात् । सुप् । तिङ्। अरुदिताम् अरुदितम् अरुदित इति । इटि कृते सेट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । इदम् इह सम्प्रधार्यम् । इट् क्रियताम् ताम्तम्तामः इति किम् अत्र कर्तव्यम् । परत्वात् इडागमः । अन्तरङ्गाः ताम्तम्तामः । इदम् तर्हि क्रियास्ताम् , क्रियास्तम् , क्रियास्त । यासुटि कृते सयासुट्कस्य ताम्तम्तामादेशाः प्राप्नुवन्ति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । ल्यब्भावे च । ल्यब्भावे च प्रयोजनम् । प्रकृत्य प्रहृत्य । क्त्वान्तस्य ल्यप् प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च । त्रिचतुर्युष्मदस्मत्त्यदादिविकारेषु च प्रयोजनम् । अतितिस्रः , अतिचतस्रः । त्रिचतुरन्तस्य तिसृचतसृभावः प्राप्नोति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । युष्मत् , अस्मत् । अतियूयम् अतिवयम् । युष्मदस्मदन्तस्य यूयवयौ प्राप्नुतः । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । त्यदादिविकार । अतिस्यः , उत्तमस्यः , अत्यसौ , उत्तमासौ । त्यदाद्यन्तस्य त्यदादिविकाराः प्राप्नुवन्ति । किमन्तस्य कादेशः प्राप्नोति । अतिकः , परमकः । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । उदः पूर्वत्वे । उदः पूर्वत्वे प्रयोजनम् । उदस्थाताम् । अटि कृते साट्कस्य पूर्वसवर्णः प्राप्नोति उदः स्थास्तम्भोः इति । निर्दिश्यमानस्य आदेशाः भवन्ति इति न दोषः भवति । यः तर्हि निर्दिश्यते तस्य कस्मात् न भवति । अटा व्यवहितत्वात् । सा तर्हि परिभाषा कर्तव्या । न कर्तव्या । उक्तम् षष्ठी स्थानेयोगा इति एतस्य योगस्य वचने प्रयोजनम् षष्ठ्यन्तम् स्थानेन यथा युज्येत यतः षष्ठी उच्चारिता इति ।

KA III.221.2-222.17 Ro IV.773-777 pādaḥ upadhāhrasvatvam . pādaḥ upadhāhrasvatvam vaktavyam . dvipadaḥ paśya . ādeśe hi sarvādeśaprasaṅgaḥ . ādeśe hi sati sarvādeśaḥ prasajyeta . sarvasya dvipācchabdasya tripācchabdasya ca pacchabdādeśaḥ prasajyeta yena vidhiḥ tadantasya iti . tat tarhi vaktavyam . na vā nirdiśyamānasya ādeśatvāt . na vā vaktavyam . kim kāraṇam . nirdiśyamānasya ādeśāḥ bhavanti iti eṣā paribhāṣā kartavyā . kaḥ punaḥ atra viśeṣaḥ eṣā vā paribhāṣā kriyeta upadhāhrasvatvam vā ucyeta . avaśyam eṣā paribhāṣā kartavyā . bahūni etasyāḥ paribhāṣāyāḥ prayojanāni kāni . prayojanam suptiṅādeśe . sup . kumāryām , kośoryām , khaṭvāyām , mālāyām , tasyām , yasyām . āḍyāṭsyāṭsu kṛteṣu sāḍyāṭsyāṭkasya ām prāpnoti . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . idam iha sampradhāryam . āḍyāṭsyāṭaḥ kriyantām ām iti kim atra kartavyam . paratvāt ām . nityāḥ āḍyāṭsyāṭaḥ . kṛte api āmi prapnuvanti akṛte api . anityāḥ āḍyāṭsyāṭaḥ . anyasya kṛte āmi prapnuvanti anyasya akṛte śabdāntarasya ca prāpnuvantaḥ anityāḥ bhavanti . ubhayoḥ anityayoḥ paratvāt ām . idam tarhi . tasyai yasyai . syāṭi kṛte sasyāṭkasya smaibhāvaḥ prāpnoti . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . syāṭā vyavahitatvāt . sup . tiṅ. aruditām aruditam arudita iti . iṭi kṛte seṭkasya tāmtamtāmādeśāḥ prāpnuvanti . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . idam iha sampradhāryam . iṭ kriyatām tāmtamtāmaḥ iti kim atra kartavyam . paratvāt iḍāgamaḥ . antaraṅgāḥ tāmtamtāmaḥ . idam tarhi kriyāstām , kriyāstam , kriyāsta . yāsuṭi kṛte sayāsuṭkasya tāmtamtāmādeśāḥ prāpnuvanti . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . lyabbhāve ca . lyabbhāve ca prayojanam . prakṛtya prahṛtya . ktvāntasya lyap prāpnoti . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . tricaturyuṣmadasmattyadādivikāreṣu ca . tricaturyuṣmadasmattyadādivikāreṣu ca prayojanam . atitisraḥ , aticatasraḥ . tricaturantasya tisṛcatasṛbhāvaḥ prāpnoti . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . yuṣmat , asmat . atiyūyam ativayam . yuṣmadasmadantasya yūyavayau prāpnutaḥ . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . tyadādivikāra . atisyaḥ , uttamasyaḥ , atyasau , uttamāsau . tyadādyantasya tyadādivikārāḥ prāpnuvanti . kimantasya kādeśaḥ prāpnoti . atikaḥ , paramakaḥ . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . udaḥ pūrvatve . udaḥ pūrvatve prayojanam . udasthātām . aṭi kṛte sāṭkasya pūrvasavarṇaḥ prāpnoti udaḥ sthāstambhoḥ iti . nirdiśyamānasya ādeśāḥ bhavanti iti na doṣaḥ bhavati . yaḥ tarhi nirdiśyate tasya kasmāt na bhavati . aṭā vyavahitatvāt . sā tarhi paribhāṣā kartavyā . na kartavyā . uktam ṣaṣṭhī sthāneyogā iti etasya yogasya vacane prayojanam ṣaṣṭhyantam sthānena yathā yujyeta yataḥ ṣaṣṭhī uccāritā iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२२१९-२२३।७ रो इव्।७७७-७७८ ऊट् आदिः कास्मात् न भवति । आदिः टित् भवति इति आदिः प्राप्नोति । सम्प्रसारणम् इति अनेन यणः स्थानम् ह्रियते । यदि एवम् वाहः ऊड्वचनानर्थक्यम् सम्प्रसारणेन कृतत्वात् । वाहः ऊड्वचनम् अनर्थकम् । किम् कारणम् । सम्प्रसारणेन कृतत्वात् । सम्प्रसारणेन एव सिद्धम् । का रूपसिद्धिः । प्रष्ठौहः पश्य । गुणः प्रत्ययलक्षणत्वात् । प्रत्ययलक्षणेन गुणः भविष्यति । एज्ग्रहणात् वृद्धिः । एज्ग्रहणात् वृद्धिः भविष्यति । एवम् तर्हि सिद्धे सति यत् वाहः ऊठम् शास्ति शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा असिद्धम् बहिरङ्गलक्षणम् अन्तरङ्गलक्षणे इति । किम् एतस्य ज्ञापने प्रयोजनम् । पचाव इदम् , पचाम इदम् । असिद्धत्वात् बहिरङ्गलक्षणस्य आत् गुणस्य अन्तरङ्गलक्षणम् ऐत्त्वम् न भवति इति ।

KA III.22219-223.7 Ro IV.777-778 ūṭ ādiḥ kāsmāt na bhavati . ādiḥ ṭit bhavati iti ādiḥ prāpnoti . samprasāraṇam iti anena yaṇaḥ sthānam hriyate . yadi evam vāhaḥ ūḍvacanānarthakyam samprasāraṇena kṛtatvāt . vāhaḥ ūḍvacanam anarthakam . kim kāraṇam . samprasāraṇena kṛtatvāt . samprasāraṇena eva siddham . kā rūpasiddhiḥ . praṣṭhauhaḥ paśya . guṇaḥ pratyayalakṣaṇatvāt . pratyayalakṣaṇena guṇaḥ bhaviṣyati . ejgrahaṇāt vṛddhiḥ . ejgrahaṇāt vṛddhiḥ bhaviṣyati . evam tarhi siddhe sati yat vāhaḥ ūṭham śāsti śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā asiddham bahiraṅgalakṣaṇam antaraṅgalakṣaṇe iti . kim etasya jñāpane prayojanam . pacāva idam , pacāma idam . asiddhatvāt bahiraṅgalakṣaṇasya āt guṇasya antaraṅgalakṣaṇam aittvam na bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२३।९-२० रो इव्।७७८-७७९ श्वादीनाम् प्रसारणे नकारान्तग्रहणम् अनकारान्तप्रतिषेधार्थम् । श्वादीनाम् प्रसारणे नकारान्तग्रहणम् कर्तव्यम् । किम् प्रयोजनम् । अनकारान्तप्रतिषेधार्थम् । अनकारान्तस्य मा भूत् । मभवा मघवते । तथा प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति । यत् तावत् उच्यते नकारान्तग्रहणम् कर्तव्यम् । न कर्तव्यम् । उक्तम् वा । किम् उक्तम् । अर्वणस् तृ मघोनः च न शिष्यम् छान्दसम् हि तत् इति । यत् अपि उच्यते प्रातिपदिकग्रहणे लिङ्गविशिष्टस्य अपि ग्रहणम् भवति इति यथा इह भवति , यूनः पश्ये इति एवम् युवतीः ल्पश्य इति अत्र अपि स्यात् इति लिङ्गविशिष्टग्रहणे च उक्तम् । किम् उक्तम् । न वा विभक्तौ लिङ्गविशिष्टाग्रहणात् इति । अथ वा उपरिष्टात् योगविभागः करिष्यते । श्वयुवमघोनाम् अतद्धिते । ततः अल्लोपः । अकारस्य च लोपः भवति । ततः अनः । अनः इति उभयोः शेषः ।

