Library·Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version·2·2.2

Nyāyasudhā a subcommentary on Mādhva's Anuvyākhāna, a commentary on Bādarāyaṇa's Brahmasūtra, integrated version 2.2

तादृशो ऽयं च तच्छब्द इति ज्ञापयति स्फुटम् तच्छब्दः स शब्दो यस्य वाचको ऽसौ तथोक्तः । इतिशब्दः प्रकारवाची । अयमत्र समुदायार्थः । व्युत्पत्त्यर्थं तावन्नानुगतं किमप्यङ्गीकरणीयम् । सादृश्येनैव तदुपपत्तेः । नच वाच्यं सादृश्यमप्यनुगतं चेत्किं सामान्येनापराद्धम् । व्यावृत्तत्वे कथं सार्वत्रिकव्युत्पत्त्यङ्गमिति । नहि सादृश्यं शब्दशक्तिविषयतया प्रवृत्तिनिमित्ततया वा अभ्युपगम्यते । किन्नाम लिङ्गतया । यथा हि गन्धवत्त्वं न पृथिवीशब्दवाच्यम्, नापि तत्प्रवृत्तिनिमित्तम्, किन्तु पृथिवीत्ववत्या व्यक्तेः पृथिवीशब्दवाच्यत्वे लिङ्गमेव । तथा तेते व्यावृत्तामपि तदवबोधे लिङ्गतयोपयुज्यते । तथा हि । यदायं गौरित्युपदेशपूर्विका व्युत्पत्तिस्तदा तद्वाक्यं व्याप्तिग्राहकम् । अयं चैतन्यसदृशाश्च सर्वे गोशब्दवाच्या इत्येवम्परत्वात् । व्यवहारादिपूर्विकायां तु व्युत्पत्तौ भूयोव्यवहारादिदशर्ने सादृश्यव्याप्यतावगमो भवति । ततश्चैतद्वाक्यादिनावगतव्याप्तिरित्यनुमीयते"अयं गोशब्दवाच्यो भवितुमर्हति तत्सदृशत्वात् यस्तत्सदृशस्स गोशब्दवाच्यस्तथा चायं तत्सदृशस्तस्माद्गोशब्दवाच्यःऽ; इति । *८,४९* नन्वत्र को दृष्टान्तः । उपदेशकाले सन्निहितो गोपिण्ड इति चेन्न । तस्य तत्सदृशत्वाभावात् । मैवम् । दृष्टान्तनियमस्य निरस्तत्वात् । नच सास्नादिमत्त्वमेव लिङ्गमस्तु किं सादृश्येनेति वाच्यम् । तस्य गोत्ववत्प्रतिव्यक्तिव्यावृत्तत्वात् । सादृश्यस्य तु व्यावृत्तत्वे ऽपि प्रतियोगिनिरूप्यत्वेनानुगतफलसाधकत्वानुभवात् । सास्नादिमत्त्वस्यापि सादृश्योपहितस्य लिङ्गत्वमभ्युपगच्छामः । नच वाच्यं गोसादृश्यमश्वे ऽप्यस्तीति तत्रापि गोशब्दवाच्यतानुमानप्रसङ्ग इति । जातिनिमित्तत्वे ऽप्येवं प्रसङ्गस्य समानत्वात् । जातिविशेषो निमित्ततयाङ्गीक्रियते यो ऽव्यभिचारीति चेत् । तर्हि सादृश्यविशेष एव लिङ्गं यो लक्षणभूत इति वदामः । *८,५२* एतेन कार्यकारणभावावधारणादिकमपि समाहितं वेदितव्यम् । सादृश्येनैव तदुपपत्तेः । अन्त्यविशेषे हि न किञ्चिदनुगतमस्ति, नाप्यनुगताश्रय उपाधिः । तद्भावे द्रव्यगुणकर्मवदत्यन्तव्यावर्तकत्वस्वरूपहानिप्रसङ्गात् । तथाप्यस्ति तत्र विशेषशब्दव्युत्पत्तिः अत्यन्तव्यावृ(त्ति)त्तबुद्धिं प्रति कारणत्वावधारणमित्यादि । तत्र परेणापि लक्षणरूपं सादृश्यमेवादरणीयमिति । *८,५४* एवमनुगतसामान्यानभ्युपगमेनैव व्युत्पत्त्यादिकं समर्थितम् । यस्तु मन्यते अनुगतसामन्येनैव व्युत्पत्त्यादिकं नान्यथेति तस्य बाधकमाह जातितश्चेदिति ॥ जातितश्चेत् कथं तासु ॥। यद्यनुगतजातिनिमित्तैव सर्वत्र व्युत्पत्तिः कार्यकारणभावावधारणादिकं च स्यात् । तदा तासु जातिषु कथं जात्यादिशब्दव्युत्पत्तिरनुगतबुद्धिकारणत्वावधारणं, गोत्वं नित्यं जातित्वादित्यादिव्याप्तिज्ञानमित्यादिकं स्यात् । जातिषु जात्यभावेन तत्र व्युत्पत्त्यादिकं न स्यादित्यर्थः । *८,५४* यदि वैयात्यात्कश्चिद्ब्रूयात्"अस्ति जातिष्वपि जातित्वं नाम जातिस्तद्वशात्तत्र सवर्मुपपद्यतेऽ; इति, तं प्रत्याह तत्र चेदिति ॥ *८,५५* ॥। तत्र चेदनवस्थितिः

tādṛśo 'yaṃ ca tacchabda iti jñāpayati sphuṭam tacchabdaḥ sa śabdo yasya vācako 'sau tathoktaḥ / itiśabdaḥ prakāravācī / ayamatra samudāyārthaḥ / vyutpattyarthaṃ tāvannānugataṃ kimapyaṅgīkaraṇīyam / sādṛśyenaiva tadupapatteḥ / naca vācyaṃ sādṛśyamapyanugataṃ cetkiṃ sāmānyenāparāddham / vyāvṛttatve kathaṃ sārvatrikavyutpattyaṅgamiti / nahi sādṛśyaṃ śabdaśaktiviṣayatayā pravṛttinimittatayā vā abhyupagamyate / kinnāma liṅgatayā / yathā hi gandhavattvaṃ na pṛthivīśabdavācyam, nāpi tatpravṛttinimittam, kintu pṛthivītvavatyā vyakteḥ pṛthivīśabdavācyatve liṅgameva / tathā tete vyāvṛttāmapi tadavabodhe liṅgatayopayujyate / tathā hi / yadāyaṃ gaurityupadeśapūrvikā vyutpattistadā tadvākyaṃ vyāptigrāhakam / ayaṃ caitanyasadṛśāśca sarve gośabdavācyā ityevamparatvāt / vyavahārādipūrvikāyāṃ tu vyutpattau bhūyovyavahārādidaśarne sādṛśyavyāpyatāvagamo bhavati / tataścaitadvākyādināvagatavyāptirityanumīyate"ayaṃ gośabdavācyo bhavitumarhati tatsadṛśatvāt yastatsadṛśassa gośabdavācyastathā cāyaṃ tatsadṛśastasmādgośabdavācyaḥ'; iti / *8,49* nanvatra ko dṛṣṭāntaḥ / upadeśakāle sannihito gopiṇḍa iti cenna / tasya tatsadṛśatvābhāvāt / maivam / dṛṣṭāntaniyamasya nirastatvāt / naca sāsnādimattvameva liṅgamastu kiṃ sādṛśyeneti vācyam / tasya gotvavatprativyaktivyāvṛttatvāt / sādṛśyasya tu vyāvṛttatve 'pi pratiyoginirūpyatvenānugataphalasādhakatvānubhavāt / sāsnādimattvasyāpi sādṛśyopahitasya liṅgatvamabhyupagacchāmaḥ / naca vācyaṃ gosādṛśyamaśve 'pyastīti tatrāpi gośabdavācyatānumānaprasaṅga iti / jātinimittatve 'pyevaṃ prasaṅgasya samānatvāt / jātiviśeṣo nimittatayāṅgīkriyate yo 'vyabhicārīti cet / tarhi sādṛśyaviśeṣa eva liṅgaṃ yo lakṣaṇabhūta iti vadāmaḥ / *8,52* etena kāryakāraṇabhāvāvadhāraṇādikamapi samāhitaṃ veditavyam / sādṛśyenaiva tadupapatteḥ / antyaviśeṣe hi na kiñcidanugatamasti, nāpyanugatāśraya upādhiḥ / tadbhāve dravyaguṇakarmavadatyantavyāvartakatvasvarūpahāniprasaṅgāt / tathāpyasti tatra viśeṣaśabdavyutpattiḥ atyantavyāvṛ(tti)ttabuddhiṃ prati kāraṇatvāvadhāraṇamityādi / tatra pareṇāpi lakṣaṇarūpaṃ sādṛśyamevādaraṇīyamiti / *8,54* evamanugatasāmānyānabhyupagamenaiva vyutpattyādikaṃ samarthitam / yastu manyate anugatasāmanyenaiva vyutpattyādikaṃ nānyatheti tasya bādhakamāha jātitaścediti // jātitaścet kathaṃ tāsu ... yadyanugatajātinimittaiva sarvatra vyutpattiḥ kāryakāraṇabhāvāvadhāraṇādikaṃ ca syāt / tadā tāsu jātiṣu kathaṃ jātyādiśabdavyutpattiranugatabuddhikāraṇatvāvadhāraṇaṃ, gotvaṃ nityaṃ jātitvādityādivyāptijñānamityādikaṃ syāt / jātiṣu jātyabhāvena tatra vyutpattyādikaṃ na syādityarthaḥ / *8,54* yadi vaiyātyātkaścidbrūyāt"asti jātiṣvapi jātitvaṃ nāma jātistadvaśāttatra savarmupapadyate'; iti, taṃ pratyāha tatra cediti // *8,55* ... tatra cedanavasthitiḥ

Sanskrit only: no published translation is held for this verse.

यदि तत्र जातिष्वपि जातित्वं नाम जातिरङ्गीक्रियते तदानवस्थितिः स्यात् । तथाहि गोत्वादिजातिषु जातिशब्दप्रवृत्तिनिमित्तं या जातित्वं नाम जातिः सा न तावत्स्वरूपे वर्तते । स्ववृत्तेरप्रामाणिकत्वात् । अतः स्वव्यतिरिक्तास्वेव जातिषु वर्तत इति वाच्यम् । तथाच स्वव्यतिरिक्तजातिषु जातिशब्दप्रवृत्तावियं निमित्तं स्यान्न तु स्वरूपे ऽपि । अतस्तस्यां तद्वयतिरिक्तासु जातिष्वेकस्य जातिशब्दस्य प्रवृत्तौ निमित्तं जात्यन्तरमङ्गीकरणीयम् । तत्राप्येवमेवेत्यनवस्थेति । ननु गोत्वादिजातिषु जातित्वप्रयुक्तो जातिशब्दः । जातित्वे तूपदेशाधीनो भवतु । तस्या एकत्वादिति । मैवम् । न ह्यस्माभिः सादृश्यमिव भवता जातिः (जाति)शब्दप्रवृत्तौ ज्ञापकतयोपेयते । येन क्वचिदुपदेशो निवेश्यते । किन्तु निमित्ततया । तत्रोपदेशोपन्यासस्य क्वोपयोगः । *८,५६* स्थानान्तरे ऽपि बाधकमाह तथैवेति ॥ तथैव व्यक्तिविज्ञानं व्यक्तित्वाभावदूषितम् यथा जातिविज्ञानं जातित्वाभावेन दूषितं तथैव व्यक्तिविज्ञानं व्यक्तीनां व्यक्तिशब्दवाच्यत्वविज्ञानं तन्निमित्तव्यक्तित्वजात्यभावेन दूषितम् । द्रव्यगुणकर्माणि खलु व्यक्तय उच्यन्ते । नच तत्र व्यक्तित्वं नाम सामान्यमस्ति । सत्तया परापरभावाभावात् । तस्मात्तत्र व्यक्तिशब्दवाच्यत्वज्ञानं न स्यात् । मा भूद्वयतिरिक्तं व्यक्तित्वं सत्तैव व्यक्तिशब्दप्रवृत्तौ निमित्तं भविष्यतीति चेन्न । सामान्यस्य पर्यायप्रवृत्तौ निमित्तत्वात् । सद्वयक्तिशब्दयोरपर्यायत्वात् । अन्यथा संयोग्यादिशब्दानामपि द्रव्यादिशब्दपर्यायत्वं स्यात् । *८,५८* ननु शब्दमात्रस्य जातिनिमित्तत्वात्सत्तया परापरभावशून्यमपि द्रव्यगुणकर्मसु व्यक्तित्वमस्त्येवेत्यतो नोक्तदोष इत्यत आह यदीति ॥ यदि तच्चास्ति तस्यापि विशेषेष्वनवस्थितिः

yadi tatra jātiṣvapi jātitvaṃ nāma jātiraṅgīkriyate tadānavasthitiḥ syāt / tathāhi gotvādijātiṣu jātiśabdapravṛttinimittaṃ yā jātitvaṃ nāma jātiḥ sā na tāvatsvarūpe vartate / svavṛtteraprāmāṇikatvāt / ataḥ svavyatiriktāsveva jātiṣu vartata iti vācyam / tathāca svavyatiriktajātiṣu jātiśabdapravṛttāviyaṃ nimittaṃ syānna tu svarūpe 'pi / atastasyāṃ tadvayatiriktāsu jātiṣvekasya jātiśabdasya pravṛttau nimittaṃ jātyantaramaṅgīkaraṇīyam / tatrāpyevamevetyanavastheti / nanu gotvādijātiṣu jātitvaprayukto jātiśabdaḥ / jātitve tūpadeśādhīno bhavatu / tasyā ekatvāditi / maivam / na hyasmābhiḥ sādṛśyamiva bhavatā jātiḥ (jāti)śabdapravṛttau jñāpakatayopeyate / yena kvacidupadeśo niveśyate / kintu nimittatayā / tatropadeśopanyāsasya kvopayogaḥ / *8,56* sthānāntare 'pi bādhakamāha tathaiveti // tathaiva vyaktivijñānaṃ vyaktitvābhāvadūṣitam yathā jātivijñānaṃ jātitvābhāvena dūṣitaṃ tathaiva vyaktivijñānaṃ vyaktīnāṃ vyaktiśabdavācyatvavijñānaṃ tannimittavyaktitvajātyabhāvena dūṣitam / dravyaguṇakarmāṇi khalu vyaktaya ucyante / naca tatra vyaktitvaṃ nāma sāmānyamasti / sattayā parāparabhāvābhāvāt / tasmāttatra vyaktiśabdavācyatvajñānaṃ na syāt / mā bhūdvayatiriktaṃ vyaktitvaṃ sattaiva vyaktiśabdapravṛttau nimittaṃ bhaviṣyatīti cenna / sāmānyasya paryāyapravṛttau nimittatvāt / sadvayaktiśabdayoraparyāyatvāt / anyathā saṃyogyādiśabdānāmapi dravyādiśabdaparyāyatvaṃ syāt / *8,58* nanu śabdamātrasya jātinimittatvātsattayā parāparabhāvaśūnyamapi dravyaguṇakarmasu vyaktitvamastyevetyato noktadoṣa ityata āha yadīti // yadi taccāsti tasyāpi viśeṣeṣvanavasthitiḥ

Sanskrit only: no published translation is held for this verse.

अत्र स्वरूपमित्यध्याहर्तव्यम् । ततश्चायमर्थः । यद्यनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिस्तदा सकलपदार्थस्वरूपं स्वरूपशब्दवाच्यतया कथं ज्ञायते । अनुगतस्य स्वरूपत्वसामान्यस्याभावात् । स्वरूपेषु स्वरूपशब्दव्युत्पत्तिर्न स्यादिति । ननु च सर्वस्वरूपेष्वनुगतं स्वरूपत्वमङ्गीक्रियते मयातो नोक्तदोष इत्यत उक्तम्"स्वरूपत्वमपि यद्यनुगतमङ्गीक्रियते तदा अनवस्थादिदूषितं भवतिऽ; इति । तथाहि । सर्वेषु स्वरूपेषु यत्स्वरूपशब्दप्रवृत्तिनिमित्तं स्वरूपत्वं नाम सामान्यमभ्युपगम्यते, तदपि तावत्स्वरूपेण । नच तत्र स्वयमेव वर्तते । आत्माश्रयत्वस्यालौकिकत्वात् । अतस्तस्मिन्नन्येषु च स्वरूपेषु स्वरूपशब्दप्रवृत्तये ऽन्यत्स्वरूपत्वं नाम सामान्यमङ्गीकार्यम् । तदपि स्वरूपमेवेत्यनवस्था । आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्यमङ्गीकार्यम् । तदपि स्वरूपमेवेत्यनवस्था । आदिपदेनान्त्यविशेषस्वरूपेषु स्वरूपत्वसामान्याङ्गीकारे ऽत्यन्तव्यावृत्तिधीहेतुत्वं न स्यात् । समवायाभावस्वरूपे च सम्बन्धाभाव इति ज्ञातव्यम् । अनवस्थाद्यनिष्यप्रसङ्गस्य विपर्यये पर्यवसानं सूचयति एकव्युत्पत्तिपर्यन्तमिति ॥ एकं केवलनुगतसामान्यहीनमिति यावत् । तस्मिन्व्युत्पत्तिरेकव्युत्पत्तिस्तत्पर्यन्तं तावदिदं दूषणमुपप्लवत एव । यावदनुगतसामान्यनिबन्धनैव सर्वत्र व्युत्पत्तिरिति पक्षं परित्यज्य सामान्यहीने ऽपि व्युत्पत्तिमङ्गीकुर्यादित्यर्थः । अनवस्थादिपरिहारायानुगतसामान्येन विनापि व्युत्पत्तिरङ्गीकरणीयेति भावः । *८,६१फ़्।* नन्विदं सकलमप्यसङ्गतम् । तथाहि । यदुक्तं"जातितश्चेत्युक्तं तासुऽ; इति, तत्तावदसत् । जातिषु जात्यन्तराभावे ऽपि नित्यत्वे सत्यनेकानुगतत्वेनोपाधिना जातिशब्दव्युत्पत्त्युपपत्तेः । अस्तु वा जातिषु जातित्वं नाम जातिः । न चानवस्था । जातित्वे जातिशब्दस्य स्वरूपनिबन्धनत्वोपपत्तेः । "तथैव व्यक्तिविज्ञानम्ऽ; इत्येतदप्यसत् । व्यक्तित्वाभावे ऽपि जातिव्यञ्जकत्वोपाधिना द्रव्यादिषु व्यक्तिशब्दप्रवृत्त्युपपत्तेः । व्यक्तित्वजात्यङ्गीकारे ऽपि नानवस्था । व्यक्तित्वे व्यक्तिशब्दस्य स्वरूपनिमित्तत्वसम्भवात् । यदपि"कथम्ऽ; इत्यादि तदयुक्तम् । प्रमाणगम्यत्वोपाधिनैव स्वरूपशब्दव्युत्पत्त्युपपत्तेः । स्वरूपत्वाभ्युपगमे ऽपि नानवस्था । तत्र स्वरूपशब्दस्य स्वरूपमात्रनिबन्धनत्वात् । अन्त्यविशेषेषूपाधिनिबन्धन एवेति न रूपहानिः । समवायादौ स्वरूपमेव सम्बन्ध इत्यतो न कश्चिद्दोष इत्याशङ्कां परिहरन्ननुगतसमान्यदूषणमुपसंहरति कल्पनेति ॥ कल्पनागौरवात् तेन युक्ता नानुगकल्पना

atra svarūpamityadhyāhartavyam / tataścāyamarthaḥ / yadyanugatasāmānyanibandhanaiva sarvatra vyutpattistadā sakalapadārthasvarūpaṃ svarūpaśabdavācyatayā kathaṃ jñāyate / anugatasya svarūpatvasāmānyasyābhāvāt / svarūpeṣu svarūpaśabdavyutpattirna syāditi / nanu ca sarvasvarūpeṣvanugataṃ svarūpatvamaṅgīkriyate mayāto noktadoṣa ityata uktam"svarūpatvamapi yadyanugatamaṅgīkriyate tadā anavasthādidūṣitaṃ bhavati'; iti / tathāhi / sarveṣu svarūpeṣu yatsvarūpaśabdapravṛttinimittaṃ svarūpatvaṃ nāma sāmānyamabhyupagamyate, tadapi tāvatsvarūpeṇa / naca tatra svayameva vartate / ātmāśrayatvasyālaukikatvāt / atastasminnanyeṣu ca svarūpeṣu svarūpaśabdapravṛttaye 'nyatsvarūpatvaṃ nāma sāmānyamaṅgīkāryam / tadapi svarūpamevetyanavasthā / ādipadenāntyaviśeṣasvarūpeṣu svarūpatvasāmānyamaṅgīkāryam / tadapi svarūpamevetyanavasthā / ādipadenāntyaviśeṣasvarūpeṣu svarūpatvasāmānyāṅgīkāre 'tyantavyāvṛttidhīhetutvaṃ na syāt / samavāyābhāvasvarūpe ca sambandhābhāva iti jñātavyam / anavasthādyaniṣyaprasaṅgasya viparyaye paryavasānaṃ sūcayati ekavyutpattiparyantamiti // ekaṃ kevalanugatasāmānyahīnamiti yāvat / tasminvyutpattirekavyutpattistatparyantaṃ tāvadidaṃ dūṣaṇamupaplavata eva / yāvadanugatasāmānyanibandhanaiva sarvatra vyutpattiriti pakṣaṃ parityajya sāmānyahīne 'pi vyutpattimaṅgīkuryādityarthaḥ / anavasthādiparihārāyānugatasāmānyena vināpi vyutpattiraṅgīkaraṇīyeti bhāvaḥ / *8,61f.* nanvidaṃ sakalamapyasaṅgatam / tathāhi / yaduktaṃ"jātitaścetyuktaṃ tāsu'; iti, tattāvadasat / jātiṣu jātyantarābhāve 'pi nityatve satyanekānugatatvenopādhinā jātiśabdavyutpattyupapatteḥ / astu vā jātiṣu jātitvaṃ nāma jātiḥ / na cānavasthā / jātitve jātiśabdasya svarūpanibandhanatvopapatteḥ / "tathaiva vyaktivijñānam'; ityetadapyasat / vyaktitvābhāve 'pi jātivyañjakatvopādhinā dravyādiṣu vyaktiśabdapravṛttyupapatteḥ / vyaktitvajātyaṅgīkāre 'pi nānavasthā / vyaktitve vyaktiśabdasya svarūpanimittatvasambhavāt / yadapi"katham'; ityādi tadayuktam / pramāṇagamyatvopādhinaiva svarūpaśabdavyutpattyupapatteḥ / svarūpatvābhyupagame 'pi nānavasthā / tatra svarūpaśabdasya svarūpamātranibandhanatvāt / antyaviśeṣeṣūpādhinibandhana eveti na rūpahāniḥ / samavāyādau svarūpameva sambandha ityato na kaściddoṣa ityāśaṅkāṃ pariharannanugatasamānyadūṣaṇamupasaṃharati kalpaneti // kalpanāgauravāt tena yuktā nānugakalpanā

Sanskrit only: no published translation is held for this verse.

यथोत्पलस्य नीलं रूपं पर्वतस्य चाग्निः । व्यधिकरणं तु व्यावर्तकमुपलक्षणम् । यथा नीलरूपगतं नीलत्वमुत्पलस्य । *८,६६* अन्ये तु कायर्प्रवेशाप्रवेशाभ्यां विशेषणोपलक्षणयोर्भेदमाचक्षते । यथा लम्बकर्ण आनीयतां चित्रगुरानीयतामिति । अपरे तु शाब्दसामानाधिकरण्याभ्याम् । यथा दण्डी देवदत्तो जटाभिस्तापस इति । केचित्पुनर्व्यवच्छित्तिसमये सत्त्वासत्त्वाभ्याम् । तत्र विशिष्टं नीलमग्निमान्वा विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वा । उपलक्षितं चोपलक्षणोपलक्ष्यतत्सम्बन्धेभ्यो ऽनन्यत् अन्यद्वेति । तत्रान्यत्वपक्षस्तावदनुभवाभ्युपगमोपपत्तिविरुद्धत्वादसम्भावित एव । नहि पाचकादिः पचनादित्रयातिरिक्तो ऽनुभूयते । नच योग्यस्याननुभवे सत्त्वं सिद्धयति । नाप्यग्निमदादिः पर्वताद्यतिरिक्तो ऽनुभूयते । अतिरिक्तत्वे चौपाधिकविशिष्टादेर्द्रव्याद्यन्तर्भावासम्भवात् । षट्पदार्थातिरेकप्रसङ्गेनाभ्युपगमविरोधः स्यात् । यदि चौपाधिकविशिष्टाद्यमतिरिक्तं स्यात् तदा पाचकमानयेत्युक्ते पुरुषाद्यानयनं न क्रियेतेत्याद्युपपत्तिविरोधः । *८,७०* नन्ववच्छित्तिरौपाधिकत्वं, व्यवच्छित्तिश्च वैशिष्ययं त्रितयाद्भिन्नमेवेति चेन्न । अवच्छित्तेरनिरूपणात् । सा किमुपाधिसम्बन्धो वा पुरुषस्यैकत्वं वा स्वगतो भेदो वा । आद्ये न त्रयातिरेकः । द्वितीये त्वनौपाधिकादविशेषः । तृतीये त्वसत्त्वप्रसङ्गः । व्यवच्छित्तिर्वैशिष्यमिति चायुक्तम् । तस्या नीलादिपदार्थत्वाभावात् । सा हि वैशिष्ययप्रतीतिफलविषयतया अनुभूयते । *८,७१फ़्।* विशेषणविशेष्यसम्बन्धावगाह्येकं वा विज्ञानमविरलमनेकं वा विशिष्टमिति कश्चित् । यथाऽह"विशेषणं विशेष्यं च तत्सम्बन्धफलार्पकम् । ज्ञानरूपं स्वसामर्थ्याद्विशिष्टमिति कीर्तितम्ऽ; इति । तन्न । विशिष्टस्य बाह्यार्थतयानुभवात् । अन्यथा साध्यधर्मविशिष्टः पक्षः । सो ऽनुमानेन प्रज्ञापनीय इत्याद्ययुक्तं स्यात् । तस्मादतिरेकपक्षो ऽनुपपन्न एव । *८,७४* अस्तु तर्ह्यैपाधिकविशिष्टाद्यं त्रितयानन्यदित्यत आह तदेवेति ॥ ॥। तदेव चेदग्निमत्त्वं किं तत्र भण्यते

yathotpalasya nīlaṃ rūpaṃ parvatasya cāgniḥ / vyadhikaraṇaṃ tu vyāvartakamupalakṣaṇam / yathā nīlarūpagataṃ nīlatvamutpalasya / *8,66* anye tu kāyarpraveśāpraveśābhyāṃ viśeṣaṇopalakṣaṇayorbhedamācakṣate / yathā lambakarṇa ānīyatāṃ citragurānīyatāmiti / apare tu śābdasāmānādhikaraṇyābhyām / yathā daṇḍī devadatto jaṭābhistāpasa iti / kecitpunarvyavacchittisamaye sattvāsattvābhyām / tatra viśiṣṭaṃ nīlamagnimānvā viśeṣaṇaviśeṣyatatsambandhebhyo 'nanyat anyadvā / upalakṣitaṃ copalakṣaṇopalakṣyatatsambandhebhyo 'nanyat anyadveti / tatrānyatvapakṣastāvadanubhavābhyupagamopapattiviruddhatvādasambhāvita eva / nahi pācakādiḥ pacanāditrayātirikto 'nubhūyate / naca yogyasyānanubhave sattvaṃ siddhayati / nāpyagnimadādiḥ parvatādyatirikto 'nubhūyate / atiriktatve caupādhikaviśiṣṭāderdravyādyantarbhāvāsambhavāt / ṣaṭpadārthātirekaprasaṅgenābhyupagamavirodhaḥ syāt / yadi caupādhikaviśiṣṭādyamatiriktaṃ syāt tadā pācakamānayetyukte puruṣādyānayanaṃ na kriyetetyādyupapattivirodhaḥ / *8,70* nanvavacchittiraupādhikatvaṃ, vyavacchittiśca vaiśiṣyayaṃ tritayādbhinnameveti cenna / avacchitteranirūpaṇāt / sā kimupādhisambandho vā puruṣasyaikatvaṃ vā svagato bhedo vā / ādye na trayātirekaḥ / dvitīye tvanaupādhikādaviśeṣaḥ / tṛtīye tvasattvaprasaṅgaḥ / vyavacchittirvaiśiṣyamiti cāyuktam / tasyā nīlādipadārthatvābhāvāt / sā hi vaiśiṣyayapratītiphalaviṣayatayā anubhūyate / *8,71f.* viśeṣaṇaviśeṣyasambandhāvagāhyekaṃ vā vijñānamaviralamanekaṃ vā viśiṣṭamiti kaścit / yathā'ha"viśeṣaṇaṃ viśeṣyaṃ ca tatsambandhaphalārpakam / jñānarūpaṃ svasāmarthyādviśiṣṭamiti kīrtitam'; iti / tanna / viśiṣṭasya bāhyārthatayānubhavāt / anyathā sādhyadharmaviśiṣṭaḥ pakṣaḥ / so 'numānena prajñāpanīya ityādyayuktaṃ syāt / tasmādatirekapakṣo 'nupapanna eva / *8,74* astu tarhyaipādhikaviśiṣṭādyaṃ tritayānanyadityata āha tadeveti // ... tadeva cedagnimattvaṃ kiṃ tatra bhaṇyate

Sanskrit only: no published translation is held for this verse.

प्रतिदत्तिसौकर्यायोदाहरणनिष्ठतया मतुपा प्रश्नः कृतो ऽग्निमत्त्वमिति । धूमाद्यनुमानसाध्यं विशिष्टमित्यर्थः । औपाधिकादेरप्युपलक्षणमेतत् । अयमर्थः । अग्निमदादिविशिष्टं च यदि विशेषणविशेष्यतत्सम्बन्धेभ्यो ऽनन्यदङ्गीक्रियते । तदापि वक्तव्यम् । किं तत्त्रितयमपि प्रत्येकं विशिष्टमुता(तत्र)न्यतमम् । द्वितीये ऽपि किं विशेषणभूतो ऽग्निरेवाग्निमच्छब्दार्थः, उत विशेष्यरूपः पर्वतः, अथ सम्बन्धः संयोगलक्षणः । संयोगपक्षे ऽपि किं निर्विशेषणसंयोगः किंवाग्निना संयोगः । उत्तरत्रापि किमग्निसंयोगमात्रम् । उत पर्वतस्याग्निसंयोग इति । एवं पाचकादेरपि पचनादित्रयानन्यत्वे विकल्पो द्रष्टव्यः । *८,७६* अन्त्यपक्षातिरिक्तान्सर्वपक्षानपाकरोति अग्नीति ॥ अग्निसंयोगमात्रं चेद् भवेत् तत् सिद्धसाधनम् अग्निसंयोगमात्रमिति सर्वपक्षोपलक्षणम् । चेत् अग्निमच्छब्दार्थ इति शेषः । तत् धूमवत्त्वाद्यनुमानमग्निपर्वतसंयोगानां समस्तानां व्यस्तानामग्निना संयोगस्य चाग्निमच्छब्दवाच्यविशिष्टत्वे धूमानुमानं सिद्धसाधनं स्यात् । विशिष्टस्यानुमानसाध्यत्वात् । अग्न्यादेर्विशिष्टस्य मानान्तरत एव सिद्धत्वादिति । *८,७७* अस्तु तर्हि पर्वतस्याग्निना संयोगो विशिष्टरूपो ऽग्निमच्छब्दार्थो ऽनुमानसाध्य इत्यन्तिमः पक्षः । तत्रोक्तदोषाभावात् । पर्वतमग्निसंयोगानां समस्तानां व्यस्तानामग्निसंयोगस्य च सिद्धत्वे ऽपि पर्वतस्याग्निना यः संयोगस्तस्यानुमानतः प्रागसिद्धेरिति शङ्कते भूधरस्येति ॥ भूधरस्याग्निसंयोगो यदि षष्ठयर्थ एव कः

pratidattisaukaryāyodāharaṇaniṣṭhatayā matupā praśnaḥ kṛto 'gnimattvamiti / dhūmādyanumānasādhyaṃ viśiṣṭamityarthaḥ / aupādhikāderapyupalakṣaṇametat / ayamarthaḥ / agnimadādiviśiṣṭaṃ ca yadi viśeṣaṇaviśeṣyatatsambandhebhyo 'nanyadaṅgīkriyate / tadāpi vaktavyam / kiṃ tattritayamapi pratyekaṃ viśiṣṭamutā(tatra)nyatamam / dvitīye 'pi kiṃ viśeṣaṇabhūto 'gnirevāgnimacchabdārthaḥ, uta viśeṣyarūpaḥ parvataḥ, atha sambandhaḥ saṃyogalakṣaṇaḥ / saṃyogapakṣe 'pi kiṃ nirviśeṣaṇasaṃyogaḥ kiṃvāgninā saṃyogaḥ / uttaratrāpi kimagnisaṃyogamātram / uta parvatasyāgnisaṃyoga iti / evaṃ pācakāderapi pacanāditrayānanyatve vikalpo draṣṭavyaḥ / *8,76* antyapakṣātiriktānsarvapakṣānapākaroti agnīti // agnisaṃyogamātraṃ ced bhavet tat siddhasādhanam agnisaṃyogamātramiti sarvapakṣopalakṣaṇam / cet agnimacchabdārtha iti śeṣaḥ / tat dhūmavattvādyanumānamagniparvatasaṃyogānāṃ samastānāṃ vyastānāmagninā saṃyogasya cāgnimacchabdavācyaviśiṣṭatve dhūmānumānaṃ siddhasādhanaṃ syāt / viśiṣṭasyānumānasādhyatvāt / agnyāderviśiṣṭasya mānāntarata eva siddhatvāditi / *8,77* astu tarhi parvatasyāgninā saṃyogo viśiṣṭarūpo 'gnimacchabdārtho 'numānasādhya ityantimaḥ pakṣaḥ / tatroktadoṣābhāvāt / parvatamagnisaṃyogānāṃ samastānāṃ vyastānāmagnisaṃyogasya ca siddhatve 'pi parvatasyāgninā yaḥ saṃyogastasyānumānataḥ prāgasiddheriti śaṅkate bhūdharasyeti // bhūdharasyāgnisaṃyogo yadi ṣaṣṭhayartha eva kaḥ

Sanskrit only: no published translation is held for this verse.

अग्निमच्छब्दार्थो विशिष्टो ऽनुमानसाध्य इति शेषः । दूषयितुं पृच्छति षष्ठयर्थ इति ॥ पर्वतस्याग्निसंयोगस्य च सिद्धत्वे ऽपि पवर्तस्य यो ऽग्निसंयोगः स न सिद्ध इत्यतः स एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इति वदता पर्वतस्येति षष्ठया निर्दिष्यः सम्बन्ध एव विशिष्टो ऽग्निमच्छब्दार्थो ऽनुमानवेद्य इत्युक्तं भवति । अन्यस्य सर्वस्य सिद्धत्वात् । षष्ठयर्थाश्च सम्बन्धा वैयाकरणैरनेके गणिताः । अतः को ऽत्र सम्बन्धो विवक्षित इति प्रश्नार्थः । एवशब्दः तस्यैव प्राधान्यद्योतनार्थः । *८,७८* उत्तरं शङ्कते समवाय इति । समवायो यदि ह्य् ॥। संयोगो हि गुणः पर्वतश्च गुणी गुणगुणिनोश्च समवायः सम्बन्ध इति प्रसिद्धमिति हिशब्दार्थः । षष्ठयर्थ इति वर्तते । निराकरोति अस्य चेति ॥ ॥। अस्य चैकत्वात् सिद्धसाधनम् पर्वतादेरिवास्य समवायस्य च सिद्धत्वादिति शेषः । सिद्धसाधनं धूमाद्यनुमानमिति शेषः । कथं समवायस्य सिद्धत्वमित्यत उक्तम् एकत्वादिति ॥ यस्तन्तुपटयोः समवायः स एव हि पर्वताग्निसंयोगयोः समवायः परेणाङ्गीकृतः । तन्तुपटयोः समवायश्च प्रत्यक्षेण वानुमानेन वा सिद्ध एवेति । अयमत्र समुदायार्थः । यद्येक एव सर्वत्र समवायः स्यात्तदा सर्वानुमानानां सिद्धसाधनता स्यात् । यद्यपि याथार्थ्यमेव प्रामाण्यं तथापि शब्दवत्परार्थानुमानस्य परापेक्षया प्रवृत्तत्वात्सिद्धसाधनता दोष एव । *८,७८फ़्।* तथा हि । सर्वमप्यनुमानं न वस्तुस्वरूपमात्रपरम् । तस्यासिद्धावाश्रयासिद्धेः । सिद्धौ च सिद्धसाधनत्वात् । किन्तु केनचिदुपहितं वा विशिष्टं वोपलक्षितं वेति वक्तव्यम् । तच्च विशिष्टादिकं न विशेषणादित्रयादन्यदेवेति युक्तम् । अनुपलम्भादिबाधात् । त्रयानन्यत्वे ऽपि न विशेषणमात्रम् । तस्य अनुमानात्प्राक् सिद्धत्वात् । असिद्धौ चाप्रसिद्धविशेषणत्वापत्तेः । अग्नेरेवाग्निमच्छब्दार्थत्वे मतुपो वैयर्थ्यापत्तेश्च । नापि धर्मिस्वरूपमात्रम् । उक्तदोषात् । पर्वतो ऽग्निमानित्येतयेरेकार्थत्वापत्तेश्च । नच सम्बन्धमात्रम् । संयोगो हि क्वचित्सम्बन्धः स्यात् यथाग्निपर्वतयोः । क्वचित्समवायः यथा रासद्रूपानुमाने । द्वावपि स्वरूपतः सिद्धाविति सिद्धसाधनमेव । संयोगमात्रस्य सिद्धत्वे ऽप्यग्न्यादिसंयोगः साध्य इत्यपि न वाच्यम् । तस्यापि महानसादौ सिद्धत्वात् । अथ पर्वतादेरग्न्यादिसंयोगः साध्यः । अत्रापि विवेक्तव्यम् । कस्यात्रासिद्धया साध्यत्वमिति । अन्यस्यासम्भवात् । षष्ठयर्थस्य समवायस्येति वक्तव्यम् । स च सर्वत्रैक एव चेत्पुनः सिद्धसाधनतैव स्यात् । अतः सर्वानुमानोच्छेदप्रसङ्गात्सर्वत्र समवायैक्यमयुक्तमिति । *८,८०* ननु तन्तुषु पटादिसमवायः पर्वताग्निसंयोगादिसमवायश्च यद्यपि स्वरूपेणैक एव, तथापि तन्तुपटादिपर्वताग्निसंयोगाद्युपाधिनिमित्तः समवायस्य भेदो ऽप्यस्ति । ततः सिद्धत्वे ऽपि साध्यत्वमुपपद्यत इत्यत आह यदीति ॥ यद्यस्यौपाधिको भेदः कुत एकत्वमिष्यते

agnimacchabdārtho viśiṣṭo 'numānasādhya iti śeṣaḥ / dūṣayituṃ pṛcchati ṣaṣṭhayartha iti // parvatasyāgnisaṃyogasya ca siddhatve 'pi pavartasya yo 'gnisaṃyogaḥ sa na siddha ityataḥ sa eva viśiṣṭo 'gnimacchabdārtho 'numānavedya iti vadatā parvatasyeti ṣaṣṭhayā nirdiṣyaḥ sambandha eva viśiṣṭo 'gnimacchabdārtho 'numānavedya ityuktaṃ bhavati / anyasya sarvasya siddhatvāt / ṣaṣṭhayarthāśca sambandhā vaiyākaraṇairaneke gaṇitāḥ / ataḥ ko 'tra sambandho vivakṣita iti praśnārthaḥ / evaśabdaḥ tasyaiva prādhānyadyotanārthaḥ / *8,78* uttaraṃ śaṅkate samavāya iti / samavāyo yadi hy ... saṃyogo hi guṇaḥ parvataśca guṇī guṇaguṇinośca samavāyaḥ sambandha iti prasiddhamiti hiśabdārthaḥ / ṣaṣṭhayartha iti vartate / nirākaroti asya ceti // ... asya caikatvāt siddhasādhanam parvatāderivāsya samavāyasya ca siddhatvāditi śeṣaḥ / siddhasādhanaṃ dhūmādyanumānamiti śeṣaḥ / kathaṃ samavāyasya siddhatvamityata uktam ekatvāditi // yastantupaṭayoḥ samavāyaḥ sa eva hi parvatāgnisaṃyogayoḥ samavāyaḥ pareṇāṅgīkṛtaḥ / tantupaṭayoḥ samavāyaśca pratyakṣeṇa vānumānena vā siddha eveti / ayamatra samudāyārthaḥ / yadyeka eva sarvatra samavāyaḥ syāttadā sarvānumānānāṃ siddhasādhanatā syāt / yadyapi yāthārthyameva prāmāṇyaṃ tathāpi śabdavatparārthānumānasya parāpekṣayā pravṛttatvātsiddhasādhanatā doṣa eva / *8,78f.* tathā hi / sarvamapyanumānaṃ na vastusvarūpamātraparam / tasyāsiddhāvāśrayāsiddheḥ / siddhau ca siddhasādhanatvāt / kintu kenacidupahitaṃ vā viśiṣṭaṃ vopalakṣitaṃ veti vaktavyam / tacca viśiṣṭādikaṃ na viśeṣaṇāditrayādanyadeveti yuktam / anupalambhādibādhāt / trayānanyatve 'pi na viśeṣaṇamātram / tasya anumānātprāk siddhatvāt / asiddhau cāprasiddhaviśeṣaṇatvāpatteḥ / agnerevāgnimacchabdārthatve matupo vaiyarthyāpatteśca / nāpi dharmisvarūpamātram / uktadoṣāt / parvato 'gnimānityetayerekārthatvāpatteśca / naca sambandhamātram / saṃyogo hi kvacitsambandhaḥ syāt yathāgniparvatayoḥ / kvacitsamavāyaḥ yathā rāsadrūpānumāne / dvāvapi svarūpataḥ siddhāviti siddhasādhanameva / saṃyogamātrasya siddhatve 'pyagnyādisaṃyogaḥ sādhya ityapi na vācyam / tasyāpi mahānasādau siddhatvāt / atha parvatāderagnyādisaṃyogaḥ sādhyaḥ / atrāpi vivektavyam / kasyātrāsiddhayā sādhyatvamiti / anyasyāsambhavāt / ṣaṣṭhayarthasya samavāyasyeti vaktavyam / sa ca sarvatraika eva cetpunaḥ siddhasādhanataiva syāt / ataḥ sarvānumānocchedaprasaṅgātsarvatra samavāyaikyamayuktamiti / *8,80* nanu tantuṣu paṭādisamavāyaḥ parvatāgnisaṃyogādisamavāyaśca yadyapi svarūpeṇaika eva, tathāpi tantupaṭādiparvatāgnisaṃyogādyupādhinimittaḥ samavāyasya bhedo 'pyasti / tataḥ siddhatve 'pi sādhyatvamupapadyata ityata āha yadīti // yadyasyaupādhiko bhedaḥ kuta ekatvamiṣyate

Sanskrit only: no published translation is held for this verse.

विरुद्धाभिमतयोरविरोधो हि कालभेदेन भवति । यथा तत्रैव भूतले तस्यैव घटस्य भावाभावयोः । देशभेदेन वा । यथा तदैव तस्यैव घटस्यास्तित्वनास्तित्वयोः । व्यक्तिभेदेन वा । यथा तत्रैव भूतले यदैकस्य घटस्य भावस्तदैव घटान्तरस्याभावः । पारमार्थिकत्वापारमार्थिकत्वाभ्यां वा । यथा गगने रूपतदभावयोः । तत्र तावत्समवाये ऽभेदभेदयोर्नाद्यं विधात्रयं सम्भवतीति परस्यापि सम्प्रतिपन्नम् । नापि चतुर्थी विधा सम्भवति । समवायभेदस्यापारमार्थिकत्वमसत्त्वमनिर्वाच्यत्वं वा । आद्ये सिद्धसाधनत्वं तदवस्थमेव । द्वितीये त्विदमुपतिष्ठते । हि यस्मात्तेन वैशेषिकादिनानिर्वाच्यं वस्तु नेष्यमतो ऽसत्त्वानिर्वाच्यत्वाभावादौपाधिकस्य स्वाभाविकस्य च सत्यत्वात्को विशेषः स्यात् । औपाधिकस्यापि स्वाभाविकवत्सत्यत्वात्पारमार्थिकत्वापारमार्थिकत्वलक्षणस्य विरोधशान्तिहेतोः अभाववादौपाधिकत्वाद्युक्तया न किञ्चित्कृतं स्यादिति भावः । *८,८२* इष्यते समवायभेदस्यानिर्वाच्यत्वं मया चेत्तदा को दोष इति चेदपसिद्धान्त इत्याह मायेति ॥ ॥। मायावाद्यन्यथा भवेत्

viruddhābhimatayoravirodho hi kālabhedena bhavati / yathā tatraiva bhūtale tasyaiva ghaṭasya bhāvābhāvayoḥ / deśabhedena vā / yathā tadaiva tasyaiva ghaṭasyāstitvanāstitvayoḥ / vyaktibhedena vā / yathā tatraiva bhūtale yadaikasya ghaṭasya bhāvastadaiva ghaṭāntarasyābhāvaḥ / pāramārthikatvāpāramārthikatvābhyāṃ vā / yathā gagane rūpatadabhāvayoḥ / tatra tāvatsamavāye 'bhedabhedayornādyaṃ vidhātrayaṃ sambhavatīti parasyāpi sampratipannam / nāpi caturthī vidhā sambhavati / samavāyabhedasyāpāramārthikatvamasattvamanirvācyatvaṃ vā / ādye siddhasādhanatvaṃ tadavasthameva / dvitīye tvidamupatiṣṭhate / hi yasmāttena vaiśeṣikādinānirvācyaṃ vastu neṣyamato 'sattvānirvācyatvābhāvādaupādhikasya svābhāvikasya ca satyatvātko viśeṣaḥ syāt / aupādhikasyāpi svābhāvikavatsatyatvātpāramārthikatvāpāramārthikatvalakṣaṇasya virodhaśāntihetoḥ abhāvavādaupādhikatvādyuktayā na kiñcitkṛtaṃ syāditi bhāvaḥ / *8,82* iṣyate samavāyabhedasyānirvācyatvaṃ mayā cettadā ko doṣa iti cedapasiddhānta ityāha māyeti // ... māyāvādyanyathā bhavet

Sanskrit only: no published translation is held for this verse.

अनिर्वाच्यवस्त्वङ्गीकारे वैशेषिकादिरपि मायावादी भवेदित्यर्थः । ननु प्रकारभेदेनापि विरोधशशन्तिर्भव(विष्य)ति । यथा तत्रैव तदैव नीलपटसद्भावे ऽपि पीतपटाभावः । तथा समवाये ऽप्यौपाधिको भेदो न स्वाभाविकमभेदं विरुणद्धीत्यत आह उपाधीति ॥ उपाधिजन्यं तद्गम्यमिति वौपाधिकं भवेत् उपाधिशब्दात्तृतीयासमर्थाज्जन्यगम्ययोः शेषिके ठकि कृते सति औपाधिकमिति भवति । ततः किमित्यत आह-उभयत्रेति ॥ उभयत्राप्यनन्ताः स्युः समवाया इतस्ततः एवं सति समवायभेदस्यौपाधिकत्वं नामोपाधिजन्यत्वं वोपाधिगम्यत्वं वा वक्तव्यम् । तथाच पक्षद्वये ऽप्यनन्ताः समवायाः स्युः । तत्कथमित्यत आह इतस्तत इति ॥ सर्वदेशकालगतानामवयवावयव्याद्युपाधीनामनन्तत्वादिति शेषः । उपाधीनामनन्तत्वे ऽपि समवायानन्त्यं कुत इत्यत आह भिन्नत्वमिति ॥ भिन्नत्वं चैव तेष्वस्ति ॥। चो यस्मादित्यर्थे । नह्यौपाधिको भेदो नामोपाधीनामेव भेदः । तथा सति समवायस्येति न स्यात् । उक्तदोषपरिहारश्च न भवेत् । किन्तु तेषु समवायेष्वेवोपाधिजन्यं तदवगम्यं वा भिन्नत्वमस्ति । भेदहेतवश्चोपाधयो ऽनन्ता इति कथं न समवायानन्त्यम् । तथाप्यौपाधिकमेव तदानन्त्यमित्युक्तस्य किमायातमित्यत आह क इति ॥ *८,८३* ॥। को विशेष उपाधिगे

anirvācyavastvaṅgīkāre vaiśeṣikādirapi māyāvādī bhavedityarthaḥ / nanu prakārabhedenāpi virodhaśaśantirbhava(viṣya)ti / yathā tatraiva tadaiva nīlapaṭasadbhāve 'pi pītapaṭābhāvaḥ / tathā samavāye 'pyaupādhiko bhedo na svābhāvikamabhedaṃ viruṇaddhītyata āha upādhīti // upādhijanyaṃ tadgamyamiti vaupādhikaṃ bhavet upādhiśabdāttṛtīyāsamarthājjanyagamyayoḥ śeṣike ṭhaki kṛte sati aupādhikamiti bhavati / tataḥ kimityata āha-ubhayatreti // ubhayatrāpyanantāḥ syuḥ samavāyā itastataḥ evaṃ sati samavāyabhedasyaupādhikatvaṃ nāmopādhijanyatvaṃ vopādhigamyatvaṃ vā vaktavyam / tathāca pakṣadvaye 'pyanantāḥ samavāyāḥ syuḥ / tatkathamityata āha itastata iti // sarvadeśakālagatānāmavayavāvayavyādyupādhīnāmanantatvāditi śeṣaḥ / upādhīnāmanantatve 'pi samavāyānantyaṃ kuta ityata āha bhinnatvamiti // bhinnatvaṃ caiva teṣvasti ... co yasmādityarthe / nahyaupādhiko bhedo nāmopādhīnāmeva bhedaḥ / tathā sati samavāyasyeti na syāt / uktadoṣaparihāraśca na bhavet / kintu teṣu samavāyeṣvevopādhijanyaṃ tadavagamyaṃ vā bhinnatvamasti / bhedahetavaścopādhayo 'nantā iti kathaṃ na samavāyānantyam / tathāpyaupādhikameva tadānantyamityuktasya kimāyātamityata āha ka iti // *8,83* ... ko viśeṣa upādhige

Sanskrit only: no published translation is held for this verse.