KA III.223.9-20 Ro IV.778-779 śvādīnām prasāraṇe nakārāntagrahaṇam anakārāntapratiṣedhārtham . śvādīnām prasāraṇe nakārāntagrahaṇam kartavyam . kim prayojanam . anakārāntapratiṣedhārtham . anakārāntasya mā bhūt . mabhavā maghavate . tathā prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti . yat tāvat ucyate nakārāntagrahaṇam kartavyam . na kartavyam . uktam vā . kim uktam . arvaṇas tṛ maghonaḥ ca na śiṣyam chāndasam hi tat iti . yat api ucyate prātipadikagrahaṇe liṅgaviśiṣṭasya api grahaṇam bhavati iti yathā iha bhavati , yūnaḥ paśye iti evam yuvatīḥ lpaśya iti atra api syāt iti liṅgaviśiṣṭagrahaṇe ca uktam . kim uktam . na vā vibhaktau liṅgaviśiṣṭāgrahaṇāt iti . atha vā upariṣṭāt yogavibhāgaḥ kariṣyate . śvayuvamaghonām ataddhite . tataḥ allopaḥ . akārasya ca lopaḥ bhavati . tataḥ anaḥ . anaḥ iti ubhayoḥ śeṣaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२३।२२-२२४।१२ रो इव्।७८०-७८१ अथ किम् इदम् षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् आहोस्वित् नियमार्थम् । कथ च अल्लोपार्थम् स्यात् कथम् वा नियमार्थम् । यदि अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः ततः अल्लोपार्थम् । अथ हि अणि टिलोपस्य एव प्रकृतिभावः ततः नियमार्थम् । षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् । षपूर्वादीनाम् पुनर्वचनम् क्रियते अल्लोपार्थम् । अविशेषेण अल्लोपटिलोपयोः सः प्रकृतिभावः । अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः । अवधारणे हि सति अन्यत्र प्रकृतिभावे उपधालोपः प्रसज्येत । कथम् । यदि तावत् एवम् नियमः स्यात् षपूर्वादीनाम् एव अणि इति भवेत् इह नियमात् न स्यात् सामनः , वैमनः इति । ताक्षण्यः इति प्राप्नोति । अथ अपि एवम् नियमः स्यात् षपूर्वादीनाम् अणि एव इति एवम् अपि भवेत् इह नियमात् न स्यात् ताक्षण्यः इति , सामनः , वैमनः इति तु प्राप्नोति । अथ अपि उभयतः नियमः स्यात् षपूर्वादीनाम् एव अणि , अणि एव षपूर्वादीनाम् इति एवम् अपि सामन्यः , वेमन्यः इति प्राप्नोति । तस्मात् सुष्थु उच्यते षपूर्वादीनाम् पुनर्वचनम् अल्लोपार्थम् । अवधारणे हि अन्यत्र प्रकृतिभावे उपधालोपप्रसङ्गः इति ।

KA III.223.22-224.12 Ro IV.780-781 atha kim idam ṣapūrvādīnām punarvacanam allopārtham āhosvit niyamārtham . katha ca allopārtham syāt katham vā niyamārtham . yadi aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ tataḥ allopārtham . atha hi aṇi ṭilopasya eva prakṛtibhāvaḥ tataḥ niyamārtham . ṣapūrvādīnām punarvacanam allopārtham . ṣapūrvādīnām punarvacanam kriyate allopārtham . aviśeṣeṇa allopaṭilopayoḥ saḥ prakṛtibhāvaḥ . avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ . avadhāraṇe hi sati anyatra prakṛtibhāve upadhālopaḥ prasajyeta . katham . yadi tāvat evam niyamaḥ syāt ṣapūrvādīnām eva aṇi iti bhavet iha niyamāt na syāt sāmanaḥ , vaimanaḥ iti . tākṣaṇyaḥ iti prāpnoti . atha api evam niyamaḥ syāt ṣapūrvādīnām aṇi eva iti evam api bhavet iha niyamāt na syāt tākṣaṇyaḥ iti , sāmanaḥ , vaimanaḥ iti tu prāpnoti . atha api ubhayataḥ niyamaḥ syāt ṣapūrvādīnām eva aṇi , aṇi eva ṣapūrvādīnām iti evam api sāmanyaḥ , vemanyaḥ iti prāpnoti . tasmāt suṣthu ucyate ṣapūrvādīnām punarvacanam allopārtham . avadhāraṇe hi anyatra prakṛtibhāve upadhālopaprasaṅgaḥ iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२४।१४-२१ रो इव्।७८१ आतः अनापः । आतः अनापः इति वक्तव्यम् । इह अपि यथा स्यात् : समासे अनञ्पूर्वे क्त्वः ल्यप् इति । अनापः इति किमर्थम् । खट्वायाम् , मालायाम् । यदि अनापः इति उच्यते कथम् क्त्वायाम् । निपातनात् एतत् सिद्धम् । किम् निपातनम् । क्त्वायाम् व प्रतिषेधः इति । यदि एवम् न अर्थः अनापः इति अनेन । कथम् समासे अनञ्पूर्वे क्त्वः ल्यप् इति । निपातनात् एतत् सिद्धम् । कथम् हलः श्नः शानच् हौ इति । एतत् अपि निपातनात् सिद्धम् । अथ वा योगविभागः करिष्यते । आतः : आकारलोपः भवति । ततः धातोः : धातोः च आकारस्य लोपः भवति इति ।

KA III.224.14-21 Ro IV.781 ātaḥ anāpaḥ . ātaḥ anāpaḥ iti vaktavyam . iha api yathā syāt : samāse anañpūrve ktvaḥ lyap iti . anāpaḥ iti kimartham . khaṭvāyām , mālāyām . yadi anāpaḥ iti ucyate katham ktvāyām . nipātanāt etat siddham . kim nipātanam . ktvāyām va pratiṣedhaḥ iti . yadi evam na arthaḥ anāpaḥ iti anena . katham samāse anañpūrve ktvaḥ lyap iti . nipātanāt etat siddham . katham halaḥ śnaḥ śānac hau iti . etat api nipātanāt siddham . atha vā yogavibhāgaḥ kariṣyate . ātaḥ : ākāralopaḥ bhavati . tataḥ dhātoḥ : dhātoḥ ca ākārasya lopaḥ bhavati iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२४।२३-२२५।५ रो इव्।७८२ मन्त्रेषु आत्मनः प्रत्ययमात्रप्रसङ्गः । मन्त्रेषु आत्मनः प्रत्ययमात्रे लोपः प्रसङ्क्तव्यः । इह अपि यथा स्यात् : त्मन्या समञ्जन् । त्मनोः अन्तः अस्थः इति । यदि प्रत्ययमात्रे लोपः उच्यते कथम् आत्मनः एव निर्मिमीष्व इति । तस्मात् न अर्थः प्रत्ययमात्रे लोपेन । कथम् त्मन्या समञ्जन् । त्मनोः अन्तः अस्थः इति । छान्दसत्वात् सिद्धम् । छान्दसम् एतत् । दृष्टानुविधिः छन्दसि भवति । आदिग्रहणानर्थक्यम् च आकारप्रकरणात् । आदिग्रहणम् च अनर्थकम् । किम् कारणम् । आकारप्रकरणात् । आतः इति वर्तते ।