सत्यमुपाधिगम्यत्वादौपाधिकः समवायभेदो ऽधिगमश्च न प्रमा । येनासौ भेदः पारमाथिर्कः स्यात् । किन्तु विभ्रम एव । नचैवं भेदस्यास्त्त्वप्राप्त्या सिद्धसाधनतातादवस्थ्यमिति वाच्यम् यतो ऽविद्यमान एवान्यः समवायो ऽधिगम्यते तत्तदुपाधिनेति ब्रूमः । यथा अङ्गुल्यवष्टब्धनयनाद्युपाधिवशादविद्यमान एव द्वितीयश्चन्द्रो ऽधिगम्यते । तथा तैस्तैः सम्बन्धिलक्षणोपाधिभिरविद्यमाना एवानेके समवायाः प्रतीयन्ते । त एते समवाया औपाधिकभेदाभिन्ना इत्युच्यन्ते । त एव चाग्निमदादिशब्दवाच्या अनुमानसाध्या विशिष्टाकाराः । तथा च न समवायैकत्वहानिः । चन्द्रवदारोपितानामनेकत्वे ऽप्यनारोपितस्यैकत्वाविरोधात् । नाप्यनुमानानां सिद्धसाधनता । तथाविधसमवायानां प्रागसिद्धत्वादिति । परिहरति तद्गमकमिति । *८,८७* ॥। तद्गमकमनुमानं न मा भवेत्

satyamupādhigamyatvādaupādhikaḥ samavāyabhedo 'dhigamaśca na pramā / yenāsau bhedaḥ pāramāthirkaḥ syāt / kintu vibhrama eva / nacaivaṃ bhedasyāsttvaprāptyā siddhasādhanatātādavasthyamiti vācyam yato 'vidyamāna evānyaḥ samavāyo 'dhigamyate tattadupādhineti brūmaḥ / yathā aṅgulyavaṣṭabdhanayanādyupādhivaśādavidyamāna eva dvitīyaścandro 'dhigamyate / tathā taistaiḥ sambandhilakṣaṇopādhibhiravidyamānā evāneke samavāyāḥ pratīyante / ta ete samavāyā aupādhikabhedābhinnā ityucyante / ta eva cāgnimadādiśabdavācyā anumānasādhyā viśiṣṭākārāḥ / tathā ca na samavāyaikatvahāniḥ / candravadāropitānāmanekatve 'pyanāropitasyaikatvāvirodhāt / nāpyanumānānāṃ siddhasādhanatā / tathāvidhasamavāyānāṃ prāgasiddhatvāditi / pariharati tadgamakamiti / *8,87* ... tadgamakamanumānaṃ na mā bhavet

Sanskrit only: no published translation is held for this verse.

यद्यप्यस्मिन्पक्षे न सिद्धसाधनं धूमाद्यनुमानम् । तथापि तद्गमकमविद्यमानसमवायसत्तां प्रतिपादयदनुमानजातं दहनशैत्यानुमानमिव बाधितविषयतया न प्रमाणं भवेत् । उपलक्षणं चैतत् । उपाधीन्विना समवायावभासस्य क्वाप्यभावात्सर्वत्रापि तस्याविद्यमानतैव स्यादित्यपि द्रष्टव्यम् । तदेवं सर्वानु(धूमाद्यनु)मानानां सिद्धसाधनत्वादिप्रसङ्गान्न समवायैक्यमुपपन्नमिति । एतच्चोपलक्षणम् । आगमापन्हवश्च समवायैक्ये स्यात् । पदार्थानां तत्संसर्गाणां च सिकतावद्विशकलितानां सिद्धत्वात् । *८,८८* इदानीं समवायस्य नित्यत्वं निराकरोति एवमेवेति ॥ एवमेवासतः सत्तसमवायो जनिर्मता यथा समवायस्य सर्वत्रैकत्वाङ्गीकारे सर्वानुमानानां सिद्धसाधनत्वादिदुष्टत्वमुक्तम् । एवमेव तन्नित्यत्वाभ्युपगमे प्रागसतः सत्तासमवायो जनिर्दुष्या मता । समवायनित्यत्वे न कस्यापि जनिः स्यादित्यर्थः । तत्कथमित्यत आह तत्रापीति ॥ तत्रापि ह्युक्तदोषाणां नैव किञ्चिन्निवारकम्

yadyapyasminpakṣe na siddhasādhanaṃ dhūmādyanumānam / tathāpi tadgamakamavidyamānasamavāyasattāṃ pratipādayadanumānajātaṃ dahanaśaityānumānamiva bādhitaviṣayatayā na pramāṇaṃ bhavet / upalakṣaṇaṃ caitat / upādhīnvinā samavāyāvabhāsasya kvāpyabhāvātsarvatrāpi tasyāvidyamānataiva syādityapi draṣṭavyam / tadevaṃ sarvānu(dhūmādyanu)mānānāṃ siddhasādhanatvādiprasaṅgānna samavāyaikyamupapannamiti / etaccopalakṣaṇam / āgamāpanhavaśca samavāyaikye syāt / padārthānāṃ tatsaṃsargāṇāṃ ca sikatāvadviśakalitānāṃ siddhatvāt / *8,88* idānīṃ samavāyasya nityatvaṃ nirākaroti evameveti // evamevāsataḥ sattasamavāyo janirmatā yathā samavāyasya sarvatraikatvāṅgīkāre sarvānumānānāṃ siddhasādhanatvādiduṣṭatvamuktam / evameva tannityatvābhyupagame prāgasataḥ sattāsamavāyo janirduṣyā matā / samavāyanityatve na kasyāpi janiḥ syādityarthaḥ / tatkathamityata āha tatrāpīti // tatrāpi hyuktadoṣāṇāṃ naiva kiñcinnivārakam

Sanskrit only: no published translation is held for this verse.

विशिष्टाकारो न विशेषणं नापि सम्बन्धः । किन्नाम विशेष्यम् । नच तन्मात्रम् । द्विविधो हि विशिष्टाकारः । यावद्विशेष्यभाव्ययावद्विशेष्यभावी च । तत्राद्यो विशेष्येणात्यन्ताभिन्नः । यथेश्वरः स्वरूपेण सर्वज्ञः । एवं यत्र यत्र विशेषणसम्बन्धो यावद्विशेष्यभावी तत्र तत्र विशिष्टप्रकारो ऽपि तथाभूतो विशेष्येणात्यन्ताभिन्नो द्रष्टव्यः । तथापि विशेषस्य भेदप्रतिनिधेः सर्वपदार्थेष्वङ्गीकृतत्वेनेश्वरः सर्वज्ञ इत्यपर्यायशब्दप्रवृत्त्याद्यनुपपत्तिदोषो नास्ति । ईश्वर एव सर्वज्ञ इत्यभेदस्तावत्प्रमितः । भेदे तु न निरवकाशं प्रमाणमस्तीति । *८,९१फ़्।* द्वितीयस्तु विशेष्येण भिन्नाभिन्नः । यथा पवर्तेनाग्निमान् । यथा हि संयोगविशेषसचिवास्तन्तवः पटाकारेण परिणमन्ते । तथाऽगन्तुकविशेषणसम्बन्धाद्विशेष्यस्वरूपं विशिष्टाकारेण परिणमते । तत्र यद्यपि भेदाभेदौ वस्तुनः स्वरूपभूतौ तथाप्यस्मत्पक्षे विशेषस्य सर्वत्राङ्गीकृतत्वतो न सङ्करदोषः । तदिदमुक्तम् क्वचिदिति ॥ अत्यन्ताभेदस्थले भेदाभेदस्थले चेत्यर्थः । *८,९४* यद्वा क्वचिदित्यौपाधिकादित्रय इत्यर्थः । तस्याप्युक्तप्रकारत्वात् । एतेन भेदहीने ऽप्याकाशादावौपाधिको भेदो दृष्ट इत्य(प्य)पास्तम् । विशेषनिबन्धनानामेवाकाशाद्यंशानां घटाद्युपाधिभिः स्फुटीकरणादिति । जनिनिरूपणे दोषाभावं स्वमते दर्शयति अस्मदिति ॥ विशेषस्य परिणामस्य जनित्वेनाङ्गीकृतत्वतो न कश्चिद्दोषो ऽस्तीति योजना । मृदादीनां घटाद्याकारापत्तिरेव घटादिजनिर्न तु समवाय इत्यर्थः । *८,९५* स्यादेतत् । क्वचिद्भावो विशेष्यो विशिष्टाकारश्चाभावो दृश्यते । यथा घटो न जानाति प्रकृतिर्न कर्त्रीति । क्वचिच्चाभावो विशेष्यो विशिष्टाकाराश्च भावः प्रतीयते । अभावो ऽस्ति । अभावः प्रमेय इति । नच विधिनिषेधात्मनोर्भावाभावयोरभेदो युज्यते । तत्कथं विशेष्याभिन्नं विशिष्टमुच्यत इत्यत आह भावो हीति ॥ ॥। भावो ह्यभावश्च स एव हि

viśiṣṭākāro na viśeṣaṇaṃ nāpi sambandhaḥ / kinnāma viśeṣyam / naca tanmātram / dvividho hi viśiṣṭākāraḥ / yāvadviśeṣyabhāvyayāvadviśeṣyabhāvī ca / tatrādyo viśeṣyeṇātyantābhinnaḥ / yatheśvaraḥ svarūpeṇa sarvajñaḥ / evaṃ yatra yatra viśeṣaṇasambandho yāvadviśeṣyabhāvī tatra tatra viśiṣṭaprakāro 'pi tathābhūto viśeṣyeṇātyantābhinno draṣṭavyaḥ / tathāpi viśeṣasya bhedapratinidheḥ sarvapadārtheṣvaṅgīkṛtatveneśvaraḥ sarvajña ityaparyāyaśabdapravṛttyādyanupapattidoṣo nāsti / īśvara eva sarvajña ityabhedastāvatpramitaḥ / bhede tu na niravakāśaṃ pramāṇamastīti / *8,91f.* dvitīyastu viśeṣyeṇa bhinnābhinnaḥ / yathā pavartenāgnimān / yathā hi saṃyogaviśeṣasacivāstantavaḥ paṭākāreṇa pariṇamante / tathā'gantukaviśeṣaṇasambandhādviśeṣyasvarūpaṃ viśiṣṭākāreṇa pariṇamate / tatra yadyapi bhedābhedau vastunaḥ svarūpabhūtau tathāpyasmatpakṣe viśeṣasya sarvatrāṅgīkṛtatvato na saṅkaradoṣaḥ / tadidamuktam kvaciditi // atyantābhedasthale bhedābhedasthale cetyarthaḥ / *8,94* yadvā kvacidityaupādhikāditraya ityarthaḥ / tasyāpyuktaprakāratvāt / etena bhedahīne 'pyākāśādāvaupādhiko bhedo dṛṣṭa itya(pya)pāstam / viśeṣanibandhanānāmevākāśādyaṃśānāṃ ghaṭādyupādhibhiḥ sphuṭīkaraṇāditi / janinirūpaṇe doṣābhāvaṃ svamate darśayati asmaditi // viśeṣasya pariṇāmasya janitvenāṅgīkṛtatvato na kaściddoṣo 'stīti yojanā / mṛdādīnāṃ ghaṭādyākārāpattireva ghaṭādijanirna tu samavāya ityarthaḥ / *8,95* syādetat / kvacidbhāvo viśeṣyo viśiṣṭākāraścābhāvo dṛśyate / yathā ghaṭo na jānāti prakṛtirna kartrīti / kvaciccābhāvo viśeṣyo viśiṣṭākārāśca bhāvaḥ pratīyate / abhāvo 'sti / abhāvaḥ prameya iti / naca vidhiniṣedhātmanorbhāvābhāvayorabhedo yujyate / tatkathaṃ viśeṣyābhinnaṃ viśiṣṭamucyata ityata āha bhāvo hīti // ... bhāvo hyabhāvaśca sa eva hi

Sanskrit only: no published translation is held for this verse.

क्वचिदित्यनुवर्तते । यो भावः स एव क्वचिदभावो भवति । यश्चाभावः स एव क्वचिद्भावो भवतीत्येतदुभयं प्रसिद्धमेवेत्यर्थः । वाक्यार्थद्वयप्रसिद्धिद्योतनार्थं हिशब्दद्वयम् । तत्कथमित्यत आह अभावस्य चेति ॥ अभावस्य च धर्माः स्युर्भावास्तेषां च ते ऽखिलाः अस्ति तावदिदं यदभावस्यापि भावा धर्माः स्युस्तथा तेषां च भावानां च ते ऽभावा धर्माः स्युरिति । अखिला इति बहुत्वोपलक्षणम् । एतदपि नाङ्गीकरोमीत्यत आह प्रत्यक्षेति ॥ प्रत्यक्षमानतः सर्वमेतन्नो वारणक्षमम् प्रत्यक्षग्रहणमुपलक्षणार्थम् । यस्मादभावस्यापि भावा धर्माः सन्ति भावस्य चाभावा इत्येतत्सर्वं प्रत्यक्षादिप्रमाणतः सिद्धम् । अतो न वारयितुं शक्यम् । *८,९७* अस्त्वभावभावयोर्भावाभावधर्मवत्त्वम् । तथापि भावस्याभावत्वमभावस्य च भावत्वं क्वचिदस्तीत्यत्र किमायातमित्यत आह सर्व इति ॥ *८,९८* सर्वे भावा अभावाश्च पदार्थास्तेन सर्वदा

kvacidityanuvartate / yo bhāvaḥ sa eva kvacidabhāvo bhavati / yaścābhāvaḥ sa eva kvacidbhāvo bhavatītyetadubhayaṃ prasiddhamevetyarthaḥ / vākyārthadvayaprasiddhidyotanārthaṃ hiśabdadvayam / tatkathamityata āha abhāvasya ceti // abhāvasya ca dharmāḥ syurbhāvāsteṣāṃ ca te 'khilāḥ asti tāvadidaṃ yadabhāvasyāpi bhāvā dharmāḥ syustathā teṣāṃ ca bhāvānāṃ ca te 'bhāvā dharmāḥ syuriti / akhilā iti bahutvopalakṣaṇam / etadapi nāṅgīkaromītyata āha pratyakṣeti // pratyakṣamānataḥ sarvametanno vāraṇakṣamam pratyakṣagrahaṇamupalakṣaṇārtham / yasmādabhāvasyāpi bhāvā dharmāḥ santi bhāvasya cābhāvā ityetatsarvaṃ pratyakṣādipramāṇataḥ siddham / ato na vārayituṃ śakyam / *8,97* astvabhāvabhāvayorbhāvābhāvadharmavattvam / tathāpi bhāvasyābhāvatvamabhāvasya ca bhāvatvaṃ kvacidastītyatra kimāyātamityata āha sarva iti // *8,98* sarve bhāvā abhāvāśca padārthāstena sarvadā

Sanskrit only: no published translation is held for this verse.

यतो ऽभावाभावयोर्भावाभावधर्मवत्त्वं सिद्धम् । सिद्धश्च धर्मधर्मिणोरभेदत्वेन कारणत्वेन सर्वे भावाः पदार्था अभावाश्च भवन्ति । अभावश्च सर्वे पदार्था भावा भवन्तीत्युक्तमुपपन्नमित्यर्थः । यद्येवं भावस्याप्यभावत्वमभावस्य च भावत्वं तर्हि द्रव्यादयो भावा एव प्रागभावादयस्त्वभावा एवेति सर्वत्र प्रसिद्धो भावाभावविभागः कथमित्यत आह तथापीति ॥ तथापि प्रथमं बुद्धेर्यो निषेधस्य गोचर ः । सो ऽभावो विधिबुद्धेस्तु गोचरः प्रथमं परः

yato 'bhāvābhāvayorbhāvābhāvadharmavattvaṃ siddham / siddhaśca dharmadharmiṇorabhedatvena kāraṇatvena sarve bhāvāḥ padārthā abhāvāśca bhavanti / abhāvaśca sarve padārthā bhāvā bhavantītyuktamupapannamityarthaḥ / yadyevaṃ bhāvasyāpyabhāvatvamabhāvasya ca bhāvatvaṃ tarhi dravyādayo bhāvā eva prāgabhāvādayastvabhāvā eveti sarvatra prasiddho bhāvābhāvavibhāgaḥ kathamityata āha tathāpīti // tathāpi prathamaṃ buddheryo niṣedhasya gocara ḥ / so 'bhāvo vidhibuddhestu gocaraḥ prathamaṃ paraḥ

Sanskrit only: no published translation is held for this verse.

निषेधस्य बुद्धेरिति सामानाधिकरण्यम् । परो भावः । यद्यप्येषो ऽर्थः प्रागेवोक्तस्तथापि प्रसङ्गात्पुनः स्मारित इत्यदोषः । *८,९९* अभावभावयोर्भावाभावधर्मवत्त्वं प्रत्यक्षादिसिद्धमित्युक्तम् । तत्कथमित्यत आह तस्मादिति ॥ तस्मात् प्रध्वस्तभेदादि सदित्येवावगम्यते प्रध्वस्तं प्रध्वंसो भेदः पृथक्त्वम् । आदिपदेन प्रमेयत्वादिग्रहणम् । यस्मादभावस्य भावधर्मत्वमस्ति । तस्मादेव हि प्रध्वंसाभावादेः पृथक्त्वप्रमेयत्वादिभावधर्मजातमस्त्येवेत्यवगम्यते । प्रत्यक्षादिनेति योजना । प्रध्वंसः प्रागभावाद्वा घटाद्वा पृथक् प्रमेयो ऽभिधेयश्चेत्यवगम्यते । अभावस्य (च)धर्मानभ्युपगमे तद्विरोधः स्यादिति ब्रूमः । घटः पटो न भवतीति भावस्यान्योन्याभावधर्मत्वं स्फुटत्वान्न प्रदर्शितम् । एवमभावयोर्भावाभावात्मकत्वं सामान्यतः प्रसाध्य प्रकृते योजयति अस्तीति ॥ अस्त्यभावो ऽस्ति च ध्वंसो देहाभावश्च भस्मता

niṣedhasya buddheriti sāmānādhikaraṇyam / paro bhāvaḥ / yadyapyeṣo 'rthaḥ prāgevoktastathāpi prasaṅgātpunaḥ smārita ityadoṣaḥ / *8,99* abhāvabhāvayorbhāvābhāvadharmavattvaṃ pratyakṣādisiddhamityuktam / tatkathamityata āha tasmāditi // tasmāt pradhvastabhedādi sadityevāvagamyate pradhvastaṃ pradhvaṃso bhedaḥ pṛthaktvam / ādipadena prameyatvādigrahaṇam / yasmādabhāvasya bhāvadharmatvamasti / tasmādeva hi pradhvaṃsābhāvādeḥ pṛthaktvaprameyatvādibhāvadharmajātamastyevetyavagamyate / pratyakṣādineti yojanā / pradhvaṃsaḥ prāgabhāvādvā ghaṭādvā pṛthak prameyo 'bhidheyaścetyavagamyate / abhāvasya (ca)dharmānabhyupagame tadvirodhaḥ syāditi brūmaḥ / ghaṭaḥ paṭo na bhavatīti bhāvasyānyonyābhāvadharmatvaṃ sphuṭatvānna pradarśitam / evamabhāvayorbhāvābhāvātmakatvaṃ sāmānyataḥ prasādhya prakṛte yojayati astīti // astyabhāvo 'sti ca dhvaṃso dehābhāvaśca bhasmatā

Sanskrit only: no published translation is held for this verse.

इत्यादि युज्यते सर्वं ॥। तस्मादित्यनुवर्तते । यत एवमभावस्य भावत्वं भावस्य चाभावत्वमुपपादितम् । तस्मादभावो ऽस्ति प्रध्वंसो ऽस्ति । देहाभावो भस्मतेत्यभावस्य विशेष्यत्वं भावस्य च विशिष्टत्वं तयोश्चाभेदस्तथा घटो न जानातीति भावो विशेष्यो ऽभावश्च विशिष्टाकारस्तयोश्चाभेद इत्युक्तं युज्यत इत्यर्थः । *८,१००* यदि भावाभावयोरेकत्वं न विरुद्धं तदा घटो ऽपि स्वाभावात्मा किन्न स्यादित्यत आह प्रत्यक्षादिति । ॥। प्रत्यक्षादिप्रमाणतः तद्व्युदासार्थमाह भावो हीति ॥ अत्र भावाभावशब्दौ सदसत्परौ । यः कारणत्वाभिमतो मृत्पिण्डः स कार्यघटात्मनाभावः स एव तदात्मना भावश्च । यद्वा स घटः प्रागुत्पत्तेर्भावः सन्, स एव तदभावो ऽसंश्च । अथवा यः कुलालादिव्यापारात्प्रागभावो घटात्मनासन्मृत्पिण्डः स एव तदनन्तरं भावो घटात्मना सन् भवतीति । एतदुक्तं भवति । कार्यं कारणेन भिन्नाभिन्नम् । तत एव प्रागुत्पत्तेः सदसत् । अतः कारणं प्राक्कारकव्यापारादकार्यात्मकं सत्कार्यरूपतामापद्यते यत्सा जनिरिति । नन्वेकस्यैव भिन्नत्वमभिन्नत्वं च सत्त्वमसत्त्वं च विरुद्धमित्यतो यथैकस्यैव भावत्वमभावत्वं च न विरुद्धम् । तथैतदपीत्यादौ सम्भावनां तावदुपदर्शयन्नेकैकस्य भावत्वमभावत्वं च उपपादयति अभावस्येति सार्धश्लोकद्वयेन । पूर्ववदेव व्याख्यानम् । *८,१०१फ़्।* अस्त्वियं सम्भावना । निश्चायकं किमित्यतो भेदासत्त्वयोः परेणाप्यङ्गीकृतत्वादभेदसत्त्वे प्रमाणेन साधयति तस्मादिति ॥ प्रध्वस्तस्य घटादेर्भेदः प्रध्वस्तभेदः । आदिपदेनानुत्पन्नस्य कारकत्वं गृह्यते । "नष्टानामपि वस्तूनां भेदो नैव विनश्यतिऽ; इति यत्प्रध्वस्तभेदस्य सत्त्वमवगम्यते यच्च घटो जायते घटं जनयतीत्यनुत्पन्नस्यापि कर्तृत्वं कर्मत्वं(च) वा । तत्तस्मात्कार्यस्य कारणाभेदात्प्रागुत्पत्तेर्विनाशोत्तरं च सत्त्वादेव हि युज्यते । नह्यत्यन्तासत्त्वमापन्नस्य स्वरूपभेदः सन्निति युज्यते । नाप्यत्यन्तासतः कारकत्वम् । नच कार्यस्य पृथगेव सत्त्वमस्ति । अनुपलम्भात् । अतः सत्त्वं कारणाभेदश्चाङ्गीकरणीयः । नच विनैव बाधकेनोपचारत्वकल्पना युक्ता । अतिप्रसङ्गात् । तदिदमुक्तमवगम्यत एवेति । न केवलं व्यवह्रियत इत्यर्थः । अभावस्य च भावाः स्युर्धर्मास्ते च प्रत्यक्षादिप्रमाणसिद्धत्वाद्युज्यन्त एव न तु निराकरणार्हा इत्युक्तम् । तद्विशदयति अस्तीति ॥ आदिपदेन घटादेर्भावस्य पटान्योन्याभावधर्मत्वं गृह्यते । *८,१०५* स्यादेतत् । अन्योन्याभावस्य भावधर्मत्वे ऽपि तस्य भावात्पृथक्त्वेन कथं भावस्याप्यभावत्वमुच्यते । अन्योन्याभावस्य भेदत्वाद्भेदस्य च स्वरूपत्वाङ्गीकारादिति चेन्न । स्वरूपभेदस्यान्योन्याभावातिरिक्तत्वात् । यच्चोक्तमभावे ऽपि पृथक्त्वमस्तीति तदसत् । प्रमाणाभावात् । स्वरूपभेदेनैवासङ्करोपपत्तेः । पृथक्त्वस्य च स्वरूपभेदातिरिक्तत्वादित्यत आह अन्योन्येति ॥ अन्योन्याभावभेदौ च पृथक्तवं च पृथक् पृथक्

ityādi yujyate sarvaṃ ... tasmādityanuvartate / yata evamabhāvasya bhāvatvaṃ bhāvasya cābhāvatvamupapāditam / tasmādabhāvo 'sti pradhvaṃso 'sti / dehābhāvo bhasmatetyabhāvasya viśeṣyatvaṃ bhāvasya ca viśiṣṭatvaṃ tayoścābhedastathā ghaṭo na jānātīti bhāvo viśeṣyo 'bhāvaśca viśiṣṭākārastayoścābheda ityuktaṃ yujyata ityarthaḥ / *8,100* yadi bhāvābhāvayorekatvaṃ na viruddhaṃ tadā ghaṭo 'pi svābhāvātmā kinna syādityata āha pratyakṣāditi / ... pratyakṣādipramāṇataḥ tadvyudāsārthamāha bhāvo hīti // atra bhāvābhāvaśabdau sadasatparau / yaḥ kāraṇatvābhimato mṛtpiṇḍaḥ sa kāryaghaṭātmanābhāvaḥ sa eva tadātmanā bhāvaśca / yadvā sa ghaṭaḥ prāgutpatterbhāvaḥ san, sa eva tadabhāvo 'saṃśca / athavā yaḥ kulālādivyāpārātprāgabhāvo ghaṭātmanāsanmṛtpiṇḍaḥ sa eva tadanantaraṃ bhāvo ghaṭātmanā san bhavatīti / etaduktaṃ bhavati / kāryaṃ kāraṇena bhinnābhinnam / tata eva prāgutpatteḥ sadasat / ataḥ kāraṇaṃ prākkārakavyāpārādakāryātmakaṃ satkāryarūpatāmāpadyate yatsā janiriti / nanvekasyaiva bhinnatvamabhinnatvaṃ ca sattvamasattvaṃ ca viruddhamityato yathaikasyaiva bhāvatvamabhāvatvaṃ ca na viruddham / tathaitadapītyādau sambhāvanāṃ tāvadupadarśayannekaikasya bhāvatvamabhāvatvaṃ ca upapādayati abhāvasyeti sārdhaślokadvayena / pūrvavadeva vyākhyānam / *8,101f.* astviyaṃ sambhāvanā / niścāyakaṃ kimityato bhedāsattvayoḥ pareṇāpyaṅgīkṛtatvādabhedasattve pramāṇena sādhayati tasmāditi // pradhvastasya ghaṭāderbhedaḥ pradhvastabhedaḥ / ādipadenānutpannasya kārakatvaṃ gṛhyate / "naṣṭānāmapi vastūnāṃ bhedo naiva vinaśyati'; iti yatpradhvastabhedasya sattvamavagamyate yacca ghaṭo jāyate ghaṭaṃ janayatītyanutpannasyāpi kartṛtvaṃ karmatvaṃ(ca) vā / tattasmātkāryasya kāraṇābhedātprāgutpattervināśottaraṃ ca sattvādeva hi yujyate / nahyatyantāsattvamāpannasya svarūpabhedaḥ sanniti yujyate / nāpyatyantāsataḥ kārakatvam / naca kāryasya pṛthageva sattvamasti / anupalambhāt / ataḥ sattvaṃ kāraṇābhedaścāṅgīkaraṇīyaḥ / naca vinaiva bādhakenopacāratvakalpanā yuktā / atiprasaṅgāt / tadidamuktamavagamyata eveti / na kevalaṃ vyavahriyata ityarthaḥ / abhāvasya ca bhāvāḥ syurdharmāste ca pratyakṣādipramāṇasiddhatvādyujyanta eva na tu nirākaraṇārhā ityuktam / tadviśadayati astīti // ādipadena ghaṭāderbhāvasya paṭānyonyābhāvadharmatvaṃ gṛhyate / *8,105* syādetat / anyonyābhāvasya bhāvadharmatve 'pi tasya bhāvātpṛthaktvena kathaṃ bhāvasyāpyabhāvatvamucyate / anyonyābhāvasya bhedatvādbhedasya ca svarūpatvāṅgīkārāditi cenna / svarūpabhedasyānyonyābhāvātiriktatvāt / yaccoktamabhāve 'pi pṛthaktvamastīti tadasat / pramāṇābhāvāt / svarūpabhedenaivāsaṅkaropapatteḥ / pṛthaktvasya ca svarūpabhedātiriktatvādityata āha anyonyeti // anyonyābhāvabhedau ca pṛthaktavaṃ ca pṛthak pṛthak

Sanskrit only: no published translation is held for this verse.

यत् कल्पयन्ति तच्चैव कल्पनागौरवाद् गतम् पृथक् पृथग्विभिन्नानीत्यर्थः । चशब्दो दूषणान्तरसुच्चयार्थः । गतं प्रागेव निराकृतम् । अनेन पुनरुक्तिदोषः परिहृतो भवति । कथं कल्पनागौरवादिकमित्यत आह पर्यायत्वेनेति ॥ पर्यायत्वेन ते शब्दा ज्ञायन्ते सर्व एव हि

yat kalpayanti taccaiva kalpanāgauravād gatam pṛthak pṛthagvibhinnānītyarthaḥ / caśabdo dūṣaṇāntarasuccayārthaḥ / gataṃ prāgeva nirākṛtam / anena punaruktidoṣaḥ parihṛto bhavati / kathaṃ kalpanāgauravādikamityata āha paryāyatveneti // paryāyatvena te śabdā jñāyante sarva eva hi

Sanskrit only: no published translation is held for this verse.

क्रमप्रयोज्यत्वेनेत्यर्थः । सर्व एव लौकिका वैदिकाश्च । *८,१०७* अत्र मायावादिनश्चोदयन्ति । स्वरूपभेदानतिरिक्तयोरन्योन्याभावपृथक्त्वयोर्भावाभावधर्मत्वोपलम्भात्सर्वपदार्थानामपि भावाभावात्मतासिद्धिरिति यदुक्तं तदयुक्तम् । भेदस्य वस्तुस्वरूपत्वानुपपत्तेः । तथाहि । भेदस्तावद्विदारणात्मा । भिदिर्विदारण इति विदारणार्थभिदिधातुरूपत्वाद्भेदशब्दस्य । तस्य च विदारणात्मनो भावस्वभावत्वे तस्यापि विदारणं स्यात् । तथा तदेकदेशानामपि भेदः स्वभाव इति तत्राप विदारणं भवेदित्यनेन क्रमेण सर्वशून्यता स्यात् । किञ्च भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयात् । अभेदैकार्थसमवायिन्या एकताया भेदेन विरोधात् । एकत्वाभावे ऽनेकत्वमपि न स्यात् । तत्समाहररूपत्वात् तत्कार्यत्वाद्वा तस्य । एकत्वानेकत्वविकलं च शून्यमेवापद्यते । *८,१०७फ़्।* अपि च यदि भेदो वस्तुस्वरूपं स्यात्तदा प्रतियोग्यनपेक्षः प्रसज्येत । स्वरूपस्यानपेक्षत्वात् । नहि घटात्पटस्य भेद इतिवत् घटात्पट इति प्रतीतिरस्ति । घटो भिन्नो घटस्य भेद इति विशेषणविशेष्यभावसम्बन्धप्रतिभासो ऽपि भेदस्य वस्तुस्वरूपत्वे दुघर्टः स्यात् । नहि स्वयमेव स्वस्य विशेषणं सम्बन्धि वा भवति । संशयविपर्ययौ चैवमुच्छिद्येयातम् । भेदाग्रहनिमित्तरौ हि तौ भवतः । तत्र यदि धर्मिणमवगाह्य तौ भवतस्तदा तत्स्वभावभूतो भेदो ऽपि गृहीत इति क्व तयोरवकाशः । न चेन्निर्विषयत्वात्सुतराम् । यदि चास्मदयं भिन्न इति प्रतियोगिघटिततया प्रतीयमानो भेदो वस्तुनः स्वरूपं स्यात् । तदा तस्य सपरिकरस्य भेदस्य स्वरूपे ऽन्तर्भावात्प्रतियोगिनो ऽपि स्वरूपतया निमज्जनादद्वैतमतमेव पर्यवस्येदिति । *८,१०८* तानपाकरोति भेदस्येति ॥ भेदस्य तु स्वरूपत्वे ये वदन्ति च शून्यताम् । अद्भुततास्ते यतो ऽन्यस्य प्रतियोगित्वमिष्यते

kramaprayojyatvenetyarthaḥ / sarva eva laukikā vaidikāśca / *8,107* atra māyāvādinaścodayanti / svarūpabhedānatiriktayoranyonyābhāvapṛthaktvayorbhāvābhāvadharmatvopalambhātsarvapadārthānāmapi bhāvābhāvātmatāsiddhiriti yaduktaṃ tadayuktam / bhedasya vastusvarūpatvānupapatteḥ / tathāhi / bhedastāvadvidāraṇātmā / bhidirvidāraṇa iti vidāraṇārthabhididhāturūpatvādbhedaśabdasya / tasya ca vidāraṇātmano bhāvasvabhāvatve tasyāpi vidāraṇaṃ syāt / tathā tadekadeśānāmapi bhedaḥ svabhāva iti tatrāpa vidāraṇaṃ bhavedityanena krameṇa sarvaśūnyatā syāt / kiñca bhedasya vastusvarūpatve na tatraikatā samaveyāt / abhedaikārthasamavāyinyā ekatāyā bhedena virodhāt / ekatvābhāve 'nekatvamapi na syāt / tatsamāhararūpatvāt tatkāryatvādvā tasya / ekatvānekatvavikalaṃ ca śūnyamevāpadyate / *8,107f.* api ca yadi bhedo vastusvarūpaṃ syāttadā pratiyogyanapekṣaḥ prasajyeta / svarūpasyānapekṣatvāt / nahi ghaṭātpaṭasya bheda itivat ghaṭātpaṭa iti pratītirasti / ghaṭo bhinno ghaṭasya bheda iti viśeṣaṇaviśeṣyabhāvasambandhapratibhāso 'pi bhedasya vastusvarūpatve dugharṭaḥ syāt / nahi svayameva svasya viśeṣaṇaṃ sambandhi vā bhavati / saṃśayaviparyayau caivamucchidyeyātam / bhedāgrahanimittarau hi tau bhavataḥ / tatra yadi dharmiṇamavagāhya tau bhavatastadā tatsvabhāvabhūto bhedo 'pi gṛhīta iti kva tayoravakāśaḥ / na cennirviṣayatvātsutarām / yadi cāsmadayaṃ bhinna iti pratiyogighaṭitatayā pratīyamāno bhedo vastunaḥ svarūpaṃ syāt / tadā tasya saparikarasya bhedasya svarūpe 'ntarbhāvātpratiyogino 'pi svarūpatayā nimajjanādadvaitamatameva paryavasyediti / *8,108* tānapākaroti bhedasyeti // bhedasya tu svarūpatve ye vadanti ca śūnyatām / adbhutatāste yato 'nyasya pratiyogitvamiṣyate

Sanskrit only: no published translation is held for this verse.

तुशब्दः प्रकृताद्वैशेषिकादेर्व्यवच्छिन्दन्ये त्विति सम्बद्धयते । स्वरूपत्वे भेद्यवस्तुस्वरूपत्वे । शून्यतां सर्वस्यापीति शेषः । चशब्दः पूर्वोक्तदूषणसमुच्चयार्थः । अद्भुता आश्चर्याः । न लौकिकेष्वेवंविधा दृश्यन्ते नापि परीक्षकेष्विति यावत् । तत्कथमित्यतः शून्यतापत्तिं तावन्निराकरोति यत इति ॥ यो भेदो यस्य स्वरूपमिष्यते तं भेदं प्रति ततो ऽन्यस्यैव वस्तुनः प्रतियोगित्वमिष्यते यतस्तस्मादद्भुतास्त इति सम्बन्धः । *८,१११* अन्यस्य प्रतियोगित्वे ऽपि कथमुक्तदोषपरिहार इत्यत आह प्रतियोगिनो हीति ॥ प्रतियोगिनो हि भेदो ऽयं नतु स्वस्मात् कथञ्चन किञ्च भिद्यते ऽनेनेति यदि भेदशब्दः करणसाधनो भवेत् तदा भेदः कमपि विदारयेत् । भावसाधनत्वाङ्गीकारात् । अतो ऽभ्युपगम्यैव करणसाधनतामयं परिहारः अभिहित इत्याशयवानाह कथञ्चनेति ॥ इदमुदितमिति शेषः । *८,११२* किञ्च विदारणमपि लवित्रादि यत्सम्बन्धि तद्विदारयति । नतु स्वात्मानम् । अतो धर्मभेदवादे कथञ्चिदिदं वक्तव्यम् । स्वरूपभेदवादे तु क्वास्यावकाशः । भेदस्य वस्तुस्वरूपत्वे न तत्रैकता समवेयादित्यप्यनेनैव निरस्तम् । नह्येकतानेकते स्वरूपेण विरुद्धे । एकस्यैव घटस्यान्यापेक्षयानेकत्वदर्शनात् । किन्तु यदपेक्षयानेकस्तदपेक्षयैवैक इति विरुद्धम् । तत्र घटस्य परस्मात्प्रतियोगिन एव भेद इति । तदपेक्षयैवानेकत्वं स्वापेक्षया त्वेकत्वमिति को विरोधः । अपि चैकत्वानेकत्वयोः सामानाधिकरण्यं वा विरुद्धं धर्मधर्मिभावो वा । आद्ये नैकताया भेदेन विरोधः । भेदस्य स्वरूपत्वेनैकतासामानाधिकरण्याभावात् । न द्वितीयः । एकं द्वित्वमिति दर्शनात् । एकत्वानेकत्वाभावे ऽपि शून्यत्वं कुतः । वैशेषिकादीनां गुणादिवन्मायावादिनां ब्रह्मवदगुणस्यापि सत्त्वोपपत्तेरिति । *८,११४* ननु भेदो वस्तुस्वरूपं चेत्प्रतियोगिनिरूप्य एव न स्यात् । स्वरूपस्य तदभावात् । अतो नायं परिहारो युज्यते । तथाच स्वस्मिन्नेव विदारणे पुनः शून्यतैवेति चेन्न । स्वतः परतो ऽपि व्याप्त्यसिद्धेः । यथा(हि) परनिरूप्यमपि ब्रह्मणो जीवैक्यं ब्रह्मस्वरूपत्वं मायावादिनाङ्गीकृतम् अस्माभिश्च परत्वादिकं द्रव्यस्वरूपम् । तथा प्रतियोगिनिरूप्यस्यापि भेदस्य वस्तुस्वरूपत्वे को विरोधः । *८,११५* किञ्च भेदो वस्तुस्वरूपमिति ब्रुवाणो वस्तुस्वरूपस्यापरनिरूप्यत्वं कथमभ्युपेयात् । एतावत्तु स्यात् । एकस्यैव वस्तुनः प्रतियोगिप्रतीतिमपेक्ष्यानपेक्ष्य च प्रतीतिः कथम् । तत्रापि न सैव प्रतीतिरुभयीं गतिमश्नुते । किन्तु प्रतीतिद्वयमेतत् । तच्चैकस्मिन्नपि वस्तुनि विशेषबलमवलम्ब्य समञ्जसं भविष्यतीति भेदस्य परप्रतियोगितोपपत्तेः कुतः स्वस्मिन्विदारणापत्तिः । *८,११७* अस्तु वा स्वरूपविदारणम् । तथापि शून्यतापादनमयुक्तमेवेत्याशयवानाह विभागेनेति ॥ विभागेनाल्पतैव स्यात् कुत एव च शून्यता

tuśabdaḥ prakṛtādvaiśeṣikādervyavacchindanye tviti sambaddhayate / svarūpatve bhedyavastusvarūpatve / śūnyatāṃ sarvasyāpīti śeṣaḥ / caśabdaḥ pūrvoktadūṣaṇasamuccayārthaḥ / adbhutā āścaryāḥ / na laukikeṣvevaṃvidhā dṛśyante nāpi parīkṣakeṣviti yāvat / tatkathamityataḥ śūnyatāpattiṃ tāvannirākaroti yata iti // yo bhedo yasya svarūpamiṣyate taṃ bhedaṃ prati tato 'nyasyaiva vastunaḥ pratiyogitvamiṣyate yatastasmādadbhutāsta iti sambandhaḥ / *8,111* anyasya pratiyogitve 'pi kathamuktadoṣaparihāra ityata āha pratiyogino hīti // pratiyogino hi bhedo 'yaṃ natu svasmāt kathañcana kiñca bhidyate 'neneti yadi bhedaśabdaḥ karaṇasādhano bhavet tadā bhedaḥ kamapi vidārayet / bhāvasādhanatvāṅgīkārāt / ato 'bhyupagamyaiva karaṇasādhanatāmayaṃ parihāraḥ abhihita ityāśayavānāha kathañcaneti // idamuditamiti śeṣaḥ / *8,112* kiñca vidāraṇamapi lavitrādi yatsambandhi tadvidārayati / natu svātmānam / ato dharmabhedavāde kathañcididaṃ vaktavyam / svarūpabhedavāde tu kvāsyāvakāśaḥ / bhedasya vastusvarūpatve na tatraikatā samaveyādityapyanenaiva nirastam / nahyekatānekate svarūpeṇa viruddhe / ekasyaiva ghaṭasyānyāpekṣayānekatvadarśanāt / kintu yadapekṣayānekastadapekṣayaivaika iti viruddham / tatra ghaṭasya parasmātpratiyogina eva bheda iti / tadapekṣayaivānekatvaṃ svāpekṣayā tvekatvamiti ko virodhaḥ / api caikatvānekatvayoḥ sāmānādhikaraṇyaṃ vā viruddhaṃ dharmadharmibhāvo vā / ādye naikatāyā bhedena virodhaḥ / bhedasya svarūpatvenaikatāsāmānādhikaraṇyābhāvāt / na dvitīyaḥ / ekaṃ dvitvamiti darśanāt / ekatvānekatvābhāve 'pi śūnyatvaṃ kutaḥ / vaiśeṣikādīnāṃ guṇādivanmāyāvādināṃ brahmavadaguṇasyāpi sattvopapatteriti / *8,114* nanu bhedo vastusvarūpaṃ cetpratiyoginirūpya eva na syāt / svarūpasya tadabhāvāt / ato nāyaṃ parihāro yujyate / tathāca svasminneva vidāraṇe punaḥ śūnyataiveti cenna / svataḥ parato 'pi vyāptyasiddheḥ / yathā(hi) paranirūpyamapi brahmaṇo jīvaikyaṃ brahmasvarūpatvaṃ māyāvādināṅgīkṛtam asmābhiśca paratvādikaṃ dravyasvarūpam / tathā pratiyoginirūpyasyāpi bhedasya vastusvarūpatve ko virodhaḥ / *8,115* kiñca bhedo vastusvarūpamiti bruvāṇo vastusvarūpasyāparanirūpyatvaṃ kathamabhyupeyāt / etāvattu syāt / ekasyaiva vastunaḥ pratiyogipratītimapekṣyānapekṣya ca pratītiḥ katham / tatrāpi na saiva pratītirubhayīṃ gatimaśnute / kintu pratītidvayametat / taccaikasminnapi vastuni viśeṣabalamavalambya samañjasaṃ bhaviṣyatīti bhedasya parapratiyogitopapatteḥ kutaḥ svasminvidāraṇāpattiḥ / *8,117* astu vā svarūpavidāraṇam / tathāpi śūnyatāpādanamayuktamevetyāśayavānāha vibhāgeneti // vibhāgenālpataiva syāt kuta eva ca śūnyatā

Sanskrit only: no published translation is held for this verse.

लोष्ठादेः खल्ववयविभागेन लोष्ठादिविनाशे सत्यल्परिमाणावयवावशेषो ऽवगतो, नतु सर्वशून्यता । तथा सर्वत्रापि विभागेनाल्पताल्पावयवावशेषतैव स्याच्छून्यता तु कुत एव स्यात् । ननु च पञ्चषेषु स्थलेषु विदारणेनाल्पाल्पतराल्पतमवस्त्ववशेषे ऽप्यन्ततः कस्यचिदवयवजातस्य शून्यतायां सर्वशून्यता स्यादित्यत आह नेति ॥ न शून्यानां हि संयोगाद् भावो वस्तुन इष्यते यत्संयोगेन हि यद्वस्तूत्पन्नं तस्मिन्विदारणे सति संयोगनाशाद्वस्तुनाशानन्तरं तदवशेषो भवति । यथा तन्तुसंयोगेनोत्पन्ने घटे तन्तुविदारणसंयोगनाशक्रमेण विनष्टे तन्त्ववशेषः । एवंच यदि केषाञ्चित्परमाल्पानां वस्तूनां शून्यसंयोगादुत्पत्तिः स्यात्तदा विदारणे सति संयोगनाशेन कार्यनाशे शून्यावशेषः स्यात् । नचैवं प्रामाणिकैरिष्यते । अतो ऽसङ्गतं सर्वशून्यतापादनमिति । भावो जन्म । *८,११८* ननु शून्यत्वं नाम नात्यन्तासत्त्वमापाद्यत्वेन विवक्षितम् । किन्तु सूक्ष्मतमत्वमेव । तच्चानिष्यमित्यत आह विदारणेति ॥ विदारणार्थो धातुश्च विभागगुणवाचकः

loṣṭhādeḥ khalvavayavibhāgena loṣṭhādivināśe satyalparimāṇāvayavāvaśeṣo 'vagato, natu sarvaśūnyatā / tathā sarvatrāpi vibhāgenālpatālpāvayavāvaśeṣataiva syācchūnyatā tu kuta eva syāt / nanu ca pañcaṣeṣu sthaleṣu vidāraṇenālpālpatarālpatamavastvavaśeṣe 'pyantataḥ kasyacidavayavajātasya śūnyatāyāṃ sarvaśūnyatā syādityata āha neti // na śūnyānāṃ hi saṃyogād bhāvo vastuna iṣyate yatsaṃyogena hi yadvastūtpannaṃ tasminvidāraṇe sati saṃyoganāśādvastunāśānantaraṃ tadavaśeṣo bhavati / yathā tantusaṃyogenotpanne ghaṭe tantuvidāraṇasaṃyoganāśakrameṇa vinaṣṭe tantvavaśeṣaḥ / evaṃca yadi keṣāñcitparamālpānāṃ vastūnāṃ śūnyasaṃyogādutpattiḥ syāttadā vidāraṇe sati saṃyoganāśena kāryanāśe śūnyāvaśeṣaḥ syāt / nacaivaṃ prāmāṇikairiṣyate / ato 'saṅgataṃ sarvaśūnyatāpādanamiti / bhāvo janma / *8,118* nanu śūnyatvaṃ nāma nātyantāsattvamāpādyatvena vivakṣitam / kintu sūkṣmatamatvameva / taccāniṣyamityata āha vidāraṇeti // vidāraṇārtho dhātuśca vibhāgaguṇavācakaḥ

Sanskrit only: no published translation is held for this verse.