KA III.224.23-225.5 Ro IV.782 mantreṣu ātmanaḥ pratyayamātraprasaṅgaḥ . mantreṣu ātmanaḥ pratyayamātre lopaḥ prasaṅktavyaḥ . iha api yathā syāt : tmanyā samañjan . tmanoḥ antaḥ asthaḥ iti . yadi pratyayamātre lopaḥ ucyate katham ātmanaḥ eva nirmimīṣva iti . tasmāt na arthaḥ pratyayamātre lopena . katham tmanyā samañjan . tmanoḥ antaḥ asthaḥ iti . chāndasatvāt siddham . chāndasam etat . dṛṣṭānuvidhiḥ chandasi bhavati . ādigrahaṇānarthakyam ca ākāraprakaraṇāt . ādigrahaṇam ca anarthakam . kim kāraṇam . ākāraprakaraṇāt . ātaḥ iti vartate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२५।७-११ रो इव्।७८२-७८३ तिग्रहणम् किमर्थम् न विंशतेः डिति लोपः इति एव उच्येत । न एवम् शक्यम् । विंशतेः डिति लोपः इति उच्यमाने अन्त्यस्य प्रसज्येत । सिद्धः अन्त्यस्य यस्येत लोपेन । तत्र आरम्भसामर्थ्यात् तिशब्दस्य भविष्यति । कुतः नु खलु एतत् अनन्यार्थे आरम्भे तिशब्दस्य भविष्यति न पुनः अङ्गस्य इति । तस्मात् तिग्रहणम् कर्तव्यम् । अथ क्रियमाणे अपि तिग्रहणे अन्त्यस्य कस्मात् न भवति । निर्दिश्यमानस्य आदेशाः भवन्ति इति एवम् न भविष्यति ।

KA III.225.7-11 Ro IV.782-783 tigrahaṇam kimartham na viṃśateḥ ḍiti lopaḥ iti eva ucyeta . na evam śakyam . viṃśateḥ ḍiti lopaḥ iti ucyamāne antyasya prasajyeta . siddhaḥ antyasya yasyeta lopena . tatra ārambhasāmarthyāt tiśabdasya bhaviṣyati . kutaḥ nu khalu etat ananyārthe ārambhe tiśabdasya bhaviṣyati na punaḥ aṅgasya iti . tasmāt tigrahaṇam kartavyam . atha kriyamāṇe api tigrahaṇe antyasya kasmāt na bhavati . nirdiśyamānasya ādeśāḥ bhavanti iti evam na bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२५।१३-१६ रो इव्।७८३ अभस्य उपसङ्ख्यानम् कर्तव्यम् । इह अपि यथा स्यात् : उपसरजः , मन्दुरजः इति । तत् तर्हि वक्तव्यम् । न वक्तव्यम् । कथम् उपसरजः , मन्दुरजः इति । डिति अभस्य अपि अनुबन्धकरणसामर्थ्यात् । अभस्य अपि अनुबन्धकरणसामर्थ्यात् भविष्यति ।

KA III.225.13-16 Ro IV.783 abhasya upasaṅkhyānam kartavyam . iha api yathā syāt : upasarajaḥ , mandurajaḥ iti . tat tarhi vaktavyam . na vaktavyam . katham upasarajaḥ , mandurajaḥ iti . ḍiti abhasya api anubandhakaraṇasāmarthyāt . abhasya api anubandhakaraṇasāmarthyāt bhaviṣyati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२५।१८-२२६।१८ रो इव्।७८३-७८५ नकारन्तस्य टिलोपे सब्रह्मचारिपीठसर्पिकलापिकुथुमितैतिलिजाजलिलाङ्गलिशिलालिशिखण्डिसूकरस्द्मसुपर्वणाम् उपसङ्ख्यानम् । नकारन्तस्य टिलोपे सब्रह्मचारिन् पीठसर्पिन् कलापिन् कुथुमिन् तैतिलिन् जाजलिन् लाङ्गलिन् शिलालिन् शिखण्डिन् सूकरस्द्मन् सुपर्वन् इति एतेषाम् उपसङ्ख्यानम् कर्तव्यम् । सब्रह्मचारिन् । साब्रह्मचाराः । सब्रह्मचारिन् । पीठसर्पिन् । पैठसर्पाः । पीठसर्पिन् । कलापिन् । कालपाः । कलापिन् । कुथुमिन् । कौथुमाः । कुथुमिन् । तैतिलिन् । तैतिलाः । तैतिलिन् । जाजलिन् । जाजलाः । जाजलिन् । लाङ्गलिन् । लाङ्गलाः । लाङ्गलिन् । शिलालिन् । शैलालाः । शिलालिन् । शिखण्डिन् । शैखण्डाः । शिखण्डिन् । सूकरस्द्मन् । सौकरसद्माः । सूकरस्द्मन् । सुपर्वन् । सौपर्वाः । सुपर्वन् । चर्मणः कोशे । चर्मणः कोशे उपसङ्ख्यानम् कर्तव्यम् । चार्मः कोशः । आस्मनः विकारे । आस्मनः विकारे उपसङ्ख्यानम् कर्तव्यम् । अश्मनः विकारः आश्मः । शुनः सङ्कोचे । शौनः सङ्कोचः । अव्ययानाम् च । अव्ययानाम् च उपसङ्ख्यानम् कर्तव्यम् । किम् प्रयोजनम् । सायम्प्रतिकाद्यर्थम् । सायम्प्रातिकः पौनःपुनिकः । शाश्वतिके प्रतिषेधः वक्तव्यः । न वक्तव्यः । निपातनात् एतत् सिद्धम् । किम् निपातनम् । येषाम् च विरोधः शाश्वतिकः इति । एवम् तर्हि शाश्वते प्रतिषेधः वक्तव्यः । शाश्वतम् ।

KA III.225.18-226.18 Ro IV.783-785 nakārantasya ṭilope sabrahmacāripīṭhasarpikalāpikuthumitaitilijājalilāṅgaliśilāliśikhaṇḍisūkarasdmasuparvaṇām upasaṅkhyānam . nakārantasya ṭilope sabrahmacārin pīṭhasarpin kalāpin kuthumin taitilin jājalin lāṅgalin śilālin śikhaṇḍin sūkarasdman suparvan iti eteṣām upasaṅkhyānam kartavyam . sabrahmacārin . sābrahmacārāḥ . sabrahmacārin . pīṭhasarpin . paiṭhasarpāḥ . pīṭhasarpin . kalāpin . kālapāḥ . kalāpin . kuthumin . kauthumāḥ . kuthumin . taitilin . taitilāḥ . taitilin . jājalin . jājalāḥ . jājalin . lāṅgalin . lāṅgalāḥ . lāṅgalin . śilālin . śailālāḥ . śilālin . śikhaṇḍin . śaikhaṇḍāḥ . śikhaṇḍin . sūkarasdman . saukarasadmāḥ . sūkarasdman . suparvan . sauparvāḥ . suparvan . carmaṇaḥ kośe . carmaṇaḥ kośe upasaṅkhyānam kartavyam . cārmaḥ kośaḥ . āsmanaḥ vikāre . āsmanaḥ vikāre upasaṅkhyānam kartavyam . aśmanaḥ vikāraḥ āśmaḥ . śunaḥ saṅkoce . śaunaḥ saṅkocaḥ . avyayānām ca . avyayānām ca upasaṅkhyānam kartavyam . kim prayojanam . sāyampratikādyartham . sāyamprātikaḥ paunaḥpunikaḥ . śāśvatike pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . nipātanāt etat siddham . kim nipātanam . yeṣām ca virodhaḥ śāśvatikaḥ iti . evam tarhi śāśvate pratiṣedhaḥ vaktavyaḥ . śāśvatam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२६।२०-२५ रो इव्।७८५-७८६ इवर्णान्तस्य इति किम् उदाहरणम् । हे दाक्षि दाक्ष्या दाकॄयः । हे दाक्षि इति । यदि लोपः न स्यात् परस्य ह्रस्वत्वे कृते सवर्णदीर्घत्वम् प्रस्ज्येत । दाक्ष्या इति । यदि लोपः न स्यात् परस्य यणादेशे कृते पूर्वस्य श्रवणम् प्रसज्येत । दाक्षेयः इति । यदि लोपः न स्यात् परस्य लोपे कृते पूर्वस्य श्रवणम् प्रसज्येत । न एतानि सन्ति प्रयोजनानि । सवर्णदीर्घत्वेन अपि एतानि सिद्धानि । इदम् तर्हि । अतिसखेः आगच्छति । अतिसखेः स्वम् । यदि लोपः न स्यात् उपसर्जनह्रस्वत्वे कृते असखि इति प्रतिषेधः प्रसज्येत ।