स्यादेतद्यदि भेदो विदारणात्मा भवेत् । नचैवम् । प्रमाणाभावात् । अङ्गीकृत्यैव तु पूर्वः परिहारो ऽभिहितः । ननूक्तमत्र भेदशब्दादेव भेदस्य विदारणात्मकत्वमवगम्यते । स हि भिदेर्धातो रूपम् । स च विदारणार्थतया व्याख्यात इति । अत्रोत्ररम् । यदा भिदिधातुर्विदारणार्थो विवक्षितस्तदा भेदशब्दो विभागाख्यगुणवाचको न त्वन्योन्याभावलक्षणभेदवाचक इति । एतदुक्तं भवति । "क्रियावाचित्वमाख्यातुमेकैको ऽर्थः प्रदर्शितः । प्रयोगतो ऽनुगन्तव्या अनेकार्था हि धातवःऽ; इति वचनाद्भिदिर्विभागवचनो ऽन्यत्ववचनश्च । भिन्नो घट इत्युक्ते स्फुटित इति गम्यते । भिन्नं गगनं घटादित्यन्यदिति विज्ञायते । तत्र विभागो विदारणात्मा नान्यत्वम् । तदेव चात्र प्रकृतं न विभाग इत्यन्यतालक्षणस्य भेदस्य वस्तुस्वरूपत्वे विदारणप्रसङ्गेनात्यल्पतापादनमप्यसङ्गतमेव, छलत्वादिति । ननु विभागस्यान्यत्वस्य च को विशेषो येनैवमुच्यत इति चेन्न । गुणग्रहणेनैव परिहृतत्वात् । विभागो हि गुणतया वैशेषिकादिभिरुपात्तः । अन्यता चान्योन्याभाव इति स्फुटो भेदः । *८,१२०* यस्तु गुणादिप्रक्रियां न मायावादी मन्यते । तं बोधयितुमाह अविदारणे ऽपीति ॥ अविदारणे ऽपि ह्यास्यस्य भिन्नावोष्ठौ तु तस्य च आस्यस्येत्यास्यसम्बन्धिनोरोष्ठयोर्ग्रहणम् । तस्य च मायावादिन एव । यदा हि मायावादी निरुत्तरतया तूष्णीमास्ते तदा तदीययोरोष्ठयोर्विदारणलक्षणविभागाभावे ऽप्योष्ठौ भिन्नावन्योन्याभावलक्षणभेदवन्तौ भवत एव । यदभावे च यदस्ति तत्ततो ऽन्यदिति च प्रसिद्धमेव । अतो विभागाद्भेदो ऽर्थान्तरमेवेति ज्ञायते । तस्य चेत्यनेन नातः परं स्वरूपभेदे काचिदनुपपत्तिः सम्भावितास्तीति सूचितम् । ननु कथं नास्ति । विशेषणविशेष्यभावानुपपत्त्यादेरपरिहृतत्वादिति चेन्न । स्वरूपत्वे ऽपि विशेषबलेन विशेषणविशेष्यभावसम्बन्धावभासोपपत्तेः । अन्यथाऽनन्दं ब्रह्म आनन्दं ब्रह्मण इत्यादेरनुपपत्तिप्रसङ्गात् । संशयविपर्ययानुपपत्तिरपि नास्ति । सविशेषत्वेन ज्ञाताज्ञातत्वोपपत्तेः । अन्यथाऽत्मस्वरूपे स्वयंप्रकाशमाने तत्स्वरूपमात्राणामद्वितीयत्वानन्दत्वादीनामपि प्रकाशनीयमान्न जातु कस्यचित्संशयविपर्ययौ स्याताम् । अविद्यावशात्तत्र तथेति चेत् । अत्रापि सादृ(श्यादिव)श्यवशात्तथेति सन्तोष्यव्यम् । *८,१२१* यच्चाद्वैतपर्यवसानमुक्तम् । तत्कुत इति वक्तव्यम् । यदि मन्येत यथा हि लम्बकर्ण आगतो, नीलमानीयतामित्यादौ परिकरवतो यद्भवति तत्परिकरस्यापि, तथा प्रतियोगिघटितस्य भेदस्य धर्मिस्वरूपत्वे प्रतियोगिनो ऽपि त(त्र निम)न्निमज्जनं स्यादिति तत्र किं सम्भावनयेदमुच्यते उत व्याप्त्या । नाद्यः । प्रशिथिलमूलत्वात् । न द्वितीयः । चित्रगुरानीयतां काशीनिवासी समागत इत्यादौ तदभावात् । पारमार्थिकीं दृष्टिमवलम्बमानस्य तदपि असिद्धमिति चेत् । अहो पक्षपातो ऽस्य यत्परस्यानिष्यं प्रसञ्जयन्व्याप्तिग्रहणाय लौकिकं दृष्टान्तं बहुमन्यते व्यभिचारे तु तत्रोदास्ते । परसिद्धेन परस्यैवानिष्यापादनमिति चेत् । तर्हि मूलशैथिल्यमपि परः स्वसिद्धेन प्रतिपत्स्यते । वैचित्र्यं किन्निमित्तमिति चेत् । व्यावर्तकत्वमात्रेण प्रतियोगिनामुपयोगादिति ब्रूमः । *८,१२३* तदेवं स्वपरमतावलोकानपेक्षयैव दोषोद्भावनादुपेक्षणमेवोन्मत्तवाक्यवन्मायावादस्योचितम् । किन्निराकरणेनेत्याशयवानुपसंहरति अत इति ॥ अत उन्मत्तवाक्यत्वान्मायावादो ऽभ्युपेक्षितः

syādetadyadi bhedo vidāraṇātmā bhavet / nacaivam / pramāṇābhāvāt / aṅgīkṛtyaiva tu pūrvaḥ parihāro 'bhihitaḥ / nanūktamatra bhedaśabdādeva bhedasya vidāraṇātmakatvamavagamyate / sa hi bhiderdhāto rūpam / sa ca vidāraṇārthatayā vyākhyāta iti / atrotraram / yadā bhididhāturvidāraṇārtho vivakṣitastadā bhedaśabdo vibhāgākhyaguṇavācako na tvanyonyābhāvalakṣaṇabhedavācaka iti / etaduktaṃ bhavati / "kriyāvācitvamākhyātumekaiko 'rthaḥ pradarśitaḥ / prayogato 'nugantavyā anekārthā hi dhātavaḥ'; iti vacanādbhidirvibhāgavacano 'nyatvavacanaśca / bhinno ghaṭa ityukte sphuṭita iti gamyate / bhinnaṃ gaganaṃ ghaṭādityanyaditi vijñāyate / tatra vibhāgo vidāraṇātmā nānyatvam / tadeva cātra prakṛtaṃ na vibhāga ityanyatālakṣaṇasya bhedasya vastusvarūpatve vidāraṇaprasaṅgenātyalpatāpādanamapyasaṅgatameva, chalatvāditi / nanu vibhāgasyānyatvasya ca ko viśeṣo yenaivamucyata iti cenna / guṇagrahaṇenaiva parihṛtatvāt / vibhāgo hi guṇatayā vaiśeṣikādibhirupāttaḥ / anyatā cānyonyābhāva iti sphuṭo bhedaḥ / *8,120* yastu guṇādiprakriyāṃ na māyāvādī manyate / taṃ bodhayitumāha avidāraṇe 'pīti // avidāraṇe 'pi hyāsyasya bhinnāvoṣṭhau tu tasya ca āsyasyetyāsyasambandhinoroṣṭhayorgrahaṇam / tasya ca māyāvādina eva / yadā hi māyāvādī niruttaratayā tūṣṇīmāste tadā tadīyayoroṣṭhayorvidāraṇalakṣaṇavibhāgābhāve 'pyoṣṭhau bhinnāvanyonyābhāvalakṣaṇabhedavantau bhavata eva / yadabhāve ca yadasti tattato 'nyaditi ca prasiddhameva / ato vibhāgādbhedo 'rthāntarameveti jñāyate / tasya cetyanena nātaḥ paraṃ svarūpabhede kācidanupapattiḥ sambhāvitāstīti sūcitam / nanu kathaṃ nāsti / viśeṣaṇaviśeṣyabhāvānupapattyāderaparihṛtatvāditi cenna / svarūpatve 'pi viśeṣabalena viśeṣaṇaviśeṣyabhāvasambandhāvabhāsopapatteḥ / anyathā'nandaṃ brahma ānandaṃ brahmaṇa ityāderanupapattiprasaṅgāt / saṃśayaviparyayānupapattirapi nāsti / saviśeṣatvena jñātājñātatvopapatteḥ / anyathā'tmasvarūpe svayaṃprakāśamāne tatsvarūpamātrāṇāmadvitīyatvānandatvādīnāmapi prakāśanīyamānna jātu kasyacitsaṃśayaviparyayau syātām / avidyāvaśāttatra tatheti cet / atrāpi sādṛ(śyādiva)śyavaśāttatheti santoṣyavyam / *8,121* yaccādvaitaparyavasānamuktam / tatkuta iti vaktavyam / yadi manyeta yathā hi lambakarṇa āgato, nīlamānīyatāmityādau parikaravato yadbhavati tatparikarasyāpi, tathā pratiyogighaṭitasya bhedasya dharmisvarūpatve pratiyogino 'pi ta(tra nima)nnimajjanaṃ syāditi tatra kiṃ sambhāvanayedamucyate uta vyāptyā / nādyaḥ / praśithilamūlatvāt / na dvitīyaḥ / citragurānīyatāṃ kāśīnivāsī samāgata ityādau tadabhāvāt / pāramārthikīṃ dṛṣṭimavalambamānasya tadapi asiddhamiti cet / aho pakṣapāto 'sya yatparasyāniṣyaṃ prasañjayanvyāptigrahaṇāya laukikaṃ dṛṣṭāntaṃ bahumanyate vyabhicāre tu tatrodāste / parasiddhena parasyaivāniṣyāpādanamiti cet / tarhi mūlaśaithilyamapi paraḥ svasiddhena pratipatsyate / vaicitryaṃ kinnimittamiti cet / vyāvartakatvamātreṇa pratiyogināmupayogāditi brūmaḥ / *8,123* tadevaṃ svaparamatāvalokānapekṣayaiva doṣodbhāvanādupekṣaṇamevonmattavākyavanmāyāvādasyocitam / kinnirākaraṇenetyāśayavānupasaṃharati ata iti // ata unmattavākyatvānmāyāvādo 'bhyupekṣitaḥ

Sanskrit only: no published translation is held for this verse.

नन्वेवंविधं मतं सिद्धान्तविरुद्धत्वात्सूत्रकृता कुतो ऽत्र न निराकृतमित्येतदनेन परिह्रियते । उपेक्षितः सूत्रकारेणेति शेषः । एवं समवायं निराकृत्येदानीं सम्बन्धप्रसङ्गेन सम्बन्धिनामपि गुणादीनां प्रसक्तत्वादीश्वरगुणसङ्खयाविप्रतिपत्तिं निराकरोति नचेति ॥ न चामन्दसदानन्दस्यन्द्यनन्तगुणार्णवः । ईश्वरो ऽष्टगुणत्वेन प्रमेयो ऽप्रमितत्वतः

nanvevaṃvidhaṃ mataṃ siddhāntaviruddhatvātsūtrakṛtā kuto 'tra na nirākṛtamityetadanena parihriyate / upekṣitaḥ sūtrakāreṇeti śeṣaḥ / evaṃ samavāyaṃ nirākṛtyedānīṃ sambandhaprasaṅgena sambandhināmapi guṇādīnāṃ prasaktatvādīśvaraguṇasaṅkhayāvipratipattiṃ nirākaroti naceti // na cāmandasadānandasyandyanantaguṇārṇavaḥ / īśvaro 'ṣṭaguṇatvena prameyo 'pramitatvataḥ

Sanskrit only: no published translation is held for this verse.

ईश्वरो ऽष्टगुणत्वेन अष्टावेव गुणा अस्य सन्तीत्येवंरूपेण, न प्रमेयो न प्रतिपत्तव्यः । कुतः अप्रमितत्वतः अष्टगुणत्वे प्रमाणाभावात् । किन्त्वमन्दसदानन्दस्यन्द्यनन्तगुणार्णवः प्रमेयः । अर्णव इवार्णवः, क्षीरार्णवः सुधास्यन्दी भवति । अयञ्चानल्पविदोषानन्दसुधास्यन्दी । सो ऽनन्ता गुणाः शुभपदार्थाश्चिन्तामणिप्रभृतयो ऽस्मिन्नित्यनन्तगुणः । अयमप्यानन्दादयो ऽनन्ता गुणा अस्मिन्नित्यनन्तगुणः । अमन्दसदानन्दस्यन्दी चासावनन्तगुणश्चासावर्णवश्चेति विग्रहः । *८,१२४* अष्टगुणत्ववदनन्तगुणत्वे ऽपीश्वरस्य प्रमाणं नास्तीत्यत आह मयीति ॥ मय्यनन्तगुणे ऽनन्ते गुणतो ऽनन्तविग्रहे । अनन्तगुणमाहात्म्यशक्तिज्ञानमहार्णवः

īśvaro 'ṣṭaguṇatvena aṣṭāveva guṇā asya santītyevaṃrūpeṇa, na prameyo na pratipattavyaḥ / kutaḥ apramitatvataḥ aṣṭaguṇatve pramāṇābhāvāt / kintvamandasadānandasyandyanantaguṇārṇavaḥ prameyaḥ / arṇava ivārṇavaḥ, kṣīrārṇavaḥ sudhāsyandī bhavati / ayañcānalpavidoṣānandasudhāsyandī / so 'nantā guṇāḥ śubhapadārthāścintāmaṇiprabhṛtayo 'sminnityanantaguṇaḥ / ayamapyānandādayo 'nantā guṇā asminnityanantaguṇaḥ / amandasadānandasyandī cāsāvanantaguṇaścāsāvarṇavaśceti vigrahaḥ / *8,124* aṣṭaguṇatvavadanantaguṇatve 'pīśvarasya pramāṇaṃ nāstītyata āha mayīti // mayyanantaguṇe 'nante guṇato 'nantavigrahe / anantaguṇamāhātmyaśaktijñānamahārṇavaḥ

Sanskrit only: no published translation is held for this verse.

नारायणः परो ऽशेषचेतनेभ्यः परं पदम् । इत्यादिवेदतद्वाक्यैरनन्तैश्चावसीयते

nārāyaṇaḥ paro 'śeṣacetanebhyaḥ paraṃ padam / ityādivedatadvākyairanantaiścāvasīyate

Sanskrit only: no published translation is held for this verse.

अनन्तगुणता विष्णोः ॥। अनन्ता असङ्खयाता गुणा यस्यासावनन्तगुणः । गुणतो ऽनन्त इति गुणानां प्रत्येकमनवधिकत्वमनन्तावान्तरविशेषवत्त्वं चाभिप्रेयते । अनन्तविग्रह इत्यन्तं भगवद्वाक्यम् । उत्तरं वेदवाक्यम् । गुणमाहात्म्येति सामान्यविशेषाभ्यामुक्तम् । माहात्म्यं परिमाणातिशयः । परं पदमित्युद्दिश्यान्यदुच्यत इति न लिङ्गव्यत्ययदोषः । नन्वेतानि वचनान्युपचरितार्थानि किन्न स्युरित्यत आह कथमेवेति ॥ ॥। कथमेव ह्यपोद्यते बाधकवशाद्धि मुख्यार्थो ऽपोद्यते । नचात्र तदस्तीत्यतो ऽनन्तगुणता विष्णोः कथमेवापोद्यते । *८,१२६* यच्च वैशेषिकादिभिरीश्वरज्ञानेच्छाप्रयत्नानामखण्डत्वमुक्तं तदप्यसत् । "अनन्तं गुणतःऽ; इति प्रत्येकं गुणानामनन्तविशेषवत्त्वस्यागमसिद्धत्वात् । तदनङ्गीकारे बाधकं चाह यदीति ॥ यद्यनन्तविशेषाश्च तज्ज्ञानादेर्निवारिताः

anantaguṇatā viṣṇoḥ ... anantā asaṅkhayātā guṇā yasyāsāvanantaguṇaḥ / guṇato 'nanta iti guṇānāṃ pratyekamanavadhikatvamanantāvāntaraviśeṣavattvaṃ cābhipreyate / anantavigraha ityantaṃ bhagavadvākyam / uttaraṃ vedavākyam / guṇamāhātmyeti sāmānyaviśeṣābhyāmuktam / māhātmyaṃ parimāṇātiśayaḥ / paraṃ padamityuddiśyānyaducyata iti na liṅgavyatyayadoṣaḥ / nanvetāni vacanānyupacaritārthāni kinna syurityata āha kathameveti // ... kathameva hyapodyate bādhakavaśāddhi mukhyārtho 'podyate / nacātra tadastītyato 'nantaguṇatā viṣṇoḥ kathamevāpodyate / *8,126* yacca vaiśeṣikādibhirīśvarajñānecchāprayatnānāmakhaṇḍatvamuktaṃ tadapyasat / "anantaṃ guṇataḥ'; iti pratyekaṃ guṇānāmanantaviśeṣavattvasyāgamasiddhatvāt / tadanaṅgīkāre bādhakaṃ cāha yadīti // yadyanantaviśeṣāśca tajjñānādernivāritāḥ

Sanskrit only: no published translation is held for this verse.

कथं तत्तद्विषयता सार्वज्ञ्यार्थं विधीयते । औपाधिकविशेषस्तु पूर्वमेव निराकृतः

kathaṃ tattadviṣayatā sārvajñyārthaṃ vidhīyate / aupādhikaviśeṣastu pūrvameva nirākṛtaḥ

Sanskrit only: no published translation is held for this verse.

यैस्त्विति सम्बन्धः । केचिद्वैशेषिकादयः स्वप्रकाशतामङ्गीकुर्वन्तीत्येतत्सूचयितुं तुशब्दः । ज्ञानस्य ईश्वरज्ञानस्य । तेषां पक्ष इति शेषः । तस्य ईश्वरस्य । कथं स्वप्रकाशत्वाभावे सर्वज्ञताभाव इत्यत आह स्वेति ॥ *८,१३०* ॥। स्वज्ञानाधिगमं विना

yaistviti sambandhaḥ / kecidvaiśeṣikādayaḥ svaprakāśatāmaṅgīkurvantītyetatsūcayituṃ tuśabdaḥ / jñānasya īśvarajñānasya / teṣāṃ pakṣa iti śeṣaḥ / tasya īśvarasya / kathaṃ svaprakāśatvābhāve sarvajñatābhāva ityata āha sveti // *8,130* ... svajñānādhigamaṃ vinā

Sanskrit only: no published translation is held for this verse.

स्वज्ञानाधिगमाभावादित्यर्थः । एकमेव हीश्वरज्ञानं तच्च स्वव्यतिरिक्तमेव विषयीकरोति न तु स्वरूपमिति कथमीश्वरः सर्वज्ञः स्यादिति । स्वप्रकाशज्ञानाभावे ऽपीश्वरस्य सार्वज्ञसम्भवं शङ्कते ज्ञानमिति ॥ ज्ञानं विश्वाधिगं त्वेकं तज्ज्ञानविषयं परम् । इति ज्ञानद्वयेनैव सर्ववित् परमेश्वरः

svajñānādhigamābhāvādityarthaḥ / ekameva hīśvarajñānaṃ tacca svavyatiriktameva viṣayīkaroti na tu svarūpamiti kathamīśvaraḥ sarvajñaḥ syāditi / svaprakāśajñānābhāve 'pīśvarasya sārvajñasambhavaṃ śaṅkate jñānamiti // jñānaṃ viśvādhigaṃ tvekaṃ tajjñānaviṣayaṃ param / iti jñānadvayenaiva sarvavit parameśvaraḥ

Sanskrit only: no published translation is held for this verse.

इति चेद् ॥। आस्तां तावत्सजातीयात्मविशेषगुणयौगपद्यानुपपत्तिः । ज्ञानद्वयवानहं, ज्ञानद्वयेन सर्वज्ञो ऽस्मि, इदं मे ज्ञानमेतज्ज्ञानविषयं एतच्चैतद्विषयमित्यादिरेष एवार्थ ईश्वरेण ज्ञायते न वा । नेति पक्षे तस्य सार्वज्ञं न स्यात् । आद्ये किमेतयोरन्यतरेणोत ज्ञानान्तरेण । प्रथमस्येदमुत्तरम् । एष एवार्थस्तयोरन्यतरेण ज्ञानेनावसितो विषयीकृतो यदि तदा तस्य ज्ञानस्य स्वप्रकाशत्वं स्यादेवेति । तत्कथमित्यत आह ज्ञानं हीति ॥ ॥। ज्ञानं ह्येतद् विशेषणम्

iti ced ... āstāṃ tāvatsajātīyātmaviśeṣaguṇayaugapadyānupapattiḥ / jñānadvayavānahaṃ, jñānadvayena sarvajño 'smi, idaṃ me jñānametajjñānaviṣayaṃ etaccaitadviṣayamityādireṣa evārtha īśvareṇa jñāyate na vā / neti pakṣe tasya sārvajñaṃ na syāt / ādye kimetayoranyatareṇota jñānāntareṇa / prathamasyedamuttaram / eṣa evārthastayoranyatareṇa jñānenāvasito viṣayīkṛto yadi tadā tasya jñānasya svaprakāśatvaṃ syādeveti / tatkathamityata āha jñānaṃ hīti // ... jñānaṃ hyetad viśeṣaṇam

Sanskrit only: no published translation is held for this verse.

यद्यप्येतज्ज्ञानं न निष्कृष्टं स्वस्य स्वविषयतामापद्यते । तथापि ज्ञानविषयस्यैतस्य ज्ञानद्वयानहमित्यादेरर्थस्य विशेषणं भवत्येव । तथाच विशिष्टार्थविषयत्वे विशेषणभूतस्वविषयत्वमवर्जनीयमेव । नहि दण्डिसाक्षात्कारे दण्डो न स्फुरतीति युक्तमिति । *८,१३१* द्वितीये दोषमाह ज्ञानान्तरेणेति ॥ ज्ञानान्तरेण चेदत्र भवेदेवानवस्थितिः ज्ञानान्तरेण तृतीयेन ज्ञानेन । यद्येषो ऽर्थो विषयीक्रियते । अत्र अस्मिन्पक्षे अनवस्थितिः ज्ञानद्वयवानीश्वर इति नियमाभावो भवेत् । यस्तु ज्ञानत्रयवानिति नियमं मन्यते स प्रष्टव्यः । किं ज्ञानत्रयवानहमस्मीत्यादिकमर्थमीश्वरो वेत्ति न वेति । द्वितीये तु पुनरसार्वज्ञम् । आद्ये किमेतत्त्रयान्यतमेन, उत चतुर्थेन । नाद्यः । स्वप्रकाशतापत्तेः । द्वितीये पुनरनवस्थैव । एवं ज्ञानान्तरपरम्पराभ्युपगमव्यसनं दुर्वारं स्यात् । *८,१३२* नन्वनन्तानीश्वरज्ञानान्यभ्युपगच्छामि को दोष इति चेन्न । कल्पनागौरवाद्वरमेकस्यैव ज्ञानस्य स्वप्रकाशत्वाभ्युपगम इत्याशयवानुपसंहरति स्वप्रकाशत्वमिति ॥ स्वप्रकाशत्वमेतस्माद् दुर्निवार्यं समापतेत्

yadyapyetajjñānaṃ na niṣkṛṣṭaṃ svasya svaviṣayatāmāpadyate / tathāpi jñānaviṣayasyaitasya jñānadvayānahamityāderarthasya viśeṣaṇaṃ bhavatyeva / tathāca viśiṣṭārthaviṣayatve viśeṣaṇabhūtasvaviṣayatvamavarjanīyameva / nahi daṇḍisākṣātkāre daṇḍo na sphuratīti yuktamiti / *8,131* dvitīye doṣamāha jñānāntareṇeti // jñānāntareṇa cedatra bhavedevānavasthitiḥ jñānāntareṇa tṛtīyena jñānena / yadyeṣo 'rtho viṣayīkriyate / atra asminpakṣe anavasthitiḥ jñānadvayavānīśvara iti niyamābhāvo bhavet / yastu jñānatrayavāniti niyamaṃ manyate sa praṣṭavyaḥ / kiṃ jñānatrayavānahamasmītyādikamarthamīśvaro vetti na veti / dvitīye tu punarasārvajñam / ādye kimetattrayānyatamena, uta caturthena / nādyaḥ / svaprakāśatāpatteḥ / dvitīye punaranavasthaiva / evaṃ jñānāntaraparamparābhyupagamavyasanaṃ durvāraṃ syāt / *8,132* nanvanantānīśvarajñānānyabhyupagacchāmi ko doṣa iti cenna / kalpanāgauravādvaramekasyaiva jñānasya svaprakāśatvābhyupagama ityāśayavānupasaṃharati svaprakāśatvamiti // svaprakāśatvametasmād durnivāryaṃ samāpatet

Sanskrit only: no published translation is held for this verse.

ननु ज्ञानं न स्वप्रकाशं वस्तुत्वादित्यादेः विरुद्धं(दि) स्वप्रकाशत्वं कथमङ्गीकर्तुमुचितमिति चेत् (न) । यत् वस्तु, न तत्स्वप्रकाशमिति व्याप्तिज्ञानं स्वात्मानं न विषयीकरोति चेन्न सर्वोपसंहारवद्वयाप्तिसिद्धिः । विषयीकरणे तु स्वप्रकाशत्वं दुर्निवारमित्याशयवतो वोपसंहारः । *८,१३३* यदुक्तमीश्वरो ऽनन्तगुण इति तदनुपपन्नम् । चतुर्विंशतेरधिकानां गुणानामभावात् । तत्रापि केषाञ्चिदीश्वरे ऽनुपपत्तेः । तस्मादुपपन्नैरष्टभिरेव गुणैरुपपन्नो भगवानिति । मैवम् । शौर्यौदायर्प्रागल्भ्यप्रभृतीनां गुणानां भावात् । परेण स्वीकृतेष्वपि केषाञ्चिदनुपपत्त्यभावाच्च । तथाहि । सुखं तावदीश्वरस्य कुतो नाङ्गीकर्तव्यम् । ईश्वरः सुखरहितो दुःखरहितत्वाद्घटवत् । सुखवांश्चेददुःखवान्प्रसज्यते देवदत्तवदिति विपक्षे बाधकोपपन्नादनुमानादिति चेत् । तत्रानुग्राहकस्य तर्कस्य तावद्दूषणमाह सुखवानिति ॥ *८,१३४* सुखवान् दुःखवांश्च स्यादिति व्याप्तिश्च नो भवेत् कथं व्याप्त्यभाव इत्यत आह निर्दुःखत्वमिति ॥ निर्दुःखत्वं महानन्दः श्रुत्यैवेशस्य भण्यते

nanu jñānaṃ na svaprakāśaṃ vastutvādityādeḥ viruddhaṃ(di) svaprakāśatvaṃ kathamaṅgīkartumucitamiti cet (na) / yat vastu, na tatsvaprakāśamiti vyāptijñānaṃ svātmānaṃ na viṣayīkaroti cenna sarvopasaṃhāravadvayāptisiddhiḥ / viṣayīkaraṇe tu svaprakāśatvaṃ durnivāramityāśayavato vopasaṃhāraḥ / *8,133* yaduktamīśvaro 'nantaguṇa iti tadanupapannam / caturviṃśateradhikānāṃ guṇānāmabhāvāt / tatrāpi keṣāñcidīśvare 'nupapatteḥ / tasmādupapannairaṣṭabhireva guṇairupapanno bhagavāniti / maivam / śauryaudāyarprāgalbhyaprabhṛtīnāṃ guṇānāṃ bhāvāt / pareṇa svīkṛteṣvapi keṣāñcidanupapattyabhāvācca / tathāhi / sukhaṃ tāvadīśvarasya kuto nāṅgīkartavyam / īśvaraḥ sukharahito duḥkharahitatvādghaṭavat / sukhavāṃścedaduḥkhavānprasajyate devadattavaditi vipakṣe bādhakopapannādanumānāditi cet / tatrānugrāhakasya tarkasya tāvaddūṣaṇamāha sukhavāniti // *8,134* sukhavān duḥkhavāṃśca syāditi vyāptiśca no bhavet kathaṃ vyāptyabhāva ityata āha nirduḥkhatvamiti // nirduḥkhatvaṃ mahānandaḥ śrutyaiveśasya bhaṇyate

Sanskrit only: no published translation is held for this verse.

यद्यपि सुखित्वं दुःखित्वेन सहचरितं देवदत्तादावुपलब्धम् । तथापीश्वरे निर्दुःखे ऽपि वाच्यं प्राक् प्रसञ्जानाद्वयाप्तिग्रहणवेलायामेवेदं व्याप्तिभङ्गोद्भावनमिति । सर्वत्राप्येवं वक्तुं शक्यत्वेनोक्तदोषानिस्तारादिति । मैवम् । स्वाभ्युपगममात्रेणापादनस्थले व्याप्तिभङ्गाभिधाने सत्येवमेतत् । नचैवं प्रकृते । श्रुतिबलेनैवेश्वरे सुखित्वस्य दुःखित्व(स्य)व्यभिचारोपपादनात् । तदिदमुक्तम् श्रुत्यैव भण्यत इति ॥ प्रत्येकं सम्बन्धादेकवचनम् । *८,१३५* कासौ श्रुतिरित्यतो ऽर्थतस्तामुदाहरति य इति ॥ यो ऽशनायापिपासे च शोकादींश्चातिवर्तते । आनन्दं ब्रह्मणो विद्वान् विपाप्मेत्यादिका च सा

yadyapi sukhitvaṃ duḥkhitvena sahacaritaṃ devadattādāvupalabdham / tathāpīśvare nirduḥkhe 'pi vācyaṃ prāk prasañjānādvayāptigrahaṇavelāyāmevedaṃ vyāptibhaṅgodbhāvanamiti / sarvatrāpyevaṃ vaktuṃ śakyatvenoktadoṣānistārāditi / maivam / svābhyupagamamātreṇāpādanasthale vyāptibhaṅgābhidhāne satyevametat / nacaivaṃ prakṛte / śrutibalenaiveśvare sukhitvasya duḥkhitva(sya)vyabhicāropapādanāt / tadidamuktam śrutyaiva bhaṇyata iti // pratyekaṃ sambandhādekavacanam / *8,135* kāsau śrutirityato 'rthatastāmudāharati ya iti // yo 'śanāyāpipāse ca śokādīṃścātivartate / ānandaṃ brahmaṇo vidvān vipāpmetyādikā ca sā

Sanskrit only: no published translation is held for this verse.

अनेन"यो ऽशनायापिपासे शोकं मोहं जरां मृत्युमत्येतिऽ; इति श्रुतिमुपादत्ते । विपाप्मेत्यनेन"य आत्मापहतपाप्माऽ; इत्यादिश्रुतिम् । सा निर्दुःखत्वाद्यभिधात्री । नन्वानन्दश्रुतेर्दुःखाभावविषयत्वोपपत्तेर्न श्रुत्यवष्टम्भेन प्रसङ्गमूलभूतव्याप्तिभङ्गो वक्तुं शक्यत इत्यतो ऽङ्गीकृत्य तावत्सोपाधिकत्वमाह ईश्वरस्येति ॥ *८,१३६* ईश्वरस्य तथेष्टत्वं दुःखित्वोपाधिरित्यपि । उक्ते किमुत्तरं ब्रूयाच्छ्रुत्यनादरतत्परः

anena"yo 'śanāyāpipāse śokaṃ mohaṃ jarāṃ mṛtyumatyeti'; iti śrutimupādatte / vipāpmetyanena"ya ātmāpahatapāpmā'; ityādiśrutim / sā nirduḥkhatvādyabhidhātrī / nanvānandaśruterduḥkhābhāvaviṣayatvopapatterna śrutyavaṣṭambhena prasaṅgamūlabhūtavyāptibhaṅgo vaktuṃ śakyata ityato 'ṅgīkṛtya tāvatsopādhikatvamāha īśvarasyeti // *8,136* īśvarasya tatheṣṭatvaṃ duḥkhitvopādhirityapi / ukte kimuttaraṃ brūyācchrutyanādaratatparaḥ

Sanskrit only: no published translation is held for this verse.

तथेष्टत्वं दुःखी भवत्वितीष्टत्वम् । दुःखित्वोपाधिः दुःखित्वप्रयोजकम् । अपिपदेनाधर्मादिमत्त्वं समुच्चिनोति । अनादरो विना बाधकेन प्रतीतार्थपरित्यागः । मा भूत्तावत् श्रुत्यवष्टम्भेन व्याप्तिभङ्गः, सोपाधिकतया तु भविष्यति । सोपाधिकसम्बन्धस्य व्यभिचारनियमादिति । यः सुखी स दुःखी भवत्वितीश्वरेच्छाविषय एवेति नियमान्नायमुपाधिरित्यत आह न चेति ॥ न चात्मदुःखितेच्छा स्यादत एतन्निवार्यते ईश्वरस्य हि"आनन्दं ब्रह्मणो विद्वान्ऽ; इत्यादिश्रुतेः सुखित्वे ऽपि नोपाधिमत्त्वम् । कस्याप्यात्मदुःखितेच्छाभावादत एतदुपाधेर्व्याप्याभिमतव्यापकत्वं निवायर्ते । यद्यप्ययं नियमो न दर्शनमात्रेण सिद्धयति । अतिप्रसङ्गात् । नियामकं तु नास्तीति वक्तुं शक्यते । तथापि श्रुत्यर्थपरित्यागं वारयितुं प्रसङ्गापादनायेदमुदितमिति द्रष्टव्यम् । भवेदेतद्यद्यानन्दश्रुतिः सुखवादिनी स्यान्न चैतदस्ति । तस्या दुःखाभावपरत्वादिति चेत् । किं बाधकादियं श्रुतिः स्वार्थात्प्रच्याव्यते उतैवमेव । न तावद्द्वितीयः । दुःखाभावश्रुतेरप्यन्यथयितुं शक्यत्वेन तर्कस्येष्यापत्तितापत्तेः । आद्ये न तावत्प्रत्यक्षमागमो वा बाधको ऽस्ति । ततः सुखित्वे दुःखित्वप्रसङ्गो वा निर्दुःखत्वानुमानं वा बाधकमिति वाच्यम् । तदुभयमपि व्यप्तिबलप्रवृत्तं वा स्यात्सहदर्शनमात्रबलप्रवृत्तं वा । नाद्यः । इतरेतराश्रयत्वप्रसङ्गात् । सिद्धे हि श्रुतेः स्वार्थप्रच्यावने तर्कानुमानयोर्व्याप्तिसिद्धिस्तत्सिद्धौ च श्रुतेः स्वार्थात्प्रच्यावनसिद्धिरिति । *८,१३८* नन्वेतद्भवतामपि समानम् । श्रुतेः स्वार्थपरत्वे तर्कानुमानयोर्व्याप्तिभङ्गः, सति च तस्मिन् श्रुतेः स्वार्थपरत्वमिति । मैवम् । यतः प्रतीतार्थपरित्याग एव बाधकमपेक्षते । न स्वार्थपरत्वं, बाधकाभावम् । तस्य प्रतीत्यैव सिद्धत्वात् । द्वितीये त्वतिप्रसङ्गः स्यादित्याह सहेति ॥ सहदर्शनमात्रेण श्रुतीनामपलापकः

tatheṣṭatvaṃ duḥkhī bhavatvitīṣṭatvam / duḥkhitvopādhiḥ duḥkhitvaprayojakam / apipadenādharmādimattvaṃ samuccinoti / anādaro vinā bādhakena pratītārthaparityāgaḥ / mā bhūttāvat śrutyavaṣṭambhena vyāptibhaṅgaḥ, sopādhikatayā tu bhaviṣyati / sopādhikasambandhasya vyabhicāraniyamāditi / yaḥ sukhī sa duḥkhī bhavatvitīśvarecchāviṣaya eveti niyamānnāyamupādhirityata āha na ceti // na cātmaduḥkhitecchā syādata etannivāryate īśvarasya hi"ānandaṃ brahmaṇo vidvān'; ityādiśruteḥ sukhitve 'pi nopādhimattvam / kasyāpyātmaduḥkhitecchābhāvādata etadupādhervyāpyābhimatavyāpakatvaṃ nivāyarte / yadyapyayaṃ niyamo na darśanamātreṇa siddhayati / atiprasaṅgāt / niyāmakaṃ tu nāstīti vaktuṃ śakyate / tathāpi śrutyarthaparityāgaṃ vārayituṃ prasaṅgāpādanāyedamuditamiti draṣṭavyam / bhavedetadyadyānandaśrutiḥ sukhavādinī syānna caitadasti / tasyā duḥkhābhāvaparatvāditi cet / kiṃ bādhakādiyaṃ śrutiḥ svārthātpracyāvyate utaivameva / na tāvaddvitīyaḥ / duḥkhābhāvaśruterapyanyathayituṃ śakyatvena tarkasyeṣyāpattitāpatteḥ / ādye na tāvatpratyakṣamāgamo vā bādhako 'sti / tataḥ sukhitve duḥkhitvaprasaṅgo vā nirduḥkhatvānumānaṃ vā bādhakamiti vācyam / tadubhayamapi vyaptibalapravṛttaṃ vā syātsahadarśanamātrabalapravṛttaṃ vā / nādyaḥ / itaretarāśrayatvaprasaṅgāt / siddhe hi śruteḥ svārthapracyāvane tarkānumānayorvyāptisiddhistatsiddhau ca śruteḥ svārthātpracyāvanasiddhiriti / *8,138* nanvetadbhavatāmapi samānam / śruteḥ svārthaparatve tarkānumānayorvyāptibhaṅgaḥ, sati ca tasmin śruteḥ svārthaparatvamiti / maivam / yataḥ pratītārthaparityāga eva bādhakamapekṣate / na svārthaparatvaṃ, bādhakābhāvam / tasya pratītyaiva siddhatvāt / dvitīye tvatiprasaṅgaḥ syādityāha saheti // sahadarśanamātreṇa śrutīnāmapalāpakaḥ

Sanskrit only: no published translation is held for this verse.

आपाद्येन साध्येन वा सहदर्शनं यस्यापादकस्य साधनस्य वा तत्सहदर्शनम् । श्रुतीनाम् ईश्वरस्यानन्दवादिनीनाम् अपलापकः स्वार्थप्रच्यावकः । यज्ञादेरित्यादिपदेन गोभ्यो यवसदानं गृह्यते । युतेः योगात् । यदि सहदर्शनमात्रेणानन्दश्रुत्यर्थालापः क्रियेत । तदा या हिंसा सा पापहेतुरिति सहदर्शनेन ज्योतिष्योमादिश्रुत्यर्थापलापो ऽपि क्रियतामविशेषादिति भावः । *८,१३९* नन्वविशेषो ऽसिद्धः । हिंसात्वपापसाधनत्वयोः । साहचर्ये निषिद्धत्वस्योपाधेः विद्यमानत्वात् । नच सुखित्वदुःखित्वसम्बन्धे कश्चिदुपाधिरस्ति । ईश्वरस्य तथेष्टत्वमुपाधिस्त्विदानीमपि गह(नं प्रवि)ननिविष्य इत्याशङ्कते तत्रेति ॥ ॥। तत्र यद्युपाधिर्निषिद्धता

āpādyena sādhyena vā sahadarśanaṃ yasyāpādakasya sādhanasya vā tatsahadarśanam / śrutīnām īśvarasyānandavādinīnām apalāpakaḥ svārthapracyāvakaḥ / yajñāderityādipadena gobhyo yavasadānaṃ gṛhyate / yuteḥ yogāt / yadi sahadarśanamātreṇānandaśrutyarthālāpaḥ kriyeta / tadā yā hiṃsā sā pāpaheturiti sahadarśanena jyotiṣyomādiśrutyarthāpalāpo 'pi kriyatāmaviśeṣāditi bhāvaḥ / *8,139* nanvaviśeṣo 'siddhaḥ / hiṃsātvapāpasādhanatvayoḥ / sāhacarye niṣiddhatvasyopādheḥ vidyamānatvāt / naca sukhitvaduḥkhitvasambandhe kaścidupādhirasti / īśvarasya tatheṣṭatvamupādhistvidānīmapi gaha(naṃ pravi)naniviṣya ityāśaṅkate tatreti // ... tatra yadyupādhirniṣiddhatā

Sanskrit only: no published translation is held for this verse.

अस्तीत्युच्यत इति शेषः । केयं निषिद्धता नाम । अकर्तव्यतया श्रुत्युक्तत्वमिति चेत् । केयमकर्तव्यतापि करणानर्हता वा कर्तुरनिष्यहेतुता वा । नाद्यः । ब्रह्महिंसाया अपि क्रियमाणत्वात् । द्वितीये ऽपि किं साक्षादनिष्यसाधनत्वं परम्परया वा । नाद्यः । हिंसानन्तरमेव दुःखोत्पादादर्शनात् । द्वितीये तु पापसाधनतयोक्तत्वमुपाधिरित्युक्तं स्यात् । एवंचात्राप्युपाधिसद्भावादविशेष एवेति परिहरति अदुःखित्वेनेति ॥ अदुःखित्वेन चानुक्तिः कथं नोपाधितां व्रजेत्

astītyucyata iti śeṣaḥ / keyaṃ niṣiddhatā nāma / akartavyatayā śrutyuktatvamiti cet / keyamakartavyatāpi karaṇānarhatā vā karturaniṣyahetutā vā / nādyaḥ / brahmahiṃsāyā api kriyamāṇatvāt / dvitīye 'pi kiṃ sākṣādaniṣyasādhanatvaṃ paramparayā vā / nādyaḥ / hiṃsānantarameva duḥkhotpādādarśanāt / dvitīye tu pāpasādhanatayoktatvamupādhirityuktaṃ syāt / evaṃcātrāpyupādhisadbhāvādaviśeṣa eveti pariharati aduḥkhitveneti // aduḥkhitvena cānuktiḥ kathaṃ nopādhitāṃ vrajet

Sanskrit only: no published translation is held for this verse.

इति श्रुतिर् हि परमा ॥।

iti śrutir hi paramā ...

Sanskrit only: no published translation is held for this verse.

पूर्वोक्तेन शास्त्रयोनिसूत्रोक्तेन । नेश्वरः स्यात् श्रुतिदृष्टो ऽपीश्वरो ऽनुमानविरोधात्त्याज्यः स्यादिति भावः । धर्मश्च नैव स्यात्तत्फलं च नैव स्यादित्यत्राप्येवमेव तात्पर्यम् । यज्ञक्रिया नादृष्टफलहेतुः क्रियात्वान्निष्ठीवनादिक्रियावत् । धर्मो वा न सुखसाधनमदृष्टत्वादधर्मवदित्याद्यनुमानसम्भवात् । अतिप्रसङ्गस्य विपर्यये पर्यवसानमाह तेनेति ॥ ॥। तेनात्र श्रुतिरेव प्रमा भवेत्

pūrvoktena śāstrayonisūtroktena / neśvaraḥ syāt śrutidṛṣṭo 'pīśvaro 'numānavirodhāttyājyaḥ syāditi bhāvaḥ / dharmaśca naiva syāttatphalaṃ ca naiva syādityatrāpyevameva tātparyam / yajñakriyā nādṛṣṭaphalahetuḥ kriyātvānniṣṭhīvanādikriyāvat / dharmo vā na sukhasādhanamadṛṣṭatvādadharmavadityādyanumānasambhavāt / atiprasaṅgasya viparyaye paryavasānamāha teneti // ... tenātra śrutireva pramā bhavet

Sanskrit only: no published translation is held for this verse.

*८,१४३* मा भूत् श्रुतिरप्रमाणं, मा च भूदनुमानबाधयार्ऽथान्तरपरा, तथाप्यनुमानस्य बाधिका कुतः, प्रतिरोधिका तु भवेदित्यत आह ईशस्येति ॥ ईशस्यानुमया सिद्धेः श्रुतिर्धमिर्प्रमा भवेत् । तया सर्वगुणैः पूर्ण उक्त ईशो यतस्ततः

*8,143* mā bhūt śrutirapramāṇaṃ, mā ca bhūdanumānabādhayār'thāntaraparā, tathāpyanumānasya bādhikā kutaḥ, pratirodhikā tu bhavedityata āha īśasyeti // īśasyānumayā siddheḥ śrutirdhamirpramā bhavet / tayā sarvaguṇaiḥ pūrṇa ukta īśo yatastataḥ

Sanskrit only: no published translation is held for this verse.

अनुमयेति श्रुतिव्यतिरिक्तप्रमाणोपलक्षणम् । धर्मिप्रमा धर्मिग्राहकं प्रमाणम् । अनुमानं हि प्रमाणान्तरेण सिद्धे धर्मिणि प्रवर्तते नान्यथा । अत्र चेश्वरो धर्मी न चासावनुमानेन सिद्धयतीति समर्थितं प्राक् । प्रत्यक्षाद्यविषयत्वं तु परस्यापि सम्मतम् । ततः परिशेषात् श्रुतिरेव धर्मिणः परमेश्वरस्य ग्राहिकेत्येष्यव्यम् । तथाचानेनानुमानेन श्रुतिप्रामाण्यमनुमतम् । अन्यथा स्वस्यानुत्थानप्रसङ्गात् । सा चोपजीव्या श्रुतिरीश्वरमानन्दवन्तमाचष्टे । ततस्तद्विरोधादनुमानमप्रमाणमेव । अग्निस्वरूपग्राहकप्रत्यक्षविरुद्धतच्छैत्यानुमानवदिति । नच वाच्यं यः सर्वज्ञ इत्यादिवाक्यमनुमानस्योपजीव्यं नानन्दवादीति । सर्वस्यापि वेदस्यैकवाक्यत्वेनार्ध(ज)चरतीयायोगात् । अन्यथाग्निग्राहकमेवोपजीव्यम् । नतु तदौष्ण्यग्राहकमित्यपि स्यात् । *८,१४४* अनेनैव न्यायेनेश्वरस्य विग्रहराहित्याद्यनुमानमपि सर्वं श्रुतिविरुद्धत्वादप्रमाणमेवेत्याशयवानुपसंहरति तस्मादिति ॥ ॥। तस्मान्नानुमात्रोपयोगिनी

anumayeti śrutivyatiriktapramāṇopalakṣaṇam / dharmipramā dharmigrāhakaṃ pramāṇam / anumānaṃ hi pramāṇāntareṇa siddhe dharmiṇi pravartate nānyathā / atra ceśvaro dharmī na cāsāvanumānena siddhayatīti samarthitaṃ prāk / pratyakṣādyaviṣayatvaṃ tu parasyāpi sammatam / tataḥ pariśeṣāt śrutireva dharmiṇaḥ parameśvarasya grāhiketyeṣyavyam / tathācānenānumānena śrutiprāmāṇyamanumatam / anyathā svasyānutthānaprasaṅgāt / sā copajīvyā śrutirīśvaramānandavantamācaṣṭe / tatastadvirodhādanumānamapramāṇameva / agnisvarūpagrāhakapratyakṣaviruddhatacchaityānumānavaditi / naca vācyaṃ yaḥ sarvajña ityādivākyamanumānasyopajīvyaṃ nānandavādīti / sarvasyāpi vedasyaikavākyatvenārdha(ja)caratīyāyogāt / anyathāgnigrāhakamevopajīvyam / natu tadauṣṇyagrāhakamityapi syāt / *8,144* anenaiva nyāyeneśvarasya vigraharāhityādyanumānamapi sarvaṃ śrutiviruddhatvādapramāṇamevetyāśayavānupasaṃharati tasmāditi // ... tasmānnānumātropayoginī

Sanskrit only: no published translation is held for this verse.

अत्र ईश्वरवाक्ये । अत एव सर्वगुणैः पूर्ण इत्युक्तम् अन्यथाऽनन्दवानित्यवक्ष्यत् । *८,१४५* अनुपपत्त्यन्तरं वैशेषिकादिदर्शने दर्शयन्"नित्यमेव च भावात्ऽ; इति सूत्रं व्याख्याति नित्येच्छत्वादिति ॥ नित्येच्छत्वात् परेशस्य परमाणुसदात्वतः । अदृष्टकालयोश्चैव भावात् कार्यं सदा भवेत्

atra īśvaravākye / ata eva sarvaguṇaiḥ pūrṇa ityuktam anyathā'nandavānityavakṣyat / *8,145* anupapattyantaraṃ vaiśeṣikādidarśane darśayan"nityameva ca bhāvāt'; iti sūtraṃ vyākhyāti nityecchatvāditi // nityecchatvāt pareśasya paramāṇusadātvataḥ / adṛṣṭakālayoścaiva bhāvāt kāryaṃ sadā bhavet

Sanskrit only: no published translation is held for this verse.

वैशेषिकादयो हि कालविशेषे द्वयणुकादिप्रक्रमेण महाभूतसृष्टिमभ्युपगच्छन्ति । तत्तदीयप्रक्रियापर्यालोचनायां नोपपद्यते । किन्तु तत्पक्षे कार्यं सदा भवेत् । यदाभिलष्टते ततः प्रागपि भवेत् । कुतः । कारणसामग्रीसम्पत्तिनिबन्धनो हि कार्योत्पत्तेः कालनियमः । तत्रादिसृष्टौ परमाणवः समवायिकारणभूतास्तावत्सदा विद्यन्ते । निमित्तकारणं चेश्वरेच्छा नित्यैव । तथा कालो दि(क्च)क् । यद्यप्यदृष्टं धर्माधर्मसमाख्यातं न नित्यं तथापि प्रलये ऽस्तीत्यङ्गीक्रियत एव । वृत्तिलाभस्तदा नास्तीति चेन्न । तस्यापीश्वरेच्छादिकारणकस्य तद्भावे ऽभावानुपपत्तेः । अत एव परमाणुसंयोगस्यासमवायिकारणस्याभावान्न सदा सृ(सदादिसृ)(महदादिसृ)ष्यिरिति निरस्तम् । संयोगानुत्पादस्याप्यनुपपत्तेः । तदसमवायिकारणकर्माभावादिति चेन्न । तदनुत्पादस्याप्ययोगात् । नचातो ऽन्यद्वयणुकादेः कारणमस्ति । यद्वैकल्यादभिलषितसमयात्प्राक् कार्याभावो भवेत् । सत्यां चाभिमतसामग्षां कार्यानुदये पश्चादपि नोत्पद्येत । नियामकाभावादिति । सदात्वं सदातत्वनम् । भावात् प्रलये ऽपीति शेषः । एवशब्दस्य सदैवेति सम्बन्धः । कार्यं भवेदिति चाभ्युपगम्योक्तम् । वस्तुतस्तु तत्पक्षे कदापि द्वयणुकाद्युत्पत्तिर्न सम्भवति । विनाशकारणस्येश्वरेच्छादेः सदातनत्वेन सत्प्रतिपक्षत्वात् । कार्योत्पत्तिसहकृतमेवेश्वरेच्छादिकं विनाशकारणमित्यङ्गीकारे ऽप्युत्पत्त्यनन्तरमेव विनाशः प्रसज्येतेति । अत एव सृष्टयादीति वक्ष्यति । *८,१४७* स्यादेवं यदि कालमात्रं सृष्टेर्वा संहारस्य वा कारणं स्यात् । नचैवम् । किन्तु कालविशेष एवातस्तद्भावाभावाभ्यां सृष्टिसंहारनियमो घटते । तथा नेश्वरेच्छामात्रं सृष्टयादिहेतुः किन्तु तद्विशेष एव ततस्तद्भावाभावप्रयुक्ता सृष्टयादिव्यवस्था स्यादिति चेन्न । किं कालदेशादेरौपाधिको भेदः, किंवा स्वाभाविकः । नाद्यः । निरस्तत्वात् । द्वितीये त्वपसिद्धान्त इत्याह नहीति ॥ न हि कालविभेदो ऽस्ति तत्पक्षे ॥।

vaiśeṣikādayo hi kālaviśeṣe dvayaṇukādiprakrameṇa mahābhūtasṛṣṭimabhyupagacchanti / tattadīyaprakriyāparyālocanāyāṃ nopapadyate / kintu tatpakṣe kāryaṃ sadā bhavet / yadābhilaṣṭate tataḥ prāgapi bhavet / kutaḥ / kāraṇasāmagrīsampattinibandhano hi kāryotpatteḥ kālaniyamaḥ / tatrādisṛṣṭau paramāṇavaḥ samavāyikāraṇabhūtāstāvatsadā vidyante / nimittakāraṇaṃ ceśvarecchā nityaiva / tathā kālo di(kca)k / yadyapyadṛṣṭaṃ dharmādharmasamākhyātaṃ na nityaṃ tathāpi pralaye 'stītyaṅgīkriyata eva / vṛttilābhastadā nāstīti cenna / tasyāpīśvarecchādikāraṇakasya tadbhāve 'bhāvānupapatteḥ / ata eva paramāṇusaṃyogasyāsamavāyikāraṇasyābhāvānna sadā sṛ(sadādisṛ)(mahadādisṛ)ṣyiriti nirastam / saṃyogānutpādasyāpyanupapatteḥ / tadasamavāyikāraṇakarmābhāvāditi cenna / tadanutpādasyāpyayogāt / nacāto 'nyadvayaṇukādeḥ kāraṇamasti / yadvaikalyādabhilaṣitasamayātprāk kāryābhāvo bhavet / satyāṃ cābhimatasāmagṣāṃ kāryānudaye paścādapi notpadyeta / niyāmakābhāvāditi / sadātvaṃ sadātatvanam / bhāvāt pralaye 'pīti śeṣaḥ / evaśabdasya sadaiveti sambandhaḥ / kāryaṃ bhavediti cābhyupagamyoktam / vastutastu tatpakṣe kadāpi dvayaṇukādyutpattirna sambhavati / vināśakāraṇasyeśvarecchādeḥ sadātanatvena satpratipakṣatvāt / kāryotpattisahakṛtameveśvarecchādikaṃ vināśakāraṇamityaṅgīkāre 'pyutpattyanantarameva vināśaḥ prasajyeteti / ata eva sṛṣṭayādīti vakṣyati / *8,147* syādevaṃ yadi kālamātraṃ sṛṣṭervā saṃhārasya vā kāraṇaṃ syāt / nacaivam / kintu kālaviśeṣa evātastadbhāvābhāvābhyāṃ sṛṣṭisaṃhāraniyamo ghaṭate / tathā neśvarecchāmātraṃ sṛṣṭayādihetuḥ kintu tadviśeṣa eva tatastadbhāvābhāvaprayuktā sṛṣṭayādivyavasthā syāditi cenna / kiṃ kāladeśāderaupādhiko bhedaḥ, kiṃvā svābhāvikaḥ / nādyaḥ / nirastatvāt / dvitīye tvapasiddhānta ityāha nahīti // na hi kālavibhedo 'sti tatpakṣe ...

Sanskrit only: no published translation is held for this verse.

यद्यप्यस्मन्मते हरेरिच्छा सदातना । प्रकृत्याद्युपलक्षणमेतत् । तथापि विशेषकाल एवैतस्य महदादेः सृष्टयादि भवतीति योजना । अस्माभिः काले स्वभावत एव भेदो ऽभ्युपगम्यते । तथा च कालविशेषस्यैव सृष्टिं संहारं च कारणत्वात्तद्भावाभावाभ्यां सत्स्वपीतरकारणेषु सृष्टयादिसमयनियमो युज्यत इति भावः । ननु कालविशेष इति वाच्यम् । मैवम् । विशिष्टत इति विशेषः, स चासौ कालश्चेति विग्रहग्रहणात् । ननु सदातनीति भवितव्यम् । मैवम् । नायं ट्युट्युलोरन्यरतः प्रत्ययः । किन्तु भ(भा)वार्थे तनप्रत्ययो ऽयम् । अथवा तनेति तनोते रूपमेतत् । *८,१४९* ननु ते कालभेदा यदि नित्यास्तदा स प्रसङ्गस्तदवस्थः । व्यर्थश्च कालभेदाभ्युपगमः । अनित्यत्वे तत्कारणं वाच्यमिति चेत् । सत्यम् । उपादानं तु प्रकृतिरेव । निमित्तमाह विशेषाश्चेति ॥ *८,१५०* विशेषाश्चैव कालस्य हरेरिच्छावशाः सदा न केवलं महदादि किन्तु कालस्य विशेषाश्च क्षणलवादयः । एवशब्दस्य हरेरेवेति सम्बन्धः । सदेत्यनेन न युगपत्सर्वक्षणसृष्टिर्येन तेषामपि क्षणिकत्वं स्यात् । किन्तु निरन्तरप्रवाहतयेत्युक्तं भवति । *८,१५२* ननु कालविशेषाणां परमेश्वराज्जन्म कुतः प्रमाणात्सिद्धमित्यत आह सर्व इति ॥ सर्वे निमेषा इति हि श्रुतिरेवाह सादरम्

yadyapyasmanmate harericchā sadātanā / prakṛtyādyupalakṣaṇametat / tathāpi viśeṣakāla evaitasya mahadādeḥ sṛṣṭayādi bhavatīti yojanā / asmābhiḥ kāle svabhāvata eva bhedo 'bhyupagamyate / tathā ca kālaviśeṣasyaiva sṛṣṭiṃ saṃhāraṃ ca kāraṇatvāttadbhāvābhāvābhyāṃ satsvapītarakāraṇeṣu sṛṣṭayādisamayaniyamo yujyata iti bhāvaḥ / nanu kālaviśeṣa iti vācyam / maivam / viśiṣṭata iti viśeṣaḥ, sa cāsau kālaśceti vigrahagrahaṇāt / nanu sadātanīti bhavitavyam / maivam / nāyaṃ ṭyuṭyuloranyarataḥ pratyayaḥ / kintu bha(bhā)vārthe tanapratyayo 'yam / athavā taneti tanote rūpametat / *8,149* nanu te kālabhedā yadi nityāstadā sa prasaṅgastadavasthaḥ / vyarthaśca kālabhedābhyupagamaḥ / anityatve tatkāraṇaṃ vācyamiti cet / satyam / upādānaṃ tu prakṛtireva / nimittamāha viśeṣāśceti // *8,150* viśeṣāścaiva kālasya harericchāvaśāḥ sadā na kevalaṃ mahadādi kintu kālasya viśeṣāśca kṣaṇalavādayaḥ / evaśabdasya harereveti sambandhaḥ / sadetyanena na yugapatsarvakṣaṇasṛṣṭiryena teṣāmapi kṣaṇikatvaṃ syāt / kintu nirantarapravāhatayetyuktaṃ bhavati / *8,152* nanu kālaviśeṣāṇāṃ parameśvarājjanma kutaḥ pramāṇātsiddhamityata āha sarva iti // sarve nimeṣā iti hi śrutirevāha sādaram

Sanskrit only: no published translation is held for this verse.

"सर्वे निमेषा जज्ञिरे विद्युतः पुरुषादधिऽ; इति श्रुतिरेव कालविशेषाणामीश्वराज्जनिमाह हि इत्यर्थः । विशेषणद्योतत इति विद्युत्तस्मात्परमपुरुषात्सर्वे निमेषाः कालभेदा अधिजज्ञिरे यतास्वं जायन्त इति । नन्वेषा श्रुतिः कालोपाधीनामीश्वराज्जननमाह, नतु कालस्य । तथा सति काष्ठाकलामुहर्ताश्चेत्युत्तरवाक्यस्य पौनरुक्त्यप्रसङ्गात् । नहि सर्वनिमेषातिरिक्तं काष्ठाकलादिकमस्ति । उपाधयस्तु निमेषादिरूपाः पृथगेवेति न तत्र पुनरुक्तिदोष इत्यत उक्तम् सादरमिति ॥ यत्सर्वनिमेषजन्माभिधाय पुनः काष्ठादिजन्माभिधत्ते तदादरार्थमित्यतो न पुनरुक्तिदोषः । उपाधिभेदस्तु नोपपद्यत इत्युक्तमेवेति । *८,१५५* ननु निमेषादिशब्दा अक्षिपक्ष्मसंयोगादिवाचिनो न साक्षात्कालाभिधायिनः । अतो नेयं श्रुतिर्व्यक्तं कालस्यैवेश्वराज्जन्म प्रतिपादयितुमलमित्यतो ऽत्र स्पष्टां श्रुतिं चाह उदीरयतीति ॥ उदीरयति कालाख्यशक्तिमित्यस्य वागपि "सो ऽन्तःशरीरे ऽर्पितभूतसूक्ष्मः कालात्मिकां शक्तिमुदीरयाणःऽ; इति अस्य ईश्वरस्य वागपि कालस्येश्वरादुत्पत्तिमाहेत्यर्थः । कालात्मिकां कालाख्यां सहकारिशक्तिमुदीरयाणो जनयन्नित्यर्थः । अत्र कालशब्दादीश्वरस्य जगत्सृष्टौ शक्तित्वाभिधानाच्च नार्थान्तरकल्पनावकाशः । *८,१५६* स्यादेतत् । कालस्तावत्सर्वोत्पत्तिमतां निमित्तम् । नच कालस्योत्पत्तौ कालान्तरमस्ति । तत्कथं तस्योपपत्तिः । पूर्वकालः परकालस्य निमित्तमिति चेन्न । इदानीं जातस्तदानीं जात इत्यधिकरणतया कालस्य कारणतावधारणात् । अधिकरणस्य कार्योत्पत्तिसमानकालीनताया गेहे जातो गोष्ठे जात इत्यादौ निश्चितत्वादित्यत आह कालस्येति ॥ कालस्य कालगत्वेन न विरोधो ऽपि कश्चन

"sarve nimeṣā jajñire vidyutaḥ puruṣādadhi'; iti śrutireva kālaviśeṣāṇāmīśvarājjanimāha hi ityarthaḥ / viśeṣaṇadyotata iti vidyuttasmātparamapuruṣātsarve nimeṣāḥ kālabhedā adhijajñire yatāsvaṃ jāyanta iti / nanveṣā śrutiḥ kālopādhīnāmīśvarājjananamāha, natu kālasya / tathā sati kāṣṭhākalāmuhartāścetyuttaravākyasya paunaruktyaprasaṅgāt / nahi sarvanimeṣātiriktaṃ kāṣṭhākalādikamasti / upādhayastu nimeṣādirūpāḥ pṛthageveti na tatra punaruktidoṣa ityata uktam sādaramiti // yatsarvanimeṣajanmābhidhāya punaḥ kāṣṭhādijanmābhidhatte tadādarārthamityato na punaruktidoṣaḥ / upādhibhedastu nopapadyata ityuktameveti / *8,155* nanu nimeṣādiśabdā akṣipakṣmasaṃyogādivācino na sākṣātkālābhidhāyinaḥ / ato neyaṃ śrutirvyaktaṃ kālasyaiveśvarājjanma pratipādayitumalamityato 'tra spaṣṭāṃ śrutiṃ cāha udīrayatīti // udīrayati kālākhyaśaktimityasya vāgapi "so 'ntaḥśarīre 'rpitabhūtasūkṣmaḥ kālātmikāṃ śaktimudīrayāṇaḥ'; iti asya īśvarasya vāgapi kālasyeśvarādutpattimāhetyarthaḥ / kālātmikāṃ kālākhyāṃ sahakāriśaktimudīrayāṇo janayannityarthaḥ / atra kālaśabdādīśvarasya jagatsṛṣṭau śaktitvābhidhānācca nārthāntarakalpanāvakāśaḥ / *8,156* syādetat / kālastāvatsarvotpattimatāṃ nimittam / naca kālasyotpattau kālāntaramasti / tatkathaṃ tasyopapattiḥ / pūrvakālaḥ parakālasya nimittamiti cenna / idānīṃ jātastadānīṃ jāta ityadhikaraṇatayā kālasya kāraṇatāvadhāraṇāt / adhikaraṇasya kāryotpattisamānakālīnatāyā gehe jāto goṣṭhe jāta ityādau niścitatvādityata āha kālasyeti // kālasya kālagatvena na virodho 'pi kaścana

Sanskrit only: no published translation is held for this verse.

कालस्योत्पत्त्यङ्गीकारे न केवलं साधकसद्भावः । किन्तु कश्चन विरोधो ऽपि नास्तीति योजना । एतच्च प्रपञ्चयिष्यते । एवं स्वमते कालविशेषभावाभावप्रयुक्तः सृष्टयादेः समयनियम इति समर्थितम् । प्रकारान्तरेण तं समर्थयते असङ्खयातेति ॥ असङ्खयातविशेषत्वादिच्छाया अपि सर्वदा सर्वदा विद्यमानाया इति शेषः । सर्वदा विद्यमानाया अपीश्वरेच्छयाः शक्तिव्यक्तिरूपावस्थितसिसृक्षात्वाद्यसङ्खयातविशेष(वत्त्वा)त्वात् तद्वयक्त्यव्यक्तिप्रयुक्तः सृष्टयादेः समनियमो युज्यत इत्यर्थः । यद्यपि कालभेदमात्रेण कृतसमाधानमेतत् । कालविशेषे स्रक्ष्यामीत्येवंरूपत्वाद्भगवदिच्छाया न मोघत्वमापद्यते । तथापि वस्तुस्थितिरियं दर्शिता वेदितव्या । *८,१५७* कालस्य कालगत्वेनेत्युक्तं, तत्र किं कालः स्वगतः किं वा कालान्तरगतः । नाद्यः । स्वस्कन्धारोहणवद्विरुद्धत्वात् । न द्वितीयः । तदभावात् । भावे वा कालान्तरसृष्टिवैयर्थ्यात् । तस्याप्युत्पत्तौ कालान्तराङ्गीकारप्रसङ्गादित्यतः सप्रमाणकमुक्तं विवृणोति ईश इति ॥ ईशो देशश् च कालश् च स्वगता एव सर्वदा

kālasyotpattyaṅgīkāre na kevalaṃ sādhakasadbhāvaḥ / kintu kaścana virodho 'pi nāstīti yojanā / etacca prapañcayiṣyate / evaṃ svamate kālaviśeṣabhāvābhāvaprayuktaḥ sṛṣṭayādeḥ samayaniyama iti samarthitam / prakārāntareṇa taṃ samarthayate asaṅkhayāteti // asaṅkhayātaviśeṣatvādicchāyā api sarvadā sarvadā vidyamānāyā iti śeṣaḥ / sarvadā vidyamānāyā apīśvarecchayāḥ śaktivyaktirūpāvasthitasisṛkṣātvādyasaṅkhayātaviśeṣa(vattvā)tvāt tadvayaktyavyaktiprayuktaḥ sṛṣṭayādeḥ samaniyamo yujyata ityarthaḥ / yadyapi kālabhedamātreṇa kṛtasamādhānametat / kālaviśeṣe srakṣyāmītyevaṃrūpatvādbhagavadicchāyā na moghatvamāpadyate / tathāpi vastusthitiriyaṃ darśitā veditavyā / *8,157* kālasya kālagatvenetyuktaṃ, tatra kiṃ kālaḥ svagataḥ kiṃ vā kālāntaragataḥ / nādyaḥ / svaskandhārohaṇavadviruddhatvāt / na dvitīyaḥ / tadabhāvāt / bhāve vā kālāntarasṛṣṭivaiyarthyāt / tasyāpyutpattau kālāntarāṅgīkāraprasaṅgādityataḥ sapramāṇakamuktaṃ vivṛṇoti īśa iti // īśo deśaś ca kālaś ca svagatā eva sarvadā

Sanskrit only: no published translation is held for this verse.

देश इत्यव्याकृताकाशाभिधानम् । स्वगता इत्युक्त्या प्राप्तां देशकालयोः स्वातन्त्र्यशङ्कां वारयति ईशाधीनाविति ॥ *८,१५८* ईशाधीनौ च तौ नित्यं तदाधारौ च तद्गतौ । इति श्रुतिरपि प्राह काले स्वोद्दिष्ट एव तु

deśa ityavyākṛtākāśābhidhānam / svagatā ityuktyā prāptāṃ deśakālayoḥ svātantryaśaṅkāṃ vārayati īśādhīnāviti // *8,158* īśādhīnau ca tau nityaṃ tadādhārau ca tadgatau / iti śrutirapi prāha kāle svoddiṣṭa eva tu

Sanskrit only: no published translation is held for this verse.

तत्कालसृष्टिमेवातो वाञ्छतीशः सदैव हि । स्यात् कालः स तदैवेति कालस्य स्वगतत्वतः

tatkālasṛṣṭimevāto vāñchatīśaḥ sadaiva hi / syāt kālaḥ sa tadaiveti kālasya svagatatvataḥ

Sanskrit only: no published translation is held for this verse.

विशेषणमात्रेण सत्ताप्रतीतिप्रवृत्तीनां परमेश्वरायत्तत्वमुच्यते । श्रुतिरपीति साक्षिणं समुच्चिनोति । यतः कालस्य स्वगतत्वं श्रुतिः प्राह साक्षिणा च सिद्धम् । अतः कालस्य स्वगतत्वतः । स कालस्तदैव स्यादितीशः सदैव स्वोद्दिष्य एव काले । तत्तत्कालसृष्टिमेव वाञ्छतीत्यन्वयः । *८,१५८फ़्।* एतदुक्तं भवति । कालातिरिक्तकार्याणामेव कालो ऽधिकरणतया कारणं न कालस्य । केवलं श्वो घटं स्रष्टास्मीतिवत्कालसृष्टिं वाञ्छतः परमेश्वरस्याधिकरणतयोद्देश्यः कालः क इति प्रश्नो ऽवशिष्यते । तत्र यः सृज्यः स एवेत्युत्तरम् । नहि सृज्यस्य प्राक् सत्त्वमस्ति । येनोद्देश्यत्वं सत्त्वमपेक्षेत । अधिकरणाधिकर्तव्यता चैकस्यैव श्रुत्यादिसिद्धा विशेषबलाच्चोपपद्यते । अतो न कालस्योत्पत्तौ काचिदनुपपत्तिरिति । *८,१६०* यदुक्तं यदेश्वरेच्छा सिसृक्षाकारा व्यज्यते तदा महदादिसृष्टिभर्वति । यदा तु सञ्जिहीर्षारूपा सम्पद्यते तदा संहारो भवतीति । तत्रेदं वैचित्र्यं किन्निमित्तमिति वाच्यम् । नच कालविशेषो निमित्तमिति युक्तम् । तस्येश्वरेच्छायत्तत्वात् । नापि पुरुषार्थायत्तम् । पारतन्त्र्यापत्तेरित्यत आह स्वभावादेवेति ॥ स्वभावादेव हीच्छैषा ॥। एषा विचित्रा । तस्मात्कालविशेषाणामीश्वराधीनत्वे नेतरेतराश्रयदोषापत्तिरिति हिशब्दार्थः । कुत एतदित्यत आह देवस्येति ॥ ॥। देवस्यैव इति श्रुतेः एतदवगम्यत इति शेषः । *८,१६१* अपर आह । किमनया कालादिवैचित्र्यकल्पनया । यावता कारणानां कार्याणां च स्वभावादेव समयनियमोपपत्तेः । अन्ततो ऽपि हि स्वभाववादो ऽभ्युपगन्तव्यः । ततो वरमादावेव स्वभाववादाभ्युपगम इति । अत आह स्वभावो ऽपीति ॥ स्वभावो ऽपि परेशेच्छावश इत्युदितः पुरा

viśeṣaṇamātreṇa sattāpratītipravṛttīnāṃ parameśvarāyattatvamucyate / śrutirapīti sākṣiṇaṃ samuccinoti / yataḥ kālasya svagatatvaṃ śrutiḥ prāha sākṣiṇā ca siddham / ataḥ kālasya svagatatvataḥ / sa kālastadaiva syāditīśaḥ sadaiva svoddiṣya eva kāle / tattatkālasṛṣṭimeva vāñchatītyanvayaḥ / *8,158f.* etaduktaṃ bhavati / kālātiriktakāryāṇāmeva kālo 'dhikaraṇatayā kāraṇaṃ na kālasya / kevalaṃ śvo ghaṭaṃ sraṣṭāsmītivatkālasṛṣṭiṃ vāñchataḥ parameśvarasyādhikaraṇatayoddeśyaḥ kālaḥ ka iti praśno 'vaśiṣyate / tatra yaḥ sṛjyaḥ sa evetyuttaram / nahi sṛjyasya prāk sattvamasti / yenoddeśyatvaṃ sattvamapekṣeta / adhikaraṇādhikartavyatā caikasyaiva śrutyādisiddhā viśeṣabalāccopapadyate / ato na kālasyotpattau kācidanupapattiriti / *8,160* yaduktaṃ yadeśvarecchā sisṛkṣākārā vyajyate tadā mahadādisṛṣṭibharvati / yadā tu sañjihīrṣārūpā sampadyate tadā saṃhāro bhavatīti / tatredaṃ vaicitryaṃ kinnimittamiti vācyam / naca kālaviśeṣo nimittamiti yuktam / tasyeśvarecchāyattatvāt / nāpi puruṣārthāyattam / pāratantryāpatterityata āha svabhāvādeveti // svabhāvādeva hīcchaiṣā ... eṣā vicitrā / tasmātkālaviśeṣāṇāmīśvarādhīnatve netaretarāśrayadoṣāpattiriti hiśabdārthaḥ / kuta etadityata āha devasyeti // ... devasyaiva iti śruteḥ etadavagamyata iti śeṣaḥ / *8,161* apara āha / kimanayā kālādivaicitryakalpanayā / yāvatā kāraṇānāṃ kāryāṇāṃ ca svabhāvādeva samayaniyamopapatteḥ / antato 'pi hi svabhāvavādo 'bhyupagantavyaḥ / tato varamādāveva svabhāvavādābhyupagama iti / ata āha svabhāvo 'pīti // svabhāvo 'pi pareśecchāvaśa ityuditaḥ purā

Sanskrit only: no published translation is held for this verse.

पुरा"चेतनानां विशेषो यःऽ; इत्यादौ । स्वभाववादमभ्युपगच्छतापि तन्नियामकतयेश्वरो अङ्गीकार्यः । ततस्तत्रैकत्रैव स्वभावानुसरणे प्रमाणायत्ते ऽङ्गीकार्ये किमनेकत्र तदभ्युपगमेनेति भावः । न केवलं पूर्वोक्तमेव प्रमाणं स्मर्तव्यम् । किन्तु प्रमाणान्तरमप्यस्तीत्याह नित्या इति ॥ नित्या अनित्याश्च ततस्तदधीना इति श्रुतिः

purā"cetanānāṃ viśeṣo yaḥ'; ityādau / svabhāvavādamabhyupagacchatāpi tanniyāmakatayeśvaro aṅgīkāryaḥ / tatastatraikatraiva svabhāvānusaraṇe pramāṇāyatte 'ṅgīkārye kimanekatra tadabhyupagameneti bhāvaḥ / na kevalaṃ pūrvoktameva pramāṇaṃ smartavyam / kintu pramāṇāntaramapyastītyāha nityā iti // nityā anityāśca tatastadadhīnā iti śrutiḥ

Sanskrit only: no published translation is held for this verse.

अनुमेया ॥।

anumeyā ...

Sanskrit only: no published translation is held for this verse.

॥ ॐ समुदाय उभयहेतुके ऽपि तदप्राप्तिः ॐ ॥ अथेदानीं सौगतमतमपाक्रियते । ते च चतुर्विधाः । वैभाषिकाः सौत्रान्तिका माध्यमिका योगाचाराश्चेति । तत्र जगत्सत्यमेव परमाणुमयमाचक्षाणानां वैशेषिकादीनां निरसनप्रसङ्गादनतिभेदं वैभाषिकसौत्रान्तिकमतमादौ तावन्निराक्रियते । विप्रतिपत्तिं दर्शयंस्तन्मतमुपन्यस्यति वैभाषिकाश्चेति ॥ वैभाषिकाश्च सौत्रान्ताः स्वरसक्षणिकं जगत् आहुरिति वक्ष्यमाणेन सम्बन्धः । क्षणिकं क्षणमात्रावस्थायि । मुद्गराभिघातादीनां विनाशहेतूनां प्रतिक्षणमनुपलम्भात्कथं क्षणभङ्गित्वमित्यत उक्तम् स्वरसेति ॥ स्वभावेनैव क्षणिकं स्वभाव एवायं वस्तुनो यद्विनाशित्वम् । तत्र का कारणापेक्षा । मुद्गरादयो ऽपि न वस्तुविनाशहेतवः । किन्नाम घटादितः कपालादेर्विसदृशकार्यस्योत्पत्तौ निमित्तभूता एवेति । *८,१६९* ननु च कारणानां क्रियया संयोगे सति तत्समवेततया तत्परिणामतया वा कार्येणोत्पत्तव्यम् । तत्कार्येणाप्येवमिति कथं क्षणिकत्वं जगत इत्यत आह अणूनामिति ॥ अणूनां समुदायं च ॥। जगदाहुः । अणुसमुदाया एव गोघटादिबोधबोध्याः । नतु तदतिरिक्तो ऽवयवी नामास्ति । येन क्षणिकता विरुध्येत । अणुमात्रमिति वक्तव्ये समुदायग्रहणमेको महानिति प्रत्यक्षप्रत्ययविरोधपरिहारार्थम् । प्रत्येकमणूनामप्रत्यक्षत्वे ऽनेकत्वे ऽमहत्त्वे ऽपि तत्समुदायस्य प्रत्यक्षत्वादि युज्यत इति भावः । समुदायो हि मेलकेन (केनचित्) पुंसा भवति । नचास्मदादिस्तथेतीश्वरो ऽभ्युपगन्तव्यः स्यात् । तथावयव्यनभ्युपगमे गोघटादिविलक्षणाकारता न स्यादित्यत आह कालेति ॥ ॥। च कालकर्मनिमित्ततः

// oṃ samudāya ubhayahetuke 'pi tadaprāptiḥ oṃ // athedānīṃ saugatamatamapākriyate / te ca caturvidhāḥ / vaibhāṣikāḥ sautrāntikā mādhyamikā yogācārāśceti / tatra jagatsatyameva paramāṇumayamācakṣāṇānāṃ vaiśeṣikādīnāṃ nirasanaprasaṅgādanatibhedaṃ vaibhāṣikasautrāntikamatamādau tāvannirākriyate / vipratipattiṃ darśayaṃstanmatamupanyasyati vaibhāṣikāśceti // vaibhāṣikāśca sautrāntāḥ svarasakṣaṇikaṃ jagat āhuriti vakṣyamāṇena sambandhaḥ / kṣaṇikaṃ kṣaṇamātrāvasthāyi / mudgarābhighātādīnāṃ vināśahetūnāṃ pratikṣaṇamanupalambhātkathaṃ kṣaṇabhaṅgitvamityata uktam svaraseti // svabhāvenaiva kṣaṇikaṃ svabhāva evāyaṃ vastuno yadvināśitvam / tatra kā kāraṇāpekṣā / mudgarādayo 'pi na vastuvināśahetavaḥ / kinnāma ghaṭāditaḥ kapālādervisadṛśakāryasyotpattau nimittabhūtā eveti / *8,169* nanu ca kāraṇānāṃ kriyayā saṃyoge sati tatsamavetatayā tatpariṇāmatayā vā kāryeṇotpattavyam / tatkāryeṇāpyevamiti kathaṃ kṣaṇikatvaṃ jagata ityata āha aṇūnāmiti // aṇūnāṃ samudāyaṃ ca ... jagadāhuḥ / aṇusamudāyā eva goghaṭādibodhabodhyāḥ / natu tadatirikto 'vayavī nāmāsti / yena kṣaṇikatā virudhyeta / aṇumātramiti vaktavye samudāyagrahaṇameko mahāniti pratyakṣapratyayavirodhaparihārārtham / pratyekamaṇūnāmapratyakṣatve 'nekatve 'mahattve 'pi tatsamudāyasya pratyakṣatvādi yujyata iti bhāvaḥ / samudāyo hi melakena (kenacit) puṃsā bhavati / nacāsmadādistathetīśvaro 'bhyupagantavyaḥ syāt / tathāvayavyanabhyupagame goghaṭādivilakṣaṇākāratā na syādityata āha kāleti // ... ca kālakarmanimittataḥ

Sanskrit only: no published translation is held for this verse.

उत्पत्तिकाले युक्तानाम् ॥। कालकर्मणी च ते निमित्ते च ततः । उत्पत्तिकाले आदिसृष्टौ । अन्यदा तु निमित्तान्तरमस्तीति भावः । युक्तानां सन्निकृष्टतयोत्पन्नानामणूनां समुदायमिति सम्बन्धः । कर्मादिवशादेव तथा तथा सन्निकृष्टाः परमाणवो जायन्ते । यता यथा गोघटादिविचित्राकारावभासः स्यात् । तत्र किमीश्वरेण । किं वावयविना । सिद्धान्तिनापि हि कर्मादिकं निमित्तमङ्गीकर्तव्यम् । संयोगश्चावयव्युत्पादानुगुणः । तावतैव सर्वमुपपद्यत इत्रत । *८,१७१* किमनात्मप्रपञ्च एव क्षणिको नेत्याह आत्मानमिति ॥ ॥। आत्मानं च क्षणस्थितिम् क्षणिकत्वहेतोः सत्त्वस्य सर्वत्र साम्यादिति भावः । क्षणिकत्वे प्रत्यभिज्ञाविरोध इत्यत आह नित्यमिति ॥ नित्यं सन्तानमेतेषां ॥। एतेषां अणूनाम् । सन्ताविषया प्रत्यभिज्ञेति भावः । नचैवं सत्त्वस्यानैकान्त्यात् । सन्तानस्य सत्त्वाभावात् । *८,१७२* एवं सामान्यतो निरूप्य विभागमाह पञ्चेति ॥ ॥॥ पञ्चस्कन्धात्मना स्थितम्

utpattikāle yuktānām ... kālakarmaṇī ca te nimitte ca tataḥ / utpattikāle ādisṛṣṭau / anyadā tu nimittāntaramastīti bhāvaḥ / yuktānāṃ sannikṛṣṭatayotpannānāmaṇūnāṃ samudāyamiti sambandhaḥ / karmādivaśādeva tathā tathā sannikṛṣṭāḥ paramāṇavo jāyante / yatā yathā goghaṭādivicitrākārāvabhāsaḥ syāt / tatra kimīśvareṇa / kiṃ vāvayavinā / siddhāntināpi hi karmādikaṃ nimittamaṅgīkartavyam / saṃyogaścāvayavyutpādānuguṇaḥ / tāvataiva sarvamupapadyata itrata / *8,171* kimanātmaprapañca eva kṣaṇiko netyāha ātmānamiti // ... ātmānaṃ ca kṣaṇasthitim kṣaṇikatvahetoḥ sattvasya sarvatra sāmyāditi bhāvaḥ / kṣaṇikatve pratyabhijñāvirodha ityata āha nityamiti // nityaṃ santānameteṣāṃ ... eteṣāṃ aṇūnām / santāviṣayā pratyabhijñeti bhāvaḥ / nacaivaṃ sattvasyānaikāntyāt / santānasya sattvābhāvāt / *8,172* evaṃ sāmānyato nirūpya vibhāgamāha pañceti // .... pañcaskandhātmanā sthitam

Sanskrit only: no published translation is held for this verse.

जगद्वृक्षं पञ्चस्कन्धात्मना स्थितमाहुः । पञ्चस्कन्धानाह संस्कारेति ॥ संस्काररूपविज्ञानसञ्ज्ञादुःखात्मना स्थितिः स्थितिः स्कन्धानामिति शेषः । समनन्तरप्रत्ययः संस्कारस्कन्धः । रूपरसगन्धस्पर्शशब्दात्मकाः परमाणवो रूपस्कन्धः । निर्विकल्पकं ज्ञानं विज्ञानस्कन्धः । सविकल्पकं ज्ञानं संज्ञास्कन्धः । वेदनापरपर्यायं दुःखं चैकस्कन्धः । अत्र रूपस्कन्धो बाह्यः । अन्ये चत्वार आभ्यन्तरा इत्याहुरिति सम्बन्धः । *८,१७३* सुखादीनां पदार्थान्तरेण विद्यमानत्वात्कथं पञ्चैव स्कन्धा इत्यत आह दुःखाभावादिति ॥ दुःखाभावं सुखं चाहुर् ॥। चशब्देन केचित्सुखं वेदनास्कन्धे ऽन्तर्भावयन्तीति सूचितं भवति । यद्वानुक्तसमुच्चयार्थश्चशब्दः । यथा मूर्ताभाव एवाकाशं, रूपादय एव पृथिव्याद्याः, सङ्खयादयस्तु गुणाः पृथगनुपलम्भान्न सन्त्येव । देशान्तरोत्पाद एव कर्मप्रत्ययालम्बनम् । क्षणिकस्य वास्तवकर्मायोगात् । सन्निकृष्टविप्रकृष्टतयोत्पाद एव संयोगादिव्यवहारगोचरः । अतद्वयावृत्तिरेव गोत्वादिसामान्यबुद्धिबोध्येत्यादि । ॥। अरूपज्ञानसन्ततिम्

jagadvṛkṣaṃ pañcaskandhātmanā sthitamāhuḥ / pañcaskandhānāha saṃskāreti // saṃskārarūpavijñānasañjñāduḥkhātmanā sthitiḥ sthitiḥ skandhānāmiti śeṣaḥ / samanantarapratyayaḥ saṃskāraskandhaḥ / rūparasagandhasparśaśabdātmakāḥ paramāṇavo rūpaskandhaḥ / nirvikalpakaṃ jñānaṃ vijñānaskandhaḥ / savikalpakaṃ jñānaṃ saṃjñāskandhaḥ / vedanāparaparyāyaṃ duḥkhaṃ caikaskandhaḥ / atra rūpaskandho bāhyaḥ / anye catvāra ābhyantarā ityāhuriti sambandhaḥ / *8,173* sukhādīnāṃ padārthāntareṇa vidyamānatvātkathaṃ pañcaiva skandhā ityata āha duḥkhābhāvāditi // duḥkhābhāvaṃ sukhaṃ cāhur ... caśabdena kecitsukhaṃ vedanāskandhe 'ntarbhāvayantīti sūcitaṃ bhavati / yadvānuktasamuccayārthaścaśabdaḥ / yathā mūrtābhāva evākāśaṃ, rūpādaya eva pṛthivyādyāḥ, saṅkhayādayastu guṇāḥ pṛthaganupalambhānna santyeva / deśāntarotpāda eva karmapratyayālambanam / kṣaṇikasya vāstavakarmāyogāt / sannikṛṣṭaviprakṛṣṭatayotpāda eva saṃyogādivyavahāragocaraḥ / atadvayāvṛttireva gotvādisāmānyabuddhibodhyetyādi / ... arūpajñānasantatim

Sanskrit only: no published translation is held for this verse.

मोक्षं ॥। अरूपेति । सन्तन्यमानं ज्ञानमेवात्मा तस्य विषयोपप्लवः संसारः । अरूपा निर्विषया या ज्ञानसन्ततिस्तामेवे मोक्षमाहुर्नान्यमित्यतो न पञ्चस्कन्धप्रक्रियाभङ्ग इति । *८,१७५* एवं वैभाषिकसौत्रान्तिकयोः साधारणं मतमुपन्यस्यावान्तरभेदं तु निराकरणप्रस्ताव एव विवक्षुर्यत्तावदुक्तं परमाणुसमुदाय एव गोघटादिप्रपञ्चो न त्ववयवी कश्चिदस्तीति तन्निराकर्तुं समुदाय उभयहेतुके ऽपि तदप्राप्तिरिति सूत्रं व्याचष्टे स इति ॥ ॥। स समुदायो हि नैकस्मादेव युज्यते यो ऽयं गोघटादिबुद्धिविषयत्वेनाभ्युपगतः समुदायः स किमेकपरमाणुहेतुकः, किंवा अनेकपरमाणुहेतुकः । नाद्यः । एकस्मात्परमाणोः समुदायोत्पादानुपपत्तेः । न ह्येकैकस्मिंस्तरौ तरुसमुदायबुद्धिः कस्यापि विद्यते । समुदायकल्पनं वानर्थकमापद्येत । महत्त्वैन्द्रियकत्वयोरसमर्थितत्वात् । अनेन अपिशब्दलब्धो ऽर्थो दर्शितः । द्वितीयं निराकरोति नेति ॥ नोभयोश्चो ॥। उभयग्रहणमनेकमात्रोपलक्षणम् । सकाशादिति शेषः । चशब्देन समुदायो युज्यत इत्यनुकृष्टते । कुतो न युज्यत इति चेत् । अनेकहेतुकत्वे ऽपि किमसमुदितानेकहेतुको ऽथ समुदितानेकहेतुक इति वक्तव्यम् । आद्ये सर्वत्र(त्रापि)गोघटादिबुद्धिप्रसक्तिः । असमुदितपरमाणूनां सर्वत्र भावात् । समुदायस्य च तन्मात्रहेतुकत्वात् । समुदायाङ्गीकारवैयथ्यर्प्रसङ्गश्च । द्वितीयानुपपत्तौ हेतुमाह उभयत्वमिति ॥ ॥। श्चोभयत्वं यत् समुदायव्यपेक्षया

mokṣaṃ ... arūpeti / santanyamānaṃ jñānamevātmā tasya viṣayopaplavaḥ saṃsāraḥ / arūpā nirviṣayā yā jñānasantatistāmeve mokṣamāhurnānyamityato na pañcaskandhaprakriyābhaṅga iti / *8,175* evaṃ vaibhāṣikasautrāntikayoḥ sādhāraṇaṃ matamupanyasyāvāntarabhedaṃ tu nirākaraṇaprastāva eva vivakṣuryattāvaduktaṃ paramāṇusamudāya eva goghaṭādiprapañco na tvavayavī kaścidastīti tannirākartuṃ samudāya ubhayahetuke 'pi tadaprāptiriti sūtraṃ vyācaṣṭe sa iti // ... sa samudāyo hi naikasmādeva yujyate yo 'yaṃ goghaṭādibuddhiviṣayatvenābhyupagataḥ samudāyaḥ sa kimekaparamāṇuhetukaḥ, kiṃvā anekaparamāṇuhetukaḥ / nādyaḥ / ekasmātparamāṇoḥ samudāyotpādānupapatteḥ / na hyekaikasmiṃstarau tarusamudāyabuddhiḥ kasyāpi vidyate / samudāyakalpanaṃ vānarthakamāpadyeta / mahattvaindriyakatvayorasamarthitatvāt / anena apiśabdalabdho 'rtho darśitaḥ / dvitīyaṃ nirākaroti neti // nobhayośco ... ubhayagrahaṇamanekamātropalakṣaṇam / sakāśāditi śeṣaḥ / caśabdena samudāyo yujyata ityanukṛṣṭate / kuto na yujyata iti cet / anekahetukatve 'pi kimasamuditānekahetuko 'tha samuditānekahetuka iti vaktavyam / ādye sarvatra(trāpi)goghaṭādibuddhiprasaktiḥ / asamuditaparamāṇūnāṃ sarvatra bhāvāt / samudāyasya ca tanmātrahetukatvāt / samudāyāṅgīkāravaiyathyarprasaṅgaśca / dvitīyānupapattau hetumāha ubhayatvamiti // ... ścobhayatvaṃ yat samudāyavyapekṣayā

Sanskrit only: no published translation is held for this verse.

यद्यस्मादुभयत्वं समुदितानेकत्वं समुदायसापेक्षम् । जाते हि समुदाये ऽनेकेषां समुदितत्वं (सं)भवति । तस्मान्नेति सम्बन्धः । *८,१७७* समुदितानेकत्वस्य समुदायसापेक्षत्वे ऽपि कुतस्ततः समुदायोत्पादो न युज्यत इत्याशङ्कां परिहरत्सूत्रार्थमुपसंहरति अत इति ॥ अतो ऽन्योन्याश्रयत्वेन समुदायो न युज्यते

yadyasmādubhayatvaṃ samuditānekatvaṃ samudāyasāpekṣam / jāte hi samudāye 'nekeṣāṃ samuditatvaṃ (saṃ)bhavati / tasmānneti sambandhaḥ / *8,177* samuditānekatvasya samudāyasāpekṣatve 'pi kutastataḥ samudāyotpādo na yujyata ityāśaṅkāṃ pariharatsūtrārthamupasaṃharati ata iti // ato 'nyonyāśrayatvena samudāyo na yujyate

Sanskrit only: no published translation is held for this verse.

यतस्तस्य समुदायस्य सदातनत्वे ऽपि पुंसः समुदायत्ववेदनं स्यात् । कदाचिदिति शेषः । ततस्तदपेक्षया सृष्टयादिव्वयस्थोपपद्यत इति भावः । समुदायस्य सदातनत्वे तद्वेदनमपि कुतः कादाचित्कमित्यत उक्तम् तच्चेति ॥ तत्समुदायत्ववेदनं परमाणुसामीप्यहेतुकम् । नच सामीप्यं सदास्तीति वेदनस्य कादाचित्कत्वमिति । समुदायत्ववेदनस्य सामीप्यहेतुकता कुत इत्यत (उक्तं) आह अन्योन्येति ॥ अन्योन्यपरमाणुज्ञानापेक्षया हि तद्भवति । नचान्योन्यज्ञानं सामीप्येन विना भवतीति । ननु वेदनमेव पुमानिति सौगता मन्यन्ते । तत्कथं पुंसो वेदनमिति । उच्यते । ज्ञानं हि द्विविधं भवति । प्रवृत्तिज्ञानमालयज्ञानं चेति । तत्रालयज्ञानं प्रवृत्तिज्ञानदुःखसंस्कारास्पदं पुमानित्युच्यते । प्रवृत्तिज्ञानं तु समुदायत्ववेदनमिति न विरोधः । एतदुक्तं भवति । अनेके परमाणव एव समुदायः । तदनेकत्वं च समुदायत्वम् । तन्मिलितेष्विव विरलेष्वपि विद्यते । किन्तु न सदा समुदायत्ववेदनं भवति । इतरपरमाणुसहितेतरपरमाणुसहितेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति । अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् । नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति । अपेक्षाबुद्धेरनेकत्वव्यञ्जकत्वात् । नचेतरेतरपरमाणुज्ञाने सति हि समुदायत्वज्ञानं भवति । म(थु)धुरापाटलीपुत्रस्थितयोर्वृक्षयोरितरेतरप्रत्ययो दृष्टः । किञ्चाधिपतिसहकार्यालम्बनसमनन्तरप्रत्ययाश्चत्वारो हि ज्ञानहेतवः । अधिपतिरिन्द्रियम् । नच विरलानां परमाणूनामिन्द्रियालम्बनविरलपरमाणुभ्यस्तदालम्बनतया तथातथा सन्निकृष्टाः परमाणवो जायन्ते । अनधिपतीन्द्रियेभ्यश्चाधिपतीन्द्रियाणि । अथेदानीं समनन्तरप्रत्ययबलादेको महानिति ज्ञानमुत्पद्यते । तेन नान्योन्याश्रयत्वम् । नापि सृष्टयाद्यनुपपत्तिरिति । एतेन पक्षान्तरमपि सूचितम् । विरलपरमाणुभ्यः सन्निकृष्टाः परमाणवो जायन्ते । तदेव तेषां समुदायत्वम् । अतो न कश्चिद्दोष इति । *८,१८५* समाधानांशं व्याचष्टे कार्येति ॥ ॥। कार्यसम्भूतिमात्रव्यापृतिकारणम्

yatastasya samudāyasya sadātanatve 'pi puṃsaḥ samudāyatvavedanaṃ syāt / kadāciditi śeṣaḥ / tatastadapekṣayā sṛṣṭayādivvayasthopapadyata iti bhāvaḥ / samudāyasya sadātanatve tadvedanamapi kutaḥ kādācitkamityata uktam tacceti // tatsamudāyatvavedanaṃ paramāṇusāmīpyahetukam / naca sāmīpyaṃ sadāstīti vedanasya kādācitkatvamiti / samudāyatvavedanasya sāmīpyahetukatā kuta ityata (uktaṃ) āha anyonyeti // anyonyaparamāṇujñānāpekṣayā hi tadbhavati / nacānyonyajñānaṃ sāmīpyena vinā bhavatīti / nanu vedanameva pumāniti saugatā manyante / tatkathaṃ puṃso vedanamiti / ucyate / jñānaṃ hi dvividhaṃ bhavati / pravṛttijñānamālayajñānaṃ ceti / tatrālayajñānaṃ pravṛttijñānaduḥkhasaṃskārāspadaṃ pumānityucyate / pravṛttijñānaṃ tu samudāyatvavedanamiti na virodhaḥ / etaduktaṃ bhavati / aneke paramāṇava eva samudāyaḥ / tadanekatvaṃ ca samudāyatvam / tanmiliteṣviva viraleṣvapi vidyate / kintu na sadā samudāyatvavedanaṃ bhavati / itaraparamāṇusahitetaraparamāṇusahitetaraparamāṇujñāne sati hi samudāyatvajñānaṃ bhavati / apekṣābuddheranekatvavyañjakatvāt / nacetaretaraparamāṇujñāne sati hi samudāyatvajñānaṃ bhavati / apekṣābuddheranekatvavyañjakatvāt / nacetaretaraparamāṇujñāne sati hi samudāyatvajñānaṃ bhavati / ma(thu)dhurāpāṭalīputrasthitayorvṛkṣayoritaretarapratyayo dṛṣṭaḥ / kiñcādhipatisahakāryālambanasamanantarapratyayāścatvāro hi jñānahetavaḥ / adhipatirindriyam / naca viralānāṃ paramāṇūnāmindriyālambanaviralaparamāṇubhyastadālambanatayā tathātathā sannikṛṣṭāḥ paramāṇavo jāyante / anadhipatīndriyebhyaścādhipatīndriyāṇi / athedānīṃ samanantarapratyayabalādeko mahāniti jñānamutpadyate / tena nānyonyāśrayatvam / nāpi sṛṣṭayādyanupapattiriti / etena pakṣāntaramapi sūcitam / viralaparamāṇubhyaḥ sannikṛṣṭāḥ paramāṇavo jāyante / tadeva teṣāṃ samudāyatvam / ato na kaściddoṣa iti / *8,185* samādhānāṃśaṃ vyācaṣṭe kāryeti // ... kāryasambhūtimātravyāpṛtikāraṇam

Sanskrit only: no published translation is held for this verse.

नतु कार्यविशेषेषु व्यापृतं कारणं भवेत्

natu kāryaviśeṣeṣu vyāpṛtaṃ kāraṇaṃ bhavet

Sanskrit only: no published translation is held for this verse.

सदृशकार्यजनकत्वनियमादित्यर्थः । संयोगिरूपे ग्राह्यग्राहकरूपे ये अर्थेन्द्रिये तयोः कार्ययोः कारणता संयोगिरूपकारणता । अर्थेन्द्रिययोः संयोगिरूपकारणता (अर्थेन्द्रियसंयोगिरूपकारणता । ) सा नैवोपपद्यते । कुतः । हि यस्मात्कारणस्यात्मनो नैव तज्ज्ञानतास्तीति योजना । इदमुक्तं भवति । कारणं हि सदृशकार्यजननस्वभावं (वा) स्यात्, विसदृशकार्यजननस्वभावं वा, उभयस्वभावं वा, अनुभय(जनन)स्वभावं वा । *८,१८६फ़्।* तत्र यत्राद्यः कल्पो ऽङ्गीक्रियते तदेन्द्रियानालम्बनेभ्यो विरलपरमाणुभ्यस्तथाभूता एव परमाणवो जायेरन् । न पुनः कदाचिदिन्द्रियालम्बनभूता मिलिताः । इन्द्रियेभ्यश्चार्थानधिपतिभ्यस्तथाविधान्येवेन्द्रियाण्युत्पद्येरन् । न जात्वर्थाधिपतीन्द्रियाणि । आत्मानश्चासमुदायज्ञानात्तादृश एवात्मा जायेत । न कदाचित्तज्ज्ञानवान् । अन्यथा कारणपरमाण्वादीनामपीन्द्रियालम्बनत्वादिकमभ्युपगन्तव्यं स्यात् । इतरथा सदृशकार्यजननस्वभावभङ्गापत्तेः । उभयथा समुदायवेदनस्य कादाचित्कत्वं नोपपद्यत इति । *८,१८८* द्वितीयमाशङ्कते विशेषेति ॥ विशषषकार्यजनकं यदि कारणमिष्यते तथाचेन्द्रियानालम्बनविलपरमाण्वादिभ्यस्तदालम्बनमिलितपरमाण्वादिजनिरुपपद्यत इति भावः । निराकरोति कुत इति ॥ कुतः समानरूपत्वं कार्याणामपि सर्वशः

sadṛśakāryajanakatvaniyamādityarthaḥ / saṃyogirūpe grāhyagrāhakarūpe ye arthendriye tayoḥ kāryayoḥ kāraṇatā saṃyogirūpakāraṇatā / arthendriyayoḥ saṃyogirūpakāraṇatā (arthendriyasaṃyogirūpakāraṇatā / ) sā naivopapadyate / kutaḥ / hi yasmātkāraṇasyātmano naiva tajjñānatāstīti yojanā / idamuktaṃ bhavati / kāraṇaṃ hi sadṛśakāryajananasvabhāvaṃ (vā) syāt, visadṛśakāryajananasvabhāvaṃ vā, ubhayasvabhāvaṃ vā, anubhaya(janana)svabhāvaṃ vā / *8,186f.* tatra yatrādyaḥ kalpo 'ṅgīkriyate tadendriyānālambanebhyo viralaparamāṇubhyastathābhūtā eva paramāṇavo jāyeran / na punaḥ kadācidindriyālambanabhūtā militāḥ / indriyebhyaścārthānadhipatibhyastathāvidhānyevendriyāṇyutpadyeran / na jātvarthādhipatīndriyāṇi / ātmānaścāsamudāyajñānāttādṛśa evātmā jāyeta / na kadācittajjñānavān / anyathā kāraṇaparamāṇvādīnāmapīndriyālambanatvādikamabhyupagantavyaṃ syāt / itarathā sadṛśakāryajananasvabhāvabhaṅgāpatteḥ / ubhayathā samudāyavedanasya kādācitkatvaṃ nopapadyata iti / *8,188* dvitīyamāśaṅkate viśeṣeti // viśaṣaṣakāryajanakaṃ yadi kāraṇamiṣyate tathācendriyānālambanavilaparamāṇvādibhyastadālambanamilitaparamāṇvādijanirupapadyata iti bhāvaḥ / nirākaroti kuta iti // kutaḥ samānarūpatvaṃ kāryāṇāmapi sarvaśaḥ

Sanskrit only: no published translation is held for this verse.