KA III.226.20-25 Ro IV.785-786 ivarṇāntasya iti kim udāharaṇam . he dākṣi dākṣyā dākṝyaḥ . he dākṣi iti . yadi lopaḥ na syāt parasya hrasvatve kṛte savarṇadīrghatvam prasjyeta . dākṣyā iti . yadi lopaḥ na syāt parasya yaṇādeśe kṛte pūrvasya śravaṇam prasajyeta . dākṣeyaḥ iti . yadi lopaḥ na syāt parasya lope kṛte pūrvasya śravaṇam prasajyeta . na etāni santi prayojanāni . savarṇadīrghatvena api etāni siddhāni . idam tarhi . atisakheḥ āgacchati . atisakheḥ svam . yadi lopaḥ na syāt upasarjanahrasvatve kṛte asakhi iti pratiṣedhaḥ prasajyeta .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२७।१-१९ रो इव्।७८७-७८८ यस्य ईत्यादौ श्याम् प्रतिषेधः । यस्य ईत्यादौ श्याम् प्रतिषेधः वक्तव्यः । काण्डे कुड्ये । सौर्ये नाम हिमवतः शृङ्गे । सः तर्हि प्रतिषेधः वक्तव्यः । न वक्तव्यः । इह श्याम् इति अपि प्रकृतम् न इति अपि । तत्र अभिसम्बन्धमात्रम् कर्तव्यम् : यस्य ईत्यादौ लोपः भवति श्याम् न । इयङुवङ्भ्याम् लोपः विप्रतिषेधेन । इयङुवङ्भ्याम् लोपः भवति विप्रतिषेधेन । इयङुवङोः अवकाशः श्रियौ श्रियः , भ्रुवौ भ्रुवः । लोपस्य अवकाशः कामण्डलेयः , माद्रबाहेयः । इह उभयम् प्राप्नोति : वत्सप्रेयः , लैखाभ्रेयः । लोपः भवति विप्रतिषेधेन । गुणवृद्धी च । गुणवृद्धी च इयङुवङ्भ्याम् भवतः विप्रतिषेधेन । गुणवृद्ध्योः अवकाशः : चेता गौः । इयङुवङोः सः एव । इह उभयम् प्राप्नोति : चयनम् , चायकः , लवनम् , लावकः । गुणवृद्धी भवतः विप्रतिषेधेन । न वा इयङुवङादेशस्य अन्यविषये वचनात् । न वा अर्थः विप्रतिषेधेन । किम् कारणम् । इयङुवङादेशस्य अन्यविषये वचनात् । इयङुवङादेशः अन्यविषये आरभ्यते । किंविषये । यणादिविषये । सः यथा यणादेशम् बाधते एवम् गुणवृद्धी बाधेत । तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः । तस्मात् तत्र गुणवृद्धिविषये प्रतिषेधः वक्तव्यः । न वक्तव्यः । मध्ये अपवादाः पूर्वान् विधीन् बाधन्ते इति एवम् इयङुवङादेशः यणादेशम् बाधिष्यते गुणवृद्धी न बाधिष्यते ।

KA III.227.1-19 Ro IV.787-788 yasya ītyādau śyām pratiṣedhaḥ . yasya ītyādau śyām pratiṣedhaḥ vaktavyaḥ . kāṇḍe kuḍye . saurye nāma himavataḥ śṛṅge . saḥ tarhi pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . iha śyām iti api prakṛtam na iti api . tatra abhisambandhamātram kartavyam : yasya ītyādau lopaḥ bhavati śyām na . iyaṅuvaṅbhyām lopaḥ vipratiṣedhena . iyaṅuvaṅbhyām lopaḥ bhavati vipratiṣedhena . iyaṅuvaṅoḥ avakāśaḥ śriyau śriyaḥ , bhruvau bhruvaḥ . lopasya avakāśaḥ kāmaṇḍaleyaḥ , mādrabāheyaḥ . iha ubhayam prāpnoti : vatsapreyaḥ , laikhābhreyaḥ . lopaḥ bhavati vipratiṣedhena . guṇavṛddhī ca . guṇavṛddhī ca iyaṅuvaṅbhyām bhavataḥ vipratiṣedhena . guṇavṛddhyoḥ avakāśaḥ : cetā gauḥ . iyaṅuvaṅoḥ saḥ eva . iha ubhayam prāpnoti : cayanam , cāyakaḥ , lavanam , lāvakaḥ . guṇavṛddhī bhavataḥ vipratiṣedhena . na vā iyaṅuvaṅādeśasya anyaviṣaye vacanāt . na vā arthaḥ vipratiṣedhena . kim kāraṇam . iyaṅuvaṅādeśasya anyaviṣaye vacanāt . iyaṅuvaṅādeśaḥ anyaviṣaye ārabhyate . kiṃviṣaye . yaṇādiviṣaye . saḥ yathā yaṇādeśam bādhate evam guṇavṛddhī bādheta . tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ . tasmāt tatra guṇavṛddhiviṣaye pratiṣedhaḥ vaktavyaḥ . na vaktavyaḥ . madhye apavādāḥ pūrvān vidhīn bādhante iti evam iyaṅuvaṅādeśaḥ yaṇādeśam bādhiṣyate guṇavṛddhī na bādhiṣyate .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२७।२१-२२८।१२ रो इव्।७८८-७८९ सूर्यादीनाम् अणन्ते अप्रसिद्धिः अङ्गान्यत्वात् । सूर्यादीनाम् अणन्ते अप्रसिद्धिः । सौरी बलाका । किम् कारणम् । अङ्गान्यत्वात् । अणन्तम् एतत् अङ्गम् अन्यत् भवति । लोपे कृते न अङ्गान्यत्वम् । स्थानिवद्भावात् अङ्गान्यत्वम् भवति । सिद्धम् तु स्थानिवत्प्रतिषेधात् । सिद्धम् एतत् । कथम् । स्थानिवत्प्रतिषेधात् । प्रतिषिध्यते अत्र स्थानिवद्भावः यलोपविधिम् प्रति न स्थानिवत् भवति इति । एवम् अपि न सिध्यति । किम् कारणम् । शब्दान्यत्वात् । अन्यः हि शूर्यशब्दः अन्यः सौर्यशब्दः । न एषः दोषः । एकदेशविकृतम् अनन्यवत् भवति इति भविष्यति । उपधाग्रहणानर्थक्यम् च । स्थानिवद्भावे च इदानीम् प्रतिषिद्धे उपधाग्रहणम् अनर्थकम् । किम् कारणम् । अन्त्यः एव हि सूर्यादीनाम् यकारः । किम् यातम् एतत् भवति । सुष्ठु च यातम् साधु च यातम् यदि प्राक् भात् असिद्धत्वम् । अथ हि सह तेन असिद्धत्वम् असिद्धत्वात् लोपस्य न अन्त्यः यकारः भवति । यदि अपि सह तेन असिद्धत्वम् एवम् अपि न दोषः । न एवम् विज्ञायते सूर्यादीनाम् अङ्गानाम् यकारलोपः इति । कथम् तर्हि । अङ्गस्य यलोपः भवति सः चेत् सूर्यादीनाम् यकारः इति । एवम् अपि सूर्यचरी , अत्र प्राप्नोति । तस्मात् उपधाग्रहणम् कर्तव्यम् ।

KA III.227.21-228.12 Ro IV.788-789 sūryādīnām aṇante aprasiddhiḥ aṅgānyatvāt . sūryādīnām aṇante aprasiddhiḥ . saurī balākā . kim kāraṇam . aṅgānyatvāt . aṇantam etat aṅgam anyat bhavati . lope kṛte na aṅgānyatvam . sthānivadbhāvāt aṅgānyatvam bhavati . siddham tu sthānivatpratiṣedhāt . siddham etat . katham . sthānivatpratiṣedhāt . pratiṣidhyate atra sthānivadbhāvaḥ yalopavidhim prati na sthānivat bhavati iti . evam api na sidhyati . kim kāraṇam . śabdānyatvāt . anyaḥ hi śūryaśabdaḥ anyaḥ sauryaśabdaḥ . na eṣaḥ doṣaḥ . ekadeśavikṛtam ananyavat bhavati iti bhaviṣyati . upadhāgrahaṇānarthakyam ca . sthānivadbhāve ca idānīm pratiṣiddhe upadhāgrahaṇam anarthakam . kim kāraṇam . antyaḥ eva hi sūryādīnām yakāraḥ . kim yātam etat bhavati . suṣṭhu ca yātam sādhu ca yātam yadi prāk bhāt asiddhatvam . atha hi saha tena asiddhatvam asiddhatvāt lopasya na antyaḥ yakāraḥ bhavati . yadi api saha tena asiddhatvam evam api na doṣaḥ . na evam vijñāyate sūryādīnām aṅgānām yakāralopaḥ iti . katham tarhi . aṅgasya yalopaḥ bhavati saḥ cet sūryādīnām yakāraḥ iti . evam api sūryacarī , atra prāpnoti . tasmāt upadhāgrahaṇam kartavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२८।१३-२२९।५ रो इव्।७८९-७९१ विषयपरिगणनम् च । विषयपरिगणनम् च कर्तव्यम् । सूर्यमत्स्ययोः ङ्याम् । सूर्यमत्स्ययोः ङ्याम् इति वक्तव्यम् । सौरी मत्सी । सूर्यागस्त्ययोः छे च । सूर्यागस्त्ययोः छे च ङ्याम् च इति वक्तव्यम् । सौरी सौरीयः , आगस्ती , आगस्तीयः । तिष्यपुष्ययोः नक्षत्राणि । तिष्यपुष्ययोः नक्षत्राणि लोपः वक्तव्यः : तैषम् , पौषम् । अन्तिकस्य तसि कादिलोपः आद्युदात्तत्वम् च । अन्तिकस्य तसि कादिलोपः वक्तव्यः आद्युदात्तत्वम् च वक्तव्यम् । अन्तितः न दूरात् । तमे तादेः च । तमे तादेः च कादेः च लोपः वक्तव्यः । अग्ने त्वम् नः अन्तमः । अन्तितमः अवरोहति । तसि इति एषः न वक्तव्यः । दृष्टः दाशतये अपि हि घौ लोपः अन्तिषत् इति यत्र । अन्तिषत् । तथा अघौ ये अन्त्यथर्वसु । अन्ति ये च दूरके ।