तर्हीति शेषः । सर्वशो ऽपि कार्याणामिति सम्बन्धः । अत्र कार्यग्रहणं परमतानुसारेण । कारणस्य विसदृशकायर्जननस्वभावतायामाकपालभावात्सर्वेष्वपि घटक्षणेषु घटाकारता न स्यात् । किन्तु घटक्षणाद्गजक्षणस्ततो गर्दभक्षण उत्पद्यते । तथा नीलक्षणात्पीतक्षणस्ततः कपोतक्षणो जायेत । नीलानुवृत्तिस्तु न स्यादिति । *८,१९०* अस्तु तर्ह्युभयस्वभावं कारणमिति तृतीयः पक्ष इति चेन्न । विरोधेनैकस्याप्यजननप्रसङ्गात् । अविरोधे त्वाह अत इति ॥ अतो ऽनियत्या यत्किञ्चिद् यस्य कस्यापि कारणम् प्रकृतपक्षद्वयं समाहृत्यात इति परामृशति । अनियत्या घटो घटस्यैव नीलोनीलस्यैवेति नियतिं विना । यत्किञ्चित् घटादिकं नीलादिकं वा । यस्य कस्यापि घटादेरघटादेर्नीलादेरनीलादेश्च । कारणं स्यात् । घटक्षणस्योभयविधकार्यजननस्वभावत्वे ऽसौ तदुभयं जनयेत् । तथा चोपलभ्येतेति यावत् । केचिदिदं वाक्यं पूर्ववाक्यशेषतया व्याचक्षते । सर्वशो ऽपि कार्याणां समानरूपत्वं न स्यात् । किन्तु विसदृशकार्यजननस्वभावत्वाद्घटादिकं गजादेः कारणं स्यादिति । न चतुर्थः । अर्थक्रियारहितस्यासत्त्वप्राप्तेः । अर्थक्रियाकारित्वं सत्त्वमिति (हि)सौगताः । ननु च कार्यजननमात्रं वस्तुनः स्वभाव इत्यङ्गीकुर्मो न तूक्तेषु कमपि पक्षमित्यत आह अत इति ॥ बुद्धिस्थमिमं कल्पमत इति परामृशति । अतिप्रसङ्गस्तु न तिरोहितः । *८,१९२* स्यादेतत् । यथा भवन्मते प्रमाजननस्वभावत्वे ऽपीन्द्रियादेर्देषसहकारिवशादप्रमाजननम्, तथा कारणस्य सदृशकार्यजनकत्वे ऽप्यदृष्टादिसहकारिसामर्थ्यात्कदाचिद्विसदृशकार्यजननं भविष्यति । यद्वा यथा साङ्खयानामिन्द्रियादीनि प्रमाप्रमाजननस्वभावानि । तत्राप्रमाप्रतिपक्षाणां गुणानामुपनिपाते प्रमामेवोपजनयन्ति, प्रमाप्रतिपक्षाणां दोषाणामुपनिपाते त्वप्रमाम्, तथा कारणस्योभयस्वभावत्वे ऽप्यदृष्टादिवशात्तदन्यतरजन्मोपपत्स्यते । अथवा यथा नैयायिकादीनामिन्द्रियादीनि ज्ञानमात्रजननस्वभावानि । गुणादिसहकार्युपनिपातेन प्रमाद्यु(त्प)पपत्तिः, तथा कारणं कार्यजननस्वभावमेव । अदृष्टादिसहकारिसमवधानात् (तु) तत्सदृशं विसदृशं वा जनयिष्यतीत्यत आह अदृष्टमपीति ॥ अदृष्टमपि तस्यैव विशेषापादकं कुतः

tarhīti śeṣaḥ / sarvaśo 'pi kāryāṇāmiti sambandhaḥ / atra kāryagrahaṇaṃ paramatānusāreṇa / kāraṇasya visadṛśakāyarjananasvabhāvatāyāmākapālabhāvātsarveṣvapi ghaṭakṣaṇeṣu ghaṭākāratā na syāt / kintu ghaṭakṣaṇādgajakṣaṇastato gardabhakṣaṇa utpadyate / tathā nīlakṣaṇātpītakṣaṇastataḥ kapotakṣaṇo jāyeta / nīlānuvṛttistu na syāditi / *8,190* astu tarhyubhayasvabhāvaṃ kāraṇamiti tṛtīyaḥ pakṣa iti cenna / virodhenaikasyāpyajananaprasaṅgāt / avirodhe tvāha ata iti // ato 'niyatyā yatkiñcid yasya kasyāpi kāraṇam prakṛtapakṣadvayaṃ samāhṛtyāta iti parāmṛśati / aniyatyā ghaṭo ghaṭasyaiva nīlonīlasyaiveti niyatiṃ vinā / yatkiñcit ghaṭādikaṃ nīlādikaṃ vā / yasya kasyāpi ghaṭāderaghaṭādernīlāderanīlādeśca / kāraṇaṃ syāt / ghaṭakṣaṇasyobhayavidhakāryajananasvabhāvatve 'sau tadubhayaṃ janayet / tathā copalabhyeteti yāvat / kecididaṃ vākyaṃ pūrvavākyaśeṣatayā vyācakṣate / sarvaśo 'pi kāryāṇāṃ samānarūpatvaṃ na syāt / kintu visadṛśakāryajananasvabhāvatvādghaṭādikaṃ gajādeḥ kāraṇaṃ syāditi / na caturthaḥ / arthakriyārahitasyāsattvaprāpteḥ / arthakriyākāritvaṃ sattvamiti (hi)saugatāḥ / nanu ca kāryajananamātraṃ vastunaḥ svabhāva ityaṅgīkurmo na tūkteṣu kamapi pakṣamityata āha ata iti // buddhisthamimaṃ kalpamata iti parāmṛśati / atiprasaṅgastu na tirohitaḥ / *8,192* syādetat / yathā bhavanmate pramājananasvabhāvatve 'pīndriyāderdeṣasahakārivaśādapramājananam, tathā kāraṇasya sadṛśakāryajanakatve 'pyadṛṣṭādisahakārisāmarthyātkadācidvisadṛśakāryajananaṃ bhaviṣyati / yadvā yathā sāṅkhayānāmindriyādīni pramāpramājananasvabhāvāni / tatrāpramāpratipakṣāṇāṃ guṇānāmupanipāte pramāmevopajanayanti, pramāpratipakṣāṇāṃ doṣāṇāmupanipāte tvapramām, tathā kāraṇasyobhayasvabhāvatve 'pyadṛṣṭādivaśāttadanyatarajanmopapatsyate / athavā yathā naiyāyikādīnāmindriyādīni jñānamātrajananasvabhāvāni / guṇādisahakāryupanipātena pramādyu(tpa)papattiḥ, tathā kāraṇaṃ kāryajananasvabhāvameva / adṛṣṭādisahakārisamavadhānāt (tu) tatsadṛśaṃ visadṛśaṃ vā janayiṣyatītyata āha adṛṣṭamapīti // adṛṣṭamapi tasyaiva viśeṣāpādakaṃ kutaḥ

Sanskrit only: no published translation is held for this verse.

तस्यैव कारणस्य विशेषापादकं कुत इत्यपरं वाक्यम् । तथाहि । विशेषापवादकमप्यदृष्टं किं विवक्षितस्यैव कारणस्य विशेषमापादयति, कारणमात्रस्य वा । नाद्यः । नियामकयोः कारणज्ञापकयोरभावादिति । येभ्य इन्द्रियानालमबनविरलपरमाणुभ्यस्तदालम्बनमिलितपरमाणूत्पत्तिराशास्यते । यतश्चार्थानधिपतेरिन्द्रियादर्थाधिपतीन्द्रियस्य । यस्माच्च समुदायज्ञानरहितादात्मनस्तद्वदात्मोत्पादः । तदिदं तस्यैवेत्युच्यते । *८,१९५* उभय(त्रापि द्वि)त्र द्वितीयौ कल्पौ दूषयति यस्येति ॥ यस्य कस्यापि यत्किञ्चिद् विशेषमुपपादयेत् *८,१९६* अथ मतम् । सर्वमिदं स्वव्याहतम् । तथाहि । तन्तवो यदि सदृशकार्यजननस्वभावास्तदा तन्त्वन्तरमेव जनयेयुर्न तु पटम् । यदि च विसदृशकार्यजननस्वभावास्तदा न तेभ्यः पार्थिवपटस्योत्पत्तिः स्यात् । किन्तु पाथसीयं किमपि जायेत । उभयस्वभावत्वं तु विरुद्धम् । अनुभयस्वभावत्वे पटस्याप्यनुत्पत्तिः । सहकारिवशाद्वयवस्थाङ्गीकारे सहकारिष्वपीदं समानम् । अथोच्येत । अस्ति(स्तु)तावत्तन्तुपटयोः कार्यकारणभावः । प्रमितस्यापन्हवानर्हत्वात् । स च यथा यथोपपद्यते तथा तथा कल्पयिष्यत इति । सममेतत्समापीत्यत आह कार्यं चेति ॥ कार्यं च कारणं चैव यत्किञ्चिद् यस्य कस्यचित्

tasyaiva kāraṇasya viśeṣāpādakaṃ kuta ityaparaṃ vākyam / tathāhi / viśeṣāpavādakamapyadṛṣṭaṃ kiṃ vivakṣitasyaiva kāraṇasya viśeṣamāpādayati, kāraṇamātrasya vā / nādyaḥ / niyāmakayoḥ kāraṇajñāpakayorabhāvāditi / yebhya indriyānālamabanaviralaparamāṇubhyastadālambanamilitaparamāṇūtpattirāśāsyate / yataścārthānadhipaterindriyādarthādhipatīndriyasya / yasmācca samudāyajñānarahitādātmanastadvadātmotpādaḥ / tadidaṃ tasyaivetyucyate / *8,195* ubhaya(trāpi dvi)tra dvitīyau kalpau dūṣayati yasyeti // yasya kasyāpi yatkiñcid viśeṣamupapādayet *8,196* atha matam / sarvamidaṃ svavyāhatam / tathāhi / tantavo yadi sadṛśakāryajananasvabhāvāstadā tantvantarameva janayeyurna tu paṭam / yadi ca visadṛśakāryajananasvabhāvāstadā na tebhyaḥ pārthivapaṭasyotpattiḥ syāt / kintu pāthasīyaṃ kimapi jāyeta / ubhayasvabhāvatvaṃ tu viruddham / anubhayasvabhāvatve paṭasyāpyanutpattiḥ / sahakārivaśādvayavasthāṅgīkāre sahakāriṣvapīdaṃ samānam / athocyeta / asti(stu)tāvattantupaṭayoḥ kāryakāraṇabhāvaḥ / pramitasyāpanhavānarhatvāt / sa ca yathā yathopapadyate tathā tathā kalpayiṣyata iti / samametatsamāpītyata āha kāryaṃ ceti // kāryaṃ ca kāraṇaṃ caiva yatkiñcid yasya kasyacit

Sanskrit only: no published translation is held for this verse.

भवेन्नियामकाभावाद् ॥।

bhavenniyāmakābhāvād ...

Sanskrit only: no published translation is held for this verse.

इदं नीलम(स्य नील) स्यैव कारणम्, न तु पीतस्य, इत्येवं नीलस्य नीलकार्यत्वं, नित्यविनाशित्वे निरन्वयविनाशोत्पादपक्षे, केन मानेन न केनापि । पश्चाद्भावमात्रस्य नी(लस्येव पीतस्यापि)लापेक्षयेव पीतापेक्षयापि सत्त्वादिति भावः । सादेश्यं सारूप्यं वा नियामकमिति चेन्न । विरलपरमाणुभ्यो मिलितानां मिलितेभ्यश्च विरलानामुत्पत्त्यङ्गीकारात् । कारणनियममप्यपाकरोति इदं नेति ॥ इदं न जायते ऽमुष्मादित्यत्रापि न कारणम् इदं नीलममुष्मात्पीतान्न जायते किन्तु नीलादेवेत्यत्र नीलस्य कारणत्वावधारणे ऽपि, कारणं प्रमाणं, नास्ति । नीलस्येव पीतस्यपि नीलापेक्षया पूर्वभावितायाः सत्त्वादिति भावः । *८,१९९फ़्।* ननु यथा भवतां समवायपरिणामयोरभावे ऽपि कुविन्दपटयोः कार्यकारणभावावधारणं तथा ममापि भविष्यतीत्यत आह इदमस्येति ॥ नित्यविनाशित्वे आत्मन इति शेषः । युज्यते ऽस्माकं निमित्तकारणकार्ययोस्तद्भावावधारणमन्यत्रानुपक्षीणान्वयव्यतिरेकाभ्याम् । नतु परस्य । अस्माभिरन्वयव्यतिरेकानुसन्धातुरात्मनः स्थायित्वाभ्युपगमात् । परेण(च) क्षणिकतास्वीकारात् । नहि तथाविधो ऽन्वयव्यतिरेकयोरन्यत्रानुपक्षयस्य चावधृतेरीष्य इति भावः । योजना तु पूर्ववदेव । *८,२००* एवं समुदायं निराकृत्य सर्वस्य क्षणिकतामधुना प्रमाणाभावेन तद्विरोधेन चापाकर्तुमुत्तरो ग्रन्थः । तथाहि । न केवलं समुदायो नोपपद्यते । किन्नाम सर्वस्य क्षणिकता च । तत्र प्रमाणाभावात् । ननु प्रत्यक्षं क्षणिकतामर्थानामवगमयति । तद्धि वर्तमानमात्रगोचरमर्थस्य वतर्मानक्षणमात्रसम्बन्धिनीं सत्तामवगाहते । न पूर्वोत्तरक्षणसम्बन्धनीमपि । तत्कथं क्षणिकत्वमर्थानामप्रामाणिकमिति । उच्यते । किमिदं क्षणिकत्वं नाम । किं क्षणसम्बन्धिसत्त्वम् । किंवा क्षणमात्र एवोत्पत्तिनाशवत्त्वम् । यद्वा क्षणान्तरासम्बन्धित्वे सत्येकक्षणसम्बन्धित्वम् । आद्यस्त्विष्य एव । स्थायिनो ऽप्यर्थस्यैकक्षणसत्तास्वीकारात् । द्वितीयतृतीयौ दूषयति विनाशेति ॥ विनाशोत्पत्तयश्चैव न दृश्यन्ते सदातनाः

idaṃ nīlama(sya nīla) syaiva kāraṇam, na tu pītasya, ityevaṃ nīlasya nīlakāryatvaṃ, nityavināśitve niranvayavināśotpādapakṣe, kena mānena na kenāpi / paścādbhāvamātrasya nī(lasyeva pītasyāpi)lāpekṣayeva pītāpekṣayāpi sattvāditi bhāvaḥ / sādeśyaṃ sārūpyaṃ vā niyāmakamiti cenna / viralaparamāṇubhyo militānāṃ militebhyaśca viralānāmutpattyaṅgīkārāt / kāraṇaniyamamapyapākaroti idaṃ neti // idaṃ na jāyate 'muṣmādityatrāpi na kāraṇam idaṃ nīlamamuṣmātpītānna jāyate kintu nīlādevetyatra nīlasya kāraṇatvāvadhāraṇe 'pi, kāraṇaṃ pramāṇaṃ, nāsti / nīlasyeva pītasyapi nīlāpekṣayā pūrvabhāvitāyāḥ sattvāditi bhāvaḥ / *8,199f.* nanu yathā bhavatāṃ samavāyapariṇāmayorabhāve 'pi kuvindapaṭayoḥ kāryakāraṇabhāvāvadhāraṇaṃ tathā mamāpi bhaviṣyatītyata āha idamasyeti // nityavināśitve ātmana iti śeṣaḥ / yujyate 'smākaṃ nimittakāraṇakāryayostadbhāvāvadhāraṇamanyatrānupakṣīṇānvayavyatirekābhyām / natu parasya / asmābhiranvayavyatirekānusandhāturātmanaḥ sthāyitvābhyupagamāt / pareṇa(ca) kṣaṇikatāsvīkārāt / nahi tathāvidho 'nvayavyatirekayoranyatrānupakṣayasya cāvadhṛterīṣya iti bhāvaḥ / yojanā tu pūrvavadeva / *8,200* evaṃ samudāyaṃ nirākṛtya sarvasya kṣaṇikatāmadhunā pramāṇābhāvena tadvirodhena cāpākartumuttaro granthaḥ / tathāhi / na kevalaṃ samudāyo nopapadyate / kinnāma sarvasya kṣaṇikatā ca / tatra pramāṇābhāvāt / nanu pratyakṣaṃ kṣaṇikatāmarthānāmavagamayati / taddhi vartamānamātragocaramarthasya vatarmānakṣaṇamātrasambandhinīṃ sattāmavagāhate / na pūrvottarakṣaṇasambandhanīmapi / tatkathaṃ kṣaṇikatvamarthānāmaprāmāṇikamiti / ucyate / kimidaṃ kṣaṇikatvaṃ nāma / kiṃ kṣaṇasambandhisattvam / kiṃvā kṣaṇamātra evotpattināśavattvam / yadvā kṣaṇāntarāsambandhitve satyekakṣaṇasambandhitvam / ādyastviṣya eva / sthāyino 'pyarthasyaikakṣaṇasattāsvīkārāt / dvitīyatṛtīyau dūṣayati vināśeti // vināśotpattayaścaiva na dṛśyante sadātanāḥ

Sanskrit only: no published translation is held for this verse.

अनेकपदार्थसम्बन्धित्वेन बहुवचनम् । चशब्दस्तृतीयपक्षसमुच्चयार्थः । एवशब्दस्य नैवेति सम्बन्धः । सदातनाः प्रतिक्षणभाविन्यः । प्रत्यक्षं खल्वर्थानां वतर्मानकालसत्तामवगाहते न पुनः क्षणमात्रभाविनावुत्पत्तिविनाशावपि । नापि क्षणान्तरसम्बन्धित्वम् । तथाच कथं तेन क्षणिकता सिद्धयेदिति । *८,२०२* ननु च प्रत्यक्षं पूर्वोत्तरक्षणवतिर्त्वमप्यर्थस्य गृह्णाति न वा । नाद्यः । वर्तमानमात्रग्राहित्वात् । द्वितीये तु प्रत्यक्षानुपलम्भेन पर्वोत्तरक्षणयोरसत्त्वसिद्धेः क्षणिकतैव सि(ध्येदिति)द्धेति चेत् । द्वितीयं तावदुररीकुमर्ः । नचैवं क्षणिकतासिद्धिः । योग्यानुपलम्भस्यैवासत्त्वगमकत्वात् । नच पूर्वोत्तरकालवर्तिना प्रत्यक्षयोग्या । वतर्मानमात्रग्राहितायाः परेणैवोक्तत्वात् । अस्तु वाऽद्यः पक्षः । कस्याचित्प्रत्यक्षस्य वर्तमानमात्रग्राहित्वे ऽपि तदेवेदमिति प्रत्यभिज्ञानलक्षणस्य तदभावादित्याशयेनाह दृश्यत इति ॥ दृश्यते प्रत्यभिज्ञातः स्थिरत्वं सर्ववस्तुषु नाद्यः । तेषामतीन्द्रियत्वेन प्रत्यभिज्ञाप्रत्यक्षगोचरत्वस्याभ्युपगन्तुमशक्यत्वात् । न द्वितीयः । घटादिषु परेणापि प्रत्यभिज्ञाया भ्रान्तित्वस्य स्वीकार्यत्वात् । यदा हि घटादौ सूच्यग्रादिनैको ऽपि परमाणुरपैति तदा नष्टव्यमेव तदारब्धेन द्वयणुकेन । विभागेनासमवायिकारणस्य संयोगस्य नष्टत्वात् । द्वयणुकनाशे समवायिकारणनाशात्त्र्यणुकनाश इत्यनेन क्रमेण घटनाशो ऽप्यवश्यम्भावी । नच परमाणुः प्रत्यक्षो येन तदपगमानपगमौ प्रत्यक्षेण शक्यनिश्चयौ । नच वाच्यं निबिडावयवेषु स्फटिकादिषु प्रत्यभिज्ञया स्थिरत्वं सेत्स्यतीति । तत्रापि परमाण्वपगमाभावस्य प्रत्यक्षेण निश्चेतुमशक्यत्वात् । निबिडावयवत्वं च न विभागायोग्यावयवत्वम् । विभागस्य प्रत्यक्षसिद्धत्वात् । किन्तु घटादितो ऽप्युत्कृष्टकारणापेक्षत्वम् । नच तद्विशेषाभावः शक्यो ऽस्माभिरवगन्तुम् । दृश्यते हि कालतः स्फटिकादावपि गुरुत्वापकर्षः । नचावयवानपगमे स सम्भवतीति । नापि गुणादौ स्थायित्वं प्रत्यभिज्ञया सिद्धयति । तस्यापि कस्यचिदतीन्द्रियत्वात् । कस्यचिद्घटादितुल्यत्वात् सामान्यादिकं तु स्वरूपतो नास्त्येव । सत्त्वे ऽपि रूपादिसमानमेवेति शङ्कितप्रामाण्यं प्रत्यभिज्ञानं न कुत्रापि स्थैर्यसिद्धौ प्रमाणयितुं युक्तमिति । *८,२०६* अत्रोच्यते । स्यादयं दोषः परमाण्वारम्भवादिनाम् । न परिणामवादिनामस्माकम् । तदेव (हि) वस्त्ववयवोपचयापचयाभ्यामन्यथा विक्रियते । न पुनरन्यदेव भवतीति हि परिणामवादिनो मन्यन्ते अतः प्रत्यक्षयोग्येषु सर्ववस्तुषु प्रत्यभिज्ञया स्थिरत्वग्रहणं युक्तमेवेति । ननु भवन्मते ऽपि प्रत्यभिज्ञा (भ्रम एव) भ्रान्तिरेव । परिणामवादे पूर्वोत्तरवस्तुनोर्भेदाभेदाङ्गीकारात् । तदेवेदमिति च प्रत्यभिज्ञयात्यन्ताभेदस्यावगाहनात् । उच्यते । यदा तु (यदि हि) पूर्वोत्तरकालभाविनोरभेदः प्रत्यभिज्ञाविषयो ऽङ्गीक्रियते । तदा सावधारणस्य प्रत्यभिज्ञानस्य भ्रमत्वे ऽपि तदिदमिति तु न भ्रमः । तेनैव च स्थायित्वसि(द्धि)द्धेः । यदा तु कालादिद्वयसम्बन्धो विषयस्तदा सावधारणमपि न भ्रम इति । नन्विदं प्रत्यभिज्ञानं परिलूनपुनर्जातकुन्तलापादाविव भ्रान्तं किन्न स्यादिति चेत् (न) । बाधकाभावात् । एवमेव भ्रा(न्त)न्तित्वाभ्युपगमे नीलादिप्रत्ययानामपि तथात्वापत्ते(त्वप्राप्ते)ः । नच प्रत्यक्षं बाधकमित्युक्तम् । *८,२११* प्रत्यक्षस्याबाधकत्वे ऽप्यनुमानं बाधकं भविष्यतीति शङ्कते फलादीनामिति ॥ फलादीनां विशेषेण सर्वत्राप्यनुमीयते

anekapadārthasambandhitvena bahuvacanam / caśabdastṛtīyapakṣasamuccayārthaḥ / evaśabdasya naiveti sambandhaḥ / sadātanāḥ pratikṣaṇabhāvinyaḥ / pratyakṣaṃ khalvarthānāṃ vatarmānakālasattāmavagāhate na punaḥ kṣaṇamātrabhāvināvutpattivināśāvapi / nāpi kṣaṇāntarasambandhitvam / tathāca kathaṃ tena kṣaṇikatā siddhayediti / *8,202* nanu ca pratyakṣaṃ pūrvottarakṣaṇavatirtvamapyarthasya gṛhṇāti na vā / nādyaḥ / vartamānamātragrāhitvāt / dvitīye tu pratyakṣānupalambhena parvottarakṣaṇayorasattvasiddheḥ kṣaṇikataiva si(dhyediti)ddheti cet / dvitīyaṃ tāvadurarīkumarḥ / nacaivaṃ kṣaṇikatāsiddhiḥ / yogyānupalambhasyaivāsattvagamakatvāt / naca pūrvottarakālavartinā pratyakṣayogyā / vatarmānamātragrāhitāyāḥ pareṇaivoktatvāt / astu vā'dyaḥ pakṣaḥ / kasyācitpratyakṣasya vartamānamātragrāhitve 'pi tadevedamiti pratyabhijñānalakṣaṇasya tadabhāvādityāśayenāha dṛśyata iti // dṛśyate pratyabhijñātaḥ sthiratvaṃ sarvavastuṣu nādyaḥ / teṣāmatīndriyatvena pratyabhijñāpratyakṣagocaratvasyābhyupagantumaśakyatvāt / na dvitīyaḥ / ghaṭādiṣu pareṇāpi pratyabhijñāyā bhrāntitvasya svīkāryatvāt / yadā hi ghaṭādau sūcyagrādinaiko 'pi paramāṇurapaiti tadā naṣṭavyameva tadārabdhena dvayaṇukena / vibhāgenāsamavāyikāraṇasya saṃyogasya naṣṭatvāt / dvayaṇukanāśe samavāyikāraṇanāśāttryaṇukanāśa ityanena krameṇa ghaṭanāśo 'pyavaśyambhāvī / naca paramāṇuḥ pratyakṣo yena tadapagamānapagamau pratyakṣeṇa śakyaniścayau / naca vācyaṃ nibiḍāvayaveṣu sphaṭikādiṣu pratyabhijñayā sthiratvaṃ setsyatīti / tatrāpi paramāṇvapagamābhāvasya pratyakṣeṇa niścetumaśakyatvāt / nibiḍāvayavatvaṃ ca na vibhāgāyogyāvayavatvam / vibhāgasya pratyakṣasiddhatvāt / kintu ghaṭādito 'pyutkṛṣṭakāraṇāpekṣatvam / naca tadviśeṣābhāvaḥ śakyo 'smābhiravagantum / dṛśyate hi kālataḥ sphaṭikādāvapi gurutvāpakarṣaḥ / nacāvayavānapagame sa sambhavatīti / nāpi guṇādau sthāyitvaṃ pratyabhijñayā siddhayati / tasyāpi kasyacidatīndriyatvāt / kasyacidghaṭāditulyatvāt sāmānyādikaṃ tu svarūpato nāstyeva / sattve 'pi rūpādisamānameveti śaṅkitaprāmāṇyaṃ pratyabhijñānaṃ na kutrāpi sthairyasiddhau pramāṇayituṃ yuktamiti / *8,206* atrocyate / syādayaṃ doṣaḥ paramāṇvārambhavādinām / na pariṇāmavādināmasmākam / tadeva (hi) vastvavayavopacayāpacayābhyāmanyathā vikriyate / na punaranyadeva bhavatīti hi pariṇāmavādino manyante ataḥ pratyakṣayogyeṣu sarvavastuṣu pratyabhijñayā sthiratvagrahaṇaṃ yuktameveti / nanu bhavanmate 'pi pratyabhijñā (bhrama eva) bhrāntireva / pariṇāmavāde pūrvottaravastunorbhedābhedāṅgīkārāt / tadevedamiti ca pratyabhijñayātyantābhedasyāvagāhanāt / ucyate / yadā tu (yadi hi) pūrvottarakālabhāvinorabhedaḥ pratyabhijñāviṣayo 'ṅgīkriyate / tadā sāvadhāraṇasya pratyabhijñānasya bhramatve 'pi tadidamiti tu na bhramaḥ / tenaiva ca sthāyitvasi(ddhi)ddheḥ / yadā tu kālādidvayasambandho viṣayastadā sāvadhāraṇamapi na bhrama iti / nanvidaṃ pratyabhijñānaṃ parilūnapunarjātakuntalāpādāviva bhrāntaṃ kinna syāditi cet (na) / bādhakābhāvāt / evameva bhrā(nta)ntitvābhyupagame nīlādipratyayānāmapi tathātvāpatte(tvaprāpte)ḥ / naca pratyakṣaṃ bādhakamityuktam / *8,211* pratyakṣasyābādhakatve 'pyanumānaṃ bādhakaṃ bhaviṣyatīti śaṅkate phalādīnāmiti // phalādīnāṃ viśeṣeṇa sarvatrāpyanumīyate

Sanskrit only: no published translation is held for this verse.

***[नोते: जुम्प् इन् वेर्से नुम्बेरिन्ग्, नो लचुन इन् तेxत्!]*** सत्त्वेन क्षणिकत्वं चेदाकाशस्याविशेषतः । अविशेषो ऽखिलस्यापि सत्त्वात् किं नानुमीयते

***[NOTE: jump in verse numbering, no lacuna in text!]*** sattvena kṣaṇikatvaṃ cedākāśasyāviśeṣataḥ / aviśeṣo 'khilasyāpi sattvāt kiṃ nānumīyate

Sanskrit only: no published translation is held for this verse.

आदिपदेन देहदीपादिग्रहणम् । विशेषेण परिमाणभेदेन, क्षणिकत्वं (तावत्)अनुमीयत इति सम्बन्धः । ततस्तद्दृष्टान्तेन सर्वत्र फलादिव्यतिरिक्ते ऽपि वस्तुनि सत्त्वेन हेतुना पञ्चस्कन्धा इत्यनुमानं स्थिरत्वविषयप्रत्यभिज्ञाया बाधकं भविष्यति । नच फलादिदृष्टान्तः साध्यविकलः । यद्विरुद्धपरिमाणं तन्नाना दृष्टं यथा घटपटौ, विरुद्धपरिमाणं च फलादिकं पूर्वोत्तरक्षणयोः, इत्यनुमानेन फलादीनां क्षणिकतासिद्धेरिति । परिहरति आकाशस्येति ॥ अविशेषतः पूर्वोत्तर(क्षण)योर्भेदरहितत्वतः, अविशेषः पूर्वोत्तरक्षणयोर्भेदराहित्यम् । अखिलस्यापि विप्रतिपन्नस्य । इदमुक्तं भवति । यत्सत्तदक्षणिकम् यथाऽकाशम् । सच्च नीलादीति प्रत्यनुमानप्रतिरुद्धत्वेनानुमानस्याभासत्वान्न प्रत्यभिज्ञाबाधकत्वं सम्भवतीति । नचाकाशदृष्टान्तः साध्यविकलः । "आकाशो द्वौ निरोधौ च नित्यं त्रयमसंस्कृतम्ऽ; इत्रत परेणैवाङ्गीकृतत्वात् क्षणिकतासाधकस्य परिमाणभेदादेराकाशे ऽभावाच्च । तदिदमु(मप्यु)क्तं अविशेषतः परिमाणभेदादिरहितत्वत इति । *८,२१३* यद्वाऽकाशस्याविशेषतः परिमाणभेदरहितत्वतः । तद्दृष्टान्तेनाखिलस्यापि फलादेरविशेषः पूर्वोत्तरकालयोः परिमाणभेदाभावः सत्त्वात् किं नानुमीयत इति योजना । एतदुक्तं भवति । नानुमानं प्रत्यभिज्ञाया बाधकं भवितुमर्हति । अनुमानस्य प्रत्यक्षतो दुबर्लत्वेन तद्बाध्यत्वात् । अन्यथा फलादिकं परिमाणभेदरहितं सत्त्वादाकाशवदित्यप्यनुमानप्रसङ्गात् । नह्यत्र प्रत्यक्षादिबाधं विना कश्चिद्दोषो ऽस्ति । तथाच तद्दृष्टान्ते क्षणिकत्वसाधकस्यासिद्धत्वात्साध्यविकलता स्यात् । ततः प्रत्यक्षविरोधेनैवास्यानुमानस्याप्रामाण्यम् । अन्यथान्योन्याश्रय(ता)प्रसङ्ग इत्येव वक्तव्यम् । तच्च समं प्रकृते ऽपीति । एतेन"आकाशे चाविशेषात्ऽ; इति सूत्रं व्याख्यातं भवति । तदनेन क्षणिकत्व(ता)साधकानुमानस्य सत्प्रतिपक्षत्वं बाधितविषयत्वं च वदताऽकाशे ऽ(ना)नैकान्त्यमपि सूचितम् । भवदनुमानस्यापि फलादिनानैकान्त्यमिति चेन्न । तत्रापि क्षणिकताभावस्य वक्ष्यमाणत्वात् (इति) । *८,२१४* भवेदिदं यद्याकाशस्य सत्त्वं स्यात् । नचैतदस्ति । मूर्ताभावत्वादाकाशस्य । भावत्वं हि सत्त्वमत्र विवक्षितम् । सस्वरूपत्वे ऽपि वा सत्त्वे, अभावो निःस्वरूप इत्यङ्गीकृतमित्याशङ्कयाह यदीति ॥ यद्याकाशस्य सत्त्वं न कुत एव नरादिषु यद्याकाशस्य सत्त्वं नास्तीत्यङ्गीकृत्य प्रत्यनुमाने ऽतिप्रसङ्गानुमाने च दृष्टान्तस्य साधनवैकल्यं स्वानुमानस्यानैकान्तिकत्वाभावश्चोच्यते । तदा देहादिषु सत्त्वं कुत एव सिद्धमिति ब्रूमः । तथाच परकीयस्यापि दृष्टान्तस्य साधनवैकल्यं स्यात् । यदि च विधिमुखप्रत्ययवेद्यत्वाद्देहादीनां भावत्वं प्रमाविषयत्वात्सत्त्वं चोच्यते । तदाऽकाशे ऽपि समानमिति । प्रमाणान्तरेणाकाशस्याभावत्वं वारयितुमुपोद्घातमाह स धर्मीति ॥ सधर्मिप्रतियोगित्वमाकाशस्यावगम्यते

ādipadena dehadīpādigrahaṇam / viśeṣeṇa parimāṇabhedena, kṣaṇikatvaṃ (tāvat)anumīyata iti sambandhaḥ / tatastaddṛṣṭāntena sarvatra phalādivyatirikte 'pi vastuni sattvena hetunā pañcaskandhā ityanumānaṃ sthiratvaviṣayapratyabhijñāyā bādhakaṃ bhaviṣyati / naca phalādidṛṣṭāntaḥ sādhyavikalaḥ / yadviruddhaparimāṇaṃ tannānā dṛṣṭaṃ yathā ghaṭapaṭau, viruddhaparimāṇaṃ ca phalādikaṃ pūrvottarakṣaṇayoḥ, ityanumānena phalādīnāṃ kṣaṇikatāsiddheriti / pariharati ākāśasyeti // aviśeṣataḥ pūrvottara(kṣaṇa)yorbhedarahitatvataḥ, aviśeṣaḥ pūrvottarakṣaṇayorbhedarāhityam / akhilasyāpi vipratipannasya / idamuktaṃ bhavati / yatsattadakṣaṇikam yathā'kāśam / sacca nīlādīti pratyanumānapratiruddhatvenānumānasyābhāsatvānna pratyabhijñābādhakatvaṃ sambhavatīti / nacākāśadṛṣṭāntaḥ sādhyavikalaḥ / "ākāśo dvau nirodhau ca nityaṃ trayamasaṃskṛtam'; itrata pareṇaivāṅgīkṛtatvāt kṣaṇikatāsādhakasya parimāṇabhedāderākāśe 'bhāvācca / tadidamu(mapyu)ktaṃ aviśeṣataḥ parimāṇabhedādirahitatvata iti / *8,213* yadvā'kāśasyāviśeṣataḥ parimāṇabhedarahitatvataḥ / taddṛṣṭāntenākhilasyāpi phalāderaviśeṣaḥ pūrvottarakālayoḥ parimāṇabhedābhāvaḥ sattvāt kiṃ nānumīyata iti yojanā / etaduktaṃ bhavati / nānumānaṃ pratyabhijñāyā bādhakaṃ bhavitumarhati / anumānasya pratyakṣato dubarlatvena tadbādhyatvāt / anyathā phalādikaṃ parimāṇabhedarahitaṃ sattvādākāśavadityapyanumānaprasaṅgāt / nahyatra pratyakṣādibādhaṃ vinā kaściddoṣo 'sti / tathāca taddṛṣṭānte kṣaṇikatvasādhakasyāsiddhatvātsādhyavikalatā syāt / tataḥ pratyakṣavirodhenaivāsyānumānasyāprāmāṇyam / anyathānyonyāśraya(tā)prasaṅga ityeva vaktavyam / tacca samaṃ prakṛte 'pīti / etena"ākāśe cāviśeṣāt'; iti sūtraṃ vyākhyātaṃ bhavati / tadanena kṣaṇikatva(tā)sādhakānumānasya satpratipakṣatvaṃ bādhitaviṣayatvaṃ ca vadatā'kāśe '(nā)naikāntyamapi sūcitam / bhavadanumānasyāpi phalādinānaikāntyamiti cenna / tatrāpi kṣaṇikatābhāvasya vakṣyamāṇatvāt (iti) / *8,214* bhavedidaṃ yadyākāśasya sattvaṃ syāt / nacaitadasti / mūrtābhāvatvādākāśasya / bhāvatvaṃ hi sattvamatra vivakṣitam / sasvarūpatve 'pi vā sattve, abhāvo niḥsvarūpa ityaṅgīkṛtamityāśaṅkayāha yadīti // yadyākāśasya sattvaṃ na kuta eva narādiṣu yadyākāśasya sattvaṃ nāstītyaṅgīkṛtya pratyanumāne 'tiprasaṅgānumāne ca dṛṣṭāntasya sādhanavaikalyaṃ svānumānasyānaikāntikatvābhāvaścocyate / tadā dehādiṣu sattvaṃ kuta eva siddhamiti brūmaḥ / tathāca parakīyasyāpi dṛṣṭāntasya sādhanavaikalyaṃ syāt / yadi ca vidhimukhapratyayavedyatvāddehādīnāṃ bhāvatvaṃ pramāviṣayatvātsattvaṃ cocyate / tadā'kāśe 'pi samānamiti / pramāṇāntareṇākāśasyābhāvatvaṃ vārayitumupodghātamāha sa dharmīti // sadharmipratiyogitvamākāśasyāvagamyate

Sanskrit only: no published translation is held for this verse.

प्रतीतावभावस्य व्यापकं सधर्मिप्रतियोगित्वमाकाशात्तावद्वयावर्तर्(त्य)ते । यस्मादाकाश इत्येवावगम्यते न त्वत्रेदं नास्तीति । इयमपि (च) वस्तुतो मूर्ताभावगोचरैव प्रतीतिः प्रलयादिवन्नञ्वर्जिताभिलापसम्बन्धादतादृशीव प्रकाशत इति चेन्न । नीलादिप्रतितेरपि तथात्वप्रसङ्गात् । अनानुभाविकत्वस्योभयत्रापि साम्यात् । तथाच परस्याप्यसिद्धयाद्यापातः । व्यापकनिवृत्त्या(च) व्याप्यनिवृत्तिरवश्यंभाविनीत्याकाशस्य नाभावत्वमिति । तदयं प्रयोगः । आकाशो नाभावः धर्मिप्रतियोगिनौ विनैव प्रतीयमानत्वाद्रूपवदिति । किञ्च मूर्ताभावमाकाशं वदता यो धर्मी तस्योच्यते स एवास्माकमाकाश इति नाम्नयेव विवादो ऽवशिष्यते । वक्ष्यते चैतद्वियदधिकरण इति । *८,२२०* सूत्रद्वयार्थमुपसंहरति स्वीकारेति ॥ स्वीकारत्यागतो ऽदृष्टदृष्टयोः सर्ववस्तुषु । गुणानुन्मत्त एवासौ विदधात्यधिकं पुनः

pratītāvabhāvasya vyāpakaṃ sadharmipratiyogitvamākāśāttāvadvayāvartar(tya)te / yasmādākāśa ityevāvagamyate na tvatredaṃ nāstīti / iyamapi (ca) vastuto mūrtābhāvagocaraiva pratītiḥ pralayādivannañvarjitābhilāpasambandhādatādṛśīva prakāśata iti cenna / nīlādipratiterapi tathātvaprasaṅgāt / anānubhāvikatvasyobhayatrāpi sāmyāt / tathāca parasyāpyasiddhayādyāpātaḥ / vyāpakanivṛttyā(ca) vyāpyanivṛttiravaśyaṃbhāvinītyākāśasya nābhāvatvamiti / tadayaṃ prayogaḥ / ākāśo nābhāvaḥ dharmipratiyoginau vinaiva pratīyamānatvādrūpavaditi / kiñca mūrtābhāvamākāśaṃ vadatā yo dharmī tasyocyate sa evāsmākamākāśa iti nāmnayeva vivādo 'vaśiṣyate / vakṣyate caitadviyadadhikaraṇa iti / *8,220* sūtradvayārthamupasaṃharati svīkāreti // svīkāratyāgato 'dṛṣṭadṛṣṭayoḥ sarvavastuṣu / guṇānunmatta evāsau vidadhātyadhikaṃ punaḥ

Sanskrit only: no published translation is held for this verse.

उत्तरोत्पत्तिमात्रेण विनाशात् पूवर्वस्तुनः । न संस्कारार्पकत्वं च युज्यते कस्यचित् क्वचित्

uttarotpattimātreṇa vināśāt pūvarvastunaḥ / na saṃskārārpakatvaṃ ca yujyate kasyacit kvacit

Sanskrit only: no published translation is held for this verse.

कस्यचित् कारणस्य, कचित् कार्ये । ततः किमित्यत आह अत इति ॥ अतो ज्ञातं मयेत्यादि न ज्ञेयमनुमा कुतः किमनुमानादिव्यवहारान्यथानुपपत्तिमात्रेणालौकिकं कल्पनीयम्, किंवाऽत्मादेः क्षणिकत्वे ऽपि सति । नाद्यः । आत्मादेः स्थायित्वेनैव तदुपपत्तेः । द्वितीयस्तु स्यात् । यद्यात्मादेः क्षणिकत्वं सिद्धं स्यात् । नच तदस्ति । प्रमाणबाधितत्वान्निष्प्रमाणकत्वाच्चेति भावः । एकत्वं भिदेत्यत्र पूर्वोत्तरकालयोरिति शेषः । अनुभूतिस्थं प्रत्यभिज्ञासिद्धम् । कुतो ऽङ्गीकार्येत्यध्याहारात्समानकर्तृतासिद्धिः । *८,२२९* ननु च प्रत्यभिज्ञानं भ्रान्तमित्युक्तम् । तत्कथमात्मादेरैक्यं ततः सिद्धयेदित्यत आह वल्येवेति ॥ ॥। बल्येवानुभवो यतः

kasyacit kāraṇasya, kacit kārye / tataḥ kimityata āha ata iti // ato jñātaṃ mayetyādi na jñeyamanumā kutaḥ kimanumānādivyavahārānyathānupapattimātreṇālaukikaṃ kalpanīyam, kiṃvā'tmādeḥ kṣaṇikatve 'pi sati / nādyaḥ / ātmādeḥ sthāyitvenaiva tadupapatteḥ / dvitīyastu syāt / yadyātmādeḥ kṣaṇikatvaṃ siddhaṃ syāt / naca tadasti / pramāṇabādhitatvānniṣpramāṇakatvācceti bhāvaḥ / ekatvaṃ bhidetyatra pūrvottarakālayoriti śeṣaḥ / anubhūtisthaṃ pratyabhijñāsiddham / kuto 'ṅgīkāryetyadhyāhārātsamānakartṛtāsiddhiḥ / *8,229* nanu ca pratyabhijñānaṃ bhrāntamityuktam / tatkathamātmāderaikyaṃ tataḥ siddhayedityata āha valyeveti // ... balyevānubhavo yataḥ

Sanskrit only: no published translation is held for this verse.

तर्कबलेनानुमाने निरवकाशतया प्रबले सति हि तद्विरोधात्प्रत्यभिज्ञानं भ्रान्तं स्यात् । यदा तु तर्कस्योक्तविधयाऽभासत्वं, तदा कुतः क्षणिकत्वानुमानप्राबल्यम् । कुतश्च प्रत्यभिज्ञायास्तद्बाधः । अबाधितश्च प्रत्यभिज्ञानुभवो यतो बल्येव । अत आत्मादेरेकत्वं तेन सिद्धमिति सम्बन्धः । एतेनानुमानसिद्धस्य भेदस्य कथं निर्मानकत्वमित्यपि परास्तम् । तदुपजीव्यस्य तर्कस्याद्याप्यनवस्थानात् । *८,२३०* नन्वस्तूत्तरोत्पाद एव पूर्वस्य निरोधस्तथापि कुतः पूर्वस्योत्तरस्मिन्संस्कारानाधायकत्वमित्यत आह कार्यकारणयोश्चेति ॥ कार्यकारणयोश्चैककालीनत्वं विना कथम् । पूर्वसंस्कारयोगी स्यादुत्तरो नियमेन च

tarkabalenānumāne niravakāśatayā prabale sati hi tadvirodhātpratyabhijñānaṃ bhrāntaṃ syāt / yadā tu tarkasyoktavidhayā'bhāsatvaṃ, tadā kutaḥ kṣaṇikatvānumānaprābalyam / kutaśca pratyabhijñāyāstadbādhaḥ / abādhitaśca pratyabhijñānubhavo yato balyeva / ata ātmāderekatvaṃ tena siddhamiti sambandhaḥ / etenānumānasiddhasya bhedasya kathaṃ nirmānakatvamityapi parāstam / tadupajīvyasya tarkasyādyāpyanavasthānāt / *8,230* nanvastūttarotpāda eva pūrvasya nirodhastathāpi kutaḥ pūrvasyottarasminsaṃskārānādhāyakatvamityata āha kāryakāraṇayośceti // kāryakāraṇayoścaikakālīnatvaṃ vinā katham / pūrvasaṃskārayogī syāduttaro niyamena ca

Sanskrit only: no published translation is held for this verse.

उत्तरोत्पाद एव पूर्वस्य निरोधात्कायर्कारणयोरेककालीनत्वं तावन्नास्तीति लभ्यते । एककालीनत्वं च विना पूर्वाहितसंस्कारयोगित्वमुत्तरस्य न युज्यते । नियमेन चेत्यनेन क्वचिदपि न युज्यते कुतः सर्वत्रेति सूचयति । यद्वैककालीनस्य एव संस्कारार्पकत्वं दृष्टं न भिन्नकालत्व इति व्याप्तेरित्यर्थः । नन्वेककालीनत्वाभावे ऽपि कुतः संस्कारार्पकत्वं न स्यादित्यत आह सम्बद्धा एवेति ॥ सम्बद्ध एव संस्कारमन्यत्रादत्तते ऽखिलाः । असम्बद्धः कथं पूर्व उत्तरे वासनाकरः

uttarotpāda eva pūrvasya nirodhātkāyarkāraṇayorekakālīnatvaṃ tāvannāstīti labhyate / ekakālīnatvaṃ ca vinā pūrvāhitasaṃskārayogitvamuttarasya na yujyate / niyamena cetyanena kvacidapi na yujyate kutaḥ sarvatreti sūcayati / yadvaikakālīnasya eva saṃskārārpakatvaṃ dṛṣṭaṃ na bhinnakālatva iti vyāpterityarthaḥ / nanvekakālīnatvābhāve 'pi kutaḥ saṃskārārpakatvaṃ na syādityata āha sambaddhā eveti // sambaddha eva saṃskāramanyatrādattate 'khilāḥ / asambaddhaḥ kathaṃ pūrva uttare vāsanākaraḥ

Sanskrit only: no published translation is held for this verse.

यस्मात् अखिलाः संस्काराधायकाश्चाम्पककुसुमादयः पदार्थास्तैलादिभिः सम्बद्धा एव अन्यत्र तैलादौ संस्कारमादधते, नासम्बद्धा इत्यस्ति नियमः । नच भिन्नकालीन(ल)योः सम्बन्धो युज्यते । तस्मादुत्तरेणशसम्बद्धः पूर्वस्तस्मिन्नुत्तरे वासनां न कुर्यादिति । उक्तमर्थं बुद्धयारोहार्थं सङ्कलय्याह एककालतयेति ॥ एककालतया योगं विना संस्कारतः कथम् अत्रैककालतया विना कार्यकारणयोर्योगो न युज्यते । योगं विना कारणस्य कार्ये संस्कारार्पकत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना । संस्कारापर्कत्वं च न घटते, संस्कारतो विना कथमनुमानादिव्यवहार इत्यध्याहारेण योजना । यदीदं सङ्कलनं न क्रियेत तदा पूर्वो(क्तहेतूनां)क्तानां प्रत्येकं संस्कारानाधयकत्वे हेतुत्वं ज्ञायेत । सर्वत्र साध्यनिर्देशात् तत्र को दोषः । उक्ताकाङ्क्षाकुण्ठितत्वमेवेति । अत्रैते प्रयोगाः । पूर्वक्षण उत्तरक्षणे संस्काराधायको न भवति, तेनासम्बद्धत्वात् । यो येनासम्बद्धो नासौ तत्र संस्काराधायकः, यथा सम्प्रतिपन्नः । यद्वा यो यत्र संस्काराधायकः स तत्सम्बद्ध एव दृष्टो यथा सम्मतः । असम्बद्धस्यापि संस्काराधायकत्वे मृगमदो वसनमिव सर्वं वासयेदविशेषात् । असम्बद्धश्च पूर्व उत्तरेण । ततो भिन्नकालीनत्वात् । सम्प्रतिपन्नवत् । भिन्नकालीनयोरपि सम्बन्धे ऽतिप्रसङ्गः । भिन्नकालीनश्च पूर्वं उत्तरेण । तदुत्पाद एव विनष्टत्वात् । संमतवत् । प्रागेव नष्टस्य तेनैककालीनत्वशङ्का एव व्याहतेति । ननु लाक्षारसाहितबीजपूरकुसुमलौहित्यवत्किन्न स्यादिति चेत्(न) । तत्रापि निरन्वयविनाशोत्पादानभ्युपगमात् । अत्र च परसिद्धन्यायेन परस्य बोधनान्नाश्रयासिद्धयादि शङ्कनीयमिति । *८,२३६* भवेदेतद्यदि कारणस्य कार्योत्पाद एव विनाशः स्यात् । स एव कुतः सिद्ध इत्यत आह क्षणमात्रमिति ॥ क्षणमात्रमवस्थानं स्वीकृतं सर्ववस्तुषु

yasmāt akhilāḥ saṃskārādhāyakāścāmpakakusumādayaḥ padārthāstailādibhiḥ sambaddhā eva anyatra tailādau saṃskāramādadhate, nāsambaddhā ityasti niyamaḥ / naca bhinnakālīna(la)yoḥ sambandho yujyate / tasmāduttareṇaśasambaddhaḥ pūrvastasminnuttare vāsanāṃ na kuryāditi / uktamarthaṃ buddhayārohārthaṃ saṅkalayyāha ekakālatayeti // ekakālatayā yogaṃ vinā saṃskārataḥ katham atraikakālatayā vinā kāryakāraṇayoryogo na yujyate / yogaṃ vinā kāraṇasya kārye saṃskārārpakatvaṃ ca na ghaṭate, saṃskārato vinā kathamanumānādivyavahāra ityadhyāhāreṇa yojanā / saṃskārāparkatvaṃ ca na ghaṭate, saṃskārato vinā kathamanumānādivyavahāra ityadhyāhāreṇa yojanā / yadīdaṃ saṅkalanaṃ na kriyeta tadā pūrvo(ktahetūnāṃ)ktānāṃ pratyekaṃ saṃskārānādhayakatve hetutvaṃ jñāyeta / sarvatra sādhyanirdeśāt tatra ko doṣaḥ / uktākāṅkṣākuṇṭhitatvameveti / atraite prayogāḥ / pūrvakṣaṇa uttarakṣaṇe saṃskārādhāyako na bhavati, tenāsambaddhatvāt / yo yenāsambaddho nāsau tatra saṃskārādhāyakaḥ, yathā sampratipannaḥ / yadvā yo yatra saṃskārādhāyakaḥ sa tatsambaddha eva dṛṣṭo yathā sammataḥ / asambaddhasyāpi saṃskārādhāyakatve mṛgamado vasanamiva sarvaṃ vāsayedaviśeṣāt / asambaddhaśca pūrva uttareṇa / tato bhinnakālīnatvāt / sampratipannavat / bhinnakālīnayorapi sambandhe 'tiprasaṅgaḥ / bhinnakālīnaśca pūrvaṃ uttareṇa / tadutpāda eva vinaṣṭatvāt / saṃmatavat / prāgeva naṣṭasya tenaikakālīnatvaśaṅkā eva vyāhateti / nanu lākṣārasāhitabījapūrakusumalauhityavatkinna syāditi cet(na) / tatrāpi niranvayavināśotpādānabhyupagamāt / atra ca parasiddhanyāyena parasya bodhanānnāśrayāsiddhayādi śaṅkanīyamiti / *8,236* bhavedetadyadi kāraṇasya kāryotpāda eva vināśaḥ syāt / sa eva kutaḥ siddha ityata āha kṣaṇamātramiti // kṣaṇamātramavasthānaṃ svīkṛtaṃ sarvavastuṣu

Sanskrit only: no published translation is held for this verse.