KA III.228.13-229.5 Ro IV.789-791 viṣayaparigaṇanam ca . viṣayaparigaṇanam ca kartavyam . sūryamatsyayoḥ ṅyām . sūryamatsyayoḥ ṅyām iti vaktavyam . saurī matsī . sūryāgastyayoḥ che ca . sūryāgastyayoḥ che ca ṅyām ca iti vaktavyam . saurī saurīyaḥ , āgastī , āgastīyaḥ . tiṣyapuṣyayoḥ nakṣatrāṇi . tiṣyapuṣyayoḥ nakṣatrāṇi lopaḥ vaktavyaḥ : taiṣam , pauṣam . antikasya tasi kādilopaḥ ādyudāttatvam ca . antikasya tasi kādilopaḥ vaktavyaḥ ādyudāttatvam ca vaktavyam . antitaḥ na dūrāt . tame tādeḥ ca . tame tādeḥ ca kādeḥ ca lopaḥ vaktavyaḥ . agne tvam naḥ antamaḥ . antitamaḥ avarohati . tasi iti eṣaḥ na vaktavyaḥ . dṛṣṭaḥ dāśataye api hi ghau lopaḥ antiṣat iti yatra . antiṣat . tathā aghau ye antyatharvasu . anti ye ca dūrake .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२९।७-१४ रो इव्।७९१-७९३ छग्रहणम् शक्यम् अकर्तुम् । इह कस्मात् न भवति बिल्वकेभ्यः । भस्य इति वर्तते । एवम् अपि बिल्वकाय , अत्र प्राप्नोति । तद्धितस्य इति वर्तते । एवम् अपि बिल्वकस्य विकारः अवयवः वा बैल्वकः , अत्र प्राप्नोति । तद्धिते तद्धितस्य इति वर्तते । एवम् अपि बिल्वकीयायाम् भवः बैल्वकः , बैल्वकस्य किम् चित् बैल्वकीयम् , अत्र प्राप्नोति । न सः बिल्वकात् । बिल्वकादिभ्यः यः विहितः इति उच्यते न च असौ बिल्वकशब्दात् विहितः । किम् तर्हि बिल्वकीयशब्दात् । एवम् तर्हि सिद्धे सति यत् छग्रहणम् करोति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा : सन्नियोगशिष्टानाम् अन्यतराभावे उभयोः अभावः इति । तस्मात् छग्रहणम् कर्तव्यम् छस्य एव लुक् यथा स्यात् कुकः मा भूत् इति ।

KA III.229.7-14 Ro IV.791-793 chagrahaṇam śakyam akartum . iha kasmāt na bhavati bilvakebhyaḥ . bhasya iti vartate . evam api bilvakāya , atra prāpnoti . taddhitasya iti vartate . evam api bilvakasya vikāraḥ avayavaḥ vā bailvakaḥ , atra prāpnoti . taddhite taddhitasya iti vartate . evam api bilvakīyāyām bhavaḥ bailvakaḥ , bailvakasya kim cit bailvakīyam , atra prāpnoti . na saḥ bilvakāt . bilvakādibhyaḥ yaḥ vihitaḥ iti ucyate na ca asau bilvakaśabdāt vihitaḥ . kim tarhi bilvakīyaśabdāt . evam tarhi siddhe sati yat chagrahaṇam karoti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā : sanniyogaśiṣṭānām anyatarābhāve ubhayoḥ abhāvaḥ iti . tasmāt chagrahaṇam kartavyam chasya eva luk yathā syāt kukaḥ mā bhūt iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२२९।१६-२३ रो इव्।७९३ तुः सर्वस्य लोपः वक्तव्यः अन्त्यस्य लोपः मा भूत् इति । सः तर्हि वक्तव्यः । न वक्तव्यः । तुः सर्वलोपविज्ञानम् अन्त्यस्य वचनानर्थक्यात् । तुः सर्वलोपः विज्ञायते । कुतः । अन्त्यस्य वचनानर्थक्यात् । अन्त्यस्य लोपवचने प्रयोजनम् न अस्ति इति कृत्वा सर्वस्य भविष्यति । अथ वा लुक् प्रकृतः । सः अनुवर्तिष्यते । अशक्यः लुक् अनुवर्तयितुम् । किम् कारणम् । विजयिष्ठकरिष्थयोः गुणदर्शनात् । विजयिष्ठकरिष्थयोः गुणः दृश्यते । विजयिष्ठः । आसुतिम् करिष्ठः ।

KA III.229.16-23 Ro IV.793 tuḥ sarvasya lopaḥ vaktavyaḥ antyasya lopaḥ mā bhūt iti . saḥ tarhi vaktavyaḥ . na vaktavyaḥ . tuḥ sarvalopavijñānam antyasya vacanānarthakyāt . tuḥ sarvalopaḥ vijñāyate . kutaḥ . antyasya vacanānarthakyāt . antyasya lopavacane prayojanam na asti iti kṛtvā sarvasya bhaviṣyati . atha vā luk prakṛtaḥ . saḥ anuvartiṣyate . aśakyaḥ luk anuvartayitum . kim kāraṇam . vijayiṣṭhakariṣthayoḥ guṇadarśanāt . vijayiṣṭhakariṣthayoḥ guṇaḥ dṛśyate . vijayiṣṭhaḥ . āsutim kariṣṭhaḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३०।२-१० रो इव्।७९४-७९५ णौ इष्ठवत् प्रातिपदिकस्य । णौ प्रातिपदिकस्य इष्ठवद्भावः वक्तव्यः । किम् प्रयोजनम् । पुंवद्भावरभावटिलोपयणादिपरार्थम् । पुंवद्भावार्थम् । एनीम् आचष्टे , एतयति । श्येतयति । रभावार्थम् । पृथुम् आचष्टे , प्रथयति । म्रदयति । टिलोपार्थम् । पटुम् आचष्टे पटयति । यणादिपरार्थम् । स्थूलम् आचष्टे स्थवयति । दवयति । किम् पुनः इदम् परिगणनम् आहोस्वित् उदाहरणमात्रम् । उदाहरणमात्रम् इति आह । प्रादयः अपि हि इष्यन्ते : प्रियम् आचष्टे प्रापयति । भारद्वाजीयाः पठन्ति : णौ इष्ठवत् प्रातिपदिकस्य पुंवद्भावरभावटिलोपयणादिपरप्रादिविन्मतोर्लुक्कन्विध्यर्थम् इति ।

KA III.230.2-10 Ro IV.794-795 ṇau iṣṭhavat prātipadikasya . ṇau prātipadikasya iṣṭhavadbhāvaḥ vaktavyaḥ . kim prayojanam . puṃvadbhāvarabhāvaṭilopayaṇādiparārtham . puṃvadbhāvārtham . enīm ācaṣṭe , etayati . śyetayati . rabhāvārtham . pṛthum ācaṣṭe , prathayati . mradayati . ṭilopārtham . paṭum ācaṣṭe paṭayati . yaṇādiparārtham . sthūlam ācaṣṭe sthavayati . davayati . kim punaḥ idam parigaṇanam āhosvit udāharaṇamātram . udāharaṇamātram iti āha . prādayaḥ api hi iṣyante : priyam ācaṣṭe prāpayati . bhāradvājīyāḥ paṭhanti : ṇau iṣṭhavat prātipadikasya puṃvadbhāvarabhāvaṭilopayaṇādiparaprādivinmatorlukkanvidhyartham iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३०।१२-१३ रो इव्।७९५ किम् अयम् यिशब्दः आहोस्वित् यकारः । किम् च अतः । यदि लोपः अपि अनुवर्तते ततओ यिशब्दः । अथ निवृत्तम् ततः यकारः ।

KA III.230.12-13 Ro IV.795 kim ayam yiśabdaḥ āhosvit yakāraḥ . kim ca ataḥ . yadi lopaḥ api anuvartate tatao yiśabdaḥ . atha nivṛttam tataḥ yakāraḥ .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३०।१५-२२ रो इव्।७९५-७९६ किमर्थम् ज्यात् परस्य ईयसः आत्त्वम् उच्यते न लोपः प्रकृतः सः अनुवर्तेत । का रूपसिद्धिः : ज्यायान् । अकृत्यकारे इति दीर्घत्वम् भविष्यति । एवम् तर्हि सिद्धे सति यत् ज्यात् परस्य ईयसः आत्त्वम् शास्ति तत् ज्ञापयति आचार्यः भवति एषा परिभाषा अङ्गवृत्ते पुनर्वृत्तौ अविधिः इति । किम् एतस्य ज्ञापने प्रयोजनम् । पिबतेः गुणप्रतिषेधः चोदितः । सः न वक्तव्यः भवति । अथ किमर्थम् ज्यात् परस्य ईयसः दीर्घः उच्यते न अकारः एव उच्येत । का रूपसिद्धिः : ज्यायान् । आन्तर्यतः दीर्घस्य दीर्घः भविष्यति । एवम् तर्हि सिद्धे सति यत् दीर्घम् करोति तत् ज्ञापयति आचार्यः भवति एषा : परिभाषा भाव्यमानेन सवर्णानाम् ग्रहणम् न इति ।

KA III.230.15-22 Ro IV.795-796 kimartham jyāt parasya īyasaḥ āttvam ucyate na lopaḥ prakṛtaḥ saḥ anuvarteta . kā rūpasiddhiḥ : jyāyān . akṛtyakāre iti dīrghatvam bhaviṣyati . evam tarhi siddhe sati yat jyāt parasya īyasaḥ āttvam śāsti tat jñāpayati ācāryaḥ bhavati eṣā paribhāṣā aṅgavṛtte punarvṛttau avidhiḥ iti . kim etasya jñāpane prayojanam . pibateḥ guṇapratiṣedhaḥ coditaḥ . saḥ na vaktavyaḥ bhavati . atha kimartham jyāt parasya īyasaḥ dīrghaḥ ucyate na akāraḥ eva ucyeta . kā rūpasiddhiḥ : jyāyān . āntaryataḥ dīrghasya dīrghaḥ bhaviṣyati . evam tarhi siddhe sati yat dīrgham karoti tat jñāpayati ācāryaḥ bhavati eṣā : paribhāṣā bhāvyamānena savarṇānām grahaṇam na iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३१।२-२३ रो इव्।७९६-७९९ कथम् इदम् विज्ञायते : हलादेः अङ्गस्य इति आहोस्वित् हलादेः ऋकारस्य इति । युक्तम् पुनः इदम् विचारयितुम् । ननु अनेन असन्दिग्धेन अङ्गविशेषणेन भवितव्यम् । कथम् हि ऋकारस्य नाम हल् आदिः स्यात् अन्यस्य अन्यः । अयम् आदिशब्दः अस्ति एव अवयववाची । तत् यथा ऋगादिः , अर्धर्चादिः , श्लोकादिः इति । अस्ति सामीप्ये वर्तते । तत् यथा । दधिभोजनम् अर्थसिद्धेः आदिः । दधिभोजनसमीपे । घृतभोजनम् आरोग्यस्य आदिः । घृतभोजनसमीपे । यावता सामीप्ये अपि वर्तते जायते विचारणा : हल्समीपस्य ऋकारस्य हलादेः अङ्गस्य इति । किम् च अतः । यदि विज्ञायते हलादेः अङ्गस्य इति अप्रथीयान् , अत्र न प्राप्नोति । अथ विज्ञायते हलादेः ऋकारस्य इति अनृचीयान् , अत्र अपि प्राप्नोति । उभयथा स्वृचीयान् इति अत्र प्राप्नोति । अस्तु तावत् हलादेः अङ्गस्य इति । कथम् अप्रथीयान् । तद्धितान्तेन समासः भविष्यति । न प्रथीयान् अप्रथीयान् इति । भवेत् सिद्धम् यदा तद्धितान्तेन समासः । यदा तु खलु समासात् तद्धितोत्पत्तिः तदा न सिध्यति । न एव समासात् तद्धितोत्पत्त्या भवितव्यम् । किम् कारणम् । बहुव्रीहिणा उक्तत्वात् मत्वर्थस्य । भवेत् यदा बहुव्रीहिः तदा न स्यात् । यदा तु खलु तत्पुरुषः तदा प्राप्नोति । न पृथुः अपृथुः । अयम् अपि अपृथुः । अयम् अपि अपृथुः । अयम् अनयोः अप्रथीयान् इति । न समासात् अजादिभ्याम् भवितव्यम् । किम् कारणम् । गुणवचनात् इति उच्यते न च समासः गुणवचनः इति । यदा तर्हि समासात् विन्मतुपौ विन्मतुबन्तात् अजादी तदा प्राप्नुतः । अविद्यमानाः पृथवः अपृथवः । अपृथवः अस्य सन्ति अपृथुमान् । अयम् अपृथुमान् । अयम् अपृथुमान् । अयम् अनयोः अप्रथीयान् इति । न एषः दोषः । अपृथवः एव न सन्ति कुतः यस्य अपृथवः इति । इह कस्मात् न भवति : मातयति , भ्रातयति । लोपः अत्र बाधकः भविष्यति । इदम् इह सम्प्रधार्यम् । टिलोपः क्रियताम् रभावः इति किम् अत्र कर्तव्यम् । परत्वात् रभावः । यदि पुनः अवशिष्टस्य रभावः उच्येत । न एवम् शक्यम् । इह अपि प्रसज्येत : कृतम् आचष्टे , कृतयति इति । एवम् तर्हि परिगणनम् कर्तव्यम् । पृथुमृदुकृशभृशदृढपरिवृढानाम् इति वक्तव्यम् ।

KA III.231.2-23 Ro IV.796-799 katham idam vijñāyate : halādeḥ aṅgasya iti āhosvit halādeḥ ṛkārasya iti . yuktam punaḥ idam vicārayitum . nanu anena asandigdhena aṅgaviśeṣaṇena bhavitavyam . katham hi ṛkārasya nāma hal ādiḥ syāt anyasya anyaḥ . ayam ādiśabdaḥ asti eva avayavavācī . tat yathā ṛgādiḥ , ardharcādiḥ , ślokādiḥ iti . asti sāmīpye vartate . tat yathā . dadhibhojanam arthasiddheḥ ādiḥ . dadhibhojanasamīpe . ghṛtabhojanam ārogyasya ādiḥ . ghṛtabhojanasamīpe . yāvatā sāmīpye api vartate jāyate vicāraṇā : halsamīpasya ṛkārasya halādeḥ aṅgasya iti . kim ca ataḥ . yadi vijñāyate halādeḥ aṅgasya iti aprathīyān , atra na prāpnoti . atha vijñāyate halādeḥ ṛkārasya iti anṛcīyān , atra api prāpnoti . ubhayathā svṛcīyān iti atra prāpnoti . astu tāvat halādeḥ aṅgasya iti . katham aprathīyān . taddhitāntena samāsaḥ bhaviṣyati . na prathīyān aprathīyān iti . bhavet siddham yadā taddhitāntena samāsaḥ . yadā tu khalu samāsāt taddhitotpattiḥ tadā na sidhyati . na eva samāsāt taddhitotpattyā bhavitavyam . kim kāraṇam . bahuvrīhiṇā uktatvāt matvarthasya . bhavet yadā bahuvrīhiḥ tadā na syāt . yadā tu khalu tatpuruṣaḥ tadā prāpnoti . na pṛthuḥ apṛthuḥ . ayam api apṛthuḥ . ayam api apṛthuḥ . ayam anayoḥ aprathīyān iti . na samāsāt ajādibhyām bhavitavyam . kim kāraṇam . guṇavacanāt iti ucyate na ca samāsaḥ guṇavacanaḥ iti . yadā tarhi samāsāt vinmatupau vinmatubantāt ajādī tadā prāpnutaḥ . avidyamānāḥ pṛthavaḥ apṛthavaḥ . apṛthavaḥ asya santi apṛthumān . ayam apṛthumān . ayam apṛthumān . ayam anayoḥ aprathīyān iti . na eṣaḥ doṣaḥ . apṛthavaḥ eva na santi kutaḥ yasya apṛthavaḥ iti . iha kasmāt na bhavati : mātayati , bhrātayati . lopaḥ atra bādhakaḥ bhaviṣyati . idam iha sampradhāryam . ṭilopaḥ kriyatām rabhāvaḥ iti kim atra kartavyam . paratvāt rabhāvaḥ . yadi punaḥ avaśiṣṭasya rabhāvaḥ ucyeta . na evam śakyam . iha api prasajyeta : kṛtam ācaṣṭe , kṛtayati iti . evam tarhi parigaṇanam kartavyam . pṛthumṛdukṛśabhṛśadṛḍhaparivṛḍhānām iti vaktavyam .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३१।२५-२३३।५ रो इव्।७९९-८०४ प्रकृत्या एकाच् इति किम् इष्ठेय्मेयस्सु आहोस्वित् अविशेषेण । किम् च अतः । यदि अविशेषेण स्वी खी शौवम् अधुना इति अत्र अपि प्राप्नोति । स्विखिनौ एव न स्तः । कथम् । उक्तम् एतत् । एकाक्षरात् कृतः जातेः सप्तम्याम् च न तौ स्मृतौ । स्ववान् खवान् इति एव भवितव्यम् । शौवम् इति परत्वात् ऐजागमे कृते टिलोपेन भवितव्यम् । अधुना इति सप्रकृतिकस्य सप्रत्ययकस्य स्थाने निपातनम् क्रियते । इह तर्हि प्राप्नोति : द्रव्यम् । यस्य ईति आदौ प्रकृतिभावः । यस्य ईति यस्य लोपप्राप्तिः तस्य प्रकृतिभावः न च एतानि यस्य ईति आदौ । एवम् अपि श्रिये हितः श्रीयः , ज्ञा देवता अस्य स्थालीपाकस्य ज्ञः स्थालीयापाकः इति अत्र प्राप्नोति । तस्मात् इष्ठेय्मेयस्सु प्रकृतिभावः । अथ इष्ठेय्मेयस्सु प्रकृतिभावे किम् उदाहरणम् । प्रेयान् प्रेष्थः । न एतत् अस्ति । प्रादीनाम् असिद्धत्वात् न भविष्यति । इदम् तर्हि श्रेयान् , श्रेष्ठः । प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् एकाचः उच्चारणसामर्थ्यात् अवचनात् प्रकृतिभावः । प्रकृत्या एकाच् इष्ठेय्मेयस्सु चेत् तत् न । किम् कारणम् । एकाचः उच्चारणसामर्थ्यात् अन्तरेण अपि वचनम् प्रकृतिभावः भविष्यति । विन्मतोः तु लुगर्थम् । विन्मतोः तु लुगर्थम् प्रकृतिभावः वक्तव्यः । स्रग्वितरः , स्रजीयान् , स्रग्वितमः , स्रजिष्ठः । स्रुग्वत्तरः , स्रुचीयान् , स्रुग्वत्तमः , स्रुचिष्ठः । ननु च विन्मतोः लुक् टिलोपम् बाधिष्यते । कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् । असति खलु अपि सम्भवे बाधनम् भवति । अस्ति च सम्भवः यत् उभयम् स्यात् । यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत । यतरः नः ब्रह्मीयान् । ब्रह्मवत्तरः इति । यत् तावत् उच्यते कथम् अन्यस्य उच्यमानस्य अन्यस्य बाधकम् स्यात् इति । इदम् तावत् अयम् प्रष्टव्यः । यदि तर्हि विन्मतोः लुक् न उच्येत किम् इह स्यात् इति । टिलोपः इति आह । टिलोपः चेत् न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते । सः बाधकः भविष्यति । यत् अपि उच्यते असति खलु अपि सम्भवे बाधनम् भवति । अस्ति च सम्भवः यत् उभयम् स्यात् इति । सति अपि सम्भवे बाधनम् भवति । तत् यथा । दधि ब्राह्मणेभ्यः दीयताम् तक्रम् कौण्डिन्याय इति सति अपि सम्भवे दधिदानस्य तक्रदानम् निवर्तकम् भवति । एवम् इह अपि सति अपि सम्भवे विन्मतोः लुक् टिलोपम् बाधिष्यते । यत् अपि उच्यते यथा एव खलु अपि विन्मतोः लुक् टिलोपम् बाधते एव नः तद्धिते इति एतम् अपि बाधेत इति । न बाधते । किम् कारणम् । येन न अप्राप्ते तस्य बाधनम् । न अप्राप्ते टिलोपे विन्मतोः लुक् आरभ्यते । नः तद्धिते इति एतस्मिन् पुनः प्राप्ते च अप्राप्ते च । अथ वा पुरस्तात् अपवादाः अनन्तरान् विधीन् बाधन्ते इति एवम् विन्मतोः लुक् टिलोपम् बाधिष्यते । नः तद्धिते इति एतम् न बाधिष्यते । यदि तर्हि विन्मतोः लुक् टिलोपम् बाधते पयिष्थः इति न सिध्यति । पयसिष्थः इति प्राप्नोति । यथालक्षणम् अप्रयुक्ते । प्रकृत्या अके राजन्यमनुष्ययुवानः । राजन्यमनुष्ययुवानः अके प्रकृत्या भवन्ति इति वक्तव्यम् । राजन्यकम् , मानुष्यकम् , यौवनिका ।