कार्यकारणयोस्तावदुत्तरपूर्वत्वमावश्यकम् । यौगपद्ये कायर्कारणभावव्याघातात् । ततः पूर्वक्षणवर्ति कारणं यदि कायर्क्षणे ऽपि स्यात्तदा सर्ववस्तूनामङ्गीकृतं क्षणमात्रमवस्थानं भज्येत । अतः क्षणिकत्वाभ्युपगम एवोत्तरोत्पादे च पूर्वनिरोधं गमयतीति । स्यादेतत् । कारणं क्षणस्य पूर्वविभागे लब्धसत्ताकं मध्यविभागे कार्यमुत्पाद्यापरविभागे तत्र संस्कारमाधाय नश्यतीत्यङ्गीकारे न को ऽपि दोष इत्यत आह पूर्वेति ॥ पूर्वमध्यापरकलारहितः क्षण इष्यते

kāryakāraṇayostāvaduttarapūrvatvamāvaśyakam / yaugapadye kāyarkāraṇabhāvavyāghātāt / tataḥ pūrvakṣaṇavarti kāraṇaṃ yadi kāyarkṣaṇe 'pi syāttadā sarvavastūnāmaṅgīkṛtaṃ kṣaṇamātramavasthānaṃ bhajyeta / ataḥ kṣaṇikatvābhyupagama evottarotpāde ca pūrvanirodhaṃ gamayatīti / syādetat / kāraṇaṃ kṣaṇasya pūrvavibhāge labdhasattākaṃ madhyavibhāge kāryamutpādyāparavibhāge tatra saṃskāramādhāya naśyatītyaṅgīkāre na ko 'pi doṣa ityata āha pūrveti // pūrvamadhyāparakalārahitaḥ kṣaṇa iṣyate

Sanskrit only: no published translation is held for this verse.

अर्थक्रियाकारित्वं हि सत्त्वं परस्याभिमतम् । तच्च वक्ष्यमाण(वि)कल्पद्वय(येन)व्याप्तम् । तृतीयप्रकारानिरूपणात् । नच तत्क्षणिके सम्भवति । तथाहि क्षणिकाद्भावाद्भवत्कार्यं किं पूर्वस्य कारणस्य भावे भवति । कारणसत्तासमानकालीनसत्तमिति यावत् । उत तस्य कारणस्य नाशे सति सम्भवतीति । *८,२३८* आद्ये दोषमाह यौगपद्यमिति ॥ यौगपद्यं सति भवेदुत्पाद्यानामशेषतः सति कारणे । कार्यं भवति चेत् तर्हीति शेषः । क्षणिकं हि कारणम् । कार्यं च तत्सत्तासमानकालीनसत्तं चेत्कार्यकारणयोः सहोत्पाद इत्युक्तं स्यात् । क्षणे विभागाभावस्योक्तत्वात् तत्तत्कार्याणामप्ययमेव न्याय इति तत्सन्तानभाविना(प्य)मशेषकार्याणां यौगपद्यं स्यात् । तच्च प्रत्यक्षादिविरुद्धमिति । अत्र यद्यपि युगपद्भवतोः कार्यकारणभावानुपपत्तिरपि दूषणम् । तथापि तच्छिष्यैरेव ज्ञातुं शक्यत इति,"उभयथा च दोषात्ऽ; इति सूत्रे कथितमिति वा(चा)त्र नोक्तम् । द्वितीयं निराकरोति विनाशे चेदिति ॥ विनाशे चेन्न तत्कार्यं ॥। कारणस्य कार्यं भवेत्तर्हीति शेषः । तत्तस्य कार्यं न भवतीत्यापन्नम् । अन्यथा सर्वस्य सर्वं कार्यं स्यात् । न ह्यानन्तर्यमात्रेण कार्यकारणभावः । तथात्वे विनाशकार्यत्वप्रसङ्गात् । आनन्तर्यस्यान्यापेक्षयापि सत्त्वात् । सादेश्यादेरपाकृतत्वात् । एवमन्यस्यापि कार्यं न भवतीति न कार्यं स्यादकारणं वा । उभयथापि पूर्वस्यार्थक्रियाविरहादसत्त्वप्राप्तिरिति । सूत्रकृता सौगताभ्युपगतं पक्षं प्रधानीकृत्य दूषणमुक्तम् । भाष्यकृता त्वभावस्य भावसापेक्षत्वात्तेन क्रमेणातो ऽर्थविरोधाभावः । *८,२४१* नन्वस्ति तावत्प्रतिक्षणं कार्योत्पत्तिः । नच कार्यं कारणेन विनोत्पत्तुमलम् । तथा सति नित्यं सत्त्वमसत्त्वं वे(चे)त्यापत्तेः । अतः कार्योत्पत्तिरेवान्यतरपक्षदोषमाभासयिष्यति । पक्षान्तरं वा ग्राहयिष्यतीत्यत आह कार्योत्पत्तौ चेति ॥ ॥। कार्योत्पत्तौ च का प्रमा

arthakriyākāritvaṃ hi sattvaṃ parasyābhimatam / tacca vakṣyamāṇa(vi)kalpadvaya(yena)vyāptam / tṛtīyaprakārānirūpaṇāt / naca tatkṣaṇike sambhavati / tathāhi kṣaṇikādbhāvādbhavatkāryaṃ kiṃ pūrvasya kāraṇasya bhāve bhavati / kāraṇasattāsamānakālīnasattamiti yāvat / uta tasya kāraṇasya nāśe sati sambhavatīti / *8,238* ādye doṣamāha yaugapadyamiti // yaugapadyaṃ sati bhavedutpādyānāmaśeṣataḥ sati kāraṇe / kāryaṃ bhavati cet tarhīti śeṣaḥ / kṣaṇikaṃ hi kāraṇam / kāryaṃ ca tatsattāsamānakālīnasattaṃ cetkāryakāraṇayoḥ sahotpāda ityuktaṃ syāt / kṣaṇe vibhāgābhāvasyoktatvāt tattatkāryāṇāmapyayameva nyāya iti tatsantānabhāvinā(pya)maśeṣakāryāṇāṃ yaugapadyaṃ syāt / tacca pratyakṣādiviruddhamiti / atra yadyapi yugapadbhavatoḥ kāryakāraṇabhāvānupapattirapi dūṣaṇam / tathāpi tacchiṣyaireva jñātuṃ śakyata iti,"ubhayathā ca doṣāt'; iti sūtre kathitamiti vā(cā)tra noktam / dvitīyaṃ nirākaroti vināśe cediti // vināśe cenna tatkāryaṃ ... kāraṇasya kāryaṃ bhavettarhīti śeṣaḥ / tattasya kāryaṃ na bhavatītyāpannam / anyathā sarvasya sarvaṃ kāryaṃ syāt / na hyānantaryamātreṇa kāryakāraṇabhāvaḥ / tathātve vināśakāryatvaprasaṅgāt / ānantaryasyānyāpekṣayāpi sattvāt / sādeśyāderapākṛtatvāt / evamanyasyāpi kāryaṃ na bhavatīti na kāryaṃ syādakāraṇaṃ vā / ubhayathāpi pūrvasyārthakriyāvirahādasattvaprāptiriti / sūtrakṛtā saugatābhyupagataṃ pakṣaṃ pradhānīkṛtya dūṣaṇamuktam / bhāṣyakṛtā tvabhāvasya bhāvasāpekṣatvāttena krameṇāto 'rthavirodhābhāvaḥ / *8,241* nanvasti tāvatpratikṣaṇaṃ kāryotpattiḥ / naca kāryaṃ kāraṇena vinotpattumalam / tathā sati nityaṃ sattvamasattvaṃ ve(ce)tyāpatteḥ / ataḥ kāryotpattirevānyatarapakṣadoṣamābhāsayiṣyati / pakṣāntaraṃ vā grāhayiṣyatītyata āha kāryotpattau ceti // ... kāryotpattau ca kā pramā

Sanskrit only: no published translation is held for this verse.

पूर्वोत्तरक्षणयोरिति शेषः । विशेषेण आरम्भवादद्वैलक्षण्येन । आदिपदेनाङ्कुरादि । विशेषदर्शनं परिमाणभेददर्शनम् । अस्माकं परिणामवादिनां मते । अयमथर्ः । आरम्भवादिनो हि परिमाणं यावद्द्रव्यभाव्यभ्युपयन्ति । अवयवसङ्खयातिशयानतिशयायत्तत्वात्परिमाणभेदस्य । अवयवापचये द्रव्यविनाशस्यावयवोपचये च तदुत्पादस्यावर्जनीयत्वात् । अतस्तेषां परिमाणभेदो द्रव्यं भिन्द्यादेव । अस्माकं त्ववस्थितमेव द्रव्यमवयवोपचयापचयाभ्यां त(त्त)त्परिमाणकतया विक्रियत इति दर्शनम् । तत्र परिमाणभेदो न भेदमाक्षिपतीति । *८,२४२* किञ्च फलादीनां पूर्वोत्तरक्षणयोर्भेदः साध्यते, उताभेदाभावः । आद्ये सिद्धसाधनम् । भेदस्यास्माभिरप्यङ्गीकृतत्वात् । तावता क्षणभङ्गासिद्धेः । द्वितीये दोषमाह अनुभूतित इति ॥ ॥। अनुभूतितः

pūrvottarakṣaṇayoriti śeṣaḥ / viśeṣeṇa ārambhavādadvailakṣaṇyena / ādipadenāṅkurādi / viśeṣadarśanaṃ parimāṇabhedadarśanam / asmākaṃ pariṇāmavādināṃ mate / ayamatharḥ / ārambhavādino hi parimāṇaṃ yāvaddravyabhāvyabhyupayanti / avayavasaṅkhayātiśayānatiśayāyattatvātparimāṇabhedasya / avayavāpacaye dravyavināśasyāvayavopacaye ca tadutpādasyāvarjanīyatvāt / atasteṣāṃ parimāṇabhedo dravyaṃ bhindyādeva / asmākaṃ tvavasthitameva dravyamavayavopacayāpacayābhyāṃ ta(tta)tparimāṇakatayā vikriyata iti darśanam / tatra parimāṇabhedo na bhedamākṣipatīti / *8,242* kiñca phalādīnāṃ pūrvottarakṣaṇayorbhedaḥ sādhyate, utābhedābhāvaḥ / ādye siddhasādhanam / bhedasyāsmābhirapyaṅgīkṛtatvāt / tāvatā kṣaṇabhaṅgāsiddheḥ / dvitīye doṣamāha anubhūtita iti // ... anubhūtitaḥ

Sanskrit only: no published translation is held for this verse.

विशेषदर्शनं मानं यदि न स्थैर्यदृक् कुतः तदिदं फलमिति प्रत्यभिज्ञया पूर्वोत्तरक्षणयोरभेदसिद्धेर्बाधितविषयमनुमानमिति शेषः । भ्रान्ता प्रत्यभिज्ञा नाभेदं साधयितुमलमिति चेत् । तर्हि भ्रान्तं परिमाणभेददर्शनं न भेदसाधनायालमिति ब्रूमः । परिमाणभेददर्शनं बाधकाभावात्प्रमाणमेवेति चेत्तत्राह विशेषेति ॥ *८,२४३* तर्हि स्थैर्यदृक्कुतो न मानम् । तस्या अपि बाधकरहितत्वात् । विशेषदर्शनं बाधकमिति चेत् । तर्हि स्थैर्यदर्शनं कुतो न बाधकम् । अतो ऽनुपलभ्यमानविशेषयो(रनयोर्)बाध्यबाधकभावायोगादन्योन्यप्रतिपक्षताननुभवाच्चान्यतरपक्षपातं परित्यज्य भेदाभेदविषयतयैव व्यवस्थापनं युक्तम् । अन्यथा दृष्टान्ते साध्यसन्देहेनापि परानुमानं दुष्यं स्यादिति । एवं तर्काङ्गान्तरवैकल्यं स्वयमूहनीयम् । *८,२४४* नन्वेतानि सूत्राणि कुतो व्युत्क्रमेण(मतो)व्याख्यातानि । उच्यते । उपोद्घातप्रक्रियया सूत्रकारेणैवादौ बाधकानि निराकृत्यान्ते निष्कण्टका प्रत्यभिज्ञोपन्यस्ता । भाष्यकारेण तु सुबोधत्वाय शिष्याकाङ्क्षाक्रमेणादौ प्रत्यभिज्ञामभिधायानन्तरं तद्बाधकानि परिहृतानीति । *८,२४५* दुःखाभावं सुखं चाहुरिति यदनूदितं तन्निराकरोति दिगिति ॥ दिक्सुखे च खदृष्टान्ताद् भावौ सच्चेत् क्वचिद् भवेद्

viśeṣadarśanaṃ mānaṃ yadi na sthairyadṛk kutaḥ tadidaṃ phalamiti pratyabhijñayā pūrvottarakṣaṇayorabhedasiddherbādhitaviṣayamanumānamiti śeṣaḥ / bhrāntā pratyabhijñā nābhedaṃ sādhayitumalamiti cet / tarhi bhrāntaṃ parimāṇabhedadarśanaṃ na bhedasādhanāyālamiti brūmaḥ / parimāṇabhedadarśanaṃ bādhakābhāvātpramāṇameveti cettatrāha viśeṣeti // *8,243* tarhi sthairyadṛkkuto na mānam / tasyā api bādhakarahitatvāt / viśeṣadarśanaṃ bādhakamiti cet / tarhi sthairyadarśanaṃ kuto na bādhakam / ato 'nupalabhyamānaviśeṣayo(ranayor)bādhyabādhakabhāvāyogādanyonyapratipakṣatānanubhavāccānyatarapakṣapātaṃ parityajya bhedābhedaviṣayatayaiva vyavasthāpanaṃ yuktam / anyathā dṛṣṭānte sādhyasandehenāpi parānumānaṃ duṣyaṃ syāditi / evaṃ tarkāṅgāntaravaikalyaṃ svayamūhanīyam / *8,244* nanvetāni sūtrāṇi kuto vyutkrameṇa(mato)vyākhyātāni / ucyate / upodghātaprakriyayā sūtrakāreṇaivādau bādhakāni nirākṛtyānte niṣkaṇṭakā pratyabhijñopanyastā / bhāṣyakāreṇa tu subodhatvāya śiṣyākāṅkṣākrameṇādau pratyabhijñāmabhidhāyānantaraṃ tadbādhakāni parihṛtānīti / *8,245* duḥkhābhāvaṃ sukhaṃ cāhuriti yadanūditaṃ tannirākaroti digiti // diksukhe ca khadṛṣṭāntād bhāvau saccet kvacid bhaved

Sanskrit only: no published translation is held for this verse.

स्वदृष्टान्तादित्याकाशस्य भावत्वे यो न्यायो ऽभिहितस्तस्मादिति हेत्वतिदेशः । धर्मिप्रतियोगिनिरपेक्षमेव विधिरूपेण प्रतीयमानत्वादित्यर्थः । सद्भावः क्वचिद्भवेच्चेत्तद्दृष्टान्तेनेति शेषः । अनेनान्यथा रूपादिनामपि भावत्वं न स्यादविशेषादिति बाधकं सूचयति । यद्यपि दिशो नाकाशाद्भिद्यन्ते । तथाप्याकाशस्य भागसद्भावं ज्ञापयितुं तासां ग्रहणम् । एकवचनं तु जात्यभिप्रायम् । एतेनाकाशे चाविशेषादिति सूत्रं प्रकारान्तरेण व्याख्यातं भवति । आकाशादीनां भावत्वसमर्थनेन पञ्चस्कन्धात्मकं विश्वमिति निरस्तम् । आत्मनो ज्ञानात्मकत्वं तु नास्माकं अनिष्यम्(विरुद्धम्) । क्षणभङ्गिताया निरस्तत्वात् । ज्ञानस्यापि ग्राहकतायाः परेणाभ्युपगतत्वात् । मोक्षस्तु चतुर्थे परीक्षिष्यते । *८,२४७* स्यादेतत् । वैभाषिकसौत्रान्तिकयोर्यः साधारणः स्वमतविरुद्धः सिद्धान्तः स एव निराकृतः । यस्तु सौत्रान्तिकस्य सिद्धान्तविशेषः"प्रमाणं तावद्विविधम् । प्रमेयद्वैविध्यात् । तत्र ज्ञानातिरिक्तः सर्वे ऽपि रूपादिप्रपञ्चो ऽनुमेय एव न तु प्रत्यक्षः । ज्ञानं (तु) नीलाद्याकारं प्रत्यक्षवेद्यम्ऽ; इति । स कस्मान्न निराकृत इत्यत आह विश्वमिति ॥ विश्वं प्रत्यक्षगं त्यक्तवा तयोर्यो ऽनुमितं वदेत् । मायावादिवदेवासावुपेक्ष्यो भूतिमिच्छता

svadṛṣṭāntādityākāśasya bhāvatve yo nyāyo 'bhihitastasmāditi hetvatideśaḥ / dharmipratiyoginirapekṣameva vidhirūpeṇa pratīyamānatvādityarthaḥ / sadbhāvaḥ kvacidbhaveccettaddṛṣṭānteneti śeṣaḥ / anenānyathā rūpādināmapi bhāvatvaṃ na syādaviśeṣāditi bādhakaṃ sūcayati / yadyapi diśo nākāśādbhidyante / tathāpyākāśasya bhāgasadbhāvaṃ jñāpayituṃ tāsāṃ grahaṇam / ekavacanaṃ tu jātyabhiprāyam / etenākāśe cāviśeṣāditi sūtraṃ prakārāntareṇa vyākhyātaṃ bhavati / ākāśādīnāṃ bhāvatvasamarthanena pañcaskandhātmakaṃ viśvamiti nirastam / ātmano jñānātmakatvaṃ tu nāsmākaṃ aniṣyam(viruddham) / kṣaṇabhaṅgitāyā nirastatvāt / jñānasyāpi grāhakatāyāḥ pareṇābhyupagatatvāt / mokṣastu caturthe parīkṣiṣyate / *8,247* syādetat / vaibhāṣikasautrāntikayoryaḥ sādhāraṇaḥ svamataviruddhaḥ siddhāntaḥ sa eva nirākṛtaḥ / yastu sautrāntikasya siddhāntaviśeṣaḥ"pramāṇaṃ tāvadvividham / prameyadvaividhyāt / tatra jñānātiriktaḥ sarve 'pi rūpādiprapañco 'numeya eva na tu pratyakṣaḥ / jñānaṃ (tu) nīlādyākāraṃ pratyakṣavedyam'; iti / sa kasmānna nirākṛta ityata āha viśvamiti // viśvaṃ pratyakṣagaṃ tyaktavā tayoryo 'numitaṃ vadet / māyāvādivadevāsāvupekṣyo bhūtimicchatā

Sanskrit only: no published translation is held for this verse.

अयमत्रोत्तरक्रमः । नीलादेरर्थस्याप्रत्यक्षत्वं न वक्तुं शक्यते । नीलादिप्रतीतेरपरोक्षतायाः साक्षिसिद्धत्वात् । इन्द्रियव्यापारभावभावित्वेनानुमानसिद्धत्वाच्च । अथ मतम् । येनार्थेन यज्ज्ञानं जायते तत् तदाकारं भवति । तच्च ज्ञानं स्वप्रकाशतया स्वगतं नीलाद्याकारमपि साक्षात्कुरुते । अतो ऽपरोक्षतयोपलभ्यमानस्य नीलाद्याकारनिकरस्य बुद्धिगतत्वान्न कश्चिद्दोष इति । अत्रेदमुपतिष्ठते । यदपरोक्षतयावभासमानं नीलाद्याकारचक्रं बुद्धेर्भेदेन सर्वदा सर्वप्रमाणसिद्धम् । तस्य कथं नु बुद्धित्वमङ्गीक्रियते । बहिर्मुखतयेदन्तेन ह्ययं नीलाद्याकारो ऽपरोक्षमवभासते । न जात्वन्तर्मुखतयाहं नीलमिति । तथा नीलापरोक्षज्ञानसमनन्तरं नीलार्थी नियमेन बहिः प्रवर्तते । तेनानुमीयते ऽनेन बहिरर्थ एव साक्षात्कृत इति । न ह्यन्यत्र ज्ञानमन्यत्र प्रवृत्तिरिति युज्यते । अतिप्रसङ्गात् । मध्ये ऽनुमानं तु निरसिष्यते । एवमाप्तो ऽपि किमपरोक्षतया पश्यसीति पृष्टो ऽङ्गुलिं प्रसार्येदमिति बाह्यमेव ब्रवीत्यतस्त्रिभिरपि प्रमाणैरपरोक्षतयावभासमानस्य नीलाद्याकारस्य बुद्धितो भेद एवावसीयते । न चेदं सर्वं भ्रान्तम् । कदाप्यन्यथाप्रतीत्यभावात् । विनैव बाधकेन भ्रान्तित्वाभ्युपगमे ऽतिप्रसङ्गात् । अतो ऽपरोक्षतयावभासमानो नीलाद्याकारो बाह्य एव, नतु बुद्धिगत इति । *८,२५१* किञ्च बाह्यार्थस्याप्रत्यक्षत्वे तदसिद्धिरेव स्यात् । प्रमाणाभावात् । तथाच बाह्यार्थाभ्युपगमो रिक्तः स्यादित्याह विश्वमिति ॥ ॥। विश्वमन्यच्च किम्प्रमम्

ayamatrottarakramaḥ / nīlāderarthasyāpratyakṣatvaṃ na vaktuṃ śakyate / nīlādipratīteraparokṣatāyāḥ sākṣisiddhatvāt / indriyavyāpārabhāvabhāvitvenānumānasiddhatvācca / atha matam / yenārthena yajjñānaṃ jāyate tat tadākāraṃ bhavati / tacca jñānaṃ svaprakāśatayā svagataṃ nīlādyākāramapi sākṣātkurute / ato 'parokṣatayopalabhyamānasya nīlādyākāranikarasya buddhigatatvānna kaściddoṣa iti / atredamupatiṣṭhate / yadaparokṣatayāvabhāsamānaṃ nīlādyākāracakraṃ buddherbhedena sarvadā sarvapramāṇasiddham / tasya kathaṃ nu buddhitvamaṅgīkriyate / bahirmukhatayedantena hyayaṃ nīlādyākāro 'parokṣamavabhāsate / na jātvantarmukhatayāhaṃ nīlamiti / tathā nīlāparokṣajñānasamanantaraṃ nīlārthī niyamena bahiḥ pravartate / tenānumīyate 'nena bahirartha eva sākṣātkṛta iti / na hyanyatra jñānamanyatra pravṛttiriti yujyate / atiprasaṅgāt / madhye 'numānaṃ tu nirasiṣyate / evamāpto 'pi kimaparokṣatayā paśyasīti pṛṣṭo 'ṅguliṃ prasāryedamiti bāhyameva bravītyatastribhirapi pramāṇairaparokṣatayāvabhāsamānasya nīlādyākārasya buddhito bheda evāvasīyate / na cedaṃ sarvaṃ bhrāntam / kadāpyanyathāpratītyabhāvāt / vinaiva bādhakena bhrāntitvābhyupagame 'tiprasaṅgāt / ato 'parokṣatayāvabhāsamāno nīlādyākāro bāhya eva, natu buddhigata iti / *8,251* kiñca bāhyārthasyāpratyakṣatve tadasiddhireva syāt / pramāṇābhāvāt / tathāca bāhyārthābhyupagamo riktaḥ syādityāha viśvamiti // ... viśvamanyacca kimpramam

Sanskrit only: no published translation is held for this verse.

अन्यत् ज्ञानमिति शेषः । का प्रमा यस्य तत् किंप्रमम् । अनुमेयो बाह्याकार इति चेत्(न) । सर्वथासिद्धस्य पक्षीकरणायोगात् । लिङ्गाभावाद्वयाप्त्यसिद्धेश्च । स्यादेतत् । बुद्धिगतस्तावदाकारो ऽपरोक्षमवभासते । स कादाचित्कत्वात्किमपि कारणमेपक्षमाणो बाह्यं नीलाद्यनुमापयिष्यतीति । मैवम् । बाह्यतयैव नीलाद्याकारस्य स्फुरणात् । कुत्र चेदमुलब्धम्, यत्कादाचित्कं तत्कारणवदिति । ज्ञान एवेति चेत्(न) । बाह्याप्रत्यक्षत्ववादे तत्रापि कारणत्वानवधारणात् । ज्ञानं पूर्वज्ञानकारणकमुपलब्धमिति चेत् । तर्ह्याकारो ऽपि पूर्वाकारजन्यः कल्प्यताम् । किं बाह्यार्थव्यसनेन । नीलज्ञानानं(नोत्पादान)न्तरं पीतज्ञानोत्पाददर्शनान्नेति चेत्(न) । सदृशजन्यत्वस्य परेण क्वाप्यनुप(गन्तव्य)लब्धत्वात् । *८,२५३* किञ्च वासनादिकमान्तरमेव सहकारीकृत्य विसदृश(मेव)मपि ज्ञानं जनयतीति कल्पनीयम् । न बाह्यम् । दृष्टेनैव कथञ्चिदुपपत्तावदृष्टकल्पनानुपपत्तेः । अतो बाह्यो ऽ(प्यर्)थः प्रत्यक्षसिद्ध इति शङ्कानास्पदत्वादिदं मतमत्र न दूषितमित्युक्तम् । यद्वा स्फुटतरानल्पदोषत्वेन शिष्यैरेव हेयतया ज्ञातुं शक्यत्वादित्याशयेनाह सर्वेति ॥ सर्वलोको बिभेत्यञ्जो यस्मादनुभवात् सदा । तस्यापलापिनः किं न निष्प्रमाणकवादिनः

anyat jñānamiti śeṣaḥ / kā pramā yasya tat kiṃpramam / anumeyo bāhyākāra iti cet(na) / sarvathāsiddhasya pakṣīkaraṇāyogāt / liṅgābhāvādvayāptyasiddheśca / syādetat / buddhigatastāvadākāro 'parokṣamavabhāsate / sa kādācitkatvātkimapi kāraṇamepakṣamāṇo bāhyaṃ nīlādyanumāpayiṣyatīti / maivam / bāhyatayaiva nīlādyākārasya sphuraṇāt / kutra cedamulabdham, yatkādācitkaṃ tatkāraṇavaditi / jñāna eveti cet(na) / bāhyāpratyakṣatvavāde tatrāpi kāraṇatvānavadhāraṇāt / jñānaṃ pūrvajñānakāraṇakamupalabdhamiti cet / tarhyākāro 'pi pūrvākārajanyaḥ kalpyatām / kiṃ bāhyārthavyasanena / nīlajñānānaṃ(notpādāna)ntaraṃ pītajñānotpādadarśanānneti cet(na) / sadṛśajanyatvasya pareṇa kvāpyanupa(gantavya)labdhatvāt / *8,253* kiñca vāsanādikamāntarameva sahakārīkṛtya visadṛśa(meva)mapi jñānaṃ janayatīti kalpanīyam / na bāhyam / dṛṣṭenaiva kathañcidupapattāvadṛṣṭakalpanānupapatteḥ / ato bāhyo '(pyar)thaḥ pratyakṣasiddha iti śaṅkānāspadatvādidaṃ matamatra na dūṣitamityuktam / yadvā sphuṭatarānalpadoṣatvena śiṣyaireva heyatayā jñātuṃ śakyatvādityāśayenāha sarveti // sarvaloko bibhetyañjo yasmādanubhavāt sadā / tasyāpalāpinaḥ kiṃ na niṣpramāṇakavādinaḥ

Sanskrit only: no published translation is held for this verse.

माध्यमिकादयो ऽपि बाह्यार्था(द्वय)नपह्नुवाना अपि ह्यनुभवाद्बिभ्यतः सांवृवसत्त्वाद्यभ्युपयन्ति । ततः सर्वैरनुसरणीय एवायमनुभवः । तमपि यः सौत्रान्तिको ऽपलपति, अनुभवसिद्धाया अपरोक्षस्य नीला(द्या)कारस्य बाह्यताया अपाकरणात् । तथा निष्प्रमाणकं वदति, नीलाद्याकारस्य बुद्धिस्थतायां प्रमाणाभावात् । तस्य(स्याप्य) अनुभवस्य अपलापिनः निष्प्रमाणकवादिनस्तस्य सौत्रान्तिकस्य किं दूषणं न भवेत् । सर्वमपि भवेदिति । *८,२५४* "एकत्वमनुभूतिस्थम्ऽ"खदृष्टान्तात्ऽ"तस्यापलापिनःऽ; इति परपक्षे तत्र तत्रानुभवविरोधो ऽभिहितः । स कथमित्यतो ऽभिनयेन तं दर्शयति सो ऽहमिति ॥ *८,२५५* सो ऽहं तदिदमेवाहं सुखी सद् गगनं दिशः । सत्या इत्याद्यनुभवाः सदा तत्प्रतिपक्षगाः

mādhyamikādayo 'pi bāhyārthā(dvaya)napahnuvānā api hyanubhavādbibhyataḥ sāṃvṛvasattvādyabhyupayanti / tataḥ sarvairanusaraṇīya evāyamanubhavaḥ / tamapi yaḥ sautrāntiko 'palapati, anubhavasiddhāyā aparokṣasya nīlā(dyā)kārasya bāhyatāyā apākaraṇāt / tathā niṣpramāṇakaṃ vadati, nīlādyākārasya buddhisthatāyāṃ pramāṇābhāvāt / tasya(syāpya) anubhavasya apalāpinaḥ niṣpramāṇakavādinastasya sautrāntikasya kiṃ dūṣaṇaṃ na bhavet / sarvamapi bhavediti / *8,254* "ekatvamanubhūtistham'"khadṛṣṭāntāt'"tasyāpalāpinaḥ'; iti parapakṣe tatra tatrānubhavavirodho 'bhihitaḥ / sa kathamityato 'bhinayena taṃ darśayati so 'hamiti // *8,255* so 'haṃ tadidamevāhaṃ sukhī sad gaganaṃ diśaḥ / satyā ityādyanubhavāḥ sadā tatpratipakṣagāḥ

Sanskrit only: no published translation is held for this verse.

अत्र स एवाहमित्यात्मैकत्वाग्राही प्रत्यभिज्ञानुभवो दर्शितः । तदिदमित्यनात्मन । अहं सुखीति सुखस्य विधित्वानुभवः । सत् भावरूपं गगनं, दिशः सत्या भावरूपा इति गगनस्य (च) दिशां च भावत्वानुभवः । आदिपदादिदं नीलं नाहं नीलमित्यादेः (परिग्रहः) ग्रहणम् । तत्प्रतिपक्षगाः तदभ्युपगताथर्विरुद्धविषयाः । वैभाषिकसौत्रान्तिक(मत)समयनिराकरणमुपसंहरति अत इति ॥ अतो निर्मानमखिलप्रमाणप्रतिपक्षगम् । दुर्मतं को नु गृह्णीयाद् विनासुरततिं क्वचित्

atra sa evāhamityātmaikatvāgrāhī pratyabhijñānubhavo darśitaḥ / tadidamityanātmana / ahaṃ sukhīti sukhasya vidhitvānubhavaḥ / sat bhāvarūpaṃ gaganaṃ, diśaḥ satyā bhāvarūpā iti gaganasya (ca) diśāṃ ca bhāvatvānubhavaḥ / ādipadādidaṃ nīlaṃ nāhaṃ nīlamityādeḥ (parigrahaḥ) grahaṇam / tatpratipakṣagāḥ tadabhyupagatātharviruddhaviṣayāḥ / vaibhāṣikasautrāntika(mata)samayanirākaraṇamupasaṃharati ata iti // ato nirmānamakhilapramāṇapratipakṣagam / durmataṃ ko nu gṛhṇīyād vināsuratatiṃ kvacit

Sanskrit only: no published translation is held for this verse.

अपरः शून्यमखिलं मनोवाचामगोचरम् । निर्विशेषं स्वयम्भातं निर्लेपमजरामरम्

aparaḥ śūnyamakhilaṃ manovācāmagocaram / nirviśeṣaṃ svayambhātaṃ nirlepamajarāmaram

Sanskrit only: no published translation is held for this verse.

शून्यस्यैव । संव्रियते ऽनयेति संवृतिरविद्या । संवृतेः सत्यत्वे ऽद्वैतहानिरारोपितत्वे तु संवृत्यन्तरापेक्षेत्यतो ऽनादीत्युक्तम् । नानाभेदात्मकं पञ्चस्कन्धात्मकम् । शून्याविद्याकल्पितत्वादखिलं शून्यमित्युच्यते । न पुनस्तदेव तदिति । तत्किमसदेवेदम् । तथात्वे वा कथं सदिति प्रतिभासः । सत्त्वारोपात् । *८,२६३* पक्षान्तरमाह सत्यत्वमिति ॥ ॥। सत्यत्वं सांवृतं तस्य चेष्यते

śūnyasyaiva / saṃvriyate 'nayeti saṃvṛtiravidyā / saṃvṛteḥ satyatve 'dvaitahānirāropitatve tu saṃvṛtyantarāpekṣetyato 'nādītyuktam / nānābhedātmakaṃ pañcaskandhātmakam / śūnyāvidyākalpitatvādakhilaṃ śūnyamityucyate / na punastadeva taditi / tatkimasadevedam / tathātve vā kathaṃ saditi pratibhāsaḥ / sattvāropāt / *8,263* pakṣāntaramāha satyatvamiti // ... satyatvaṃ sāṃvṛtaṃ tasya ceṣyate

Sanskrit only: no published translation is held for this verse.

तस्य आरोपितस्य अपि जगतः, सांवृतं सत्यत्वमिष्यते ऽतो न सत्प्रत्ययविरोधः । अस्ति चेत् जगतः सत्त्वं कथं तर्ह्यसत् । येन सदिवाभातीत्युक्तमित्यत आह पारमार्थिकेति ॥ पारमार्थिकसत्त्वं तु शून्यादन्यस्य न क्वचित् सर्वथाबाध्यत्वं पारमाथिर्क(स)त्त्वं तदभावादसदिदं जगदुद्गीयत इति । पारमार्थिकसत्त्वाभावे कथं जगत्यर्थक्रियादिव्यवहार इत्यत आह सांवृतेनैवेति ॥ सांवृतेनैव सत्येन व्यवहारो ऽखिलो भवेत्

tasya āropitasya api jagataḥ, sāṃvṛtaṃ satyatvamiṣyate 'to na satpratyayavirodhaḥ / asti cet jagataḥ sattvaṃ kathaṃ tarhyasat / yena sadivābhātītyuktamityata āha pāramārthiketi // pāramārthikasattvaṃ tu śūnyādanyasya na kvacit sarvathābādhyatvaṃ pāramāthirka(sa)ttvaṃ tadabhāvādasadidaṃ jagadudgīyata iti / pāramārthikasattvābhāve kathaṃ jagatyarthakriyādivyavahāra ityata āha sāṃvṛtenaiveti // sāṃvṛtenaiva satyena vyavahāro 'khilo bhavet

Sanskrit only: no published translation is held for this verse.

सृष्टिकाले प्रवर्तत जायते । शून्यस्य निष्क्रियत्वात्कथं विश्वकर्तृत्वमित्यत उक्तम् संवृतियोगेनेति । अन्ते प्रलयकाले । स्तिमितं निष्क्रियम् । अनेन क्रियाविभागादिन्यायेन या विश्वस्य सत्यत्ववादिनां प्रलयप्रक्रिया सा निराक्रियते । स्वाप्नगजादिरिवेति शेषः । एवमुपन्यस्तमतनिरासाथर्त्वेनाधिकरणमवतारयति तमुद्दिश्येति ॥ ॥। तमुद्दिश्य जगाद जगतां गुरुः

sṛṣṭikāle pravartata jāyate / śūnyasya niṣkriyatvātkathaṃ viśvakartṛtvamityata uktam saṃvṛtiyogeneti / ante pralayakāle / stimitaṃ niṣkriyam / anena kriyāvibhāgādinyāyena yā viśvasya satyatvavādināṃ pralayaprakriyā sā nirākriyate / svāpnagajādiriveti śeṣaḥ / evamupanyastamatanirāsāthartvenādhikaraṇamavatārayati tamuddiśyeti // ... tamuddiśya jagāda jagatāṃ guruḥ

Sanskrit only: no published translation is held for this verse.

यत्तावदुक्तं शून्यादेवेदं जगदुत्पद्यत इति तद्यथाश्रुतमपाकर्तुं सूत्रम् ॐ नासतो ऽदृष्टत्वात् ॐ इति । तद्वयाचष्टे नासत इति ॥ *८,२६७* नासतो ऽदृष्टत्वात् । ब्ब्स् २,२।२६ । [सेचोन्द् तिमे!] नासतो जगतो भावो ॥। असतः सर्वविशेषनिर्मुक्तत्वेन गगनकुसुमसमानाच्छून्याज्जगतो भावो जन्म नोपपद्यते । कुत इत्यत आह न हीति ॥ ॥। नहि दृष्टासतो जनिः । सतः क्वचित् ॥। सतो भवतः कार्यस्येति यावत् । क्वचित् । असतो जनिर्न दृष्टा यतः । अत्र सर्वत्र शून्यस्यासत्त्वमापाद्य दूषणाभिधानमिति ज्ञातव्यम् । *८,२६८* स्यादेतत् । प्रमाणाभावः प्रमेयाभावं साधयति । न पुनः प्रमाणविशेषाभावः । मा हि भूदस्मदादिप्रत्यक्षव्यावृत्त्या धर्माद्यभावसिद्धिः । तदत्रापि प्रमाणाभावादिति हेतुर्वक्तव्यः । "अदृष्टत्वादितिऽ; प्रत्यक्षाभावकथनं तु कथम् । अनैकान्तिकत्वादित्यत आह प्रमाणं चेति ॥ ॥। प्रमाणं च दृष्टिरेवाखिलाद् वरम्

yattāvaduktaṃ śūnyādevedaṃ jagadutpadyata iti tadyathāśrutamapākartuṃ sūtram oṃ nāsato 'dṛṣṭatvāt oṃ iti / tadvayācaṣṭe nāsata iti // *8,267* nāsato 'dṛṣṭatvāt | BBs 2,2.26 | [second time!] nāsato jagato bhāvo ... asataḥ sarvaviśeṣanirmuktatvena gaganakusumasamānācchūnyājjagato bhāvo janma nopapadyate / kuta ityata āha na hīti // ... nahi dṛṣṭāsato janiḥ / sataḥ kvacit ... sato bhavataḥ kāryasyeti yāvat / kvacit / asato janirna dṛṣṭā yataḥ / atra sarvatra śūnyasyāsattvamāpādya dūṣaṇābhidhānamiti jñātavyam / *8,268* syādetat / pramāṇābhāvaḥ prameyābhāvaṃ sādhayati / na punaḥ pramāṇaviśeṣābhāvaḥ / mā hi bhūdasmadādipratyakṣavyāvṛttyā dharmādyabhāvasiddhiḥ / tadatrāpi pramāṇābhāvāditi heturvaktavyaḥ / "adṛṣṭatvāditi'; pratyakṣābhāvakathanaṃ tu katham / anaikāntikatvādityata āha pramāṇaṃ ceti // ... pramāṇaṃ ca dṛṣṭirevākhilād varam

Sanskrit only: no published translation is held for this verse.

यद्येवं सप्तमरसान्मधुरादिव पीनता । भवेज्जनस्य मार्जारृङ्गं गोरिव घातकम्

yadyevaṃ saptamarasānmadhurādiva pīnatā / bhavejjanasya mārjārṛṅgaṃ goriva ghātakam

Sanskrit only: no published translation is held for this verse.

यद्यसत एव यत्किञ्चित्कार्यं जायेत तदा मधुरादिव सप्तमरसाञ्जनस्य पीनता स्यात् । गोः शृङ्गमिव मार्जारृङ्गमपि जनस्य घातकं भवेदविशेषादित्यनेन एवं सत्युदासीनानां हेयो(पादेयो)पेक्षणीयबुद्धयविषयाणां सप्तमरसादीनामपि सकाशात् पीनत्वादिकार्यस्य सिद्धिः प्रसज्येतेति सूत्रं व्याख्यातं भवति । *८,२७३* प्रकारान्तरेण व्याख्याति कार्यार्थीति ॥ कार्यार्थी कारणं सच्च नोपादद्यात् कथञ्चन यद्यसत एव कार्यमुत्पद्यते तदा पटादिकार्यार्थी कुविन्दादिः सत् तन्त्वादिकारणं सर्वथा नोपाददीत । असत एव पटाद्युत्पत्तेः । अतिप्रसङ्गान्तरमाह नेति ॥ न प्रवर्तेत चेष्याय शून्यादेवेष्यसम्भवात्

yadyasata eva yatkiñcitkāryaṃ jāyeta tadā madhurādiva saptamarasāñjanasya pīnatā syāt / goḥ śṛṅgamiva mārjārṛṅgamapi janasya ghātakaṃ bhavedaviśeṣādityanena evaṃ satyudāsīnānāṃ heyo(pādeyo)pekṣaṇīyabuddhayaviṣayāṇāṃ saptamarasādīnāmapi sakāśāt pīnatvādikāryasya siddhiḥ prasajyeteti sūtraṃ vyākhyātaṃ bhavati / *8,273* prakārāntareṇa vyākhyāti kāryārthīti // kāryārthī kāraṇaṃ sacca nopādadyāt kathañcana yadyasata eva kāryamutpadyate tadā paṭādikāryārthī kuvindādiḥ sat tantvādikāraṇaṃ sarvathā nopādadīta / asata eva paṭādyutpatteḥ / atiprasaṅgāntaramāha neti // na pravarteta ceṣyāya śūnyādeveṣyasambhavāt

Sanskrit only: no published translation is held for this verse.

न केवलमसतः कार्योत्पत्तौ सत्कारणोपादानानुपपत्तिः । किन्त्विष्याय पटाद्युत्पादाय न प्रवर्तेत । न प्रयतेत च । कुतः । शून्यादेवेष्यसम्भवात् । एतेन तन्त्वाद्युपादानादु(द्यु)दासीनानां चिकीर्षादिरहितानां च पुंसां पटादिसिद्धिः स्यादिति सूत्रं व्याख्यातं भवति । *८,२७४* प्रकारान्तरेण व्याख्याति देशेति ॥ देशकालादिनियमो निंह शून्यात् सतो भवेत् शून्यात्सतः शून्यादेव भवतः कार्यस्य देशकालावस्थानियमो न भवेत् । तथाहि । यदि जगच्छून्यादेव भवेत् तदा गोधूमाः कृष्णभूमौ सम्पद्यन्ते न पाण्डुभूमौ । वसन्ते किंशुकाः पुष्पिता भवन्ति । न वर्षासु । त्रिहायिण्येव गौर्गर्भं धत्ते नान्यथा । सतुषा एव व्रीहयो ऽङ्कुरानुत्पादयन्ति नेतरथेत्यादिदेशकालादिनियमः कार्योत्पत्तौ न स्यात् । शून्यस्य सर्वत्राविशिष्टत्वात् । अनेनोदासीनानां देशकालादिनियमानपेक्षाणामपि कार्याणां सिद्धिरुत्पत्तिः स्यादिति सूत्रं व्याख्यातं भवति । शून्यादेव कार्योत्पत्तौ कुर्त्रुपादाननिमित्तापेक्षा न स्यादिति समुदायार्थः । *८,२७५* नन्वादिसृष्टावेव शून्यात्कार्योत्पादं ब्रूमो न सर्वदा । अन्यदा तु कर्त्रादिकाणगणादेव । अतो नातिप्रसङ्ग इत्यत आह पुरुषेति ॥ पुरुषेच्छानुसारेण यदि किञ्चित् प्रजायते

na kevalamasataḥ kāryotpattau satkāraṇopādānānupapattiḥ / kintviṣyāya paṭādyutpādāya na pravarteta / na prayateta ca / kutaḥ / śūnyādeveṣyasambhavāt / etena tantvādyupādānādu(dyu)dāsīnānāṃ cikīrṣādirahitānāṃ ca puṃsāṃ paṭādisiddhiḥ syāditi sūtraṃ vyākhyātaṃ bhavati / *8,274* prakārāntareṇa vyākhyāti deśeti // deśakālādiniyamo niṃha śūnyāt sato bhavet śūnyātsataḥ śūnyādeva bhavataḥ kāryasya deśakālāvasthāniyamo na bhavet / tathāhi / yadi jagacchūnyādeva bhavet tadā godhūmāḥ kṛṣṇabhūmau sampadyante na pāṇḍubhūmau / vasante kiṃśukāḥ puṣpitā bhavanti / na varṣāsu / trihāyiṇyeva gaurgarbhaṃ dhatte nānyathā / satuṣā eva vrīhayo 'ṅkurānutpādayanti netarathetyādideśakālādiniyamaḥ kāryotpattau na syāt / śūnyasya sarvatrāviśiṣṭatvāt / anenodāsīnānāṃ deśakālādiniyamānapekṣāṇāmapi kāryāṇāṃ siddhirutpattiḥ syāditi sūtraṃ vyākhyātaṃ bhavati / śūnyādeva kāryotpattau kurtrupādānanimittāpekṣā na syāditi samudāyārthaḥ / *8,275* nanvādisṛṣṭāveva śūnyātkāryotpādaṃ brūmo na sarvadā / anyadā tu kartrādikāṇagaṇādeva / ato nātiprasaṅga ityata āha puruṣeti // puruṣecchānusāreṇa yadi kiñcit prajāyate

Sanskrit only: no published translation is held for this verse.

॥। नचाभावो विश्वं सदिति गम्यते

... nacābhāvo viśvaṃ saditi gamyate

Sanskrit only: no published translation is held for this verse.

यतो ॥। भवतीति भावः । न भावो ऽभावः । असदिति यावत् । सदिति गम्यते यत इत्यनेन विश्वसत्यत्वे प्रत्यक्षं प्रमाणमुक्तं वेदितव्यम् । प्रत्यक्षेण सदित्यनुभूयमानमपि विश्वमसच्चेत्को दोष इत्यत आह अनुभवेति ॥ ॥। ऽनुभवरोधे तु वचनं वादिनः कुतः यदि च प्राश्निकाद्यवगतं कथं मद्वचनं नास्तीति ब्रूयात् तदाङ्गीकृतं प्रत्यक्षस्य प्रामाण्यमिति सत्त्वेन तदवगतं विश्वं कतमसत्स्यादिति । *८,२७९* उक्तदोषपरिहारं शङ्कते स्वप्नेति ॥ स्वप्नभ्रान्तिवदेवेदं संवृत्त्यैवोपलभ्यते

yato ... bhavatīti bhāvaḥ / na bhāvo 'bhāvaḥ / asaditi yāvat / saditi gamyate yata ityanena viśvasatyatve pratyakṣaṃ pramāṇamuktaṃ veditavyam / pratyakṣeṇa sadityanubhūyamānamapi viśvamasaccetko doṣa ityata āha anubhaveti // ... 'nubhavarodhe tu vacanaṃ vādinaḥ kutaḥ yadi ca prāśnikādyavagataṃ kathaṃ madvacanaṃ nāstīti brūyāt tadāṅgīkṛtaṃ pratyakṣasya prāmāṇyamiti sattvena tadavagataṃ viśvaṃ katamasatsyāditi / *8,279* uktadoṣaparihāraṃ śaṅkate svapneti // svapnabhrāntivadevedaṃ saṃvṛttyaivopalabhyate

Sanskrit only: no published translation is held for this verse.

यदि सत्त्वेन ॥।

yadi sattvena ...

Sanskrit only: no published translation is held for this verse.