KA III.231.25-233.5 Ro IV.799-804 prakṛtyā ekāc iti kim iṣṭheymeyassu āhosvit aviśeṣeṇa . kim ca ataḥ . yadi aviśeṣeṇa svī khī śauvam adhunā iti atra api prāpnoti . svikhinau eva na staḥ . katham . uktam etat . ekākṣarāt kṛtaḥ jāteḥ saptamyām ca na tau smṛtau . svavān khavān iti eva bhavitavyam . śauvam iti paratvāt aijāgame kṛte ṭilopena bhavitavyam . adhunā iti saprakṛtikasya sapratyayakasya sthāne nipātanam kriyate . iha tarhi prāpnoti : dravyam . yasya īti ādau prakṛtibhāvaḥ . yasya īti yasya lopaprāptiḥ tasya prakṛtibhāvaḥ na ca etāni yasya īti ādau . evam api śriye hitaḥ śrīyaḥ , jñā devatā asya sthālīpākasya jñaḥ sthālīyāpākaḥ iti atra prāpnoti . tasmāt iṣṭheymeyassu prakṛtibhāvaḥ . atha iṣṭheymeyassu prakṛtibhāve kim udāharaṇam . preyān preṣthaḥ . na etat asti . prādīnām asiddhatvāt na bhaviṣyati . idam tarhi śreyān , śreṣṭhaḥ . prakṛtyā ekāc iṣṭheymeyassu cet ekācaḥ uccāraṇasāmarthyāt avacanāt prakṛtibhāvaḥ . prakṛtyā ekāc iṣṭheymeyassu cet tat na . kim kāraṇam . ekācaḥ uccāraṇasāmarthyāt antareṇa api vacanam prakṛtibhāvaḥ bhaviṣyati . vinmatoḥ tu lugartham . vinmatoḥ tu lugartham prakṛtibhāvaḥ vaktavyaḥ . sragvitaraḥ , srajīyān , sragvitamaḥ , srajiṣṭhaḥ . srugvattaraḥ , srucīyān , srugvattamaḥ , sruciṣṭhaḥ . nanu ca vinmatoḥ luk ṭilopam bādhiṣyate . katham anyasya ucyamānasya anyasya bādhakam syāt . asati khalu api sambhave bādhanam bhavati . asti ca sambhavaḥ yat ubhayam syāt . yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta . yataraḥ naḥ brahmīyān . brahmavattaraḥ iti . yat tāvat ucyate katham anyasya ucyamānasya anyasya bādhakam syāt iti . idam tāvat ayam praṣṭavyaḥ . yadi tarhi vinmatoḥ luk na ucyeta kim iha syāt iti . ṭilopaḥ iti āha . ṭilopaḥ cet na aprāpte ṭilope vinmatoḥ luk ārabhyate . saḥ bādhakaḥ bhaviṣyati . yat api ucyate asati khalu api sambhave bādhanam bhavati . asti ca sambhavaḥ yat ubhayam syāt iti . sati api sambhave bādhanam bhavati . tat yathā . dadhi brāhmaṇebhyaḥ dīyatām takram kauṇḍinyāya iti sati api sambhave dadhidānasya takradānam nivartakam bhavati . evam iha api sati api sambhave vinmatoḥ luk ṭilopam bādhiṣyate . yat api ucyate yathā eva khalu api vinmatoḥ luk ṭilopam bādhate eva naḥ taddhite iti etam api bādheta iti . na bādhate . kim kāraṇam . yena na aprāpte tasya bādhanam . na aprāpte ṭilope vinmatoḥ luk ārabhyate . naḥ taddhite iti etasmin punaḥ prāpte ca aprāpte ca . atha vā purastāt apavādāḥ anantarān vidhīn bādhante iti evam vinmatoḥ luk ṭilopam bādhiṣyate . naḥ taddhite iti etam na bādhiṣyate . yadi tarhi vinmatoḥ luk ṭilopam bādhate payiṣthaḥ iti na sidhyati . payasiṣthaḥ iti prāpnoti . yathālakṣaṇam aprayukte . prakṛtyā ake rājanyamanuṣyayuvānaḥ . rājanyamanuṣyayuvānaḥ ake prakṛtyā bhavanti iti vaktavyam . rājanyakam , mānuṣyakam , yauvanikā .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३३।१०-१२ रो इव्।८०४ मपूर्वात् प्रतिषेधे वा हितनाम्नः । मपूर्वात् प्रतिषेधे वा हितनाम्नः इति वक्तव्यम् । समानः हैतनामः , समानः हैतनामनः इति च ।