अनादितो ऽनुवृत्तस्येत्यर्थः । विश्वस्य तत्प्रत्ययस्य, निवृत्तिः बाधः । निवर्तेत बाध्येत । यदि प्रत्ययत्वात्प्रपञ्चप्रत्ययस्य बाधो ऽनुमीयते, तदावश्यं बाधप्रत्ययस्यापि बाधेन भाव्यम् । अन्यथा प्रत्ययत्वहेतोस्तत्र व्यभिचारापत्तेः । बाधकप्रत्ययस्य बाध्यत्वे प्रपञ्चप्रत्ययस्य याथार्थ्यसिद्धिः । तिष्ठतु तावत्परमार्थचिन्ता, व्यावहारिके तु तथा दृष्टमेव । न केवलमिदमापादनं किन्तु सम्भावितं चैतत् । यत्प्रपञ्चप्रत्ययस्य याथार्थ्यं तन्नास्तिताप्रत्ययस्य बाध्यत्वात् । अनादितो ऽनुवृत्तस्यानेकसजातीयविजातीयसंवाद(व)तो याथार्थ्यसम्भवात् । कादाचित्कस्य संवादविधुर(रुद्ध)त्वेन भ्रमत्वसम्भवादिति । *८,२८५* ननु च प्रपञ्चनिवृत्तिर्नाम शून्यमेव । तच्च परमार्थरूपं न कल्पितमदृष्टत्वात् । तत्कथं तत्प्रत्ययस्य बाध्यता स्यात् । किन्तु प्रपञ्चस्य दृष्टत्वेन कल्पितत्वसम्भवात्तत्प्रत्यय एव बाध्यः । हेतुश्च प्रपञ्चप्रत्ययत्वेन विवेक्तव्य इत्यत आह दृष्टस्येति ॥ दृष्टस्य भ्रान्तिता चेत् स्याददृष्टे न भ्रमः कुतः भ्रान्तिताभ्रमशब्दाभ्यां कल्पितत्वमुच्यते । इदमुक्तं भवति । विपरतीमेतदुक्तं यत्सर्वप्रमाणदृष्टस्य प्रपञ्चस्य कल्पितत्वमादाय तत्सत्ताप्रत्ययस्य बाध्यत्वस्वीकरणम् । केनापि प्रमाणेनादृष्टस्य शून्यस्याकल्पितत्वं गृहीत्वा तत्सत्त्वप्रत्ययस्याबाध्यत्वोपादानम् । प्रामाणिकमकल्पितम् अप्रामाणिकं चाङ्गीक्रियमाणं कल्पितमिति सर्वसम्मतत्वादिति । *८,२८६* एतदेव दृष्टान्तेन दर्शयति गवामिति ॥ गवामशृङ्गिभावेन नहि स्याच्छशशृङ्गिता

anādito 'nuvṛttasyetyarthaḥ / viśvasya tatpratyayasya, nivṛttiḥ bādhaḥ / nivarteta bādhyeta / yadi pratyayatvātprapañcapratyayasya bādho 'numīyate, tadāvaśyaṃ bādhapratyayasyāpi bādhena bhāvyam / anyathā pratyayatvahetostatra vyabhicārāpatteḥ / bādhakapratyayasya bādhyatve prapañcapratyayasya yāthārthyasiddhiḥ / tiṣṭhatu tāvatparamārthacintā, vyāvahārike tu tathā dṛṣṭameva / na kevalamidamāpādanaṃ kintu sambhāvitaṃ caitat / yatprapañcapratyayasya yāthārthyaṃ tannāstitāpratyayasya bādhyatvāt / anādito 'nuvṛttasyānekasajātīyavijātīyasaṃvāda(va)to yāthārthyasambhavāt / kādācitkasya saṃvādavidhura(ruddha)tvena bhramatvasambhavāditi / *8,285* nanu ca prapañcanivṛttirnāma śūnyameva / tacca paramārtharūpaṃ na kalpitamadṛṣṭatvāt / tatkathaṃ tatpratyayasya bādhyatā syāt / kintu prapañcasya dṛṣṭatvena kalpitatvasambhavāttatpratyaya eva bādhyaḥ / hetuśca prapañcapratyayatvena vivektavya ityata āha dṛṣṭasyeti // dṛṣṭasya bhrāntitā cet syādadṛṣṭe na bhramaḥ kutaḥ bhrāntitābhramaśabdābhyāṃ kalpitatvamucyate / idamuktaṃ bhavati / viparatīmetaduktaṃ yatsarvapramāṇadṛṣṭasya prapañcasya kalpitatvamādāya tatsattāpratyayasya bādhyatvasvīkaraṇam / kenāpi pramāṇenādṛṣṭasya śūnyasyākalpitatvaṃ gṛhītvā tatsattvapratyayasyābādhyatvopādānam / prāmāṇikamakalpitam aprāmāṇikaṃ cāṅgīkriyamāṇaṃ kalpitamiti sarvasammatatvāditi / *8,286* etadeva dṛṣṭāntena darśayati gavāmiti // gavāmaśṛṅgibhāvena nahi syācchaśaśṛṅgitā

Sanskrit only: no published translation is held for this verse.

अशृङ्गिभावेन सहितेति शेषः । कश्चिद्गवां शृङ्गितवमस्तीत्याह कश्चिच्छशस्येति । तत्र परोक्तरीत्या गवां शृङ्गिता कल्पिता, दृष्टत्वात् । शशशृङ्गिता त्वकल्पितादृष्टत्वादिति स्यात् । न ह्येवं लोके प्रतीतिः लोकानुसारेणैव च परमार्थो बोद्धव्यो नान्यथा । लोकन्यायस्यैव तद्बोधोपायत्वादिति । तदेवं प्रत्यक्षबलेन विश्वसत्यता साधिता । तद्बाधकशङ्का च परिहृता । ततः किं सिद्धमित्यतो यदुक्तं पूर्वपक्षिणा सतो ऽपि कारणत्वे प्रमाणाभाव इति तत्परिहृतमिति वदन्समीकरणान्तरमपि परिहरति अस्माकं त्विति ॥ अस्माकं तु प्रमाणेन प्रसादादीश्वरस्य च । उक्तभङ्गयाऽगमानां च प्रामाण्याद् युज्यते ऽखिलम्

aśṛṅgibhāvena sahiteti śeṣaḥ / kaścidgavāṃ śṛṅgitavamastītyāha kaścicchaśasyeti / tatra paroktarītyā gavāṃ śṛṅgitā kalpitā, dṛṣṭatvāt / śaśaśṛṅgitā tvakalpitādṛṣṭatvāditi syāt / na hyevaṃ loke pratītiḥ lokānusāreṇaiva ca paramārtho boddhavyo nānyathā / lokanyāyasyaiva tadbodhopāyatvāditi / tadevaṃ pratyakṣabalena viśvasatyatā sādhitā / tadbādhakaśaṅkā ca parihṛtā / tataḥ kiṃ siddhamityato yaduktaṃ pūrvapakṣiṇā sato 'pi kāraṇatve pramāṇābhāva iti tatparihṛtamiti vadansamīkaraṇāntaramapi pariharati asmākaṃ tviti // asmākaṃ tu pramāṇena prasādādīśvarasya ca / uktabhaṅgayā'gamānāṃ ca prāmāṇyād yujyate 'khilam

Sanskrit only: no published translation is held for this verse.

सत्कारणत्ववादिनाम् अखिलं परेणाक्षिप्तं युज्यते । कथम् । बाधविधुरेण प्रमाणेन जगतः सत्यत्वसिद्धौ मधुरादीनां पुष्ययादिकारणानां सत्त्वसिद्धेः । तन्त्वादीनां च विचित्रस्वभावतया प्रमाणेन सिद्धानां न मृदादिकार्यकारित्वप्रसङ्गः । नहि सत इवासतो ऽपि स्वभावभेदो ऽसत्त्वव्याघातात् । प्रमाणेनैव सतः कारणत्वोपलब्धेरनुपपत्तिराभासभूतैव । प्रमाणेन सत्तया प्रमितानां मधुरादीनां सद्बुद्धिमात्रवैलक्षण्यकल्पना त्ययुक्तैव । अन्यथा सद्बुद्धयावगतात्सप्तमरसादपि पीनता सती स्यात् । ईश्वरस्य सर्वकारणत्वे ऽपि तन्त्वाद्यपेक्षा पुरुषप्रयत्नाद्यपेक्षा देशकालादिनियमश्च युज्यत एव । तन्त्वाद्यपेक्षयैव कार्यमुत्पद्यतामितीश्वरस्य प्रसादात् सङ्कल्पात् । नचैवं निर्विशेषस्य शून्यस्य सङ्कल्पो युज्यते । नचैतदप्रामाणिकम् । आरम्भणाधिकरणोक्तरीत्यात्रागमानुमानादीनां प्रमारत्वात् । नच वेदाद्यागमप्रामाण्यमसिद्धम् । प्रथमसूत्रोक्तरीत्याऽगमप्रामाण्यस्य सिद्धत्वात् । अनुमाने ऽतिप्रसङ्गो ऽप्यागमप्रामाण्येनैवापास्त इति । ब्रह्मादीन्सृष्टयादावीश्वरस्तेषु कृपयापेक्षते परमेश्वरनियोगानुष्ठाने तेषां परमपुरुषार्थलाभादिति ज्ञापयितुं प्रसादादित्युक्तम् । *८,२८९* प्राग्विश्व(स्य)सत्यत्वसाधनायोपन्यस्तस्य प्रत्यक्षस्यान्यथासिद्धिमाशङ्कय तत्परिहारत्वेन वैधर्म्याच्च न स्वप्नादिवदिति सूत्रं व्याख्यातम् । इदानीं विश्वमिथ्यात्वे पराभिहितस्य अनुमानस्य दूषकत्वेनापि (तद्वया)व्याख्यातुं मिथ्यात्वे ऽनुमानं तावच्छङ्कते दृश्यत्वादिति ॥ दृश्यत्वाद् विमंत मिथ्या स्वप्नवच्चेद् ॥। सर्वं मिथ्येत्युक्ते सम्प्रतिपन्नमिथ्यात्वे शुक्तिरजतादौ सिद्धसाधनता, शून्ये बाधः (च) स्यात् । अतः सत्यत्वमिथ्यात्वाभ्यां विमतमित्युक्तम् । विमतं गगनादिकं मिथ्या दृश्यत्वात् स्वप्नवदित्यनुमानेन विश्वमिथ्यात्वसिद्धेः कथं (तत्स)सत्यत्वमङ्गीक्रियत इत्यर्थः *८,२९१* दूषयितुं पृच्छति इयं चेति ॥ ॥। इयं च मा तिष्ठतु तावद्विश्वम् । इयं च मा इदमेव दृश्यत्वानुमानम् । मिथ्या सत्यं (त्या वे) वेति शेषः । आद्यं दूषयति मिथ्येति ॥ मिथ्या चेत् साध्यसिद्धिर् न ॥। नहि शब्दे ऽविद्यमानेन चाक्षुषत्वेन शब्दानित्यत्वं सिद्धयतीति भावः । द्वितीये दृश्यत्वं दृश्यमदृश्यं वा । प्रथमं दूषयति व्यभिचार इति ॥ ॥। व्यभिचारो न चेद् भवेत्

satkāraṇatvavādinām akhilaṃ pareṇākṣiptaṃ yujyate / katham / bādhavidhureṇa pramāṇena jagataḥ satyatvasiddhau madhurādīnāṃ puṣyayādikāraṇānāṃ sattvasiddheḥ / tantvādīnāṃ ca vicitrasvabhāvatayā pramāṇena siddhānāṃ na mṛdādikāryakāritvaprasaṅgaḥ / nahi sata ivāsato 'pi svabhāvabhedo 'sattvavyāghātāt / pramāṇenaiva sataḥ kāraṇatvopalabdheranupapattirābhāsabhūtaiva / pramāṇena sattayā pramitānāṃ madhurādīnāṃ sadbuddhimātravailakṣaṇyakalpanā tyayuktaiva / anyathā sadbuddhayāvagatātsaptamarasādapi pīnatā satī syāt / īśvarasya sarvakāraṇatve 'pi tantvādyapekṣā puruṣaprayatnādyapekṣā deśakālādiniyamaśca yujyata eva / tantvādyapekṣayaiva kāryamutpadyatāmitīśvarasya prasādāt saṅkalpāt / nacaivaṃ nirviśeṣasya śūnyasya saṅkalpo yujyate / nacaitadaprāmāṇikam / ārambhaṇādhikaraṇoktarītyātrāgamānumānādīnāṃ pramāratvāt / naca vedādyāgamaprāmāṇyamasiddham / prathamasūtroktarītyā'gamaprāmāṇyasya siddhatvāt / anumāne 'tiprasaṅgo 'pyāgamaprāmāṇyenaivāpāsta iti / brahmādīnsṛṣṭayādāvīśvarasteṣu kṛpayāpekṣate parameśvaraniyogānuṣṭhāne teṣāṃ paramapuruṣārthalābhāditi jñāpayituṃ prasādādityuktam / *8,289* prāgviśva(sya)satyatvasādhanāyopanyastasya pratyakṣasyānyathāsiddhimāśaṅkaya tatparihāratvena vaidharmyācca na svapnādivaditi sūtraṃ vyākhyātam / idānīṃ viśvamithyātve parābhihitasya anumānasya dūṣakatvenāpi (tadvayā)vyākhyātuṃ mithyātve 'numānaṃ tāvacchaṅkate dṛśyatvāditi // dṛśyatvād vimaṃta mithyā svapnavacced ... sarvaṃ mithyetyukte sampratipannamithyātve śuktirajatādau siddhasādhanatā, śūnye bādhaḥ (ca) syāt / ataḥ satyatvamithyātvābhyāṃ vimatamityuktam / vimataṃ gaganādikaṃ mithyā dṛśyatvāt svapnavadityanumānena viśvamithyātvasiddheḥ kathaṃ (tatsa)satyatvamaṅgīkriyata ityarthaḥ *8,291* dūṣayituṃ pṛcchati iyaṃ ceti // ... iyaṃ ca mā tiṣṭhatu tāvadviśvam / iyaṃ ca mā idameva dṛśyatvānumānam / mithyā satyaṃ (tyā ve) veti śeṣaḥ / ādyaṃ dūṣayati mithyeti // mithyā cet sādhyasiddhir na ... nahi śabde 'vidyamānena cākṣuṣatvena śabdānityatvaṃ siddhayatīti bhāvaḥ / dvitīye dṛśyatvaṃ dṛśyamadṛśyaṃ vā / prathamaṃ dūṣayati vyabhicāra iti // ... vyabhicāro na ced bhavet

Sanskrit only: no published translation is held for this verse.

दृश्यत्वं मिथ्या न चेदथ च दृश्यम् । तदा (दृश्यत्वस्य) दृश्यत्व एव व्यभिचारो भवेत् । द्वितीये त्वज्ञानासिद्धता हेतोरिति भावः । *८,२९२* स्यादेतत् । मिथ्यैव दृश्यत्वमिति ब्रूमः । नचैवं साध्यासाधकत्वम् । वर्णदैर्घ्यादीनां मिथ्याभूतानामपि साधकत्वस्योभयसिद्धत्वात् । चाक्षुषत्वादीनां त्वारोपाभावात् । आरोपे ऽप्यसांव्यावहारिकत्वादसाधकत्वं, न तु मिथ्यात्वादित्यत आह साधकत्वमिति ॥ साधकत्वमसत्यस्य साध्यं विप्रतिपत्तितः यत्रोदाहरणे मिथ्यात्वं सम्प्रतिपन्नं तत्र साधकत्वे, यत्र च साधकत्वं संमतं तत्र मिथ्यात्वे विप्रतिपत्तितो ऽसत्यस्य साधकत्वं साध्यमेव, न पुनरस्माकं सिद्धमिति । *८,२९३* विप्रतिपत्तौ साधकत्वं मिथ्यात्वं वा साधयिष्यामीति चेत् । किं सत्येन प्रमाणेनोत मिथ्याभूतेन । आद्ये तूक्तमेवोत्तरम् । द्वितीये दोषमाह तस्य चेति ॥ तस्य च ॥। नहि क्वाप्यस्माकं मिथ्याभूतस्य साधकत्वं सम्मतम् । अतस्तस्यापि साधकत्वं साध्यमेव । तस्यापि साधकत्वं साधयिष्यामीत्यत आह इतीति ॥ ॥। इत्यनवस्था स्यात् ॥। पूर्वोक्तप्रकारेणेत्यर्थः । नहि सर्वमसत्यं साधकमित्येकं प्रमाणमस्ति । नापि सद्वादी कदापि सत्त्वासत्त्वोदासीनेन प्रमाणेन साध्यसिद्धिमङ्गीकुर्यात् । येनानवस्थाशान्तिर्भवेदिति । *८,२९४* एवमसिद्धिव्यभिचाराभ्यामनुमानं निराकृत्य प्रमाणबाधं चाह सत्त्वं चेति ॥ ॥। सत्त्वं चास्यानुभूतितः

dṛśyatvaṃ mithyā na cedatha ca dṛśyam / tadā (dṛśyatvasya) dṛśyatva eva vyabhicāro bhavet / dvitīye tvajñānāsiddhatā hetoriti bhāvaḥ / *8,292* syādetat / mithyaiva dṛśyatvamiti brūmaḥ / nacaivaṃ sādhyāsādhakatvam / varṇadairghyādīnāṃ mithyābhūtānāmapi sādhakatvasyobhayasiddhatvāt / cākṣuṣatvādīnāṃ tvāropābhāvāt / ārope 'pyasāṃvyāvahārikatvādasādhakatvaṃ, na tu mithyātvādityata āha sādhakatvamiti // sādhakatvamasatyasya sādhyaṃ vipratipattitaḥ yatrodāharaṇe mithyātvaṃ sampratipannaṃ tatra sādhakatve, yatra ca sādhakatvaṃ saṃmataṃ tatra mithyātve vipratipattito 'satyasya sādhakatvaṃ sādhyameva, na punarasmākaṃ siddhamiti / *8,293* vipratipattau sādhakatvaṃ mithyātvaṃ vā sādhayiṣyāmīti cet / kiṃ satyena pramāṇenota mithyābhūtena / ādye tūktamevottaram / dvitīye doṣamāha tasya ceti // tasya ca ... nahi kvāpyasmākaṃ mithyābhūtasya sādhakatvaṃ sammatam / atastasyāpi sādhakatvaṃ sādhyameva / tasyāpi sādhakatvaṃ sādhayiṣyāmītyata āha itīti // ... ityanavasthā syāt ... pūrvoktaprakāreṇetyarthaḥ / nahi sarvamasatyaṃ sādhakamityekaṃ pramāṇamasti / nāpi sadvādī kadāpi sattvāsattvodāsīnena pramāṇena sādhyasiddhimaṅgīkuryāt / yenānavasthāśāntirbhavediti / *8,294* evamasiddhivyabhicārābhyāmanumānaṃ nirākṛtya pramāṇabādhaṃ cāha sattvaṃ ceti // ... sattvaṃ cāsyānubhūtitaḥ

Sanskrit only: no published translation is held for this verse.

अस्य प्रपञ्चस्य । अनुभूतितः सिद्धमतो बाधितविषयं चानुमानमिति शेषः । न केवलं दृश्यत्वानुमानस्यानेन दोषेणाभासत्त्वं, किन्तु यदन्यदपि प्रपञ्चमिथ्यात्वे ऽनुमानं जडत्वं वा परिच्छिन्नत्वं वा परैरुच्यते तस्यापीत्याह अनुभूतीति ॥ अनुभूतिविरोधेन मिथ्यात्वे मा न काचन उपलक्षणमेतत् । पूर्वोक्तव्यभिचारासिद्धिभ्यां चेत्यपि द्रष्टव्यम् । तथाहि । जडत्वादिकं सत्यं मिथ्या वा । आद्ये जडत्वादिमन्न वा । प्रथमे व्यभिचारः । द्वितीये ऽपसिद्धान्तः । मिथ्या चेत्साध्यसिद्धिर्नेति । *८,२९५* भवेदसत्त्वमनुमानानां यद्यनुभवविरोधो भवेत् । न चासावस्ति, मिथ्यात्वापरपर्यायं बाध्यत्वं ह्यनुमानसाध्यम् । नच तदभावः प्रत्यक्षेण वेद्यः । तस्य वर्तमानमात्रविषयत्वेन कथञ्चिद्वर्तमानकालीनाबाधाभावविषयत्वे ऽपि कालान्तर(गत)भाविबाधाभावविषयत्वायोगादित्यत आह अतीतेति ॥ *८,२९६* अतीतानागतौ कालावपि नः साक्षिगोचरौ अत्रातीतग्रहणं प्रासङ्गिकम् । न केवलं वर्तमान इत्यपेरर्थः । नः सर्वेषाम् । अन्यथा तद्विशिष्टव्यवहारानुपप(त्ते)त्तिरिति भावः । *८,२९७* किमतो यद्येवमवर्तमानो ऽपि कालः साक्षिगोचर इत्यत आह तदिति ॥ तत्सम्बन्धितया सत्त्वमपि ॥। कालान्तरसम्बन्धितया सत्त्वमबाध्यत्वम् । न केवलं वर्तमानकालीनबाधाभावो ऽनुभववेद्यः । किन्तु सर्वकालगतो ऽपीत्यर्थः । तत्कथमित्यत उक्तम् दृष्टस्येति ॥ ॥। दृष्टस्य साक्षिगम्

asya prapañcasya / anubhūtitaḥ siddhamato bādhitaviṣayaṃ cānumānamiti śeṣaḥ / na kevalaṃ dṛśyatvānumānasyānena doṣeṇābhāsattvaṃ, kintu yadanyadapi prapañcamithyātve 'numānaṃ jaḍatvaṃ vā paricchinnatvaṃ vā parairucyate tasyāpītyāha anubhūtīti // anubhūtivirodhena mithyātve mā na kācana upalakṣaṇametat / pūrvoktavyabhicārāsiddhibhyāṃ cetyapi draṣṭavyam / tathāhi / jaḍatvādikaṃ satyaṃ mithyā vā / ādye jaḍatvādimanna vā / prathame vyabhicāraḥ / dvitīye 'pasiddhāntaḥ / mithyā cetsādhyasiddhirneti / *8,295* bhavedasattvamanumānānāṃ yadyanubhavavirodho bhavet / na cāsāvasti, mithyātvāparaparyāyaṃ bādhyatvaṃ hyanumānasādhyam / naca tadabhāvaḥ pratyakṣeṇa vedyaḥ / tasya vartamānamātraviṣayatvena kathañcidvartamānakālīnābādhābhāvaviṣayatve 'pi kālāntara(gata)bhāvibādhābhāvaviṣayatvāyogādityata āha atīteti // *8,296* atītānāgatau kālāvapi naḥ sākṣigocarau atrātītagrahaṇaṃ prāsaṅgikam / na kevalaṃ vartamāna ityaperarthaḥ / naḥ sarveṣām / anyathā tadviśiṣṭavyavahārānupapa(tte)ttiriti bhāvaḥ / *8,297* kimato yadyevamavartamāno 'pi kālaḥ sākṣigocara ityata āha taditi // tatsambandhitayā sattvamapi ... kālāntarasambandhitayā sattvamabādhyatvam / na kevalaṃ vartamānakālīnabādhābhāvo 'nubhavavedyaḥ / kintu sarvakālagato 'pītyarthaḥ / tatkathamityata uktam dṛṣṭasyeti // ... dṛṣṭasya sākṣigam

Sanskrit only: no published translation is held for this verse.

प्रत्यक्षादिप्रतीतिविषयस्य । प्रत्यक्षादिप्रतीतीनां प्रामाण्यस्य साक्षिणा ग्रहणादिति भावः । *८,२९८* नहि विषयस्य त्रैकालिकाबाध्यत्वमनन्तर्भाव्य तत्प्रतीतेः प्रामाण्यं शक्यग्रहणम् । यदि प्रतीतिं गृह्णन् साक्षी तत्प्रामाण्यग्रहणस्वभावत्वात्तद्गृह्णंस्तद्विषयस्य त्रैकालिकाबाध्यत्वं व्यवस्थापयेत्तदा शुक्तिरजतादिप्रतीतेरपि स एव ग्राहक इति तस्या अपि प्रामाण्यं गृह्णीयात् । तथाच तद्विषयस्यापि रजतादेस्त्रैकालिकाबाध्यत्वं सिद्धयेदित्यतो दृष्टशब्दं व्याख्याति दृढेति ॥ दृढदृष्टं तु यद् दृष्टं दृष्टाभासस्ततो ऽपरम्

pratyakṣādipratītiviṣayasya / pratyakṣādipratītīnāṃ prāmāṇyasya sākṣiṇā grahaṇāditi bhāvaḥ / *8,298* nahi viṣayasya traikālikābādhyatvamanantarbhāvya tatpratīteḥ prāmāṇyaṃ śakyagrahaṇam / yadi pratītiṃ gṛhṇan sākṣī tatprāmāṇyagrahaṇasvabhāvatvāttadgṛhṇaṃstadviṣayasya traikālikābādhyatvaṃ vyavasthāpayettadā śuktirajatādipratīterapi sa eva grāhaka iti tasyā api prāmāṇyaṃ gṛhṇīyāt / tathāca tadviṣayasyāpi rajatādestraikālikābādhyatvaṃ siddhayedityato dṛṣṭaśabdaṃ vyākhyāti dṛḍheti // dṛḍhadṛṣṭaṃ tu yad dṛṣṭaṃ dṛṣṭābhāsastato 'param

Sanskrit only: no published translation is held for this verse.

व्यभिचारो निवृत्तिः । नायं विशेषो ऽङ्गीकर्तुं शक्यते, अप्रामाणिकत्वात् । न ह्यप्रामाणिकेन शृङ्गेणाश्वो ऽन्यतो वि(शि)शेष्यमाणो दृश्यत इति । नन्विदं कदाचिद्बाधिष्यते दृश्यत्वाच्छुक्तिरजतादिवदित्यनुमानस्य सत्त्वात्कथमत्र प्रमाणाभाव इत्यतः (तस्यो)स्वोक्तं दोषं स्मारयति प्रमेति ॥ ॥। प्रमा सा च न भवेत् स्वविरोधतः

vyabhicāro nivṛttiḥ / nāyaṃ viśeṣo 'ṅgīkartuṃ śakyate, aprāmāṇikatvāt / na hyaprāmāṇikena śṛṅgeṇāśvo 'nyato vi(śi)śeṣyamāṇo dṛśyata iti / nanvidaṃ kadācidbādhiṣyate dṛśyatvācchuktirajatādivadityanumānasya sattvātkathamatra pramāṇābhāva ityataḥ (tasyo)svoktaṃ doṣaṃ smārayati prameti // ... pramā sā ca na bhavet svavirodhataḥ

Sanskrit only: no published translation is held for this verse.

आदिपदेन विशेषणप्रतियागिनोर्ग्रहणम् । यदि गृह्यत इति शेषः । तर्हीति च । अयमर्थः । यदि प्रपञ्चो सांवृतो न स्यात्तदा प्रत्यक्षो ऽप्यसौ न स्यात् । तथाहि । अनेकमेदभिन्नो हि प्रपञ्च इष्यते । भेदस्य चाप्रत्यक्षतायां सो ऽप्यप्रत्यक्ष एव । विना भेदेन तत्प्रतीतावद्वितीयशून्यप्रतीत्यापत्तेः । नच भेदप्रतीतिरुपपद्यते । भेदो हि प्रतीयमानो घटपटौ भिन्नाविति घटपटयोविर्शेषणतया, घटपटयोर्भेद इति ताभ्यां विशेष्यतया वा प्रत्येतव्यः । भेद इत्येव प्रतीतेरभावात् । यद्वा घटात्पटो भिन्न इति, घटात्पटस्य भेद इति वा घटप्रतियोगितया पटधर्मिकतया च भेदग्रहणमेष्यव्यम् । तत्रोभयत्राप्यन्योन्याश्रयत्वं, विशेष्ययोर्घटपटयोर्ज्ञाने सति हि तद्विशेषणतया भेदो ज्ञातव्यः । नहि देवदत्तादर्शने दण्डस्य तद्विशेषणतया दर्शनं युज्यते । विशेष्यज्ञानं च भेदापेक्षम् । नहि भेदाप्रतीतौ घटपटाविति द्वित्वविशिष्टार्थप्रतीतिः सम्भवति । एवं विशेष्यतया भेदप्रतीतावपि द्रष्टव्यम् । तथा धर्मिप्रतियोगिज्ञाने सति भेदज्ञानम् तन्निरूप्यत्वात् । भेदज्ञा(न एव)ने सति च धर्मिप्रतियोगिनोर्ज्ञानम् । नहि भेदाग्रहे धर्मिप्रतियोगिभावो ऽवगन्तुं शक्यते । तथात्वे घटाद्घटस्य भेद(इत्यपि) प्रतीतिः स्यात् । नच परस्पराश्रयाणि कार्याणि सम्भवन्ति । *८,३०५* अतो वास्तवत्वे भेदस्य प्रतीत्यनुपपत्तौ प्रपञ्चस्यापि तदापत्तेरविचारितरमणीयः संवृतिभय एवायमङ्गीकरणीय इति । निराकरोति नेति ॥ ॥। न तत्

ādipadena viśeṣaṇapratiyāginorgrahaṇam / yadi gṛhyata iti śeṣaḥ / tarhīti ca / ayamarthaḥ / yadi prapañco sāṃvṛto na syāttadā pratyakṣo 'pyasau na syāt / tathāhi / anekamedabhinno hi prapañca iṣyate / bhedasya cāpratyakṣatāyāṃ so 'pyapratyakṣa eva / vinā bhedena tatpratītāvadvitīyaśūnyapratītyāpatteḥ / naca bhedapratītirupapadyate / bhedo hi pratīyamāno ghaṭapaṭau bhinnāviti ghaṭapaṭayovirśeṣaṇatayā, ghaṭapaṭayorbheda iti tābhyāṃ viśeṣyatayā vā pratyetavyaḥ / bheda ityeva pratīterabhāvāt / yadvā ghaṭātpaṭo bhinna iti, ghaṭātpaṭasya bheda iti vā ghaṭapratiyogitayā paṭadharmikatayā ca bhedagrahaṇameṣyavyam / tatrobhayatrāpyanyonyāśrayatvaṃ, viśeṣyayorghaṭapaṭayorjñāne sati hi tadviśeṣaṇatayā bhedo jñātavyaḥ / nahi devadattādarśane daṇḍasya tadviśeṣaṇatayā darśanaṃ yujyate / viśeṣyajñānaṃ ca bhedāpekṣam / nahi bhedāpratītau ghaṭapaṭāviti dvitvaviśiṣṭārthapratītiḥ sambhavati / evaṃ viśeṣyatayā bhedapratītāvapi draṣṭavyam / tathā dharmipratiyogijñāne sati bhedajñānam tannirūpyatvāt / bhedajñā(na eva)ne sati ca dharmipratiyoginorjñānam / nahi bhedāgrahe dharmipratiyogibhāvo 'vagantuṃ śakyate / tathātve ghaṭādghaṭasya bheda(ityapi) pratītiḥ syāt / naca parasparāśrayāṇi kāryāṇi sambhavanti / *8,305* ato vāstavatve bhedasya pratītyanupapattau prapañcasyāpi tadāpatteravicāritaramaṇīyaḥ saṃvṛtibhaya evāyamaṅgīkaraṇīya iti / nirākaroti neti // ... na tat

Sanskrit only: no published translation is held for this verse.

यदुक्तं भेदस्य दुर्ग्राह्यत्वं तन्नास्तीत्यर्थः । तत्कथमित्यत आह स्वरूपमिति ॥ स्वरूपं वस्तुनो भेदो ॥। यत् यस्माद्भेदो वस्तुनः स्वरूपं तस्मात् तस्य वस्तुनो ग्र(हे)हणे सति पश्चाद्भेदग्रह इति नास्ति । किन्तु वस्तुग्रह एव भेदग्रहः । तथाच क्वान्योन्याश्रयत्वं येन भेदो दुर्ग्रहः स्यादिति । ॥। यन्न तस्य ग्रहे ग्रहः यस्माद्वस्तुनो ग्रहे तस्य भेदस्याग्रहो नास्ति तस्माद्भेदो वस्तुनः स्वरूपमिति सम्बन्धः । अयमत्र प्रयोगः । विमतो भेदो घटस्वरूपं भवितुमर्हति घटग्रहे ऽगृह्यमाणत्वरहितत्वात् घटस्वरूपवदेवेति । यदि अत्र तस्य ग्रहे गृह्यमाणत्वादित्येवोच्येत तदा घटपटाविति घटज्ञानेन ज्ञायमानेन पटेनानैकान्तिकत्वं स्यात् । तदर्थं"तस्य ग्रहे ऽग्रहो नऽ; इत्युक्तम् । नहि घटग्रहे गृह्यमाणो ऽपि पटो घटग्रहे सर्वथा गृह्यत एवेति नियमो ऽस्ति । यज्ज्ञाने यत्सर्वथोपलभ्यते तत्तत्स्वरूपमिति व्याप्तावुच्यमानायां दण्डिज्ञाने दण्डो ऽप्यवश्यं स्फुरत्येव । नचासौ दण्डिनः स्वरूपमित्यतो विशेषनिष्ठैव व्याप्तिरभिधातव्या । *८,३११* किञ्च विशिष्टं नाम विशेषणसम्बन्धनिमित्तो विशेष्यस्याकारभेद इति पी न विशिष्टप्रत्यये विशेषणस्फुरणमस्ति । किन्नाम विशेषणज्ञानं विशिष्टज्ञानकारणम् । आशुभावाच्च न क्रमो लक्ष्यते । यद्वा घटभेदौ पक्षीकृत्य नियमेनान्यतरप्रतीतावन्यतरस्य स्फुरणेनान्योन्याभिन्नत्वं साध्यम् । नहि दण्डिप्रतीतौ दण्ड(स्य)स्फुरणे ऽपि, दण्डप्रतीतौ सर्वथा दण्डि(नः)स्फुरणमस्तीति । *८,३१४* भवेदेतद्यदि भेदो वस्तुग्रह एव गृह्येत । नचैवम् । किन्नाम वस्तुप्रतीत्युत्तरकालमेव । निर्विकल्पके (हि) च प्रत्यये वस्तुमात्रमवभासते । भेदस्त वस्तुदर्शनोत्तरकालं प्रतियोगिस्मरणे सत्यवभासते । यथा सादृश्यमभावश्चेत्यत आह अन्यथेति ॥ अन्यथास्यामुना भेद इति वक्तुं न युज्यते

yaduktaṃ bhedasya durgrāhyatvaṃ tannāstītyarthaḥ / tatkathamityata āha svarūpamiti // svarūpaṃ vastuno bhedo ... yat yasmādbhedo vastunaḥ svarūpaṃ tasmāt tasya vastuno gra(he)haṇe sati paścādbhedagraha iti nāsti / kintu vastugraha eva bhedagrahaḥ / tathāca kvānyonyāśrayatvaṃ yena bhedo durgrahaḥ syāditi / ... yanna tasya grahe grahaḥ yasmādvastuno grahe tasya bhedasyāgraho nāsti tasmādbhedo vastunaḥ svarūpamiti sambandhaḥ / ayamatra prayogaḥ / vimato bhedo ghaṭasvarūpaṃ bhavitumarhati ghaṭagrahe 'gṛhyamāṇatvarahitatvāt ghaṭasvarūpavadeveti / yadi atra tasya grahe gṛhyamāṇatvādityevocyeta tadā ghaṭapaṭāviti ghaṭajñānena jñāyamānena paṭenānaikāntikatvaṃ syāt / tadarthaṃ"tasya grahe 'graho na'; ityuktam / nahi ghaṭagrahe gṛhyamāṇo 'pi paṭo ghaṭagrahe sarvathā gṛhyata eveti niyamo 'sti / yajjñāne yatsarvathopalabhyate tattatsvarūpamiti vyāptāvucyamānāyāṃ daṇḍijñāne daṇḍo 'pyavaśyaṃ sphuratyeva / nacāsau daṇḍinaḥ svarūpamityato viśeṣaniṣṭhaiva vyāptirabhidhātavyā / *8,311* kiñca viśiṣṭaṃ nāma viśeṣaṇasambandhanimitto viśeṣyasyākārabheda iti pī na viśiṣṭapratyaye viśeṣaṇasphuraṇamasti / kinnāma viśeṣaṇajñānaṃ viśiṣṭajñānakāraṇam / āśubhāvācca na kramo lakṣyate / yadvā ghaṭabhedau pakṣīkṛtya niyamenānyatarapratītāvanyatarasya sphuraṇenānyonyābhinnatvaṃ sādhyam / nahi daṇḍipratītau daṇḍa(sya)sphuraṇe 'pi, daṇḍapratītau sarvathā daṇḍi(naḥ)sphuraṇamastīti / *8,314* bhavedetadyadi bhedo vastugraha eva gṛhyeta / nacaivam / kinnāma vastupratītyuttarakālameva / nirvikalpake (hi) ca pratyaye vastumātramavabhāsate / bhedasta vastudarśanottarakālaṃ pratiyogismaraṇe satyavabhāsate / yathā sādṛśyamabhāvaścetyata āha anyatheti // anyathāsyāmunā bheda iti vaktuṃ na yujyate

Sanskrit only: no published translation is held for this verse.

यदि घटदर्शने ऽपि तद्भेदो न दृष्टस्तद(दा)नन्तरं स्मर्यमाणरो गृह्यमाणो वा प्रतियोगी पटो ऽपि विना भेदेनोपलब्धव्यः । भेदादर्शने चावश्यमभेदज्ञानं स्यात् । तथा चोत्तरकालं स्वस्मात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यादिति । अस्वेवमित्यत आह प्रतीतीति ॥ ॥। प्रतीतिविरोधाच्च ॥। चशब्दस्योत्तरत्र सम्बन्धः । पटाद्घटो भिन्न इत्येव हि सविकल्पिका प्रतीतिरनुभूयते । न जातु स्वस्मात्स्वयं भिन्न इति । अतः प्रतीतिविरोधादेवंविधः सविकल्पकग्रहो नाङ्गीकर्तुमुचित इति शेषः । किञ्च यदि स्वस्वात्स्वयं भिन्न इति सविकल्पको भेदग्रहः स्यात् । तदा कदाचित्तथाविधो वाग्व्यवहारो ऽपि स्यात् । नचैवमित्याह नहीति ॥ ॥। नहि कश्चित् तथा वदेत्

yadi ghaṭadarśane 'pi tadbhedo na dṛṣṭastada(dā)nantaraṃ smaryamāṇaro gṛhyamāṇo vā pratiyogī paṭo 'pi vinā bhedenopalabdhavyaḥ / bhedādarśane cāvaśyamabhedajñānaṃ syāt / tathā cottarakālaṃ svasmātsvayaṃ bhinna iti savikalpako bhedagrahaḥ syāditi / asvevamityata āha pratītīti // ... pratītivirodhācca ... caśabdasyottaratra sambandhaḥ / paṭādghaṭo bhinna ityeva hi savikalpikā pratītiranubhūyate / na jātu svasmātsvayaṃ bhinna iti / ataḥ pratītivirodhādevaṃvidhaḥ savikalpakagraho nāṅgīkartumucita iti śeṣaḥ / kiñca yadi svasvātsvayaṃ bhinna iti savikalpako bhedagrahaḥ syāt / tadā kadācittathāvidho vāgvyavahāro 'pi syāt / nacaivamityāha nahīti // ... nahi kaścit tathā vadet

Sanskrit only: no published translation is held for this verse.

एतेन किमिकप्रतीतिविरोधः उत सर्वप्रतीतिविरोधः । नाद्यो व्यभिचारात् । न द्वितीयः । असिद्धेरित्यपि परास्तम् । कदापि कस्यचिदपि तथा व्यवहाराभावेन विपरीतव्यवहारेण च सर्वप्रतीतिसिद्धेरिति । अतो वस्तुप्रतीतावेव भेदस्य स्फुरणात्तत्स्वरूपत्वमेवेति । *८,३१८* नन्वेवं भेदस्य वस्तुस्वरूपत्वेन तत्प्रतीतिभेदाभावादितरेतरसापेक्षत्वस्य सुतरामभावान्नान्योन्याश्रयत्वमित्युक्तम् । तत्र किं भेदो धर्मिणः स्वरूपम्, उत प्रतियोगिनो ऽपि । न तावद्द्वितीयः । एकस्यैव भेदस्योभयस्वरूपत्वे ऽद्वैतप्रसङ्गात् । आद्ये तु यद्यपि धर्मिज्ञानभेदज्ञानयोर्नान्योन्याश्रयत्वम् । तथापि प्रतियोगिज्ञानापेक्षयान्योन्याश्रयत्वं कथं परिहरणीयम् । मैवम् । भेदस्य स्वरूपतो ज्ञाने प्रतियोगिविशेषज्ञानानपेक्षणात् । प्रतियोगिस्वरूपज्ञाने चैतद्भेदज्ञानानपेक्षणात् । अस्तु तर्हि विशेषज्ञाने ऽन्योन्याश्रयत्वम् । तद्धि घटात्पटो भिन्न इत्युत्पद्यते । तत्र धमिर्णो भेदेन प्रतिपन्नस्य वा प्रतियोगिता, अन्यथा वा । नतावद्द्वितीयः । स्वतो ऽपि भेदप्रतीत्यापत्तेः । आद्ये प्रतियोगिस्वरूपभेदप्रतीतौ धर्मिणः प्रतियोगितायां स एव न्यायः । तथाच पटाद्घटस्य भेदप्रतीतौ घटात्पटस्य भेदप्रतीतिरित्यन्योन्याश्रयत्वमिति । मैवम् । वस्तुतो ऽन्योन्यप्रतियोगिकयोर्घटपटस्वरूपभेदयोः प्रतीतयोः सतोरसति सादृश्यादौ प्रतिबन्धके ऽन्योन्यप्रतियोगिकतया विशिष्टभेदप्रतीतौ बाधकाभावादिति । *८,३२१* एवं स्वमतेन भेदप्रतीतावन्योन्याश्रयत्वं परिहृत्य भिन्नभेदवादिनां परिहारमाह धर्मित्वेति ॥ धर्मित्वप्रतियोगित्वतद्भेदा युगपद् यदि । विशेषणं विशेष्यं च तद्भावश्चैव गृह्यते

etena kimikapratītivirodhaḥ uta sarvapratītivirodhaḥ / nādyo vyabhicārāt / na dvitīyaḥ / asiddherityapi parāstam / kadāpi kasyacidapi tathā vyavahārābhāvena viparītavyavahāreṇa ca sarvapratītisiddheriti / ato vastupratītāveva bhedasya sphuraṇāttatsvarūpatvameveti / *8,318* nanvevaṃ bhedasya vastusvarūpatvena tatpratītibhedābhāvāditaretarasāpekṣatvasya sutarāmabhāvānnānyonyāśrayatvamityuktam / tatra kiṃ bhedo dharmiṇaḥ svarūpam, uta pratiyogino 'pi / na tāvaddvitīyaḥ / ekasyaiva bhedasyobhayasvarūpatve 'dvaitaprasaṅgāt / ādye tu yadyapi dharmijñānabhedajñānayornānyonyāśrayatvam / tathāpi pratiyogijñānāpekṣayānyonyāśrayatvaṃ kathaṃ pariharaṇīyam / maivam / bhedasya svarūpato jñāne pratiyogiviśeṣajñānānapekṣaṇāt / pratiyogisvarūpajñāne caitadbhedajñānānapekṣaṇāt / astu tarhi viśeṣajñāne 'nyonyāśrayatvam / taddhi ghaṭātpaṭo bhinna ityutpadyate / tatra dhamirṇo bhedena pratipannasya vā pratiyogitā, anyathā vā / natāvaddvitīyaḥ / svato 'pi bhedapratītyāpatteḥ / ādye pratiyogisvarūpabhedapratītau dharmiṇaḥ pratiyogitāyāṃ sa eva nyāyaḥ / tathāca paṭādghaṭasya bhedapratītau ghaṭātpaṭasya bhedapratītirityanyonyāśrayatvamiti / maivam / vastuto 'nyonyapratiyogikayorghaṭapaṭasvarūpabhedayoḥ pratītayoḥ satorasati sādṛśyādau pratibandhake 'nyonyapratiyogikatayā viśiṣṭabhedapratītau bādhakābhāvāditi / *8,321* evaṃ svamatena bhedapratītāvanyonyāśrayatvaṃ parihṛtya bhinnabhedavādināṃ parihāramāha dharmitveti // dharmitvapratiyogitvatadbhedā yugapad yadi / viśeṣaṇaṃ viśeṣyaṃ ca tadbhāvaścaiva gṛhyate

Sanskrit only: no published translation is held for this verse.

उपलक्षणं चैतत् । धर्मिप्रतियोगिनौ चे(त्यपि)ति द्रष्टव्यम् । तद्भावो विशेषणत्वं विशेष्यत्वं च । अत्र विशेषणविशेष्ययोरन्यतरत्वाद्भेदस्य पृथग्ग्रहणाभावः । अयमर्थः । किं निर्विकल्पकप्रतीतावन्योन्याश्रयत्वमुच्यते उत सविकल्पकप्रतीतौ । नाद्यः । तत्र धर्मिप्रतियोगिस्वरूपयोस्तद्भावयोस्तद्भेदस्य भेदयोर्वा युगप(दुभय)दवभासनात् । तथा विशेषण(विशेष्य)भूत(भाव)योर्घटपटयोर्भेदस्य च तद्भावयोश्च युगपत्प्रतीतेः । युगपदेव सर्वस्येन्द्रियसन्निकृष्टत्वात् । दर्शनयोग्यत्वाच्च । ननु धर्मिप्रतियोगिनोर्विशेषणविशेष्ययो(श्च)ः तद्भावो ऽपरो भिन्नभेदवादिभिर्नेष्यते । तत्कथमेतत् । मैवम् । भूषणकारादिभिस्तस्याङ्गीकृतत्वात् । तेषामेव चायं परिहार इति । ननु यत्र प्रतियोगी पश्चात्प्रतीयते तत्र युगपदवभासो नास्तीति तद्दृष्टान्तेन सर्वत्राप्येवमनुमीयत इति चेन्न । असन्निहितवत्सन्निहितस्याप्यज्ञानसाधने प्रतितिविरोधात् । यत्र(च)प्रतियोगी न सन्निहितस्तत्रापि धर्मिधर्मित्वभेदानां तावद्युगपत्प्रतीतिर्नानुपपन्ना । तदिदमुक्तम् को विरोध इति ॥ को विरोधः ॥। द्वितीयं निराकरोति स्वरूपेणेति ॥ ॥। स्वरूपेण गृहीतो भेद एव तु । अस्यामुष्मादिति पुनर्विशेषेणैव गृह्यते

upalakṣaṇaṃ caitat / dharmipratiyoginau ce(tyapi)ti draṣṭavyam / tadbhāvo viśeṣaṇatvaṃ viśeṣyatvaṃ ca / atra viśeṣaṇaviśeṣyayoranyataratvādbhedasya pṛthaggrahaṇābhāvaḥ / ayamarthaḥ / kiṃ nirvikalpakapratītāvanyonyāśrayatvamucyate uta savikalpakapratītau / nādyaḥ / tatra dharmipratiyogisvarūpayostadbhāvayostadbhedasya bhedayorvā yugapa(dubhaya)davabhāsanāt / tathā viśeṣaṇa(viśeṣya)bhūta(bhāva)yorghaṭapaṭayorbhedasya ca tadbhāvayośca yugapatpratīteḥ / yugapadeva sarvasyendriyasannikṛṣṭatvāt / darśanayogyatvācca / nanu dharmipratiyoginorviśeṣaṇaviśeṣyayo(śca)ḥ tadbhāvo 'paro bhinnabhedavādibhirneṣyate / tatkathametat / maivam / bhūṣaṇakārādibhistasyāṅgīkṛtatvāt / teṣāmeva cāyaṃ parihāra iti / nanu yatra pratiyogī paścātpratīyate tatra yugapadavabhāso nāstīti taddṛṣṭāntena sarvatrāpyevamanumīyata iti cenna / asannihitavatsannihitasyāpyajñānasādhane pratitivirodhāt / yatra(ca)pratiyogī na sannihitastatrāpi dharmidharmitvabhedānāṃ tāvadyugapatpratītirnānupapannā / tadidamuktam ko virodha iti // ko virodhaḥ ... dvitīyaṃ nirākaroti svarūpeṇeti // ... svarūpeṇa gṛhīto bheda eva tu / asyāmuṣmāditi punarviśeṣeṇaiva gṛhyate

Sanskrit only: no published translation is held for this verse.

अस्यामुष्मादित्युपलक्षणम् । अनयोर्भेदो भिन्नाविमावित्यपि ग्राह्यम् । निविर्कल्पकप्रतीतार्थानामन्योन्यवैशिष्ययमात्रं सविकल्पकज्ञाने ऽवभासते नाधिकमिति न तत्रापीतरेतराश्रयत्वमिति । तथा(चा)हुर्भिन्नभेदवादिनः । एकस्यामेव निर्विकल्पिकायां संविदि भेदस्य भेदिनोश्च युगपदवभासने सति तत्रैकं भेदिनमव(धिं कृत्वै)धीकृत्यैतस्मादयं भिन्न इति सविकल्पकबोधोदया(त्कथम)न्न व्यतिरिक्तभेदपक्षे ऽन्योन्याश्रयत्वमिति । *८,३२४* ननु किमर्थमयं परमतोपन्यासः । भेदपार्थक्यमन्तरेण विशेषप्रतीतावस्माकम(प्येवमे)प्ययमेव परिहार इति ज्ञापनार्थम् । तर्हीदमेव वाक्यं तथा व्याख्यायताम् । नै(चै)वं (शं)शक्यम् । तद्भेदश्चेति पृथग्भेदग्रहणविरोधात् । विशेषणविशेष्यभावेन ग्रहणमपि न धर्मिप्रतियोगिप्रकाराद्भिद्यत इति वैशेषिकपरीक्षायामुक्तम् । अतो नात्र व्युत्पादनमपि कृतमिति । *८,३२७* एवमापादकानभ्युपगमेनान्योन्याश्रयत्वप्रसङ्गं निराकृत्येदानीं दूषणान्तरं प्रतिजानीते किञ्चेति ॥ किञ्च ॥। अन्यच्चेत्यर्थः । कथमिति चेत् । किमत्र यदि धर्म्यादिप्रतीत्यपेक्षया भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादि(त्या)त्येवापाद्यते, किंवा यदि भेदः प्रतीयेत तदान्योन्याश्रयत्वं स्यादिति । आद्ये दोषमाह भेद इति ॥ ॥। भेदः कथं ग्राह्य इति यः परिपृच्छति । धर्म्यादिभेदग्रहणात् तेनोक्तो ऽन्योन्यसंश्रयः

asyāmuṣmādityupalakṣaṇam / anayorbhedo bhinnāvimāvityapi grāhyam / nivirkalpakapratītārthānāmanyonyavaiśiṣyayamātraṃ savikalpakajñāne 'vabhāsate nādhikamiti na tatrāpītaretarāśrayatvamiti / tathā(cā)hurbhinnabhedavādinaḥ / ekasyāmeva nirvikalpikāyāṃ saṃvidi bhedasya bhedinośca yugapadavabhāsane sati tatraikaṃ bhedinamava(dhiṃ kṛtvai)dhīkṛtyaitasmādayaṃ bhinna iti savikalpakabodhodayā(tkathama)nna vyatiriktabhedapakṣe 'nyonyāśrayatvamiti / *8,324* nanu kimarthamayaṃ paramatopanyāsaḥ / bhedapārthakyamantareṇa viśeṣapratītāvasmākama(pyevame)pyayameva parihāra iti jñāpanārtham / tarhīdameva vākyaṃ tathā vyākhyāyatām / nai(cai)vaṃ (śaṃ)śakyam / tadbhedaśceti pṛthagbhedagrahaṇavirodhāt / viśeṣaṇaviśeṣyabhāvena grahaṇamapi na dharmipratiyogiprakārādbhidyata iti vaiśeṣikaparīkṣāyāmuktam / ato nātra vyutpādanamapi kṛtamiti / *8,327* evamāpādakānabhyupagamenānyonyāśrayatvaprasaṅgaṃ nirākṛtyedānīṃ dūṣaṇāntaraṃ pratijānīte kiñceti // kiñca ... anyaccetyarthaḥ / kathamiti cet / kimatra yadi dharmyādipratītyapekṣayā bhedaḥ pratīyeta tadānyonyāśrayatvaṃ syādi(tyā)tyevāpādyate, kiṃvā yadi bhedaḥ pratīyeta tadānyonyāśrayatvaṃ syāditi / ādye doṣamāha bheda iti // ... bhedaḥ kathaṃ grāhya iti yaḥ paripṛcchati / dharmyādibhedagrahaṇāt tenokto 'nyonyasaṃśrayaḥ

Sanskrit only: no published translation is held for this verse.

कथमित्याक्षेपे । परिपृच्छतीति मृदूक्तिः । आक्षिपतीति यावत् । धर्म्यादिभेदग्रहणात् धर्म्यादिग्रहणसापेक्षभेदग्रहणात् । कथमिदं लभ्यते । धर्म्यादिपदस्य तद्ग्रहणोपलक्षणत्वात् । आदिपदस्य च कारणार्थस्याऽवृत्तेः । तदेतत्परस्परं व्याहतमिति शेषः । तथाहि । भेदो दुर्ग्रह इति प्रतिज्ञाय तदुपपत्तये हीदमुच्यते । अनेन च यदि भेदो धर्म्यादिप्रतीतिमपेक्ष्य प्रतीयेत तदान्योन्याश्रयत्वं स्यात् । तथाच न प्रतीयेतेत्यापादनेन प्रतीयते चातो न धर्म्यादिग्रहणापेक्षा तत्प्रतीतिरिति लब्धं भवेत् । तथाच"भेदो दुर्ग्रहःऽ"प्रतीयते चऽ; इत्येतयोः कथं न पूर्वोत्तरविरोध इति । *८,३२९* द्वितीये पृच्छामः । किं परेण क्वापि भेदो न गृहीतः किंवा क्वचिद्गृहीत इति । आद्यं दूषयति अन्यत्वेति ॥ अन्यत्वाग्रहणे प्रोक्तः कथमन्योन्यसंश्रयः यद्यन्यत्वं क्वापि न गृहीतं तदान्योन्याश्रयत्वापादनमेव न शक्यम् । निराश्रयत्वात् । तद्धि प्रतीतयोर्द्वयोः कार्यकारणभावाश्रयणे सत्यापद्यते । अन्ततो वादिप्रतिवादिनोः दूष्यदूषकयोरापाद्यापादकयोर्भेदाग्रहे ऽनुत्थानमेवापादनस्य । द्वितीयं दूषयति अन्यत्वमिति ॥ अन्यत्वं यदि सिद्धं स्यात् कथमन्योन्यसंश्रयः

kathamityākṣepe / paripṛcchatīti mṛdūktiḥ / ākṣipatīti yāvat / dharmyādibhedagrahaṇāt dharmyādigrahaṇasāpekṣabhedagrahaṇāt / kathamidaṃ labhyate / dharmyādipadasya tadgrahaṇopalakṣaṇatvāt / ādipadasya ca kāraṇārthasyā'vṛtteḥ / tadetatparasparaṃ vyāhatamiti śeṣaḥ / tathāhi / bhedo durgraha iti pratijñāya tadupapattaye hīdamucyate / anena ca yadi bhedo dharmyādipratītimapekṣya pratīyeta tadānyonyāśrayatvaṃ syāt / tathāca na pratīyetetyāpādanena pratīyate cāto na dharmyādigrahaṇāpekṣā tatpratītiriti labdhaṃ bhavet / tathāca"bhedo durgrahaḥ'"pratīyate ca'; ityetayoḥ kathaṃ na pūrvottaravirodha iti / *8,329* dvitīye pṛcchāmaḥ / kiṃ pareṇa kvāpi bhedo na gṛhītaḥ kiṃvā kvacidgṛhīta iti / ādyaṃ dūṣayati anyatveti // anyatvāgrahaṇe proktaḥ kathamanyonyasaṃśrayaḥ yadyanyatvaṃ kvāpi na gṛhītaṃ tadānyonyāśrayatvāpādanameva na śakyam / nirāśrayatvāt / taddhi pratītayordvayoḥ kāryakāraṇabhāvāśrayaṇe satyāpadyate / antato vādiprativādinoḥ dūṣyadūṣakayorāpādyāpādakayorbhedāgrahe 'nutthānamevāpādanasya / dvitīyaṃ dūṣayati anyatvamiti // anyatvaṃ yadi siddhaṃ syāt kathamanyonyasaṃśrayaḥ

Sanskrit only: no published translation is held for this verse.

न केवलमेतज्जात्युत्तरं किन्तु यदन्यदपि तदीयं वचनम् । तथाहि । भेदस्यापि भेदान्तरभेद्यत्वे ऽनवस्थेति । तथा भिन्ने भेदनिवेशश्चेत्तेनैव भेदेन भिन्नतायामात्माश्रयत्वं, भेदान्तराङ्गीकारे त्वनवस्था । अभिन्ने भेदनिवेशश्चेत्स्वतो ऽपि पटस्य भेदापत्तिरिति । तथा न तावत्प्रत्यक्षेण भेद एव दृश्यते । भेद इत्येव प्रतीतेरनुभवात् । वस्तुनो ऽपि प्रतीतौ न तावद्भेदपूर्वं वस्तुप्रतीतिः । उक्तदोषात् । नापि वस्तुप्रतीतिपूर्विका भेदप्रतीतिः । अभेदेन प्रतीते भेदप्रतीतावतिप्रसक्तेः । नच युगपत् । भेदप्रतीतिं प्रति वस्तुप्रतीतेः कारणत्वेन यौगपद्यायोगात् । नच प्रकारान्तरमस्तीति । तथा सत्तावत्कारणं वा कारणे सत्ता वा । आद्ये कारणस्यासत्त्वम् । द्वितीये ऽसत एव कारणत्वमित्यादि । तत्सर्वं जात्युत्तरमिति ज्ञापयितुमेतादृशस्येत्युक्तम् । सर्वस्यापि स्वव्याघातकत्वात् । भेदस्य सत्तायाश्च स्वरूपातिरिक्तयोरयुक्तयोः (क्तायाः) (क्ततायाः) अयुक्तायाः) एवाङ्गीकरणाच्च । कतमेयं जातिरिति चेन्न । सामान्यलक्षणसद्भावे ऽस्य निर्बन्धस्य व्यर्थत्वात् । अहेतुप्रसङ्गनित्यसमास्वन्तर्भावाच्च । मायाशब्दस्य व्रीह्यादित्वान्मायीति साधुः । शून्यवादिनिरासे(नैव)न मायावादो ऽपि निरस्तो वेदितव्य इत्यतिदेशज्ञापनाय मायी चेत्युक्तम् । एवशब्दस्योत्तरत्रत सम्बन्धः । *८,३३९* नन्वेतदन्योन्याश्रयत्वादिकं सूत्रकृतैव कुतो न निराकृतमित्यत आह तदिति ॥ ॥। तदुपेक्ष्यौ बुभूषुभिः

na kevalametajjātyuttaraṃ kintu yadanyadapi tadīyaṃ vacanam / tathāhi / bhedasyāpi bhedāntarabhedyatve 'navastheti / tathā bhinne bhedaniveśaścettenaiva bhedena bhinnatāyāmātmāśrayatvaṃ, bhedāntarāṅgīkāre tvanavasthā / abhinne bhedaniveśaścetsvato 'pi paṭasya bhedāpattiriti / tathā na tāvatpratyakṣeṇa bheda eva dṛśyate / bheda ityeva pratīteranubhavāt / vastuno 'pi pratītau na tāvadbhedapūrvaṃ vastupratītiḥ / uktadoṣāt / nāpi vastupratītipūrvikā bhedapratītiḥ / abhedena pratīte bhedapratītāvatiprasakteḥ / naca yugapat / bhedapratītiṃ prati vastupratīteḥ kāraṇatvena yaugapadyāyogāt / naca prakārāntaramastīti / tathā sattāvatkāraṇaṃ vā kāraṇe sattā vā / ādye kāraṇasyāsattvam / dvitīye 'sata eva kāraṇatvamityādi / tatsarvaṃ jātyuttaramiti jñāpayitumetādṛśasyetyuktam / sarvasyāpi svavyāghātakatvāt / bhedasya sattāyāśca svarūpātiriktayorayuktayoḥ (ktāyāḥ) (ktatāyāḥ) ayuktāyāḥ) evāṅgīkaraṇācca / katameyaṃ jātiriti cenna / sāmānyalakṣaṇasadbhāve 'sya nirbandhasya vyarthatvāt / ahetuprasaṅganityasamāsvantarbhāvācca / māyāśabdasya vrīhyāditvānmāyīti sādhuḥ / śūnyavādinirāse(naiva)na māyāvādo 'pi nirasto veditavya ityatideśajñāpanāya māyī cetyuktam / evaśabdasyottaratrata sambandhaḥ / *8,339* nanvetadanyonyāśrayatvādikaṃ sūtrakṛtaiva kuto na nirākṛtamityata āha taditi // ... tadupekṣyau bubhūṣubhiḥ

Sanskrit only: no published translation is held for this verse.

तस्माज्जात्युत्तराकरत्वादुपेक्ष्यावेव । नतु परिहाराय प्रतिवादीकर्तव्यौ । एतदुक्तं भवति । सदलमेव पूर्वपक्षिवचनं निराकर्तव्यं भवति न निर्दलम् । अन्यथातिप्रसङ्गात् । एतच्च जात्युत्तरत्वेन निर्दलमित्युपेक्षितं सूत्रकृता । अस्माभिस्तु शिष्यव्युत्पादनाय निराकृतमिति । स्यादेतत् । शून्यावादी शून्यं जगत्कारणं मन्यते । मायावादी तु ब्रह्म । तत्कथं नासतो ऽदृष्टत्वादित्यादिशून्यवादनिरासाय मायावादे ऽतिदेशः । मतवैषम्ये ऽतिदेशासम्भवादित्यत आह यदीति ॥ यच्छून्यवादिनः शून्यं तदेव ब्रह्म मायिनः तस्मादतिदेशो युक्त इति शेषः । तत्कथमित्यत आह नहीति ॥ नहि लक्षणभेदो ऽस्ति निर्विशेषत्वतस्तयोः

tasmājjātyuttarākaratvādupekṣyāveva / natu parihārāya prativādīkartavyau / etaduktaṃ bhavati / sadalameva pūrvapakṣivacanaṃ nirākartavyaṃ bhavati na nirdalam / anyathātiprasaṅgāt / etacca jātyuttaratvena nirdalamityupekṣitaṃ sūtrakṛtā / asmābhistu śiṣyavyutpādanāya nirākṛtamiti / syādetat / śūnyāvādī śūnyaṃ jagatkāraṇaṃ manyate / māyāvādī tu brahma / tatkathaṃ nāsato 'dṛṣṭatvādityādiśūnyavādanirāsāya māyāvāde 'tideśaḥ / matavaiṣamye 'tideśāsambhavādityata āha yadīti // yacchūnyavādinaḥ śūnyaṃ tadeva brahma māyinaḥ tasmādatideśo yukta iti śeṣaḥ / tatkathamityata āha nahīti // nahi lakṣaṇabhedo 'sti nirviśeṣatvatastayoḥ

Sanskrit only: no published translation is held for this verse.

लक्षणभेदेन हि विप्रतिपन्नो भेदो बोधनीयः । ना(चा)सौ शून्यब्रह्मणोः सम्भवति । द्वयोरपि निर्विशेषत्वाङ्गीकारात् । ननु निर्विशेषत्वेन बाह्यलक्षणभेदाभावे ऽपि सत्यज्ञानानन्तानन्दात्मकत्वं ब्रह्मणः स्वलक्षणं मायावादिनाङ्गीकृतम् । न शून्यस्य शून्यवादिना । तेन ब्रह्मशून्ययोर्भेदो भविष्यतीत्यत आह अनृतादीति ॥ अनृतादिविरोधित्वमुभयोश्च स्वलक्षणम् ब्रह्मणः सत्यज्ञानाद्यात्मकत्वं नामानृतजडादिविरोधित्वमेवाभिमतं मायावादिनो ऽन्यस्यासम्भवात्,"अनृतजडविरोधिरूपमन्तत्रयमलबन्धनदुःखताविरुद्धम्ऽ; इति तद् व्याख्यानाच्च । अनृतादिविरोधित्वं च शून्यवादी शून्यस्यापि मन्यते । "जाड्यसंवृतिदुःखान्तपूवर्देषविरोधि यत्ऽ; इति वचनात् । ततो नैतदपि भेदकमिति युक्त एवातिदेशः । *८,३४१* स्यादेतत् । प्रपञ्चमिथ्यात्वानुमाननिरासार्थं वैधर्म्याच्च न स्वप्नादिवदिति सूत्रम् । तत्र यत्"भ्रान्तेः संवृविसत्यस्यऽ; इति दूषणमुक्तम् । तदेव वैधर्म्यादिति सूत्रे प्रतीयते । यत्पुनरुक्तं दृश्यत्वस्य सत्यत्वे तत्रैव व्यभिचारप्रसङ्गात्तस्य मिथ्यात्वं वाच्यम् । तथाचासाधकत्वमिति तत्सूत्रे न दृश्यते । तत्कथमेतद्वयाख्यानमित्यत आह स्ववाक्येति ॥ स्ववाक्याभावसंवादान्न कृत्यं प्रतिवादिनः

lakṣaṇabhedena hi vipratipanno bhedo bodhanīyaḥ / nā(cā)sau śūnyabrahmaṇoḥ sambhavati / dvayorapi nirviśeṣatvāṅgīkārāt / nanu nirviśeṣatvena bāhyalakṣaṇabhedābhāve 'pi satyajñānānantānandātmakatvaṃ brahmaṇaḥ svalakṣaṇaṃ māyāvādināṅgīkṛtam / na śūnyasya śūnyavādinā / tena brahmaśūnyayorbhedo bhaviṣyatītyata āha anṛtādīti // anṛtādivirodhitvamubhayośca svalakṣaṇam brahmaṇaḥ satyajñānādyātmakatvaṃ nāmānṛtajaḍādivirodhitvamevābhimataṃ māyāvādino 'nyasyāsambhavāt,"anṛtajaḍavirodhirūpamantatrayamalabandhanaduḥkhatāviruddham'; iti tad vyākhyānācca / anṛtādivirodhitvaṃ ca śūnyavādī śūnyasyāpi manyate / "jāḍyasaṃvṛtiduḥkhāntapūvardeṣavirodhi yat'; iti vacanāt / tato naitadapi bhedakamiti yukta evātideśaḥ / *8,341* syādetat / prapañcamithyātvānumānanirāsārthaṃ vaidharmyācca na svapnādivaditi sūtram / tatra yat"bhrānteḥ saṃvṛvisatyasya'; iti dūṣaṇamuktam / tadeva vaidharmyāditi sūtre pratīyate / yatpunaruktaṃ dṛśyatvasya satyatve tatraiva vyabhicāraprasaṅgāttasya mithyātvaṃ vācyam / tathācāsādhakatvamiti tatsūtre na dṛśyate / tatkathametadvayākhyānamityata āha svavākyeti // svavākyābhāvasaṃvādānna kṛtyaṃ prativādinaḥ

Sanskrit only: no published translation is held for this verse.

ज्ञानमेवैकमखिलज्ञेयाकारं प्रभासते

jñānamevaikamakhilajñeyākāraṃ prabhāsate

Sanskrit only: no published translation is held for this verse.

तत्र ज्ञानज्ञेययोः भेद इति सम्बन्धः । सन्ततिभेदः सन्ततीनां परस्परं भेदः । स्वभेदः एकैकस्यामपि सन्ततौ पूर्वोत्तरज्ञानभेदः । कल्पिता एवेति सम्बन्धः । नानासंवृतिभूमिषु अनेकाज्ञानस्थानेष्वन्तःकरणेषु । यद्वा नानासंवृतिकारणकासु वासनास्विति निमित्तसप्तमी । तदुक्तम्"भेदस्तु भ्रन्तिबुद्धयैव दृ(दृश्य इन्दा)श्येतेन्दाविवाद्वयःऽ; इति । *८,३४७* एवमनूदितं मतमपाकरोति इत्येतदपीति । इत्येतदपि नो युक्तं ॥। पूर्वमतसमुच्चयार्थो ऽपिशब्दः । अनेन"न भावेऽ; इति सूत्रांशो व्याख्यातः । जगत् भावो ज्ञानं न भवतीत्यर्थः । भवतेरनुभवार्थत्वात् । उपसर्गा हि धातुलीनास्यार्थस्य व्यञ्जका एव । *८,३५०फ़्।* कुतो न युक्तमिति चेत् । किं ज्ञेयं स्वरूपेणासदेव विज्ञाने समारोपितं विज्ञानात्मक(मित्यु)मुच्यते, किं वा परमार्थसत एव ज्ञेयस्य जगतो विज्ञानात्मकत्वं भेदमात्रं त्वसदिति । आद्यस्त्वतीताधिकरणरीत्या निरस्तः । न द्वितीयः । जगतो ज्ञानाभेदे प्रमाणाभावात् । न तावत्तत्र प्रत्यक्षमस्तीत्याह न हीति ॥ ॥। न हि ज्ञानतया जगत् । भासते ॥। अनेनानुपलब्धेरित्येतद्वयाख्यातं भवति । मा भूत्प्रत्यक्षेण ज्ञानार्थयोरभेदसिद्धिः । प्रकाशमानत्वाद्यनुमा(नात्तु)नेन तु भविष्यतीत्यत आह अनुभवस्यैवेति ॥ ॥। अनुभवस्यैव विरुद्धत्वादपेशलम्

tatra jñānajñeyayoḥ bheda iti sambandhaḥ / santatibhedaḥ santatīnāṃ parasparaṃ bhedaḥ / svabhedaḥ ekaikasyāmapi santatau pūrvottarajñānabhedaḥ / kalpitā eveti sambandhaḥ / nānāsaṃvṛtibhūmiṣu anekājñānasthāneṣvantaḥkaraṇeṣu / yadvā nānāsaṃvṛtikāraṇakāsu vāsanāsviti nimittasaptamī / taduktam"bhedastu bhrantibuddhayaiva dṛ(dṛśya indā)śyetendāvivādvayaḥ'; iti / *8,347* evamanūditaṃ matamapākaroti ityetadapīti / ityetadapi no yuktaṃ ... pūrvamatasamuccayārtho 'piśabdaḥ / anena"na bhāve'; iti sūtrāṃśo vyākhyātaḥ / jagat bhāvo jñānaṃ na bhavatītyarthaḥ / bhavateranubhavārthatvāt / upasargā hi dhātulīnāsyārthasya vyañjakā eva / *8,350f.* kuto na yuktamiti cet / kiṃ jñeyaṃ svarūpeṇāsadeva vijñāne samāropitaṃ vijñānātmaka(mityu)mucyate, kiṃ vā paramārthasata eva jñeyasya jagato vijñānātmakatvaṃ bhedamātraṃ tvasaditi / ādyastvatītādhikaraṇarītyā nirastaḥ / na dvitīyaḥ / jagato jñānābhede pramāṇābhāvāt / na tāvattatra pratyakṣamastītyāha na hīti // ... na hi jñānatayā jagat / bhāsate ... anenānupalabdherityetadvayākhyātaṃ bhavati / mā bhūtpratyakṣeṇa jñānārthayorabhedasiddhiḥ / prakāśamānatvādyanumā(nāttu)nena tu bhaviṣyatītyata āha anubhavasyaiveti // ... anubhavasyaiva viruddhatvādapeśalam

Sanskrit only: no published translation is held for this verse.

तन्मतं ॥।

tanmataṃ ...

Sanskrit only: no published translation is held for this verse.

आह क्षपणको विश्वं सदसद् द्वयमद्वयम् । द्वयाद्वयमतत्सर्वं सप्तभङ्गिसदातनम्

āha kṣapaṇako viśvaṃ sadasad dvayamadvayam / dvayādvayamatatsarvaṃ saptabhaṅgisadātanam

Sanskrit only: no published translation is held for this verse.

अनेकदेशवर्तिनि द्रव्ये ऽस्तिकायशब्द(प्र)वृत्तेः । ते च जीवास्तिकायो धर्मास्तिकायो ऽधर्मास्तिकायः पुद्गलास्तिकाय आकाशास्तिकाय इति पञ्च । अत्र च मोक्षोपयोगिनः सप्त पदार्था जीवाजीवास्रवबन्धनिर्जरसंवरमोक्षाः । जीवो ज्ञानदर्शनसुखवीर्यगुणः । अजीवो जीवोपभोग्यं वस्तुजातम् । अस्रवः तद्भोगोपकरणमिन्द्रियादिकम् । बन्धो द्विविधः । घातिकाघातिकचतुष्ययभेदात् । आद्यं जीवगुणानां ज्ञाना(नन्दा)दीनां प्रतिबन्धकम् । द्वितीयं शरीरसंस्थानतदभिमानतत्स्थितितत्प्रयुक्तसुखदुःखहेतुभूतम् । निर्जरो मोक्षसाधनं तपः । संवर इन्द्रिय(निरोधः) निग्रहः । मोक्षः स्वाभाविकात्मस्वरूपाविर्भावः । मोक्षग्रहणेनैव मोक्षमार्गो ऽपि सङ्गृहीतः । स च सम्यग्ज्ञानसम्यग्दर्शनसम्यक्चारित्र्याख्यरत्नत्रयात्मकः । तदेतद्विश्वं सप्तभङ्गि प्रत्येकं सप्तप्रकारकमा(मित्या)ह क्षपणकः । कथम् । सदित्येकप्रकारः । असदिति द्वितीयः । द्वयं सदसदात्मकमिति तृतीयः । अद्वयम् अवक्तव्यमिति चतुर्थः । द्वयाद्वयमिति पञ्चमषष्ठौ । तत्र सदवक्तव्यं चेति पञ्चमः, असदवक्तव्यं चेति षष्ठः । अतत्सर्वमिति सप्तमः । सर्वमिति सदसदात्मकम्, अतदिति अवक्तव्यम् । *८,३६२* अत्र सप्तभङ्गित्वनिरासार्थं नैकस्मिन्नसम्भवादिति सूत्रं व्याचष्टे नैतदिति ॥ नैतत् पदार्थ एकस्मिन् युक्तं दृष्टिविरोधतः

anekadeśavartini dravye 'stikāyaśabda(pra)vṛtteḥ / te ca jīvāstikāyo dharmāstikāyo 'dharmāstikāyaḥ pudgalāstikāya ākāśāstikāya iti pañca / atra ca mokṣopayoginaḥ sapta padārthā jīvājīvāsravabandhanirjarasaṃvaramokṣāḥ / jīvo jñānadarśanasukhavīryaguṇaḥ / ajīvo jīvopabhogyaṃ vastujātam / asravaḥ tadbhogopakaraṇamindriyādikam / bandho dvividhaḥ / ghātikāghātikacatuṣyayabhedāt / ādyaṃ jīvaguṇānāṃ jñānā(nandā)dīnāṃ pratibandhakam / dvitīyaṃ śarīrasaṃsthānatadabhimānatatsthititatprayuktasukhaduḥkhahetubhūtam / nirjaro mokṣasādhanaṃ tapaḥ / saṃvara indriya(nirodhaḥ) nigrahaḥ / mokṣaḥ svābhāvikātmasvarūpāvirbhāvaḥ / mokṣagrahaṇenaiva mokṣamārgo 'pi saṅgṛhītaḥ / sa ca samyagjñānasamyagdarśanasamyakcāritryākhyaratnatrayātmakaḥ / tadetadviśvaṃ saptabhaṅgi pratyekaṃ saptaprakārakamā(mityā)ha kṣapaṇakaḥ / katham / sadityekaprakāraḥ / asaditi dvitīyaḥ / dvayaṃ sadasadātmakamiti tṛtīyaḥ / advayam avaktavyamiti caturthaḥ / dvayādvayamiti pañcamaṣaṣṭhau / tatra sadavaktavyaṃ ceti pañcamaḥ, asadavaktavyaṃ ceti ṣaṣṭhaḥ / atatsarvamiti saptamaḥ / sarvamiti sadasadātmakam, ataditi avaktavyam / *8,362* atra saptabhaṅgitvanirāsārthaṃ naikasminnasambhavāditi sūtraṃ vyācaṣṭe naitaditi // naitat padārtha ekasmin yuktaṃ dṛṣṭivirodhataḥ

Sanskrit only: no published translation is held for this verse.

सद्वादिनो हि सत्त्वं विश्वस्य प्रमाणैः प्रातिष्ठिपस्तदनङ्गीकारे दोषांश्च न्यरूपयन् । एवमसद्वादिनो ऽप्यसत्त्वस्थापनं तदनङ्गीकारे दूषणं च व्युत्पादितवन्तः । तथान्ये ऽपि स्वपक्षसाधनं तदनभ्युपगमे बाधनं च कृतवन्तः । तथाच यदि स(त्य)त्वं नाङ्गीक्रियते तदा तु तदुपन्यस्तं प्रमाणमुपरुध्येत दूषणं चानुषज्येत । एवमसत्त्वाद्यनङ्गीकारे ऽपि । अतस्तद्दोषपरिहारार्थं तत्तत्प्रमाणानुसरणार्थं च तत्तदात्मता विश्वस्य मया स्वीकृता । तथाचानेकान्ते प्रबलप्रमाणसद्भावात्कथं नियमे बाधकाभाव इति । परिहरति तैरिति ॥ *८,३६५* ॥। तैरखिलैर्देषैर्लिप्यते चलदर्शनः

sadvādino hi sattvaṃ viśvasya pramāṇaiḥ prātiṣṭhipastadanaṅgīkāre doṣāṃśca nyarūpayan / evamasadvādino 'pyasattvasthāpanaṃ tadanaṅgīkāre dūṣaṇaṃ ca vyutpāditavantaḥ / tathānye 'pi svapakṣasādhanaṃ tadanabhyupagame bādhanaṃ ca kṛtavantaḥ / tathāca yadi sa(tya)tvaṃ nāṅgīkriyate tadā tu tadupanyastaṃ pramāṇamuparudhyeta dūṣaṇaṃ cānuṣajyeta / evamasattvādyanaṅgīkāre 'pi / atastaddoṣaparihārārthaṃ tattatpramāṇānusaraṇārthaṃ ca tattadātmatā viśvasya mayā svīkṛtā / tathācānekānte prabalapramāṇasadbhāvātkathaṃ niyame bādhakābhāva iti / pariharati tairiti // *8,365* ... tairakhilairdeṣairlipyate caladarśanaḥ

Sanskrit only: no published translation is held for this verse.

*८,३६८* एवम्भूतस्यापि सप्तभङ्गिनयस्य स्वीकारे ऽतिप्रसङ्गं चाह अतिहायेति ॥ अतिहाय प्रमाणाप्तं नियमं सदसत्तया । अशेषमाविरुद्धं च निर्मानं व्याहतं सदा

*8,368* evambhūtasyāpi saptabhaṅginayasya svīkāre 'tiprasaṅgaṃ cāha atihāyeti // atihāya pramāṇāptaṃ niyamaṃ sadasattayā / aśeṣamāviruddhaṃ ca nirmānaṃ vyāhataṃ sadā

Sanskrit only: no published translation is held for this verse.

सर्वप्रकारं वदतो दृष्टहानिरमग्रहः । स्वव्याहतत्वमित्याद्या दोषाः सर्वे भवन्ति हि

sarvaprakāraṃ vadato dṛṣṭahāniramagrahaḥ / svavyāhatatvamityādyā doṣāḥ sarve bhavanti hi

Sanskrit only: no published translation is held for this verse.

अशेषमाविरुद्धं वदत इत्यस्योपपादनं व्यवस्थितया सदसत्तया प्रमाणाप्तनियममतिहायेति । सर्वे प्रकारा यस्य विश्वस्य तत्तथोक्तम् । ततश्चासौ प्रकारश्चेति वा । ननु क्रमानेकान्ते तावत्कालभेदेन न व्याघातः । अक्रमानेकान्ते ऽपि रूपभेदेनेत्यत उक्तम् सदा सर्वप्रकारं वदत इति ॥ सदेति रूपाभेदस्याप्युपलक्षणम् । *८,३६९* अयमाशयः । यदि क्रमेण वा रूपभेदेन वानेप्रकारत्वम् तदा नायमनेकान्तवादः समर्थनीयः । सर्वैरपि वादिभिरङ्गीकृतत्वात् । नहि को ऽपि वादी पदार्थानां कालतो रूपतश्चावस्थावैचित्र्यमनङ्गीकुर्वाणो ऽस्ति । यं प्रत्यनेकान्तवादावतारः सङ्गच्छेत । केवलं क्षणभङ्गो वात्यन्तसत्कार्यवादो वावस्थावतोरत्यन्तभेदो वापाकरणीयः । अतः अनेकान्तवादमवतारयता क्षपणकेन सदा रूपाभेदेनैव च सर्वप्रकार(क)त्वमित्येव वक्तव्यम् । तथाच न व्याघातनिस्तार इति । *८,३७०* अशेषमाविरुद्धं सदा सर्वप्रकारत्वं वदतो दृष्टहानिः स्यात् । निर्मान च सदा सर्वप्रकारं वदतो अमग्रहो अप्रामाणिकस्वीकारः स्यात् । व्याहतं सदा सर्वप्रकारं वदतः स्वव्याहतत्वं स्यादिति योजना । दृष्टहानाद्यनुषङ्गिदोषान्तरसङ्ग्रहार्थमित्याद्या इत्युक्तम् । हिशब्दः सर्वत्र प्रसङ्गहेतुसूचनार्थः । अयमर्थः । यदि प्रमाणविरुद्धमपि सर्वप्रकारत्वं विश्वस्य स्वीक्रियते तदा दहनशैत्यं वा गवालम्भनादेर्धर्मसाधनत्वादिकं वा(चा)ऽङ्गीकार्यं स्यात् । प्रमाणविरोधेन प्रतिपक्षनिराकरणं च न स्यात् । किन्तु प्रत्यभिज्ञादिविरुद्धमपि क्षणिकत्वादिकमङ्गीकर्तव्यं स्यात् । अविशेषात् । यदि चाप्रामाणिकमपि सर्वप्रकारत्वमुररीक्रियते तदा खरविषाणादिकं वा गोमांसादिभक्षणस्य धर्मसाधनत्वं चोररीकरणीयं स्यात् । प्रमाणाभावेन परमतनिरासो ऽपि न कार्यः स्यात् । तद(प्य)भ्युपगमनीयमेव भवेदविशेषात् । तथाच दूष्योपादेयहीनस्य शास्त्रनिर्माणमपि न स्यात् । यदि च व्याहतमपि सर्वप्रकारत्वमङ्गीकुर्यात् तदा मातुरपि वन्ध्यत्वं, जिनोपदेशस्य प्रमाणतयाभ्युपगतस्याप्यप्रामाण्यं, बद्धस्यापि मुक्तत्वं, मुक्तस्यापि बद्धत्वं, सिद्धस्यापि रागित्वं, श्वपचस्यापि सिद्धत्वमित्यादिसर्वमप्यङ्गी(कुर्यात्)कार्यं स्यात् । अन्यथानेकान्तभङ्गप्रसङ्गात् । एवंच न शास्त्रप्रणयनप्रयासः कार्यः । मत्तोन्मत्तादिभिरेवास्य कृतत्वादिति । *८,३७१* एवं विश्वस्य क्षपणकोक्तं सर्वप्रकारत्वं निराकृत्य तदुक्तमर्थान्तरमपि निराकर्तुमनुवदति वक्तीति ॥ वक्ति स्वप्रभमात्मानं देहमानं ॥।

aśeṣamāviruddhaṃ vadata ityasyopapādanaṃ vyavasthitayā sadasattayā pramāṇāptaniyamamatihāyeti / sarve prakārā yasya viśvasya tattathoktam / tataścāsau prakāraśceti vā / nanu kramānekānte tāvatkālabhedena na vyāghātaḥ / akramānekānte 'pi rūpabhedenetyata uktam sadā sarvaprakāraṃ vadata iti // sadeti rūpābhedasyāpyupalakṣaṇam / *8,369* ayamāśayaḥ / yadi krameṇa vā rūpabhedena vāneprakāratvam tadā nāyamanekāntavādaḥ samarthanīyaḥ / sarvairapi vādibhiraṅgīkṛtatvāt / nahi ko 'pi vādī padārthānāṃ kālato rūpataścāvasthāvaicitryamanaṅgīkurvāṇo 'sti / yaṃ pratyanekāntavādāvatāraḥ saṅgaccheta / kevalaṃ kṣaṇabhaṅgo vātyantasatkāryavādo vāvasthāvatoratyantabhedo vāpākaraṇīyaḥ / ataḥ anekāntavādamavatārayatā kṣapaṇakena sadā rūpābhedenaiva ca sarvaprakāra(ka)tvamityeva vaktavyam / tathāca na vyāghātanistāra iti / *8,370* aśeṣamāviruddhaṃ sadā sarvaprakāratvaṃ vadato dṛṣṭahāniḥ syāt / nirmāna ca sadā sarvaprakāraṃ vadato amagraho aprāmāṇikasvīkāraḥ syāt / vyāhataṃ sadā sarvaprakāraṃ vadataḥ svavyāhatatvaṃ syāditi yojanā / dṛṣṭahānādyanuṣaṅgidoṣāntarasaṅgrahārthamityādyā ityuktam / hiśabdaḥ sarvatra prasaṅgahetusūcanārthaḥ / ayamarthaḥ / yadi pramāṇaviruddhamapi sarvaprakāratvaṃ viśvasya svīkriyate tadā dahanaśaityaṃ vā gavālambhanāderdharmasādhanatvādikaṃ vā(cā)'ṅgīkāryaṃ syāt / pramāṇavirodhena pratipakṣanirākaraṇaṃ ca na syāt / kintu pratyabhijñādiviruddhamapi kṣaṇikatvādikamaṅgīkartavyaṃ syāt / aviśeṣāt / yadi cāprāmāṇikamapi sarvaprakāratvamurarīkriyate tadā kharaviṣāṇādikaṃ vā gomāṃsādibhakṣaṇasya dharmasādhanatvaṃ corarīkaraṇīyaṃ syāt / pramāṇābhāvena paramatanirāso 'pi na kāryaḥ syāt / tada(pya)bhyupagamanīyameva bhavedaviśeṣāt / tathāca dūṣyopādeyahīnasya śāstranirmāṇamapi na syāt / yadi ca vyāhatamapi sarvaprakāratvamaṅgīkuryāt tadā māturapi vandhyatvaṃ, jinopadeśasya pramāṇatayābhyupagatasyāpyaprāmāṇyaṃ, baddhasyāpi muktatvaṃ, muktasyāpi baddhatvaṃ, siddhasyāpi rāgitvaṃ, śvapacasyāpi siddhatvamityādisarvamapyaṅgī(kuryāt)kāryaṃ syāt / anyathānekāntabhaṅgaprasaṅgāt / evaṃca na śāstrapraṇayanaprayāsaḥ kāryaḥ / mattonmattādibhirevāsya kṛtatvāditi / *8,371* evaṃ viśvasya kṣapaṇakoktaṃ sarvaprakāratvaṃ nirākṛtya taduktamarthāntaramapi nirākartumanuvadati vaktīti // vakti svaprabhamātmānaṃ dehamānaṃ ...

Sanskrit only: no published translation is held for this verse.

स्थितिः व्याप्तिः । तन्मत जैनदर्शने । अङ्गीकृतेति शेषः । ततो ऽपि किमित्यत आह तदिति ॥ ॥। तदनित्यत्वं ॥। यत एवं व्याप्तिर्यतश्चान्यथाभावित्वमङ्गीकृतं तत् तस्मादात्मनो ऽनित्यत्वमापततीति शेषः । अत्र दृष्टान्तः पुद्गलेति ॥ ॥। पुद्गलस्यानिवारितम्

sthitiḥ vyāptiḥ / tanmata jainadarśane / aṅgīkṛteti śeṣaḥ / tato 'pi kimityata āha taditi // ... tadanityatvaṃ ... yata evaṃ vyāptiryataścānyathābhāvitvamaṅgīkṛtaṃ tat tasmādātmano 'nityatvamāpatatīti śeṣaḥ / atra dṛṣṭāntaḥ pudgaleti // ... pudgalasyānivāritam

Sanskrit only: no published translation is held for this verse.

यथाऽहुः । "पुद्गलो निरययं गिरन्ऽ; इति । नन्ववस्थापर्यायरूपेणा(प्या)त्मनो ऽप्यनित्यत्वमङ्गीक्रियत एव । तत्कथमनित्यत्वापादनमित्यतो वा पुद्गलस्य देहस्येवेत्युक्तम् । यथा देहस्य देहाकारनामपरित्यागेन भस्मीभावलक्षणानित्यत्वं तथाविधमातम्नो ऽप्यापाद्यत इति । ननु अन्यथाभावस्यैवं विधानित्यत्वेन व्याप्तिर्नास्ति परमाण्वादौ व्यभिचारात् । तत्कथमापादनम् । मैवम् । परिमाणव्यत्ययलक्षणस्यान्यथाभावस्यैवंविधानित्यत्वव्याप्तत्वेन देहादौ दृष्टतया तद्वतो ऽप्यात्मनस्तथाविधानित्यत्वस्य निवारयितुमशक्यत्वात् । तदिदमुक्तम् अनिवारितमिति ॥ *८,३७८* नन्वस्मन्मतवद्भवन्मते ऽप्यात्मनो ऽन्यथाभावो ऽस्त्येव सुखदुःखाभ्यामुच्चनीचत्वाभ्युपगमात् । अन्यथाभाविनश्च देहादेरनित्यतोपलब्धा । तस्माद्भवन्मते ऽप्यात्मनो ऽनित्यता दुर्वारेत्यत आह नेति ॥ नानित्यतास्मत्पक्षे तु चैतन्यादेर्विशेषिणः । लक्षणस्य निवृत्तौ तु स्यान्न तच्चेतने क्वचित्

yathā'huḥ / "pudgalo nirayayaṃ giran'; iti / nanvavasthāparyāyarūpeṇā(pyā)tmano 'pyanityatvamaṅgīkriyata eva / tatkathamanityatvāpādanamityato vā pudgalasya dehasyevetyuktam / yathā dehasya dehākāranāmaparityāgena bhasmībhāvalakṣaṇānityatvaṃ tathāvidhamātamno 'pyāpādyata iti / nanu anyathābhāvasyaivaṃ vidhānityatvena vyāptirnāsti paramāṇvādau vyabhicārāt / tatkathamāpādanam / maivam / parimāṇavyatyayalakṣaṇasyānyathābhāvasyaivaṃvidhānityatvavyāptatvena dehādau dṛṣṭatayā tadvato 'pyātmanastathāvidhānityatvasya nivārayitumaśakyatvāt / tadidamuktam anivāritamiti // *8,378* nanvasmanmatavadbhavanmate 'pyātmano 'nyathābhāvo 'styeva sukhaduḥkhābhyāmuccanīcatvābhyupagamāt / anyathābhāvinaśca dehāderanityatopalabdhā / tasmādbhavanmate 'pyātmano 'nityatā durvāretyata āha neti // nānityatāsmatpakṣe tu caitanyāderviśeṣiṇaḥ / lakṣaṇasya nivṛttau tu syānna taccetane kvacit

Sanskrit only: no published translation is held for this verse.

अन्यथाभाववतो ऽप्यात्मनः प्रसज्यत इति शेषः । तत्कथमित्यत आह चैतन्यादेरिति ॥ अस्मन्मत इति वर्तते । अनित्यतेति च । तुशब्दो ऽवधारणे । अस्मन्मते चैतन्यादेर्लक्षणस्य निवृत्तावेव विशेषिणो लक्षणवतो ऽर्थस्यानित्यता स्यात् । नतु जैनानामिवान्यथाभावमात्रेण । एतदुक्तं भवति । यस्य वस्तुनो यल्लक्षणं तन्निवृत्तिरूपो ऽन्यथाभाव एव तदनित्यतानिबन्धनं नान्यथाभावमात्रमिति । एवं तर्हि शब्दादिलक्षणाभावाद्गगनादीनां महाप्रलये विनाशः स्यात् । चेष्याश्रयत्वाभावाच्छरीरस्य सुप्त्यादौ विलयो भवेदित्यत उक्तम् विशेषिणो लक्षणस्येति ॥ विशेषवतो लक्षणस्य न तु लक्षणमात्रस्येत्यर्थः । *८,३७९* किमतो यद्येवमित्यत आह नेति ॥ तदिति सामान्येन वाक्यार्थं परामृशति । अनित्यत्वकारणत्वेनोक्तं विशेषिणो लक्षणस्य निवर्तनं चेतने क्वचिदपि न स्यात् । अतस्तस्यानित्यतापि न स्यात् । यद्वा तदिति लक्षणपरामशर्ः । चेतने वर्तमानं क्वचिन्न निवर्तत इति शेषः । *८,३८०* विशेषिणो लक्षणस्य निवृत्तौ लक्षस्यानित्यता स्यादित्युक्तम् । तद्विशदयति ओतेति ॥ ओतप्रोतात्मकत्वं तु पटे देहे ऽङ्गसंस्थितिः । इत्यादिलक्षणस्यैव निवृत्तौ स्यादनित्यता

anyathābhāvavato 'pyātmanaḥ prasajyata iti śeṣaḥ / tatkathamityata āha caitanyāderiti // asmanmata iti vartate / anityateti ca / tuśabdo 'vadhāraṇe / asmanmate caitanyāderlakṣaṇasya nivṛttāveva viśeṣiṇo lakṣaṇavato 'rthasyānityatā syāt / natu jainānāmivānyathābhāvamātreṇa / etaduktaṃ bhavati / yasya vastuno yallakṣaṇaṃ tannivṛttirūpo 'nyathābhāva eva tadanityatānibandhanaṃ nānyathābhāvamātramiti / evaṃ tarhi śabdādilakṣaṇābhāvādgaganādīnāṃ mahāpralaye vināśaḥ syāt / ceṣyāśrayatvābhāvāccharīrasya suptyādau vilayo bhavedityata uktam viśeṣiṇo lakṣaṇasyeti // viśeṣavato lakṣaṇasya na tu lakṣaṇamātrasyetyarthaḥ / *8,379* kimato yadyevamityata āha neti // taditi sāmānyena vākyārthaṃ parāmṛśati / anityatvakāraṇatvenoktaṃ viśeṣiṇo lakṣaṇasya nivartanaṃ cetane kvacidapi na syāt / atastasyānityatāpi na syāt / yadvā taditi lakṣaṇaparāmaśarḥ / cetane vartamānaṃ kvacinna nivartata iti śeṣaḥ / *8,380* viśeṣiṇo lakṣaṇasya nivṛttau lakṣasyānityatā syādityuktam / tadviśadayati oteti // otaprotātmakatvaṃ tu paṭe dehe 'ṅgasaṃsthitiḥ / ityādilakṣaṇasyaiva nivṛttau syādanityatā

Sanskrit only: no published translation is held for this verse.

ओतप्रोतात्मकत्वं नाम तन्तूनां संयोगविशेषः पटे लक्षणमिति शेषः । अङ्गसंस्थितिः करचरणाद्यङ्गानां सन्निवेशविशेषः । आदिशब्दः प्रकारवचनः । अनित्यता लक्ष्यस्येति शेषः । यावल्लक्ष्यभाविनां लक्षणानां निवृत्तिरेव लक्ष्यानित्यत्वनिमित्तम् । तादृशं चात्मनश्चैतन्यम् । तच्च कदापि न निवर्तते इति कथं तस्य विनाशप्रसङ्ग इति । यदुक्तमात्मा स्वप्रभ इति तदप्यसत् । स्वप्रभावतः प्रदीपादेरिव रूपस्पर्शापत्तेः । रूपादिमत्वाच्च विनाशित्वापत्तेः । यद्रूपादिमत्तदनित्यत्वमिति परेणैव व्याप्तेरङ्गीकृतत्वात् इति । *८,३८१* ननु सिद्धान्ते ऽप्यात्मनो रूपादिमत्त्वमङ्गीक्रियत एव । रूपादिमतो ऽनित्यत्वमिति व्याप्तिश्च । "रूपादिमत्त्वाच्च विपर्ययो दर्शनात्ऽ; इत्युक्तत्वात् । तत्कथमनित्यत्वपरिहार इत्यत आह भौतिकं त्विति ॥ भौतिकं त्वेव रूपादि व्याप्तं नाशेन नो मते तुशब्दो विशेषार्थः । स एव भौतिकमिति विवृतः । न रूपादिमात्रमित्येवार्थः । नच भौतिकं रूपादिकमात्मन्यस्ति । तस्मान्नानित्यताप्रसङ्ग इति भावः । यथा भवद्भिरन्यथाभावो विशेष्यते । यावल्लक्ष्यभावि(विशेष)लक्षणव्यावृत्तिरूपो ऽन्यथाभावो ऽनित्यत्वव्याप्त इति । रूपादिमत्त्वं च भौतिकत्वेन । तथास्मन्मते ऽपि विशेषणप्रक्षेपे नोक्तदोष इत्यत आह नैवमिति ॥ नैवं तस्य ॥। तस्य क्षपणकस्य मते नैवमन्यथाभावो रूपादिमत्त्वं च विशेष्यते । किन्तु सामान्यमेवानित्यत्वव्याप्ततयाङ्गीक्रियते ततो नोक्तदोषपरिहार इत्यर्थः । तत्कथमित्यत आह अन्यथेति ॥ ॥। अन्यथाभावो यस्यानित्यत्वमीरितम्

otaprotātmakatvaṃ nāma tantūnāṃ saṃyogaviśeṣaḥ paṭe lakṣaṇamiti śeṣaḥ / aṅgasaṃsthitiḥ karacaraṇādyaṅgānāṃ sanniveśaviśeṣaḥ / ādiśabdaḥ prakāravacanaḥ / anityatā lakṣyasyeti śeṣaḥ / yāvallakṣyabhāvināṃ lakṣaṇānāṃ nivṛttireva lakṣyānityatvanimittam / tādṛśaṃ cātmanaścaitanyam / tacca kadāpi na nivartate iti kathaṃ tasya vināśaprasaṅga iti / yaduktamātmā svaprabha iti tadapyasat / svaprabhāvataḥ pradīpāderiva rūpasparśāpatteḥ / rūpādimatvācca vināśitvāpatteḥ / yadrūpādimattadanityatvamiti pareṇaiva vyāpteraṅgīkṛtatvāt iti / *8,381* nanu siddhānte 'pyātmano rūpādimattvamaṅgīkriyata eva / rūpādimato 'nityatvamiti vyāptiśca / "rūpādimattvācca viparyayo darśanāt'; ityuktatvāt / tatkathamanityatvaparihāra ityata āha bhautikaṃ tviti // bhautikaṃ tveva rūpādi vyāptaṃ nāśena no mate tuśabdo viśeṣārthaḥ / sa eva bhautikamiti vivṛtaḥ / na rūpādimātramityevārthaḥ / naca bhautikaṃ rūpādikamātmanyasti / tasmānnānityatāprasaṅga iti bhāvaḥ / yathā bhavadbhiranyathābhāvo viśeṣyate / yāvallakṣyabhāvi(viśeṣa)lakṣaṇavyāvṛttirūpo 'nyathābhāvo 'nityatvavyāpta iti / rūpādimattvaṃ ca bhautikatvena / tathāsmanmate 'pi viśeṣaṇaprakṣepe noktadoṣa ityata āha naivamiti // naivaṃ tasya ... tasya kṣapaṇakasya mate naivamanyathābhāvo rūpādimattvaṃ ca viśeṣyate / kintu sāmānyamevānityatvavyāptatayāṅgīkriyate tato noktadoṣaparihāra ityarthaḥ / tatkathamityata āha anyatheti // ... anyathābhāvo yasyānityatvamīritam

Sanskrit only: no published translation is held for this verse.