KA III.233.10-12 Ro IV.804 mapūrvāt pratiṣedhe vā hitanāmnaḥ . mapūrvāt pratiṣedhe vā hitanāmnaḥ iti vaktavyam . samānaḥ haitanāmaḥ , samānaḥ haitanāmanaḥ iti ca .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३३।१४-२३४।३ रो इव्।८०५ अथ किम् इदम् ब्राह्मस्य अजातौ अनः लोपार्थम् वचनम् आहोस्वित् नियमार्थम् । कथ च लोपाथम् स्यात् कथम् व नियमार्थम् । यदि तावत् अपत्ये इति वर्तते ततः नियमार्थम् । अथ निवृत्तम् ततः लोपार्थम् । अतः उत्तरम् पठति ब्राह्मस्य अजातौ लोपार्थम् वचनम् । ब्राह्मस्य अजातौ लोपार्थम् वचनम् क्रियते । अपत्ये इति निवृत्तम् । तत्र अप्राप्तविधाने प्राप्तप्रतिषेधः । तत्र अप्राप्तस्य टिलोपस्य विधाने प्राप्तस्य प्रतिषेधः वक्तव्यः । ब्राह्मणः । न वा पर्युदाससामर्थ्यात् । न वा वक्तव्यः । किम् कारणम् । पर्युदाससामर्थ्यात् पर्युदासः अत्र भविष्यति । अस्ति अन्यत् पर्युदासे प्रयोजनम् । किम् । या जातिः एव न अपत्यम् । ब्राह्मी ओषधिः इति । न वै अत्र इष्यते । अनिष्टम् च प्राप्नोति इष्टम् च न सिध्यति । एवम् तर्हि अनुवर्तते अपत्ये इति न तु अपत्ये इति अनेन निपातनम् अभिसम्बध्यते : ब्राह्मः इति निपात्यते अपत्ये अजातौ इति । किम् तर्हि । प्रतिषेधः अभिसम्बध्यते : ब्राह्मः इति निपात्यते । अपत्ये जातौ न इति ।

KA III.233.14-234.3 Ro IV.805 atha kim idam brāhmasya ajātau anaḥ lopārtham vacanam āhosvit niyamārtham . katha ca lopātham syāt katham va niyamārtham . yadi tāvat apatye iti vartate tataḥ niyamārtham . atha nivṛttam tataḥ lopārtham . ataḥ uttaram paṭhati brāhmasya ajātau lopārtham vacanam . brāhmasya ajātau lopārtham vacanam kriyate . apatye iti nivṛttam . tatra aprāptavidhāne prāptapratiṣedhaḥ . tatra aprāptasya ṭilopasya vidhāne prāptasya pratiṣedhaḥ vaktavyaḥ . brāhmaṇaḥ . na vā paryudāsasāmarthyāt . na vā vaktavyaḥ . kim kāraṇam . paryudāsasāmarthyāt paryudāsaḥ atra bhaviṣyati . asti anyat paryudāse prayojanam . kim . yā jātiḥ eva na apatyam . brāhmī oṣadhiḥ iti . na vai atra iṣyate . aniṣṭam ca prāpnoti iṣṭam ca na sidhyati . evam tarhi anuvartate apatye iti na tu apatye iti anena nipātanam abhisambadhyate : brāhmaḥ iti nipātyate apatye ajātau iti . kim tarhi . pratiṣedhaḥ abhisambadhyate : brāhmaḥ iti nipātyate . apatye jātau na iti .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३४।५-८ रो इव्।८०६ किमर्थम् इदम् उच्यते न नः तद्धिते इति एव सिद्धम् । न सिध्यति । अन् अणि इति प्रकृतिभावः प्रसज्येत । अणि इति उच्यते णः च अयम् । एवम् तर्हि सिद्धे सति यत् निपातनम् करोति तत् ज्ञापयति आचार्यः ताच्छीलिके णे अण्कृतानि भवन्ति । किम् एतस्य ज्ञापने प्रयोजनम् । चौरी तापसी इति अणन्तात् इति ईकारः सिद्धः भवति ।

KA III.234.5-8 Ro IV.806 kimartham idam ucyate na naḥ taddhite iti eva siddham . na sidhyati . an aṇi iti prakṛtibhāvaḥ prasajyeta . aṇi iti ucyate ṇaḥ ca ayam . evam tarhi siddhe sati yat nipātanam karoti tat jñāpayati ācāryaḥ tācchīlike ṇe aṇkṛtāni bhavanti . kim etasya jñāpane prayojanam . caurī tāpasī iti aṇantāt iti īkāraḥ siddhaḥ bhavati .

Sanskrit only: no published translation is held for this verse.

क्अ इइइ।२३४।११-२३५।१६ रो इव्।८०७-८०९ अत्र भ्रौणहत्ये किम् निपात्यते । यकारादौ तद्धिते तत्वम् निपात्यते । भ्रौणहत्ये तत्वनिपातनानर्थक्यम् सामान्येन कृतत्वात् । भ्रौणहत्ये तत्वनिपातनम् अनर्थकम् । किम् कारणम् । सामान्येन कृतत्वात् । सामान्येन एव अत्र तत्वम् भविष्यति । हनः तः अचिण्णमुलोः इति । ज्ञापकम् तु तद्धिते तत्वप्रतिषेधस्य । एवम् तर्हि ज्ञापयति आचार्यः न तद्धिते तत्वम् भवति इति । किम् एतस्य ज्ञापने प्रयोजनम् । भ्रौणघ्नः , वार्त्रघ्नः इति अत्र तत्वम् न भवति । ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन । ऐक्ष्वाकस्य स्वरभेदात् निपातनम् पृथक्त्वेन कर्तव्यम् । ऐक्ष्वाकः , ऐक्ष्वाकः । एकश्रुत्या निर्देशात् सिद्धम् ।एकश्रुतिः स्वरसर्वनाम यथा नपुंसकम् लिङ्गसर्वनाम । अथ मैत्रेये किम् निपात्यते । मैत्रेये ढञि यादिलोपनिपातनम् । मैत्रेये ढञि यादिलोपः निपात्यते । इदम् मित्रयुशब्दस्य चतुः ग्रहणम् क्रियते । गृष्ट्यादिषु प्रत्ययविध्यर्थम् पाठः क्रियते । द्वितीये अध्याये यस्कादिषु लुगर्थम् ग्रहणम् क्रियते । सप्तमे अध्याये इयादेशार्थम् । इदम् चतुर्थम् यादिलोपार्थम् । द्विर्ग्रहणम् शक्यम् अकर्तुम् । बिदादिषु प्रत्ययविध्यर्थम् पाठः कर्तव्यः । तत्र न एव अर्थः लुका न अपि यादिलोपेन । इयादेशेन एव सिद्धम् । न एवम् शक्यम् । इह हि मैत्रेयकः सङ्घः इति सङ्घातलक्षणेषु अञ्यञिञाम् अण् इति अण् प्रसज्येत । हिरण्मये किम् निपात्यते । हिरण्मये यलोपवचनम् । हिरण्मये यलोपः निपात्यते । अथ हिरण्यये किम् निपात्यते । हिरण्ययस्य छन्दसि मलोपवचनात् सिद्धम् । हिरण्ययस्य छन्दसि मलोपः निपात्यते । हिरण्ययी नः नयतु । हिरण्ययाः पन्थानः आसन् । हिरण्ययम् आसनम् ।

KA III.234.11-235.16 Ro IV.807-809 atra bhrauṇahatye kim nipātyate . yakārādau taddhite tatvam nipātyate . bhrauṇahatye tatvanipātanānarthakyam sāmānyena kṛtatvāt . bhrauṇahatye tatvanipātanam anarthakam . kim kāraṇam . sāmānyena kṛtatvāt . sāmānyena eva atra tatvam bhaviṣyati . hanaḥ taḥ aciṇṇamuloḥ iti . jñāpakam tu taddhite tatvapratiṣedhasya . evam tarhi jñāpayati ācāryaḥ na taddhite tatvam bhavati iti . kim etasya jñāpane prayojanam . bhrauṇaghnaḥ , vārtraghnaḥ iti atra tatvam na bhavati . aikṣvākasya svarabhedāt nipātanam pṛthaktvena . aikṣvākasya svarabhedāt nipātanam pṛthaktvena kartavyam . aikṣvākaḥ , aikṣvākaḥ . ekaśrutyā nirdeśāt siddham .ekaśrutiḥ svarasarvanāma yathā napuṃsakam liṅgasarvanāma . atha maitreye kim nipātyate . maitreye ḍhañi yādilopanipātanam . maitreye ḍhañi yādilopaḥ nipātyate . idam mitrayuśabdasya catuḥ grahaṇam kriyate . gṛṣṭyādiṣu pratyayavidhyartham pāṭhaḥ kriyate . dvitīye adhyāye yaskādiṣu lugartham grahaṇam kriyate . saptame adhyāye iyādeśārtham . idam caturtham yādilopārtham . dvirgrahaṇam śakyam akartum . bidādiṣu pratyayavidhyartham pāṭhaḥ kartavyaḥ . tatra na eva arthaḥ lukā na api yādilopena . iyādeśena eva siddham . na evam śakyam . iha hi maitreyakaḥ saṅghaḥ iti saṅghātalakṣaṇeṣu añyañiñām aṇ iti aṇ prasajyeta . hiraṇmaye kim nipātyate . hiraṇmaye yalopavacanam . hiraṇmaye yalopaḥ nipātyate . atha hiraṇyaye kim nipātyate . hiraṇyayasya chandasi malopavacanāt siddham . hiraṇyayasya chandasi malopaḥ nipātyate . hiraṇyayī naḥ nayatu . hiraṇyayāḥ panthānaḥ āsan . hiraṇyayam āsanam .

Sanskrit only: no published translation is held for this verse.